शब्दकल्पद्रुमः/केरली

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/१९५

केरली, स्त्री, (केरल + गौरादित्वात् ङीष् ।)

ज्योतिर्ग्रन्थविशेषः । होरा । इति शब्दरत्नावली ॥
(केरलज्योतिर्विद्यायां सङ्केतविशेषो दिङ्मात्रं प्रद-
र्श्यते गर्गसंहितायां यथा, --
“वर्गवर्णप्रमाणञ्च सस्वरं ताडितं मिथः ।
पिण्डसङ्ख्या भवेत्तस्य यथाभागैस्तु कल्पना” ॥
अस्यार्थः अ क च ट त प य शा इत्यष्टौ
वर्गा एतैरेव प्रश्नादयो यथायथं साङ्केतिकक्रम-
मालम्ब्य निरूप्यन्ते ॥ केरलदेशोद्भवा स्त्री । यथा,
राजेन्द्रकर्णपूरे । ६ ।
“चौडी चूडाभरणहरणः कीर्णकर्णावतंसः
कर्णाटीनां मुषितमूरली केरलीहारलीलः” ॥)

केल, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-गत्यर्थे सकं-सेट्-ऋदित् ।) ऋ, अचि-
केलत् । चालः कम्पः । चालः कैश्चिन्न मन्यते ।
इति दुर्गादासः ॥

केलकः, पुं, (केल् + कर्त्तरि ण्वुल् ।) खङ्गधारादि-

नर्त्तकः । तत्पर्य्यायः । प्लवकः २ । इति त्रिकाण्ड-
शेषः ॥

केलिः, पुं स्त्री, (केल् + इन् ।) परीहासः । तत्पर्य्यायः ।

द्रवः २ क्रीडा ३ लीला ४ नर्म्म ५ । इत्यमरः ।
१ । ७ । ३२ ॥ (नायिकालङ्कारविशेषः । यथा,
एतल्लक्षणं साहित्यदर्पणे । ३ । १२२ ।
“विहारे सह कान्तेन क्रीडितं केलिरुच्यते” ॥
यथा, भ्रमराष्टके । ४ ।
“मालत्याः कुसुमेषु येन सततं केलिः कृता हेलया” ॥)

केलिः, स्त्री, (केलति सदा गच्छतीति । “सर्व्वधा-

तुभ्य इन्” । इति इन् ।) पृथिवी । इति शब्द-
माला ॥

केलिकः, पुं, (केलिर्विलासः प्रयोजनमस्य इति ठन् ।)

अशोकवृक्षः । इति राजनिर्घण्टः ॥
(विवृतिरस्याशोकशब्दे ज्ञेया ॥)

केलिकला, स्त्री, (केलिरूपा कला । शाकपार्थि-

वादिवत् मध्यपदलोपिसमासः ।) सरस्वतीवीणा ।
इति शब्दरत्नावली ॥ (केलिः क्रीडा तस्याः कला
अंशविशेषः । यथा, भ्रमराष्टके । ७ ।
“अलिरसौ नलिनीवनवल्लभः
कुमुदिनीकुलकेलिकलारसः” ॥)

केलिकिलः, पुं, (केलिना लीलया किलतीति । किल

क्रीडायां + कः ।) कुष्माण्डकः । स तु शिवस्यानु-
चरः । नाट्ये नायकवयस्यः । तत्पर्य्यायः । विदूषकः २
वासन्तिकः ३ वैहासिकः ४ प्रहासी ५ प्रीतिदः ६ ।
इति हेमचन्द्रः ॥ (केलिना परीहासेन किल-
तीति विग्रहे वाच्यलिङ्गः । यथा, हरिवंशे ।
“स तु केलिकिलो विप्रो भेदशीलश्च नारदः” ॥)

केलिकिला, स्त्री, (केलिना विहारेण किलतीति

किल् + कः । ततः टाप् ।) रतिः । सा तु काम-
देवपत्नी । इति त्रिकाण्डशेषः ॥

केलिकीर्णः, पुं, (केलितिमित्तकैः पांशुभिः कीर्णः ।)

उष्ट्रः । इति हेमचन्द्रः ॥

केलिकुञ्चिका, स्त्री, (केलीनां कुञ्चिका इव । श्या-

लिका । इति त्रिकाण्डशेषः । शाली इति भाषा ॥

केलिकोषः, पुं, (केलीनां रहस्यानां क्रीडापरीहासा-

दीनां वा कोष आधार इव ।) नटः । इति शब्द-
रत्नावली ॥

केलिनागरः, पुं, (केलिनिपुणः प्रधानको वा नागरः ।)

सम्भोगवान् । इति जटाधरः ॥

केलिमुखः, पुं, (केलिः मुखं प्रधानमत्र ।) परीहा-

सः । इति त्रिकाण्डशेषः ॥

केलिवृक्षः, पुं, (केलिनिमित्तको वृक्षः ।) कदम्ब-

विशेषः । इति शब्दरत्नावली ॥ केलिकदम्ब इति
ख्यातः ॥

केलिसचिवः, पुं, (केलौ क्रीडाविषये सचिवः

सहायः ।) नर्म्मदः । क्रीडाविषयकमन्त्री । इति
शब्दमाला ॥

केव, ऋ ङ सेवने । इति कविकल्पद्रुमः ॥ (भ्वां--आत्मं--

सकं--सेट्--ऋदित् ।) ङ, केवते । ऋ, अचिकेवत् ।
इति दुर्गादासः ॥

केवर्त्तः, पुं, (के जले वर्त्तते । वृत् + अच् । अलुक्

समासः ।) कैवर्त्तजातिः । इति द्विरूपकोषः ॥
(एषोऽन्त्यजशूद्रः । यथा, ब्रह्मवैवर्त्तपुराणे ।
“रजकश्चर्म्मकारश्च नटी वरुड एव च ।
केवर्त्तो मेदभिल्लश्च षडेते अन्त्यजाः स्मृताः” ॥)

केवलं, क्ली, (केवृ ङ सेवने + वृषादित्वात् कलच् ।

यद्वा, के शिरसि मूर्द्ध्वावच्छेदे वलयति । वल् +
अच् । अलुक् समासः ।) निर्णीतम् । इत्यमरमेदि-
नीकरौ ॥ ज्ञानभेदः । इति विश्वो हेमचन्द्रश्च ॥
(साङ्ख्यकारिकायां यथा, -- “अविपर्य्ययात् वि-
शुद्धं केवलमुत्पद्यते ज्ञानम्” ॥)
शुद्धम् । (यथा, रघौ २ । ६३ ।
“न केवलानां पयसां प्रसूति-
मवेहि मां कामदुघां प्रसन्नाम्” ॥)
कृत्स्नम् । (यथा, रघुवंशे १० । २९ ।
“केवलं स्मरणेनैव पुनासि पुरुषं यतः ।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि” ॥)
असहायः । इति संक्षिप्तसारे उणादिवृत्तिः ॥
(अद्वितीयः । यथा, कुमारे ५ । ८३ ।
“न केवलं यो महतोऽपभाषते
शृणोति तस्मादपि यः स पापभाक्” ॥)

केवलः, पुं, कुहनः । इति मेदिनी । (कुम्भकविशेषः ।

यथा, हटयोगदीपिकायाम् । २ । ७१ ।
“प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सहितः केवलश्चेति कुम्भको द्विविधो मतः” ॥)

केवलः, त्रि, एकः । (यथा, रघुवंशे । ११ । १९ ।

“वाणभिन्नहृदया निपेतुषी
सा स्वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां
रावणश्रियमपि व्यकम्पयत्” ॥)
कृत्स्नः । इत्यमरमेदिनीकरौ । (यथा, रघुः । १० । २९ ।
“केवलं स्मरणेनैव पुनासि पुरुषं यतः ।
अनेन वृत्तयः शेषा निवेदितफलास्त्वयि” ॥)

केवलज्ञानी, [न्] पुं, (केवलं शुद्धं ज्ञानं अस्यास्तीति ।

इनिः ।) सूतार्हद्विशेषः । इति हेमचन्द्रः ॥

केवलद्रव्यं, क्ली, (केवलं द्रव्यम् ।) मरिचम् । इति शब्द-

चन्द्रिका ॥

केवली, स्त्री, (केवल + ङीष् ।) ज्ञानभेदः । इति

मेदिनी । ग्रन्थविशेषः । इति हेमचन्द्रः ॥

केवली, [न्] पुं, (केवलं शुद्धं ज्ञानमस्यास्तीति ।

इनिः ।) जैनविशेषः । इति हलायुधः ॥

केविका, स्त्री, (केव गतिचालनयोः + ण्वुल् + टाप्

अत इत्वम् ।) पुष्पविशेषः । केवेर इति भाषा
कोकणे प्रसिद्धा । तत्पर्य्यायः । कविका २ केवी
३ भृङ्गारिः ४ नृपवल्लभा ५ भृङ्गमारी ६ महा-
गन्धा ७ राजकन्या ८ अलिवाहिनी ९ । अस्या
गुणाः । मधुरत्वम् । शीतत्वम् । दाहपित्तश्रम-
वातश्लेष्मरोगपित्तच्छर्द्दिविनाशित्वञ्च । इति राज-
निर्घण्टः ॥

केशः, पुं, (के मस्तके शेते । शी + अच् । अलुक्-

समासः ।) मज्जजातोपधातुविशेषः । चुल् इति
भाषा । स तु गर्भस्थबालकस्य अष्टाभिर्मासै-
र्जायते । इति सुखबोधः । (केशादयस्तु पितृतो
जायन्ते । यथा, सुश्रुते शारीरस्थाने तृतीये-
ऽध्याये । “गर्भस्य केशश्मश्रुलोमास्थिनखदन्त-
सिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृ-
जानि” ॥ भावप्रकाशे च ।
“केशाः श्मश्रु च लोमानि नखा दन्ताः सिरास्तथा ।
धमन्यः स्नायवः शुक्रमेतानि पितृजानि हि” ॥)
तत्पर्य्यायः । चिकुरः २ कुन्तलः ३ वालः ४ कचः
५ शिरोरुहः ६ । इत्यमरः । २ । ६ । ९५ ॥ शिर-
सिजः ७ मूर्द्धजः ८ अस्रः ९ वृजिनः १० । इति
जटाधरः ॥ (रोगविशेषेणास्योत्पाटनानन्तरमुद्भ-
वोपायाश्च । यथा, --
“वटावरोहकेशिन्योश्चूर्णेनादित्यपाचितम् ।
गुडूचीस्वरसेतैलमभ्यङ्गात्केशरोहणम्” ॥
इति आदित्यपाकगुडचीतैलम् ॥ * ॥
“मधुकेन्दीवरमूर्व्वा तिलाज्यगोक्षीरभृङ्गलेपेन ।
अचिराद्भवन्ति घनकेशा दृढमूलायतानृजवः” ॥
“चन्दनं मधुकं मूर्व्वा त्रिफला नीलमुत्पलम् ।
कान्तावटप्ररोहश्च गुडचीविषमेव च ॥
लौहचूर्णं तथाकेशी शारिवे द्वे तथैव च ।
मार्क्कवस्वरसेनैव तैलं मृद्वग्निना पचेत् ॥
शिरस्युत्पतिताः केशा जायन्ते घनकुञ्चिताः ।
दृढमूलाश्च स्निग्धाश्च तथा भ्रमरसन्निभाः ॥
नस्येनाकालपलितं निहन्यात्तैलमुत्तमम्” ॥
इति चन्दनाद्यं तैलम् ॥ * ॥
“तैलं सयष्टीमधुकैः क्षीरे धात्रीफलैः शृतम् ।
नस्ये दत्तं जनयति केशान् श्मश्रूणि चाप्यथ” ॥
पक्कावस्थापन्नस्यास्य कृष्णीकरणोपाया यथा, --
“त्रिफलाचूर्णसंयुक्तं लौहचूर्णं विनिक्षिपेत् ।
ईषत्पक्वे नारिकेले भृङ्गराजरसान्विते ॥
मासमेकन्तु निःक्षिप्य सम्यग्गर्मात् समुद्धरेत्
ततः शिरो मुण्डयित्वा लेपं दद्याद्भिषग्वरः ॥
सम्बेष्ट्य कदलीपत्रै-र्मोचयेत्सप्तमे दिने ।
क्षालयेत्त्रिफलाक्वाथैः क्षीरमांसवसाशिनः ॥
कपालरञ्जनञ्चैव कृष्णीकरणमुत्तमम्” ॥
“उत्पलं पयसा सार्द्धं मासं भूमौ निधापयेत् ।
केशानां कृष्णकरणं स्नेहनञ्च विधीयते” ॥
पृष्ठ २/१९६
इति वैद्यकचक्रपाणिसंग्रहे क्षुद्ररोगाधिकारे ॥)
तत्समूहार्थवाचकाः शब्दाः यथा, --
“वालाः स्युस्तत्पराः पाशो रचनाभार उच्चयः ।
हस्तः पक्षः कलापश्च केशभूयस्त्ववाचकाः” ॥
इति हेमचन्द्रः ॥ * ॥ (कस्य जलस्य ईशः ।)
वरुणः । ह्रीवेरम् । इति मेदिनी ॥ (अस्य
पर्य्याया यथा, --
“वालं ह्रीवेरवर्हिष्ठोदीच्यं केशोऽम्बुनाम च” ॥
इति वैद्यकरत्नमालायाम् ॥) दैत्यविशेषः । इति
हेमचन्द्रः ॥ (कस्य ब्रह्मणोऽपि ईशः । के जले शेते
वा ।) विष्णुः । इति शब्दरत्नावली । (काशते प्रका-
शते लोके लोकं काशयति वा । काश + अच्
पृषोदरात् एत्वे साधुः । सूर्य्याग्निप्रभृतिरश्मिः ।
“ब्रह्म-विष्णु-रुद्र-संज्ञाः शक्तयः केशसंज्ञिताः” ॥
इति भागवतोक्तेः परब्रह्मशक्तिः । ब्रह्मा ।
“केशो योनौ तथा भावे हावलावण्ययोरपि ।
लम्पटे पुरुषे चैव प्रमदायां विशेषतः” ॥
“प्रजापतौ कचे चैव केशशब्दः प्रकीर्त्त्यते” ॥
इति महाभारतटीकाकृन्नीलकण्ठः ॥)

केशकलापः, पुं, (केशानां कलापः समूहः ।) केश-

पाशः । केशसमूहः । इति हेमचन्द्रः ॥

केशकारः, पुं, (केशं केशवत् केशाकृतिं वा करोति

आत्मानं केशाकारेण वर्द्धयति इति भावः । केश
+ कृ + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।)
इक्षुभेदः । करिया कुशियार इति हिन्दी भाषा ।
अस्य गुणाः । गुरुत्वम् । शीतत्वम् । रक्तपित्त-
क्षयापहत्वञ्च । इति भावप्रकाशः ॥

केशगर्भकः, पुं, (केशो गर्भे अभ्यन्तरेऽस्य । कप् ।)

कवरी । इति त्रिकाण्डशेषः ॥

केशघ्नं, क्ली, (केशं हन्ति नाशयतीति । हन् +

टक् ।) इन्द्रलुप्तकम् । इति हेमचन्द्रः ॥

केशच्छित्, [द्] पुं, केशं छिनत्ति । छिद् + क्विप् ।)

नापितः । इति शब्दमाला ॥

केशटः, पुं, (को ब्रह्मा ईशः महादेवः तौ अटतः

गच्छतः प्रलये यं । महाप्रलये मूर्त्त्यविशेषात् तथा-
त्वम् । यद्वा ब्रह्मशिवाभ्यां अटति गच्छति यः सः ।
त्रयाणामेकात्मत्वात् ।) विष्णुः । (केशेषु काशादि-
तृणजातेषु अटति चरतीति । अट् + अच् ।
शकन्ध्वादित्वात् साधुः ।) छागः । (केशेषु मूर्द्धजेषु
अटतीति । अट् + अच् शकन्ध्वादित्वात् अलोपे
माधुः ।) ओकणः । इति मेदिनी । भ्राता । इति
शब्दरत्नावली ॥ (केशेषु कामार्त्तपुरुषनारीषु
अटति । अट् + अच् ।) कामदेवस्य शोषणवाणः ।
इति विश्वः । (केश इव प्रतिमासु नटनट्यादिषु
च अटति त्वगात्मनेति यावत् ।) शोणकवृक्षः ।
इति त्रिकाण्डशेषः ॥

केशधृत्, पुं, (केशमिव धरति । धृ + क्विप् ।) भूत-

केशनामकतृणभेदः । इति शब्दचन्द्रिका ॥

केशनाम, [न्] क्ली, (केशनाम्नैव नाम यस्य ।) वालम् ।

इत्यमरः ॥ वाला इति भाषा ॥

केशपक्षः, पुं, (केशानां पक्षःसमूहः । बाहुलकात्

पक्षादेशोवा ।) कशपाशः इत्यमरः । २ । ६ । ९८ ॥
(यथा, महाभारते । ४ । ३६ । ४१ ।
“उत्तरन्तु प्रधावन्तमनुद्रुत्य धनञ्जयः ।
गत्वा शतपद तूर्णं केशपक्षे परामृशत्” ॥)

केशपर्णी, स्त्री, (केश इव पर्णान्यस्य । जातित्वात्

ङीष् ।) अपामार्गः । इति शब्दरत्नावली ॥

केशपाशः, पुं, (केशानां पाशः समूहः ।) केशसमूहः ।

यथा, --
“पाशः पक्षश्च हस्तश्च कलापार्थाः कचात् परे” ॥
इत्यमरः । २ । ६ । ९८ ॥ (यथा, कुमारे । १ । ४८ ।
“तं केशपाशं प्रसमीक्ष्य कुर्य्यु-
र्वालप्रियत्त्वं शिथिलं चमर्य्यः” ॥)

केशपाशी, स्त्री, (केशपाश + स्वाङ्गात् ङीप् ।) शिरो

मध्यस्थशिखा । चूडा । इत्यमरः । २ । ६ । ९७ ॥

केशभूः, पुं, (केशानां भूरुत्पत्तिस्थानम् ।) शिरः ।

इति राजनिर्घण्टः ॥

केशमथनी, स्त्री, (केशा मथ्यन्तेऽनया । मन्थ

विलोडने + करणे ल्युट् ततो ङीप् । अस्याः
कण्टकैः समीपं गन्तुः केशोत्पाटनात् तथात्वम् ।)
शमीवृक्षः । इति राजनिर्घण्टः ॥

केशमार्जकं, क्ली, (केशं मार्ष्टि । मृज् शोधने +

कर्त्तरि ण्वुल् ।) कङ्कतिका । इति जटाधरः ।
चिरुणी इति भाषा ॥

केशमार्जनं, क्ली, (केशो मृज्यतेऽनेन । मृज् + करणे

ल्युट् वृद्धिश्च ।) कङ्कतिका । इति हेमचन्द्रः ।
केशशुद्धिश्च । (भावे ल्युट् । केशशोधनक्रियामा-
त्रम् ॥)

केशमुष्टिः, पुं, (केशानां मुष्टिरिव ।) विषमुष्टि-

वृक्षः । महानिम्बः । इति राजनिर्घण्टः ॥

केशरः, पुं क्ली, (के जले पद्मशिरसि वा । सर-

तीति । सृ + अच् । पृषोदरात् शत्वम् । यद्वा
केश इव केशाकारः अस्यास्तीति । केश + रः ।)
किञ्जल्कः । इत्यमरः । १ । १० । ४३ ॥

केशरः, पुं, (केश इव केशाकृतिपदार्थः अस्यास्तीति

मत्वर्थीयो रः ।) नागकेशरवृक्षः ।
(यथा, -- गीतगोविन्दे । १ । ३१ । “मदनमहीप-
तिकनकदण्डरुचिकेशरकुसुमविकाशे” ॥ वकुल-
वृक्षः । (यथा, कुमारे । ३ । ५५ ।
“स्रस्तां नितम्बादवलम्बमाना
पुनः पुनः केशरदामकाञ्चीम्” ॥)
पुन्नागवृक्षः । (यथा, महाभारते । १ । १२५ । ३ ।
“पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ।
कर्णिकारैरशोकैश्च केशरैरतिमुक्तकैः” ॥)
सिंहजटा । इति मेदिनी ॥ (यथा, कादम्बर्य्याम्
“मृगपतिरिव स्कन्धावलम्बितकेशरमालः” ॥)
हिङ्गुवृक्षः । इत्यमरटीकायां भरतः ॥ नीपः ।
केलिकदम्ब इति भाषा । यथा, मेघदूते । २२ ।
“नीपं दृष्ट्वा हरितकपिशं केशरैरर्द्धरूढैः” ॥)

केशरञ्जनः, पुं, (केशान् रञ्जयति । रन्ञ्ज + णिच् +

ल्युः ।) भृङ्गराजवृक्षः । इति राजनिर्घण्टः । भीम-
राज इति भाषा ॥

केशराजः, पुं, (केशो राजतेऽनेन् । राज + करणे

घञ् ।) शाकभेदः । केशुरे इति भाषा । तत्प-
र्य्यायः । भृङ्गराजः २ भृङ्गः ३ पतङ्गः ४ मा-
र्करः ५ । इति रत्नमाला ॥ मार्कवः ६ । इत्य-
मरः ॥ नागमारः ७ पवरुः ८ भृङ्गसोदरः ९ ।
इति त्रिकाण्डशेषः ॥ केशरञ्जनः १० केश्यः ११ ।
कुन्तलवर्द्धनः १२ । इति वैद्यकम् ॥ अङ्गारकः १३
एकरजः १४ करञ्जकः १५ भृङ्गरजः १६ भृङ्गारः
१७ । इति जटाधरः ॥ अजागरः १८ भृङ्गरजाः
१९ मकरः २० । इति शब्दरत्नाघली ॥ अपि च ।
“भृङ्गराजो भृङ्गरजो मार्कवो भृङ्ग एव च ।
भृङ्गारकः केशराजो भृङ्गारः केशरञ्जनः ॥
भृङ्गराजः कटुस्तिक्तो रूक्षोष्णः कफवातनुत् ।
केश्यस्त्वच्यः कृमिश्वासकासशोथामयापहृत् ॥
दन्त्यो रसायनो बल्यः कुष्ठनेत्रशिरोऽर्त्तिजित्” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । अग्निकारित्वम् ।
केशचक्षुर्हितत्वम् । पाण्डुकफापहत्वम् । रसा-
यनत्वञ्च । इति राजवल्लभः ॥

केशराम्लः, पुं, (केशरे तदवच्छेदे अम्लरसो यस्य ।)

मातुलुङ्गकवृक्षः । इति जटाधरः

केशरी, [न्] पुं, (केशराः सन्त्यस्य इति इनिः ।) सिंहः ।

इत्यमरः । २ । ५ । १ ॥ (यथा, रघुवंशे २ । २९ ।
“स पाटलायां गवि तस्थिवांसं
धनुर्द्धरः केशरिणं ददर्श” ॥)
घोटकः । पुन्नागवृक्षः । नागकेशरवृक्षः । इति
मेदिनी ॥ वीजपूरकवृक्षः । इति जटाधरः ॥

केशरुहा, स्त्री, (केश इव रोहति अत्र । केशरुह +

“इगुपधेति” । ३ । १ । १३५ । इति कः ।) भद्रद
न्तिकावृक्षः । इति राजनिर्घण्टः ॥

केशरूपा, स्त्री, (केशवद्रूपमस्याः ।) वन्दाकवृक्षः । इति

राजनिर्घण्टः । (परगाछा इति भाषा ॥)

केशवः, पुं, (को ब्रह्मा ईशः रुद्रः तौ आत्मनि स्वरूपे

वयति प्रलये उपाधिरूपमूर्त्तित्रयं मुक्त्वा एकमात्र-
परमात्मस्वरूपेणावतिष्ठते इति । यथा, भागवते
२ अध्याये चतुःश्लोक्याम् ।
“अहमेवासमेवाग्रे नान्यद् यत् सदसत् परम् ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ।
ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि
तद्विद्यादात्मनो मायां यथाभासो यथातमः ॥
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु ।
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः ।
अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्व्वत्र सर्व्वदा ॥
एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित्” ॥
तथा, केशं केशिनं वातिं हन्ति । केश + वा + कः ।
यथा, हरिवंशे । ८० । ६६ ।
“यस्मात्त्वया हतः केशी तस्मान्मच्छाशनं शृणु ।
केशवो नाम नाम्ना त्वं ख्यातो लोके भविष्यसि” ॥
यद्वा, के जले शववत् भातीति । प्रलयकाले
क्षीरोदशायितया तथात्वम् । कश्च अश्च ईशश्च
ते केशा ब्रह्मविष्णुरुद्राः नियम्यतया सन्त्यस्य ।
यद्वा, कश्च ईशश्च तौ केशौ पुत्त्रपौत्त्रत्वेन भवतो
ऽस्य । “केशाद्वोऽन्यतरस्याम्” । ५ । २ । १०९ ।
पृष्ठ २/१९७
इति वप्रत्ययः । अथवा वाति गच्छति तद्वत्तया ।
वा + कः । स्वरूपतस्तेषां भेदाभावादपि वासु-
देवे सर्व्वात्मनि परमेश्वरेऽस्य वृत्तिः । अतो
विष्णुसंहितायाम् ।
“नरसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः” ॥
किञ्च ।
“त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः” ॥
पूज्यपादैर्भाष्यकृद्भिरपि केशवशब्दस्य निरुक्ति-
द्वयमवलम्ब्य नामद्वयं समर्थितं तयोराद्ये । अभि-
रूपाः केशा यस्य स केशवः । कश्च अश्च ईशश्च
केशास्त्रिमूर्त्तयस्ते वशे वर्त्तन्ते यस्य सः । केशि-
दानवहननाद्वा केशवः ।
“यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्द्दन !
तस्मात् केशवनाम्ना त्वं लोके ज्ञेयो भविष्यसीति” ॥
भांगवतादिषु । द्वितीये । केशसंज्ञिताः सूर्य्यादि-
संक्रान्ता अंशवः तद्वत्त्वेन केशवो वा ।
“अंशवो ये प्रकाशन्ते मम ते केशसंज्ञिताः ।
सर्व्वज्ञाः केशवं तस्मात् प्राहुर्म्मां द्विजसत्तमाः” ॥
इति महाभारतम् । “त्रयः केशिनः” । इति
श्रुतेश्च ब्रह्मविष्णुशिवाख्या हि शक्तयः केशसंज्ञि-
ताः । “मत्केशा वसुधातले” इति भागवते च ।
यथा, हरिवंशोक्तौ, --
“को ब्रह्मेति समाख्यातः ईशोऽहं सर्व्वदेहिनाम् ।
आवां तवांशसम्भूतौ तस्मात् केशवनामवान्” ॥
तेनास्य बहुधा निरुक्तिः ।) विष्णुः । इत्यमरः ।
१ । १ । १८ ॥ पुन्नागवृक्षः ॥ (केशाः प्रशस्ताः
सन्त्यस्य । “केशाद्वोऽन्यतरस्याम्” । ५ । २ ।
१०९ । इति वः ।) केशवति त्रि । इति मेदिनी ॥
(जलस्थशवदेहः । यथा, विदग्धमुखमुण्डनम् ।
“केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः ।
रुदन्ति पाण्डवाः सर्व्वे हा ! हा ! केशव ! केशव !” ॥
के जले शवं पतितं दृष्ट्वा द्रोणः काकः हर्षं प्राप्त-
वान् पाण्डवाः शृगालाः रुदन्ति चीत्कारं कुर्व्व-
न्तीत्यर्थः ॥)

केशवर्द्धिनी, स्त्री, (केशाः वर्द्ध्यन्तेऽनया । केश +

वृध् + करणे ल्युट् टित्वात् ङीष् ।) सहदेवी-
लता । इति राजनिर्घण्टः ॥

केशवायुधः, (केशवस्य विष्णोरायुधाकारं मुकुला-

द्यस्य ।) आम्रवृक्षः । इति शब्दमाला । (केश-
वस्य विष्णोः आयुधं अस्त्रम् । इति विग्रहे पुं,
विष्णोरस्त्रे, क्ली ॥)

केशवालयः, पुं, (केशवस्य आलयः वासस्थानम् ।)

अश्वत्थवृक्षः । इति त्रिकाण्डशेषः ॥

केशवावासः, पुं, (आवसत्यस्मिन् इति । आ + वस् +

अधिकरणे घञ् ।) केशवस्य आवासः अश्वत्थवृक्षः ।
इति जटाधरः ॥

केशवेशः, पुं, (केशस्य कुन्तलस्य वेशः बन्धनरूप-

वेण्यादिभिर्विन्यास इति यावत् ।) कवरी । इत्य-
मरः ॥ चुलेरखोँपा इति भाषा । (यथा, आश्वला-
यनगृह्ये । १ । १७ । १७ । “कुलधर्म्मं केशवेशान्
कारयेत्” । “एकशिखस्त्रिशिखः पञ्चशिखो वा”
इति बौधायनः । “पर्ब्बशिखः परशिखः” इति
कुलधर्म्माः । “तेषु यो यस्य कुलधर्म्मः तेन तस्य
केशसन्निवेशान् कारयेत्” इति नारायणीवृत्तिः ॥)

केशहन्त्री, स्त्री, (केशस्य हन्त्री नाशिनी । यद्वा

केशान् हन्ति या । केश + हन् + तृच् ततो
ङीष् ।) शमीवृक्षः ॥ इति राजनिर्घण्टः ॥

केशहस्तः, पुं, (केशानां केशस्य वा हस्तः समूहः ।

हस्तादयश्च केशात् समूहार्थे ।) केशसमूहः ।
इत्यमरः ॥

केशाकेशि, क्ली, केशेषु केशेषु गृहीत्वा प्रवृत्तं यद्धम् ।

(“तत्र तेनेदमिति सरूपे” । २ । २ । २७ । इति
कर्म्मव्यतिहारे इच् समासे पूर्ब्बदीर्घः ।) अन्योन्य-
केशग्रहणपूर्ब्बकप्रवृत्तयुद्धम् । इति व्याकरणम् ॥
चुलाचुलि इति भाषा ।
(यथा, महाभारते । ३ । २८३ । ३७ ।
“केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह” ॥)

