शब्दकल्पद्रुमः/कृकलाशः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/१७४

कृकलाशः, पुं, (कृकं कण्टं लासयति शोभायुक्तं

करोति । कृक + लस + णिच् + अच् । पृषो-
दरात् तालव्यशकारः ।) कृकलासः । इति
त्रिकाण्डशेषः ॥

कृकलासः, पुं, (कृकं कण्टं लासयति शोभान्वितं

करोतीति । कृक + लस + णिच् अच् ।) जन्तु-
विशेषः । काँकलास् इति भाषा ॥
(यथा, भागवते । ८ । १० । ११ ।
“शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः” ।)
तत्पर्य्यायः । सरटः २ । इत्यमरः । २ । ५ । १२ ॥
वेदारः ३ क्रकचपात् ४ तृणाञ्जनः ५ प्रतिसूर्य्यः ६ ।
इति त्रिकाण्डशेषः ॥ प्रतिसूर्य्यकयानकः ७
वृत्तिस्थः ८ कण्टकागारः ९ दुरारोहः १० द्रुमा-
श्रयः ११ । इति राजनिर्घण्टः ॥ (सूर्य्यवंशोद्भवो-
नृगनामको राजा ब्रह्मगोहरणेन कृकलासत्वं
गतस्तद्विवरणं महाभारते १३ । ७० अध्याये ।
उक्तं यथा, --
“अत्रैव कीर्त्त्यते सद्भिर्ब्राह्मणस्वाभिमर्षणे ।
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ! ॥
अदृश्यत महाकूपस्तृणवीरुत्समावृतः ।
प्रयत्नं तत्र कुर्व्वाणास्तस्मात् कूपाज्जलार्थिनः ॥
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ।
ददृशुस्ते महाकायं कृकलासमवस्थितम् ॥
तस्य चोद्धरणे यत्नमकुर्व्वंस्ते सहस्रशः ।
प्रग्रहैश्चर्म्मपट्टैश्च तं बद्ध्वा पर्व्वतोपमम् ।
नाशक्नुवन् समुद्धर्त्तुं ततो जग्मुर्जनार्द्दनम् ।
खमावृत्योदपानस्य कृकलासः स्थितो महान् ।
तस्य नास्ति समुद्धर्त्तेत्येतत् कृष्णे न्यवेदयन्” ॥)

कृकवाकुः, पुं, (कृकेन गलेन वक्ति । “कृके वचः कश्च” ।

उणां १ । ६ । इति कृकशब्द उपपदे ञुण् कश्चा-
न्तादेशः ।) कुक्कुटः । इत्यमरः । २ । ५ । १७ ॥
(यथा, माघे ११ । ९ । “अनुनयमगृहीत्वा व्याज-
सुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य-
कल्ये” ॥) मयूरः । सरटः । इति मेदिनी ॥

कृकवाकुध्वजः, पुं, (कृकवाकुः मयूरः ध्वजे रथध्वजे

यस्य ।) कार्त्तिकेयः । इति त्रिकाण्डशेषः ॥

कृकाटिका, स्त्री, (कृकं कण्ठं अटति आप्नोति कण्ठं

व्याप्यास्तीति भावः । अट् + ण्वुल् टाप् अत
इत्वं च ।) घाटा । इत्यमरः । २ । ६ । ८८ ॥
घाड इति भाषा ॥ (यथा, सुश्रुते “जत्रूर्द्ध्व मर्म्माणि
चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके” ॥
“जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्द-
रावर्त्तकृकाश्चेति सन्धिमर्म्माणि” ॥)

कृकूलासः, पुं, (कृकलास + पृषोदरात् दीर्घऊ-

कारः ।) कृकलासः । इत्यमरटीका ॥

कृच्छ्रं, क्ली, (कृन्तति सुखम् । कृति छेदने “कृतेश्छ-

क्रू च” । उणां । २ । २१ इति रक् छश्चान्तादेशः ।)
कष्टम् । (यथा, मनुः ६ । ७८ ।
“नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ।
तथा त्यजन्निमन्देहं कृच्छ्राद्ग्राहाद्विमुच्यते” ॥
“मिवोपला वा समयावशूका
कृच्छ्रेय सर्व्वेष्वपि भेषनं स्यात्” ॥
“रेतोविघातप्रभवे तु कृच्छ्रे
समीक्ष्य दोषं प्रतिकर्म कुर्य्यात्” ॥
इति चरके चिकित्सास्थाने २६ अध्याये ॥)
तद्वति त्रि ॥ कृन्तत्यनेन पापमिति । सान्तपनादि-
व्रतम् । इत्यमरः । २ । ७ । ४२ ॥ (यथा, याज्ञवल्क्ये ।
“गोमूत्रं गोमयं क्षीरं दधिसर्पिःकुशोदकम् ।
जग्ध्वा परेह्न्युपवसेत् कृच्छ्रं सान्तपनं चरन्” ॥)
स्मृतौ व्रते पुंलिङ्गोऽप्ययम् ॥
पापम् । इति मेदिनी ॥ मूत्रकृच्छ्ररोगः । इति
राजनिर्घण्टः ॥
(“हरीतकीगोक्षुरराजवृक्ष-
पाषाणभिद्धन्नयवासकानाम् ।
क्वाथं पिबेन्माक्षिकसंप्रयुक्तम् ॥”
इति वैद्यकचक्रपाणिसङ्ग्रहे मूत्रकृच्छ्राधिकारे ॥
व्यसनम् । यथा, रामायणे ४ । १४ । १४ ।
“अनृतं नोक्तपूर्ब्बं मे चिरं कृच्छ्रेऽपि तिष्ठता ।
धर्म्मलोभपरीतेन न च वक्ष्ये कथञ्चन” ॥)

कृच्छ्रातिकृच्छ्रः, पुं, (कृच्छ्रात् कष्टादपि अतिकृच्छ्रः ।)

व्रतविशेषः । यथा, वशिष्ठः । “अब्भक्षस्तृतीयः
कृच्छ्रातिकृच्छ्रो यावत् सकृदाददीत । यावदेकवार-
मुदकं हस्तेनं ग्रहीतुं शक्नोति तावन्नवसु दिवसेषु
भक्षयित्वा त्र्यहमुपवासः कृच्छ्रातिकृच्छ्रः” ॥ सुमन्तु-
र्यंथा । “द्वादशरात्रं निराहारः स कृच्छ्रातिकृच्छ्रः ।
एतत् कृच्छ्रातिकृच्छ्रद्वयं द्वादशाहसाध्यमशक्तविष-
यम्” ॥ ब्रह्मपुराणम् ।
“चरेत् कृच्छ्रातिकृच्छ्रञ्च पिबेत्तोयञ्च शीतलम् ।
एकविंशतिरात्रन्तु कालेष्वेतेषु संयतः” ॥
कालेष्विति प्रातःसायंमध्याह्नेष्वित्यर्थः । इति
प्रायश्चित्तविवेकः ॥ (यथा, मनुः ११ । २०८ ।
“अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
कृच्छ्रातिकृच्छ्रौ कुर्व्वीत विप्रस्योत्पाद्य शोणितम्” ॥)

कृच्छ्रारिः, पुं, (कृच्छ्रास्य मूत्रकृच्छ्ररोगस्य कष्टस्य

वा अरिर्नाशकः ।) विल्वान्तरवृक्षः । इति राज-
निर्घण्टः ॥

कृच्छ्रार्द्धः, पुं, (कृच्छ्रस्य अतीवक्लेशसहव्रतविशेषस्य

अर्द्धः अंशविशेषः । दिनषट्कसाध्यत्वात्तथात्वम् ।)
दिनषट्कसाध्यव्रतविशेषः । यथा, आपस्तम्बः ।
“सायं प्रातस्तथैकैकं दिनद्वयमयाचितम् ।
दिनद्वयञ्च नाश्नीयात् कृच्छ्रार्द्धः सोऽभिधीयते” ॥
इति प्रायश्चित्तविवेकः ॥

कृणुः, पुं, (करोति प्रतिमूर्त्त्यादिकम् । कृ + बाहुल-

कात् नु णत्वञ्च ।) चित्रकरजातिः । इति त्रि-
काण्डशेषः ॥

कृत्, ई श प छिदि । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) ई, कृत्तः । श प, कृन्तति ।
(यथा, हितोपदेशे, --
“न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति” ॥)
नृत्कृत्वृदित्यादिसूत्रेण वेमत्वादेव निष्ठायां
अनिमत्वे सिद्धे अस्य पूर्ब्बस्य च ईदनुबन्धो नेम्-
डीश्वीत्यस्य व्यभिचारसूचनार्थः । तेन धावुञ जवे
मृजीत्यादीनां धाविताः पान्थसार्था इत्यादि
सिद्धमिति रमानाथः । मनितः यतितं इत्यादि
सिद्धमिति क्रमदीश्वरः । ईदित्करणमाभ्यां यङ्-
लुकि निष्ठायां इम्निषेधार्थं इति केचित् ।
चरीकृत्त इति । किञ्चैतन्मते धावितादीनां
धावनं धावः धावोऽस्य जातः धावितः इत्यादि
समाधानम् । “विरहिनिकृन्तनकुन्तमुखाकृति-
केतकिदन्तुरिताशे” इत्यत्र निकृन्तन इति जय-
देवोक्तं निकृन्तं करोति इति शत्रन्तात् ञौ
नन्द्यादित्वादने साध्यम् । इति दुर्गादासः ॥

कृत्, ई ध वेष्टे । इति कविकल्पद्रुमः ॥ (रुधां-परं-

सकं-सेट् । ईर्निष्ठायामनिट् ।) ई, कृत्तः । ध,
कृणत्ति चकर्त्त । इति दुर्गादासः ॥

कृतं, क्ली, (क्रियते सत्यमेवानुष्ठीयतेऽस्मिन् यद्वा

क्रियते सत्ये स्थाप्यते लोको यत्र । कृ + क्तः ।)
सत्ययुगम् । (यथा, विष्णुपुराणे । २ । १ । ४३ ।
“कृतत्रेतादिसर्गेण युगाख्यां ह्येकसप्ततिः” ॥)
पर्य्याप्तम् । इत्यमरः । ३ । ३ । ७६ ॥ फलम् । इति
हेमचन्द्रः ॥ अलमर्थः । इति मेदिनी ॥ (यथा, --
शाकुन्तले १ माङ्के । “अथवा कृतं सन्देहेन” ॥
पुं, वसुदेवस्य रोहिण्यां पत्न्यां जातः पुत्त्रविशेषः ।
यथा, भागवते ९ । २४ । ४६ ।
“बलं गदं सारणञ्च दुर्म्मदं विमलं ध्रुवम् ।
वसुदेवस्तु रोहिण्यां कृतादीनुदपादयत्” ॥)

कृतं, त्रि, (क्रियते विधीयते हन्यते निष्पाद्यते वा ।

कृ + कर्म्मणि क्तः ।) विहितम् । (यथा, वेणीसंहारे ।
“कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्” ॥)
हिंसितम् । इति मेदिनी ॥ निष्पादितम् । इत्य-
मरटीकायां मथुरानाथः ॥

कृतकं, क्ली, (कृत + संज्ञायां कन् ।) विडलवणम् ।

इत्यमरः ॥ (अस्य पर्य्याया यथा,
“विडम्पाक्यञ्च कृतकं तथा द्राविडमासुरम्” ॥
इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥
कृन्ततीति कृती छेदने + “बहुलमन्यत्रापि” ।
उणां २ । ३७ । इति क्वुन् । मिथ्या । इत्यु-
ज्ज्वलदत्तः ॥ पुं, वसुदेवस्य मदिरायां पत्न्यां
जातः पुत्त्रविशेषः । यथा, भागवते ९ । २४ । ४८ ।
“नन्दोपनन्दकृतकशूराद्या मदिरात्मजाः” ॥
त्रैलोक्यमेतत् कृतकमित्युच्यते कार्य्यत्वात् । यथा,
विष्णुपुराणे । २ । ७ । १६-२० ।
“पादगम्यन्तु यत्किञ्चित् वस्त्वस्ति पृथिवीमयम् ।
स भूर्लोकः समाख्यातो विस्तारोऽस्य मयोदितः ॥
भूमिसूर्य्यान्तरं यत्तु सिद्धादिमुनिसेवितम् ।
भुवर्लोकस्तु सोऽप्युक्तो द्वितीयो मुनिसत्तम ! ॥
ध्रुवसूर्य्यान्तरं यच्च नियुतानि चतुर्द्दश ।
स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिन्तकैः ॥
त्रैलोक्यमेतत् कृतकं मैत्रेय ! परिपठ्यते ।
जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥
कृताकृतकयोर्मध्ये मर्हलोक इति स्मृतः ।
शून्यो भवति कल्पान्ते योऽत्यन्तं न विनश्यति” ॥
अत्र व्याख्यायां श्रीमत्स्वामिपादेनोक्तम् ।
यथा, --
“त्रैलोक्यं कृतकं प्रतिकल्पं कार्य्यत्वात् ।
पृष्ठ २/१७५
जनर्लोकादित्रयं अकृतकं प्रतिकल्पमकार्य्यत्वात् ॥
महलाकस्य कृताकृतत्वे हेतुमाह शून्य इति” ॥)

कृतकः, त्रि, (कृन्तति स्वरूपम् । कृत् + क्कुन् । करणा-

ज्जात इत्यर्थः । कृत्रिमस्य स्वरूपाच्छादकत्वात्
तथात्वम् ।) कृत्रिमः । इत्युणादिकोषः ॥
(यथा, महाभारते । ४ । २ । २९ ।
“एतेन विधिना छन्नः कृतकेन यथानलः” ॥)

कृतकर्म्मा, [न्] त्रि, (कृतं कर्म्म येन सः ।) कार्य्य-

क्षमः । तत्पर्य्यायः । प्रवीणः २ शिक्षितः ३ नि-
ष्णातः ४ निपुणः ५ दक्षः ६ कृतहस्तः ७ कृतमुखः
८ कुशलः ९ चतुरः १० अभिज्ञः ११ विज्ञः १२
वैज्ञानिकः १३ पटुः १४ छेकः १५ विदग्धः १६ ।
इति हेमचन्द्रः ॥ (यथा, महाभारते १ । १५५ । २९ ।
“अथवाप्यहमेवैनं हनिष्यामि वृकोदर ! ।
कृतकर्म्मा परिश्रान्तः साधु तावदुपारम” ॥
पुं, विष्णुः । यथा, महाभारते १३ । १४९ । ९७ ।
“इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः” ॥)

कृतकृत्यः, त्रि, (कृतं निष्पादितं कृत्यं कार्य्यं येन सः ।)

निष्पन्नकर्म्मा । समाप्तकार्य्यः । यथा, माघे । २ । ३२ ।
“कृतकृत्यो विधिर्मन्ये न वर्द्धयति तस्य ताम्” ॥

कृतकोटिः, पुं, (कृता विहिता कोटिः शास्त्राणां

अन्तरर्थादिभेदने पूर्ब्बपक्षविशेषो येन । यद्वा,
कृता लब्धा कोटिः श्रेष्ठता येन । धातूनामने-
कार्थत्वात् कृधातुरत्र प्राप्त्यर्थे युज्यते ।) काश्यप-
मुनिः । उपवर्षमुनिः । इति त्रिकाण्डशेषः ॥

कृतक्रियः, त्रि, (कृता क्रिया कार्य्यं येन सः ।) कृत-

कार्य्यः । यथा, मनुः । ५ । ९९ ।
“विप्रः शुध्यत्यपः स्पृष्टा क्षत्त्रियो वाहनायुधम् ।
तैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः” ॥

कृतघ्नः, त्रि, (कृतं येन केनचिज्जनेन उपकृतं

हन्ति नाशयति यः । अहङ्कारादिप्रयुक्तया दुष्ट-
बुद्ध्या उपकृतस्यानङ्गीकारकत्वात् तथात्वम् ।)
कृतहन्ता । अर्थात् येन केनचित्कृतस्य उपकारा-
देर्घातकः अस्वीकर्त्ता । नेमखाराम इति पारस्य
भाषा ॥ (यथा, मनुः ४ । २१४ ।
“पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा ।
शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च” ॥)
तस्य प्रायश्चित्ताभावो यथा, --
“ब्रह्मघ्ने च सुरापे च चौरे च गुरुतल्पगे ।
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः” ॥
स तु बहुविधो यथा, --
“भर्त्तृपिण्डापहर्त्ता च पितृपिण्डापहारकः ।
यस्माद्गृहीत्वा विद्याञ्च दक्षिणां न प्रयच्छति ॥
पुत्त्रान् स्त्रियश्च यो द्वेष्टि यश्च तान् घातयेन्नरः ।
कृतस्य दोषं वदति सकामान् न करोति यः ॥
न स्मरेच्च कृतं यस्तु आश्रमान् यस्तु दूषयेत् ।
सर्व्वांस्तानृषिभिः सार्द्धं कृतघ्नानब्रवीन्मनुः” ॥
इति प्रायश्चित्ततत्त्वे स्कन्दपुराणवचनम् ॥

कृतच्छिद्रा, स्त्री, (कृतं छिद्रं यस्याम् ।) कोशातकी

लता । इति राजनिर्घण्टः ॥

कृतज्ञः, त्रि, (कृतं उपकृतं जानाति स्वीकरोति यः ।

ज्ञा + कः ।) मर्य्यादी ।
(यथा, मनुः । ७ । २०९--२१०
“धर्म्मज्ञञ्च कृतज्ञञ्च तुष्टिप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥
प्राज्ञं कुलीनं शूरञ्च दक्षं दातारमेव च ।
कृतज्ञं धृतिमन्तञ्च कष्टमाहुररिं बुधाः” ॥)
कुक्कुरे, पुं । इति मेदिनी ॥
(पुं, विष्णुः । यथा, महाभारते १३ । १४९ । २२ ।
“अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्” ॥)

कृतत्रा, स्त्री, (कृतं त्रायते । कृत + त्रै + कः ।)

त्रायमाणा लता । इति राजनिर्घण्टः ॥

कृतदासः, पुं, (कृतः विहितः कृतनियमो वा दासः ।)

नारदोक्तपञ्चदशदासान्तर्गतदासविशेषः । स तु
केनचिन्निमित्तेन एतावत्कालपर्य्यन्तं तवाहं दास
इति कृतसमयः । इति क्रमसंग्रहः ॥

कृतपुङ्खः, त्रि, (कृतः अभ्यस्तः पुङ्खः पुङ्खयुक्तो वाणो

येन ।) वाणशिक्षाविचक्षणः । भाल तिरान्दाज
इति भाषा । तत्पर्य्यायः । कृतहस्तः २ सुप्रयोग-
विशिखः ३ । इत्यमरः । २ । ८ । ६८ ॥

कृतपूर्व्वी, [न्] त्रि, (कृतं निष्पादितं पूर्व्वमनेन ।

कृतपूर्ब्ब + “सपूर्ब्बाच्च” । ५ । २ । ८७ । इति
इनिः ।) पूर्ब्बनिष्पन्नकर्म्मा । यथा । कृतपूर्ब्बो
कटम् । इति संक्षिप्तसारव्याकरणम् ॥

कृतफलं, क्ली, (कृतं फलं अस्य ।) कक्कोलम् । इति

राजनिर्घण्टः ॥

कृतफला, स्त्री, (कृतं फलं अस्याः ।) कोलशिम्बी

इति राजनिर्घण्टः ॥

कृतमालः, पुं, (कृता माला अस्य । मालावदुत्पन्नप्रसु-

नत्वादस्य तथात्वम् ।) आरग्बधवृक्षः । सोँदालि
इति भाषा । इत्यमरः । २ । ४ । २४ ॥ कर्णिका-
रवृक्षः । स तु लघ्वारग्बधः । इति राजनिर्घण्टः ।
छोट शोनालु इति भाषा ॥ (अस्य पर्य्याया यथा ।
“आरेवतो राजवृक्षः प्रग्रहश्च तुरङ्गलः ।
आरग्बधोऽथ शम्पाकः कृतमालः सुवर्णकः” ॥
इति वैद्यकरत्नमालायाम् ॥
चरके कल्पस्थाने ऽष्टमेऽध्याये ऽस्य पर्य्याया यथा ।
“आरग्बधो राजवृक्षः सम्पाकश्च तुरङ्गुलः ।
प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः” ॥)

कृतमुखः, त्रि, (कृपं संस्कृतं मुखं यस्य ।) कृतकर्म्मा ।

कृती । इत्यमरः । ३ । १ । ४ ॥

कृतलक्षणः, त्रि, (कृतानि लक्षणानि अस्य ।) गुणैः

प्रतीतः । शौर्य्यादिगुणैः ख्यातः । इत्यमरः । ३ ।
१ । १० ॥ (पुं, सर्व्वलक्षणवत्त्वात् विष्णुः । यथा,
महाभारते । १३ । १४९ । ६४ ।
“अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः” ॥)

कृतवेतनः, त्रि, (कृतं विहितं वेतनं यस्य ।) वेतनेन

नियुक्तदासादिः । इति स्मृतिः ॥

कृतवेधकः, पुं, (कृतः वेधोऽस्य । ततः कप् ।) घोषा-

तकी । इति रत्नमाला । श्वेतघोषा इति भाषा ॥

कृतवेधना, स्त्री, (कृतं वेधनं अस्याः ।) कोषातकी

लता । इति राजनिर्घण्टः ॥

कृतश्रमः, त्रि, (कृतः श्रमो यत्र ।) महोत्साहः । येन

श्रमः कृतः सः । इति शब्दमाला ॥

कृतसापत्निका, स्त्री, (कृतं सापत्न्यं यस्याः । कप् टाप

ततः अत इत्वे य लोपः ।) कृतसपत्नीभावा ।
प्रथमविवाहिता स्त्री । तत्पर्य्यायः । अध्यूढा २
अधिविन्ना ३ । इत्यमरः । २ । ६ । ७ ॥ कृतसा-
पत्नका ४ कृतसापत्नी ५ कृतसापत्नीका ६ । इति
तट्टीकायां रमानाथः ॥

कृतहस्तः, त्रि, (कृतः अभ्यस्तः हस्तः वाणादिनिक्षेप-

लाघंवरूपा शिक्षा येन सः ।) कृतपुङ्खः । सुशि-
क्षितशरमोक्षयोधादिः । इत्यमरः २ । ८ । ६८ ॥
(यथा, महाभारते । ४ । ५६ । २० ।
“अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्ततत्” ॥)