केशारुहा, स्त्री, (केशा आरोहन्त्यनया । आ + रुह +

करणे घञर्थे कः ।) सहदेवीलता । इति राज-
निर्घण्टः ॥

केशार्हा, स्त्री, (केशं केशवर्णं अर्हति इति । केश +

अर्ह + “कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।)
महानीली । इति राजनिर्घण्टः ॥

केशिकः, त्रि, (प्रशस्तः केशः अस्यास्तीति ठन् ।)

प्रशस्तकेशयुक्तः । इत्यमरः । २ । ६ । ४५ ॥

केशिका, स्त्री, (केशीव कायति प्रकाशते । केशिन्

कै + कः ।) शतावरी । इति राजनिर्घण्टः ॥

केशिनिसूदनः, पुं, (केशीत्याख्यः दानवः कंसासुर-

चरस्तं निसूदयति हन्ति । नि + सूद् + कर्त्तरि
ल्युः ।) श्रीकृष्णः । (यथा, गीतायां १८ । १ ।
“सन्न्यासस्य महाबाहो ! तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश ! पृथक् केशिनिसूदन !” ॥
केशिदानववधविवरणं हरिवंशे ८० अध्याये
दृश्यम् ।)

केशिनी, स्त्री, (केशाकाराः सन्त्यस्याः ।) जटामांसी ।

इति राजनिर्घण्टः ॥ चोरपुष्पी । प्रशस्तकेश-
विशिष्टा । इत्यमरः । २ । ६ । ४५ ॥

केशिसूदनः, पुं, (केशिनं तदाख्यया प्रसिद्धं दैत्यं

सूदयतीति । केशिन् + सूद + कर्त्तरि ल्युः ।)
श्रीकृष्णः । इति त्रिकाण्डशेषः ॥ (केशिदानव वध-
विवरणं हरिवंशे ८० अध्याये द्रष्टव्यम् ॥)

केशिहा, [न्] पुं, (केशिनं हतवान् । हन् + क्विप्)

श्रीकृष्णः । इति हेमचन्द्रः ॥

केशी, [न्] त्रि, (प्रशस्ताः केशाः सन्त्यस्य ।) प्रशस्त-

केशयुक्तः । इत्यमरः । २ । ६ । ४५ ॥

केशी, [न्] पुं, (केशः सर्व्वज्ञा शक्तिरस्यास्तीति ।)

विष्णुः । इति त्रिकाण्डशेषः ॥ दैत्यभेदः । इति
मेदिनी ॥ (यथा, हरिवंशे । ८० । ६५ ।
“यस्मात्त्वया हतः केशी तस्मात् मच्छासनं शृणु ।
केशवो नाम नाम्ना वै ख्यातो लोके भविष्यषि” ॥
केशाः केसरा सन्त्यस्य ।) सिंहः । इति शब्द-
रत्नावली ॥

केशी, स्त्री, (केश + स्त्रियां गौरादित्वात् ङीष् ।)

नीली । इति राजनिर्घण्टः ॥ भूतकेशीवृक्षः ॥
अजलोमावृक्षः । इति रत्नमाला ॥

केशोच्चयः, पुं, (केशानां उच्चयः समूहः ।) केश

समूहः । इति हेमचन्द्रः ॥

केश्यं, क्ली, (केशाय हितं इति यत् ।) कृष्णागुरु ।

भृङ्गराजे, पुं । इति राजनिर्घण्टः ॥ (केशहित-
कारके, त्रि ॥)

केसरं, क्ली, (के जले सरतीति । सृ + अच् ।) हिङ्गुः

इति हेमचन्द्रः ॥ नागकेसरपुष्पम् । कासीसम् ।
स्वर्णम् । इति राजनिर्घण्टः ॥

केसरः, पुं, (के वृक्षशिरोऽवच्छेदे उच्छ्रितदेशे

इत्यर्थः सरति । सृ + अच् ।) नागकेशरवृक्षः ।
तुरङ्गस्कन्धकेशः । (यथा, रघुवंशे । ४ । ६७ ।
“विनीताध्वश्रामास्तस्य सिन्धुतीरविचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धान् लग्नकुङ्कुमकेसरान्” ॥)
सिंहस्कन्धकेशः । (यथा, पञ्चतन्त्रे । १ । २०४ ।
“व्याकीर्णकेसरकरालमुखा मृगेन्द्रा
नागाश्च भूरि मदराजि विराजमानाः” ॥)
वकुलवृक्षः । (यथा, रघुवंशे । ९ । ३६ ।
“ललितविभ्रमबन्धविचक्षणं
सुरभिगन्धपराजितकेसरम्” ॥)
पुन्नागवृक्षः । किञ्जल्कः । इति हेमचन्द्रः ॥

केसरः, पुं क्ली, (के जले सरतीति । सृ + पचाद्यच् ।

हृलदन्तादिति अलुक्समासः ।) किञ्जल्कः । हि-
ङ्गुनि, पुं स्त्री । इति रभसः ॥

केसरवरं, क्ली, (केसरेषु वरं श्रेष्ठं गुणाधिक्यात् ।

यद्वा, केसरेण किञ्जल्केन वृणातीति । वृ + अच् ।)
कुङ्कुमम् । इति राजनिर्घण्टः ॥

केसराम्लः, पुं, (के जलनिमित्तकः सरः अम्लः तद्र

सो यस्य ।) वीजपूरः । इति राजनिर्घण्टः ॥

केसरिका, स्त्री, (के जले सरति स्वाद्यतया साधु-

कारितया वा । वुन् अलुक्समासः । ततष्टाप्
अत इत्वम् ।) सहदेवीलता । इति राजनिर्घण्टः ॥

केसरिसुतः, पुं, (केसरी स्वनामख्यातो वानरभेदः

तस्य सुतः पुत्त्रः ।) हनूमान् । इति हेमचन्द्रः ॥
(यथा, महाभारते ३ । १४७ । २७ ।
“अहं केसरिणः क्षेत्रे वायुना जगदायुना ।
जातः कमलपत्राक्ष ! हनूमान् नाम वानरः” ॥)

केसरी, [न्] पुं, (केसराः जटाः सन्त्यस्य । केसर +

इनिः ।) सिंहः । घोटकः । पुन्नागः । नागकेशर ।
इति मेदिनी ॥ रक्तशिग्रः । इति राजनिर्घण्टः ॥
वानरविशेषः । स तु हनूमत्पिता ।
(यथा, रामायणे । ७ । ४० । १९ ।
“सूर्य्यदत्तवरः स्वर्णः सुमेरुर्नाम पर्व्वतः ।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता” ॥)

कै, शब्दे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

अनिट् ।) कायति । एषामादन्तत्वेन दिवादौ पाठे-
ऽपीष्टसिद्धौ भ्वादावैकारान्तत्वेन पाठो गणकृत-
मनित्यमिति ज्ञापयति । तेन अयधातोरात्मने-
पदानित्यत्व शपो लुकि च य्वोर्लोप इति यलोपे
अयधातौ परे उपसर्गरेफो ल इति वक्तव्यात्
पराशब्दस्य रेफस्य लकारे “एष कालः समूत्पन्नो
यः पलाति सजीवति” इति सिद्धम् । वेदेषूच्चारण-
पृष्ठ २/१९८
भेदार्थो भ्वादौ पाठ इति केचित् । इति दुर्गादासः ॥

कैकयी, स्त्री, (जनपदात् क्षत्त्रियात् अञ् । यद्वा,

केकय + स्वार्थेअण् । कैकय + बाहुलकात् न यादे
रियादेशः । तस्यापत्यं स्त्री ङीप् ।) केकयी । इति
शब्दरत्नावली ॥

कैकेयी, स्त्री, (कैकेयः केकयराजः तस्यापत्यं स्त्री

ङीप् ।) केकयी । सा तु केकयराजकन्या दशरथ-
राजपत्नी च । इति शब्दरत्नावली ॥
(यथा, रघौ १२ । २ ।
“तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयेवाह पलितछद्मना जरा” ॥)

कैङ्कर्य्यं, क्ली, (किङ्करस्य भावः किङ्करस्येदं किङ्करस्य-

कर्म्म वा । किङ्कर + यञ् ।) किङ्करत्वम् । दास-
त्वम् ॥ (यथा, भागवते । ३ । २ । २२ ।
“तत् तस्य कैङ्कर्य्यमलं भृतान् नो
विग्लापयत्यङ्ग ! यदुग्रसेनम्” ॥)

कैटजः, पुं, (कुटज एव स्वार्थे अण् वृद्धिः । पृषोदरात्

औकारस्य ऐकारत्वम् ।) कुटजवृक्षः । इति
भावप्रकाशः ॥

कैटभः, पुं, स्वनामख्यातो दैत्यविशेषः ॥ (अयन्तु

विष्णोःकर्णमलोद्भूतयोरसुरयोरन्यतरः । पाद्मकल्पे
जातः सन् एकार्णवे योगनिद्रायां स्थितस्य भगवतो
नाभिपद्मादाविर्भूतं अब्जयोनिं ब्रह्माणं यदा हन्तु-
मुद्यतः तदा योगनिद्रां विहाय समुत्थितेन भगवता
जघनोपरि समुत्थाप्य निहतोऽयं दुर्द्दान्तोऽसुरः ॥)
यथा, -- मार्कण्डेयपुराणम् ।
“योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ।
आस्तीर्य्य शेषमभजत् कल्पान्ते भगवान् प्रभुः ॥
तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ।
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ” ॥
(एतस्योत्पत्त्यादिकं सविस्तरं हरिवंशे ५२
अध्याये दर्शनीयम् ॥)

कैटभजित्, पुं, (कैटभं स्वनामख्यातमसुरं जितवान् ।

जि + भूते क्विप् । तुगागमश्च ।) विष्णुः । इत्य-
मरः ॥ (अस्य विवरणं हरिवंशे ५२ अध्याये
द्रष्टव्यम् ॥)

कैटभहा, [न्] पुं, (कैटभं स्वनामख्यातं महासुरं

हन्ति हतवान् वा । हन् + क्विप् भूते ।) विष्णुः ।
इति हेमचन्द्रः ॥ (स च सर्व्वशक्तिर्भगवान् स्वरू-
पतो निर्गुणोऽपि सृष्ट्यादिकार्य्यसम्पादनार्थं
गुणाधिष्ठातृत्वमभ्युपैति, तत्र तु यदा जीवादृष्ट-
वशात् यद्यद्गुणोद्रेकात्मिका क्रियाशक्तिरुप-
तिष्ठते नितरां गुणाधिष्टातृकतय भगवानपि तदा
तत्तद्गुणोपयोगिक्रियावानिव प्रतिभाति । परं
देहाभिमानवतां जीवानामिव तस्य प्रकृतेरुद्रि-
क्तगुणे मनो न ह्यासज्जते हृषीकेशत्वात् गुण-
नियन्तृत्वादित्यर्थः देहाभिमानराहित्याच्च । अत-
एव स कैटभजिन्मधुजिदित्याद्युपाधिकतयोच्यते
वस्तुतस्तु जीवैर्यत् किञ्चित् क्रियते तत् सर्व्वमेव
गुणपरतन्त्रैरवशत एव । ईश्वरस्य तु भृत्या इव
गुणा एवाधीनाः सन्तः तदाज्ञयैव क्रिया उत्-
पादयन्ति सम्पादयन्ति च ॥)

कैटभा, स्त्री, (कूटा गुणास्तत्कार्य्यं सृष्ट्यादिकं कैटं ।

कूट + अण् वृद्धिः पृषोदरात् औकारस्य ऐका-
रत्वं । तेन तैर्वा भाति प्रकाशते या । भा + क्विप् ।)
दुर्गा । इति त्रिकाण्डशेषः ॥

कैटभारिः, पुं, (कैटभस्य स्वनामख्यातस्यासुरभेदस्य

अरिः शत्रुः । पक्षे कैटभस्य तमसः अरिर्दम-
यिता । सगुणावस्थायामपि ईश्वरस्य विष्णोः
सत्त्वगुणप्राधान्यात् तथात्वम् ।) विष्णुः । इति
हलायुधः ॥

कैटभी, स्त्री, (केटभं तदाख्यया प्रसिद्धं असुरं प्रति

इः हननक्रियारूपतेजःप्रकाशोऽस्याः ।) यद्वा,
कूटं तमःप्रधानभावमधिष्ठाय तामसी प्रकृति-
रिति विश्रुता देवकार्य्यसाधनानुरोधात् तद्वत्त्वया
भातीति । कूट + अणि वृद्धौ कौटं पृषोदरात्
औकारस्य ऐकारत्वं कैटं भा + कः । ततो ङीप्
कैटभी तामसीत्यर्थः ॥) दुर्गा । इति त्रिकाण्ड-
शेषः । (मधुकैटभभीतब्रह्मणस्तुत्या प्रसादिततया
तामस्या विमोहितौ तौ दुर्द्दान्तावसुरौ विष्णुना
निहतौ । यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये
८१ अध्याये ।
“एवं स्तुता तदा देवी तामसी तत्र वेधसा ।
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ॥
नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः !
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः” ॥
इत्युपक्रम्य ।
“समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ।
पञ्चवर्ष सहस्राणि बाहुप्रहरणोविभुः ॥
तावप्यति बलोन्मत्तौ महामायाविमोहितौ ।
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम्” ॥)

कैटभेश्वरी, स्त्री, (कैटभस्य कैटभपुर्य्या ईश्वरी कर्त्तो ।

पक्षे कैटभस्य तमोगुणस्य ईश्वरी नियन्त्री ।)
दुर्गा । यथा ।
“कैटभन्तु वशं कृत्वा गृहीता तत्पुरी यथा ।
तेन सा गीयते देवी पुराणे कैटभेश्वरी” ॥
इति देवीपुराणे ४५ अध्यायः ॥

कैटर्य्यः, पुं, (किट् त्रासे + भावे घञ् । केटं त्रासं

राति ददाति तिक्तादीनामातिशय्यात् । रा दाने
+ कः । ततः स्वार्थे ष्यञ् ।) कट्फलः । इत्यमरः ।
२ । ४ । ४० ॥ निम्बः । महानिम्बः । इति रत्न-
माला ॥ मदनवृक्षः । इति राजनिर्घण्टः ॥

कैडर्य्यः, पुं, (कैटर्य्य + पृषोदरात् डत्वे साधुः ।) कट्-

फलः । पूतिकरञ्जः । कटभीवृक्षः । इति राज-
निर्घण्टः ॥

कैतकं, क्ली, (केतक्या इदं “तस्येदम्” । ४ । ३ । १२० ।

इत्थण्) केतकीपुष्पम् । यथा । कैतकं तिक्तकटुक-
मिति राजवल्लभः ॥

कैतवं, क्ली, (कितव + स्वार्थे अण् ।) कपटः । (कित-

वस्य भावः कर्म्म वा । युवादित्वादण् ।) द्यूतः ।
इत्यमरः । २ । १० । ४५ ॥ वैदूर्य्यमणिः । इति
राजनिर्घण्टः ॥ (कितवस्य भावः । कपटता ।
यथा, भागवते १ । १ । २ । “धर्म्मः प्रोज्झितकैतवो
ऽत्रपरमो निर्म्मत्सराणां सतां वेद्यं वान्तवमत्र
वस्तु शिवदं त्रापत्रयोन्मूलनम्” ॥)

कैदारं, क्ली, (केदाराणां क्षेत्राणां समूहः । इति

अण् ।) क्षेत्रसमूहः । इत्यमरटीकायां भरतः ॥
(केदारे क्षेत्रे प्रयत्नेनानीतं यज्जलं तत्कैदारम् ।
तद्गुणादिकमुक्तं भावप्रकाशे यथा --
“केदारं क्षेत्रमुद्दिष्टं कैदारं तज्जलं स्मृतम् ।
कैदारं वार्य्यभिष्यन्दि मधुरं गुरुदोषकृत्” ॥)

कैदारः, पुं, (केदारे क्षेत्रे भवः इत्त्यण् ।) शालिधान्यम् ।

इति राजनिर्घण्टः ॥ (केदारसम्बन्धिनो ये ते
कैदारा इत्यर्थः । यथा, भावप्रकाशे ।
“कैदारा वातपित्तघ्ना गुरवः कफशुक्रलाः ।
कषाया अल्पवर्च्चष्का मेध्याश्चैव बलावहाः” ॥)

कैदारकं, क्ली, (केदाराणां समूहः केदारस्य इदं वा ।

केदार + वुञ् ।) केदारसमूहः । क्षेत्रगणः । इत्य-
मरः । २ । ९ । ११ ॥

कैदारिकं, क्ली, (केदाराणां समूहः केदारे भवं

तस्येदं वा । केदार + ठञ ।) कैदारकम् । इत्यमरः ।
२ । ९ । ११ ॥

कैदार्य्यं, क्ली, (केदाराणां समूहः । केदार + ष्यञ् ।)

क्षैत्रम् । क्षेत्रसमूहः । इत्यमरः । २ । ९ । ११ ॥

कैमुतिकः, पुं, (किमुत इत्यव्ययं तस्मात् आगतः ।

ठक् ।) न्यायविशेषः । तथा च छन्दोगपरिशिष्टम् ।
“वेदाश्छन्दासि सर्व्वाणि ब्रह्माद्याश्च दिवौकसः ।
जलार्थिनोऽथ पितरो मरीच्याद्यास्तथर्षयः ॥
उपाकर्म्मणि चोत्सर्गे स्नानार्थं ब्रह्मवादिनः ।
यियासूननुगच्छन्ति संहृष्टा ह्यशरीरिणः ॥
समवायश्च यत्रैषां तत्रान्ये बहवो मलाः ।
नूनं सर्व्वे क्षयं यान्ति किमुतैकं नदीरजः” ॥
इति प्रायश्चित्ततत्त्वम् ॥

कैरवं, क्ली, (के जले रौति कलनादं करोतीति । रु +

अच् केरवः हंसः तत्पुरुषे कृतीत्यलुक् । तस्य
प्रियमित्यण् ।) कुमुदम् । श्वेतोत्पलम् । इत्यमरः ।
१ । १० । ३७ ॥ (यथा, महाभारते १ । १ । ८६ ।
“पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाः प्रकाशिताः ।
नृबुद्धिकैरवाणाञ्च कृतमेतत् प्रकाशनम्” ॥)

कैरवः, पुं, (कुत्सितो रवो यस्य स एव स्वार्थे अण् ।

पृषोदरात् औकारस्य ऐकारत्वम् ।) शत्रुः ।
कितवः । इति मेदिनी ॥

कैरविणी, स्त्री, (कैरव पुष्करादित्वात् इनिः । ततो

ङीप् ।) कुमुदिनी । इति शब्दरत्नावली ॥ (कैर-
वाणि सन्त्यस्यां इति इनि ङीप् च । कुमुद-
युक्ता पुष्करिणी ॥)

कैरवी, स्त्री, (कैरवस्य प्रिया इत्यण् ङीप् च ।)

चन्द्रिका । इति मेदिनी ॥ मेथिका । इति राज-
निर्घण्टः ॥

कैरवी, [न्] पुं, (कैरवं प्रियत्वेन प्रकाश्यत्वेन

वा अस्त्यस्य इति इनिः ।) चन्द्रः । इति शब्द-
माला ॥

कैराटकः, पुं, (किरं पर्य्यन्तभुमिं चरमावस्थां मृत्यु-

दशामित्यर्थः अटति प्राप्नोति यस्मात् । किर +
अट् + अच् । ततः स्वार्थे कन् अण् च ।) स्थावर-
विषभेदः । इति हेमचन्द्रः ॥
पृष्ठ २/१९९

कैरातं, क्ली, (किराते पर्य्यन्तभुमौ भवं इत्यण् ।)

भूनिम्बः । इति शब्दचन्द्रिका ॥ शम्बरचन्दनम् ।
इति राजनिर्घण्टः ॥

कैरातः, पुं, (किराते पर्य्यन्तभूमौ भवः । इत्यण् ।)

भूनिम्बः । इति राजनिर्घण्टः ॥ (किरात इव शूरः
इवार्थे अण् ।) बलवान् पुरुषः । तत्पर्य्यायः ।
दोर्ग्रहः २ क्षामः ३ । इति हारावली ॥ (किरा-
तस्य वेश इव वेशो यस्य । अर्श आद्यच ततः
स्वार्थे अण् । किरातवेशधारिणि, त्रि ।
यथा, महाभारते १ । २ । ५० ।
“ईश्वरार्ज्जुनयोर्युद्धं पर्व्वकैरातसंज्ञितम्” ॥
तथा, मनसाध्याने । “कैरातीं वरदाभयोद्यतकरां
देवीं त्रिनेत्रां भजे” ॥)

कैरालं, क्ली, (किरं पर्य्यन्तभूमिं अलति पर्य्याप्नो-

तीति । अल् + “कर्म्मण्यण्” इत्यण् । ततः स्वार्थे-
अण् ।) विडङ्गम् इति वैद्यकम् ॥

कैराली, स्त्री, (कैराल + स्त्रियां गौरादित्वात् ङीष् ।)

विडङ्गा । इति राजनिर्घण्टः ॥

कैलासः, पुं, (के जले लासो लसनं दीप्तिरस्य ।

“हलदन्तात् सप्तम्याः” । ६ । ३ । ९ । इति
अलुक् केलसः स्फटिकमणिः तद्वत् शुभ्रः इत्यण् ।
यद्वा, केलीनां समूहः । कैलं । “तस्य समूहः” ।
४ । २ । ३७ । इत्यण् वृद्धिश्च । कैलेनास्यतेऽत्र ।
आस् + अधिकरणे घञ् ।) स्वनामख्यातपर्व्वतः ।
इत्यमरः । १ । २ । ७४ ॥ स च शिवकुवेरयोः
स्थानम् । तस्य परिमाणं यथा । “जठरदेवकूटौ
मेरोः पूर्ब्बेणाष्टादशयोजनसहस्रमुदगायतौ
द्विसहस्रं पृथुतुङ्गौ भवतः । एवमपरेण पवन-
पारिपात्रौ दक्षिणेन कैलासकरवीरौ प्रागा-
यतौ” । इति श्रीभागवतम् ॥ (अयं हि वृहत्सं-
हितायां कूर्म्मविभागे उत्तरस्यामुक्तः ॥)

कैलासनिकेतनः, पुं, (कैलासः निकेतनं यस्य ।) शिवः ।

इति कविकल्पलता ॥

कैलासौकाः, [स्] पुं, (कैलासः ओकः स्थानं आल-

योऽस्य ।) कुवेरः । इति हेमचन्द्रः ॥

कैवर्त्तः, पुं, (के जले वर्त्तते । वृत् + अच् अलुक् समासः ।

ततः स्वार्थे अण् ।) स्वनामख्यातवर्णसङ्करजातिः ।
स तु वेश्यागर्ब्भे क्षत्त्रियस्यौरसजातः । इति ब्रह्म-
वैवर्त्तपुराणम् ॥ तत्पर्य्यायः । दासः २ धीवरः ३ ।
इत्यमरः । १ । १० । १५ ॥ दाशेरकः ४ जालिकः ५ ।
इति जटाधरः ॥ (यथा, मनुः । १० । ३४ ।
“निषादो मार्गवं सूते दाशं नौकर्म्मजीविनम् ।
कैवर्त्तमिति यं प्राहुरार्य्यावर्त्तनिवासिनः” ॥
अस्य टीकायां कुल्लूकभट्टेन यदुक्तं तद्यथा ।
“ब्राह्मणेन शूद्रायां जातो निषादः प्रागुक्तः प्रकृ-
तायामायोगव्यां मार्गवं दाशापरनामानं नौव्यव-
हारजीविनं जनयति । यमार्य्यावर्त्तदेशवासिनः
कैवर्त्तशब्देन कीर्त्तयन्ति” ॥)

कैवर्त्तमुस्तं, क्ली, (के जले जलयुक्तभूमौ वर्त्तते जायते

इति केवर्त्तं ततः स्वार्थे अण् । कैवर्त्तं च तत्
मुस्तञ्चेति कर्म्मधारयः ।) कैवर्त्तमुस्तकम् । इति
शब्दरत्नावली ॥

कैवर्त्तमुस्तकं, क्ली, (कैवर्त्तमुस्त + स्वार्थे कन् । यद्वा

कैवर्त्तस्य प्रियं मुस्तकम् ।) कैवर्त्तीमुस्तकम् ।
इत्यमरटीकायां भरतः ॥

कैवर्त्तिका, स्त्री, (कैवर्त्ती जलस्था इव । इवार्थे कन्

ततो ह्रस्वः ।) मालवे प्रसिद्धो लताविशेषः ।
तत्पर्य्यायः । सुरङ्गा २ लता ३ वल्ली ४ दशारुहा
५ रङ्गिणी ६ वस्त्ररङ्गा ७ सुभगा ८ । अस्या
गुणाः । लघुत्वम् । वृष्यत्वम् । कषायत्वम् । कफ-
कासश्वासमन्दाग्निदोषनाशित्वञ्च । इति राज-
निर्घण्टः ॥

कैवर्त्तिमुस्तकं, क्ली, (कैवर्त्त्याः कैवर्त्तपत्न्याः प्रियं

मुस्तकम् । संज्ञायां “ङ्यापोः” । ६ । ३ । ६३ ।
इति वा ह्रस्वः ।) कैवर्त्तीमुस्तकम् । इत्यमरटीका ॥

कैवर्त्ती, स्त्री, (के जले वर्त्तते इति । वृत् + अच् । केवर्त्ता

जलस्था सा एव इति स्वार्थे अण् ततो ङीप् ।)
परिपेलम् । इति वैद्यकम् ॥ कैवर्त्तपत्नी च ॥

कैवर्त्तीमुस्तकं, क्ली, (केवर्त्त्या कैवर्त्तपत्न्याः प्रियं

मुस्तकम् । संज्ञायां “ड्यापोः” । ६ । ३ । ६३ । इति
विकल्पे ह्रस्वविधेरत्र ह्रस्वाभावः ।) मुस्ताप्रभेदः ।
इति भरतः ॥ केओटमुता इति भाषा । केशुर
इति नीचोक्तिः । केशुरिया मुथा । इति सारसु-
न्दरी ॥ तत्पर्य्यायः । कुटन्नटम् २ दशपुरम् ३
वानेयम् ४ परिपेलवम् ५ प्लवम् ६ गोपुरम् ७
गोनर्द्दम् ८ इत्यमरः । २ । ४ । १३१ ॥ दाश-
पुरम् ९ दाशपूरम् १० दशपुरम् ११ दशपूरम्
१२ परिपेलम् १३ पारिपेलम् १४ कैवर्त्तमुस्त-
कम् १५ कैवर्त्तिमुस्तकम् १६ । इति तट्टीका ॥
वनसम्भवम् १७ । इति रत्नकोषः ॥ धान्यम् १८
शीतपुष्पम् १९ जीर्णबुध्रकम् २० वन्यम् २१
सितपुष्पम् २२ । इति जटाधरः ॥ अस्य गुणाः ।
कटुत्वम् । उष्णत्वम् । कफवायुव्रणदाहामशूल-
रक्तदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ हिम-
त्वम् । तिक्तत्वम् । कषायत्वम् । कान्तिदत्वम् ।
पित्तविसर्पकुष्ठकण्डुविषनाशित्वञ्च । इदन्तु वितु-
न्नकनाम्नो वृक्षस्य त्वक् मुस्ताकृति ॥ इति भाव-
प्रकाशः ॥

कैवलं, क्ली, (के शिरोऽवच्छेदे वलते संवृणोति केशादे-

रतिसौरभ्यकरणात् के जले वलते गुणाधिक्यात्
वर्द्धते वा । वल + अच् ततः स्वार्थे अण् ।) विड-
ङ्गम् । इति रत्नमाला ॥ (केवलस्य भावः इति
केवलब्दब्दात् ब्राह्मणादित्वात् ष्यञ् ॥)

कैवल्यं, क्ली, (केवलस्य सर्व्वोपाधिवर्ज्जितस्य भावः

इति । केवल + ष्यञ् ।) मुक्तिः । इत्यमरः । १ । ५ । ६ ॥
(तथा च पातञ्जले कैवल्यपादे ३ सूत्रं यथा,
“निमित्तमप्रयोजकं प्रकृतीनां
वरणभेदस्तु ततः क्षेत्रिकवत्” ॥
निमित्तं धर्म्मादि तत्प्रकृतीनामर्थान्तरपरिणामेन
प्रयोजकं न हि कार्य्येण कारणं प्रवर्त्तते । वरण-
भेदस्तु ततः क्षेत्रिकवत् ततस्तस्मादनुष्ठीयमानाद्
धर्म्मात् वरणमावरणकं अधम्मादि तस्यैव विरो-
धित्वात् भेदः क्षयः क्रियते तस्मिन् प्रतिबन्धे क्षीणे
प्रकृतयः स्वयमभिमतकार्य्याय प्रभवन्ति । क्षेत्रि-
कवत् । यथा, क्षेत्रिकः कृषीवलः केदारात् केदा-
रान्तरं जलं निनीषुर्ज्जलप्रतिबन्धकवरणभेदमात्रं
करोति । तस्मिन् भिन्ने जलं स्वयमेव प्रसर द्रूपं
परिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित्
प्रयत्नः । फलतः यावत् योगादिप्रभावेण अधर्म्मा-
द्यावरणभेदो न भवेत् तावत् कुतस्तत्त्वज्ञानं
किञ्च यावत्तत्त्वज्ञानप्रभावात् सर्व्वा वासना न
क्षयं यान्ति तावत् वृथैव कैवल्याशेति ध्येयम् ।
तथा च तत्रैव । ११ ।
“हेतुफलाश्रयालम्बनैः संगृ-
हीतत्वादेषामभावे तदभावः” ॥
वासनानामनन्तरानुभवो हेतुस्तस्यानुभवस्य
रागादयस्तेषामविद्येति साक्षात् पारम्पर्य्येण च
हेतुः । फलं शरीरादि स्मृत्यादि च । आश्रयो
बुद्धिरालम्बनं यदेवानुभवस्य तदेव वासनानामत-
स्तैर्हेतुफलाश्रयालम्बनरनन्तानामपि वासनानां
संगृहीतत्वात्तेषां हेतूनामभावे ज्ञानयोगाभ्यां
दग्धवीजकल्पत्वे विहिते निर्म्मूलत्वाच्च वासनाः
प्ररोहं न यान्ति न वा कार्य्यमारम्भन्त इति
तासामभावः ॥ अत्र भगवद्गीतायाम् । ४ । ३७ ।
“यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ! ।
ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुते तथा” ॥
अतएव सत्त्वादिषु गुणेषु कृतार्थेषु भोगाप-
वर्गादिलक्षणेषु पुरुषार्थेषु समाप्तेषु कैवल्यमित्येव
सारसिद्धान्तवाक्यम् । यथा, पातञ्जले । ३३ ।
“पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं
स्वरूपप्रतिष्ठा वा चितिशक्तिरिति” ।
समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः
प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ वि-
कारानुद्भव क्षणेषु यदि वा चिच्छक्तेर्वृत्तिसारूप्य-
निवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते ।
इत्थं सर्व्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदा-
त्मनोरूपमुपपद्यते । अधिष्ठातृत्वञ्च चिद्रूपत्वं तच्च
जडात् वैलक्षण्यमेव चिद्रूपतया यदधितिष्ठति
तदेव भोग्यतां नयति यच्च चेतनाधिष्ठितं तदेव
सकलव्यापारयोग्यं भवति । एवञ्च सति नित्यत्वात्
प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यम-
स्माभिरुक्तं तद्विहाय दर्शनान्तराणां नान्या गतिः
तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण
स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् । यथा,
“पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यव-
हारनिष्पत्तिमुपपाद्यपुरुषसत्त्वे प्रमाणमुपदर्श्य
कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनो-
र्थानभिधाय शास्त्रान्तेऽप्येतदेव कैवल्यमित्युपपाद्य
कैवल्यस्वरूपं निर्णीतम्” । परं जन्मौषधिमन्त्र-
समाधिजन्यासु सिद्धिषु सतीष्वपि ज्ञानभक्त्यादि
योगेन येन केनचिदुपायेन भगवदनुकम्पालाभ एव
कैवल्योपायः । पातञ्जलदर्शनटीकाकृत् महाराज-
भोजाधीश्वरोप्येतदङ्गीकृत्य कैवल्यपादस्य टीकायां
मङ्गलाचरणं कृतवान् । यथा, --
“यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते ।
तमेकमजमीशानं चिदानन्दमयं स्तुमः” ॥
पृष्ठ २/२००
कृष्णयजुर्व्वेदान्तर्गतोपनिषद्विशेषः ।
यथा, मुक्तिकोपनिषदि । “कठवल्लीतैत्तिरीयक-
ब्रह्मकैवल्यश्वेताश्वतरेत्युपक्रम्य कृष्णयजुर्व्वेदगतानां
द्वात्रिंशत्सङ्ख्यकानामुपनिषदां सहनाववत्विति
शान्तिः” ॥)

कैशिकं, क्ली, (केशानां समूहः । “केशाश्वाभ्यां

यञ्छावन्यतरस्याम्” । ४ । २ । ४८ । इति पक्षे
ठक् ।) केशसमूहः । इत्यमरः । २ । ६ । ९६ ॥

कैशिकः, पुं, (केशेषु केशविन्यासादौ साधुः ।

केश + ठक् ।) शृङ्गाररसः । इति शब्दरत्नावली
जटाधरश्च ॥

कैशिकी, स्त्री, (कैशिक + स्त्रियां ङीप् ।) नाटक-

वृत्तिविशेषः । यथा । “भारती सात्वती कशिक्या-
रभट्यौ च वृत्तयः” ॥ इति हेमचन्द्रः ॥

कैशोरं, क्ली, (किशोरस्य भावः । किशोर + अञ् ।)

किशोरावस्था । इति शब्दरत्नावली ॥ सा तु
दशमवर्षोत्तरपञ्चदशवर्बावधिः । इति स्मृतिः ॥

कैश्यं, क्ली, (केशानां समूहः । इति ष्यञ् ।) केश-

समूहः । इत्यमरः । २ । ६ । ९६ ॥

कोकः, पुं, (कोकते आदत्ते चन्द्रसुधामिति । कुक्

आदाने + पचाद्यच् ।) चक्रवाकः ।
(यथा, गीतगोविन्दे ५ । १७ ।
“कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना” ॥)
वृकः । (यथा, रामायणे । ५ । २६ । ९ ।
“वने यूथपरिभ्रष्टा मृगी कोकैरिवार्द्दिता” ॥)
ज्येष्ठी । खर्ज्जूरीवृक्षः । भेकः । इति मेदिनी ॥
विष्णुः । इति त्रिकाण्डशेषः ॥

कोकडः, पुं, (कोकं कोकरवं वृकध्वनिवत् ध्वनिमि-

त्यर्थः लाति गृह्णातीति । ला + कः । लस्य डत्वम् ।)
विलेशयमृगविशेषः । तत्पर्य्यायः । जविनः २
कोकवाचः ३ विलेशयः ४ चमरपुच्छः ५ लोमशः
६ धूम्रवर्णकः ७ । तन्मांसगुणः । श्वासानिल-
कासहरत्वम् । पित्तदाहकरत्वञ्च । इति राज-
निर्घण्टः ॥

कोकदेवः, पुं, (कोकश्चक्रवाकः स इव दीव्यति क्रीड-

तीति । दिव् + अच् ।) कपोतः । इति राज-
निर्घण्टः ॥

कोकनदं, क्ली, (कोकान् चक्रवाकान् नदति नादयति

वात्मविकासेन । कोक + नद् + अन्तर्णिच् ततोऽच्
मूलविभुजादित्वात् को वा ।) रक्तकुमुदम् । रक्त-
पद्मम् । इति मेदिनी ॥ (यथा, गीतगोविन्दे । १० । ५ ।
“नीलनलीनाभमपि तन्धि ! तव लोचनं धारयति
कोकनदरूपम्” ॥ अस्य पर्य्याया यथा, --
“रक्तं कोकनदं पद्ममल्पमन्यदलोहितम्” ॥
इति वैद्यकरत्नमालायाम् ॥)

कोकनदच्छविः, पुं, (कोकनदस्य रक्तोत्पलस्य छवि-

रिव छविर्दीप्तिर्यस्य ।) रक्तवर्णः । तद्वति त्रि ।
इत्यमरः ॥

कोकवन्धुः, पुं, (कोकयोः चक्रवाकयुगलयोर्दिवस-

प्रभया संयोगकारितया बन्धुरिव ।) सूर्य्यः । इति
शब्दचन्द्रिका ॥

कोकाग्रः, पुं, (कोकः खर्ज्जुरीवृक्षन्तद्वदग्रमागोऽस्य ।)

समष्ठिलवृक्षः । इति राजनिर्घण्टः ॥

कोकाहः, पुं, (कोक इव आहन्ति वेगेन गच्छतीति ।

आ + हन् + डः ।) श्वेतघोटकः । तत्पर्य्यायः । कर्कः
२ । इति हेमचन्द्रः ॥ क्वचित् पुस्तके काकाह
इति पाठः ॥

कोकिलः, पुं, (कुक् आदाने + “सलिकल्यनिमहि भडि-

भण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्” । उणां
१ । ५५ । इति इलच् ।) स्वनामख्यातकृष्णवर्णमधु-
रस्वरपक्षी । (यथा, रामायणे । २ । ५२ । २ ।
“भास्करोदयकालोऽयं गता भगवती निशा ।
असौ सुकृष्णविहगः कोकिलस्तात ! कूजति” ॥)
तत्पर्य्यायः । वनप्रियः २ परभृतः ३ पिकः ४ ।
इत्यमरः । २ । ५ । १९ ॥ परपुष्टः ५ कालः ६
वसन्तदूतः ७ ताम्राक्षः ८ गन्धर्व्वः ९ मधुगायनः
१० वासन्तः ११ कलकण्ठः १२ कामान्धः १३
काकलीरवः १४ कुहूरवः १५ अन्यपुष्टः १६
मत्तः १७ मदनपाठकः १८ । इति राजनिर्घण्टः ॥
(अस्य गुणा यथा, -- हारीते १ स्थाने ११ अध्याये ।
“कोकिलः श्लेष्मलो ज्ञेयः पित्तसंशमनस्तथा” ॥
मूषिककल्पान्तर्गतशुक्र-विष-जातीयविशेषः ।
तद्दंशनजनितलक्षणानि यथा, --
“ग्रन्थयः कोकिलेनोग्रा ज्वरो दाहश्च दारुणः” ॥
इति सुश्रुतेन कल्पस्थाने षष्ठाध्याय उक्तम् ॥)
अङ्गारः । इति त्रिकाण्डशेषः । (छन्दोविशेषः ।
इति वृत्तरत्नाकरः ॥)

कोकिलनयनः, पुं, (कोकिलस्य नयनमिव रक्तवर्णं

पुष्पमस्य ।) कोकिलाक्षवृक्षः । इत्यमरटीकायां
रमानाथः ॥ (कोकिलाक्षशब्देऽस्य विवृतिर्ज्ञेया ॥)

कोकिलाक्षः, पुं, (कोकिलस्याक्षीव रक्तं पुष्पमस्य ।

“अक्ष्णोऽदर्शनात्” । ५ । ४ । ३६ । इति अच् ।)
वृक्षविशेषः । कुलियाखाडा इति भाषा । तालम
खाना इति हिन्दी भाषा ॥ तत्पर्य्यायः । इक्षुगन्धा
२ काण्डेक्षुः ३ इक्षुरः ४ क्षुरः ५ । इत्यमरः । २ ।
४ । १०४ ॥ शृगाली ६ शृङ्खली ७ शुरकः ८
शृगालघण्टी ९ वज्रास्थिः १० शृङ्खला ११ वज्र-
कण्टकः १२ इक्षुः १३ इक्षुरकः १४ वज्रः १५
शृङ्खलीका १६ पिकेक्षणा १७ पिच्छिला १८ ।
इति राजनिर्घण्टः ॥ श्वेतस्य तस्य पर्य्यायः । वीर-
तरुः २ त्रिक्षुरः ३ क्षुरकः ४ शुक्लपुष्पः ५ ॥ रक्तस्य
तस्य पर्य्यायः ॥ छत्रकः २ अतिच्छत्रः ३ । इति
रत्नमाला ॥ सामान्यस्य तस्य गुणाः । आमवात-
वातरक्तरोगनाशित्वम् । इति राजवल्लभः ॥
मधुरत्वम् । शीतत्वम् । पित्तातिसारनाशित्वम् ।
शुक्रकफबलरुचिकारित्वम् । सन्तपर्णत्वञ्च । इति
राजनिर्घण्टः ॥ (श्वेतकोकिलाक्षमूलं छागीदुग्धेन
पिष्टं सत् भक्षितं क्षयरोगं नाशयेत् । यदुक्तं
गारुडे १९३ अध्याये ।
“श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् ।
त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत्” ॥)

कोकिलाक्षकः, पुं, (कोकिलाक्ष + स्वार्थे कन् ।)

कोकिलाक्षतृक्षः । इत्यमरटीकायां स्वामी ॥
(यस्मिन्नस्य व्यवहारस्तद्यथा, --
“कोकिलाक्षकनिर्य्यूहः पीतस्तच्छाकभोजिना ।
कृपाभ्यास इव क्रोधं वातरक्तं नियच्छति” ॥
इति वाभटे चिकित्सास्थाने २२ अध्याये ॥)

कोकिलावासः, पुं, (आवसत्यस्मिन् इति । आ +

वस् + अधिकरणे घञ् । कोकिलानां आवासः ।)
आम्रवृक्षः । इति राजनिर्घण्टः ॥

कोकिलेक्षुः, पुं, (कोकिल इव कृष्णवर्ण इक्षुः ।)

कृष्णेक्षुः । इति राजनिर्घण्टः ॥

कोकिलेष्टा, स्त्री, (कोकिलस्य इष्टा प्रिया ।) महा-

जम्बूः । इति राजनिर्घण्टः ॥

कोकिलोत्सवः, पुं, (कोकिलानां उत्सवोऽत्र ।) आम्र-

वृक्षः । इति राजनिर्धण्टः ॥

कोङ्कणं, क्ली, (कोङ्कणे भवं कोङ्कणदेशस्थैः कम्म-

कारै र्निर्म्मितमिति भावः । “तत्र भवः” । ४ ।
३ । ५३ । इत्यण् तस्य लुक् ।) शस्त्रभेदः । इति
हेमचन्द्रः ॥

कोङ्कणः, पुं, देशविशेषः । इति विश्वः । कोकण

इति भाषा ॥ (यथा, आगमे ।
“अथाभ्यङ्गं समारभ्य कटिदेशस्य मध्यगे ।
समुद्रप्रान्तदेशो हि कोङ्कणः परिकीर्त्तितः” ॥
देशोऽयं कूर्म्मविभागे दक्षिणस्यां दिशि वर्त्तते ।
यथा, महाभारते । ६ । ९ । ५९ ।
“अथापरे जनपदा दक्षिणा भरतर्षभ” ! ।
“कौकुट्टकास्तथा चोलाः कोङ्कणा मलवा नराः” ॥
क्वचिदेकवचनत्वमपि दृश्यते ।
यथा, स्मृतिसंग्रहे ।
“मालवे गौडदेशे च सिन्धुदेशे च कोङ्कणे ।
व्रतं चूडां विवाहञ्च वर्ज्जयेत् मकरे गुरौ” ॥)

कोङ्कणासुतः, पुं, (कोङ्कणे तदाख्यप्रदेशे भवा । अण्

तस्य लुक् च । कोङ्कणा रेणुका तस्याः सुतः पुत्त्रः ।)
परशुरामः । इति शब्दमाला ॥

कोचः, पुं, (कुच् + ज्वलादित्वात् कत्तरि णः ।)

जातिविशेषः । स तु मांसच्छेदिगर्भे तीवरस्यौरस-
जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥

कोजागरः, पुं, (को जागर्त्ति अस्यां पौर्णमासी-

निशायां इति लक्ष्म्या देव्या उक्तिर्यत्र समये ।
पृषोदरात् साधुः ।) आश्विनी पूर्णिमा । तत्पर्य्यायः ।
शारदी २ द्यूतपूर्णिमा ३ शरत्पर्व्व ४ कौमुदी ५ ।
इति त्रिकाण्डशेषः ॥ अथ कोजागरकृत्यानि ।
तत्र ब्रह्मपुराणम् ।
“आश्वयुज्यां पौर्णमास्यां निकुम्भो वालुकाणवात् ।
आयाति सेनया सार्द्धं कृत्वा युद्धं सुदारुणम् ॥
तस्मात् तत्र नरैर्मार्गाः स्वगेहस्य समीपतः ।
शोधितव्याः प्रयत्नेन भूषितव्याश्च मण्डनैः ॥
पुष्पार्घ्यफलमूलौघसर्षपप्रकरैस्तथा ।
वेश्मानि भूषितव्यानि नानावर्णैर्विशेषतः ॥
सुस्नातैरनुलिप्तैश्च नरैर्भाव्यं सबान्धवैः ।
दिवा तत्र न भोक्तव्यं मनुष्यैश्च विवेकिभिः ॥
स्त्रीबालवृद्धमूर्खैश्च भोक्तव्यं पूजितैः सुरैः ।
पूज्याश्च सफलैः पत्रैस्तथा द्वारोर्द्ध्वभित्तयः ॥
द्वारोपान्ते सुदीप्तस्तु संपूज्यो हव्यवाहनः ।
यवाऽक्षतघृतोपेतैस्तण्डुलैश्च सुतर्पितः ॥
पृष्ठ २/२०१
संपूजितव्यः पूर्णेन्दुः पयसा पायसेन च ।
रुद्रः मभार्य्यः स्कन्दश्च तथा नन्दीश्वरो मुनिः ॥
गोमद्भिः सुरभिः पूज्या छागवद्भिर्हुताशनः ।
उरभ्रवद्भिर्वरुणा गजवद्भिर्विनायकः ॥
पूज्यः साश्वैश्च रेवन्तो यथाविभवविस्तरैः ।
ततः पूज्यो निकुम्भोऽपि समाषैस्तिलतण्डुलैः ॥
सुगन्धिभिर्घृतोपेतैः कृशराख्यैश्च भूरिभिः ।
ब्राह्मणान् भोजयित्वा तु भोक्तव्यं मांसवर्जितम् ॥
वह्निपार्श्वगतैर्नेया दृष्ट्वा क्रीडाः पृथग्विधाः” ॥ * ॥
लिङ्गपुराणे यथा, --
“आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि ।
कौमुदी सा समाख्याता कार्य्या लोकविभूतये ॥
कौमुद्यां पूजयेल्लक्ष्मीमिन्द्रमैरावतं स्थिरम् ।
सुगन्धिर्निशि सद्वेशश्चाक्षैर्जागरणञ्चरेत् ॥
निशीथे वरदा लक्ष्मीः को जागर्त्तोति भाषिणी ।
तस्मै वित्त प्रयच्छामि अक्षैः क्रीडां करोति यः ॥
नारिकेलैश्चिपिटकैः पितॄन् देवान् समर्च्चयेत् ॥
बन्धूंश्च प्रीणयेत्तेन स्वयं तदशनो भवेत्” ॥
इति तिथ्यादितत्त्वम् ॥ (अत्र निशायां बन्धुभिरक्षैः
क्रीडयित्वा लक्ष्मीप्रसादात् धनभाग्भवेत् । अक्ष-
क्रीडानियमश्च चतुरङ्गशब्दे द्रष्टव्यः ॥)

कोटः, पुं, (कुट्यते प्रताप्यते शत्रुरत्र अनेन वा । दुर्ग-

माश्रित्य प्रबलविपक्षमपि प्रतापयितुं शक्यते
इत्यर्थः । कुट प्रतापने + अधिकरणे करणे वा
घञ् ।) दुर्गम् । इति कुटशब्दार्थे मेदिनी ॥ गड
केल्ला इति च भाषा ॥ (कुट् + भावे घञ् । कौ-
टिल्यम् प्रतापनम् ॥)

कोटकः, पुं, (कुट् + कर्त्तरि ण्वुल् ।) गृहकारकः ।

घरामि इति भाषा । स तु कुम्भकार्य्या गर्भे
अट्टालिकाकारस्यौरसजातः । इति ब्रह्मवैवर्त्त
पुराणम् ॥

कोटरं, क्ली पुं, (कोटं कौटिल्याकारं स्थानं गर्त्त-

मिति यावत् । रातीति । रा + कः ।) वृक्ष-
स्थितगह्वरम् । गाछेर खोडोल इति भाषा ॥
तत्पर्य्यायः । निष्कुहः २ । इत्यमरः । २ । ४ । १३ ॥
निर्गूढः ३ कोटरः ४ । इति शब्दरत्नावली ॥ प्रा-
न्तरम् ५ । तरुविवरम् ६ । इति जटाधरः ॥
(कोटशब्दात् चतुरर्थ्यां अश्मरादित्वात् रः । पां,
४ । २ । ८० ॥ दुर्गसन्निहितदेशादौ, त्रि ॥)

कोटरावणं, क्ली, (कोटरान्वितानां तरूणां वनम् ।

पूर्ब्बदीर्वत्वं णत्वञ्च ।) सकोटरवृक्षयुक्तवनम् ।
इति मुग्धबोधटीकायां दुर्गादासः ॥

कोटरी, स्त्री, (कोटं कौटिल्यं रीणाति गच्छतीति ।

रीगगतौ + क्विप् ।) नग्ना स्त्री । इत्यमरः । २ ।
६ । १७ ॥ (कोटं कुटिलस्वमावं राक्षसासुरा-
दिकं रीणाति हन्ति । री + क्विप् ।) चण्डिका ॥
इत्यमरटीका ॥

कोटवी, स्त्री, (कोटं कौटिल्यं निर्लज्जतां वाति

गच्छतीति । कोट + वा गमनहिंसयोः “आतो-
ऽनुपसर्गे कः” । ३ । २ । ३ । इति कः । ततो गौ-
रादित्वात् ङीष् ।) विवस्त्रा स्त्री । इत्यमरटीका ।
(कोटं दुर्गं दुर्गनामानमसुरं वाति नाशयतीति ।)
दुर्गा । इति धरणी ॥

कोटिः, स्त्री, (कोट्यते छिद्यतेऽनया । कुट छेदे ।

“सर्व्वधातुभ्य इन्” । उणां । ४ । ११७ । इति
इन् । बाहुलकात् गुणः ।) अस्त्रादेः कोणः ।
(यथा, रघुवंशे । ७ । ४६ ।
“हृतान्यपि श्येननखाग्रकोटि
व्यासक्तकेशानि चिरेण पेतुः” ॥)
उत्कर्षः । शतलक्षसङ्ख्या । क्रोर इति भाषा ॥
(यदुक्तं अङ्कशास्त्रे ।
“एकं दशं शतञ्चैव सहस्रमयुतन्तथा ।
लक्षञ्च नियुतञ्चैव कोटिरर्व्वुदमेव च” ॥)
धनुरग्रम् । इत्यमरमेदिनीकरौ ॥
(यथा, महाभारते । १ । ४० । २२ ।
“तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासृजत् ।
समुत्क्षिप्य धनुष्कोट्या स चैनं समुपैक्षत” ॥)
(रेखा । यथा, कुमारे । २ । २६ ।
“आवर्ज्जितजटामौलिविलम्बिशशिकोटयः ।
रुद्राणामपि मूर्द्धानः क्षतहूङ्कारशंसिनः” ॥
वादविचारः । संशयनिर्णयाय पूर्ब्बपक्षः । यथा,
गादाधरीसंशयहेतूक्तिः ।
“विप्रतिपत्तिवाक्यजन्यकोट्युपस्थितिः” ।
लीलावत्युक्तत्रिकोणादिक्षेत्रावयवरेखाभेदः । यथा,
“इष्टाद्बाहोर्यःस्यात् तत्स्पर्द्धिन्यां दिशीतरोबाहुः ।
त्र्यस्रे चतुरस्रे वा सा कोटिः कीर्त्तिता तज्ज्ञैः” ॥
सिद्धान्तशिरीमण्युक्तराशिचक्रस्य तृतीयांशः । यथा,
“त्रिभिर्भैः पदं तानि चत्वारि चक्रे क्रमात् स्याद-
युग्युग्मसंज्ञा च तेषां । अयुग्मे पदे यातमेष्यन्तु
युग्मे भुजबाहुहीनं त्रिभं कोटिरुक्ता” ॥ छाया-
निरूपणार्थं कल्प्यमानक्षेत्रावयवरेखाविशेषः ।
यथा, सिद्धान्तशिरोमणौ ।
“दिक्सूत्रसम्पातगतस्य शङ्को-
श्छायाग्रपूर्ब्बापरसूत्रमध्यम् ।
दोर्दोः प्रभा वर्गवियोगमूलं
कोटिर्नरात् प्रागपरा ततः स्यात्” ॥ * ॥
“दिक्सम्पातस्थस्य शङ्कोर्भाग्रं यत्र पतति तस्य
पूर्ब्बापरसूत्रस्य च यदन्तरं स दोरित्युच्यते । दो-
श्छाययोर्वर्गान्तरपदं पूर्ब्बपरा कोटिः” । इति ॥
चन्द्रस्य शृङ्गोन्नतिज्ञानार्थं क्षेत्रावयवविशेषः ।
यथा, तत्रैव “योऽधो नरो दिनकृतः स विधो-
रुदग्रशङ्क्वन्वितो मम मता खलु सैव कोटिः” ॥
अपि च अर्कस्य योऽसौ अधः शङ्कुःयस्य
ऊर्द्ध्वशङ्कुना युक्तश्चेत् तर्ह्येव कोटिर्मतेति । यथा,
तत्रैव ।
“यो रवेरधः शङ्कुरसौ विधोरूर्द्ध्वशङ्कुना युतः ।
सैव कोटिर्मम मता । अत्रोपपत्तिः । इहार्केन्द्वो-
र्याम्योत्तरभावेन यदन्तरं स भुजः । ऊर्द्ध्वाधो-
भावेन यदन्तरं सा कोटिः । सा चैव भवति ।
उदयेऽस्ते वा यदि शृङ्गोन्नतिस्तदारविशङ्कोर-
भावात् शशिशङ्कुरेव कोटिः । यदा निशि रवेरधः
शङ्कु स्तदा स शङ्कुर्विधोरुदयशङ्कुना युतो यावां-
स्तावत् तेयोर्यत्रस्थयोः ऊर्द्ध्वाधरमन्तरं सैव कोटि-
रुचिता । यतो द्रष्ट्रा पुरुषेणात्मनोऽवस्थानवशेन
शशिनः शृङ्गमुन्नतमवलोक्यम् । अतः स्वाव-
स्थानसमसूत्रादूर्द्ध्वरूपिण्या कोट्या भवितव्यम् ।
भुजकोटिकर्णकृतं त्र्यस्रं दृष्टेरग्रत आदर्शवत्
सम्मुखं यथा भवति तथा कल्प्यम् ॥ किञ्च, उदया-
स्तसूत्रकल्पितक्षेत्रावयवविशेषः । तत्रैव यथा, --
“सूत्राद्दिवा शङ्कुतलं यमंशं
याम्यां गतं हि द्युनिशं कुजोर्द्ध्वे ।
अधश्च सौम्यां निशि सौम्यमस्मात्
सद्युक्तियुक्तं नृतलं निरुक्तम् ॥
सौम्याग्रकाग्रान्नृतलं हि याम्यं
याम्याग्रकाग्रात् पुनरेव याम्यम् ।
तदन्तरैक्यं समवृत्तखेट-
मध्यांशजीवां भुवि बाहुमाहुः ।
दृग्ज्यां श्रुतिं चाथ तयोस्तु कोटिं
पूर्ब्बापरां वर्गवियोगमूलम्” ॥
“क्षितिजस्याहोरात्रवृत्तसम्पातयोर्बद्धं सूत्रमुद-
यास्तसूत्रम् । ग्रहस्थानात् लम्बः शङ्कुः तस्य
तलं उदयास्तसूत्रात् दक्षिणतो भवति । यतः
क्षितिजादुपरि दक्षिणतोऽहोरात्रवृत्तं गतम् ।
अधस्तु उत्तरतो गतम् । अतो निशि उत्तरं
नृतलम् । अथ भुज उच्यते । उत्तरगोलेऽग्रोत्तरं
नृतलं याम्यम् । अतस्तेनोनाग्रा बाहुर्भवति ।
बाहुर्नामशङ्कुः प्राचि अपरसूत्रयोरन्तरम् । य-
दाऽग्रा शङ्कुतलादूना तदा तयोरन्तरं दक्षिणं
शङ्कुतलं बाहुः स्यात् । एवं समवृत्तप्रवेशादुपरि
दक्षिणगोले तु अग्रा याम्या शङ्कुतलं च याम्यं
तयोर्योगे कृते बाहुः स्यात् रविसममण्डलयो-
रन्तरांशानां ज्या बाहुः । तत्र या दृग्ज्या स
कर्णः । तयोर्वर्गान्तरपदं पूर्ब्बापरा कोटिः” ॥)
पृक्का । इत्यमरः ॥ पिडिङ्ग शाक इति भाषा ॥

कोटिकः, पुं, (कोट्या बहुसङ्ख्यया कायति प्रका-

शते । कै + कः ।) इन्द्रगोपनामकीटः । इति
जटाधरः ॥

कोटिजित्, पुं, (कोटिं पण्डितानां समूहं विचारपणे

कोटिपरिमितं द्रव्यं वा जितवान् । कोटि
+ जि + क्विप् तुगागमश्च ।) कालिदासः । इति
त्रिकाण्डशेषः ॥ (मेधारुद्रः । इति शब्दार्थचिन्ता-
मणिः ॥)

कोटिपात्रः, पुं, (कोटिरग्रमागः पात्रं पत्राकारमस्य ।

यद्वा, कोटिरग्रं पात्रे जलांशेऽस्यं जलक्षेपणा-
दिति भावः ।) केनिपातकः । इति हेमचन्द्रः ॥
केरोआल इति भाषा ॥

कोटिरः, पुं, (कोटि असङ्ख्यं राति ददातीति । रा

+ कः ।) इन्द्रः । नकुलः । शक्रगोपककीटः । इति
मेदिनी ।

कोटिवर्षं, क्ली, (कोटिसङ्ख्यकानि अस्त्राणि उप-

स्थितान् शत्रून् प्रति वर्षत्यत्र । कोटि +
वृष् + अप् ।) वाणपुरम् । इति शब्दरत्ना-
वली ॥

कोटिवर्षा, स्त्री, (कोटिभिरग्रभागैर्वर्षति मधु ।

कोटि + वृष् + अप् । स्त्रियां टाप् ।) पृक्का ।
इत्यमरः ॥ पिडिङ्ग शाक इति भाषा ॥
पृष्ठ २/२०२
(अस्याः पर्य्यायाः यथा ।
“स्पृक्कासृक् ब्राह्मणी देवी मरुन्माला लता लघुः ।
समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि” ॥
इति भावप्रकाशस्थ पूर्ब्बखण्डे प्रथमे मागे ॥
गुणाश्चास्याः स्पृक्काशब्दे ज्ञेयाः ॥)

कोटिशः, पुं, (कोट्या अग्रेण श्यति नाशयति

चूर्णीकरोतीत्यर्थः । कोटि + शो + कः ।) लोष्ट-
भङ्गसाधनमुद्गरः ॥ इति भरतः ॥ मै इति ख्यात
इति केचित् । तत्पर्य्यायः । लेष्टुभेदनः २ । इत्य-
मरः । २ । ९ । १२ ॥ लेष्टुघ्नः ३ कोटीशः ४ । इति
रत्नकोषः ॥ लेष्टुभेदी ५ चूर्णदण्डः ६ लोष्टभङ्गा-
र्थमुद्गरः ७ । इति शब्दरत्नावली ॥ लोष्टघ्नः
८ । इति जटाधरः ॥ (कोटिरस्यास्तीति लोमा-
दित्वात् शः । कोटियुक्ते, त्रि ॥ वासुकीवंशीय-
नागविशेषः । यथा, महाभारते । १ । ५७ । ५ ।
“कोटिशो मानसः पूर्णः शलः पालो हलीमकः” ॥)

कोटिशः, [स्] व्य, (कोटि + वारार्थे चशस् ।)