कृताञ्जलिः, त्रि, कृतः अञ्जलिः येन सः । बद्धाञ्जलिः ।

यथा, छन्दोगपरिशिष्टे ।
“तदसंयुक्तपार्ष्णिर्व्वा एकपादर्द्धपादपि ।
कुर्य्यात्कृताञ्जलिर्व्वापि ऊर्द्ध्वबाहुरथापि वा” ॥
इति सूर्य्योपस्थाने आह्निकाचारतत्त्वम् ॥ (कृतः
अञ्जलिरिव पत्रसङ्कोचो येन ।) ओषधिभेदे, पुं ।
इति धरणी ॥

कृतान्तः, पुं, (कृतः अन्तः नाशः, शास्त्रनिर्णयः, विप-

र्य्ययो वा येन । यथायथं व्युत्पत्तिर्दर्शनीया ।)
यमः । (यथा, गोः रामायणे । ५ । ३५ । ३ ।
“ऐश्वर्य्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
रज्ज्वेव पुरुषो बद्ध्वा कृतान्तेनोपनीयते” ॥)
सिद्धान्तः । (यथा, भगवद्गीतायाम् । १४ । १३ ।
“पञ्चेमानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व्वकर्म्मणाम्” ॥)
दैवम् । पूर्ब्बदेहकृतं फलोन्मुखीभूतं शुभाशुभ-
कर्म्म । अकुशलकर्म्म । इत्यमरः । ३ । ३ । ६४ ॥
शनिवारः । इति शब्दचन्द्रिका ॥ (यथा, तिथि-
तत्त्वधृतज्योतिषवचने ।
“कृतान्तकुजयोर्वारे यस्य जन्मदिनं भवेत्” ॥
यमदैवत्यमरणीनक्षत्रम् । तेन द्वित्वसङ्ख्या ॥ अश्वि-
यमदहनेति वचनात् ॥)

कृतान्तजनकः, पुं, (कृतान्तस्य यमस्य जनकः जन्म-

दाता ।) सूर्य्यः । इति हेमचन्द्रः ॥

कृतान्ता, स्त्री, (कृतान्त + टाप् ।) रेणुकानामगन्ध-

द्रव्यम् । इति शब्दचन्द्रिका ॥

कृतार्थः, त्रि, (कृतः निष्पादितः प्राप्तो वा अर्थः

प्रयोजनं येन ।) कृतप्रयोजनः । कृतकार्य्यः ।
यथा, माघे । १ । ९ । “विलोकनेनैव तवामुनामुने
कृतः कृताथोऽस्मि निवर्हितांहसा” ॥

कृतालयः, पुं, (कृते अन्यकृतगर्त्ते जलाशयादो आलयः

आश्रयो यस्य ।) भेकः । इति त्रिकाण्डशेषः ॥
(कृतः आलयः येन । कृतवासे, त्रि । यथा,
रामायणे ।
“यत्र ते दयिता भार्य्या तनयाश्च कृतालयाः” ॥)

कृतावशक्थिकः, त्रि, (कृता आवशक्थिका येन ।)

वस्त्रादिना कृतपृष्ठजानुजङ्घादिबन्धः । इति
कात्यायनः ॥ (यथा, आह्निकतत्त्वधृतकात्यायन-
वचने ।
“प्रौढपादो न कुर्व्वीत स्वाध्यायपितृतर्पणम् ।
आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा ।
पृष्ठ २/१७६
कृतावशक्थिको यस्तु प्रौढपादः स उच्यते” ॥)

कृतिः, स्त्री, (कृ + भावे क्तिन् ।) करणम् । हिंसा ।

इति मेदिनी ॥ (पुरुषप्रयत्नः । कर्त्तृव्यापारः ।
क्रिया । यथा, मुग्धबोधे ।
“जगतां कारकः कृष्णः कृतिर्मुररिपोरियम्” ॥
पुं, ऋषिविशेषः । यथा, विष्णुपुराणे । ३ । ६ । ७ ।
“हिरण्यनाभशिष्यश्च चतुर्विंशतिसंहिताः ।
प्रोवाच कृतिनामासौ शिष्येभ्यः स महामतिः” ॥
नृपभेदः । यथा, भार्कण्डेयपुराणे । ८ । २१ ।
“सप्ताश्वमेधानाहृत्य राजसूयञ्च पार्थिवः ।
कृतिर्नाम च्युतः स्वर्गात् असत्यवचनात् सकृत्” ॥
स तु जनकवंशजातः । यथा, भागवते । ९ । १३ । २६ ।
“बहुलाश्वो घृतेस्तस्य कृतिरस्य महाबलः” ॥
विंशत्यक्षरपादकछन्दोभेदः ॥ यथा, “कृतिः प्रकृ
तिराकृतिः” ॥ विंशतिसङ्ख्या । कर्त्तनी । यथा,
ऋग्वेदे । १ । १६९ । ३ ।
“ऐषामंसेषु रम्भिणीव रारभे
हस्तेषु खादिश्च कृतिश्च सन्दधे” ॥
विष्णुः । यथा, महाभारते । १३ । १४९ । २२ ।
“अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्” ॥)

कृतिकरः, पुं, (कृतिसङ्ख्या विंशतिसङ्ख्या करा यस्य ।)

रावणः । इति शब्दमाला ॥

कृती, [न्] त्रि, (कृतं कर्म्म प्रशस्तमस्यास्ताति । अत

इनिः ।) निपुणः । पण्डितः । इत्यमरः । ३ । १ । ४ ॥
साधुः । पुण्यवान् । इति शब्दरत्नावली ॥ (कृत
क्रियः । यथा, रघौ ३ । ५१ ।
“गृहाण शस्त्रं यदि सर्ग एष ते
नखल्वनिर्जित्य रघुं कृती भवान्” ॥)

कृत्तं, त्रि, (कृती श प् छिदि + क्तः ।) छिन्नम् । चेष्टि-

तम् । इति हेमचन्द्रः ॥

कृत्तिः, स्त्री, (कृत्यते इति । कृत् + कर्म्मणि क्तिन् ।)

कृष्णसारादिचर्म्म । इत्यमरः । २ । ७ । ४७ ॥
(यथा, महादेवध्याने ।
“समन्तात् स्तुतममरगणैर्व्याघ्रकृत्तिं वसानम्” ॥)
त्वक् । भूर्जः । कृत्तिकानक्षत्रम् । इति मेदिनी ॥

कृत्तिका, स्त्री, (कृन्तति उग्रत्वात् । कृत् + “कृति-

भिदिलतिभ्यः कित्” । उणां ३ । १४७ । इति
तिकन् किच्च ।) अश्विन्यादिसप्तविंशत्यन्तर्गततृ-
तीयनक्षत्रम् । तत्पर्य्यायः । बहुला २ अग्निदेवा
३ । इति हेमचन्द्रः ॥ तस्या रूपम् । अग्निशि-
खाकृतिषट्तारकामयम् । इति कालिदासः ।
क्षुरनिभषट्तारामयम् । इति केचित् । तस्या
अधिष्ठात्री देवता अग्निः । सा तु मिश्रगणान्त-
र्गता । इति दीपिका ॥ तत्र जातस्य फलम् ।
“क्षुधाधिकः सत्यधनैर्व्विहीनो
वृथाटनोत्पन्नमतिः कृतघ्नः ।
कठोरवाक् चाहितकर्म्मकृत् स्यात्
चेत् कृत्तिकायां मनुजः प्रसूतः” ॥
इति कोष्ठीप्रदीपः ॥

कृत्तिकाभवः, पुं, (कृत्तिकायाः भवोऽस्य ।) चन्द्रः ।

इति शब्दचन्द्रिका ॥ (कृत्तिकाधवः । इति के-
चित ॥)

कृत्तिकासुतः पुं, (कृत्तिकायाः सुतः तया पालित-

त्वात् ।) कार्त्तिकेयः । इति हेमचन्द्रः ॥

कृत्तिवासः, पुं, (कृत्त्या गजासुरचर्म्मणा वस्ते स्व-

कटिदेशं आच्छादयति यः । वस् आच्छादने +
“कर्म्मण्यण्” । ३ । २ । १ । इति अण् ।) शिवः ।
इति द्विरूपकोषः ॥

कृत्तिवासाः, [स्] पुं, (कृत्तिर्गजासुरस्य चर्म्म वासो-

ऽस्य ।) शिवः । इत्यमरः । १ । १ । ३३ ॥
(यथा च महादेवस्य चर्म्मवसनत्वं जातं तथा
काशीखण्डे ६४ अध्याये वर्णितं यथा, --
“कोलाहलो महानासीत् त्रात त्रातेति सर्व्वतः ।
महिषासुरपुत्त्रोऽसौ समायाति गजासुरः ॥
प्रमघ्नन् प्रमथान् सर्व्वान् निजबीर्य्यमदोद्धतः ।
यत्र यत्र धरायां स चरणं प्रमिणोति हि ॥
अचलान् दोलयाञ्चक्रे तत्र तत्रास्य भारतः ।
उरुवेगेण तरवः पतन्ति शिखरैः सह ॥
तस्य दोर्दण्डवातेन चूर्णाः स्युश्च शिलोच्चयाः ।
यस्य मौलिजसंघर्षात् घना व्योम त्यजन्त्यलम् ॥
नीलिमानं न चाद्यापि जहुस्तत्केशसङ्गजम् ।
यस्य निःश्वाससम्भारैरुत्तरङ्ग महाब्धयः ॥
नाद्याप्यमन्दकल्लोला भवन्ति तिमिभिः सह ।
योजनानां सहस्राणि नव यस्य समुच्छ्रयः ॥
तावानेव हि विस्तारस्तनोर्मायाविनोऽस्य हि ।
यन्नेत्रयोः पिङ्गलिमा तथा तरलिमा पुनः ॥
विद्युता नोह्यतेऽद्यापि सोऽयमायाति सत्वरः ।
यां यां दिशं समभ्येति सोयं दुःसहदानवः ॥
नाद्य समीभवेदस्य साध्वसादिव दिग्भयम् ।
ब्रह्मलव्धवरश्चायं तृणीकृतजगत्त्रयः ॥
अवध्योऽहं भवामीति स्त्रीपुंभिः कामनिर्जितैः ।
ततस्त्रिशूलहेतिस्तमायान्तं दैत्यपुङ्गवम् ॥
विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ।
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ॥
छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ॥
गजासुर उवाच ।
त्रिशूलपाणे ! देवेश ! जाने त्वां स्मरहारिणम् ॥
तव हस्ते मम वधः श्रेयानेव पुरान्तक ! ।
किञ्चिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम् ॥
सत्यं ब्रवीमि नासत्यं मृत्युञ्जय ! विचारय ।
त्वमेको जगतीबन्धो ! विश्वस्योपरि संस्थितः ॥
अहत्वदुपरिष्टाच्च स्थितोस्मीति जितं मया ।
धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः ॥
कालेन सर्व्वैर्मर्त्तव्यं श्रेयसे मृत्युरीदृशः ।
इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः ।
प्रोवाच प्रहसन् शम्भुर्घटोद्भवगजासुरम् ॥
ईश्वर उवाच ।
गजासुर ! प्रसन्नोस्मि महापौरुषसेवधे ! ।
स्वानुकूलं वरं ब्रूहि ददामि सुमते ऽसुर ! ॥
इत्याकर्ण्य स दैत्येन्द्रः प्रत्युवाच महेश्वरम् ॥
गजासुर उवाच ।
यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे ।
इमां कृत्तिं विरूपाक्ष ! त्वत्त्रिशूलाग्निपाविताम् ।
सुप्रमाणां सुखस्पर्शां रणाङ्गणपणीकृताम् ॥
इष्टगन्धिः सदैवास्तु सदैवास्त्वतिकोमला ।
सदैव निर्म्मला चास्तु सदैवास्त्वतिमङ्गलम् ॥
महातपानलज्वालां प्राप्यापि सुचिरं विभो ! ।
न दग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः ॥
यदि पुण्यवती नैषा मम कृत्तिर्दिगम्बर ! ।
तदा त्वदङ्गसङ्गोऽस्याः कथं जातो रणाङ्गने ॥
अन्यञ्च मे वरं देहि यदि तुष्टोऽसि शङ्कर ! ।
नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ॥
इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शङ्करः ।
पुनः प्रोवाच तं दैत्यं मक्तिनिर्म्मलमानसम् ॥
ईश्वर उवाच ।
शृणु पुण्यनिधे ! दैत्य ! वरमन्यं सुदुर्लभम् ।
अविमुक्ते महाक्षेत्रे रणत्यक्तकलेवर ! ॥
इदं पुण्यशरीरं ते क्षेत्रेऽस्मिन् मुक्तिसाधने ।
मम लिङ्गं भवत्वत्र सर्वेषां मुक्तिदायकम् ॥
कृत्तिवासेश्वरं नाम महापातकनाशनम् ।
सर्व्वेषामेव लिङ्गानां शिरोभूतमिदं वरम् ॥
यावन्ति सन्ति लिङ्गानि वारानस्यां महान्त्यपि ।
उत्तमं तावतामेतदुत्तमाङ्गवदुत्तमम्” ॥ * ॥
यदि चात्र गजासुरचर्म्मणाच्छादकत्वं वर्णितं
तथापि कार्य्यावस्थाविशेषेण व्याध्रचर्म्मणाप्यस्य
परिधेयकत्वं दृश्यते यथा व्याघ्रकृत्तिं वसानमिति
ध्यानादौ स्फुटमेव वस्तुतस्तु नचैतत् वाह्य-
चर्म्मादिविषय एव ग्रन्थकारेण भगवता मह-
र्षिणा वर्णितः त्रिगुणात्मिका प्रकृतिरेव तस्या-
च्छादिका इति आध्यात्मिकी स्वरूपोक्तिः । यथा,
“गुणमयी मायैषा वावह तस्य परमस्य आच्छा-
दनी” । व्याध्रहस्त्यादेरुक्तिस्तु मायाया वैचित्रप्रदर्श-
नायैव । अपि च कटिदेशपर्य्यन्तोक्तिरेकपाद एव
मायाच्छादितत्वात् । यथा, श्रुतिः ।
“पादोऽस्य विश्वाभूतानि त्रिपादोऽस्ति स्वयंप्रभः” ॥)

कृत्नुः, त्रि, (कृ + “कृहनिभ्यां क्त्नु” । उणां ३ । ३० ।

इति क्त्नुः ।) शिल्पी । इत्युणादिकोषः ॥ (यथा, --
ऋग्वेदे १ । ९२ । १० । “श्वघ्नीव कृत्नुर्विज आमिनाना
मर्त्तस्य देवी जरयन्त्यायाः” ॥)

कृत्यं, क्ली, (कृ + “विभाषा कृविषोः” । ३ । १ । १२० ।

इति क्यप् तुगागमश्च ।) कार्य्यम् ।
(यथा, गोः रामायणे ३ । ६० । २७ ।
“तथा स राक्षसीरुक्त्वा राक्षसेन्द्रः प्रतापवान् ।
निष्क्रम्यान्तःपुरात्तस्थौ किं कृत्यमिति चिन्तयन्” ॥)
प्रयोजनम् । इति हेमचन्द्रः ॥

कृत्यः, त्रि, (कृ + क्यप् तुगागमश्च ।) विद्विष्टः ।

इति मेदिनी ॥ धनादिभिर्भेद्यः । इति जटाधरः ॥
प्रत्ययविशेषः । यथा, --
“कृत्याः षट्तेसमाख्याताःक्यप्ण्यतौ भावकर्म्मणोः ।
तव्यानीयावनन्ताद्यत्केलिमः कर्म्मकर्त्तरि” ॥
इति सुपद्मसम्मता कारिका ॥ कर्त्तरि कर्म्मणि
चार्थे विहिताः कृत्या वाच्यलिङ्गाः स्युः । कृत्यास्त-
व्यादयः वोपदेवमते “ते ल्याः” “कृद्धोः कभावे”
इत्युक्तेः क्वचित् कृत्थाः कर्त्तर्य्यपि स्युः । कर्त्तरि
यथा भव्यस्तरुः भव्या लता भव्यं वनम् । कर्म्मणि
यथा, ग्रामो गन्तव्यः नगरी गन्तव्या पुरं गन्तव्यम् ।
पृष्ठ २/१७७
कर्त्तरि कर्म्मणि किं स्थातव्यं स्थेयं ब्रह्म-
भूयम् ॥ ब्रह्महत्या इह भावे कृत्याः । असं-
ज्ञायामित्येव सूर्य्योऽर्कः भिद्योद्ध्यौ नदौ । इत्यमर-
टीकायां भरतः ॥

कृत्या, स्त्री, (कृ + भावे क्यप् ।) क्रिया । यथा कां

कृत्यामकार्षीः । देवता । यज्ञदेवताविशेषः । इत्य-
मरभरतौ ॥ यथा, प्रह्लादचरिते ।
“कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम्” ॥
तस्या ध्यानं यथा, --
“क्रोधाज्ज्वलन्तीं ज्वलनं वमन्तीं
सृष्टिं दहन्तीं दितिजं ग्रसन्तीम् ।
भीमं नदन्तीं प्रणमामि कृत्यां
रोरूयमाणां क्षुधयोग्रकालीम्” ॥ * ॥
आभिचारिकी क्रिया । यथा, --
“रोगकृत्याग्रहादीनां निरासः शान्तिरीरिता ।
वश्यं जनानां सर्व्वेषां विधेयत्वमुदीरितम्” ॥
इति षट्कर्म्मदीपिका ॥

कृत्रिमं, क्ली, (कृ + क्त्रिः मप् च ।) विड्लवणम् ।

इति मेदिनी । काचलवणम् । जवादिनामगन्ध-
द्रव्यम् । रसाञ्जनम् । इति राजनिर्घण्टः ॥

कृत्रिमः, पुं, सिह्लकः । (तुरस्कनामगन्धद्रव्यविशेषः ।)

इति मेदिनी ॥ (कृ + “ड्वितः क्त्रिः” । कृत्या क्रियया
निर्वृत्त इति “त्रेर्मप् नित्यम् ।” इति मप् ।) द्वाद-
शविधपुत्त्रान्तर्गतपुत्त्रविशेषः । इति जटाधरः ।
(एतद्विषयकविववरणन्तु पुत्त्रशब्दे द्रष्टव्यम् ॥)

कृत्रिमः, त्रि, (“ड्वितः क्त्रिः” । ३ । ३ । ८८ । इति

क्त्रिः । ततः कृत्या निर्वृत्तः । “त्रेर्मप् नित्यम्”
४ । ४ । २० । इति मप् ।) करणाज्जातः । रचितः ।
इति मेदिनी ॥ (यथा, रघौ १९ । ३७ ।
“प्रावृषि प्रमदवर्हिणेष्वभूत्
कृत्रिमाद्रिषु विहारविभ्रमः” ॥)

कृत्रिमकः, पुं, (कृत्रिग + स्वार्थे संज्ञायां वा कन् ।)

तुरष्कनामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

कृत्रिमधूपकः, पुं, (कृत्रिमः विविधसुगन्धिद्रव्यादि-

कल्पितो धूपः । ततः स्वार्थे कन् ।) नानासुगन्धि-
द्रव्यकृतदशाङ्गादिधूपः । तत्पर्य्यायः वृकधूपः २ ।
इत्यमरः । २ । ६ । १२८ ॥

कृत्रिमपुत्त्रः, पुं, (कृत्रिमश्चासौ पुत्त्रश्चेति ।) द्वादश-

पुत्त्रमध्ये पुत्त्रविशेषः । तथा च मनुः ।
“सदृशन्तु प्रकुर्य्याद्यं गुणदोषविचक्षणम् ।
पुत्त्रं पुत्त्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः” ॥
अस्यार्थः । “यः पुनः समानजातीयं पित्रोःपार-
लौकिकश्राद्धादिकरणाकरणाभ्यां गुणदोषौ भवत
इत्येवमादिज्ञं पुत्त्रगुणैश्च मातापित्रोराराधनादि-
भिर्युक्तं पुत्त्रं कुर्य्यात् स कृत्रिमाख्यः पुत्त्रो बोध्यः” ।
इति कुल्लूकभट्टः ॥ पुत्तलिका । यथा । कुमारे । १ । २९ ।
“सा कन्दुकैः कृत्रिमपुत्त्रकैश्च
रेमे मुहुमध्यगता सखीनाम्” ॥

कृत्रिममित्रः, पुं, (कृत्रिमं मित्रं इति । पुं स्त्वं निया-

मकात् ।) रचितबन्धुः । इति स्मृतिः ॥

कृत्सं, क्ली, (कृन्तति कृणत्ति वा । कृत् छेदे वेष्टने

च । “स्नुव्रश्चिकृत्यषिभ्यः कित्” । उणां ३ । ६६ ।
इति सः किच्च ।) जलम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ समुदायः । इत्युणादिकोषः ॥

कृत्स्नं, क्ली, (कृत् + क्स्न प्रत्ययः ।) जलम् । सर्व्वम् ।

(यथा, गीतायाम् । ११ । १३ ।
“तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा” ॥)
कुक्षिः । इति मेदिनी ॥

कृत्स्नः, त्रि, (कृत् + “कृत्यशूभ्यां क्स्नः” । उणां ३ ।

१७ । इति क्स्नः ।) अशेषः । समस्तः । इत्यमरः ।
३ । १ । ६५ ॥ (यथा, मनुः २ । १६५ ।
“तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना” ॥)

कृदरः, पुं, (कृ + अच् । “कृदरादयश्च” । उणां ५ ।

४१ । इति साधुः ।) धान्यादिगृहम् । गोला इति
भाषा ॥ इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कृन्तत्रं, क्ली, (कृन्तति इति । “कृतेर्नुम् चेति” । उणां

३ । १०९ । इति कत्रन् नुम् च ।) लाङ्गलम् । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कृन्तनं, क्ली, (कृत्यते इति । कृत् + भावे ल्युट् ।)

छेदनम् । यथा, कर्म्मलोचने नारदवचनम् ॥
“कृन्तनं नखकेशानां छेदनञ्च वनस्पतेः ।
शावाशौचे न कर्त्तव्यं पाठनं पठनन्तथा” ॥
(तथा च गीतगोविन्दे, १ । ३२ ।
“विगलितलज्जितजगदवलोकनतरुणकरुणकृतहा-
से । विरहिनिकृन्तनकुन्तमुखाकृतिकेतकिदन्तुरि
ताशे” ॥)