कोटिः कोटिः । इति व्याकरणम् ।
(यथा, रघौ । २ । ४९ ।
“गाः कोटिशः स्पर्शयता घटोध्नीः” ॥)

कोटी, स्त्री, (कुट् + “सर्व्वधातुभ्य इन्” । उणां

४ । ११७ । इतीन् ततो वा ङीष् ।) खड्गादेर-
ग्रभागः । इत्यमरटीका ॥ पृक्काशाकम् । इति
शब्दरत्नावली । कोटिसङ्ख्या । इति लिङ्गादि-
संग्रहटीकायां भरतः ॥ (यथा, महाभारते ।
७ । जयद्रथवधपर्व्वणि । ८७ । ३० ।
“प्रतोदैश्चापकोटीभिर्हूङ्कारैः साधु वाहितैः ।
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च” ॥)

कोटीरः, पुं, (कोटीभिः ईरयति प्रेरयति ।

कोटी + ईर् + णिच् अच् ।) जटा । इति
त्रिकाण्डशेषः ॥ (यथा, आनन्दलहर्य्याम् । ३० ।
“किरीटं वैरञ्चं परिहर पुरः कैटभभिदः
कठोरेकोटीरे स्खलसि जहि जम्भारिमुकुटम्” ॥)
किरीटम् । इति हेमचन्द्रः ॥

कोटीवर्षं, क्ली, (कोटीसङ्ख्यकानि वाणाद्यस्त्राणि

विपक्षान् प्रति वर्षन्ति अत्र । कोटी + वृष् +
अप् ।) वाणपुरम् । इति त्रिकाण्डशेषः ॥ (इदानीं
देवीकोट इत्याख्ययाख्यायते ॥)

कोटीवर्षा, स्त्री, (कोटीं कोटीर्वा वर्षति माधुर्य्यादि-

स्वादम् । वृष् + अच् + टाप् ।) कोटिवर्षा । इति
शब्दरत्नावली । पिडिङ्ग शाक इति भाषा ॥

कोटीशः, पुं, (कोटीं लोष्ट्रादोनां कोटीसंख्यां श्यति

चूर्णयंतीति । कोटी + शो + कः ।) कोटिशः ।
इत्यमरटीकायां भरतः ॥

कोट्टं, क्ली, (कुट्ट्यते विपक्षोऽस्मिन् अत्र वा ।

कुट्ट + अधिकरणे घञ् । निपातनात् गुणः ।)
दुर्गम् । इति हेमचन्द्रः । केल्ला गड इत्यादि
भांषा ॥

कोट्टः, पुं, (कुट्ट्यन्ते शत्रवोऽत्र । कुट्ट छेदे + घञ् ।

निपातनात् गुणः ।) दुर्गपुरम् । इति लिङ्गादि-
संग्रहे अमरः ॥

कोट्टवी, स्त्री, दुर्गा । इति त्रिकाण्डशेषः ॥ नग्ना

स्त्री । इति शब्दरत्नावली ॥ नग्नमुक्तकेशी नारी ।
“या त्ववासा मुक्तकेशी कोट्टवी नग्निका च सा” ॥
इति जटाधरः ॥ (कोट्टं कुट्टनं छेदनं स्वपुत्त्रस्येति
यावत् वाति हिनस्ति निवारयतीत्यर्थः । यद्वा,
कोट्टे कुट्टने संग्रामे स्वसुतस्य रक्षार्थं वाति
गच्छतीति । कोट्ट + वा गमनहिंसयोः + कः
गौरादित्वात् ङीष् ॥) नग्ना स्त्रीरूपिणीदुर्गा ।
“तन्माता कोट्टवी नाम नग्ना मुक्तशिरोरुहा ।
पुरोऽवतस्थे कृष्णस्य पुत्त्रप्राणरिरक्षया” ॥
इति भागवते । १० । ६३ । २० ॥
(नहीयं स्वयमाद्याशक्तिरूपिणी दुर्गा किन्त्वस्याः
लम्बाख्योऽष्टमो भागः । यथा, हरिवंशे वाण-
कृष्णयुद्धे १८२ अध्याये २२-२३ ।
“व्याविध्यभाने चक्रे तु कृष्णेनाप्रतिभौजसा ।
कुमाररक्षणार्थाय बिभ्रती सुतनुं तदा ॥
दिग्वासा देववचनात् प्रातिष्ठत्तत्र कोट्टवी ॥
लम्बा नाम महाभागा भागो देव्यास्तथाष्टमः ।
चित्राकनकशक्तिस्तु सा च नग्ना स्थितान्तरे” ॥)

कोट्टवीपुरं, क्ली, (कोट्टव्याः पुरम् ।) वाणपुरम् ।

इति शब्दरत्नावली ॥

कोट्टारः, पुं, (कुट्ट + आरक्प्रत्ययः । पृषोदरात्

साधुः । कोट्टं कोटं दुर्गमित्यर्थः ऋच्छति प्राप्नोति ।
कोट्ट + ऋ + “कर्म्मण्यण्” । इति अण् ।) नागरः ।
कूपः । पुष्करिण्याः पाटकः । इति मेदिनी ॥ दुर्ग-
पुरम् । इति लिङ्गादिसंग्रहटीकायां भरतः ॥

कोठः, पुं, (कुठि + अच् निपातनात् नलोपे साधुः ।)

चक्राकारकुष्ठरोगः । तत्पर्य्यायः । मण्डलकम् २ ।
इत्यमरः । २ । ६ । ५४ ॥ दुश्चर्म्मा ३ त्वग्दोषः ४
चर्म्मदूषिका ५ । इति राजनिर्घण्टः ॥ तस्य लक्षणं
यथाह माधवकरः ।
“असम्यग्वमनो दीर्णपित्तश्लेष्मान्ननिग्रहैः ।
मण्डलानि सकण्डूनि रागवन्ति बहूनि च ।
उत्कोठः सानुबन्धश्च कोठ इत्यभिधीयते” ॥
अन्यच्च । “वरटीदष्टनिकाशः कण्डूमान् लोहितो-
ऽस्रकफपित्तात् । क्षणिकोत्पादविनाशः कोठ
इति निगद्यते तज्ज्ञैः” ॥ इति रक्षितः ॥
(अस्य चिकित्सा यथा, वैद्यकचक्रपाणिसंग्रहे
शीतपित्तोदर्द्धाद्यधिकारे ।
“अग्निमन्थभवं मूलं पिष्टं पीतञ्च सर्पिषा ।
शीतपित्तोदर्द्धकोठान् सप्ताहादेव नाशयेत् ॥
उदर्द्धोक्तां क्रियाञ्चापि कोठरोगे समासतः ।
सर्पिः पीत्वा महातिक्तं कार्य्यं शोणितमोक्षणम्” ॥)

कोठरः, पुं, (कुठ्यते छिद्यतेऽसौ । कुठ + अरप्र-

त्ययः ।) अङ्कोठवृक्षः । इति राजनिर्घण्टः ॥
आँकोड इति भाषा ॥

कोठरपुष्पी, स्त्री, (कोठरस्य पुष्पमिव पुष्पमस्याः ।

कोठरपुष्प + ङीप् ।) वृद्धदारकः । इति राज-
निर्घण्टः ॥ (वृद्धदारकशब्देऽस्या गुणादयो
ज्ञातव्याः ॥)

कोणः, पुं, (कुणति वादयत्यनेन कुणति वादयतीति

वा । कुण शब्दे + करणे घञ् । कर्त्तरि + अच्
वा ।) वीणादिवादनम् । भेरीप्रभृति यन्त्र वाजाइ-
वार काठी इति भाषा ॥ (यथा, रामायणे
२ । ७१ । २९ ।
“भेरीमृदङ्गवीणानां कोणसंघट्टितः पुनः” ॥)
अस्त्रादेरग्रभागः । तत्पर्य्यायः । पालिः २ अश्रिः
३ कोटिः ४ । इत्यमरः । २ । ८ । ९३ ॥ (यथा,
कादम्बर्य्याम् । “कनक कोणैरभिहन्यमानः” ॥)
वाद्यप्रभेदः । गृहादेरेकदेशः । (यथा, कथा-
सरित्सागरे । १९ । ३३ ।
“स्वगृहस्याङ्गने तेन चत्वारः स्वर्णपूरिताः ।
कुम्भाश्चतुर्षु कोणेषु निगूढाः स्थापिता भुवि” ॥)
लगुडः । इति मेदिनी । मङ्गलग्रहः । इति हेम-
चन्द्रः ॥ शनिः । इति विश्वः ॥ द्वयोर्दिशोर्म्मध्य-
भागः । इति राजनिर्घण्टः ॥ अस्य विवरणं
विदिक्शब्दे द्रष्टव्यम् ॥ (कोणमात्रम् । यथा,
तन्त्रसारे ।
“विन्दुत्रिकोणवसुकोणदशारयुग्मम्” ॥)

कोणकुणः, पुं, (कोणे मस्तकैकदेशभागे कुणति

विचरतीति । कुण् + अच् ।) उत्कुणः । इति
हेमचन्द्रः ॥ उकुण इति भाषा । (मत्कुणम् ।
छारपोका इति भाषा । खद्मल इति हिन्दी-
भाषा ॥)

कोणिः, त्रि, (कुण + “सर्व्वधातुभ्य इन्” । उणां ४ ।

११७ । इति इन् बाहुलकात् गुणः ।) कुणिः ।
इत्यमरटीका ॥ कोपा इति भाषा ॥

कोथः, पुं, (कुथ्यते पूतित्वं गम्यते अनेन । कुथ्

पूतित्वे + करणे घञ् ।) नेत्ररोगभेदः । कथो
इति भाषा । (कुथ्यति गुदं क्षिणोति । कुथ्
कर्त्तरि अच् । गुह्यक्षयकारकभगन्दर रोग-
विशेषः । यथा, सुश्रुते ।
“मूढेन मांसलुब्धेन यदस्थिशल्यमन्नेन सहाभ्यव-
हृतं यदावगाढपुरीषोन्मिश्रमपानेनाधः प्रेरितं
असम्यगागतं गुदं क्षिणोति तत्र क्षतनिमित्तः
कोथ उपजायते” । भावे घञ् । गलनम् । यथा,
तत्रैव ।
“तस्मिन् क्षते पूयरुधिरावकीर्णमांसकोथे
भूमाविव जलसिक्तायां कृमयो जायन्ते” ॥)
शटिते मथिते च त्रि । इति मेदिनीकर-
हेमचन्द्रौ ॥

कोदण्डं, क्ली, (कु शब्दे + विच् । कौः शब्दायमानो

दण्डोऽस्य ।) धनुः । इत्यमरः । २ । ८ । ८३ ॥
(यथा, भागवते ३ । २१ । ५२ ।
“विस्फूर्ज्जच्चण्डकोदण्डो रथेन त्रासयन्नघान्” ॥)

कोदण्डः, पुं, (कोदण्डं धनुः तत्सदृशमाकारो विद्यते

अस्य । अर्श आदित्वादच ।) भ्रूः । जनपदविशेषः ।
इति मेदिनी ॥

कोद्रवः, पुं, (कु + विच् । कौः सन् द्रवतीति । द्रु +

अच् । द्रवः । कौ र्द्रव इति कर्म्मधारयः । केन
वायुना द्रवति वा पृषोदरात् पूर्ब्बस्य ओकारा-
देशे साधुः ।) धान्यविशेषः । कोदो इति भाषा ।
तत्पर्य्यायः । कोरदूषः २ । इत्यमरः । २ । ९ । १३ ॥
कुद्रवः ३ । इति तट्टीका ॥ कुद्दालः ४ मदनाग्रकः
५ कोर्द्रवः ६ कोरदुष्कः ७ । इति शब्दरत्नावली ॥
पृष्ठ २/२०३
(यथा श्रुतौ । “अयज्ञिया वै कोद्रवाः” ॥) आप च ।
“कोद्रवः कोरदूषः स्यादुद्दालो वनकोद्रवः ।
कोद्रवो वातलो ग्राही हिमः पित्तकफापहः ।
उद्दालस्तु भवेदुष्णो ग्राही वातकरो भृशम्” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् ।
तिक्तत्वम् । व्रणिनां पथ्यकारकत्वम् । कफपित्त-
हरत्वम् । रूक्षत्वम् । मोहकारित्वम् । नूतनस्य
तु गुरुत्वञ्च । इति राजनिर्घण्टः ॥ परमग्राहि-
त्वम् । वातलत्वम् । इति राजवल्लभः ॥

कोपः, पुं, (कुप्यते इति । कुप् + भावे घञ् ।)

क्रोधः । इत्यमरः । १ । ७ । २६ ॥
(यथा, विष्णुपुराणे १ । ११ । १३ ।
“वत्स ! कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति” ॥)

कोपक्रमं, क्ली, (उपक्रम्यते आरभ्यते यत् तत्

उपक्रमं सृष्टादिकम् । उप + क्रम् + कर्म्मणि
घञ् । कस्य ब्रह्मणः उपक्रमं सृष्टिः ।) ब्रह्मणः
सृष्टिः । इत्यमरटीकायां रायमुकुटः ॥ (कोपेन
क्रम्यते इति । यद्वा, कोपस्य क्रमः उद्योगोऽस्य ।)
कोपयुक्ते, त्रि ॥

कोपनः, त्रि, (कुप् + युच् ।) कोपविशिष्टः । इति

जटाधरः ॥ (यथा, महाभारते १ । २९ । १६ ।
“आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्” ॥
पुं, बलिवंशीयः कोपनो नामासुरः ।
यथा, हरिवंशे । ४१ । ८४ ।
“शरभः शलभश्चैव कुपनः कोपनः क्रथः” ॥
क्लीं, कुप् + णिच् भावे ल्युट् । दोषविकारकारक-
व्यापारविशेषकोपनिष्पादनम् । यथा, महा-
भारते अनुगीतायाम् । १४ । १७ । १३ ।
“स्वदोषकोपनाद्रोगं लभते मरणान्तिकम् ।
अपि वोद्बन्धनादीनि परीतानि व्यवस्यति” ॥)

कोपनकः, पुं, (कोपनः कोपशील इव कायति

प्रकाशते । कै + कः ।) चोरकनामगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥

कोपना, स्त्री, (कुप्यतीति । कुप् + ताच्छील्ये युच् +

टाप् ।) कोपवती । तत्पर्य्यायः । भामिनी २ ।
इत्यमरः । २ । ६ । ४ ॥ चण्डी ३ । इति जटा-
धरः ॥ भीमा ४ । इति शब्दरत्नावली ॥ (यथा,
कुमारे । ३ । ८ ।
“कयासि कामिन् सुरतापराधात्
पादानतः कोपनयावधूतः ।
तस्याः करिष्यामि दृढानुतापं
प्रवालशय्याशरणं शरीरम्” ॥)

कोपलता, स्त्री, (कोपहेतुर्लता ।) कर्णस्फोटालता ।

इति राजनिर्घण्टः ॥

कोपी, [न्] त्रि, (अवश्यं कुप्यति इति आवश्यके

णिनिः ।) क्रोधनः । इत्यमरः । ३ । १ । ३२ ॥
(यथा, मार्कण्डेये २८ । २९ ।
“सर्व्वसङ्गंपरित्यागो ब्रह्मचर्य्यमकोपिता ।
यतेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम्” ॥)
जलपारावते, पुं, । इति राजनिर्घण्टः ॥

कोमलं, क्ली, (कौति शब्दायते वाष्वादियोगेन स्रोतो-

वेगेन वा । कु शब्दे वृषादित्वात् कलच् तस्य मुट्
च । बाहुलकात् गुणः ।) जलम् ॥ इति मेदिनी ॥

कोमलः, त्रि, (कमु कान्तौ + बाहुलकात् कलच्

अत उत्वं गुणश्च ॥) अकठिनः । नरम इति भाषा ।
तत्पर्य्यायः । सुकुमारः २ मृदुलः ३ मृदुः ४ ।
इत्यमरः । ३ । १ । ७८ । पेलवः ५ । इति जटा-
धरः ॥ मनोज्ञः । इति शब्दरत्नावली ॥
(यथा, रघुः । ९ । ३५ ।
“श्रुतिसुखभ्रमरस्वनगीतयः
कुसुमकोमलदन्तरुचो वभुः ।
उपवनान्तलताः पवनाहतैः
किसलयैः सलयैरिव पाणिभिः” ॥)

कोमलकं, क्ली, (कोमल + संज्ञायां कन् ।) मृणालम् ।

इति शब्दचन्द्रिका ॥ (स्वार्थे कन् । जलम् ॥)

कोमला, स्त्री, (कोमल + स्त्रियां टाप् ।) क्षीरिका ।

इति शब्दचन्द्रिका ॥ (वृत्त्यनुप्रासघटकवृत्तिभेदः ।
क्षीरिकाशब्देऽस्य विवरणं ज्ञेयम् ॥)

कोमासिका, स्त्री, (कु ईषत् उमा अतसीवृक्षः स

इव आस्ते । आस् + ण्वुल् + टाप् अत इत्वम् ।
कोः कादेशः ।) जालिका । इति हारावली ॥
फंलेर जालि इति भाषा ॥

कोयष्टिः, पुं, (कं जलं यष्टिरिवास्य पृषोदरात् अत

उत्वे गुणत्वे च साधुः ।) जलकुक्कुभपक्षी । इति
त्रिकाण्डशेषः ॥ (यथा, मनौ । ५ । १३ ।
“प्रतुदान् जालपादांश्च कोयष्टिनखविष्किरान्” ॥)

कोयष्टिकः, पुं, (कोयष्टि + संज्ञायां कन् ।) पक्षि-

भेदः । कोँडापक्षी इति भाषा । इत्यमरः । २ ।
५ । ३५ ॥

कोरकः, पुं, (कुल संस्त्याने + कर्त्तरि ण्वुल् । लस्य

रत्वम् ।) कलिका । इत्यमरः । २ । ४ । १६ ॥
(“कलिका कोरकः पुमान्” इत्यमरवाक्यं प्रायिका-
भिप्रायेण इति बोध्यम् । यतः “कोरकं कुट्मलेऽपि-
स्यात् कक्कोलकमृणालयोरिति” “कोरकोऽस्त्री
कुट्मले स्यादिति” च विश्वमेदिनीकाराभ्यामुक्तम् ॥)

कोरकः, पुं क्ली, (कुल् + ण्वुल् । लस्य रः ।) मुकुलम् ।

(यथा, माघे । ७ । २६ ।
“मरुदवनिरुहां रजोवधूभ्यः
समुपहरन् विचकार कोरकाणि” ॥)
कक्कोलकम् । मृणालम् । इति मेदिनी ॥ चोर-
नामगन्धद्रव्यम् । इति जटाधरः ॥

कोरङ्गी, स्त्री, (कुरति कोरङ्गीत्याख्यां गच्छतीति-

कुर् + अङ्गच् गौरादित्वात् ङीष् ।) सूक्ष्मैला । इत्य-
मरः । २ । ४ । १२५ ॥ (अस्याः पर्य्यायाः यथा,
“सूक्ष्मोपकुञ्चिका तुच्छा कोरङ्गी द्राविडीगुटिः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पिप्पली । इति राजनिर्घण्टः ॥

कोरदूषः, पुं, (कोलं संस्त्यानं दूषयति । दूष् + णिच्

“कर्म्मण्यण्” । ३ । २ । १ । इत्यण् । लस्य रत्वम् ।)
कोद्रवः । इत्यमरः । २ । ९ । १६ ॥ (यथा, महा-
भारते । ३ । १९० । १८--१९ ।
“ईदृशो भविता लोको युगान्ते पर्य्युपस्थिते ।
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकः ।
भार्य्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये” ॥
अस्य गुणा यथा, --
“स कोरदूषः श्यामाकः कषायमधुरो लघुः ।
वातलः कफपित्तघ्नः शीतसंग्राहि शोषणः” ॥
इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम् ॥)

कोलं, क्ली, (कुल् अच् गौरादित्वात् ङीष् । कोली तस्याः

फलमित्यण् तस्य लुक् “लुक्तद्धितलुकि” । १ । २ ।
४९ । इति ङीषो लुक् ।) वदरीफलम् । तत्पर्य्यायः ।
कुवलम् २ फेनिलम् ३ सौवीरम् ४ वदरम् ५ घोण्टा
६ । इत्यमरः । १ । ४ । ३६ ॥ पिच्छिलम् ७ स्वादु-
फलम् ८ वदरीफलम् ९ । इति शब्दरत्नावली ॥
कोकिलम् १० । इति जटाधरः ॥ अपि च ।
“पुंसि स्त्रियाञ्च कर्कन्धुर्वदरीकोलमित्यपि ।
फेनिलं कुवलं घोण्टा सौवीरं वदरञ्च तत् ॥
अजाप्रिया कुहा कोलिविषमो भयकण्टकः” ॥
अथ वदरविशेषाणां लक्षणानि गुणाश्च ।
“पच्यमानं सुमधुरं सौवीरं वदरं महत् ।
सौवीरं वदरं शीतं भेदनं गुरु शुक्रलम् ॥
वृंहणं पित्तदाहास्रक्षयतृष्णानिवारणम् ।
सौवीराल्लघु संपक्वं मधुरं कोलमुच्यते ॥
कोलन्तु वदरं दाहि रुच्यमुष्णञ्च वातहृत् ।
कफपित्तकरं चापि गुरु सारकमीरितम् ॥
कर्क्कन्धुः क्षुद्रवदरं कथितं पूर्ब्बसूरिभिः ।
अम्लं स्यात् क्षुद्रवदरं कषायं मधुरं मनाक् ॥
स्निग्धं गुरु च तिक्तञ्च वातपित्तापहं स्मृतम् ।
शुष्कं भेद्यग्निकृत् सर्व्वं लघु तृष्णाक्लमास्रजित्” ॥
इति भावप्रकाशः ॥ वदरादिद्वयं शृगालकोलौ ।
वदरीसदृशा घोण्टा शृगालकोलिः । यदुक्तम् ।
“वदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् ।
अटव्यामेव सा घोण्टा गोपघोण्टेति चोच्यते” ॥
इति सुभूतिः ॥
“हस्तिकोलिर्गोपघोण्टा घोण्टा च वदरीच्छदा ।
शृगालकोलिः कर्कन्धुः” इति । रत्नकोषः ॥ केचित्तु
कोलादित्रयं वदरीफले सौवीरादित्रयं शृगाल-
कोलावित्याहुः ॥ स्वामी तु “कर्कन्धुर्वदरी कोलि-
र्घोण्टा कुवलफेनिलौ । सौवीरं वदरं कोलम्” ॥
इति पठति । तत्राद्यास्त्रयो वृक्षार्थाः अन्ये फलार्था
घोण्टा तूभयस्पृगिति व्याचष्टे । “सौवीरं वदरं
कोलं वदरीणां फलं मतम्” । इति कोषान्तरञ्च ।
इति भरतः ॥ * ॥ अस्य गुणः । अम्लत्वम् । वायु-
कफनाशित्वञ्च ॥ पक्वस्यास्य गुणाः । वायुपित्त-
नाशित्वम् । स्निग्धत्वम् । सुमधुरत्वम् । सारकत्वञ्च ॥
शुष्कस्यास्य गुणः । कफवायुनाशित्वम् । पित्तविरोधि-
त्वञ्च ॥ पुरातनस्यास्य गुणाः । श्रमतृष्णानाशित्वम्
स्निग्धत्वम् । लघुत्वञ्च ॥ अस्य मज्जगुणः । मधुर-
त्वम् । पित्तच्छर्द्दितृष्णानाशित्वञ्च । इति राज-
वल्लभः ॥ * ॥ तोलकपरिमाणम् । इति वैद्यक-
परिभाषा ॥ (यथा, चरके कल्पस्थाने १२ अः ।
“शाणौ द्वौ द्रंक्षणं विद्यात् कोलं वदरमेव च” ॥)
मरिचम् । इति राजनिर्घण्टः ॥ चव्यम् । इति
वैद्यकम् ॥

कोलः, पुं, (कोलति कामपि बाधां न मत्वैव शत्रुं प्रति-

धावतीति । कुल + अच् ।) शूकरः । (कोलति प्लवते
पृष्ठ २/२०४
जले इति ।) प्लवः । इत्यमरः । १ । १० । ११ ॥ भेला
माड इत्यादि भाषा । अङ्कपालिः । शनिः । चित्रम् ।
चिता इति भाषा । (कोलन्ति आलिङ्गन्त्यङ्गान्यत्र ।
कुल + अधिकरणे हलश्चेति घञ् ।) क्रोडम् ।
इति मेदिनी । देशविशेषः । इति शब्दरत्नावली ॥
अस्त्रभेदः । इति धरणी ॥ वर्णसङ्करजातिविशेषः ।
(यथा, हरिवंशे । ३२ । १२३ ।
“पाण्ड्यश्च केरलश्चैव कोलश्चोलश्च पार्थिव ! ।
तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः” ॥)
स तु लेटात् तीवरकन्यायां जातः । इति ब्रह्म-
वैवर्त्तपुराणम् ॥ श्मश्रुधारिम्लेच्छजातिविशेषः ।
स च पूर्ब्बं क्षत्त्रिय आसीत् सगरराजेनासौ
वेदयागादावनधिकारी कृतः । एतद्विवरणं हरि-
वंशेः १४ अध्याये द्रष्टव्यम् ॥
(अयन्तु कोलः यजातिवंशीयस्य राज्ञो दुष्मन्तस्य
पौत्त्रेष्वन्यतमः ॥ इदानीं पार्व्वत्यः असभ्यजाति-
विशेषः । उत्कलदेशादुत्तरभागे ह्यस्य वसतिः ।
इयन्तु कोलजातिः सत्यप्रिया सरलप्रकृतिः
आतिथ्यसत्कारप्रिया चेति उच्यते ॥)

कोलकं, क्ली, (कोल् + संज्ञायां कन् । कुल् + कृञादि

त्वात् वुन् वा ।) गन्धद्रव्यविशेषः । काँकला
इति भाषा । मरिचम् । इत्यमरः । २ । ९ ।
३६ ॥

कोलकः, पुं, (कुल् + कर्त्तरि ण्वुल् कृञादित्वात्

वुन् वा ।) अङ्कोठवृक्षः । इति राजनिर्घण्टः ॥
बहुवारवृक्षः । इति जटाधरः ॥

कोलकन्दः, पुं, (कोल इव कन्दोऽस्य ।) महाकन्द-

विशेषः । तत्पर्य्यायः । कृमिघ्नः २ पञ्जलः ३ वस्त्र-
पञ्जलः ४ पुटालुः ५ सुपुटः ६ पुटकन्दः ७ । अस्य
गुणाः । कटुत्वम् । उष्णत्वम् । क्रमिदोषनाशित्वम् ।
वान्तिविच्छर्द्दिशमनत्वम् । विषदोषनिवारणत्वञ्च ।
इति राजनिर्घण्टः ॥

कोलकर्कटिका, स्त्री, (कोल इव कर्कटिका ।) मधु-

खर्ज्जूरिका । इति राजनिर्घण्टः ॥

कोलदलं, क्ली, (कोलं वदरीफलं तद्वत्दलमस्य ।)

नखीनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १३० ॥
(नखीशब्देऽस्य गुणादयो ज्ञातव्याः ॥)

कोलनाशिका, स्त्री, (कोलस्य शूकरस्य नाशिका

नाशिनी । नश् + ण्वुल् टाप् अत इत्वम् ।)
वङ्किणीवृक्षः । इति हारावली ॥

कोलपुच्छः, पुं, (कोलस्य शूकरस्य पुच्छ इव पुच्छो-

ऽस्य ।) कङ्कपक्षी । इति हारावली ॥

कोलमूलं, क्ली, (कोलस्य वदरीफलस्य मूलवत् मूल-

मस्य । यद्वा, कोलं वदरीफलमिव मूलमस्य ।)
पिप्पलीमूलम् । इति राजनिर्घण्टः ॥

कोलम्बकः, पुं, (कुल् + बाहुलकात् अम्बच् । ततः

संज्ञायां कन् ।) वीणायाः कायः । इत्यमरः । १ ।
७ । ७ ॥ स तु तन्त्रीदण्डादिसमुदायः शरीरम् ।
अलावुदण्डककुभसमुदायस्तन्त्रीहीन इत्यन्ये ।
इति भरतः ॥

कोलवल्ली, स्त्री, (कोलो वराहः तल्लोमवत् वल्ली ।

वराहलोमतुल्यशूङ्गावत्त्वात् तथात्वम् ।) गज-
पिप्पली । इत्यमरः । २ । ४ । ९७ ॥ चव्यम् । इति
राजनिर्घण्टः ॥ (अस्याः पर्य्याया यथा, --
“चविकायाः फलं प्राज्ञैः कथिता गजपिप्पली ।
कपिवल्ली कोलवल्ली श्रेयसीवशिरश्च सा” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कोलशिम्बी, स्त्री, (कोलस्य शूकरस्य पादाकारा

शिम्बिरस्याः । ततो वा ङीष् ।) लताविशेषः ।
आल्कुसी इति भाषा । तत्पर्य्यायः । कृतफला २
खठ्वा ३ शूकरपादिका ४ काकाण्डोला ५ दधि-
पुष्पा ६ काकाण्डा ७ पर्य्यङ्कपादिका ८ । अस्या
गुणाः । वायुनाशित्वम् । गुरुत्वम् । उष्णत्वम् ।
कफपित्तकारित्वञ्च । इति राजनिर्घण्टः ॥
(तत्पर्य्यायगुणाः । यथा, भावप्रकाशे ।
“कोलशिम्बी कृष्णफला तथा पर्य्यङ्कपालिका ।
कोलशिम्बी समीरघ्नी गुरूष्णा कफवातहृत् ।
शुक्राग्निस्वादकृद्बल्या रुचिकृत् बद्धविड्गुरुः” ॥)

कोला, स्त्री, (कुल् + ज्वलादित्वात् णः ततष्टाप् ।)

कोलिवृक्षः । इति शब्दरत्नावली ॥ पिप्पली ।
(अस्याः पर्य्याया यथा, --
“पिप्पली चपला शौण्डी वैदेही मागधी कणा ।
कृष्णोपकुल्या मगधी कोला स्यात्तिक्ततण्डुला” ॥)
चव्यम् । इति मेदिनी ॥ (अस्याः पर्य्याया यथा, --
“चव्यं तेजोवती कोला नाकुली च विकोषणा” ॥
इति वैद्यकरत्नमालायाम् ॥)

कोलाञ्चः, पुं, देशविशेषः । इति शब्दरत्नावली ॥

तत्र पुरं कान्यकुब्जम् ॥

कोलाहलः, पुं, (कोल एकीभूताव्यक्तशब्दविशेषः तं

आहलति आलिखतीति । हल् विलेखने + अच् ।)
बहुविधदूरगाव्यक्तध्वनिः । तत्पर्य्यायः । कलकलः
२ । इत्यमरः । १ । ६ । २५ ॥ कालकीलः ३ ।
इति शब्दरत्नावली ॥ (यथा, रामायणे । ३ ।
३१ । ४१ ।
“ततो हलहलाशब्दः पुनः कोलाहलो महान् ।
महान् राक्षसनादस्तु पुनस्तूर्य्यरवो महान्” ॥)

कोलिः पुं स्त्री, (कुल् + “सर्व्वधातुभ्य इन्” । उणां

४ । ११७ । इतीन् ।) वृक्षविशेषः । कुलगाछ इति
भाषा । तत्पर्य्यायः । कर्कन्धुः २ वदरी ३ । इत्य-
मरः । २ । ४ । ३६ ॥ कर्कन्धूः ४ वदरः ५ कोली
६ कोला ७ कुवली ८ । इति तट्टीकायां भरतः ॥
कोलः ९ । इति तट्टीका सारसुन्दरी ॥ (यथा,
गारुडे १९४ अध्याये ।
“जातीपत्रं कोलिपत्रं तथाचैव मनःशिला ।
एभिश्चैव कृता वर्त्तिवदराग्नौ महेश्वर ॥
धूमपानं कासहरं नात्र कार्य्या विचारणा” ॥)

कोली, स्त्री, (कोलति पीनत्वेन जायते बर्द्धते वा ।

कुल् + अच् + गौरादित्वात् ङीष् । यद्वा, कोलि
+ वा ङीष् ।) कोलिवृक्षः इत्यमरटीकायां
भरतः ॥ (अस्याः पर्य्याया यथा, --
“पुंसि स्त्रियान्तु कर्कन्धुर्वदरी कोलमित्यपि ।
फेनिलं कुवलं घोटा सौवीरं वदरं महत् ।
अजप्रिया कुहा कोली विषमोभयकण्टका” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
न्यग्रोधादिगणे व्यवहारोऽस्य यथा, --
“कोली कदम्बविरला मधुकं मधूकम्” ॥
इति सूत्रस्थाने पञ्चदशेऽध्याये वाभटेनोक्तम् ॥)

कोल्या, स्त्री, (कोलमर्हतीति यत् ।) पिप्पली ।

इति रत्नमाला ॥

कोविदः, त्रि, (कुङ् शब्दे विच् कौः वेदः तं वेत्ति

जानातीति । विद् + “इगुपधेति” । ३ । १ । ११५ ।
इति कः ।) पण्डितः । इत्यमरः । २ । ७ । ५ ॥
(यथा, भागवते । १ । १२ । २९ ।
“इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।
लब्धोपचितयः सर्व्वे प्रतिजग्मुः स्वकान् गृहान्” ॥)

कोविदारः, पुं, (कुं भुवं विदृणाति विदारयति भूमिं

विदार्य्योद्भवतीत्यर्थः । दॄ + “कर्म्मण्यण्” । ३ ।
२ । १ । इति अण् । ततः पृषोदरात् साधुः ।)
रक्तकाञ्चनवृक्षः । तत्पर्य्यायः । चमरिकः २ कुद्दालः
३ युगपत्रकः ४ । इत्यमरः । ३ । ४ । २२ ॥
काञ्चनारः ५ कणकारकः ६ कान्तपुष्पः ७ करकः
८ कान्तारः ९ यमलच्छदः १० काञ्चनालः ११
ताम्रपुष्पः १२ कुदारः १३ रक्तकाञ्चनः १४ । इति
जटाधरः ॥ विदलः १५ । इति शब्दरत्नावली ॥
अपि च ।
“काञ्चनालः काञ्चनको गण्डारिः शोणपुष्पकः” ॥
अथ कचनारभेदः ।
“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।
कुण्डली ताम्रपुष्पश्चाश्मान्तकः स्वल्पकेशरी ॥
काञ्चनालो हिमो ग्राही तुवरः श्लेष्मपित्तनुत् ।
कृमिकुष्ठगुदभ्रंशगण्डमालाव्रणापहः ॥
कोविदारोऽपि तद्वत्स्यात् तयोः पुष्पंलघु स्मृतम् ।
रूक्षं संग्राहि पित्तास्रप्रदरक्षयकासनुत्” ॥
इति भावप्रकाशः । अस्य गुणाः । कषायत्वम् ।
संग्राहित्वम् । व्रणरोपणत्वम् ॥ दीपनत्वम् ।
कफवातमूत्रकृच्छ्रनाशित्वञ्च । इति राजनिर्घण्टः ॥
तत्पुष्पगुणाः । धारकत्वम् । रुचिकारित्वम् ।
रक्तपित्तरोगे सुपथ्यत्वञ्च । इति राजवल्लभः ॥
(यथा, पाकशास्त्रे ।
“कोविदारकलिकांतिकोमला
तक्रसिद्धतिलतैलपाचिता ।
हिङ्गुवासकसुवासवासिता
वेसवारलुलितातिलोभदा” ॥
पारिजातः । हरिवंशे कोविदारस्य व्युत्पत्ति-
कथने एतद्विवृतिर्यथा । १२४ । ७०-७१ ।
“कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः ।
कोविदार इति ख्यातस्ततः स मुमहातरुः ॥
मन्दारः कोविदारश्च पारिजातश्च नामभिः ।
स वृक्षो ज्ञायते दिव्यो यस्यैतत् कुसुमोत्तमम्” ॥)

कोशः, पुं, (कुश्यते संश्लिष्यते । कुश संश्लेषणे +

घञकर्त्तरि चेति अधिकरणादौ घञ् ।) अण्डम् ।
इति शब्दरत्नावली ॥ कुष्यते आकृष्यते आय-
स्थानेभ्यः कोषः । कुष ग निष्कर्षे घञ् कोषो
मूर्द्धन्यान्तः तालव्यान्त इत्यन्ये । इति भरतः ।
कृताकृतं हेमरूप्यम् । तत्पर्य्यायः । हिरण्यम्
२ । इत्यमरः । २ । ९ । ९१ ॥ कृताकृतं हेम-
पृष्ठ २/२०५
रूप्यञ्च मिलितं प्रत्येकञ्च कोशादिद्वयवाच्यम् ।
कृतमावर्त्तितं अकृतमाकरोत्थं चूर्णं घटिताघ-
टितमिति स्वामी ॥ कृतमाभरणीकृतं अकृतं
चूर्णादिरूपमाकरोत्थमिति केचित् । (आवरण-
विशेषः । यथा, भागवते । २ । १ । ३४ ।
“अव्यक्तमाहुर्हृदयं मनश्च
स चन्द्रमाः सर्व्वविकारकोशः” ॥
मुकुलम् । यथा, रघौ । ३ । ८ ।
“तिरश्चकार भ्रमराभिलीनयोः
सुजातयोः पङ्कजकोशयोः श्रियम्” ॥)

कोशकारः, पुं, (कोशं करोति त्वक्पत्रादिभि-

रात्मानमाच्छादयति । कोश + कृ + अण् ।) इक्षुः ।
इति शब्दरत्नावली ॥ मूर्द्धन्यमध्योऽप्ययम् ॥
(कोशं करोति स्वमुखलालारूपतन्तुभिरात्मान-
मावृणोतीति । कीटविशेषः । गुटिपोका इति
भाषा । यथा, भागवते । ६ । १ । ५२ ।
“कोशकार इवात्मानं कर्म्मणाछाद्य मुह्यति” ॥)

कोशफलं, क्ली, (कोशे फलं वीजं अस्य ।) कक्कोलकम् ।

इत्यमरः । २ । ६ । १३० । (कक्कोलकशब्देऽस्य
विवरणं ज्ञेयम् ॥)

कोशफला, स्त्री, (कोशे फलं यस्याः ।) महाकोशा-

तकी । अपुषी । इति राजनिर्घण्टः ॥

कोशलः, पुं स्त्री, (कुश् + “वृषादित्वात्” उणां । १ ।

१०८ । कलः बाहुलकात् गुणः ।) अयोध्यानगरी ।
इति शब्दमाला उणादिकोषश्च । मूर्द्धन्यमध्यो-
ऽप्ययम् । (यथा, रामायणे । १ । ५ । ५ ।
“कोशलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान्” ॥)

कोशलात्मजा, स्त्री, (कोशलस्य कोशलनृपतेरात्मजा

दुहिता ।) कौशल्या । सा तु श्रीराममाता दश-
रथराजपत्नी च । इति शब्दरत्नावली ॥

कोशलिकं, क्ली, (कुशलाय कर्म्मणे हितजनककार्य्य-

सिद्ध्यर्थमिति भावः दीयते यत् । कुशल + ठक्
निपातनात् पूर्ब्बस्य ओकारत्वम् ।) उत्कोचः । इति
हेमचन्द्रः । घुष इति भाषा । मूर्द्ध्वन्यमध्योऽप्ययम् ॥

कोशाङ्गं, क्ली, (कोश इव अङ्गमस्य ।) इत्कटः । इति

हारावली ॥ ओकडा इति भाषा ॥ मूर्द्धन्यमध्यो-
ऽप्ययम् ॥

कोशातकः, पुं, (कोशं शिरःकोशं अतति गच्छति

सातत्येन प्राप्नोतीति । अत + क्वुन् ।) कचः । इति
विश्वमेदिन्यौ ॥ (कोशं वेदात्मकमाकरमतति प्राप्नो
तीति वाक्ये । यजुर्वेदीयशाखाविशेषः । कठवल्ली
उपनिषद् ॥)

कोशातकी, स्त्री, (कोशं अततीति । अत + क्वुन् ।

ततः कोशातक + गौरादित्वात् ङोष् ।) पटोली ।
घोषकः । इति मेदिनी ॥ फलशाकविंशेषः ।
झिङ्गा इति भाषा । तत्पर्य्यायः । कृतच्छिद्रा २
जालिनी ३ कृतवेधना ४ क्ष्वेडा ५ सुतिक्ता ६
घण्टाली ७ मृदङ्गफलिनी ८ कर्कशच्छदा ९ ।
अस्या गुणाः । शिशिरत्वम् । कटुत्वम् ॥ कषा-
यत्वम् । पित्तवातकफनाशित्वम् । मलाध्मानविशो-
धनत्वञ्च । इति राजनिर्घण्टः ॥ मूर्द्धन्यमध्योऽप्य-
यम् । महाकोशातकी । राजकोशातकी । यथा ।
अथ नेनुआ ।
“महाकोशातकी प्रोक्ता हस्तिघोषा महाफला ।
धामार्गवो घोषकश्च हस्तिपर्णश्च स स्मृतः ॥
महाकोशातकी स्निग्धा सरा पित्तानिलापहा” ॥
अथ तोरै ।
“धामार्गवो पीतपुष्पो जालिनी कृतवोधना ।
राजकोशातकी चेति तथोक्ता राजिमत्फला ॥
राजकोशातकी शीता मधुरा कफवातला ।
पित्तघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत्” ॥
इति भावप्रकाशः ॥ (अस्या गुणा यथा, --
“कोशातकी फलं स्वादु मधुरं वातपित्तनुत् ।
विपाके च कफं हन्ति ज्वरे शस्तं प्रदिश्यते” ॥
इति हारीते प्रथमस्थाने १० अध्याये ॥)

कोशातकी, [न्] पुं, (कोशातकोऽस्यास्तीति । इनिः ।)

वाणिज्यम् । वणिक् । वाडवाग्निः । इति विश्वः ॥

कोशाम्रः, पुं, (कोशे + आम्र इव फलमस्य ।) फल-

वृक्षविशेषः । कोशाम इति भाषा । तत्पर्य्यायः ।
कृमिवृक्षः २ सुकेशकः ३ । इति भावप्रकाशः ॥
घनस्कन्धः ४ वनाम्रः ५ जन्तुपादपः ६ क्षुद्राम्रः ७
रक्ताम्रः ८ लाक्षावृक्षः ९ सुरक्तकः १० । अस्य
गुणः । कुष्ठशोथास्रपित्तव्रणकफापहत्वम् । तत्-
फलगुणाः । ग्राहित्वम् । वातघ्नत्वम् । अम्लत्वम् ।
उष्णत्वम् । गुरुत्वम् । पित्तदत्वञ्च । इति भाव-
प्रकाशः ॥ कफार्त्तिप्रदत्वम् । विदाहित्वम् विशोफ-
कारित्वञ्च ॥ पक्वस्य तस्य गुणः । मधुरत्वम् ।
अम्लत्त्वञ्च ॥ पट्वादियुक्तस्य तस्य गुणः । दीपनत्वम् ।
रुचिपुष्टिबलकारित्वञ्च । तत्तैलस्य गुणाः । सार-
कत्वम् । कृमिकुष्ठव्रणापहत्वम् । अम्लमधुरत्वम् ।
बल्यत्वम् । पथ्यत्वम् । रोचनत्वम् । पाचनत्वञ्च ।
इति राजनिर्घण्टः ॥ (रोगविशेषेऽस्य व्यवहारो
यथा, सुश्रुते चिकित्सितस्थाने ९ अध्याये ॥
“कारञ्जं वा सार्षपं वा क्षतेषु
क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा” ॥)

कोशिला, स्त्री, (कोशः कोश इव पदार्थो वा अस्याः

अस्तीति । कोश + पिच्छादित्वात् इलच् ।) मुद्ग-
पर्णी । इति राजनिर्घण्टः ॥

कोशी, स्त्री, (कुश् संश्लेषे + अच् गौरादित्वात्

ङीष् ।) उपानत् । जुता मोजा इति च भाषा ।
तत्पर्य्यायः । पन्न ध्री २ पादविरजाः ३ पादरथी ४ ।
इति हारावली ॥ शुङ्गा । इति हेमचन्द्रः । धा-
न्यादिर शुँया इति भाषा ॥

कोषः, पुं क्ली, (कुष्यन्ते आकृष्यन्ते फलपुष्पोत्पादक-

मधुमयपरागादयो यस्मिन् । कुष् ग निष्कर्षे +
घञकर्त्तरि चेति अधिकरणे घञ् ।) कुद्मलः ।
कुँडि इति भाषा । खङ्गपिधानम् । खाप इति
भाषा । (यथा, महाभारते । ४ । ४० । १३-१५ ।
“कस्यायं विपुलः खङ्गो गव्ये कोषे समर्पितः ।
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः ॥
कस्य पाञ्चनखे कोषे शायको हेमविग्रहः ।
प्रमाणरूपसम्पन्नः पीत आकाशसन्निभः ॥
कस्य हेममये कोषे सुतप्ते पावकप्रभे ।
निस्त्रिंशोऽयं गुरुः पीतः शैक्यः परमनिर्व्रणः” ॥)
अर्थसमूहः । (यथा, रघौ । ५ । १ ।
“तमध्वरे विश्वजिति क्षितीशं
निःशेषविश्राणितकोषजातम्” ॥)
दिव्यम् । (यथा, राजतरङ्गिण्यां । ५ । ३३५ ।
“ततो निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि ।
कोषं चक्रतुरन्योऽन्यं सखड्गौ नृपडामरौ” ॥)
अण्डम् । कृताकृतं हेमरूप्यम् । इत्यमरः । २ ।
९ । ९१ । अस्य विवरणं तालव्यान्ते द्रष्टव्यम् ।
पात्रम् । जातीकोषः । जायफल इति भाषा ।
(जातीपत्री । जयित्री-अर्थे व्यवहारो । यथा,
गर्भचिन्तामणिरसे ।
“रसं तालं तथा लौहं प्रत्येकं कर्षमात्रकम् ।
कर्षद्वयन्तथाचाभ्रं कर्पूरं वङ्गताम्रकम् ॥
जातीफलं तथा कोषं गोक्षुरञ्च शतावरीम् ।
बलातिबलयोर्मूलं प्रत्येकं तोलकं शुभम् ॥
वारिणा वटिका कार्य्या द्विगुञ्जा फलमानतः ।
सन्निपातं निहन्त्याशु स्त्रीणाञ्चैव विशेषतः ॥
गर्भिण्या ज्वरदाहञ्च प्रदरं सूतिकामयम्” ॥
इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे स्त्रीरोगाधि-
कारे ॥) शब्दादिसंग्रहः । इति मेदिनी । (यथा,
अमरकोषः ॥) भाण्डागारम् । पानपात्रचषकः ।
योनिः । शिम्बा । इति हेमचन्द्रः ॥ पनसादिफल-
स्यान्तः । इति धरणी ॥ शब्दान्तरसंयोगे गोलक-
वाचकः । यथा सूत्रकोषः नेत्रकोष इत्यादि । प्रत्य-
मरटीकायां स्वामी ॥ धनसंहतिः । इति जटाधरः ॥
(यथा, मार्कण्डेयपुराणे देवीमाहात्म्ये ।
“कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः” ॥)
तत्सञ्चयगुणाः ।
“कोषो महीपतेर्जीवो न तु प्राणाः कथञ्चन ।
द्रव्यं हि राजा भूपस्य न शरीरमिति स्थितिः ॥
धर्म्महेतोः सुखार्थाय भृत्यानां भरणाय च ।
आपदर्थञ्च संरक्ष्यः कोषः कोषवता सदा ॥
धनात् कुलं प्रभवति धनाद्धर्म्मः प्रवर्त्तते ।
नाधनस्य भवेद्धर्म्मः कामश्चैव कथञ्चन ॥
अधर्म्मान्न धनं कुर्य्यात्तद्धनं गृह्यते परैः ।
स्वयं पापस्य पात्रं स्यात् सिंहो हस्तिवधादिव ॥
तादात्मिको मूलहरः कदर्य्यस्त्रिविधोऽर्जकः ।
उत्पन्नार्थव्ययकरो यो भविष्यद्धनाशया ॥
स तादात्मिक आख्यातः कल्याणी तस्य नायतिः ।
यः पित्राद्यर्ज्जितं वित्तमन्यायेन तु भक्षयेत् ॥
स मूलहर आख्यातस्तदुदर्कोऽपि चाशुभः ।
स कदर्य्यस्तु भृत्यात्मपीडनैरर्थसञ्चयी ॥
तद्धनं राजदायादतस्कराणां निधिर्भवेत् ।
भिक्षा च राजकोषश्च स्तोकस्तोकेन वर्द्धते ॥
अञ्जनञ्च धनञ्चैव स्तोकस्तोकेन हीयते ।
कोवस्य साधनोपायो मुख्यं राष्ट्रमिति स्मृतम् ॥
भूगुणेर्वर्द्धते राष्ट्रं तद्वृद्धिर्नृपवृत्तता ।
राज्ञोपायेन संरक्ष्या ग्रामे ग्रामे कृषीतलाः ॥
तेभ्यः कृषिस्ततश्चार्था अर्थेभ्यः सर्व्वसम्पदः ।
शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ॥
तथा वर्षेषु वर्षेषु कर्षणात् भूगुणक्षयः ।
पृष्ठ २/२०६
एकस्यां गुणहीनायां कृषिमन्यत्र कारयेत्” ॥
इति युक्तिकल्पतरुः ॥ * ॥ (वेदान्तशास्त्रोक्तस्थूल-
सूक्ष्मादिभेदेन शरीरत्रयावच्छिन्नः अन्नमयः प्राण-
मयः मनोमयः विज्ञानमयः आनन्दमयश्च इत्येते
पञ्च कोषवदाच्छादकत्वादात्मनः कोषतयोच्यन्ते ।
यथा, पञ्चदश्यां ३ । १-११ ।
“गुहाहितं ब्रह्म यत्तत् पञ्चकोषविवेकतः ।
बोद्धुं शक्यं ततः कोषपञ्चकं प्रविविच्यते ॥
देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः ।
ततः कर्त्ता ततो भोक्ता गुहा सेयं परम्परा ॥
पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वर्द्धते ।
देहः सोऽन्नमयो नात्मा प्राक्चोर्द्ध्वं तदभावतः ॥
पूर्ब्बजन्मन्यसत्वे तज्जन्म सम्पादयेत् कथम् ।
भाविजन्मन्यसत्कर्म्म न भुञ्जीतेह सञ्चितम् ॥
पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्त्तकः ।
वायुः प्राणमयो नासावात्मा चैतन्यवर्ज्जनात् ॥
अहन्तां ममतां देहे गृहादौ च करोति यः ।
कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः ॥
लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा ।
चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् ॥
कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् ।
विज्ञानमनसी अन्तर्व्वहिश्चैते परस्परम् ॥
काचिदन्तर्मुखा वृत्तिरानन्दप्रतिविम्बभाक् ।
पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते ॥
कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् ।
विम्बभूतो य आनन्द आत्माऽसौ सर्व्वदास्थितेः ॥
ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु ।
माभूदात्मत्वभन्यस्तु न कश्चिदनुभूयते” ॥)

कोषकः, पुं, (कोष एव । कोष + स्वार्थे कन् ।)

अण्डम् । अण्डकोषः । इति शब्दरत्नावली ॥

कोषकारः, पुं, (कोषं करोति स्वपत्रत्वगादिभिरा-

त्मानं छादयति । कोष + कृ + “कर्म्मण्यण्” । ३ ।
२ । १ । इति अण् ।) इक्षुः । इति शब्दरत्नावली ॥
इक्षुविशेषः । कुषारि इति भाषा । अस्य गुणाः ।
गुरुत्वम् । शीतत्वम् । रक्तपित्तक्षयापहत्वञ्च ।
इति राजवल्लभः ॥ (कोषं स्ववेष्टनं स्वमुखनिःसृत-
लालारूपतन्तुभिः करोतीति । कृ + अण् ।)
कीटविशेषः । गुटिपोका इति भाषा । तत्प-
र्य्यायः । तन्त्रकीटः २ । इति जटाधरः ॥
(यथा, महाभारते १२ । ३२९ । २९ ।
“अलं परिग्रहेणेह दोषवान् हि परिग्रहः ।
कृमिर्हि कोषकारस्तु बध्यते स्वपरिग्रहात्” ॥
कोषं अथः सह शब्दसंयोजनरूपग्रन्थविशेषं
करोतीति ।) अभिधानकर्त्ता च । तालव्यमध्यो-
ऽप्ययम् ॥

कोषचञ्चुः, पुं, (कोषः खङ्गकोष इव चञ्चुर्यस्य ।)

सारसपक्षी । इति शब्दमाला ॥

कोषपानं, क्ली, (परीक्षाविशेषार्थं कोषजलस्य प्रसृ-

तित्रयजलस्य पानम् ।) तत्तदितिकर्त्तव्यताकप्रसृ
तित्रयजलपानरूपपरीक्षाविशेषः । यथा, --
अथ कोषविधिः । नारदः ।
“पब्बाह्ण सोपवासस्य स्नातस्यार्द्रपटस्य च ।
संसूचकाव्यसनिनोः कोषपानं विधीयत ॥
इच्छतः श्रद्दधानस्य देवब्राह्मणसन्निधौ ।
मद्यपस्त्रीव्यसनिनां किरातानान्तथैव च ॥
कोषः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ।
महापराधे निर्द्धर्म्मे कृतघ्ने क्लीवकुत्सिते ॥
नास्तिकव्रात्यदासेषु कोषपानं विवर्ज्जयेत् ।
तमाहूयाभिशस्तन्तु मण्डलाभ्यन्तरे स्थितम् ॥
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ।
ऊर्द्ध्वं यस्य हि सप्ताहाद्वैकृतन्तु भहद्भवेत् ॥
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात्” ॥
संसूचक आस्तिक इति मिताक्षरा ॥ महाप-
राधी महापातकी । निर्द्धर्म्मो वर्णाश्रमरहितः ।
कुत्सितः प्रतिलोमजः । दासः कैवर्त्तः । मण्डला-
भ्यन्तरे गोमयकृतमण्डलाम्यन्तरे । वैकृतं रोगादि ।
महन्नाल्पम् । तस्य देहिनामपरिहार्य्यत्वात् ।
तदाह कात्यायनः ।
“अथ दैवविसम्बादे द्विसप्ताहन्तु दापयेत् ।
अभियुक्तं प्रयत्नेन तदर्थं दण्डमेव च ॥
तस्यैकस्य न सर्व्वस्य जनस्य यदि तद्भवेत् ।
रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमश्च सः ॥
ज्वरातिसारविस्फोटगूढास्थिपरिपीडनम् ।
नेत्ररुक् गलरोगश्च तथोन्मादः प्रजायते ॥
शिरोरुग्भजभङ्गश्च दैविका व्याधयो नृणाम्” ॥
गलरोग इत्यत्र शूलरोग इति क्वचित् पाठः ।
द्विसप्ताहन्तु महाभियोगभवविषयम् । महाभि-
योगेष्वेतानीति प्रस्तुत्य चतुर्द्दशकादह्न इति याज्ञ-
वल्क्याभिधानात् । मिताक्षराप्येवम् । यत्तु
“त्रिरात्रात्सप्तरात्राद्वा द्वादशाहात् द्विसप्तकात् ।
वैकृतं यस्य दृश्येत पापकृत् स उदाहृतः” ॥
इति पितामहोक्तं तन्महाभियोगात् कृत्स्नद्र-
व्यादर्व्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्रादि
पक्षत्रयव्यवस्थापनीयमिति मिताक्षरा ॥ तथा ।
“भक्तो यो यस्य देवस्य पाययेत्तस्य तज्जलम् ।
समभावे तु देवानामादित्यस्य तु पाययेत् ॥
दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत्तोयं ब्राह्मणं तन्न पाययेत् ॥
दुर्गायाः स्नापयेच्छूलमादित्यस्य च मण्डलम् ।
अन्येषामपि देवानां स्नापयेदायुधानि च ॥
अत्र, स्वल्पापराधे देवानां स्नापयित्वायुधोदकम् ।
पाय्यो विकारे चाशुद्धो नियम्यः शुचिरन्यथा” ॥
इति कात्यायनोक्तविशेषान्महापराधे देवस्नानो-
दकमिति विषयभेदः । रत्नाकरोऽप्येवम् । मण्डलं
व्योमेति व्यवहारदीपिका ॥ तस्यां विष्णुः । उग्रान्
देवान् समभ्यर्च्च्य तत्स्नानोदकप्रसृतित्रयं पिबेत् ।
इदं मया न कृतमिति व्याहरन्देवतामुख इति ।
एतदनुसारादेवान्यत्र प्रतिज्ञा प्रागुक्ता । तत्र क्रमः ।
प्राड्विवाको गोमयकृतमण्डलाभ्यन्तरे धर्म्मावाह-
नादिसर्व्वदेवतापूजां हवनान्तां निर्व्वर्त्य दक्षिणां
दत्वा समन्त्रकं प्रतिज्ञापत्रं शोध्य शिरसि नि-
धाय यथाविहितं देवं संपूज्य तत्स्नानोदकमानीय ।
ॐताय त्वंप्राणिनां प्राणः सृष्टेराद्यन्तु निर्म्मितम् ।
शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनान्तथा ।
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” ॥
इत्याभ्यामभिमन्त्र्य गोमयकृतमण्डलाभ्यन्तरे स्थितं
सोपवासं स्नातार्द्रवाससमादित्याभिमुखं ॐ
सत्येन मामभिरक्षस्व वरुणेत्यनेन शोध्य पठिते-
नाभिमन्त्रितं प्रसृतित्रयं जलं पाययेत् । ततो
यदि अदधिकालाभ्यन्तरे रोगपीडा न भवति
तदा शुद्ध इति । ततो दक्षिणा देया । इति
दिव्यतत्त्वम् ॥

कोषफलं, क्ली, (कोषे फलमस्य ।) कक्वोलम् । तच्च

कर्पूरतुल्यगन्धद्रव्यविशेषः । इत्यमरटीकायां रमा-
नाथः सारसुन्दरी च ॥

कोषफलः, पुं, (कोषे फलमस्य ।) घोषकलता ।

इति जटाधरः ॥

कोषफला, स्त्री, (कोषफल + अजादित्वात् टाप् ।)

पीतघोषा । इति रत्नमाला ॥ तालव्यमध्यापीयम् ॥
(घोषकशब्देऽस्या विवरणं ज्ञेयम् ॥)

कोषला, स्त्री, (कुश् + वृषादित्वात् कलप्रत्ययः बाहु-

लकाद् गुणः पृषोदराद् षकारादेशः ।) अयोध्या ।
इति शब्दरत्नावली ॥ (सा च सरयूतटस्था-
राजधानी । यथा, मार्कण्डेये । ८ । २४९ ।
“मच्छोकमग्नमनसः कोषलानगरे जनाः ।
तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम्” ॥
परन्तु कोषलदेशो द्विविधः प्राच्योत्तरभेदेन ।
तत्रायोध्यायुक्तदेशस्योत्तरकोषलत्वम् । यथा,
रघुवंशे । ९ । १ ।
“पितुरनन्तरमुत्तरकोषलान्
समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशशास महारथो
यमवतामवताञ्च धुरि स्थितः” ॥
प्राच्यकोषलस्तु राममातामहस्य । तस्य राजा अभि-
जनो वा ष्यञ् बहुषु तस्य लुक् । तद्देशवासिनि ।
यथा, महाभारते । २ । ३१ । १२ ।
“स विजित्य दुराधर्षं भीष्मकं माद्रिनन्दनः ।
कोषलाधिपतिञ्चैव तथा वेण्वास्तटाधिपम् ।
कान्तारकांश्च समरे तथा प्राक्कोषलान् नृपान्” ॥)

कोषवृद्धिः, स्त्री, (कोषस्य अण्डकोषस्य वृद्धिः ।)

कुरण्डः । इति शब्दरत्नावली ॥ (कोषस्य वृद्धि-
रिति विग्रहे अर्थसञ्चयवृद्धिः ॥)

कोषशायिका, स्त्री, (कोषे पिधानमध्ये शेते तिष्ठ-

तीत्यर्थः । कोष + शी + कर्त्तरि ण्वुल् ततष्टाप्
अत इत्वम् ।) छुरिका । इति जटाधरः ॥