कृप, ऊ ङ व ऌ कल्पने । इति कविकल्पद्रुमः ॥

(भ्वां--आत्मं--अकं--सेट् ।) सप्तमस्वरी । कल्पनं
सामर्थ्यम् । ऊ, अकल्पिष्ट अक्लप्त । ङ, कल्पते
कल्पवृक्षवदिति हलायुधः ॥ व, कल्प्स्यति चिकॢ-
प्सति । ऌ, अकॢपत् । हते तस्मिन् प्रियं श्रुत्वा
कल्प्ता प्रीतिं परां प्रभुरिति अनेकार्थत्वेऽन्तर्भूत-
ञ्यर्थत्वात् जनयितेत्यर्थः । इति दुर्गादासः ॥

कृप, त्क दौर्ब्बल्ये । इति कविकल्पद्रुमः ॥ (अदन्त

चुरां--परं--अकं--सेट् ।) सप्तमस्वरी । कृपयति ।
षष्ठस्वरीति त्रिलोचनः । इति दुर्गादासः ॥

कृप, कि युतौ । चित्रे । कल्पने । इति कविकल्पद्रुमः ॥

(चुरां पक्षे भ्वां--परं--अकं सकञ्च--सेट् ।) सप्तम-
स्वरी । कि कल्पयति कल्पति । कृपः कॢपोऽकृ-
पादाविति कॢपादेशः । इति दुर्गादासः ॥

कृपः, पुं, (कृपा अस्त्यस्य पालनसाधनत्वेन । अर्श-

आदित्वात् अच् ।) कृपाचार्य्यः । स तु द्रोणाचार्य्य-
श्यालकः । इति मेदिनी ॥ तथा चोक्तम् ।
“गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः” ॥
इति महाभारतम् ॥ (स तु गोतमवंश्यस्य शरद्वतः
पुत्त्रः राज्ञा शान्तनुना कृपया पालितः अतः कृप
इति नाम्ना प्रसिद्धः । सोऽसौ यावज्जीवं कौमार-
ब्रह्मचर्य्यमालम्ब्य कुरुबालकानामाचार्य्यत्वे भीष्मा-
दिभिर्नियोजितः कुरुक्षेत्रयुद्धे दुर्य्योधनपक्षमा-
श्रित्य पाण्डवैः सह संग्रामं कृत्वा लोकक्षयकरे
तस्मिन् समरे अमरत्वात् न निहतः ॥ अस्य
उत्पत्तिविवरणन्तु महाभारते १ । १३० अध्याये
द्रष्टव्यम् ॥) व्यासः । इति धरणी । (राजर्षि-
विशेषः । यथा, ऋग्वेदे । ८ । ३ । १२ ।
“शग्धि यथा रुशमं श्यावकं कृपमिन्द्र ! प्रावः
स्वर्णरम्” । “रुशमं श्यावकं कृपं च एतन्नामकां-
स्त्रीन् राजर्षीन् यथा प्रावः” । इति भाष्यम् ॥)

कृपणः, त्रि, (कल्पते स्वल्पमपि दातुम् । कृप् +

बाहुलकात् क्युन् अत एव न लत्वम् ।) अदाता ।
(यथा, व्यासोक्तौ ।
“दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति” ॥)
तत्पर्य्यायः । कदर्य्यः २ किम्पचानः ३ मितम्पचः ४
क्षुद्रः ५ । इत्यमरः । ३ । १ । ४८ ॥ किम्पचः ६
अनमितम्पचः ७ । इति तट्टीका ॥ मन्दः ८
कीकटः ९ कुमुत् १० कीणाशः ११ । इति जटा-
धरः ॥ (यथा, पञ्चतन्त्रे । २ । ७५ ।
“दाता लघुरपि सेव्यो भवति न कृपणो महा-
नपि समृद्ध्या । कूपोऽन्तः स्वादुजलः प्रीत्यै लोकस्य
न समुद्रः” ॥ दीनः । यथा, हेः रामायणे २ । ३२ । २८ ।
“ततः स पुरुषव्याघ्रस्तद्धनं सहलक्षणः ।
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो हृदापयत्” ॥
पारिभाषिककृपणानाह ॥ महाव्यसनप्राप्तो दीनः ।
यथा, रामायणे ४ । २१ । १९ ।
“आदितः कृशवृत्तिर्यः कृपणो न स राघव ! ।
महात्मा व्यसनं प्राप्तो दीनः कृपण उच्यते” ॥
यो हि अक्षरं ब्रह्म अविज्ञाय लोकान्तरगामी
भवति सः । यदुक्तं वृहदारण्यके याज्ञवल्क्यप्रक-
रणे । “यो वा एतदक्षरमविदित्वा गार्ग्यस्मा-
ल्लोकात् प्रैति स कृपणः” इति ॥ दुहिता हि
कृपापात्रत्वात् कृपणम् । यदुक्तं मनौ ४ । १८५ ।
“भ्राता ज्येष्ठः समः पित्रा भार्य्या पुत्त्रः स्वकातनुः ।
छाया स्वोदासवर्गश्च दुहिता कृपणं परम्” ॥)
कुत्सितः । इति मेदिनी ॥

कृपणः, पुं, कृमिः । इति मेदिनी ॥

कृपा, स्त्री, (क्रपेः सम्प्रसारणञ्चेति भिदादिपाठादङ्

टाप् च ।) करुणा । इत्यमरः । १ । ७ । १८ ॥
(यथा, महाभारते ।
“उवाच भीमं कल्याणी कृपान्वितमिदं वचः” ॥)

कृपाणः, पुं, (कृपां नुदति प्रेरयति दूरीकरोतीत्यर्थः ।

नुद प्रेरणे + अन्येभ्योऽपीति डः । पूर्ब्बपदादिति
णत्वम् ।) खड्गः । इत्यमरः । २ । ८ । ८९ ॥
(यथा, कालिकापुराणे ।
“जघान दैत्यमतिरक्तलोचना
कृपाणपाशाङ्कुशशूलपट्टिशैः” ॥)

कृपाणकः, पुं, (कृपाण + स्वार्थे कन् ।) खड्गः । इति

हारावली ॥

कृपाणिका, स्त्री, (कृपाणक + स्त्रियां टाप् अत इत्वं

च ।) छुरिका । इति हेमचन्द्रः ॥

कृपाणी, स्त्री, (कृपाण + गौरादित्वात् ङीष् ।)

कर्त्तरी । इत्यमरः । २ । १० । ३४ ॥ छुरिका ।
इति मेदिनी ॥

कृपाद्वैतः, पुं, (कृपायां कृपावितरणे वा अद्वैतः अद्वि-

तीयः ।) बुद्धभेदः । इति त्रिकाण्डशेषः ॥
पृष्ठ २/१७८

कृपालुः, त्रि, (कृपां लाति आदत्ते । ला + डुः ।

यद्वा कृपाविद्यते ऽस्यास्मिन् वा । कृपा + आलुच् ।)
दयालुः । इत्यमरः । ३ । १ । १५ ॥
(यथा भागवते । ४ । १२ । ५१ ।
कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते” ॥)

कृपी, स्त्री, (कृप + ङीष् ।) द्रोणाचार्य्यपत्नी । इति

मेदिनी ॥ (यथा, महाभारते । १ । १३१ । २२ ।
“शारद्वतीं ततो भार्य्यां कृपीं द्रोणोऽन्वविन्दत” ॥
अस्या जन्मविवरणं यथा, --
पुरा किल महर्षे र्गोतमस्य पुत्त्रः शरद्वान् नाम
ऋषिः धनुर्व्वेदपरत्वात् विपुलेन तपसा च इन्द्रं
सन्तापयामास । इन्द्रस्तु अस्य तपोविघ्नं चिकीर्षु-
र्जानपदीं नाम स्वर्व्वेश्यां प्राहिणोत् । अथ रूप-
यौवनाढ्यां तामवलोकयतस्तस्य सहसा रेतश्च-
स्कन्द तत्तु शरस्तम्बे स्थापितं सत् द्विधाऽभवत् ।
ततस्तस्मात् मिथुनं समजायत । तदैव राजा
शान्तनुर्मृगयामागतः अपत्यमिथुनं समवलोक्य
राजधानीमानीय संस्कारादिभिः संवर्द्धयामास ।
कृपया संवर्द्धनाच्च कृपः कृपीति तयोर्नाम चक्रे ।
सेयं कृपाचार्य्यस्य भगिनी । एषैव अश्वत्थाम्नो
जननीत्यवगन्तव्या ॥)

कृपीटं, क्ली, (कृप + “कॄतॄकृपिभ्यः कीटन्” ।

उणां ४ । १८४ । इति कीटन् । बाहुलकात्
लत्वाभावः ।) उदरम् । जलम् । इति मेदिनी ॥
विपिनम् । इन्धनम् । इति शब्दरत्नावली ॥

कृपीटपालः, पुं, (कृपीटं जलं पालयतीति । पालि +

अण् ।) केनिपातः । समुद्रः । इति मेदिनी । पवनः ।
इति शब्दरत्नावली ॥

कृपीटयोनिः, पुं, (कृपीटस्य जलस्य योनिः कारणं ।

“वायोरग्निरग्नेरापः” इति श्रुतेस्तथात्वम् । यद्वा
कृपीटं काष्ठं योनिरुत्पत्तिस्थानं यस्य ।) अग्निः ।
इत्यमरः । १ । १ । ५६ ॥

कृपीपतिः, पुं, (कृप्याः कृपभगिन्याः पतिर्भर्त्ता ।)

द्रोणाचार्य्यः । इति शब्दमाला ॥

कृपीपुत्त्रः, पुं, (कृप्याः पुत्त्रः ।) अश्वत्थामा । इति

भूरिप्रयोगः ॥

कृपीसुतः, पुं, (कृप्याः सुतः ।) अश्वत्थामा । इति

त्रिकाण्डशेषः ॥

कृमिः पुं, (क्रामतीति । क्रमु पादविक्षेपे + “क्रमित-

मिशतिस्तम्भामत इच्च” । उणां । ४ । १२१ । इति
इन् “भ्रमेः सम्प्रसारणञ्च” इति अनुवृत्तेः सम्प्र-
सारणञ्च ।) कीटः । पोका इति भाषा । तत्प-
र्य्यायः । नीलाङ्गः २ । इत्यमरः । २ । ५ । १३ ।
निलाङ्गुः ३ क्रिमिः ४ । इति तट्टीका ॥ पुण्ड्रः ५ ।
इति जटाधरः ॥ लाक्षा । कृमिलः । खरः । इति
विश्वमेदिन्यौ ॥ उदरजातकीटरोगः । तस्यौ-
षधं यथा, --
“वदरीकारवीमूलं गुडाज्येन समन्वितम् ।
अग्निना साधितं जग्ध्वा कृमीन्सर्व्वान् हरेच्छिव !” ॥
इति गारुडे १९४ अध्यायः ॥
(“कृमयो द्विविधाः प्रोक्ता वाह्याभ्यन्तरसम्भवाः ।
वाह्या यूकाः प्रिसद्गाः स्युः किञ्चुलूकास्तथान्तराः ॥
सप्तधा हि भवेद्वाह्याः षड्धाश्चान्तः समुद्भवाः ।
तेषां वक्ष्यामि सभूतिं वाह्यानाभ्यन्तरे नृणाम् ॥
रूक्षादतिबलात् स्वेदात् चिन्तया शोचनादपि ।
कफधातुसमुद्भूतास्तीक्ष्णा यूका भवन्ति हि ॥
यूकाः कृष्णाः पराः श्वेतास्तृतीयाश्चर्म्मणि स्थिताः ।
सूक्ष्मातिविकटा रूक्षाश्चर्म्माभाश्चर्म्मयूकिकाः ।
चतुर्थी विन्दुकी नाम वर्तुला मूत्रसम्भवा ॥
मत्कुणाद्याश्च पञ्चम्यो वाह्योपद्रवकारिणः ।
यूका मस्तकसंस्थाने श्वेता वस्त्रनिवासिनी ॥
चर्म्मयूका नेत्रचर्म्मे सूक्ष्मे रोमणि यष्टिका ।
उष्णद्रव्यनिषेवाच्च अजीर्णे मधुरद्रवात् ॥
रूक्षान्नगोधूमयवान्नपिष्ट-
र्गुडेन वा क्षीरविपर्य्ययेण ।
दिवाशयाने च सपिच्छलेन
घर्म्मेण पापोदकसेचनेन ॥
सञ्जायते तेन मलाशयेषु
कृमिव्रजं कोष्ठविकारकारि ॥
षड्विधास्ते समुद्दिष्टास्तेषां वक्ष्यामि लक्षणम् ।
कफकोष्ठं मलाधारं कोष्ठे सर्पन्ति सर्पवत् ॥
पृथुमण्डा भवन्त्येके केचित् किञ्चुकसन्निभाः ।
धान्याङ्कुरनिभाः केचित् केचित् सूक्ष्मास्तथाणवः ॥
सूचीमुखाः परिज्ञेयाश्चान्त्राणि सादयन्ति ते ।
वक्ष्यामि लक्षणं तेषां चिकित्साञ्च शृणुष्व मे ॥
ज्वरोहृद्रोगशूलं वा वमिकृत् क्लेदनं भ्रमः ।
अरुचिर्बन्धवैवर्ण्यमतीसारं सफोनिलम् ॥
गर्ज्जनं जठरे चैव मन्दाग्नित्वञ्च जायते ।
पिपासा पीतता नेत्रे किञ्चुकैः पीडितस्य च ॥
इति गण्डूपदलक्षणम् ॥ * ॥
सूचीवत्तुद्यतेऽन्त्राणि रक्तञ्चैवातिसार्य्यते ।
यकृद्वा भक्षयन्त्यन्ते रक्तं वा वमते भृशम् ॥
क्लेदो मुखेऽरुचिर्जाड्यं मन्दाग्नित्वञ्च वेपथुः ।
क्षुत्तृष्णा च ज्वरो ज्ञेयाः सूचीमुखकृमोरुजाम् ॥
इति शूचीमुखलक्षणम् ॥ * ॥
ये च धान्याङ्कुरास्तेषां वक्ष्याम्यथ च लक्षणम् ।
मलाशयस्थाः कृमयो मलं जघ्नन्ति ते भृशम् ॥
तैस्तु संपीड्यते देहे विड्विभेदं परूषता ।
कृशत्वञ्चापि हृत्क्लेदं कृमयो जनयन्ति ते ॥
हारीतः संशयापन्नः पादौ संगृह्य पृच्छति ।
कथं देहे मनुष्यस्य मलमूत्रवसाशये ॥
सम्भवन्ति कथञ्चादौ वर्द्धयन्ति कथं पुनः ।
कथं वा शीर्णेऽन्नरसे नानाहारावभक्षणे ॥
जायन्ते केन कृमयः सूक्ष्माधोगामिनोऽप्यथ ।
नानाऽऽमपक्वभक्षान्नं दहते वा हुताशनः ॥
कथन्ते कृमयश्चान्ते न दह्यन्तेऽन्तराग्निना ।
एवं पृष्टो महाचार्य्यः प्रोवाच मुनिपुङ्गवः ॥
आत्रेय उवाच ।
शृणुपुत्त्र ! महाबाहो ! कृमिसम्भवकारणम् ।
विरुद्धान्नरसैः पुत्त्र ! रक्तञ्चैवास्य कुप्यति ॥
कफेनैकदिनं याति शुक्रेणाकारणं व्रजेत् ।
पञ्चभूतात्मके वायौ ते तु जाताः सचेतनाः ॥
कोष्ठाग्निना न दह्यन्ते न जीर्य्यन्ते रसानिति ।
विषे जातो यथा कीटो न विषेण मृतिं व्रजेत् ॥
तथा हुताशनोद्भ्तं न हुताशेन जीर्य्यति ।
भेषजं संप्रवक्ष्यामि येन तेऽपि तरन्ति वै ॥
पतन्ति वा शमंयान्ति भेषजानि शृणुष्व मे ।
वचाऽजमोदा कृमिजित्पलाश
वीजं शठी रामठकं त्रिवृच्च ।
उष्णोदके तत्परिपिष्यपेयं
पतन्ति शीघ्रं शतधातुकीटाः ॥
शठी यवानी पिचुमर्द्दपत्रान्
विडङ्गकृष्णातिविषा रसोनम् ।
सम्पिष्य मूत्रेण त्रिवृत्प्रयुक्तम्
विनाशनं सर्व्वकृमीरुजानाम् ॥
मरिचं पिप्पलीमूलं विडङ्गशिग्रुयवानिकात्रिवृतः ।
गोमूत्रेण तु पेष्यं पानं शीघ्रं कृमीन् हन्ति ॥
मुस्ता विशाला त्रिफला सुपर्णा
शिग्रुः सुवाह्वं सलिलेन कल्कः ।
पानं सकृष्णा कृमिशत्रुचूर्णं
विनाशनं सर्व्वकृमीरुजाञ्च” ॥
“मातुलुङ्गस्य मूलानि रसोनं कृमिजित्त्रिवृत् ।
अजमोदा निम्बपत्रं गोमूत्रेण तु पेषयेत् ॥
पानमेतत् प्रशंसन्ति कृमिदोषनिवारणम् ।
ज्वरप्रोक्तानि पथ्यानि कृमिदोषे प्रदापयेत् ॥
इति कृमिचिकित्सा” ॥ * ॥
इति महर्ष्यात्रेयभाषिते हारीतोत्तरे कृमिचि-
कित्सा नाम पञ्चमोऽध्यायः ॥ * ॥
अस्य निदानपूर्ब्बकससम्प्राप्तिचिकित्सितं-यथा ।
“अजीर्णाध्यशनासात्म्यैर्विरुद्धमलिनाशनैः ।
अव्यायामदिवास्वप्नगुर्व्वतिस्निग्धशीतलैः ।
माषपिष्टान्नविदलविसशालूकशेरुकैः ॥
पर्णशाकसुवाशुक्तदधिक्षीरगुडेक्षुभिः ।
पलालानूपपिशितपिण्याकपृथुकादिभिः ॥
स्वाद्वम्लद्रव्यपानैश्च श्लेष्मा पित्तञ्च कुप्यति ।
कृमीन् बहुविधाकारान् करोति विविधाश्रयान् ॥
आमपक्काशयस्तेषां प्रसवः प्रायशः स्मृतः ।
विंशतेः कृमिजातीनां त्रिविधः सम्भवः स्मृतः ॥
पुरीषकफरक्तानि तेषां वक्ष्यामि लक्षणम् ।
अयवा वियवाः किप्याश्चिप्या गण्डूपदास्तथा ।
चूरवो द्विमुखाश्चैव सप्तैवैते पुरीषजाः ॥
श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च ।
तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ॥
शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः ।
प्रसेकारुचिहृद्रोगविड्भेदास्तु पुरीषजैः ॥
रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः ।
शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ॥
दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा ।
पिपीलिका दारुणाश्च कफकोपसमुद्भवाः ॥
रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः ।
मूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा ॥
मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा ।
शिरोहृद्रोगवमथुप्रतिश्यायकराश्च ते ॥
केशरोमनस्वादाश्च दन्तादाः किक्विशास्तथा ।
कुष्ठजाश्च परीसर्प्पाः ज्ञेयाः शोणितसम्भवाः ॥
ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा ।
पृष्ठ २/१७९
रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते ॥
माषपिष्टान्नलवणगुडशाकैः पुरीषजाः ।
मांसमाषगुडक्षीरदधिशुक्तैः कफोद्भवाः ॥
विरुद्धा जीर्णशाकाद्यैः शोणितोत्था भवन्ति हि ॥
ज्वरो विवर्णताशूलं हृद्रोगः सदनं भ्रमः ॥
भक्तद्वेषोऽतिमारश्च सञ्जातकृमिलक्षणम् ।
दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्त्तिताः ॥
केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्ज्जयेत् ।
एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् ॥
सुरसादिविपक्वेन सर्पिषा वान्तमादितः ।
विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम् ॥
यवकोलकुलत्थानां सुरसादेर्गणस्य च ।
विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च ॥
प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना ।
युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः ॥
स्नेहेनोक्तेन चैनन्तु योजयेत् स्नेहवस्तिना ।
ततः शिरीषकिणिही-रसं क्षौद्रयुतं पिबेत् ।
केचूकस्वरसं वापि पूर्ब्बवत्तीक्ष्णभोजनः ॥
पलाशवीजस्वरसं कल्कं वा तण्डुलाम्बुना ।
पारिभद्रकपत्राणां क्षौद्रेण स्वरसं पिबेत् ॥
पत्तूरस्वरसं वापि पिबेद्वा सुरसादिजम् ।
लिह्यादश्वशकृच्चूर्णं विडङ्गं वा समाक्षिकम् ॥
पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः ।
खादेत् पूपालिकान् पक्वान् धान्याम्लञ्च पिबेदनु ॥
सुरसादिगणे तैलं पक्वं वा पानमिष्यते ।
विडङ्गचूर्ण-पिष्टाभ्यां तस्मिन् भक्ष्यन्तु कारयेत् ॥
तत्कषायप्रपीतानां तिलानां स्नेहमेव वा ।
श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम् ॥
विडङ्गानां कषायेण त्रैफलेन तथैव च ॥
क्षौद्रेण लिढ्वानुपिबेद्रसमामलकोद्भवम् ।
अक्षाभया रसञ्चापि विधिरेषोऽयसामपि ॥
पूतीकस्वरसं वापि पिबेद्वा मधुना सह ।
पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ॥
सप्तरात्रं पिबेद्घृष्टन्त्रपुवा दधिमस्तुना ।
पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक् ॥
शिरोहृद्घ्राणवक्त्राक्षि संसृतांश्च पृथग्विधान् ।
विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ॥
शकृद्रसन्तुरङ्गस्य सुशुष्कं भावयेदति ।
निःक्वाथेन विडङ्गानां चूर्णं प्रधमनन्तु तत् ॥
अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक् ।
सकांस्यनीलं तैलञ्च नस्यं स्यात् सुरसादिके ॥
इन्द्रलुप्तविधिश्चापि विधेयो रोमभोजिषु ।
दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ॥
रक्तजानां समुद्दिष्टं कुर्य्यात् कुष्ठचिकित्सिते ।
सुरसादिन्तु सर्व्वेषु सर्व्वथैवोपयोजयेत् ॥
प्रव्यक्ततिक्तकटुकं भोजनञ्च हितं भवेत् ।
कुलत्थक्वाथसंसृष्टं क्षीरपानञ्च पूजितम् ॥ * ॥
क्षीराणि मांसानि घृतानि चैव
दधीनि शाकानि च पर्व्ववन्ति ।
समासतोऽम्लान् मधुरान् हिमांश्च
कृमीन् जिघांसुः परिवर्ज्जयेत्तु” ॥
इति सुश्रुत उत्तरतन्त्रे चतुःपञ्चाशत्तमोऽध्यायः ॥)

कृमिकण्टकं, क्ली, (कृमेः कृमिरोगस्य रोगे वा

कण्टकमिव । तन्नाशकतया तथात्वम् ।) विडङ्गम् ।
चित्राङ्गः । उडुम्बरः । इति मेदिनी ॥

कृमिकोषोत्थं, त्रि, (कृमेःकृमिभिर्निर्मितो वा कोषः ।

शाकपार्थिववत् मध्यपदलोपः । तस्मात् उत्तिष्ठति
उत्पद्यते । उत् + स्था + कः ।) कौषेयम् । इत्य-
मरः । २ । ६ । १११ । रेसमिकापड इति भाषा ।

कृमिघ्नः, पुं, (कृमिं हन्ति इति । हन् + टक् । “हन्ते-

रत् पूर्ब्बस्य” । ८ । ४ । २२ । इति नियमात् न
णत्वम् ।) विडङ्गः । इत्यमरः । २ । ४ । १०६ ॥
पलाण्डुः । कोलकन्दः । पारिभद्रः । भल्लातकः ।
इति राजनिर्घण्टः ॥ (विडङ्गहरिद्रा च ।
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥)

कृमिघ्ना, स्त्री, (कृमिघ्न + अजादित्वात् टाप् ।) ह-

रिद्रा । इति भावप्रकाशः ॥

कृमिघ्नी, स्त्री, (कृमिघ्न + टित्वात् ङीप् ।) धूमपत्रा ।

विडङ्गः । इति राजनिर्घण्टः ॥

कृमिजं, क्ली, (कृमिभ्यो जायते इति । अन्येभ्योपीति

डः ।) अगुरु ॥ इत्यमरः । २ । ६ । १२६ ॥ (कृमि-
जातमात्रे, त्रि । यथा, पञ्चतन्त्रे । १ । १०३ ।
“कौषेयं कृमिजं सुवर्णमुपलाद्दूर्व्वापि गोरोमतः ।
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात्” ॥
अस्य पर्य्याया यथा ।
“अगुरु प्रवरं लोहं राजार्हं योगजन्तथा ।
वंशिकं कृमिजं वापि कृमिजग्धमनार्य्यकम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणाश्चास्यागुरुशब्दे ज्ञातव्याः ॥)

कृमिजग्धं, क्ली, (कृमिभिर्जग्धं भुक्तम् । उपचारात्

तज्जनिततया तथात्वम् ।) अगुरु । इति राज-
निर्घण्टः ॥ (“कृमिजग्धमनार्य्यकम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कृमिजा, स्त्री, (कृमिभ्यो जायते या । जन + डः

टाप् च । लाक्षा ।) इति राजनिर्घण्टः ॥
(अस्य पर्य्याया यथा, --
“कीटजा कृमिजा लाक्षा जतुका च गवायिका” ॥
इति वैद्यकरत्नमालायाम् ॥)

कृमिरिपुः, पुं, (कृमीणां रिपुर्नाशकः । तन्नाशक-

त्वात् तथात्वम् ।) विडङ्गः । इति शब्दरत्नावली ॥
(विडङ्गशब्देऽस्य विशेषो ज्ञेयः ॥)

कृमिला, स्त्री, (कृमीन् कृमिवत् सन्तानान् लाति

आदत्ते । ला + कः टाप् च ।) बहुप्रसूः । बहु-
सन्तानप्रसवा । इति हेमचन्द्रः ॥ कृमियुक्तेत्रि ॥

कृमिवृक्षः, पुं, (कृमिप्रधानः कृमिमयो वा वृक्षः ।)

कोषाम्रः । इति भावप्रकाशः ॥
(कोषाम्रशब्दे ऽस्य विवृतिर्ज्ञातव्या ॥)

कृमिशङ्खः, पुं, (कृमिरिव जीवन् शङ्खः ।) जीवशङ्खः ।

तत्पर्य्यायः । कृमिजलजः २ कृमिवारिरुहः ३
जन्तुकम्बुः ४ । अस्य गुणः । रसवीर्य्यादौ शङ्ख-
सदृशत्वम् । इति राजनिर्घण्टः ॥

कृमिशुक्तिः, स्त्री, (वृमिरिव शुक्तिः ।) जलशुक्तिः ।

इति राजनिर्घण्टः ॥

कृमिशैलकः, पुं, (कृमिनिर्म्मितः शैल इव । ततः स्वार्थे

कन् ।) वल्मीकः । इति शब्दरत्नावली ॥

कृमीलकः, पुं, (कृमीन् ईरयति जनयतीति । ईर् +

ण्वुल् । रस्य लत्वम् ।) वनमुद्गः । इति राज-
निर्घण्टः ॥

कृव, इ न कृतौ । हिंसे । इति कविकल्पद्रुमः ॥

(स्वां--परं--सकं--सेट् । इदित् ।) ह्रस्वी । न, कृ-
णोति । इ, कर्म्मणि कृण्व्यते । इति दुर्गा-
दासः ॥

कृविः, पुं, (क्रियते वस्त्रादिकमनेन । डु कृञ्

करणे “कृविघृष्विच्छविस्थविकिकीदिवि” । उणां
४ । ५६ । इति क्विन् निपातनात् ।) वापयन्त्रम् ।
इति उणादिवृत्तिः । ताँत इति भाषा ॥

कृश, इर् य कार्श्ये । इति कविकल्पद्रुमः ॥ (दिवां-

परं-सकं-सेट् । इरित् ।) कार्श्यं कृशकरणम् ।
इर्, अकृशत् अकर्शीत् । अस्मात् पुषादित्वान्नित्ये
ङ इत्यन्ये । य, कृश्यति चन्द्रं कष्णपक्षः । इति
दुर्गादासः ॥

कृशः, त्रि, (कृशधातोः क्तप्रत्यये “अनुपसर्गात्

फुल्लक्षीवेति” । ८ । २ । ५५ । निपातनात् साधुः ।)
अल्पः । (यथा, मनौ । ४ । १८४ ।
“आकाशेशाश्च विज्ञेया बालवृद्धकृशातुराः” ॥)
सूक्ष्मः । इत्यमरः । ३ । १ । ६१ ॥
(यथा, आर्य्यासप्तशती । ४९५ ।
“राजसि कृशाङ्गि ! मङ्गलकलसी सहकारपल्ल-
वेनेव । तेनैव चूम्बितमुखी प्रथमाविर्भूतरागेण” ॥
“व्यायाममतिसौहित्यं क्षुत्पिपासामथौषधम् ।
कृशो न सहते तद्वदतिशीतोष्णमैथुनम् ॥
प्लीहा कासः क्षयः श्वासो गुल्मार्शांस्युदराणि च ।
कृशं प्रायोऽभिधावन्ति, रोगाश्च ग्रहणीमताः” ॥
“सततं व्याधितावेतावतिस्थूलकृशौ नरौ ।
सततञ्चोपचय्यौ हि कर्षणैर्वृंहणैरपि” ॥
“स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ हितौ ।
यद्युभौ व्याधिरागच्छेत् स्थूलमेवाति पीडयेत्” ॥
इति चरके सूत्रस्थाने २१ अध्याये ॥
“कश्चिदन्यः कृशोऽतीव बलवान् दृश्यते तदा” ॥
तत्र हेतुमाह ।
“आधानसमये यस्य शुकभागोऽधिको भवेत् ।
मेदोभागस्तु हीनः स्यात् स कृशोऽपि महाबलः” ॥
यस्याधानसमये जनयितुः शुक्रस्याधिक्यं भवति ।
मेदसोऽल्पता तस्य कृशस्यापि बहु बलमित्यर्थः ॥
अथ कार्श्यस्य चिकित्सा ।
“रूक्षान्नादि निमित्ते तु कृशे युञ्जीत भेषजम् ।
वृंहणं बलकृद्वृष्यं तथा वाजीकरञ्च यत् ॥
पीताश्वगन्धा पयसार्द्धमासं
घृतेन तैलेन सुखाम्बुना वा ।
कृशस्य पुष्टिं वपुषो विधत्ते
बालस्य शस्यस्य यथाम्बुवृष्टी ॥
अश्वगन्धस्य कल्केन क्वाथे तस्मिन् पयस्यपि ।
सिद्धं तैलं कृशाङ्गानामभ्यङ्गादङ्गपुष्टिदम्” ॥
इति अश्वगन्धातैलम् ॥ * ॥
इति भावप्रकाशस्य मध्यखण्डे तृतीयभागे कार्श्या-
धिकारे ॥) (अक्षमः । यथा, मनौ । ४ । १३५ ।
पृष्ठ २/१८०
“क्षत्त्रियञ्चैव सर्पञ्च ब्राह्मणं वा बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशानपि कदाचन” ॥
पुं, सर्व्वाकारवत्त्वात् विष्णुः । यथा, महाभारते ।
१३ । १४९ । १०३ ।
“अणुर्वृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्” ॥
स्वनामख्यातो मुनिपुत्त्रः । स तु परीक्षिच्छाप-
प्रदातुः शृङ्गिणः सखा ।
यथा, महाभारते । १ । ४१ । २ ।
“स तं कृशमभिप्रेक्ष्य सूनृतां वाचमुत्सृजन् ।
अपृच्छत्तं कथं तातः स मेऽद्य मृतधारकः” ॥
ऐरावतकुलोत्पन्नो नागविशेषः । यथा, तत्रैव ।
१ । आस्तीकपर्व्वणि । ५७ । ११ ।
“पारावतः पारिजातः पाण्डरो हरिणः कृशः ।
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्” ॥)

कृशरः, पुं, (कृशं अल्पमात्रां रातीति । रा + कः ।

कृशयोऽपि बलं राति वा ।) तुल्यतिलान्नम् । तत्प-
र्य्यायः । त्रिसरः २ । इति हेमचन्द्रः ॥
(यथा, मत्स्यपुराणे, --
“गुडौदनं रवेर्दद्यात् सोमाय घृतपायसम् ।
संयावकं कुजे दद्यात् क्षीरान्नं सोमसूनवे ।
दध्योदनञ्च जीवाय शुक्राय तु घृतोदनम् ।
शनैश्चराय कृशरमाजमांसञ्च राहवे ।
चित्रौदनञ्च केतुभ्यः सर्व्वभक्षैः समर्च्चयेत्” ॥)

कृशरा, स्त्री, (कृशर + टाप् ।) तिलौदनम् । इति

हारावली ॥ द्विदलमिश्रितान्नम् । खिचडी इति
भाषा । यथा, --
“तण्डुला दालिसंमिश्रा लवणार्द्रकहिङ्गुभिः ।
संयुक्ताः सलिलैः सिद्धाः कृशराः कथिता बुधैः” ॥
अस्या गुणाः । शुक्रबलकारित्वम् । गुरुत्वम् ।
पित्तकफप्रदत्वम् । दुर्जरत्वम् । विष्टम्भमलमूत्र-
कारित्वञ्च । इति भावप्रकाशः ॥
(“मांसेक्षुपिष्टकृशरा तिलशस्कुलीभिः” ।
इति माधवकरीयरोगविनिश्चयस्य कफशूलव्या-
ख्यानेविजयेनोक्तं यथा, --
“कृशरा तिलतण्डुलमाषयवागूः” ॥)

कृशला, स्त्री, (कृशं कार्श्यं लातीति । ला + कः ।

टाप् ।) केशः । इति शब्दचन्द्रिका ॥

कृशशाखः, पुं, (कृशा क्षीणा शाखा यस्य ।) षर्पटः ।

इति राजनिर्घण्टः ॥

कृशाङ्गी, स्त्री, (कृशानि सूक्ष्माणि अङ्गानि यस्याः ।

स्वाङ्गवाचित्वात् ङीष् ।) प्रियङ्गुवृक्षः । इति
शब्दचन्द्रिका ॥ सूक्ष्माङ्गविशिष्टे, त्रि । (यथा, --
आर्य्यासप्तशती । ४९५ ।
“राजसि कृशाङ्गि ! मङ्गलकलशी सहकारपल्ल-
वेनेव । तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण” ॥)

कृशानुः, पुं, (कृश्यति तनूकरोति तृणकाष्ठादिवस्तु-

जातमिति । “ऋतन्यञ्जीति” । उणां । ४ । २ । इति
आनुक् ।) अग्निः । इत्यमरः । १ । १ । ५७ ॥
(यथा, रघुः । ७ । २४ ।
“प्रदक्षिणप्रक्रमणात् कृशानो-
रुदर्च्चिषस्तन्मिथुनं चकाशे” ॥
चित्रकवृक्षः । इति राजनिर्घण्टः ॥

कृशानुरेताः, [स्] पुं, (कृशानौ अग्नौ रेतः निःक्षिप्तं

तेजो यस्य ।) शिवः । इत्यमरः । १ । १ ३५ ॥
(अस्य कृशानुरेतोनाम्नः कारणं कालिकापुराणे
४७ अध्याये दृश्यम् ॥)

कृशाश्वी, [न्] पुं, (कृशाश्वेन धुन्धुमारवंश्यनृपवि

शेषेण प्रोक्तं नाट्यसूत्रादिकं अधीते वेत्ति वा
“कर्मन्दकृशाश्वादिनिः” । ४ । ३ । १११ । इति
इनिः ।) नटः । इत्यमरः । २ । १० । १२ ॥

कृशिका, स्त्री, (कृश इव कायतीति । कैः + कः । टाप्

इत्वंञ्च ।) आखुकर्णीलता । इति राजनिर्घण्टः ॥

कृष, औ आकृषि । विलेखने । इति कविकल्प-

द्रुमः । (भ्वां-परं-सकं-अनिट् ।) औ, अकार्क्षीत्
अकृक्षत् अक्राक्षीत् । आकृषि आकर्षणे । क-
र्षन्ति तुरगा रथम् । इति दुर्गादासः ॥
(यथा, मनुः ३ । ६६ ।
“मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ।
कुलसङ्ख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः” ॥
आखुकर्णीशब्दे ऽस्या विशेषो ज्ञेयः ॥)

कृष, औ ञ श आकर्षणे । विलेखने । इति कवि-

कल्पद्रुमः । (तुदां-उभं-सकं-अनिट् ।) श ञ, कृ-
षति कृशते भूमिं कृषकः । औ, अकार्क्षीत् ।
अक्राक्षीत् अकृक्षत् । इति दुर्गादासः ।

कृषकः, त्रि, (कृषति भूमिं यः । “कृषेर्वृद्धिश्चो

दीचाम्” । उणां । २ । ३८ । इति क्वुन् ।) कर्षकः ।
इति मेदिनी ॥

कृषकः, पुं, (कृषति भूमिमनेन इति करणे क्वुन् ।)

फालः । इति मेदिनी ॥ वृषः । इति शब्दचन्द्रिका ॥

कृषाणुः, पुं, (कृश् + आनुक् । पृषोदरात् षत्वम् ।)

कृशानुः । इत्यमरटीका ॥

कृषिः, स्त्री, (कृष् विलेखने । “सर्व्वधातुभ्य इन्” ।

उणां ४ । ११७ । इति इन् । “इगुपधात् कित्” ।
उणां । ४ । ११९ । इति कित् ।) वैश्यवृत्ति-
विशेषः । कर्षणम् । चास इति भाषा । तत्प-
र्य्यायः । अनृतम् २ । इत्यमरः । २ । ९ । २ ।
प्रनृतम् ३ । इति जटाधरः ॥
(यथा, मेघदूते । १६ ।
“त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः” ॥)

कृषिकः, पुं, (कृषत्यनेन “वृश्चिकृष्योः किकन्” ।

उणां । २ । ४० । इति किकन् ।) फालः । इत्य-
मरः । २ । ९ । ६ ॥ कर्षकः । इति केचित् ॥

कृषीवलः, त्रि, (कृषिरस्यास्ति वृत्तित्वेन इति “रजः

कृष्यासुतिपरिषदो वलच्” ५ । २ । ११२ । इति
वलच् । “वले” ६ । ३ । ११८ । इति दीर्घः ।)
कर्षकः । कृषिजीवी । इत्यमरः । २ । ९ । ६ ॥
(यथा, महाभारते । २ । ५ । ७७ ।
“कच्चिन्न चौरैर्लुब्धैर्वा कुमारैः स्त्रीबलेन वा ।
त्वया वा पीड्यते राष्ट्रं कच्चित् तुष्टाः कृषीवलाः” ॥)
काकजङ्घावृक्षः । इति रत्नामाला ॥

कृष्करः, पुं, (कृषं करोति सृष्टिस्थित्यादिकं

शक्तियोगात् सन्पादयतीति । कृष + कृ + टक् ।)
शिवः । इति त्रिकाण्डशेषः ॥

कृष्टं, त्रि, (कृष्यते यत् तत् । कृष् + कर्म्मणि क्तः ।)

कृष्टक्षेत्रम् । चसा क्षेत् इति भाषा । तत्पर्य्यायः ।
सीत्यम् २ हल्यम् ३ । इत्यमरः । २ । ९ । ८ ॥
(यथा, मनौ । ११ । १४५ ।
“कृष्टजानामोषधीनां जातानाञ्च स्वयं वने” ॥
भावे क्तः । कर्षणम् ॥)

कृष्टपच्यः, त्रि, (कृष्टे क्षेत्रे स्वयमेव पच्यते इति कम्म-

कर्त्तरि कृष्ट + पच् + “राजसूयसूर्य्यमृषोद्यरुच्य
कूप्य कृष्टपच्याव्यथ्याः” । ३ । १ । ११४ । इति
क्यवन्तो निपातितः ।) व्रीहिः । धान्यम् । इति
व्याकरणम् ॥ (यथा, भागवते । ७ । १२ । १८ ।
“न कृष्टपच्यमश्नीयादकृष्टञ्चाप्यकालतः” ॥)

कृष्टपाक्यं, त्रि, (कृष्टे पच्यते इति । कृष्ट + पच् + क-

र्म्मणि ण्यत् । “चजोः कु घिण्यतोः” । ७ । ३ ।
५२ । इति चस्य कुत्वम् ।) कृष्टपच्यम् । इति व्याक-
रणम् ॥

कृष्टिः, पुं, (कृषत्यन्तर्भुवं विद्यालोचनाभ्यासादि-

भिरसौ । कृष् + कर्त्तरि क्तिच् बाहुलकात्
तिर्वा ।) पण्डितः । इत्यमरः । २ । ७ । ६ ॥
(यथा, ऋग्वेदे । ६ । १८ । २ । “वृहद्रेणुश्च्यवनो
मानुषीणामेकः कृष्टीनामभवत् सहावा” ॥)
कर्षणे, स्त्री । इति मेदिनी ॥ (कृष् + भावे क्तिन् ।
आकर्षणम् ॥ जनमात्रम् । इति निरुक्तम् ।
यथा ऋग्वेदे । ८ । ६ । ४ । “विश्वा नमन्त कृष्टयः” ।
“कृष्टयः प्रजाः” । इति भाष्यम् ॥)

कृष्णं, क्ली, (“कृषेर्व्वर्णे” । उणां ३ । ४ । इति नक्

ततो णत्वम् ।) मरिचम् । इत्यमरः । २ । ९ । ३६ ॥
(अस्य पर्य्याया यथा, --
“मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम्” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणाश्चास्य मरिचशब्दे ज्ञातव्याः ॥)
लोहम् । इति जटाधरः ॥ नीलाञ्जनम् । इति
राजनिर्घण्टः ॥ कालागुरु । इति रत्नमाला ॥