कोषातकः, पुं, (कोषाकारं अतति प्राप्नोतीति ।

कोष + अत + क्वुन् ।) केशः । इति जटाधरः ॥
(कोषं गच्छति प्राप्नोति ज्ञानानामाकरत्वात् ।
वेदकठशाखाविशेषः ॥)

कोषातकी, स्त्री, (कोषातक + गौरादित्वात् ङीष् ।)

घोषालता । अस्याः फलगुणः । कफार्शोनाशि-
त्वम् ॥ पक्वफलगुणः । आमाशयशुद्धिकारित्वम् ॥
इति राजवल्लभः ॥ (इयमेव क्वचित् राजपूर्ब्बा
कोषातकीति च ख्याता । यथा, भावप्रकाशे ।
“धामार्गवः पीतपुष्पा जालिनी कृतवेधना ।
राजकोषातकी चेति तथोक्ता राजिमत्फला ॥
पृष्ठ २/२०७
राजकोषातकी शीता मधुरा कफवातला ।
पित्तघ्नी दीपनी श्वासज्वरकासकृमिप्रणुत्” ॥
अस्या व्यवहारो यत्र तद्यथा, --
“कोषातकीनां स्वरसेन नस्यं
तुम्ब्यास्तु वा पिप्पलिसंयुतेन ।
तैलेन वारिष्टभवेन कुर्य्या-
द्वचोपकुल्ये सह माक्षिकेण” ॥
इति वैद्यकचक्रपाणिसंग्रहे गलगण्डाद्यधिकारे ॥)
ज्योत्स्निका । झिङ्गा इति भाषा । ज्योत्स्नावती
रात्रिः । इत्यमरभरतौ ॥ तालव्यमध्यापीयम् ॥

कोषाम्रं, क्ली, (कोषे आम्रफलमिव ।) फलविशेषः ।

केओडा इति भाषा । अस्य गुणाः । कफवायुना-
शित्वम् । अग्निदीपनत्वम् । मलबद्धताकारित्वञ्च ।
इति राजवल्लभः ॥ (क्वचित् पुंलिङ्गोऽपि दृश्यते ।
यथा, भावप्रकाशे ।
“कोषाम्रः कुष्ठशोथास्रपित्तव्रणकफापहः ।
तत्फलं ग्राहि वातघ्नमम्लोष्णं गुरु पित्तलम् ।
पक्वन्तु दीपनं रुच्यं लघूष्णं कफवातहृत्” ॥)
तालव्यमध्यमपीदम् ॥

कोषी, स्त्री, (कुष् + अच् । गौरादित्वात् ङीष् ।)

पादुका । इति शब्दरत्नावली ॥ शुङ्गा । इति
तालव्यान्ते हेमचन्द्रः ॥ शस्येर शुँया इति भाषा ॥

कोषी, [न्] पुं, (कोषोऽस्त्यस्य इति इनिः ।) आम्र-

वृक्षः । इति शब्दमाला ॥

कोष्ठः, पुं, (कुष् ग निष्कर्षे + “उषिकुषिगतिभ्यस्थन्” ।

उणां । २ । ४ । इति थन् ।) कुसूलः । (यथा,
महाभारते । २ । ५ । ६८ ।
“कच्चित् कोषश्च कोष्ठश्च वाहनं द्वारमायुधम् ।
आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः” ॥)
गृहमध्यम् । (यथा, भागवते । ९ । १० । १७ ।
“सा वानरेन्द्रबलरुद्धविहारकोष्ठ-
श्रीद्वारगोपुरसदोभलभीविटङ्का ॥)
कुक्षिमध्यम् । यथा, वैद्यके ।
“स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च ।
हृदूण्डुकः फुष्फुषश्च कोष्ठ इत्यभिधीयते” ॥
“कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महा-
निम्नमामपक्वाशयश्चेति पर्य्यायशब्दैस्तन्त्रे सरोग-
मार्ग आभ्यन्तरः” ॥ “वीसर्पश्वयथुगुल्मार्शो विद्र-
ध्यादयः कोष्ठमार्गानुसारिणो भवन्ति रोगाः” ॥
इति चरके सूत्रस्थाने ११ अध्याये ॥ कोष्ठाङ्गानि
यथा, --
“सप्तचाधाराः रक्तस्यास्य क्रमात् परे ।
कफामपित्तपक्वानां वायोर्मूत्रस्य च स्मृताः ॥
गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे ।
कोष्ठाङ्गानि स्थितान्येषु हृदयं क्लोमफुष्फषम्” ॥
इति च वाभटे शारीरस्थाने ३ अः ॥ पञ्चदश
कोष्ठाङ्गानि तद्यथा, “नाभिश्च हृदयञ्च क्लोम च
यकृच्च प्लीहा च वुक्कौ च वस्तिश्च पुरीषाधार-
श्चामाशयश्चेति पक्वाशयश्चोत्तरगुदञ्चाधरगुदञ्च
क्षुद्रान्त्रञ्च स्थूलान्त्रञ्च वपावहनञ्चेति” । इति च
चरके शारीरस्थाने ७ अध्याये ॥
उदरम् । यथा, भागवते । ६ । १८ । ५३ ।
“पतिं भार्य्योपतिष्ठेत ध्यायेत् कोष्ठगतञ्च तम्” ॥
नाभेरुपरिस्थितमणिपूरपद्मम् । यथा, तत्रैव ।
४ । २३ । १४ ।
“संपीड्य पायुं पाष्णिर्भ्यां वायुमुत्सारयन् शनैः ।
नाभ्यां कोष्ठेष्ववस्थाप्य हृदुरःकण्टशीर्षणि” ॥
प्राकारः । यथा, भागवते । ४ । २८ । ५६ ।
“पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् ।
षट्कुलं पञ्चविपणं पञ्चपृकृति स्त्रीधवम्” ॥
अत्र टीकाचूर्णी त्रिकोष्ठकं त्रिप्राकारमित्याह ॥
तन्त्रोक्तमन्त्रदीक्षाप्रकरणे अकथहादिचक्रचतुः-
पार्श्वस्थितरेखाचतुष्कयुतस्थानभेदः ॥) आत्मीये
त्रि । इति मेदिनी ॥

कोष्णं, क्ली, (कु ईषत् उष्णम् । कोः कादेशः ।)

ईषदुष्णम् । तत्पर्य्यायः । कवोष्णम् २ मन्दोष्णम् ३
कदुष्णम् ४ । तद्वति त्रि । इत्यमरः । १ । ४ । ३५ ॥
(यथा, रघौ । १ । ८४ ।
“भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि ।
प्रस्रवेणाभिवर्षन्ती वत्सालोकप्रवर्त्तिना” ॥)

कोहलः, पुं, (कोहयति विस्मापयतीति । कुहत्क

विस्मापने + बाहुलकात् कलच् । पृषोदरात्
गुणः ।) मद्यभेदः । इति हेमचन्द्रः ॥
(अस्य गुणा यथा, --
“त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः” ॥
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥ * ॥ कौ
पृथिव्यां पार्थिवकोलाहलेन सह हलति स्पर्द्धते
पृषोदरात् ओत्वं ।) वाद्यभेदः । नाट्यशास्त्रप्रवक्ता
मुनिविशेषः । इति मेदिनी ॥ (अयमेव सर्पसत्रे
सदस्य आसीत् । यथा, महाभारते । १ । ५३ । ९ ।
“कोहलो देवशर्म्माच मौद्गल्यः समसौरभः” ॥)

कौकृत्यं, क्ली, (कुत्सितं अज्ञानजन्यं कृत्यं कार्य्यम् ।

तस्मात् भवमित्यण् ।) अनुतापः ॥ (स्वार्थे अण् ।)
अयुक्तकरणम् । इति मेदिनी ॥

कौक्कुटिकः, पुं, (कुक्कटवद्दम्भेन विहरति । यद्वा,

कुक्कुटीं मायां कापट्यादिकं वा पादविक्षेपस्थानञ्च
पश्यति इति । “संज्ञायां ललाटकुक्कुट्टौ पश्यति” ।
४ । ४ । ४६ । इति ठक् ।) दाम्भिकः । अदूरे-
रितेक्षणः । कीटादिवधभीत्या संयतचक्षुः पाद-
निक्षेपदेशदर्शी भिक्षुः । इत्यमरभरतौ ॥ अदूर-
दर्शनशीलः । इति सारसुन्दरी ॥

कौक्कुटिकन्दलः, पुं, (कुक्कुटस्य वह्निस्फुलिङ्गस्यायं

इति इञ् कौक्कुटिः । कौक्कुटिरिव कन्दलः कपालो
यस्य । अस्याग्निस्फुलिङ्गवत् चक्षुष्मत्त्वात् भोगादौ
च स्फुलिङ्गवत् चाकचिक्यत्वात्तथात्वम् ।) सर्प-
विशेषः । वोडासाप इति भाषा । तत्पर्य्यायः ।
भाण्डपुष्पः २ । इति त्रिकाण्डशेषः ॥

कौक्षेयकः, पुं, (कुक्षौ कोषे तिष्ठति इति ढकञ् ।)

खड्गः । इत्यमरः । २ । ८ । ८९ ॥

कौङ्कः, पुं, (कोङ्क + खार्थे अण् ।) देशविशेषः । इति

शब्दरत्नावली ॥ कोकण इति ख्यातः ॥

कौङ्किणः, पुं, (कोङ्कण + खार्थे अण् । ततः पृषोदरा-

दित्वात् इकारः ।) कोङ्कणदेशः ॥ इति शब्द-
रत्नावली ॥

कौञ्चः, पुं, (क्रुञ्च एव स्वार्थे अण् । पृषोदरात् रलोपः ।)

क्रौञ्चपर्व्वतः । इति त्रिकाण्डशेषः ॥

कौञ्जायनः, पुं, (कुञ्जस्य पुमपत्यम् । “गोत्रेकुञ्जादिभ्यश्च

फञ्” । ४ । १ । ९८ । इति फञ् ।) कुञ्जस्य
पुत्त्रादिः । इति । व्याकरणम् ॥

कौञ्जायनी, स्त्री, (कुञ्जस्यापत्यं स्त्री । “गोत्रे कुञ्जा-

दिभ्यश्च फञ्” । ४ । १ । ९८ । इति फञ् । ततः स्त्रियां
ङीष् ।) ब्राह्मणी । इति जटाधरः ॥ कुञ्जस्य स्त्र्यप-
त्यम् । इति मुग्धबोधम् ॥

कौञ्जायन्यः, पुं, (“गोत्रे कुञ्जादिभ्यश्च फञ्” । ४ । १ ।

९८ । इति फञ् । ततः स्वार्थे ञ्य प्रत्ययः ।) कुञ्जस्य
पुमपत्यम् । इति मुग्धबोधम् ॥

कौटः, पुं, (कुटे गिरौ भवः । “तत्र भवः” । ४ ।

३ । ५३ । इत्यण् ।) कुटजवृक्षः । इति भाव-
प्रकाशः ॥ (अस्य गुणादयः कुटजशब्दे दर्शनीयाः ॥
कूटे मायायां भवः अण् । कपटसाक्षी ॥ कूट्यां
वशीकृतमायायां भव इत्यण् । स्वाधीनतन्त्रः ॥
इति व्युत्पत्तिलभ्योऽर्थः ॥)

कौटकिकः, त्रि, (कूटमेव इति स्वार्थे कन् । कूटकं

मांसं पण्यमस्य इति ठञ् ।) मांसिकः । मांस-
विक्रेता । इति शब्दरत्नावली ॥

कौटजः, पुं, (कुटमेव कौटं स्वार्थे अण् । तत्र जायते

इति । “अन्येभ्योऽपीति” । जनेर्डः ।) कुटजवृक्षः ।
इत्यमरटीकायां रायमुकुटः ॥ (अस्य गुणादयः
कुटजशब्दे ज्ञेयाः ॥)

कौटतक्षः, पुं, (कौटः स्वाधीनः स चासौ तक्षाचेति

कर्म्मधारयः । “ग्रामकौटाभ्याञ्च तक्ष्णः” । ५ । ४
९५ । इति टच् ।) स्वकर्म्मजीवी स्वगृहस्थितो-
ऽनधीनस्तक्षा । इत्यमरः । २ । १० । ९ ॥ स्वाधीन
छुतर इति भाषा ॥

कौटल्यः, पुं, (कुटः घटः तं लान्ति कुटलाः कुल-

धान्याः तेषामपत्यं कौटल्यः । गर्गादेर्यञ् ।)
वात्सायनमुनिः । इति हेमचन्द्रः ॥

कौटसाक्षी, [न्] पुं, कूटमेव कौटं स्वार्थे अण् ।

तादृशः साक्षी ।) मिथ्यासाक्षी इति मिताक्षरा ॥

कौटिकः, त्रि, (कूटेन मृगादिबन्धनयन्त्रेण चरति ।

“चरति” । ४ । ४ । ८ । इति ठक् ।) मांस-
विक्रेता । कषाइ इति भाषा । तत्पर्य्यायः । वैतं-
सिकः २ मांसिकः ३ । इत्यमरः । २ । १० । १४ ॥

कौटिलिकः, पुं, (कुटिलिका व्याधानां गतिविशेषः

कर्म्मारनिर्म्मितलोहास्त्रविशेषश्च । तया हरति
मृगान् अङ्गारान् वा । “अण् कुटिलिकायाः” ।
४ । ४ । १८ । इत्यण् ।) व्याधः । लौहकारः । इति
केचित् ॥

कौटिल्यं, क्ली, (कुटिलस्य भावः इति ष्यञ् ।

चाणक्यमूलकम् । इति राजनिर्घण्टः ॥ कुटिलता ।
यथा । “कौटिल्यं कचनिचये करचरणाधरतलेषु
रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयो-
र्वसति” ॥ इति कात्यप्रकाशः ॥

कौटुम्बिकः, पुं, (कुटुम्बे कुटुम्बभरणे प्रसृतः व्याप्त

आसक्तो वा । कुटुम्ब + ठक् ।) कुटुम्बी । कुटुम्ब-
विशिष्टः । कुटुम्वोऽस्यास्तीत्यर्थे ष्णिकप्रत्ययः । इति
पृष्ठ २/२०८
मुग्धबोधमतम् ॥ (यथा, श्रीमद्भागवते । ५ । १३ । ८ ।
“पदे पदेऽभ्यन्तरवह्निनार्द्दितः
कौटुम्बिकः क्रुध्यति वै जनाय” ॥)

कौडविकं, त्रि, (कुडवस्य वापः । “तस्य वापः” । ५ ।

१ । ४५ । इति ठञ् ।) कुडवपरिमितवीजवपन-
योग्यक्षेत्रम् । इत्यमरटीकायां रायमुकुटः ॥

कौणपः, पुं, (कुणपस्त्रिधातुकं शरीरं शवो वा तं

भक्षयितुं शीलमस्य । इत्यण् ।) राक्षसः । इत्य-
मरः । १ । १ । ६२ ॥ (यथा, महाभारते । १ ।
१७१ । १४ ।
“न कौणपाः शृङ्गिणो वा न च देवाञ्जनस्रजः” ॥
वासुकिवंशोद्भवः सर्पविशेषः । यथा, महाभा-
रते । १ । ५७ । ५ ।
“पिच्छलः कौणपश्चक्रः कालवेगः प्रकालनः ।
हिरण्यबाहुः शरणः कक्षकः कालदण्डकः ।
एते वासुकिजा नागाः प्रविष्टा हव्यवाहने” ॥)

कौणपदन्तः, पुं, (कौणपस्य दन्ता इव दन्ता अस्य ।)

भीष्मः । इति त्रिकाण्डशेषः ॥

कौण्डिन्यः, पुं, (कुण्डिनस्य स्वनामख्यातमुनिविशेषस्य

गोत्रापत्यं इति । गर्गादित्वात् यञ् ।) कुण्डिन-
मुनिपुत्त्रः । तत्पर्य्यायः । विष्णुगुप्तः २ । इति
त्रिकाण्डशेषः ॥

कौतुकं, क्ली, (कुतुक + प्रज्ञादित्वात् स्वार्थे अण् ।

कुतुकस्य भावः इति युवादित्वात् अण् वा ।)
कुतूहलम् इत्यमरः । १ । ७ । ३१ ॥ (यथा,
राजतरङ्गिणी । ५ । ३६४ ।
“चक्रतुः कौतुकोद्ग्रीवां सभां चित्रार्पितामिव ॥)
अभिलाषः । (यथा, कथासरित्सागरे ।
“पश्यन्त्यास्तं नृपं तस्या लज्जाकौतुकयोर्दृशि ।
अभूदन्योन्यसंमर्द्दो रचयन्त्यां गतागतम्” ॥)
उत्सवः । (यथा, भागवते । ४ । ३ । १३ ।
“कथं सुतायाः पितृगेहकौतुकं
निशम्य देहः सुरवर्य्य ! नेङ्गते” ॥)
नर्म्म । हर्षः । (यथा, भागवते । १ । १७ । २५ ।
“इयञ्च भूर्भगवता न्यासितोरुभरा सती ।
श्रीमद्भिस्तत्पदन्यासैः सर्व्वतः कृतकौतुका” ॥)
परस्परायातपङ्गलम् । विवाहसूत्रम् । (यथा,
कुमारे । ७ । २ ।
“वैवाहिकैः कौतुकसंविधानै-
र्गृहे गृहे व्यग्रपुरन्ध्रीवर्गम्” ॥)
गीतादिभोगः । इति मेदिनी ॥ गीतादिः । भोग-
कालः । इति हेमचन्द्रः ॥

कौतूहलं, क्ली, (कुतूहलस्य भावः कर्म्म वा युवादि-

त्वात् अण् । यद्वा, कुतूहलमेव इति प्रज्ञाद्यण् ।)
कुतूहलम् । अपूर्ब्बवस्तुदिदृक्षाद्यतिशयः । इत्य-
मरः । १ । ८ । ३१ ॥ (यथा, मार्कण्डेये । ८ । १ ।
“भवद्भिरिदमाख्यातं यथाप्रश्नमनुक्रमात् ।
महत् कौतूहलं मेऽस्ति हरिश्चन्द्रकथां प्रति” ॥)

कौदालीकः, पुं, (कुं भूमिं दारयतीति । कुदारः ।

तेन आचरतीति ईकन् रलयो रैक्यात् रस्य लत्वम् ।)
कुदालीकः ततः स्वार्थे अण् ।) वर्णसङ्करजाति-
विशेषः । स तु रजक्यां तीवराज्जातः ।
इति ब्रह्मवैवर्त्तपुराणम् ॥

कौद्रविकं, क्ली, (कोद्रवं तत् निमित्तमस्य इति

ठञ् ।) सौवर्ञ्चललवणम् । इति राजनिर्घण्टः ॥

कौद्रवीणं, त्रि, (कुत्सितं यथा तथा द्रवति इति ।

पृषोदरात् सिद्धे कोद्रवं कुत्सितधान्यभेदः तस्य
भवनं उत्पत्तिस्थानं । “धान्यानां भवने क्षेत्रे खञ्” ।
५ । २ । १ । इति खञ् ।) कोद्रवधान्योद्भवयोग्यक्षेत्रम् ।
इत्यमरः । २ । ९ । ८ । कोदोर क्षेव इति भाषा ॥

कौन्तिकः, पुं, (कुन्तास्त्रेण प्रासेन युध्यते । कुन्तः

प्रासः प्रहरणमस्येति वा । ठञ् ।) प्रासिकः ।
प्रासास्त्रधारी योद्धा । इत्यमरः । २ । ८ । ७० ॥

कौन्ती, स्त्री, (कुन्तिषु देशविशेषेषु भवा । “तत्रभवः” ॥

४ । ३ । ५३ । इति अण् । ततो ङीष् ।) रेणुका-
नामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२० ॥
(अस्याः पर्य्यायाः यथा, --
“रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा ।
भस्मगन्धा पाण्डुपुत्त्री स्मृता कौन्ती हरेणुका” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥
पर्य्यायान्तरञ्च यथा, --
“हरेणु रेणुका कौन्ती ब्राह्मणी हेमगन्धिनी” ॥
इति वैद्यकरत्नमालायाम् । गुणाश्चास्या रेणुका-
शब्दे बोद्धव्याः ॥)

कौन्तेयः, पुं, (कुन्त्या अपत्यं इति ढक् ।) कुन्तीपुत्त्रः ।

स तु युधिष्ठिरादिः । इति महाभारतम् ।
(यथा, भगवद्गीतायाम् । २ । ३ ।
“मा क्लैव्यं गच्छ कौन्तेय ! नैतत्त्वय्युपपद्यते” ॥)
अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥

कौपं, क्ली, (कूपे भवं कूपस्येदं वा इत्यण् ।) कूपोद-

कम् । अस्य गुणाः यथा, --
“कौपं पयो यदि स्वादु त्रिदोषघ्नं हिमं लघु ।
तत्क्षारं कफवातघ्नं दीपनं पित्तकृत् परम्” ॥
इति भावप्रकाशः ॥ (सुश्रुतोक्ता गुणा यथा, --
“सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु” ॥
कौपसलिलसेवने कालनिर्द्देशः । यथा, तत्रैव ।
“वसन्ते कौपं प्रास्रवणं वा ग्रीष्मेष्वेवम्” ॥)

कौपीनं, क्ली, (कूपपतनमर्हतीति । “शालीनकौपीने

अघृष्टा कार्य्ययोः” । ५ । २ । २० । इति साधुः ।)
पापम् । तत्साधनत्वात् तद्वद्गोप्यत्त्वात् पुरुषलि-
ङ्गमपि । तत्सम्बन्धात् तदाच्छादनमपि । इति सि-
द्धान्तकौमुदी ॥ अकार्य्यम् । गुह्यदेशः । इत्यमरः ॥
चीरम् । इति मेदिनी ॥ तत्तु मेखलाबद्धपरिधेय-
वस्त्रखण्डम् । कपिनी इति भाषा । तत्पर्य्यायः ।
कच्छा २ कच्छटिका ३ कक्षा ४ धटी ५ । इति
त्रिकाण्डशेषः ॥ (यथा, भागवते । ७ । १३ । २ ।
“विभृयाद् यद्यसौ वासः कौपीनाच्छादनंपरम्” ॥)

कौपोदकी, स्त्री, (कौमोदकी इति पृषोदरादित्वात्

मस्य पत्वम् ।) कौमोदकी । इति भरतो द्विरूप-
कोषश्च ॥

कौमारं, क्ली, (कुमारस्य कर्म्म भावो वा । वयोवचन-

त्वादञ् ।) कुमारावस्था ।
(“जातः कुं पृथिवीं पद्भ्यां भारयेत् तत्कुमारकः ।
इति प्रमाणतो विद्धि कौमारं प्राग्भवाब्दतः” ॥
इत्युक्तावधिके “कौमारं पञ्चमावधि” । इत्यन्ते
वयोवस्थाभेदे । सा तु जन्मावधिपञ्चमवर्षपर्य्यन्ता ।
इत्यर्थः ॥) तन्त्रमते षोडशवर्षपर्य्यन्ता । (यथा,
भगवद्गीतायाम् । २ । १३ ।
“देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति” ॥
पुं, कुमारस्य सनत्कुमारस्य इदं अण् सृष्टिभेदः ।
यथा, “कौमार आर्षः प्राजापत्यो मानव इत्यादि
सर्गनामानि” । इति श्रीधरः । तथा च भाग-
वते । १ । ३ । ६ ।
“स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितम्” ॥)
तद्वति पुं, स्त्री । इति शब्दमाला ॥ अपूर्ब्बपतिं
कुमारीं पतिरुपपन्नः “कौमारापूर्ब्बवचने । ४ ।
२ । १३ । इति द्वितीयान्तादुपयमनकर्त्तर्य्यण्प्रत्य-
येन साधुः ॥ अपूर्ब्बपतिकुमारीपतिः । इति
सिद्धान्तकौमुदी ॥)

कौमारी, स्त्री, मातृकाविशेषः । सा तु कार्त्तिकेय-

शक्तिः । इति शब्दमाला ॥ यथा, --
“कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी” ॥
इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ८१ । १६ ॥
(अपूर्ब्बपतिः कुमारी पतिमुपपन्ना । “कौमारा-
पूर्ब्बवचने” । ४ । २ । १३ । इति स्वार्थे अण्
प्रत्ययेन साधुः ततो ङीष् । अपूर्ब्बभार्य्यकुमार-
पत्नी । यथा, भट्टौ । ७ । ९० ।
“उपलम्भ्यामपश्यन्तः कौमारीं पतताम्बर” ! ॥
पञ्चमवर्षीया बालिका । कौमारी अवस्था । यथा,
भागवते । ३ । २ । २८ ।
“कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयो व्रजौकसाम्” ॥)
वाराहीकन्दः । इति राजनिर्घण्टः ॥

कौमुदः, पुं, (कौ पृथिव्यां मोदन्ते जना यस्मिन् ।

मुद् + कः । सप्तम्या अलुक् ।) कार्त्तिकमासः ।
इति त्रिकाण्डशेषः ॥ (यथा, महाभारते ।
“एतैरन्यैश्च राजेन्द्रैः पुरा मांसं न भक्षितम् ।
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुयुः ॥
कौमुदन्तु विशेषेण शुक्लपक्षं नराधिपः ।
वर्ज्जयेत् सर्व्वमांसानि धर्म्मो ह्यत्र विधीयते” ॥)

कौमुदिका, स्त्री, (कौमुदी + संज्ञायां कन् ततो

ह्रस्वः टाप् च ।) उमासखीविशेषः । इति शब्द-
माला ॥ (स्वार्थे कन् ह्रस्वः टाप् च । ज्योत्स्ना ।
त्रि, चतुरर्थ्यां कुमुदादित्वात् ठक् । कौमुदिकः ।
कुमुदाख्यपर्व्वतसन्निकृष्टदेशविशेषः ॥)

कौमुदी, स्त्री, (कुमुदस्य इयं प्रकाशकत्वात् “तस्येदं” ।

४ । ३ । १२० । इत्यण् ततो ङीप् ।) ज्योत्स्ना ।
इत्यमरः । १ । ३ । १६ । (यथा, कुमारे । ४ ३३ ।
“शशिना सह याति कौमुदी ॥
सह मेघेन तडित्प्रलीयते ।
प्रमदाः पतिवर्त्मगा इति
प्रतिपन्नं हि विचेतनैरपि” ॥)
उत्सवः । इति धरणी । (यथा, महाभारते १३
पर्व्वणि ।
पृष्ठ २/२०९
“अकालकौमुदीञ्चैव चक्रतुः सार्व्वकालिकीम्” ॥
कौमुदस्य कार्त्तिकमासस्य इयं “तस्येदम्” । ४ ।
३ । १२० । इति अण् । ततो ङीप् । यदुक्तम् ।
“कुशब्देन मही ज्ञेया मुद हर्षे ततो द्वयम् ।
धातुज्ञैर्नियमैश्चैव तेन सा कौमुदी स्मृता” ॥)
कार्त्तिकोत्सवः । स तु कार्त्तिकीपूर्णिमायां कर्त्तव्यः ।
इति त्रिकाण्डशेषः । कार्त्तिकीपूर्णिमा ॥
आश्विनीपूर्णिमा । इति शब्दरत्नावली । (यथा, --
“आश्विने पौर्णमास्यान्तु चरेज्जागरणं निशि ।
कौमुदी सा समाख्याता कार्य्या लोकविभूतये” ॥
दीपोत्सवतिथिः । यथा, रघुप्रभृतिटीकाकृ-
न्मल्लिनाथधृतभविष्योत्तरवचनम् ।
“कौ मोदन्ते जना यस्यां तेनासौ कौमुदी स्मृता” ॥
कुमुदान्येव कौमुदी । सुदी वा सालुक इति भाषा ॥)

कौमुदीचारः, पुं क्ली, (कौमुद्याः ज्योत्स्नायाः चारः

प्राशस्त्यमत्र समये ।) कोजागरपूर्णिमा । इति
त्रिकाण्डशेषः ॥

कौमुदीपतिः, पुं, (कौमुद्याः ज्योत्स्नायाः पतिः ।)

चन्द्रः । इति हेमचन्द्रः ॥

कौमुदीवृक्षः, पुं, (कौमुद्याः इव प्रकाशिकायाः

दीपशिखाया वृक्ष इवाधारः ।) दीपवृक्षः ।
इति हारावली ॥ दीपगाच्छा पिलसुज इत्यादि
भाषा ॥

कौमोदकी, स्त्री, (कोः पृथिव्याः पालकत्वात् मो-

दकः । कुमोदको विष्णुः । तस्येयं इत्यण् ततो
ङीप् ।) विष्णुगदा । इत्यमरः । १ । १ । ३० ॥
(यथा, भागवते । ८ । ४ । १९ ।
“श्रीवत्सं कौस्तुमं मालां गदां कौमोदकीं मम” ॥)

कौमोदो, स्त्री, (कुं पृथ्वीं मोदयति नन्दयतीति ।

कुमोदः विष्णुः तस्येयं इति अण् ततो ङीप् ।)
विष्णुगदा । इति शब्दरत्नावली ॥

कौरवः, पुं स्त्री, (कुरोरपत्यमिति अण् । कुरोरयं

इति कच्छादित्वादण् वा । कुरुराजसन्ततिः ।
इति महाभारतम् ॥ (यथा, महाभारते । १ ।
द्रुपदशासने १३९ । १६ ।
“तमुद्यतं रथेनैकमाशुकारिणम्बहवे ।
अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः” ॥
कुरुसम्बन्धिदेशः । यथा, मेघदूते । ५० ।
“क्षेत्रं क्षत्त्रप्रधनपिशुनं कौरवं तद्भजेथाः” ॥
स्त्रियां डीप् कौरवी कुरुसम्बन्धिनीत्यर्थः । यथा,
महाभारते । १ । १३०१ । १५ ।
“द्रुपदः कौरवान् दृष्ट्वा प्राधावत समन्ततः ।
शरजालेन महता मोहयन् कौरवीं चमूम्” ॥)