कृष्णः, पुं, (कर्षत्यरीन् महाप्रभावशक्त्या । यद्वा,

कर्षति आत्मसात् करोति आनन्दत्वेन परिण-
मयतीति मनो भक्तानां इति यावत् “कृषे
र्व्वर्णे” । उणां । ३ । ४ । इति बाहुलकात् वर्णं
विनापि । नक् णत्वञ्च । यद्वा, कर्षति सर्व्वान्
स्वकुक्षौ प्रलयकाले । “कर्षणात् कृष्णो रमणात्
रामो व्यापनात् विष्णुः” । इति श्रुते स्तथात्वम् ॥
अपरा व्युत्पत्तिर्यथा, --
“कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यात् परं ब्रह्म कृष्ण इत्यभिधीयते” ॥
इति श्रीधरस्वामी ॥ तथा च, महाभारते । ५
यानसन्धिपर्व्वणि ७० । ५ ।
“कृषिर्भूवाचकः शब्दो णश्चनिर्वृतिवाचकः ।
कृष्णस्तद्भावयोगाच्च कृष्णो भवति सात्त्वतः” ॥)
भगवदवतारविशेषः । स च भूभारहरणार्थं द्वाप-
रयुगशेषे भाद्रकृष्णाष्टम्यां रोहिणीनक्षत्रे निशीथे
देवकीगर्भे आविर्भूतः । तस्य जन्मसमयो यथा,
“उच्चस्थाः शशिभौमचान्द्रिशनयो लग्नं वृषो
लाभगो जीवः सिंहतुलालिषु क्रमवशात् पूषो-
पृष्ठ २/१८१
शनोराहवः । नैशीथः समयोऽष्टमी बुधदिनं
ब्रह्मर्क्षमत्रक्षणे श्रीकृष्णाभिधमम्बुजेक्षणमभू-
दाविः परं ब्रह्म तत्” ॥ इति खमाणिक्यनाम-
ज्योतिर्ग्नन्थः ॥ (यदि च भगवतो विष्णोः कृष्णाव-
तारकालः क्वचित् द्वापरयुगशेषे इत्ययं पाठो
लक्ष्यते तथापि कलावेव कृष्णावतार इत्येव भूरि-
सम्मतमिति बोध्यम् । तत्र भूरि भूरिप्रमाणानि
च सन्ति तेषां कानिचिदत्रोद्धृतानि ।
तद्यथा, ब्रह्मपुराणे, --
“अथ भाद्रपदे मासि कृष्णाष्टम्यां कलौ युगे ।
अष्टाविंशतिमे जातः कृष्णोऽसौ देवकीसुतः” ॥
परं कस्मिन्नेव कलौ प्रादुर्बभूव भगवानिति जि-
ज्ञासायां वैवस्वतमन्वन्तरीयाष्टाविंशतिमे युगे
इत्युक्त्या वर्त्तमानकलेः प्रथम एव निर्णीयते । तथा
च उच्चस्थाः शशिभौमचान्द्रिशनय इति ।
खमाणिक्यनामज्योतिर्ग्रन्थोक्तेः कलियुगस्य ६४७
वर्षेषु गतेषु एतत्समयस्य सम्भवः ततः पूर्ब्बं
कलौ तादृशसमयासम्भवात् । किञ्च राजतरङ्गि-
ण्याम् । १ । ५१ ।
“शतेषु षट्सु सार्द्धेषु त्र्यधिकेषु च भूतले ।
कलेर्गतेषु वर्षाणामभवन् कुरुपाण्डवाः” ॥
इत्यनेन कलियुगस्य ६५३ वर्षेषु गतेषु तत्सम-
कालीनयोः कुरुपाण्डवयोरुत्पत्तिः कथिता अतो
भगवतः कृष्णस्यापि तत्कालोत्पत्तिकत्वं सूचितम् ।
अपि च कृष्णस्य नामकरणे यच्च गर्गर्षिराह
ततोऽपि कलेरादावेव भगवदाविर्भावः सूच्यते ।
यथा, भागवते । १० । ८ । ९ ।
“आसन् वर्णास्त्रयोह्यस्य गृह्णतोऽनुयुगं तनूः ।
शुक्लो रक्तस्तथाऽपीत इदानीं कृष्णतां गतः” ॥
इदानीं कलावित्यर्थः । तथा, पुराणान्तरे, --
“कृते शुक्लं हरिं विद्याद् त्रेतायां रक्तवर्णकम् ।
द्वापरे पीतवर्णञ्च कलौ कृष्णत्वमागतः” ॥
तथा तत्रैव ११ अध्याये यगावतारकथने ।
“कृते शुक्लश्चतुर्बाहुर्जटिलो वल्कलाम्बरः ।
कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलुम् ॥
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ।
त्रेतायां रक्तवर्णोऽसौ चतुर्बाहुस्त्रिमेखलः ॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥
नानातन्त्रविधानेन कलावपि यथा शृणु ॥
कृष्णवर्णं त्विषाऽकृष्टं साङ्गोपाङ्गास्त्रपार्श्वदम् ।
यज्ञैः संकीर्त्तनप्रायैर्यजन्ति हि सुमेधसः” ॥
अपि चकृते शुक्ल इत्यादयो ये ये वर्णा निर्णीताः
नतु केवलं तेषां वाह्यवर्णत्वेन पर्य्यवसीतत्वं किन्तु
युगभेदानुसारेण लोकानां गुणधर्म्मत्वमेव निश्ची-
यते । यथा, कृते शुक्लं इति कथनात् सत्वगुणः
प्रदर्शितः सत्वस्य हि शुक्लत्वं प्रसिद्धं यथा, --
“तत्र सत्त्वं निर्म्मलत्वात् प्रकाशकमनामयम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ !” ॥
त्रेतायां रक्तवर्णकं इत्युक्त्या रजस एव निर्द्देशः
कृतः यथा, --
“रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्
तन्निबध्नाति कौन्तेय ! कर्म्मसङ्गेन देहिनम्” ॥
द्वापरे पीतवर्णं इत्युक्त्या रजोमिश्रिततमसो
निर्देशः । यथा, --
“वावह रजो वै यदा अन्धकारात्मकेन तमसा
संगच्छते तदा ऽस्य घोरमौढ्यादिबहवो दोषा
प्रकाशन्ते” ॥ तथा, हरिवंशे वर्णभेदकथने वैश्य-
त्वप्राप्तिहेतुमाह ।
“गोभ्योवृत्तिं समास्थाय पीताः कृष्यनुजीविनः ।
स्वधर्म्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः” ॥
पीताः रजस्तमःप्रधाना इति तट्टीका ॥
कलौ कृष्णतामागत इत्युक्त्या तु केवलं तमः
प्राधान्यनिर्द्देशः यथा, --
“तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेहिनाम् ।
निद्रा तन्द्रा तथालस्यं प्रमादो दीर्घसूत्रिता” ॥
इत्यतः दुरात्माक्रान्तायाः पृथिव्या भारहरणाय
तमःप्रधानां मायामधिष्ठायैव कलावेव भगवतः
प्रादुर्भावः सम्भवति ॥
यदा तु शालिवाहनस्य शकाब्दाख्याः प्रचलितु-
मारब्धास्तदा वै पाण्डुकुलनन्दनमहाराजयुधि-
ष्ठिरप्रवर्त्तिताब्दानां षड्विंशाधिकसार्द्धद्विस-
हस्राण्येवातीतानि । महाभारतभागवतादिशा-
स्त्रोक्त्या भगवतः कृष्णस्य तृतीयपाण्डवेनार्ज्जुनेन
तुल्यवयस्कत्वात् उपर्य्युक्तराजतरङ्गिणीमतानुसा-
रेण च कलेः त्रिपञ्चाशदधिकषट्शतेषु वर्षेषु
गतेषु युधिष्ठिराविर्भावकालः । तद्गणनया हि
कलेः सप्तपञ्चाशदधिकेषु षट्शतेषु वर्षेषु गतेष्वेव
कथञ्चित् कृष्णावतारसमयो निश्चीयते । किञ्च,
एतावदपि निर्द्धारितं यत् विक्रमादित्याब्दा यिषु-
ख्रीष्टाविर्भावादेकोनाशीतिवर्षोत्तरकाल एव प्रव-
र्त्तितुमारब्धाः । अतः षड्विंशाधिकचतुर्व्विंशति-
शतवर्षेभ्य एकोनाशीतिवर्षेषु वियुक्तेषु यिष-
ख्रीष्टाविर्भावात् सप्तचत्वारिंशदधिकशतवर्षपूर्ब्ब-
मेव युधिष्ठिराविर्भावकालः । ततो नितरामेव
यिषुखीष्टात् सप्तचत्वारिंशदधिकषड्विंशतिशत-
वर्षेभ्यः प्राग्भगवतः कृष्णस्य प्रादुर्भावः कथमपि
निरूप्यते ॥)
अधुना अस्य ध्यानम् कथ्यते यथा, --
“स्मरेद्वृन्दावने रम्ये मोहयन्तमनारतम् ।
गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ॥
आत्मनो वदनाम्भोजे प्रेषिताक्षिमधुव्रताः ।
पीडिताः कामवाणेन चिरमाश्लेषणोत्सुकाः ॥
मुक्ताहारलसत्पीनतुङ्गस्तनभरानताः ।
स्रस्तधम्मिल्लवसना मदस्खलितभाषणाः ॥
दन्तपङ्क्तिप्रभोद्भासिस्पन्दमानाधराञ्चिताः ।
विलोभयन्ती विविधैर्विभ्रमैर्भावगर्व्वितैः ॥
फुल्लेन्दीवरकान्तिमिन्दुवदनं वर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलाच्चिततनुं गोगोपसंघावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे” ॥
इति तन्त्रसारः ॥ * ॥ अस्य पादचिह्नानि यथा,
“चन्द्रार्द्धं कलसं त्रिकोणधनुषी खं गोष्पदं प्रोष्ठिकां
शङ्खं सव्यपदेऽथ दक्षिणपदे कोणाष्टकं स्वस्तिकम् ।
चक्रं छत्रयवाङ्कशं ध्वजपवीजम्बूर्द्धरेखाम्बुञं
विभ्राणं हरिमूनविंशतिमहालक्ष्मार्च्चिताङ्घ्रिं भजे” ॥
इति रूपचिन्तामणिः ॥ * ॥ अस्यावतारा ह्यसं-
ख्येयाः । तत्र युगावताराश्चत्वारः । यथा, --
“कृते शुक्लश्चतुर्ब्बाहुर्जटिलो वल्कलाम्बरः ।
कृष्णाजिनोपवीताक्षान् बिभ्रद्दण्डकमण्डलुम् ॥
त्रेतायां रक्तवर्णोऽसौ चतुर्ब्बाहुस्त्रिमेखलः ।
हिरण्यकेशस्त्रय्यात्मा स्रुक्स्रुवाद्युपलक्षणः ॥
द्वापरे भगवान् श्यामः पीतवासा निजायुधः ।
श्रीवत्सादिभिरङ्कैश्च लक्षणैरुपलक्षितः ॥
नानातन्त्रविधानेन कलावपि यथा शृणु ।
कृष्णवर्णं त्विषाऽकृष्णं साङ्गोपाङ्गास्त्रपार्श्वदम् ॥
यज्ञैः संकीर्त्तनप्रायैर्यजन्ति हि सुमेधसः” ॥ * ॥
अस्य कल्पावतारा दश यथा । मत्स्यः १ कूर्म्मः २
वराहः ३ नृसिंहः ४ वामनः ५ परशुरामः ६
रामः ७ कृष्णः ८ बुद्धः ९ कल्की १० । इति
श्रीभागवतम् ॥ * ॥ अस्य गुणाश्चतुःषष्टिर्यथा ।
“अयं नेता सुरम्याङ्गः १ सर्व्वसल्लक्षणान्वितः २ ।
रुचिर -३ स्तेजसा युक्तो ४ बलीयान् ५ वयसा-
न्वितः ६ ॥ विविधाद्भुतभाषावित् ७ सत्यवाक्यः ८
प्रियम्बदः ९ । वावदूकः १० सुपाण्डित्यो ११ बुद्धि-
मान् १२ प्रतिभान्वितः १३ ॥ विदग्ध -१४ श्च-
तुरो १५ दक्षः १६ कृतज्ञः १७ सुदृढव्रतः १८ ।
देशकालसुपात्रज्ञः १९ शास्त्रचक्षुः २० शुचि -२१
र्व्वशी २२ ॥ स्थिरो २३ दान्तः २४ क्षमाशीलो २५
गम्भीरो २६ घृतिमान् २७ समः २८ । वदान्यो
२९ धार्म्मिकः ३० शूरः ३१ करुणो ३२ मान्य-
मानकृत् ३३ ॥ दक्षिणो ३४ विनयी ३५ ह्रीमान्
३६ शरणागतपालकः ३७ । सुखी ३८ भक्तसुहृत्
३९ प्रेमवश्यः ४० सर्व्वशुभङ्करः ४१ ॥ प्रतापी ४२
कीर्त्तिमान् ४३ रक्तलोकः ४४ साधुसमाश्रयः ४५ ।
नारीगणमनोहारी ४६ सर्व्वाराध्यः ४७ समृद्धि-
मान् ४८ ॥ वरीया -४९ नीश्वर -५० श्चेति गुणा-
स्तस्यानुकीर्त्तिताः । सदास्वरूपसम्प्राप्तः ५१
सव्वज्ञो ५२ नित्यनूतनः ५३ ॥ सच्चिदानन्दसान्द्राङ्गः
५४ सर्व्वसिद्धिनिषेवितः ५५ । अविचिन्त्यमहाशक्तिः
५६ कोटिब्रह्माण्डविग्रहः ५७ ॥ अवतारावलीः
वीजं ५८ हतारिगतिदायकः ५९ । आत्माराम-
गणाकर्षी -६० त्यमी कृष्णे किलाद्भुताः ॥ सर्व्वा-
द्भुतचमत्कारलीलाकल्लोलवारिधिः ६१ । अतुल्य-
मधुरप्रेममण्डितप्रियमण्डलः ६२ ॥ त्रिजगन्मान
साकर्षी मुरलीकलकूजितः ६३ । असमानोर्द्ध-
रूपश्रीविस्मापितचराचरः ६४ ॥
लीलाप्रेम्नाप्रियाधिक्यं माधुर्य्ये वेणुरूपयोः ।
इत्यसाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ।
एवं गुणाश्चतुर्भेदाश्चतुःषष्ठिरुदाहृताः” ॥ * ॥
अस्य गदा कौमोदकी । खङ्गः नन्दकः । धनुः
शार्ङ्गम् । शङ्खः पाञ्चजन्यः । चक्रं सुदर्शनः । मणिः
कौस्तुभः । वाहनं गरुडः । रथः गरुडध्वजः ।
रथस्याश्वाः शैव्यसुग्रीवमेघवाहनपुष्कराः । इति
श्रीभागवतम् ॥ * ॥ अस्य पत्न्यः गोलोके वृन्दा-
वने च श्रीराधा । वैकुण्ठे लक्ष्मीः । इति ब्रह्म-
वैवर्त्तम् ॥ द्वारकायां रुक्मिणी १ जाम्बवती २
पृष्ठ २/१८२
सत्यभामा ३ कालिन्दी ४ मित्रविन्दा ५ नाग्न-
जिती ६ भद्रा ७ लक्ष्मणा ८ एताः प्रधानाः ।
अन्या अपि शताधिकषोडशसहस्राणि स्थिताः ।
इति श्रीभागवतम् ॥ * ॥ व्रजस्थितस्यास्य सखाय-
श्चतुर्व्विधाः । तत्र किञ्चिद्वयसाधिकाः सुहृदो
यथा । सुभद्रः १ मण्डलीभद्रः २ भद्रवर्द्धनः ३
गोभटः ४ यक्षेन्द्रभटः ५ भद्राङ्गः ६ वीरभद्रः ७
महागुणः ८ विजयः ९ बलभद्रः १० इत्याद्याः ॥
वयसा न्यूनाः सखायो यथा । विशालः १ वृषभः
२ ओजस्वी ३ देवप्रस्थः ४ वरूथपः ५ मणिबन्धः
६ करन्धमः ७ इत्याद्याः ॥ वयसा तुल्याः प्रिय-
सखायो यथा । श्रीदामा १ सुदामा २ वसुदामकः
३ किङ्किणी ४ स्तोककृष्णः ५ अंशुः ६ भद्रसेनः ७
विलासी ८ पुण्डरीकविटङ्काक्षः ९ कलविङ्कः १०
इत्याद्याः ॥ पूर्ब्बतः श्रेष्ठा आत्यन्तिकरहस्येषु युक्ताः
भावविशेषविशिष्टाः प्रियनर्म्मसखायो यथा ।
सुवलः १ अर्ज्जुनः २ गन्धर्व्वः ३ वसन्तः ४ उज्ज्वलः
५ इत्याद्याः ॥ इति भक्तिरसामृतसिन्धुः ॥ * ॥
वृन्दावनस्थितस्य अस्य सख्यः शतकोटयः । तत्र
वेदमुनिदेवस्त्रियोऽपि कृष्णाराधानार्थं गोपाङ्गना
रूपेण जाताः । व्रजे अस्य नित्यप्रिया यथा ।
राधा १ चन्द्रावली २ विशाखा ३ ललिता ४
श्यामा ५ पद्मा ६ शैव्या ७ भद्रिका ८ तारा ९
विचित्रा १० गोपाली ११ धनिष्ठा १२ पालिका
१३ खञ्जनाक्षी १४ मनोरमा १५ मङ्गला १६
विमला १७ लीला १८ कृष्णा १९ शारी २०
विशारदा २१ तारावली २२ चकोराक्षी २३
शङ्करी २४ कुङ्कुमादयः २५ । एतासां मध्ये
विशाखा ललिता पद्मा शैव्या एताश्चतस्रः सख्यः ।
अन्या यूथाधिपाः । तासां मध्ये राधादयोऽष्टौ
सुभगाः । आसां राधात्रन्द्रावल्यौ श्रेष्ठे । अनयो-
रपि राधाधिका । इत्युज्ज्वलनीलमणिः ॥ * ॥
अपि च । चन्द्रावली १ सुशीला २ तस्याः सह-
चर्य्यः चतुर्द्दशसहस्राणि । शशिकला ३ अस्याः
सहचर्य्यः षोडशसहस्राणि । चन्द्रमुखी ४ अस्याः
सहचर्य्यः षोडशसहस्राणि । माधवी ५ अस्याः
सहचर्य्यः एकादशसहस्राणि । कदम्बमाला ६
अस्याः सहचर्य्यः त्रयोदशसहस्राणि । कुन्ती ७
अस्याः सहचर्य्यः दशसहश्राणि । यमुना ८ अस्याः
सहचर्य्यः चतुर्दशसहस्राणि । जाह्ववी ९ अस्याः
सहचर्य्यः नवसहस्राणि । पद्ममुखी १० अस्याः
सहचर्य्यः नवसहस्राणि । सावित्री ११ अस्याः
सहचर्य्यः पञ्चदशसहस्राणि । सुधामुखी १२
अस्याः सहचर्य्यः चतुर्दशसहस्राणि । शुभा १३
अस्याः सहचर्य्यः चतुर्दशसहस्राणि । पद्मा १४
अस्याः सहचर्य्यः चतुर्दशसहस्राणि । गौरी १५
अस्याः सहचर्य्यः चतुर्द्दशसहस्राणि । सर्व्वमङ्गला
१६ अस्याः सहचर्य्यः षोडशसहस्राणि । सरस्वती
१७ अस्याः सहचर्य्यः त्रयोदशसहस्राणि ।
भारती १८ अस्याः सहचर्य्यः दशसहस्राणि ।
अपर्णा १९ अस्याः सहचर्य्यः चतुर्दशसहस्राणि ।
रतिः २० अस्याः सहचर्य्यः दशसहस्राणि । गङ्गा
२१ अस्याः सहचर्य्यः चतुर्दशसहस्राणि ।
अम्बिका २२ अस्याः सहचर्य्यः षोडशसहस्राणि ।
सती २३ अस्याः सहचर्य्यः त्रयोदशसहस्राणि ।
नन्दिनी २४ अस्याः सहचर्य्यः दशसहस्राणि ।
सुन्दरी २५ अस्याः सहचर्य्यः त्रयोदशसहश्राणि ।
कृष्णप्रिया २६ अस्याः सहचर्य्यः षोडशसह-
स्राणि । मधुमती २७ अस्याः सहचर्य्यः चतु-
र्दशसहस्राणि । चम्पा २८ अस्याः सहचर्य्यः
त्रयोदशसहस्राणि । चन्दना २९ अस्याः सहचर्य्यः
चतुर्दशसहस्राणि । इति ब्रह्मवैवर्त्तपुराणम् ॥ * ॥ * ॥
(महादेवः । यथा, महाभारते १३ । १७ । ४४ ।
“दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च” ॥)
व्यासः । (अयन्तु द्वैपायनः वासव्यां सत्यवत्यां महर्षेः
पराशराज्जातः कृष्णवर्णत्वात् कृष्णकलावतीर्णत्वाद्
वा कृष्ण इत्यभिधीयते ।
यथा, महाभारते १ । १०५ । १४ ।
“यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः ।
लोके व्यासत्वमापेदे कार्ष्णात् कृष्णत्वमेव च” ॥)
अर्ज्जुनः । (अयन्तु तृतीयपाण्डवः । अस्य दशनाम-
स्वन्यतमं नाम । यथा, महाभारते ३ । ४२ । २२ ।
“कृष्ण इत्येव दशमं नाम चक्रे पिता मम ।
कृष्णावदातस्य सदा प्रियत्वाद् बालकस्य वै” ॥
कृष्णो वर्णोऽस्यास्तीति । नगन्ताद् गुणवचनेभ्यो
मतुपो लुगिति लुक् ॥) कोकिलः । इति विश्वः ॥
काकः । इति मेदिनी ॥ करमर्दकः । इति शब्द-
रत्नावली ॥ वर्णविशेषः । कालवर्णः । तत्पर्य्यायः ।
नीलः १ असितः ३ श्यामः ४ कालः ५ श्यामल
६ मेचकः ७ बहुलः ८ रामः ९ शितिः १० । इति
जटाधरः ॥ तद्वति, त्रि । इत्यमरः ॥ (कर्षति
पापानि शरणागतानां बाहुलकात् कृषेर्नक् वर्णं
विनापि णत्वञ्च । परब्रह्म । यथा, पौराणिकी-
गाथायाम् ।
“कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्त्तते ।
मस्मीभवन्ति राजेन्द्र ! महापातककोटयः” ॥
चन्द्रह्रासकरप्रथमादिपञ्चादशकलाक्रियारूपः
प्रतिपदादिदर्शान्तात्मकपञ्चदशतिथ्यात्मकः का-
लभेदोऽर्द्धमासः । यथा, तिथितत्त्वे ३६ ।
“चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः” ॥
कृष्णपक्षाभिमानिदेवताविशेषः । यथा, गीतायाम् ।
“धूमो रात्रिस्तथाकृष्णः षण्मासा दक्षिणायनम्” ॥
कृष्णसारमृगः । यथा, महाभारते १ । १३० । १५ ।
“धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च” ॥
अशुभकर्म्म । वेदोक्तासुरविशेषः । अयन्तु इन्द्रेण
सगणो निहतः । ऋषिविशेषः । अयन्तु ऋग्वेदस्य
अष्टममण्डलस्य ८५ -- ८७ सूक्तानि, तथा दशम
मण्डलस्य ४२ -- ४४ सूक्तानि च प्रणिनाय ॥ अथर्व्व-
वेदान्तर्गतोपनिषद्विशेषः । यथा, मुक्तिकोप-
निषदि । “गोपालतापनकृष्णहयग्रीवदत्तात्रेयगा-
रुडानामथर्व्ववेदगतानामेकत्रिशत्सङ्ख्यकानां उप-
निषदां भद्रं कर्णेभिरिति शान्तिः” ॥)

कृष्णकन्दं, क्ली, (कृष्णः कृष्णवर्णः कन्दो यस्य ।) रक्तो-

त्पलम् । इति त्रिकाण्डशेषः ॥

कृष्णकर्म्मा, [न्] त्रि, (कृष्णं अशुभं कर्म्म यस्य ।)

पापाचारयुक्तः । तत्पर्य्यायः । शिश्विदानः २ । इत्य-
मरः । ३ । १ । ४६ ॥ (श्वेतितुमिच्छति श्वितावर्णे
इत्यस्य श्वितेर्दश्चेत्यानच् दत्वं सनो लुक् च इति
शिश्विदानः । केचित्तु अकृष्णकर्म्मा इति पठन्ति ।
अकृष्णं निष्पापत्वात् शुक्लं कर्म्मास्य अकृष्ण-
कर्म्मा शुक्लकर्म्मा इत्यर्थः । इति व्याचक्षते ।
इति भरतः ॥
“शिश्विदानः कृष्णकर्म्मा शुक्लकर्म्मेति कस्यचित्” ॥
इति जटाधरः ॥ क्ली, व्रणानां कृष्णत्वसम्पादक-
क्रियाविशेषः । यथा, सुश्रुतोक्तौ “अथ व्रणस्योप-
क्रमा भवन्तीत्युपक्रम्य दारुणकर्म्मक्षारकर्म्माग्नि-
कर्म्म कृष्णकर्म्मपाण्डुकर्म्म” । इति ॥)