कौरव्यः, पुं, (कुरोरपत्यम् । “कुर्व्वादिभ्यो ण्यः” । ४ ।

१ । १५१ । इति ण्यः ।) कौरवः ।
(यथा, महाभारते । ३ । २३२ । ५५ ।
“अनिशायां निशायाञ्च सहायाः क्षुत्पिपासयोः ।
आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे” ॥
कौरव्याः ब्राह्मणाः कुरुसम्बन्धिनो ब्राह्मणा
इत्यर्थः । क्षत्त्रिये तु । “कुर्व्वादिभ्यो ण्यः” । ४ ।
१ । १७२ । इति ण्ये कृते तद्राजस्य बहुषु तेनै-
वास्त्रियामिति बहुत्वे लुकि कुरव इति बोध्यम् ॥
नागविशेषः । यथा, महाभारते । १ । ३५ । १३-१४ ।
“कौरव्यो धृतराष्ट्रश्च शङ्खपिण्डश्च वीर्य्यवान् ।
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्य्यवान्” ॥)

कौर्प्यः, पुं, वृश्चिकराशिः । यथा, दीपिकायाम् ।

“क्रियतावरिजित्तमकुलीरलेयपाथेय यूककौर्पाख्याः ।
तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं चेत्थम्” ॥)

कौलः, त्रि, (कुले सत्कुले भव इत्यण् ।) सत्कुलोद्भवः ।

तत्पर्य्यायः । आन्वयिकः २ । इति त्रिकाण्डशेषः ॥
(कुले कुलाचारे रतः कुलं कुलतत्त्वं वेत्ति वा
इत्यण् ।) दिव्यवीरपशुभावत्रयान्तर्गतदिव्यभाव-
रतः । स तु ब्रह्मज्ञानी । तद्यथा, --
“दिव्यभावरतः कौलः सर्व्वत्र समदर्शनः” ॥
इति कुलार्णवतन्त्रम् ॥
“पशोर्वक्त्राल्लब्धमन्त्रः पशुरेव न संशयः ।
वीराल्लब्धमनुर्व्वीरः कौलाच्च ब्रह्मविद्भवेत्” ॥ इति
महानीलतन्त्रम् ॥ (कुलमधिकृत्य कृतो ग्रन्थः ।
कुलाचारतत्त्वविधिप्रतिषेधोपदेशसाध्यसाधन-
व्यापारविशिष्टकुलोपनिषदादिग्रन्थविशेषः ॥)

कौलकेयः, त्रि, (कुले सत्कुले भव इति ढक् कुक् च ।)

सत्कुलोद्भवः । (कुलटायाः अपत्यं इति ढक् ।
पृषोदरात् ततः कश्च ।) असतीपुत्त्रे, पुं । इति
शब्दरत्नावली ॥

कौलटिनेयः, पुं स्त्री, (कुलटाया अपत्यं । “कुलटाया-

वा” । ४ । १ । १२७ । इति । इनङ् । स्त्रीभ्यो
ढक् ।) असतीपुत्त्रः । तत्पर्य्यायः । कौलटेयः २ ।
इत्यमरः ॥ कौलटेरः ३ । इति तट्टीकासार-
सुन्दरी । २ । ६ । २७ ॥ सती या भिक्षार्थं कुलानि
गृहाणि अटति न तु जारार्थं सापि कुलटा
तत्पुत्त्रोऽपि ॥

कौलटेयः, पुं, स्त्री, (कुलटायाः असत्याः अपत्यं इति

ढक् ।) कौलटिनेयः । असतीसुतः । इत्यमरः ।
२ । ६ । २६ ॥ (कुलानि गृहाणि भिक्षार्थं अटति या
सती सापि कुलटा । तस्या अपत्येऽपि इति
कश्चित् ॥ स्त्रियां ङीप् कौलटेयी ॥)

कौलटेरः, पुं स्त्री, (कुलानि गृहाणि व्यभिचारार्थं

अटति सा कुलटा । तस्याः असत्याः अपत्यम् ।
“क्षुद्राभ्यो वा” । ४ । १ । १३१ । इति ढ्रक् ।)
असतीसुतः । इत्यमरः । २ । ६ । २६ ॥ कौलटिनेयः ।
इति सारसुन्दरी । (कुलानि गृहाणि भिक्षार्थ-
मटति या सती सापि कुलटा तस्या अपत्येऽपि ।
इति कश्चित् । स्त्रियां ङीप् कौलटेरी ॥)

कौलत्थीनं त्रि, (कुलत्थस्य कुलत्थाख्यकलायविशेषस्य

भवनं क्षेत्रं वा इति । “धान्यानां भवने क्षेत्रे
खञ्” । ५ । २१ । इति । खञ् ।) कुलत्थकला-
योद्भवक्षेत्रम् । इत्यमरटीकायां भरतः ॥

कौलवः, पुं, ववाद्येकादशान्तर्गततृतीयकरणम् ।

तत्र जातस्य फलं यथा, --
“वाग्मी विनीतो नितरां स्वतन्त्रः
प्रागल्भ्ययुक्तो मनुजो महौजाः ।
सुसम्मतः स्याद्विदुषां कृतघ्न-
श्चेत् कौलवाख्यं करणं प्रसूतौ” ॥
इति कोष्ठीप्रदीपः ॥

कौलिकः, पुं, (कुलं सूत्रादिकं वयति वस्त्रत्वेनावरणा-

दिकं आपादयतीति । ठक् ।) तन्त्रवायः । इति
शब्दमाला ॥ (कु कुत्सितं जघन्याचारं लातीति ।
कुलः दुःशीलः ततः स्वार्थे ठक् ।) पाषण्डः । इति
त्रिकाण्डशेषः । (कुलादागतमिति ठक् ।) कुलपर-
म्परायाते, त्रि ॥ (यथा, पञ्चतन्त्रे ।
“वर्जयेत् कौलिकाचारं मित्रं प्राज्ञतरो नरः” ॥
कुले कुलागमे कुलतन्त्रे शिवोक्तशास्त्रे इति यावत्
सिद्धः इति ठक् । कुलतन्त्रज्ञः ॥ कौलं कुलधर्म्मं
प्रवर्त्तयति तत्त्वज्ञानं शिष्यपरम्परोपदेशेन विस्ता-
रयति इति ठक् । कुलधर्म्मप्रवर्त्तकः शिवः ॥ कुलं
कुलाचारः प्रयोजनमस्य इति ठक् । ब्रह्मतत्त्वज्ञः ।
यथा, श्रुतौ । “शन्नः कौलिकः” ॥)

कौलीनं, क्ली, (कौ पृथिव्यां लीनम् । भूलीनपदार्था-

नामिव एतेषामप्रकाशतया तथात्वम् ।) गुह्यम् ।
जन्यम् । कुकर्म्म । (कुलीनस्य भावः । युवादित्वा-
दण् ।) कुलीनत्वम् । (यथा, रामायणे ।
“सदश्व इव मर्य्यादां कौलीनां नाभ्यवर्त्तत” ॥)
पश्वहिपक्षिणां युद्धम् । इति मेदिनी ॥ कौलेय-
कः । इति विश्वः ॥ (ली भावे क्तः तस्य नत्वम् । लीनं
लयः । कौ पृथिव्यां लीनं लयो यस्मात् । कुलीनं
भूमिलयमर्हतीति अण् वा ।) लोकवादः ।
इत्यमरः । ३ । ३ । ११६ ।
(यथा, रघौ । १४ । ८४ ।
“कौलीनभीतेन गृहान्निरस्ता
न तेन वैदेहसुता मनस्तः” ॥
निन्दा । यथा, तत्रैव । १४ । ३६ ।
“कौलीनमात्माश्रयमाचचक्षे
तेभ्यः पुनश्चेदमुवाच वाक्यम्” ॥)

कौलीरा, स्त्री, (कुलीरः कर्कटः तच्छृङ्गाकारो-

ऽस्त्यस्या इत्यण् । ततष्टाप् ।) कर्कटशृङ्गी । इति
राजनिर्घण्टः ॥ (कर्कटशृङ्गीशब्देऽस्या विवृति-
र्ज्ञेया ॥)

कौलेयः, त्रि, (कुले सत्कुले भवः इति बाहुलकात्

ढक् ।) कुलीनः । इति भरतो द्विरूपकोषश्च ॥

कौलेयकः, पुं, (कुले भवः । “कुलकुक्षिग्रीवाभ्यः श्वास्य-

लङ्कारेषु । ४ । २ । ९६ । इति ढकञ् ।) कुक्कुरः ।
इत्यमरः । २ । १० । २१ ॥ (कुलस्यापत्यम् । “अपूर्ब्ब-
पदादन्यतरस्यां यड्ढकञौ” । ४ । १ । १४० ।
इति ढकञ् ।) कुलीने त्रि । इति मेदिनी ॥

कौल्माषीणं, त्रि, (कुल्माषाणां धान्यकुलत्थादीनां

भवनं क्षेत्रं इति खञ् ।) कुल्माषधान्योद्भवक्षेत्रम् ।
इत्यमरटीकायां रायमुकुटः ॥

कौल्यः, त्रि, (कुले सत्कुले भवः बाहुलकात् ष्यञ् ।)

कुलीनः । इति भरतो द्विरूपकोषश्च ॥

कौवलं, क्ली, (कुवलमेव इति । प्रज्ञादित्वात् स्वार्थे

णः ।) कुवलम् । कोलिफलम् । इति भरतो
द्विरूपकोषश्च ॥

कौवेरं, क्ली, (कुवेरो अधिष्ठात्री देवताऽस्य इत्यण् ।)

कुष्ठम् । कुड् इति भाषा । इति शब्दरत्नावली ॥
(कुवेरस्य इदं इत्यण् ।) कुवेरसम्बन्धिनि तत्कार्य्ये
च त्रि । यथा, मार्कण्डेये । ८५ । २ ।
पृष्ठ २/२१०
“कौवेरमथ यास्यञ्च चक्राते वरुणस्य च” ॥

कौवेरी, स्त्री, (कुवेरः अधिष्ठात्री देवता अस्या

इत्यण् । ततो ङीप् ।) उत्तरा दिक् । यथा, --
“द्विग्विभागे तु कौवेरी दिक् शिवा प्रीतिदायिनी” ॥
इति तिथ्यादितत्त्वम् । कुवेरशक्तिश्च ॥

कौशं, क्ली, (कुशाः प्राचुर्य्येण भूम्ना वा सन्त्यत्र इत्यण् ।)

कान्यकुब्जदेशः । इति हेमचन्द्रः ॥ (कुश + स्वार्थे
अण् । कुशद्वीपः । यथा, सिद्धान्तशिरोमणौ ।
“शाकं ततः शाल्मलमत्र कौशम्” ॥
कोशे भवम् । कृमिकोशोद्भवं पट्टवस्त्रम् । यथा,
भागवते । ३ । ४ । ७ ।
“दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च” ॥
एतदुपलक्षितं कृष्णं अद्राक्षमित्यन्वयः ॥
कुशस्येदं तद्विकारो वा अण् । कुशमयम् । कुश-
सम्बन्धि वा । यथा, महाभारते । १३ । १९ । २९ ।
“तत्र वासाय शयने कौश्ये सुखमुवास ह” ॥
स्त्रियां ङीप् । कौशी । तत्रैव । १३ । ५४ । २१ ।
“कौश्यां वृष्यां समासीनं जपमानं महाव्रतम्” ॥)

कौशलं, क्ली, (कुशलस्य भावः कर्म्म वा इति । युवा-

दित्वात् अण् ।) कुशलता । यथा, --
“क्व चातिकर्कशः शान्तः क्व चातिललितः शुचिः ।
एकत्र काव्ये व्याख्यातुस्तावहो कौशलं कवेः” ॥
इति अमरुशतकटीका ॥ (नैपुण्यम् । यथा, भाग-
वते । १ । १६ । २७ ।
“स्वातन्त्र्यं कौशलं कान्तिर्धैर्य्यं मार्दवमेव च” ॥
कुशलमेव इति । स्वार्थे अण् । मङ्गलम् । यथा,
तत्रैव । ३ । १ । १३ ।
“स एष दोषः पुरुषद्विडास्ते
गृहान् प्रविष्टोऽयमपत्यमत्या ।
पुष्णासि कृष्णाद् विमुखो गतश्री-
स्त्यजाश्वशैवं कुलकौशलाय” ॥
चातुर्य्यम् । यथा, भगवद्गीतायाम् । २ । ५० ।
“तस्माद्योगाय युज्यस्व योगः कर्म्मसु कौशलम्” ॥)

कौशलिका, स्त्री, (कुशलाय मङ्गलाय हिता । इति

ठक् टाप् च ।) प्राभृतकम् । इति हारावली ।
नजर इति भाषा ॥ (कुशलस्य पृच्छा इति ठक्
टाप् च । कुशलप्रश्नः ॥)

कौशली, स्त्री, (कुशलस्य पृच्छा कुशलाय दीयते वा ।

अण् ततो ङीप् ।) कुशलप्रश्नः । प्राभृतम् । इति
त्रिकाण्डशेषः ॥

कौशलेयः, पुं, (कौशल्यायाः अपत्यं पुमान् इति

ढक् । यलोपश्च ।) श्रीरामः । इति शब्दरत्ना-
वली ॥ (यथा, रामायणे ।
उज्जहार प्रियां देवो हत्वा तु निकशात्मजम् ।
श्रीमान् दाशरथिर्वोरः कौशलेयः प्रतापवान्” ॥)

कौशल्या, स्त्री, (कोशलम्य राज्ञोऽपत्यं स्त्री । कोशल

+ ष्यञ् । यद्वा, कुशलैव स्वार्थे ष्यञ् ।) श्रीराममाता ।
सा तु कोशलराजकन्या दशरथपत्नी च । इति
शब्दरत्नावली । (यथा, रामायणे १ । १६ । २६ ।
“सोऽन्तःपुरं प्रविश्यैव कौशल्यामिदमब्रवीत्” ॥
कोशले भवाः । तद्देशवामिन्यर्थे ञ्य । कोशल-
देशीयाः । अत्र बहुवचनम् ।
यथा, महाभारते । ६ । ९ । ४० ।
“मत्स्याः कुशट्टाः कौशल्याः कुन्तयः काशिकोशलाः” ॥
कुशलस्य भावः कर्म्म वा कुशलमेव वा इति
ब्राह्मणादित्वात् ष्यञ् । कुशलत्वे, क्ली । यथा,
महाभारते । ३ । ४४ । ३० ।
“पृष्ट्वा कौशल्यमन्योन्यं रथेष्वेवावतस्थिरे” ॥)

कौशल्यानन्दनः, पुं, (कौशल्यायाः दशरथपत्न्याः

नन्दनः पुत्त्रः ।) श्रीरामः । इति शब्दरत्नावली ॥

कौशल्यायनिः, पुं, (कौशल्याया अपत्यं । “कौशल्य-

कार्मार्य्याभ्याञ्च” । ४ । १ । १५५ । इति फिञ् ।
फस्यायनादेशः ।) श्रीरामः । इति त्रिकाण्डशेषः ॥
(यथा, भट्टौ । ७ । ९० ।
“म्रियामहे न गच्छामः कौशल्यायनिवल्लभाम् ।
उपलम्भ्यामपशन्तः कौमारीं पततां वर !” ॥)

कौशाम्बी, स्त्री, (राज्ञः कुशस्य पुत्त्रेण स्वनामप्रसि-

द्धेन कुशाम्बेन निर्वृ त्ता या । “तेन निर्वृत्तम्” ।
४ । २ । ६८ । इति अण् ततो ङीप् ।) देशविशेषः ।
तत्पर्य्यायः । वत्सपत्तनम् २ । इति हेमचन्द्रः ॥
(यथा, रामायणे । १ । ३२ । ५
(“कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम्” ॥
सा तु गौडदेशान्तर्गतमत्स्यराजभूमिगता नगरी
ततः चाणक्येन चन्द्रगुप्तादिसमये कुसुमपुरी-
त्याख्या प्रदत्ता इदानीं सैव पुरी पाटलीपुत्त्रनगरी
पाटना इति भाषायां प्रसिद्धा जाता । यथा,
कथासरित्सागरे । “अस्ति वत्स इति ख्यातोदेशः ।
इत्युपक्रम्य कौशाम्बी नाम तत्रास्ति मध्यभागे
महापुरी” इत्युक्तम् ॥)

कौशिकः, पुं, (कुशिकस्यापत्यम् ऋष्यण् । कुशिके

तद्वंशे भवो वा इत्यण् ।) इन्द्रः । (अयं हि तप-
स्विनः कुशिकराज्ञस्तपःप्रभावं विचार्य्य त्रासात्
तत्पुत्त्रतामङ्गीचकार ।
यथा, हविवंशे । २७ । १३-१६ ।
“कुशिकस्तु तपस्तेपे पुत्त्रमिन्द्रसमं विभुः ।
लभेयमिति तं शक्रस्त्रासादभेत्य जज्ञिवान् ॥
पूर्णे वर्षसहस्ने वै तन्तु शक्रो ह्यपश्यत ।
अत्युग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः ॥
समर्थं पुत्त्रजनने स्वमेवांशमवासयत् ।
पुत्त्रत्वे कल्पयामास स देवेन्द्रः सुरोत्तमः ॥
स गाधिरभवद्राजा मघवान् कौशिकः स्वयम्” ॥
पक्षे तु देवेन्द्रस्य जन्मकाले कुशावृतत्वात् कौशि-
कत्वमिति । कुशेन वृत इति ठञ् ।
यथा, हरिवंशे । २१९ । २--३ ॥
“स वज्री कवची जिष्णुरदित्यामभिजज्ञिवान् ।
स्मृतेः सहायो द्युतिमान् यथा सोऽध्वर्युभिः स्तुतः ।
जातमात्रस्तु भगवान् अदित्यां स कुशैर्वृतः ।
तदाप्रभृति देवेशः कौशिकत्वमुपागतः” ॥)
गुग्गुलुः । उलूकः । व्यालग्राही । इत्यमरः । २ । ४ ।
३४ ॥ नकुलः । कोशज्ञः । (मगधराजजरासन्धस्य
सेनापतिर्हंसनामा नरपतिरपि कौशिकनाम्ना
विश्रुत आसीत् । यथा, महाभारते । २ ।
जरासन्धवधपर्व्वणि । २२ । ३१-३२ ।
“स तु सेनापतिं राजा सस्मार भरतर्षभ ! ।
कौशिकं चित्रसेनञ्च तस्मिन् युद्ध उपस्थिते ॥
ययोस्तु नामनी राजन् ! हंसेति डिभकेति च ।
पूर्ब्बं संकथिते पुंभिनृलोके लोकसत्कृते” ॥
कुशिकस्य गोत्रापत्यं इति विदाद्यञ् । कुशिकस्य
पुत्त्रो गाधिस्तत्पुत्त्रो विश्वामित्रोऽपि कुशिकवंश-
जातत्वात् कौशिकः । (विश्वामित्रमुनिः । इति
मेदिनी । (यथा, रामायणे । १ । २१ । १ ।
“तच्छ्रुत्वा वचनं तस्य स्नेहपर्य्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्” ॥
पुरुवंशीयनृपविशेषः । यथा, हरिवंशे ।
“प्रतिष्ठायाश्च द्वौ पुत्त्रौ पैप्पलादिश्च कौशिकः” ॥
कोशं करोतीति । कोश + ठक् ठञ् वा बाहुल-
कात् ।) कोषकारः । इति शब्दरत्नावली ॥ शृङ्गार-
रसः । इति त्रिकाण्डशेषः ॥ मज्जा । इति हेम-
चन्द्रः ॥ अश्वकर्णवृक्षः । इति राजनिर्घण्टः ॥
(कोशात् कृमिकोशाज्जातम् । कृमिकोषोद्भवे,
त्रि । यथा, महाभारते । ३ । २७ । १४ ।
“या त्वाहं कौशिकैर्वस्त्रैः शुभैराच्छादितं पुरा ।
दृष्टवत्यस्मि राजेन्द्र ! सात्वां पश्यामि चीरिणम्” ॥)

कौशिकप्रियः, पुं, (कौशिकस्य कुशिकपौ त्त्रस्य

रांजर्षेः विश्वामित्रस्य प्रियः ।) श्रीरामः । इति
शब्दरत्नावली ॥

कौशिकफलः, पुं, (कौशिकं कोशगतं फलमस्य ।)

नारिकेलवृक्षः । इति शब्दरत्नावली ॥

कौशिका, स्त्री, (कोश एव स्वार्थे कः ततोऽण् ततः

टाप् अत इत्वञ्च ।) चषकम् । पानभाजनम् ।
इति हेमचन्द्रः ॥

कौशिकात्मजः, पुं, (कौशिकस्य इन्द्रस्य आत्मजः ।

जयन्तः ॥ पाण्डुराजपत्न्यां कुन्त्यां इन्द्रौरसजातत्वात्
अर्ज्जुनस्यापि तथात्वम् ।) अर्ज्जुनः । इति शब्द-
माला ॥ (अस्य जन्मविवरणं यथा, महाभारते ।
१ । १२३ । ३२ ।
“एवमुक्ता ततः शक्रमाजुहाव यशस्विनी ।
अथाजगाम देवेन्द्रो जनयामास चार्ज्जुनम्” ॥
कौशिकस्य विश्वामित्रस्य आत्मजः । इति विग्रहे
विश्वामित्रपुत्त्रः शुनःशेर्फादिः ॥)

कौशिकायुधं, क्ली, (कौशिकस्य इन्द्रस्य आयुधम् ।)

इन्द्रधनुः । इति शब्दरत्नावली ॥

कौशिकारातिः, पुं, (कौशिकस्य पेचकस्य अरातिः

शत्रुः ।) काकः । इति राजनिर्घण्टः ॥

कौशिकारिः, पुं, (कौशिकस्य उलूकस्य अरिः

शत्रुः ।) काकः । इति राजनिर्घण्टः ॥

कौशिकी, स्त्री, (कौशिकस्य गोत्रापत्यम् । कुशिक

+ अण् + ङीप् । सुरराजस्य इन्द्रस्य कुशिक-
नृपतेः सकाशात् पुत्त्रत्वेनोत्पद्यमानत्वात् कौशि-
काभिधानप्राप्तेस्तेनैवेन्द्रेणास्या योगमायाया भगि-
नीतयाङ्गीकृतत्वात्तथात्वम् ।) चण्डिका । (यथा,
हरिवंशे । ५७ । ४८ ।
“तत्रैव त्वां भगिन्यर्थे ग्रहीष्यति स वासवः ।
कुशिकस्य तु गोत्रेण कौशिकी त्वं भविष्यसि” ॥
तत्रैवास्याः स्तुतौ । ५८ । ३ ।
“आर्य्या कात्यायनी देवी कौशिकी ब्रह्मचारिणी ।
पृष्ठ २/२११
जननी सिद्धसेनस्य उग्रचारी महातपाः” ॥
कुशिकस्य गोत्रापत्यं इति विदाद्यञ् । कुशि-
काख्यनरपतेः पौत्त्री गाधिराजस्य कन्या विश्वा-
मित्रस्य भगिनी ऋचीकमुनिपत्नी । कुशिकवंश-
जातत्वात् तस्यास्तथात्वम् ॥) नदीविशेषः । इति
मेदिनी ॥ (यथा, रामायणे । १ । ३४ । ६--११ ।
“स पिता मम काकुत्स्थ ! गाधिः परमधार्म्मिकः ।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ! ॥
पूर्ब्बजा भगिनी चापि मम राघव ! सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥
सशरीरागता स्वर्गं भर्त्तारमनुवर्त्तिनी ।
कौशिकी परमोदारा प्रवृत्ता च महा नदी ॥
दिव्या पुष्पोदका रम्या हिमवन्तमुपाश्रिता ।
लोकस्य हितकार्य्यार्थं प्रवृत्ता भगिनी मम ॥
ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् ।
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ! ॥
सा तु सत्यवती पुण्या सत्ये धर्म्मे प्रतिष्ठिता ।
पतिव्रता महाभागा कौशिकी सरितां वरा” ॥
“कौशिकी सरितां श्रेष्ठा कुलोद्द्योतकरी तव” ॥ २१
असावेवेदानीं कुशी नदीति ख्याता । इयन्तु नेपाल-
राज्यान्तर्गताया हिमवच्छाखाया निःसृता सती
१६६ क्रोशान्तं गता गङ्गया सङ्गता ॥)

कौशिक्योजः, पुं, (कौशिक्या इव तीव्रं ओजो यस्य ।

पृषोदरात् सलोपः ।) शाखोटवृक्षः । इति राज-
निर्घण्टः । श्याओडा इति भाषा ॥

कौशीतकी, स्त्री, (कुशितकस्यापत्यम् । ऋष्यण् ततो

ङीप् ।) अगस्त्यपत्नी । इति त्रिकाण्डशेषः ॥ (कु-
शीतकेनाधीता प्रणीता वा या शाखा सा कौशी-
तकी । स्वनामख्यातवेदान्तर्गतशाखाविशेषः ॥
(ऋग्वेदान्तर्गत उपनिषद्विशेषः । यदुक्तं मुक्ति-
कोपनिषदि ।
‘मैत्रायणो कौशी(षी)तकी वृहज्जावालतापनी’ ॥)

कौशेयं, त्रि, (कोशे भवम् । इति ढक् ।) कृमिको-

शोत्थवस्त्रादि । इत्यमरः । २ । ६ । १११ ॥ मूर्द्धन्य-
मध्यञ्च ॥ (यथा, माघे । ८ । ६ ।
“कौशेयं व्रजदपि गाढतामजस्रम् ।
सस्रंसे विगलितनीविनीरजाक्ष्याः” ॥)

कौषिकः, पुं, (कौशिक + पृषोदरात् षकारादेशः ।)

कौशिकः । इति मेदिनी ॥

कौषिकी, स्त्री, (कौशिकी + पृषोदरात् षकारा-

देशः ।) कौशिकी । इति मेदिनी ॥ कालिका-
कायकोषनिःसृतदेवीविशेषः । यथा, --
“कायकोषान्निःसृता या कालिकायास्तु भैरव ! ।
सा कौषिकीति विख्याता चारुरूपा मनोहरा ॥
निःसृता हृदयाद्देव्या रसनाग्रेण चण्डिका ।
नैतस्याः सदृशी मूर्त्त्या चारुरूपेण विद्यते ॥
त्रिषु लोकेषु कान्त्या वा नास्यास्तुल्या भविष्यति ।
योगनिद्रा महामाया या मूलप्रकृतिः स्मृता ॥
तस्याः प्राणस्वरूपेयं देवी सा कौषिकी स्मृता ।
नेत्रवीजं तथैतस्या वीजन्तु परिकीर्त्तितम् ॥
तन्त्रमस्याः प्रवक्ष्यामि सर्व्वकामप्रदं नृणाम् ।
समाप्ति नान्त्यदन्त्यस्तु षष्ठवर्गादिविन्दुना ॥
षष्ठस्वरेण संसृष्ठो विन्दुना समलङ्कृतः ।
कौषिकीतन्त्रमन्त्रोऽयं धर्म्मकामार्थदायकः ॥
एतस्याः सम्प्रवक्ष्यामि मूर्त्तिरूपञ्च भैरव ! ।
शृणुष्वैकमना भूत्वा जगदाह्लादकारकम् ॥
धम्मिल्लसंयतकचा विधोश्चाधोमुखीं कलाम् ।
केशान्ते तिलकस्यीर्द्धे दधती सुमनोहरा ॥
मणिकुण्डलसंघृष्टगण्डा मुकुटमण्डिता ।
सज्योतिःकर्णपूराभ्यां कर्णमापूर्य्य सङ्गता ॥
सुवर्णमणिमाणिक्यनागहारविराजिता ।
सदा सुगन्धिभिः पुष्पैरम्लानैरतिसुन्दरी ॥
मालां बिभर्त्ति ग्रीवायां रत्नकेयूरधारिणी ।
मृणालायतवृत्तैस्तु बाहुभिः कोमलैः शुभैः ॥
राजन्ती कञ्चुकोपेतपीनोन्नतपयोधरा ।
क्षीणमध्या पीतवस्त्रा त्रिवलीपरिभूषिता ॥
शूलं वज्रञ्च वाणञ्च खड्गं शक्तिं तथैव च ।
दक्षिणैः पाणिभिर्द्देवी गृहीत्वातिविराजिता ॥
गदां घण्टाञ्च चापञ्च चर्म्म शङ्खं तथैव च ।
ऊर्द्ध्वादिक्रमतो देवी दधती वामपाणिभिः ॥
सिंहस्योपरि तिष्ठन्ती व्याघ्रचर्म्मणि कौषिकी ।
बिभ्रती रूपमतुलं सुरासुरमनोहरम् ॥
एतस्याः शृणु वत्स त्वं याः पूज्या अष्टयोगिनीः ।
ताः पूजिताश्च कुर्व्वन्ति चतुर्व्वर्गं नृणां सदा ॥
ब्रह्माणी प्रथमा प्रोक्ता ततो माहेश्वरी परा ।
कौमारी वैष्णवी चैव वाराही पञ्चमी तथा ॥
नारसिंही तथैवैन्द्री शिवदूती तथाष्टमी ।
एताः पूज्या महाभागा योगिनीः कामदायिनीः” ॥
इति कालिकापुराणे उत्तरतन्त्रे ६० अध्यायः ॥ * ॥
अन्यच्च ।
“शरीरकोषतश्चास्याः समुद्भूताब्रवीच्छिवा ।
स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः ॥
देवैः समेतैः समरे निशुम्भेन पराजितैः ।
शरीरकोषाद्यत्तस्याः पार्व्वत्या निःसृताम्बिका ॥
कौषिकीति समस्तेषु ततो लोकेषु गीयते” ॥
इति मार्कण्डेयपुराणे देवीमाहात्म्ये ५ अध्यायः ॥
अपरा व्युत्पत्तिर्यथा, --
“अल्पेनैवोपकारेण यस्माल्लोके सुखप्रदा ।
कौषेयधारणाद्वापि सप्रसादाथ कौषिकी” ॥
इति देवीपुराणे देवीनिरुक्ताध्यायः ४५ ॥

कोषेयं, त्रि, (कौशेय + पृषोदरात् षकारादेशः ।)

कृमिकोषोत्थवस्त्रादि । रेसमी कापड इति
भाषा । इत्यमरटीकायां भरतः ॥ (यथा, मार्कण्डेय-
पुराणे । १५ । २७ ।
“कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते” ॥)