कृष्णकलिः, स्त्री, (कृष्णस्य चूडा इव कलिः कलिका

यस्याः ।) स्वनामख्यातपुष्पवृक्षः । तस्य शाखा
रक्ततण्डुलीयनालवद्ग्रन्थियुक्ता पत्रं क्षुद्रताम्बूल-
दलवद्भवति । तस्य पुष्पं श्वेतरक्तपीतपाटलवर्ण-
मिलितपञ्चदलं षट्केशरमध्यं स्वल्पसद्गन्धयुक्तं
अपराह्णे प्रस्फुटति । तस्य वीजं कृष्णमरि चतुल्यं
पुष्पं सर्व्वकाले सुलमं वर्षाकाले प्रचुरं भवति ।
तदुत्पत्तिस्तस्य मूलतो वीजतश्च । इति लोक-
प्रसिद्धम् ॥ अस्या । पिष्टपत्रमूलादिना व्रणस्फोटनं
भवति इति वैद्यकम् ॥

कृष्णकाष्ठं, क्ली, (कृष्णं काष्टं यस्य ।) कालागुरु ।

इति राजनिर्घण्टः ॥ (अगुरुशब्दे ऽस्य विषयो
ज्ञातव्यः ॥)

कृष्णकेलिः, स्त्री, (कृष्णस्य केलिः क्रीडा द्रव्यं

चूडा इव पुष्पकलिका यस्याः ।) स्वनामख्यात-
पुष्पवृक्षः । (अस्याः अन्यद्विवरणं कृष्णकलिशब्दे
द्रष्टव्यम् ॥)

कृष्णकोहलः, पुं, (कृष्णकस्य कुत्सितकर्म्मण ऊहं

वितर्कं लाति गृह्णातीति । ला + कः ।) द्यूतकृत् ।
इति त्रिकाण्डशेषः ॥

कृष्णगन्धा, स्त्री, (कृष्णः उग्रो गन्धो यस्याः ।) शोभा-

ञ्जनः । इति राजनिर्घण्टः ॥
(“इमांस्त्रीनपरान् वृक्षानाहुर्येषां हितांस्त्वचः ।
पूतिकः कृष्णगन्धा च तिल्लकश्च तथातरुः ॥
विरेचने प्रयोक्तव्यः पूतिकस्तिल्लकस्तथा ।
कृष्णगन्धा परीसर्पे शोथेष्वर्शःसु चोच्यते” ॥
इति चरके सूत्रस्थाने १ अध्याये ॥

कृष्णगर्भः, पुं, (कृष्णः कृष्णवर्णो गर्भः अभ्यन्तरदेशो

यस्य ।) कट्फलः । इति राजनिर्घण्टः ॥

कृष्णचञ्चुकः, पुं, (कृष्णा चञ्चुरस्य । ततः कप् ।)

चणकः । इति राजनिर्घण्टः ॥
(चणकशब्दे विवरणमस्य व्याख्येयम् ॥)

कृष्णचतुर्द्दशी, स्त्री, (कृष्णा कृष्णपक्षसम्बन्धिनी

चतुर्दशी ।) कृष्णपक्षीयचतुर्दशी । तत्पर्य्यायः ।
भूतः २ । इति त्रिकाण्डशेषः ॥

कृष्णचरः, त्रि, (कृष्णस्य भूतपूर्ब्बा गौः चरट् ॥) कृष्णस्य

भूतपूर्ब्बो गवादिः । इति मुग्धबोधम् ॥

कृष्णचूडा, स्त्री, (कृष्णस्य चूडेव पुष्पचूडा यस्याः ।)

स्वनामख्यातसकण्टकपुष्पवृक्षः । तस्य पत्रं वक-
पृष्ठ २/१८३
वृक्षदलवद्भवति । तस्य पुष्पं पीतरक्तवर्णं उपर्य्यधः
स्थूलसूक्ष्मदशदलं दीर्घवृन्तं दशदीर्घकेशरमध्यं
ईषत्सद्गन्धयुक्तञ्च जायते । तत्फलं शिम्बीसदृशं
पुष्पं सर्व्वकाले सुलभं वर्षाकाले प्रचुरं भवति ।
तदुत्पत्तिस्तस्य मूलतो वीजाच्च भवति इति
लोकप्रसिद्धम् ॥

कृष्णचूडिका, स्त्री, (कृष्णा चूडा अग्रं यस्याः । ततः

कप् ततष्टाप् अत इत्वञ्च ।) गुञ्जा । इति राज-
निर्घण्टः ॥ (कुँच्फल इति भाषा ॥)

कृष्णचूर्णं, क्ली, (कृष्णस्य लोहस्य चूर्णम् । दग्धाल्लो-

हान्निःसृतकीट्टमित्यर्थः ।) लौहमलम् । इति
राजनिर्घण्टः ॥

कृष्णजटा, स्त्री, (कृष्णा कृष्णवर्ण जटा यस्याः ।)

जटामांसी । इति रत्नमाला ॥

कृष्णजीरकः, पुं, (कृष्णः कृष्णवर्णो जीरकः ।) कृष्ण-

वर्णस्थूलजीरकः । केलेजीरा इति भाषा । तत्-
पर्य्यायः । सुषवी २ कारवी ३ पृथ्वी ४ पृथुः
५ काला ६ उपकुञ्चिका ७ । इत्यमरः ॥ सुशवी
८ कुञ्चिका ९ । इति तट्टीकायां नयनानन्दः ॥
उपकुञ्चिः १० । इति रत्नमाला ॥ कृष्णा ११
जरणा १२ शाली १३ बहुगन्धा १४ । पृथुका
१५ पृथिवी १६ भेषजम् १७ । इति शब्दरत्ना
वली ॥ अपि च ।
“कृष्णजीरः सुगन्धश्च तथैवोद्गारशोधनः ।
कणाजाजी तु सुषवी कालिका चोपकालिका ॥
पृथ्वीका कारवी पृथ्वी पृथुः कृष्णोपकुञ्चिका ।
उपकुञ्ची च कुञ्ची च वृहज्जीरक इत्यपि ॥
जीरकत्रितयं रूक्षं कदूष्णं दीपनं लघु ।
संग्राहि पित्तलं मेध्यं गर्भाशयविशुद्धिकृत् ॥
ज्वरघ्नं पाचनं बल्यं वृष्यं रुच्यं कफापहम् ।
चक्षुष्यं पवनाध्मानगुल्मच्छर्द्यतिसारहृत्” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् ।
उष्णत्वम् । कफशोथजीर्णज्वरनाशित्वम् । रुचि-
चक्षुर्हितकारित्वम् । ग्राहित्वञ्च । इति राज-
निर्घण्टः ॥ स तु स्थूलसूक्ष्मभेदेन द्विधा ॥

कृष्णतण्डुला, स्त्री, (कृष्णः तण्डुलो वीजं यस्याः ।) कर्ण-

स्फोटालता । इति राजनिर्घण्टः ॥

कृष्णताम्रं, क्ली, (कृष्णं ताम्रम् । “वर्णो वर्णेन” । २ । १ ।

६९ । इति कर्म्मधारयः ।) गोशीर्षचन्दनम् । इति
शब्दमाला ॥

कृष्णतारः, पुं, (कृष्णा तारा यस्य ।) हरिणः । इति

राजनिर्घण्टः ॥

कृष्णत्रिवृता, स्त्री, (कृष्णा त्रिवृता ।) कृष्णवर्णा

त्रिवृत् । काल तेउडी इति भाषा ॥ तत्पर्य्यायः ।
श्यामा २ पालिन्दी ३ कालमेषिका ४ काला ५
मसूरविदला ६ अर्द्धचन्द्रा ७ सुषेणिका ८ । इति
जटाधरः ॥ (अस्या गुणा यथा,
कषायत्वम् । मधुरुत्वम् । रूक्षत्वम् । विपाकेकटु-
कत्वम् । कफपित्तप्रशमकारित्वम् । रूक्षत्वात् वात-
कोपनत्वञ्च ॥ इति चरके कल्पस्थाने ७ अध्याये ॥)

कृष्णदन्ता, स्त्री, (कृष्णः कृष्णवर्णो दन्तः शिखरदेशो

यस्याः ।) काश्मरीवृक्षः । इति राजनिर्घण्टः ॥
(कृष्णदन्तविशिष्टे, त्रि । दन्तस्तु मद्यपानादिना
कृष्णत्वं प्राप्नोति ॥)

कृष्णदेहः, पुं, (कृष्णः कृष्णवर्णो देहो यस्य ।) भ्रमरः ।

इति सारस्वतः ॥ कृष्णवर्णशरीरे, त्रि ॥

कृष्णद्वैपायनः, पुं, (द्वीपे भव इत्यण् । यद्वा द्वीपः

अयनं उत्पत्तिस्थानं यस्य । प्रज्ञाद्यण् । कृष्ण-
श्चासौ द्वैपायनश्चेति ।) वेदव्यासः । इति त्रिकाण्ड-
शेषः ॥ (यथा, महाभारते १ । १०५ । १३ ।
“ततस्तस्मिन् प्रतिज्ञाते भीष्मेण कुरुनन्दन ! ।
कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्” ॥
अस्य यमुनाद्वीपोत्पत्तिकथा यथा तत्रैव १ ।
१०५ । ७ -- १४ ।
“धर्म्मयुक्तस्य धर्म्मार्थं पितुरासीत्तरी मम ।
सा कदाचिदहं तत्र गता प्रथमयौवने ॥
अथ धर्म्मविदां श्रेष्ठः परमर्षिः पराशरः ।
आजगाम तरीं धीमांस्तरिष्यन् यमुनां नदीम् ॥
स तार्य्यमाणो यमुनां मामुपेत्याब्रवीत्तदा ।
सान्त्वपूर्ब्बं मुनिश्रेष्ठः कामार्त्तो मधुरं वचः ॥
तमहं शापभीता च पितुर्भीता च भारत ! ।
वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥
अभिभूय स मां बालां तेजसा वशमानयत् ।
तमसा लोकमावृत्य नौगतामेव भारत ! ॥
मत्स्यगन्धो महानासीत् पुरा मम जुगुप्सितः ।
तमपास्य शुभं गन्धमिमं प्रादात् स मे मुनिः ॥
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् ।
द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥
पाराशर्य्यो महायोगी स बभूव महानृषिः ।
कन्यापुत्त्रो मम पुरा द्वैपायन इति श्रुतः” ॥
अन्यत् विवरणादिकमस्य व्यासशब्दे द्रष्टव्यम् ॥)

कृष्णधत्तूरकः, पुं, (कृष्णवर्णो धत्तूरकः ।) कृष्णवर्ण-

धुस्तूरः । कालधुतुरा इति भाषा । तत्पर्य्यायः ।
सिद्धः २ कनकः ३ सचिवः ४ शिवः ५ कृष्ण-
पुष्पः ६ विषारातिः ७ क्रूरधूर्त्तः ८ । अस्य गुणाः ।
कटुत्वम् । उष्णत्वम् । कान्तिकारित्वम् । व्रणा
र्त्तित्वग्दोषखर्जुकण्डूतिज्वरभ्रमनाशित्वञ्च ॥ “सि-
तनीलकृष्णलोहितपीतप्रसवाश्च सन्ति धत्तूराः ।
सामान्यगुणोपेतास्तेषु गुणाढ्यस्तु कृष्णकुसुमः
स्यात्” ॥ इति राजनिर्घण्टः ॥

कृष्णपर्णी, स्त्री, (कृष्णवर्णानि पर्णानि यस्याः ।)

कालतुलसी । इति रत्नमाला ॥

कृष्णपक्षः, पुं, (कृष्णस्तमसावृतश्चन्द्रक्षयात्मकः

पक्षः ।) असितपक्षः । स तु प्रतिपदाद्यमावास्या-
न्तानि पञ्चदश दिनानि । यथा, तिथ्यादितत्त्वम् ॥
“तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि ।
चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥
पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः ।
दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके” ॥

कृष्णपाकः, पुं, (पच्यतेऽसौ । पच + घञ् । पाकः

फलम् । कृष्णः कृष्णवर्णः पाकः फलं यस्य ।)
करमर्द्दः । इति शब्दरत्नावली ॥

कृष्णपाकफलः, पुं, (कृष्णपाकरूपं फलं यस्य ।) कर

मर्दकः । इत्यमरः । २ । ४ । ६७ ॥

कृष्णपिङ्गला, स्त्री, (“वर्णो वर्णेन” । २ । १ । ६९ ।

इति कर्म्मधारयः ।) दुर्गा । इति त्रिकाण्डशेषः ॥
(कृष्णपिङ्गलवर्णयुक्ते, त्रि ।
ॐ “ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्द्धलिङ्गं विरूपाक्षं विश्वरूपं नमो नमः” ॥)

कृष्णपिण्डीतकः, पुं, (कृष्णः पिण्डीतकः । नित्यकर्म्म-

धारयः ।) वृक्षविशेषः । तत्पर्य्यायः । वराहः २
कृष्णपिण्डीरः ३ । इति रत्नमाला ॥

कृष्णपिण्डीरः, पुं, (कृष्णः पिण्डीरः ।) कृष्णपिण्डीत-

कवृक्षः । इति रत्नमाला ॥

कृष्णपिपीली, स्त्री, (कृष्णा पिपीली ।) कृष्णवर्णपिपी-

लिका । कालपिपीडा इति भाषा । तत्पर्य्यायः ।
स्थूला २ वृक्षरुहा ३ । इति राजनिर्घण्टः ॥

कृष्णपुष्पः, पुं, (कृष्णं पुष्पं यस्य ।) कृष्णधत्तूरकः । इति

राजनिर्घण्टः ॥ (कृष्णधत्तूरशब्दे ऽस्य पर्य्याया
ज्ञेयाः ॥)

कृष्णपुष्पी, स्त्री, (कृष्णपुष्प + जातित्वात् ङीष ।)

प्रियङ्गुवृक्षः । इति शब्दचन्द्रिका ॥

कृष्णफलः, पुं, (कृष्णं उग्रं कुत्सितं वा फलं अस्य ।)

करमर्द्दकः । इत्यमरटीकायां भरतः ॥

कृष्णफलपाकः, पुं, (कृष्णं फलरूपेण पाको यस्य ।)

करमर्दकः । इति द्विरूपकोषः ॥

कृष्णफला, स्त्री, (कृष्णं फलं यस्याः ।) सोमराजी ।

इत्यमरः । २ । ४ । ९६ ॥ (कोलशिम्बी । आल्कुशी
इति भाषा । छोट जाम इति भाषा । अस्याः
पर्य्याया यथा ॥
“सूक्ष्मकृष्णफला जम्बू र्दीर्घपत्रा च मध्यमा” ॥
इति बैद्यकरत्नमालायाम् ॥ कोलशिम्बिः ॥ सुवरा
शेण्डि इति भाषा ॥ अस्याः पर्य्याया ।
यथा, --
“कोलशिम्बिः कृष्णफला तथा पर्य्यङ्कपट्टिका” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कृष्णभूमः, पुं, (कृष्णा कृष्णवर्णा भूमिर्मृत्तिका यत्र

देशे । समासे अच् ।) कृष्णवर्णमृत्तिकायुक्तो
देशः । इति हेमचन्द्रः ॥

कृष्णभूमिजा, स्त्री, (कृष्णाया भूमेजायते इति । जन +

डः । ततष्टाप् ।) गोमूत्रिकातृणम् । इति राज-
निर्घण्टः ॥

कृष्णभेदा, स्त्री, (कृष्णवर्णेन भेदश्छेदोऽस्याः ।) क-

टुका । इति राजनिर्घण्टः ॥
(अस्याः पर्य्याया यथा ॥
“कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा ।
अशोका मत्स्यशकला चक्राङ्गी शकुलादनी ॥
मत्स्यपित्ता काण्डरुहा रोहिणी कटुरोहिणी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कृष्णभेदी, स्त्री, (कृष्णेन वर्णेन भेदोऽस्याः । गौरादि-

त्वात् ङीष् ।) कटुकी । इत्यमरः । २ । ४ । ८६ ॥
(कटुकीशब्दे ऽस्या गुणपर्य्याया बोद्धव्याः ।)

कृष्णमुद्गः, पुं, (कृष्णः कृष्णवर्णः निकृष्टो वा मुद्गः वन-

जातत्वात् ।) मुद्गविशेषः । कालमुग् इति भाषा ।
तत्पर्य्यायः । वासन्तः २ माधवः ३ सुराष्ट्रजः ४ ।
अस्य गुणाः । त्रिदोषदाहनाशित्वम् । मधुर-
त्वम् । लघुत्वम् । दीपनत्वम् । पथ्यत्वम् । बल-
पृष्ठ २/१८४
वीर्य्याङ्गपुष्टिदातृत्वञ्च । इति राजनिर्घण्टः ॥
(यथाह भावप्रकाशः ।
“मुद्गो रूक्षो लघुर्ग्राही कफपित्तरसो हि सः ।
स्वादुरल्पानिलो नेत्र्यो ज्वरघ्नो वनजस्तथा ॥
मुद्गो बहुविधः श्यामो हरितः पीतकस्तथा ।
श्वेतो रक्तश्च तेषान्तु पूर्ब्बः पूर्ब्बो लघुः स्मृतः ॥
शुश्रुतेन पुनः प्रोक्तो हरितः प्रवरो गुणैः ।
चरकादिभिरप्युक्त एष एव गुणाधिकः” ॥)

कृष्णमूली, स्त्री, (कृष्णं मूलमस्याः । स्त्रियां ङीप् ।)

शारिवाविशेषः । इति राजनिर्घण्टः ॥

कृष्णमृत्, स्त्री, (कृष्णा मृत् मृत्तिका ।) कालमृत्तिका ।

तत्पर्य्यायः । श्लक्ष्णभूमिः २ । अस्या गुणः । क्षत-
दाहास्रप्रदरश्लेष्मपित्तहरत्वम् । इति राजनि-
र्घण्टः ॥

कृष्णमृत्तिकः, पुं, (कृष्णा मृत्तिका भूमिर्यत्र ।) कृष्ण-

भूमः । इति हेमचन्द्रः ॥

कृष्णरुहा, स्त्री, (कृष्णा सती रोहतीति । रुह +

कः ।) जतुका लता । इति राजनिर्घण्टः ॥

कृष्णरूप्यः, त्रि, (कृष्णस्य भूतपूर्ब्बा गौः भूतपूर्ब्बो

रूप्यः । कृष्णचरः । कृष्णस्य भूतपूर्ब्बो गवादिः ।
इति मुग्धबोधव्याकरणम् ॥

कृष्णलकः, पुं, (कृष्णो वर्णोऽस्त्यस्यार्द्धफलेसिध्मादि-

त्वात् लच् । ततः स्वार्थे कन् ।) गुञ्जा । परिमाण-
विशेषः । यथा, मनुः । ८ । १७ ।
“पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश” ॥

कृष्णलवणं, क्ली, (कृष्णं लवणम् ।) सौवर्च्चललवणम् ।

काचलवणम् । इति राजनिर्घण्टः ॥ (यथा, गारुडे
१८४ अध्याये ।
“सैन्धवं कृष्णलवणं सौवीरं मत्स्यपित्तकम्” ॥
अस्य पर्य्याया यथा । वैद्यकरत्नमालायाम् ।
“रुचकं कृष्णलवणमक्षं सौवर्च्चलञ्च तत्” ॥)

कृष्णला, स्त्री, (कृष्णल + टाप् ।) गुञ्जा । इत्यमरः ।

२ । ४ । ९८ ॥ (क्ली, परिमाणविशेषः ।
यथा, मनुः । ८ । १३४ ।
“सर्षपाः षट् यवो मध्यस्त्रियवास्त्वेककृष्णलम् ।
पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश” ॥
अस्य टीकायां कुल्लूकभट्टेन यद्व्याख्यातं तद्यथा ।
“गौरसर्षपाः षट् मध्यो न स्थूलो नापि सूक्ष्मो
यवो भवति । त्रिभिर्यवैः कृष्णलं रत्तिकेति प्रसिद्धं
पञ्चभिः कृष्णलैर्माषाः षोडशमाषाः सुवर्णः स्यात्” ॥
अस्याः पर्य्याया यथा ।
“साङ्गुष्ठा कृष्णला गुञ्जा रक्तिका काकणन्तिका ।
काकादनी काकतिक्ता काकजङ्घा शिखण्डनी” ॥
इति वैद्यकरत्नमालायाम् ॥)

कृष्णलोहं, क्ली, (कृष्णं लोहम् ।) अयस्कान्तः । इति

राजनिर्घण्टः ॥
(“त्रपुसीसताम्ररजतकृष्णलोहसुवर्णानि लोह-
मलञ्चेति” ॥ इति सुश्रुते सूत्रस्थाने । ३६
अध्याये ॥)

कृष्णलोहितः, पुं, (कृष्णः लोहितश्च । “वर्णो वर्णेन

२ । १ । ६९ । इति समासः ।) कृष्णरक्तमिश्र-
वर्णः । धूम्रवर्णः । तद्वति त्रि । इत्यमरः २ । ५ । १६ ॥

कृष्णवक्त्रः, पुं, (कृष्णं कृष्णवर्णं वक्त्रं मुखं यस्य ।) वानरः ।

इति हलायुधः ॥

कृष्णवर्त्मा, [न्] पुं, (कृष्णं कृष्णवर्णं वर्त्म यस्य ।

वायुप्रसारितधूमपथाभ्यन्तर एव गतिरस्येति
भावः ।) अग्निः । (यथा, महाभारते १ । ८५ । १२ ।
“हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते” ॥) चित्रक
वृक्षः । इत्यमरः ॥ (कृष्णं अपवित्रं कर्म्म आच-
रणं यस्य ।) दुराचारः । राहुः । इति मेदिनी ॥
(कृष्णः वासुदेवः परब्रह्म इत्यर्थः वर्त्म गतिर्यस्य ।
ब्रह्मनिष्ठपुरुषः । इति व्युत्पत्तिलभ्योऽर्थः ॥)

कृष्णवल्ली, स्त्री, (कृष्णा वल्ली ।) कृष्णार्जकः । इति

शब्दचन्द्रिका ॥ सारिवाविशेषः । इति राज-
निर्घण्टः ॥ (अस्याः पर्य्याया यथा ।
“कृष्णार्ज्जकः कृष्णबल्ली कालमालः करालकः” ॥
इति वैद्यकरत्नमालायाम् ॥)

कृष्णवल्लिका, स्त्री, (कृष्णा वल्लिका ।) जतुका लता ।

इति राजनिर्घण्टः ॥

कृष्णवर्व्वरकः, पुं, (कृष्णः वर्व्वरकः ।) वर्व्वरवृक्षः ।

इति राजनिर्घण्टः ॥
(वर्व्वरशब्दे ऽस्य विवृतिर्ज्ञेया ॥)

कृष्णवानरः, पुं, (कृष्णः वानरः ।) कालवानरः ।

तत्पर्य्यायः । गोलाङ्गूलः २ गौरास्यः ३ कपिः ४
कृष्णमुखः ५ । इति राजनिर्घण्टः ॥

कृष्णवीजं, क्ली, (कृष्णं वीजं यस्य ।) कालिङ्गम् ।

इति राजनिर्घण्टः ॥ (कालिन्दं तरवूज इति
लोके । अस्य पर्य्याया गुणाश्च यथा ।
“कालिन्दङ्कृष्णवीजं स्यात् कालिङ्गश्च सुवर्त्तुलम् ।
कालिन्दं ग्राहिदृक्पित्तशुक्रहृच्छीतलं गुरु ।
पक्वन्तु सोष्णं सक्षारं पित्तलं कफवातजित्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कृष्णवीजः, पुं, (कृष्णं उग्रं वीजं यस्य ।) रक्तशिग्रु-

वृक्षः । इति जटाधरः ॥

कृष्णवृन्ता, स्त्री, (कृष्णं वृन्तं अस्याः ।) पाटलावृक्षः ।

इत्यमरः । २ । ४ । ५५ ॥ (अस्याः पर्य्याया यथा ।
“पाटलिः पाटला मोघा मधुटूती फलेरुहा ।
कृष्णवृन्ता कुवेराक्षी कालस्थाल्यलिवल्लभा ॥
ताम्रपुष्पी च कथिता परा स्यात् पाटला सिता” ॥
इति च तस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
माषपर्णी । इति मेदिनी (अस्याः पर्य्याया यथा ।
“सिंहपुच्छी ऋषिप्रोक्ता माषपर्णा महासहा ।
कृष्णवृन्ता च काम्बोजी पाण्डुलोमशपर्णिनी” ॥
इति वैद्यकरत्नमालायाम् ॥ * ॥ गम्भारीवृक्षः ।
अस्य पर्य्याया यथा ।
“गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्विका ॥
काश्मीरी काश्मरीहीरा काश्मर्य्यः पीतरोहिणी ।
कृष्णवृन्ता मधुरसा महाकुसुमिकाऽपि च” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
गुणाश्चास्याः पाटलामाषपर्णीगम्भारीशब्देषु
व्याख्येयाः ॥)

कृष्णवृन्तिका, स्त्री, (कृष्णं वृन्तं अस्याः ततः संज्ञायां

कन् ततष्टाप् अत इत्वञ्च ।) गम्भारीवृक्षः ।
पेटिकावृक्षः । इति रत्नमाला ॥

कृष्णशारः, पुं, (कृष्णः शारः शवलश्च ।) कृष्णसार-

मृगः । इत्यमरटीकायां रमानाथः ॥

कृष्णशालिः, पुं, (कृष्णः शालिर्धान्यविशेषः ।) काल

धान इति भाषा । तत्पर्य्यायः । कालशालिः
२ श्यामशालिः ३ सितेतरः ४ । अस्य गुणाः ।
त्रिदोषदाहनाशित्वम् । मधुरत्वम् । पुष्टिवीर्य्य-
वर्द्धनत्वम् । वर्णकान्तिबलकारित्वञ्च । इति राज-
निर्घण्टः ॥

कृष्णशिग्रुः, पुं, (कृष्णः रूक्षगुणयुक्तः शिग्रुः ।) शो-

भाञ्जनवृक्षः । इति राजनिर्घण्टः ॥

कृष्णशिम्बिका, स्त्री, (कृष्णा कृष्णवर्णा शिम्बिका

कुत्सिता शिम्बिका वा ।) कृष्णवर्णशिम्बी । काल
शिम इति भाषा । तत्पर्य्यायः । काकाण्डी २ ।
इति रत्नमाला ।
(अस्या गुणा गाम्भारीशब्दे ज्ञातव्याः ॥
“सितासिताः पीतकरक्तवर्णा
भवन्ति येऽनेकविधास्तु शिम्बाः ।
यथोदितास्ते गुणतः प्रधाना
ज्ञेया कटूष्णा रसपाकयोश्च” ॥
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

कृष्णशृङ्गः, पुं, (कृष्णं शृङ्गं विषाणो यस्य ।)

महिषः । इति हेमचन्द्रः ॥

कृष्णसखः, पुं, कृष्णस्य सखा । (“राजाहःसखिभ्य-

ष्टच्” । ५ । ४ । ९१ । इति टच् ।) अर्ज्जुनः ।
इति मुग्धबोधव्याकरणम् ॥ (अर्ज्जुनवृक्षः ॥)

कृष्णसखी, स्त्री, (कृष्णस्य सखी । द्रौपदी । सा तु

पञ्चपाण्डवमहिषी पञ्चालराजदुहिता । कृष्णस्य
सखी सहचरी इव कृष्णवणत्वात् ।) जीरकः ।
इति शब्दचन्द्रिका ॥

कृष्णसर्षपः, पुं, (कृष्णः कृष्णवर्णः सर्षपः ।) राजसर्षपः ।

इति राजनिर्घण्टः ॥ (यथास्य पर्य्यायाः ।
“क्षवः क्षताभिजनकः कृमिकृत् कृष्णसर्षपः” ॥
अस्थ गुणाश्च ।
“अति तीक्ष्णा विशेषेण तद्वत्कृष्णापि राजिका” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कृष्णसारः, पुं, (कृष्णश्चासौ सारःशवलश्चेति ।) हरिण

भेदः । इत्यमरः । २ । ४ । १० । कालसार इति
भाषा ॥ (यथा, मनौ २ । २३ ।
“कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः” ॥)
अस्य मांसगुणाः । संग्राहित्वम् । रूचिबलकारि-
त्वम् । ज्वरनाशित्वञ्च । इति राजवल्लभः ॥ स्नुही-
वृक्षः । शिंशपावृक्षः । इति मेदिनी ॥ खदिर-
वृक्षः । इति शब्दरत्नावली ॥

कृष्णसारङ्गः पुं, कृष्णवर्णः सारङ्गो मृगः । कृष्णसारः ।

(यथा, कात्यायनश्रौतवचने । ७ । ९ । २१ ।
“कृष्णसारङ्गं मेध्यमभावे लोहितसारङ्गम्” ॥
तथा, शतपथब्राह्मणे । ३ । ३ । ४ । १३ । “कृष्ण-
सारङ्गः स्यादित्याह यदि कृष्ण सारङ्गं न विन्देत
अथो अपि लोहितसारङ्गम्” । “कृष्णसारङ्गः
श्यामशवलः” । इति भाष्यम् । पक्षे परब्रह्म ।
यथा, “कृष्णः नित्यनिर्व्वाणरूपः तदङ्गं तत्स्वरूपं
पृष्ठ २/१८५
यदि चेत् न विन्देत लभेत अथो अपि तर्हि
लोहितसारङ्गं सगुणभावं उपासीत इत्यर्थः ॥)

कृष्णसारथिः, पुं, (अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥

(कृष्णः सारथिः युद्धे सहायोऽस्य इति विग्रहे ।)
पार्थः । (स तु तृतीयपाण्डवः । भारतीयमहायुद्धे
पार्थप्रार्थनया श्रीकृष्णस्य तत्सारथ्याङ्गीकारः ।
यथा, महाभारते । ५ । ७ । ३५-३८ ।
अर्ज्जुन उवाच ।
“भवान् समर्थस्तान् सर्व्वान् निहन्तु नात्र संशयः ।
निहन्तुमहमप्येकः समर्थः पुरुषर्षम ! ॥
भवांस्तु कीर्त्तिमान् लोके तद्यशस्त्वां गमिष्यति ।
यशसा चाहमप्यर्थी तस्मादसि मया वृतः ॥
सारथ्यन्तु त्वया कार्य्यं इति मे मानसं सदा ।
चिररात्रेप्सितं कामं तद्भवान् कर्तुमर्हति ॥
वासुदेव उवाच ।
उपपन्नमिदं पार्थ ! यत् स्पर्द्धेथा मया सह ।
सारथ्यं ते करिष्यामि कामः सम्पद्यतां तव” ॥)

कृष्णसारा, स्त्री, (कृष्णसार + अजादित्वात् टाप् ।)

शिंशपावृक्षः । इति रत्नमाला ॥
(अस्याः पर्य्यायाः यथा,
“शिंशपा पिच्छिला श्यामा कृष्णसारा च सा गुरुः ।
कपिला सैव मुनिभिर्भस्मगर्भेति कीर्त्तिता” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कृष्णस्कन्धः, पुं, (कृष्णः कृष्णवर्णः स्कन्धो यस्य ।)

कालस्कन्धः । तमालवृक्षः । इत्यमरटीकायां
भरतः ॥

कृष्णा, स्त्री, (कृषे र्नक् णत्वं ततः टाप् ।) द्रौपदी ।

(सा तु पञ्चपाण्डवमहिषी । कृष्णवर्णत्वादेव
अस्याः नाम तथा जातम् । यथा, महाभारते १ ।
१६८ । ४४ ।
“कृष्णेत्येवाब्रुवन् कृष्णां कृष्णाऽभूत् सा हि वर्णतः ।
तथा तन्मिथुनं यज्ञे द्रुपदस्य महामखे” ॥)
नीलीवृक्षः । पिप्पली । (अस्याः पर्य्याया यथा ।
“पिप्पली चपला शौण्डी वैदेही मागधी कणा ।
कृष्णोपकुल्या मगधी कोला स्यात्तिक्ततण्डुला” ॥
इति वैद्यकरत्नमालायाम् ॥) द्राक्षा । इति मेदिनी ॥
नीलपुनर्नवा । कृष्णजीरकः । गम्भारी । कटुका ।
सारिवाविशेषः । राजसर्षपः । इति राजनिर्घण्टः ॥
पर्पटी । इति भावप्रकाशः ॥ काकोली । सोम-
राजी । इति जटाधरः ॥ (द्वादशप्रकाराणां जलौ-
कसां मध्ये सविषप्रकारीयजलौकोविशेषः । तस्य
लक्षण यथा ।
“तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा” ॥
इति सुश्रुते सूत्रस्थाने १३ अध्याये ॥)

कृष्णागुरु, क्ली, (कृष्णं कृष्णवर्णं अगुरु ।) कृष्णवर्ण-

सुगन्धिकाष्ठविशेषः । तत्पर्य्यायः । अगुरु २ शृङ्गा-
रम् ३ विश्वरूपकम् ४ शीर्षम् ५ कालागुरु ६
केश्यम् ७ वसुकम् ८ कृष्णकाष्ठम् ९ धूपार्हम्
१० वल्लरम् ११ मिश्रवर्णम् १२ गन्धम् १३ ।
(यथा, भविष्यपुराणे आत्मतत्त्वोपदेशे ।
“विलिप्य कृष्णागुरुणा वाजपेयफलं लभेत्” ॥)
षस्य गुणाः । कटुत्वम् । उष्णत्वम् । तिक्तत्वम् ।
लेपे शीतलत्वम् । पाने पित्तहरत्वम् । केषाञ्चित्
मते त्रिदोषघ्नत्वम् । इति राजनिर्घण्टः ॥
तत्पपर्य्यायगुणाः । अथ अगुरु कृष्णागुरु ।
“अगुरुप्रवरं लोहं राजार्हं जोङ्गजं तथा ।
वंशिकं कृमिजं चापि कृमिजग्धमनार्य्यकम् ।
अगुरूष्णं कटु त्वच्यं तिक्तं तीक्ष्णञ्च पित्तलम् ॥
लघु कर्णाक्षिरोगघ्नं शीतवातकफप्रणुत् ॥
कृष्णं गुणाधिकं तत्तु लौहवद्वारि मज्जति ।
अगुरुप्रभवः स्नेहः कृष्णागुरुसमः स्मृतः” ॥
इति भावप्रकाशः ॥

कृष्णाचलः, पुं, (कृष्णस्य प्रियः अचलः पर्व्वतः । तद्-

वसतेस्तथात्वम् ।) रैवतपर्व्वतः । इति जटाधरः ॥
(अस्मिन्नेव गिरौ भगवतः कृष्णस्य द्वारकाधाम ।
इति पुराणप्रसिद्धम् ॥)

कृष्णाञ्जनी, स्त्री, (अज्यतेऽनया इति । अन्ज् + करणे

ल्युट् ततो ङीप् । कृष्णा कृष्णवर्णा अञ्जनी ।)
कालाञ्जनीवृक्षः । इति राजनिर्घण्टः ॥

कृष्णानदी, स्त्री, (कृष्णा इत्याख्याता नदी ।) नदीभेदः ।

तत्पर्य्यायः । कृष्णसमुद्भवा २ कृष्णवेण्या ३ कृष्ण-
गङ्गा ४ । (यथा, महाभारते ६ । ९ । ३३ ।
“सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम्” ॥
अस्य जलगुणाः । स्वच्छत्वम् । रुच्यत्वम् । दीपन-
त्वम् । पाचनत्वञ्च । इति राजनिर्घण्टः ॥

कृष्णाभा, स्त्री, (कृष्णा सती आभाति । आ + भा +

कः । ततष्टाप् ।) कालाञ्जनी । इति राजनि-
र्घण्टः ॥

कृष्णामिषं, क्ली, (कृष्णं कृष्णेन इत्यर्थः आमिषति

स्पर्द्धते वर्णेन । आ + मिष् + कः ।) कृष्णायसम् ।
इति हेमचन्द्रः ॥

कृष्णायसं, क्ली, (कृष्णं कालं आयसम् ।) स्वार्थे अण् ।)

कृष्णवर्णलौहम् । इति रत्नमाला ॥

कृष्णार्च्चिः, [स्] पुं, (कृष्णं कृष्णवर्णं अर्च्चिर्यस्य कृष्ण-

वर्णधूमेन सह अर्च्चिर्यस्येति वा ।) अग्निः । इति
भूरिप्रयोगः ॥

कृष्णार्जकः, पुं, (कृष्णः अर्जकः वनवर्व्वरः ।) काल-

तुलसी । तत्पर्य्यायः । कालमालः २ मालूकः ३
कृष्णमालुकः ४ कृष्णमल्लिका ५ गरघ्नः ६ वन-
वर्व्वरः ७ वर्व्वरी ८ जातिः ९ ।
(अन्ये पर्य्याया यथा, वैद्यकरत्नमालायाम् ॥
“कृष्णार्ज्जकः कृष्णवल्ली कालमालः करालकः” ॥)
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कफवा-
तामयनेत्ररोगनाशित्वम् । रुचिसुखप्रसवकारि-
त्वञ्च । इति राजनिर्घण्टः ॥

कृष्णालुः, पुं, (कृष्णः कृष्णवर्ण आलुः ।) नीलालुः ।

इति राजनिर्घण्टः ॥

कृष्णावासः, पुं, (आवसत्यस्मिन् इति । आ + वस् +

अधिकरणे घञ् । कृष्णस्य आवासः आलयः ।)
अश्वत्थवृक्षः । इति हेमचन्द्रः ॥ (रैवतपर्व्वतः ॥
इति भारतम् ॥ अश्वत्थशब्देऽस्य गुणादयो
ज्ञेयाः ॥)

कृष्णाश्रितः, त्रि, (कृष्णं आश्रितः प्राप्ताश्रयः ।) यस्य

आश्रयः कृष्णः सः । इति मुग्धबोधम् ॥

कृष्णिका, स्त्री, (कृष्णैव इति । कृष्ण + संज्ञायां कन्

टाप् अत इत्वम् । यद्वा, कृष्णवर्णो भूम्नाऽस्त्यस्य
इति ठन् टाप् च ।) राजिका । इत्यमरः । २ ।
९ । १९ ॥ राइ सर्षा इति भाषा ॥
(“कृष्णिका राजिकासुरी कुष्ठको राजसर्षपः” ॥
इति वैद्यकरत्नमालायाम् ॥)
श्यामापक्षिणी । तस्या नामानि यथा,
“श्यामा वराही शकुनी कुमारी
दुर्गा च देवी चटिका तथोमा ।
त्वं पोतकी पाण्डविका त्वमेव
त्वं कृष्णिका त्वं मितपक्षिणी च ॥
त्वं ब्रह्मपुत्त्री शकुनैकदेवी
धनुर्द्धरी पान्थसमूहमाता ।
प्रत्यक्षरूपा भगवत्यहोमा
नमोऽस्तु तुभ्यं कुरु मेऽर्थसिद्धिम्” ॥
इति वसन्तराजशाकुनम् ॥

कृष्णेक्षुः, पुं, (कृष्णः कृष्णवर्ण इक्षुः ।) इक्षुभेदः ।

काजली आक् इति भाषा । तत्पर्य्यायः । श्या-
मेक्षुः २ कोकिलेक्षुकः ३ कोकिलाक्षः ४ कान्ता-
रकः ५ । इत्यमरः ॥ अस्य गुणाः । तिक्तत्वम् ।
पाके मधुरत्वम् । स्वादुत्वम् । सुहृद्यत्वम् ।
कटुत्वम् । रसाढ्यत्वम् । त्रिदोषहारित्वम् । सम-
वीर्य्य बहुवीर्य्यसुवर्णदातृत्वञ्च । इति राजनि-
र्घण्टः ॥ अस्य भावप्रकाशोक्तगुणाः कान्तारशब्दे
द्रष्टव्याः ॥

कृष्णोदुम्बरिका, स्त्री, (कृष्णस्य काकस्य प्रिया उदुम्ब-

रिका । यद्वा कृष्णा कृष्णवर्णा उदुम्बरिका ।)
काकोदुम्बरिका । इति राजनिर्घण्टः ॥

कृसरः, पुं, (डु कृ ञ् करणे + “कृधूमादिभ्यः कित्” ।

उणां ३ । ७३ । इति सरन् किच्च । बाहुलकात्
न षत्वम् ।) कृशरः । इति जटाधरः ॥
(यथा, छन्दोगपरिशिष्टे --
“तिलतण्डुलसम्पक्वः कृसरः सोऽभिधीयते” ॥
खिचुडी इति भाषा । यथा, च मनौ ५ । ७ ।
“वृथा कृसरसंयावं पायसापूपमेव च ।
अनुपाकृतमांसानि देवान्नानि हवीषि च” ॥)

कॄ, श विक्षेपे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) श, किरति । अस्यापि निष्ठायां कीर्ण
इति । सूल्वाद्योदिदित्यत्र मूर्च्छवर्जनसामर्थ्यात्
येन केनापि प्रकारेण रेफान्तान्निष्ठातस्य न इति
व्याख्यानात् ॠदिरणाविति इति उरि च कृते
रान्तत्वात् निष्ठा तस्य न स्यात् । एवं गॄ श निग-
रणे इत्यादेरपि गीर्ण इत्यादि बोध्यम् । इति
दुर्गादासः ॥

कॄ, ञ गि हिंसे । इति कविकल्पद्रुमः ॥ (क्र्यां-उभं-

सकं-सेट् ।) ञ गि, कृणाति कृणीते । कीर्णः
किर्णिः । इति दुर्गादासः ॥

कॄ, क ङ विज्ञाने । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) क ङ, कारयते । इति दुर्गा-
दासः ॥

कॄत्, क संशब्दे । इति कविकल्पद्रुमः ॥ (चुरां

--परं--सकं--सेट् ।) दीर्धी । क, कीर्त्तयन्ति च
पृष्ठ २/१८६
गोष्ठीषु यद्गुणानप्सरोगणाः । कीर्त्तादेशस्य नि-
त्यत्वेऽपि कॄतपाठः कीर्त्तादेशस्य व्यभिचारसूच-
नार्थः तेन अचीकृतदिति सिद्धम् । इति दुर्गा-
दासः ॥

कॢप्तः, त्रि, कल्पनार्थकृपधातोः कर्म्मणि क्ते कॢपादेशः ।

नियतः । कृतकल्पनः । कल्पनं सामर्थ्यं तद्विशिष्टः ।
यथा, “अवश्यकॢप्ताभिः पर्व्वतत्वचत्वरत्वादितत्तद्ध-
र्म्मावच्छिन्नाधिकरणताव्यक्तिभिरेवोपपत्तौ” । इति
जगदीशः ॥ (यथा, मनौ । ११ । २७ ।
“इष्टिं वैश्वानरीं नित्यं निर्व्वपेदब्दपर्य्यये ।
कॢप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे” ॥)

कॢप्तकीला, स्त्री, (कॢप्तं कीलयति । कील् + “कर्म्भ-

ण्यण्” । ३ । २ । १ । इति अण् ।) व्यवस्थापत्रम् ।
तत्पर्य्यायः । पट्टोलिका ३ । इति त्रिकाण्डशेषः ॥

कॢप्तधूपः, पुं, (कॢप्तः कृतः धूपो येन गन्धद्रव्यविशेषेण ।)

सिह्लकः । इति जटाधरः ॥ (कॢप्तश्चासौ धूपश्चेति
विग्रहे कृत्रिमो धूपः ॥)

कॢप्तिकः, त्रि, (कॢप्तं मूल्यदानेन सत्त्वं देयत्वेनास्त्यस्य ।

कॢप्त + ठन् ।) क्रीतः । इति हलायुधः ॥

केकयः, पुं, (केकयस्तदाख्यया प्रसिद्धः प्रदेशो राज्य-

त्वेनास्त्यस्य ।) सूर्य्यवंशीयराजविशेषः । इति श्री-
भागवतम् ॥ (स तु केकयदेशाधीश्वरः दशरथ-
श्वशुरश्च । यथा, रामायणे १ । १३ । २३ ।
“तथा केकयराजानं वृद्धं परमधार्म्मिकम् ।
श्वशुरं राजसिंहस्य सपुत्त्रन्तमिहानय” ॥
जनपदवाच्ये तु बहुवचनान्तः । यथा, महाभारते ।
६ । जम्बूखण्डविनिर्म्माणपर्व्वणि ९ । ४८ ।
“उपावृत्तानुपावृत्ताः सुराष्ट्राः केकयास्तथा” ॥)

केकयी, स्त्री, (केकयस्यापत्यं स्त्री । सङ्कोचे माना-

भावात् केकयाज्जन्यजनकभावोऽपि पुंयोग इति
पुंयोगादाख्यायां ङीष् ।) दशरथराजपत्नी । सा तु
केकयराजपुत्त्री मरतमाता च । इति शब्दरत्ना-
वली ॥ (यथा, रामायणे ।
“सत्कृत्य केकयीपुत्त्रं केकयो धनमादिशत्” ॥)