कौसीद्यं, क्ली, (कुत्सितं सीदति अस्मिन् इति ।

सीद् + शः । ततः स्वार्थे ष्यञ् ।) आलस्यम् । तन्द्रा ।
इति हेमचन्द्रः । (कुसीदस्य कर्म्म भावो वा ।
इति ष्यञ् ।) कुसीदत्वम् ॥

कौसुमं, क्ली, (कुसुमेन निर्वृत्तम् । इत्यण् ।) कुसुमा-

ञ्जनम् । पुष्पाञ्जनम् । इति राजनिर्घण्टः ॥ (कुसुम-
स्येदम् । तस्येदमित्यण् । कुसुमसम्बन्धि वस्तुजातम् ।
कुसुमेषु भवम् । यथा, माघे । ७ । ५७ ।
“विनयति सुदृशो दृशः परागं
प्रणयिनि ! कौसुममाननानिलेन” ॥)

कौसुम्भः, पुं, (कुसुम्भ + स्वार्थे अण् ।) अरण्यकुसुम्भः ।

इति राजनिर्घण्टः ॥ (शाकविशेषः । यथा, --
“कौसुम्मं कोमलं शाकं कासमर्द्दविमर्द्दितम् ।
पाचितं तप्तसुघृते माणिमन्थविमिश्रितम्” ॥
इति शब्दार्थचिन्तामणिः ॥ कुसुम्भेन रक्तम् ।
“तेन रक्तं रागात्” । ४ । २ । १ । इत्यण् ।) कुसुम्भ-
पुष्परागयुक्ते त्रि । इत्यमरटीकायां रायमुकुटः ।
(यथा, माघे ।
“कौसुम्भं पृथुकुचकुम्भसङ्गिवासः” ॥
कुसुम्भस्येदं तस्येदमित्यण् । कुसुम्भसम्बन्धिवस्तु-
मात्रम् । यथा, माघे । ११ । ५२ ।
“दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति” ॥)

कौसृतिकः, त्रि, (कुसृत्या कुत्सितगत्या चरति इति ।

ठक् ।) मायाकारः । इति जटाधरः ॥

कौस्तुभः, पुं, (कुं भुवं स्तुभ्नाति व्याप्नोति इति । कुस्तुभः

सागरः तत्र भव इत्यण् । यद्वा, कुं भूमिं जग-
दित्यर्थः स्तुभते व्याप्नोति सर्व्वमाक्रम्य तिष्ठतीति
भावः । क्रुस्तुभो विष्णुः तंस्यायं मणिरित्यण् ।)
स्वनामख्यातो विष्णुवक्षःस्थो मणिः । इत्यमरः
१ । १ । ३० ॥ (यथा, भागवते । ८ । ८ । ५ ।
“कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः ।
तस्मिन् हरिः स्पृहां चक्रे वक्षोऽलङ्करणे मणौ” ॥
“कौस्तुभस्तु महातेजाः कोटिसूर्य्यसमप्रभः ।
इदं किमुत वक्तव्यं प्रदीपाद्दीप्तिमानिति” ॥
इति भागवतामृतम् ॥ मुद्राविशेषः । यथा, --
“अनामाङ्गुष्ठसंलग्ना दक्षिणस्य कनिष्ठिका ।
कनिष्ठयान्यया बद्धा तर्जन्या दक्षया तथा ॥
वामानामाञ्च बध्नीयात् दक्षिणाङ्गुष्ठमूलके ।
अङ्गुष्ठमध्यमे भूयः संयोज्य सरलाः पराः ।
चतस्रोऽप्यग्रसंलग्ना मुद्रा कौस्तुभसंज्ञिका” ॥
इति तन्त्रसारः ॥

कौस्तुभवक्षाः, [स्] पुं, (कौस्तुभः वक्षसि उरःस्थले

यस्य ।) विष्णुः । इति हारावली ॥

क्नथ, कि म वधे । इति कविकल्पद्रुमः । (चुरां पक्षे

भ्वां--परं--सकं--सेट् ।) कि म, क्नथयति । इति
दुर्गादासः ॥

क्नस, उ म य ह्वृतौ । भासने । इति कविकल्प-

द्रुमः ॥ (दिवां--परं--अकं--सेट् ।) एष दन्त्यन-
कारयक्तः । उ, क्नसित्वा क्नस्त्वा । म, क्नसयति
कान्त्यां जगत्पान्थः । य, क्नस्यति खलः कुटिलः
स्यादित्यर्थः । ह्वृतिरिह कौटिल्यम् । इति दुर्गा-
दासः ॥

क्नस, इ कि भासने । इति कविकल्पद्रुमः ॥ (चुरां

पक्षे भ्वां--परं--अकं--सेट् ।) इ, क्नंस्यते । कि,
क्नंसयति क्नंसति । भासनं दीप्तिः । इति दुर्गा-
दासः ॥

क्नूय, ई ङ दुर्गन्धे । आर्द्रत्वे । शब्दे । इति कविकल्प-

द्रुमः ॥ दन्त्यनकारयुक्तो दीर्घी । (भ्वां--आत्मं--
अकं--सेट्--ईर्निष्ठायामनिट् ।) तथा च । क्नूयो
स्फायति ते विदेव य इमे सेविश्च मेविस्तता ।
इति शार्द्दूलविक्रीडिते चण्डेश्वरः ॥ ई, क्नूतः । ङ,
पृष्ठ २/२१२
क्नूयते मत्स्यः दुर्गन्धः स्यादित्यर्थः । क्नूयते वस्त्र-
मम्भसा । इति दुर्गादासः ॥

क्मरं, कौटिल्ये । इति कविकल्पद्रुमः ॥ (भ्वां--परं--

अकं--सेट् ।) ओष्ठवर्गशेषयुक्तः । क्मरति खलः
कुटिलः स्यादित्यर्थः । इति दुर्गादासः ॥

क्रकचः, पुं क्ली, ग्रन्थिलवृक्षः । इति मेदिनी ॥

(ज्योतिषोक्तयोगभेदः । तस्य लक्षणं यथा, --
“षष्ठ्यादितिथयो मन्दाद् विलोमं क्रकचः स्मृतः” ॥
अस्य विवृतिर्यथा ।
“शनौ षष्ठी, शुक्रे सप्तमी, गुरौ अष्टमी, बुधे
नवमी, भौमे दशमी, सोमे एकादशी, रवौ
द्वादशी, एते योगाः क्रकचाख्या विज्ञेयाः” । यथा,
नारदोक्तिः ।
“त्रयोदशस्युर्मिलने सख्ययोस्तिथिवारयोः ।
क्रकचो नाम योगोऽयं मङ्गलेष्वतिगर्हितः” ॥ * ॥
क्र इति कृत्वा कचति शब्दायते । कच शब्दे +
पचाद्यच् ।) करपत्रम् । काष्ठविदारणास्त्रविशेषः ।
करात् इति भाषा । इत्यमरः । १ । १० । ३५ ॥
(यथा, महाभारते ३ । २२ । ३४ ।
“मध्येन पाटयामास क्रकचो दार्व्विवोच्छ्रितम्” ॥)
“अथ क्रकचव्यवहारे करणसूत्रं वृत्तम् । पि-
ण्डयोगदलमग्रमूलयोर्द्दैर्घसंगुणितमङ्गुलात्मकम् ।
दारुदारणपथैः समाहतं षट्स्वरेषु विहृतं करा-
त्मकम् ॥ उदाहरणम् ।
मूले नखाङ्गुलमितोऽथ नृपाङ्गुलोऽग्रे
पिण्डः शताङ्गुलमितं किल यस्य दैर्घ्यम् ।
तद्दारुदारणपथेषु चतुर्षु किं स्या-
द्धस्तात्मकं वद सखे गणितं द्रुतं मे ॥
न्यासः
२० क्राकच्यं दारुविषमं १६
१००
पिण्डयोगदलम् । १८ । दैर्घ्येण । १०० । संगुणितम् ।
१८०० । दारुदारणपथैः । ४ । गुणितम् । ७२०० ।
षट्स्वरेषु । ५७६ । विहृतं जातं करात्मकं गणि-
तम् । २५२ ॥ क्रकचान्तरे करणसूत्रं सार्द्धवृत्तम् ।
छिद्यते तु यदि तिर्य्यगुक्तवत् पिण्डविस्तृतिहते
फलं तदा । इष्टिकाचितिदृषच्चितिखातक्राकच-
व्यवहृतौ खलु मूल्यम् । कर्म्मकारजनसम्प्रति-
पत्त्या तन्मृदुत्वकठिनत्ववशेन ॥ उदाहरणम् ।
यद्विस्ततिर्द्दन्तमिताङ्गुलानि
पिण्डस्तथा षोडश यत्र कोष्ठे ।
छेदेषु तिर्य्यङ्नवसु प्रचक्ष्व
किं स्यात् फलं तत्र करात्मकं मे ॥
विस्तृतिहतिः । ५१२ । दारुदारणमार्ग । ९ ।
घ्ना । ४६०८ । षट्स्वरेषु । ५७६ । विहृतं जातं
फलं हस्ताः । ८ । इति लीलावत्यां क्रकचव्यव-
हारः ॥ * ॥

क्रकचच्छदः, पुं, (क्रकचः करपत्रमिव च्छदाः पत्राणि

यस्य ।) केतकीवृक्षः । इति त्रिकाण्डशेषः ॥

क्रकचपत्रः, पुं, (क्रकचवत् पत्रं अस्य ।) शाकवृक्षः ।

इति राजनिर्घण्टः ॥ (केतकीवृक्षः ॥)

क्रकचपात्, [द्] पुं, (क्रकच इव पादो यस्य ।

अन्त्यलोपः ।) कृकलासः । इति त्रिकाण्डशेषः ॥

क्रकचपादः, पुं, (क्रकचमिव पादो यस्य ।) कृकलासः ।

इति हारावली ॥

क्रकचपृष्ठी, स्त्री, (क्रकचवत् पृष्ठं पृष्ठदेशो यस्याः ।

इति ङीष् ।) कवयी मत्स्यः । इति शब्दरत्नावली ॥

क्रकचा, स्त्री, (क्रकचस्तदाकारोऽस्त्यस्याः । अर्श आ-

दिभ्यः अच् ततष्टाप् ।) केतकी इति रत्नमाला ॥

क्रकणः, पुं, (क्र इति कणति शब्दायते । कण शब्दे +

अच् । जातित्वात् स्त्रियां ङीष् ।) पक्षिविशेषः ।
इत्यमरः ॥ कयार इति भाषा ॥

क्रकरः, पुं, (क्र इति शब्दं कर्त्तुं शीलमस्य इति । कृ +

ताच्छील्ये टः ।) करीरवृक्षः । उट्काटार इति
भाषा । क्रकणपक्षी । इत्यमरः । २ । ५ । १९ ॥
कयार इति करकरा इति च भाषा ॥ (यथा, --
महाभारते १३ । १११ । १०३ ।
“पत्रोर्णं चोरयित्वा तु क्रकरत्वं नियच्छति” ॥)
अस्य मांसस्य गुणः । लघुत्वम् । हृद्यत्वम् । इति
राजनिर्घण्टः ॥ (यथा, सुश्रुते ।
“चकोरकलविङ्कमयूरक्रकर इत्याद्युपक्रम्य
लघवः क्रकरा हृद्यास्तथा चैवोपचक्रकाः” ॥
इत्यन्तेनोपसंहृताः ॥) दीनः । क्रकचः । इति
मेदिनी ॥

क्रतुः, पुं, (क्रियतेऽसौ इति । कृ + “कृञः क्तुः” ।

उणां १ । ७८ । इति कर्म्मणि क्तु प्रत्ययः ।) यज्ञः
इत्यमरः ॥ सप्तर्ष्यन्तर्गतब्रह्ममानसपुत्त्रमुनिविशषः ।
इति मेदिनी । अयन्तु ब्रह्मणः कराज्जातः ।
(यथा, महाभारते । १ । ६५ । १० ।
“ब्रह्मणो मानसाः पुत्त्रा विदिताः षण्महर्षयः ।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः” ॥)
एतस्य भार्य्या प्रजापतेः कर्द्दमस्य कन्या क्रिया ।
पुत्राः षाष्ठिसहस्रवालिखिल्याख्याङ्गुष्ठमात्रा ऋ-
षयः ।
(यथा, -- भागवते । ४ । १ । ३८ ।
“क्रतोरपि क्रिया भार्य्या वालखिल्यानसूयत ।
ऋषीन् षष्टिसहस्राणि ज्वलतो ब्रह्मतेजसा” ॥
विश्वेदेवविशेषः । यथा, हरिवंशे ।
आत्मार्थे चासृजत्पुत्त्रान् लोककर्त्तॄन् पितामहः ॥
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः” ॥
तत उक्तं “दक्षं मरीचिमत्रिञ्च पुलस्तं पुलहं
क्रतुं । वशिष्ठं गौतमञ्चैव भृगुमङ्गिरसं म-
नुम्” । इत्याद्युपक्रम्य ।
“अथर्व्वभूता इत्येते ख्याताश्चैव महर्षयः ।
त्रयोदशसुता येषां वंशा वै संप्रतिष्ठिताः” ॥
जटाधरेण तु “विश्वेदेवा दशस्मृताः” । इत्युक्तं
तत्कल्पभेदादविरुद्धम् ॥
यथा, शतपथब्राह्मणे १० । ६ । ३ । १ ।
“यावत् क्रतुरयमस्माल्लोकात् प्रेत्यैवं क्रतुरमुं
लोकं प्रेत्य सम्भवति” ॥
यूपसहितः सोमसाध्यो यज्ञः । विष्णुः । यथा,
विष्णुसंहितायाम् ।
“यज्ञ ईज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः” ॥
अस्य भाष्यं यथा, --
“अस्य सर्व्वयज्ञस्वरूपत्वात् यज्ञः यूपसहितो
यज्ञः क्रतुरिति” । अतएव विष्णोः सर्व्वयज्ञ-
मयत्वात् यज्ञत्वं क्रतुशब्दस्यापि यूपसहितयज्ञ-
बोधकत्वं प्रसिद्धम् ॥ तद्यागे शतपथब्राह्मणादा-
वुल्लिखिता यूपविशेषाः । यथा, तत्र सोमसाध्य-
यागाश्च त्रयः क्रतवः । तथाहि श्रुतौ “त्रीन्-
क्रतूनन्वाहाग्नेयमुषस्यमाश्विनम्” । सङ्कल्पः । स
ङ्कल्पस्तु कामनाधीनश्चित्तवृत्तिविशेषः । उक्तञ्च
“कामः क्रतुः कर्म्म जन्मेत्येवमेषां क्रमो भवेत्” ।
पुंसो या विषयापेक्षा स काम इति भण्यते ।
स एव वर्द्धमानश्चेत् क्रतुत्वं प्रतिपद्यते” ॥
रुचेरातिशय्यम् । यथा, --
“रुचेरतिशयः काम्ये विषये क्रतुरीर्य्यते” ॥
स्तुत्यादिकर्म्म । यथा, ऋग्वेदे । ४ । २१ । १० ।
“पुरुष्टुत ! क्रत्वा नः स्वस्ति” । “क्रत्वा कर्म्मणा
स्तुत्यादिहेतुना” । इति भाष्यम् ॥
प्रज्ञा । यथा, छान्दोग्योपनिषदि । “अथ खलु
क्रतुमयः पुरषो यथा क्रतुरस्मिन् लोके पुरुषो
भवति । तथेतः प्रेत्य भवति स क्रतुं कुर्व्वीत” ॥
अस्य भाष्यं यथा, --
“कथमुपासीत । स क्रतुं कुर्व्वीत क्रतुर्निश्चयोऽध्य-
वसायश्च एवमेव नान्यथेति अविचलः प्रत्ययस्तं
क्रतुं कुर्व्वीतोपासीत इत्यनेन व्यवहितेन सम्बन्धः ।
किं पुनः क्रतुकरणेन कर्त्तव्यं प्रयोजनम् ? कथं
वा क्रतुः कर्त्तव्यः ? क्रतुकरणं वाभिप्रेतार्थसाधनं
कथम् ? इत्यस्यार्थस्य प्रतिपादनार्थमथेत्थादि-
ग्रन्थः । अथ खल्विति हेत्वर्थः । यस्मात् क्रतुमयः
क्रतूपायोऽध्यवसायात्मकः पुरुषो जीवः । यथा
क्रतुर्यादृशः क्रतुरस्य सोऽयं यथा क्रतुर्यथाऽध्य-
वसायो यादृङ्निश्चयोऽस्मिँल्लोके जीवन्निह पुरुषो
भवति । तथेतोऽस्याद्देहात् प्रेत्य मृत्वा भवति ।
क्रत्वनुरूपफलात्मको भवतीत्यर्थः । एव ह्येतच्छा-
स्त्रतो दृष्टम् । ‘यं यं वापि स्मरन् भावं त्यजत्यन्ते
कलेवरमित्यादि’ । यत एवं व्यवस्था शास्त्र-
पृष्ठ २/२१३
दृष्ट्याऽतः स एवं जानन् क्रतुं कुर्व्वीत यादृशं क्रतुं
वक्ष्यामस्तम् । यत एवं शास्त्रप्रामाण्यादुपपद्यते
क्रत्वनुरूपं फलमतः स कर्त्तव्यः क्रतुः” । आषाढ-
मासः । अस्मिन्नेव मासे चातुर्मास्यादियागप्रा-
चुर्य्यात् तस्य तथात्वम् । यथा, यजुर्व्वदे ।
१८ । २८ ।
“वाजाय स्वाहा, प्रसवाय स्वाहा, अपिजाय स्वाहा,
क्रतवे स्वाहा, वसवे स्वाहा” । इति । “क्रतवे याग-
रूपाय चातुर्मास्यादियागप्राचुर्य्यात् क्रतुराषाढः” ॥
इति वेददीधितिः ॥ अश्वमेधयज्ञः । यथा, मनौ ।
७ । ७९ ।
“यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः ।
धर्म्मार्थञ्चैव विप्रेभ्यो दद्याद्भोगान् धनानि च” ॥)

क्रतुद्विट्, [ष्] पुं, (क्रतुं यज्ञं द्वेष्टीति । द्विष् +

“सत्सूद्विषेति” । ३ । २ । ६१ । क्विप् ।) असुरः ।
इति त्रिकाण्डशेषः ॥

क्रतुध्रुक्, [ह्] पुं, (क्रतवे यज्ञाय द्रुह्यति द्रोहमा-

चरतीति । द्रुह् + क्विप् ।) असुरः । इति जटा-
धरः ॥ अस्य रूपान्तराणि । क्रतुध्रुग् । क्रतुध्रुट् ।
क्रतुध्रुड् ॥

क्रतुध्वंसी, [न्] पुं, (क्रतुं दक्षयज्ञं ध्वंसयतीति ।

ध्वन्स् + णिनिः । स्वजटोत्पादितवीरभद्रेण क्रतु-
ध्वंसकारितत्वादस्य तथात्वम् ।) शिवः । इत्यमरः ॥
(यथाहि अनेन दक्षयज्ञध्वंसः कृतस्तथा तद्विवरण-
मुच्यते । पुरा किल कोपपरवशो दक्षः वैरनिर्या-
तनाय शिवरहितयज्ञं चिकीर्षुस्तत्र सर्व्वान्
देवापदेवब्रह्मर्षिप्रभृतीन् आहूतवान् । अथ पत्यु-
र्भवस्यावमाननामसहमाना भवानी सती दाक्षा-
यणी पितुर्दक्षस्य यज्ञं दिदृक्षुरनाहूताऽपि दक्ष-
गृहं समाययौ । दक्षस्तु तां शिवां दृष्ट्वा मोहान्धः
कालप्रेरितः शिवनिन्दया सतीं तिरश्चकार ।
सा तु शिवनिन्दामाकर्ण्य समाधियोगाग्निना
स्वशरीरं परितत्याज । एतच्छ्रुत्वा रुद्ररूपी देव-
देवः स्वजाटातः वीरभद्रमुत्पादयन् दक्षयज्ञक्षय-
मनैषीत् । एतद्विवरणन्तु काशीखण्डे ८९ अ-
ध्याये तथा श्रीमद्भागवतप्रभृतिग्रन्थे च विस्त-
रशो द्रष्टव्यम् ॥)

क्रतुपशुः, पुं, (क्रतोरश्वमेधादेर्यज्ञस्य अङ्गविशेषः

पशुः ।) अश्वः । इति हारावली ॥

क्रतुपुरुषः, पुं, (क्रतुः यज्ञः तन्मयः तदधिष्ठाता वा

पुरुषः ।) विष्णुः । इति त्रिकाण्डशेषः ॥
(अयं हि वराहरूपियज्ञपुरुषः । यदुक्तं भाग-
वते । ३ । १३ । २१--२४ ।
“किमेतत्शौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।
अहोवताश्चर्य्यमिदं नासाया मे विनिःसृतम् ॥
दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद् गण्डशिलासमः ।
अपिस्विद्भगवानेष यज्ञो मे खेदयन् मनः ॥
इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।
भगवान् यज्ञपुरुषो जगर्जाऽङ्गेन्द्रसन्निभः ॥
ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।
स्वगर्जितेन ककुभः प्रतिस्वनतया विभुः” ॥
अस्य रूपवर्णनं यथा, तत्त्रैव । ३५--३८ ।
“रूपं तवैतन्नतु दुष्कृतात्मनां
दुर्दर्शनं देव ! यदध्वरात्मकम् ।
छन्दांसि यस्य त्वचि वर्हिरोम
स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥
स्रुक् तुण्ड आसीत् स्रुव ईश ! नासयो-
रिडोदरे चमसाः कर्णरन्ध्रे ।
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते
यच्चर्वणन्ते भगवन्नग्निहोत्रम् ॥
दीक्षानुजन्मोपसदः शिरोधरं
ते प्रायणीयोदयनीयदंष्ट्रः ।
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः
सभ्यावसथ्यं चितयोऽसवो हि ते ॥
सोमस्तु रेतः सवनान्यवस्थितिः
संस्थाविभेदास्तव देव ! धातवः ।
सत्राणि सर्व्वाणि शरीरसन्धय-
स्त्वं सर्व्वयज्ञक्रतुरिष्टिबन्धनः” ॥
अत्र श्रीधरस्वामिना यद्व्याख्यातं तद्यथा,
“यज्ञात्मतां प्रपञ्चयन्तः स्तुवन्ति रूपमित्यादि
चतुर्भिः । छन्दांसि गायत्र्यादीनि यज्ञाङ्गभूतछन्द-
आद्यनुवादेन भगवदवयवता विधीयते वर्हिः
शब्दे दीर्घाभावः आर्षः । दृशि चक्षुषि चातु-
र्होत्रं होत्रादिचतुष्टयं कर्म्म । स्रुक् जुहूः ।
तुण्डे मुखाग्रे । स्रुवो नासिकयोः । इडा भक्षण-
पात्रं चमसा ग्रहाश्च सोमपात्राणि । प्राशित्रं
ब्रह्मभागपात्रम् । ग्रस्यतेऽनेनेति ग्रसनं मुखान्त-
र्वर्त्तिच्छिद्रं चर्व्वणं भक्षणम् । दीक्षा दीक्षणीयेष्ठिः
अनुजन्म वारंवारं अभिव्याप्तिः । उपसदस्तिस्र
इष्टयः शिरोधरं ग्रीवा । प्रायणीया दीक्षानन्त-
रेष्टिः । उदयनीया समाप्तीष्टिः ते एव द्रंष्ट्रे यस्य ।
प्रवर्ग्यो महावीरः प्रत्युपसदः पूर्ब्बं क्रियते । सभ्यो
होमरहितोऽग्निः । आवसथ्य औपासनाग्निः ततो
द्वन्दैक्यं क्रतुजपस्य शीर्षकं शिरः । चितयः इष्ट-
कावचयनानि पञ्च असवः प्राणाः । प्रातः सवना-
दीनि अवस्थितिरासनं बाल्याद्यवस्था वा । अग्नि-
ष्टोमो इत्यग्निष्टोमः उक्थः षोडशी वाजपेयो-
ऽतिरात्रः आप्तोर्यामः इति सप्तसंस्थाविभेदाः
सप्तत्वड्मांसादिधातवः । सत्राणि द्वादशाहा-
दीनि बहुयागसङ्घातरूपाणि असोमा यज्ञाः
ससोमाः क्रतवस्तद्यूपस्त्वं इष्टिर्यजनं अनुष्ठानञ्च
तदेवबन्धनं यस्य सः” ॥)

क्रतुभुक्, [ज्] पुं, (क्रतौ यज्ञे देयं आज्यादिकं भुङ्क्ते ।

क्रतु + भुज् + क्विप् ।) देवता । इत्यमरः १ । १ । ९ ॥

क्रतुराजः, पुं, (क्रतुषु यज्ञेषु राजते इति । राज् +

अच् । यद्वा, क्रतूनां राजा । राजन् + टच् ।)
राजसूययज्ञः । इति शब्दरत्नावली ॥ (क्रतुराट् ।
अश्वमेधयज्ञः । यथा, मनौ ११ । २६० ।
“यथाश्वमेधः क्रतुराट् सर्व्वपापापनोदनः ।
यथाघमर्षणं सूक्तं सर्व्वपापापनोदनम्” ॥)

क्रतूत्तमः, पुं, (क्रतुषु यज्ञेषु उत्तमः ।) राजसूययज्ञः ।

इति त्रिकाण्डशेषः ॥

क्रथ, म वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--

सेट् । घटां । क्रथति । म, क्रथयति ॥)

क्रथ, क प्रतिहर्षे । इति कविकल्पद्रुमः ॥ (चुरां--

परं--सकं--सेट् ।) रेफयुक्तः । प्रतिहर्षः पुनः
पुनर्हृष्टीकरणम् । क, क्रथयति शिशुं लोकः
पुनःपुनर्हर्षयति इत्यर्थः । इति दुर्गादासः ॥

क्रथ, कि वधे । इति कविकल्पद्रुमः ॥ (चुरां पक्षे

भ्वां--परं--सकं--सेट् ।) रेफयुक्तः । कि, क्राथयति
क्रथति । इति दुर्गादासः ॥

क्रथ, कि म वधे । इति कविकल्पद्रुमः ॥ (चुरां

पक्षे भ्वां--परं--सकं--सेट् ।) रेफयुक्तः । पुनः
पाठात् पूर्ब्बो न मित् । कि म, क्रथयति । इति
दुर्गादासः ॥

क्रथनं, क्ली, (क्रथ्यते इति । क्रथ् वधे + भावे ल्युट् ।)

मारणम् । इत्यमरः । २ । ८ । ११५ ॥ (शुक्लागुरु ।
इति शब्दार्थचिन्तामणिः ॥ पुं, देवयोनिविशेषः ।
यथा, महाभारते । १ । ३२ । १८ ।
“अश्वक्रन्द्रेन वीरेण रेंणुकेन च पक्षिराट् ।
क्रथनेन च शूरेण तपनेन च खेचरः ॥
प्ररुजेन च संग्रामं चकार पुलिनेन च” ॥
दानवविशेषः । यथा, महाभारते । १ । ६७ । ५८ ।
“क्रथनस्तु महावीर्य्यः श्रीमान् राजन् महासुरः” ॥)

क्रथनकं, क्ली, (क्रथन + स्वार्थे कन् ।) सितागुरु ।

इति शब्दचन्द्रिका ॥ (पुं, क्रथने दन्तकरणक-
कण्टकछेदने प्रसृतः कन् । उष्ट्रः । इति पञ्च-
तन्त्रम् ॥)

क्रद, इ रोदने । आह्वाने । इति कविकल्पद्रुमः ॥

(भ्वां--परं--अकं--आह्वाने सकं--सेट् । इदित् ।)
इ, क्रन्द्यते । ततोऽक्रन्दीद्दशग्रीव इति । क्रन्दति
भर्त्तारमिवाभिपन्नम् । दुर्गादासमते तु षमङानु
बन्धी । यथा, ष, क्रन्दा । म, क्रन्दयति । ङ,
क्रन्दते । इति ॥

क्रद, ष म ङ वैक्लव्यविकलत्वयोः । इति कविकल्प-

द्रुमः ॥ (भ्वां--आत्मं--अकं--सेट्--घटां ।) ष, क्रदा ।
म, क्रदयति । ङ, क्रदते । इति दुर्गादासः ॥

क्रन्द, क शब्दसातत्ये । इति कविकल्पद्रुमः ॥ (चुरां--

परं--अकं--सेट् ।) रेफयुक्तः । आ उपसर्गपूर्ब्बकः ।
क, आक्रन्दयति । शब्दसातत्यं निरन्तरशब्दक्रिया ।
इतिदुर्गादासः ॥

क्रन्दनं, क्ली, (क्रदि + भावे ल्युट् ।) शोकादिनाऽस्रु-

पतनम् । काँदन इति भाषा । तत्पर्य्यायः । क्रन्दि-
तम् २ रुदितम् ३ क्रुष्टम् ४ रोदनम् ५ । इति
शब्दरत्नावली ॥ (यथा, पञ्चतन्त्रे ४ । ३१ ।
“तं भक्षितं मत्वा गङ्गदत्तस्तारस्वरेण धिग्धिक्
प्रलापपरः कथञ्चिदपि न क्रन्दनात् विरराम” ॥)
योधसंरावः । आह्वानम् । इत्यमरः । २ । ८ । १०७ ॥

क्रन्दनः, पुं, (क्रन्दनं रोदनमिव शब्दविशेषः अस्या-

स्तीति अच् ।) विडालः । इति शब्दमाला ॥

क्रन्दितं, क्ली, (क्रदि + भावे क्तः ।) रोदनम् । इत्य-

मरः । १ । ७ । ३५ ॥ आह्वानम् । इति मेदिनी ॥
योधचीत्करणम् । इति शब्दरत्नावली ॥

क्रप, ष म ङ कृपायाम् । इति कविकल्पद्रुमः ॥

(भ्वां--आत्मं--अकं--सेट् ।) कृपा दया । ष, कृपा ।
भीषि चिन्तीति ङे मनीषाद्या इति निपात-
नात् रेफस्य ऋकारः । म, क्रपयति । ङ, क्रपते
दयालुर्दीनम् । इति दुर्गादासः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/केरली&oldid=43933" इत्यस्माद् प्रतिप्राप्तम्