केकरः, त्रि, (के शिरसि मूर्द्ध्नि इत्यर्थः कर्तुं नेत्र-

तारां शीलमस्य । “कृञो हेतुताच्छील्यानुलोम्येषु” ।
३ । २ । २० । इति टः । “हलदन्तात् सप्तम्याः संज्ञा-
याम्” । ६ । ३ । ९ । इत्यलुक् ॥) वलीरः । इत्यमरः ।
२ । ६ । ४९ ॥ टेरा इति भाषा । (यथा, मनौ ।
“पित्रा विवदमानश्च केकरो मद्यपस्तथा” ॥
चतुवर्णात्मकमन्त्रः ॥ यथा, विश्वसारतन्त्रे । “चतु-
र्वर्णस्तु केकरः” ॥)

केका, स्त्री, (के मूर्द्ध्नि कायति । कै + कः टाप् ।

अलुक् समासः । यद्वा, अन्येभ्योऽपीति कर्म्मणि
डः । “हलदन्तात् सप्तम्याः संज्ञायाम्” । ६ । ३ ।
९ । इत्यलुक् ।) मयूरवाणी । इत्यमरः । २ । ५ ।
३१ ॥ (यथा, रघौ १ । ३९ ।
“षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः” ॥)

केकाबलः, पुं, (केकां ध्वनिविशेषं वलते स्तृणातीति ।

केका + वल् + अच् । यद्वा, केका + अस्त्यर्थे बाहु-
लकात् वलच् प्रत्ययः ।) मयूरः । इति शब्द-
चन्द्रिका ॥

केकी, [न्] पुं, (केका ध्वनिभेदः अस्यास्तीति ।

व्रीह्यादिश्चेति इनिः ।) मयूरः । इत्यमरः २ । ५ ।
३० ॥ (यथा, काशीखण्डे । ३ । ७१ ।
“केकी केकां परित्यज्य मौनं तिष्ठति तद्भयात् ।
चकोरश्चन्द्रिकाभोक्ता नक्तव्रतमिवास्थितः” ॥)

केकेयी, स्त्री, (कैकेयी पृषोदरात् एकारत्वम् ।)

केकयी । इति शब्दरत्नावली ॥

केचन, व्य, (पाणिनिमते पदद्वयम् । मुग्धबोधमते

“किमः क्त्यन्ताच्चिच्चनौ” । इति चनप्रत्ययः ।)
केचित् । इति व्याकरणम् ॥
(यथा, पञ्चदशी । ६ । ५९ ।
“पूर्ब्बापरपरामर्शविकलास्तत्र केचन” ॥)

केचित्, व्य, (पाणिनिमते पदद्वयम् । मुग्धबोधभते

तु “किमः क्त्यन्ताच्चिच्चनौ” । इति चित् प्रत्ययः ।)
केचन । इति व्याकरणम् । कोन व्यक्तिरा इति
भाषा ॥ (यथा, रामगीतायाम् । १४ । “केचिद्-
वदन्तीति वितर्कवादिनः” । केचित्कालापकोविदाः
इति रामतर्कवागीशः ॥)

केचुकं, क्ली, (कचु + स्वार्थे कन् । पृषोदरात् एत्वे

साधुः ।) कचुः । इति त्रिकाण्डशेषः ॥

केणिका, स्त्री, (के शिरसि कुत्सितो वा अणकः ततः

टाप् अत इत्वम् । स्रीत्वं लौकिकम् ।) पटकुटी ।
इति हेमचन्द्रः ॥ कानात् इति भाषा ॥

केत, त् क मन्त्रणे । निःश्रावणे । इति कविकल्प-

द्रुमः ॥ (अदन्तचुरां-परं-सकं-सेट् । मन्त्रणे नि-
मन्त्रणे । अचिकेतत् । निःश्रावणं समयोद्भा-
षणम् । इति दुर्गादासः ॥

केतकः, पुं, (कितनिवासे + ण्वुल् ।) केतकीवृक्षः ।

इति त्रिकाण्डशेषः ॥ (यथा, रघुः ६ । १७ ।
“विलासिनीविभ्रमदन्तपत्र-
मापाण्डुरं केतकवर्हमन्यः” ॥
अस्य पर्य्याया गुणाश्च यथा, --
“केतकः सूचिकापुष्पो जम्बुकः क्रकचच्छदः” ॥
“केतकः कटुकः स्वादुर्लधुस्तिक्तः कफापहः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

केतकी, स्त्री, (केतक + गौरादित्वात् ङीष् ।) पुष्प-

वृक्षविशेषः । केया इति भाषा ॥
(यथा, भ्रमराष्टके । १ ।
“गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा
पद्मभ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात” ॥)
तत्पर्य्यायः । सूचीपुष्पः २ हलीनः ३ जम्बुलः ४ ।
इति रत्नमाला ॥ केतकः ५ सूचिकापुष्पः ६
जम्बुकः ७ क्रकचच्छदः ८ । इति भावप्रकाशः ॥
तीक्ष्णपुष्पा ९ विफला १० धूलिपुष्पिका ११
मेध्या १२ कण्टदला १३ शिवद्विष्टा १४ नृपप्रिया
१५ क्रकचा १६ दीर्घपत्रा १७ स्थिरगन्धा १८
गन्धपुष्पा १९ इन्दुकलिका २० दलपुष्पा २१
पांशुला २२ । अस्या गुणाः । मधुरत्वम् । तिक्तत्वम् ।
कफनाशित्वम् । कटुत्वम् । लघुत्वञ्च ॥ तत्पुष्पगुणाः ।
वर्ण्यत्वम् । केशदौर्गन्ध्यनाशित्वञ्च ॥ हेमाभाया-
स्तस्या गुणाः । मदनोन्मादकत्वम् । वृंहणत्वम् ।
सौख्यकारित्वञ्च ॥ तस्याः स्तनगुणाः । अति-
शिशिरत्वम् । कटुत्वम् । पित्तकफापहत्वम् ।
रसायनत्वम् । वर्णदेहदार्ढ्यकारित्वञ्च । इति राज-
निर्घण्टः ॥

केतनं, क्ली, (कित् निवासाद्यर्थेषु + कर्म्मभावकरणा-

धिकरणादिषु यथायथं ल्युट् ।) ध्वजः ।
(यथा, रघुवंशे ९ । ३९ ।
“अपतुषारतया विशदप्रभैः
सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभि-
र्हिमकरो मकरोर्ज्जितकेतनम्” ॥)
कार्य्यम् । निमन्त्रणम् । इत्यमरः । ३ । ३ । ११३ ॥
(यथा, मनुः । ४ । ११० ।
“प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्त्तयेद्ब्रह्म राज्ञो राहोश्च सूतके” ॥)
चिह्नम् । गृहम् । इति हेमचन्द्रः ।
(यथा, रामायणे १ । ७४ । ८ ।
“स त्वं धर्म्मपरो भूत्वा कश्यपाय वसुन्धराम् ।
दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः” ॥)
स्थानम् । इति शब्दरत्नावली ॥
(यथा, विष्णुपुराणे १ । ११ । ९ ।
“एतद्राजासनं सर्व्वभूभृत्संश्रयकेतनम्” ॥)

केतुः, पुं, नवग्रहान्तग्रहविशेषः । स तु राहोः

शरीरम् । तत्पर्य्यायः । शिखी २ । इति दीपिका ॥
अयं पापग्रहः । यथा, --
“अर्द्धो नेन्द्वर्कसौराराः पापाः सौम्यास्तथापरे ।
पापयुक्तो बुधः पापो राहुकेतू च पापदौ” ॥ इति ॥
अयन्तु जन्मराश्यपेक्षया षष्ठत्रिदशमैकादश-
स्थानस्थितश्चेत् शुभः । यथा, --
“केतूपप्लवभौममन्दगतयः षष्ठत्रिसंस्थाः शुभा-
श्चन्द्रार्कावपि ते च तौ च दशमौ चन्द्रः पुनः सप्तमः ।
जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मजः
शुक्रः षड्दशसप्तवर्जमितरे सर्व्वेऽप्युपान्त्ये शुभाः” ॥
इति ॥ * ॥ अस्य त्रिकोण उच्चस्वगृहशत्रुमित्र-
समनीचा यथा, --
“सिंहस्त्रिकोणं धनुरुच्चसंज्ञं
मीनो गृहं शुक्रशनी विपक्षौ ।
सूर्य्यारचन्द्राः सुहृदः समानौ
जीवेन्दुजौ षट् शिखिनः परांशाः” ॥ इति ॥
“स्वोच्चाच्च सप्तमं नीचं प्राग्वद्भावैर्विनिर्द्दिशेत्” ॥
इति ॥ * ॥ अस्य रिष्टिर्यथा, --
“केतुर्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन् प्रसूयते जन्तुः ।
रौद्रे सर्पमुहूर्त्ते वा प्राणैः संत्यज्यते चाशु” ॥
इति च ज्योतिस्तत्त्वम् ॥ * ॥ अस्य दशाफलं
केरलीनामग्रन्थे द्रष्टव्यम् ॥ * ॥ अथातः केतुचा-
राध्यायो व्याख्यायते । तत्रादावेवागमप्रदर्शनार्थ-
माह ।
“गार्गीयं शिखिचारं पराशरमसितदेवलकृतञ्च ।
अन्यांश्च बहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः” ॥
गार्गीयं गर्गप्रोक्तं केतूनां चार तत् पराशरेण कृतं
असितनामाचार्य्येण कृतं देवलविरचितं एतान्
केतुचारान् अवलोक्य तथान्यानपि कश्यपऋषि-
पुत्त्रनारदवज्रादिरचितान् बहून् दृष्ट्वा मया अयं
पृष्ठ २/१८७
अनाकुलो निःसन्देहः केतुचारः क्रियते ॥ * ॥
अथोदयास्तमयलक्षणं आह ।
“दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते
ज्ञातुम् । दिव्यान्तरीक्षभौमास्त्रिविधाः स्युः केतवो
यस्मात्” ॥
अस्य केतोर्दर्शनं उदयः अस्तमयोऽदर्शनं गणित-
विधानेन ज्ञातुं न शक्यते । यस्मात् केतवस्त्रि-
विधास्त्रिप्रकाराः । दिवि आकाशे भवा दिव्याः ।
अन्तरीक्षे भवा आन्तरीक्षाः । ग्रहनक्षत्रस्थानं
विहायान्यत्र आकाशे ये दृश्यन्ते ते आन्त-
रीक्षाः । भूमौ भवाः भौमाः । इति हेतोरूत्पात-
रूपत्वात् एषामुदयास्तमयौ न ज्ञायेते इति ॥ * ॥
अथ केतूनां दिव्यवर्ज्जितानां अन्येषां स्वरूपमाह ।
“अहुताशेऽनलरूपं यस्मिंस्तत्केतुरूपमेवोक्तम् ।
खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य” ॥
अहुताशे अनलवर्ज्जिते यस्मिन् देशे अनलरूप-
मग्निरूपं दृश्यतेयत् तदेव केतुरूपमुक्तम् । किन्तु
खद्योत इन्द्रगोपककृमिविशेषः । पिशाचालयं
यक्षस्थानम् । मणयश्चन्द्रकान्तप्रभृतयः । रत्नानि
मरकतप्रभृतीनि । आदिग्रहणादन्यान्यपि काष्ठ-
प्रभृतीनि तेजोरूपाणि एतान् त्यक्त्वा । यत एषां
खभावादेवानलरूपमहुताशे दृश्यते अतो न तत्
केतुरूपमिति ॥ * ॥
अथ दिव्यान्तरीक्षभौमानां केतूनां लक्षणमाह ।
“ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वान्तरीक्षास्ते ।
दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः” ॥
ध्वजश्चिह्नम् । शस्त्रमायुधादि । भवनं गृहम् ।
तरुर्वृक्षः । तुरगोऽश्वः । कुञ्जरो हस्ती । आदिग्रह-
णादन्येषु चतुष्पदेषु ये दृश्यन्ते ते आन्तरीक्षाः ।
दिव्या नक्षत्रस्थाः । अतोऽस्मादुक्तादन्यथा भूमौ
ये दृश्यन्ते ते भौमाः । शिखिनः केतवः इति ॥ * ॥
अथ केतूनां संस्थानं मतान्तरेणाह ।
“शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम् ।
बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम्” ॥
एके पराशरादयः एकाधिकं शतं केतूनां कथ-
यन्ति । तथा च पराशरः । “शतमेकोत्तरं केतूनां
भवन्ति तेषां षोडश मृत्युनिश्वासजाः । द्वादशा-
दित्थसम्भवाः । दश दक्षमखविलयने रुद्रक्रोधजाः ।
सप्त पैतामहाः । पञ्चदश ऋषेरौद्दालिकस्य पुत्त्राः ।
सप्तदश मरीचिकश्यपललाटजाः । पञ्च च प्रजा-
पतिसहजाः । त्रयोविभावसुजाः । धूमोद्भवश्चैकः ।
चतुर्दश मथ्यमानेऽमृते सोमेन सह सम्भूताः ।
एकस्तु ब्रह्मकोपजः” इति ॥ * ॥ अपरे गर्गादयः
सहस्रं केतूनां वदन्ति ।
तथा च गर्गः ।
“अनित्योदयचाराणामशुभानाञ्च दर्शनम् ।
आगन्तूनां सहस्रं स्यात् ग्रहाणां सन्निबोध मे” ॥
बहुरूपमेकमेवेति नारदाख्यो मुनिरेकमेव
केतुं बहुरूपं प्राह । तन्मते एक एव केतुस्तस्य
बहूनि रूपाणि स एव दिव्यान्तरीक्षभौम इत्यर्थः ।
तथा च नारदः ।
“दिव्यान्तरीक्षभौमस्थ एकः केतुः प्रकीर्त्तितः ।
शुभाशुभफलं लोके ददात्यस्तमयोदयैः” इति ॥ * ॥
एवं मतान्तराण्युक्त्वा स्वसिद्धान्तमाह ।
“यद्येको यदि बहवः किमनेन फलन्तु सर्व्वथा
वाच्यम् । उदयास्तमयैः स्थानैः स्पर्शैराधूपनैर्वर्णैः”
यद्येक एव केतुः यदि वा बहवः केतवः किम-
नेन । सर्व्वथा तेषामुदयास्तमयैः स्थानैः स्पर्शैरा-
धूपनैवर्णैश्च शुभाशुभं फलं पुनर्वक्तव्यम् । उदयः
कस्यां दिश्युदितः । अस्तमयः कस्यामेवास्तमितः ।
स्थानं यथा कस्मिन्नाकाशमागे कस्य नक्षत्रस्य
वा समीपे उदितोऽस्तमितश्च । स्पर्शनं कस्तेन
ग्रहो नक्षत्रं वा स्पृष्टम् । आधूपनं कोऽपि शि-
खयाभिधूपितः । वर्णाः सितरक्तपीतकष्णादिकाः ।
एवमादिभिस्तस्य फलं वाच्यं तस्मादेको बहवो वा
भवन्तु का नः क्षतिरिति ॥ * ॥
अथ केतुचारे येषां केतूनामभिदृष्टानां कियन्तं
कालं यावत् फलपाको भवति तेषां फलपाक-
नियमार्थमाह ।
“यावन्त्यहानि दृश्यो मासास्तावन्त एव फलपाकः ।
मासैरब्दांश्च वदेत् प्रथमात् पक्षत्रयात् परतः” ॥
दृश्यः केतुरिति सम्बध्यते । फलस्य पाकः फल-
पाकः । यः केतुर्यावन्त्यहानि दृश्यो भवति तस्य
तावन्तो मासास्तस्य केतोस्तावतो मासान् फल-
पाको ब्रूयात् । यावत्सङ्ख्यकानि दिनानि दृष्टो
भवति तत्तुल्यान् मासान् तस्य फलपाको वदेत् ।
मासैस्तु पुनरब्दान् संवत्सरान् ब्रूयात् । मास-
सङ्ख्यादर्शने मासतुल्यानि वर्षाणि च वदेत् ।
यावत् सङ्ख्यान्मासान् दृश्यो भवति तावत्सङ्ख्यानि
वर्षाणि तस्य फलपाको वदेत् । कस्मात् कालात्
प्रभृतिरित्यत आह प्रथमात् पक्षत्रयात् परतः ।
सर्व्वेषां केतूनां दिनसाम्यत्वम् । यावन्ति दिनानि
दृश्यः केतुस्तस्माद्दर्शनादूर्द्ध्वं प्रथमं पक्षत्रयं पञ्च-
चत्वारिंशद्दिनानि यावत् निष्फलानि तस्मात्
पक्षत्रयात् परतः तावतो मासान् फलपाकः ।
अथ मासान् दृश्यते तदा तस्मादेव दर्शनात्
परतः पक्षत्त्रयमतिक्रम्य मासतुल्यानि वर्षाणि
वदेत् । प्रथमात् पक्षत्रयात् परतः तत्र पक्षत्त्रयं
यावद्दिनसङ्ख्या गृह्यते । पक्षत्त्रयादूर्द्ध्वं यदा दृश्यते
केतुस्तदा मासतुल्यानि वर्षाणि वदेत् । अत्र
सन्देहव्युदासार्थं गर्गोक्तं नियमकमभिलिख्यते ।
तथा च गर्गः ।
“यावन्त्यहानि दृश्यः स्यात्तावन्मासान् फलं भवेत् ।
मासांस्तु यावद्दृश्येत तावतोऽब्दांस्तु वैकृतान् ॥
त्रिपक्षात् परतः कर्म्म पचेत्तस्य शुभाशुभम् ।
यद्दिष्टमुदिते केतौ फलं नेहादिशेद्बुधः” ॥
तथा वृद्धगर्गः ।
“यावतो दिवसांस्तिष्ठेत्तावन्मासान् विनिर्दिशेत् ।
त्रिपक्षात् परतश्चापि कर्म्म केतोः प्रपच्यते ॥
तस्मात् कालात् परं ब्रूयात् फलमस्य शुभाशुभम् ।
यद्दिष्टमुदये केतोः फलं नेहादिशेद्बुधः” ॥
यद्येवं तदा द्वितीयव्याख्यानमत्र न घटते प्रथम-
व्याख्यानमेव ज्याय इति । यथा प्रथमात् पक्ष-
त्रयात् परतः दर्शनादूर्द्ध्वं पक्षत्रयं यावन्निष्फलं
पक्षत्रयात् परतः फलपाकस्य कालसङ्ख्या प्रवर्त्तते
तस्मादुक्तं यद्दिष्टमुदये केतोः फलं नेहादिशेद्बुधः
इति । यदुक्तं मासैरब्दांश्च वदेत् तदेकदेशेनापि
प्रतिमासमेकद्वित्रिदिनदर्शनेन माससङ्ख्या लभ्यत
एवेत्यर्थः । सर्व्वथा किमनेनास्माकमसद्विकल्पेन ।
दिवसैः पक्षत्रयात् परतो मासान् वदेत् । मासै-
स्तस्मादेव पक्षत्रयात् परतोऽब्दान् वदेत् । मा-
सात् परतो दिनाधिक्यं दृष्ट्यनुपातवशात् वाच्यम् ।
यथा यदि दिनत्रिंशता वर्षं लभ्यते तद्दृष्ट्या दिनै-
केन मासैकमिति ।
तथा च समाससंहितायाम् ।
“केचित् केतुसहस्रं शतमेकसमन्वितं वदन्त्येके ।
नारदमतमेकोऽयं त्रिस्थानसमुद्भवो विविधरूपः ॥
दिव्या ग्रहर्क्षजातास्तीव्रफलकरा भौमाः ।
प्राणिध्वजादितुङ्गेषु चान्तरीक्षा न चात्यशुभाः ॥
उदयास्तमयाधूपनसंयोगाकारमार्गदिक्पातैः ।
फलानि दिवसैर्म्मासान् मासैस्तु वर्षाणि सन्दि-
शेत् केतोः” ॥ * ॥
अथ शुभस्य केतोर्लक्षणमाह ।
“ह्रस्वतनुः प्रसन्नः स्निग्ध ऋजुरचिरसंस्थितः शुक्लः ।
उदितो वाप्यभिदृष्टः सुभिक्षसौख्यावहः केतुः” ॥
ऋजुरकुटिलः । अचिरसंस्थितः शीघ्रमेवा-
दर्शनं याति । शुक्लः श्वेतः । उदितो-वाप्यभिदृष्टः
अथवोदित एवाभिदृष्टस्तस्मिंस्तु उदितमात्रे यदि
दृष्टिर्भवति तदा शुभः । अन्यथा अशुभः ॥
अशुभस्य केतोर्लक्षणमाह ।
“उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा” ॥
ह्रस्वतनुः प्रसन्न इत्यस्मादुक्तात् यो विपरीतरूपः
केतुरुत्पन्नः स धूमकेतुः । स च न शुभकरः पापं
करोतीत्यर्थः । इन्द्रधनुःसदृशो न शुभकर एव ।
तथा द्विशिखस्त्रिशिखश्च विशेषतः पापफलदः ।
तथा च समाससंहितायाम् ।
“अचिरस्थितोऽभिदृष्टस्त्वजुः सितः स्निग्धमूर्त्ति-
रुदगुदितः । ह्रस्वतनुः प्रसन्नः केतुर्लोकस्य भवाय ॥
न शुभो विपरीतो विशेषतः शक्रचापसंकाशः ।
द्वित्रिचतुश्चूलो वा दक्षिणसंस्थश्च मृत्युकरः” ॥ * ॥
अधुना केतुसहस्रलक्षणं विवक्षुस्तत्रादावेव रविजाः
पञ्चविंशतिः केतवो भवन्ति । तेषां लक्षणमाह ।
“हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः
सशिखाः । प्रागपरदिशोर्दृश्या नृपतिविरोधा-
वहा रविजाः” ॥ हारो मुक्ताहारः । मणयश्चन्द्र-
कान्तप्रभृतयः । हेम सुवर्णम् । तत्समानवर्णा ये
केतवस्ते किरणाख्याः किरणसंज्ञाः । सशिखाः
सचूलाः । ते च पञ्चविंशती रविजाः सूर्य्यसुताः
प्रागपरयोश्च दिशोर्दृश्याः । प्राक् पूर्ब्बस्याम-
परस्यां पश्चिमायां दिशि दृश्यन्ते । एतेषां मध्या-
देक एव दृश्यते न सर्व्वे युगपदिति । सर्व्वत्रेयं
परिभाषा । ते च नृपते राज्ञो विरोधप्रदाः अ-
निष्टा इत्यर्थः ।
तथा च गर्ग
“शुद्धस्फटिकसंकाशा मृणालरजतप्रभाः ॥
पृष्ठ २/१८८
मुक्ताहारसुवर्णाभाः सशिखाः पञ्चविंशतिः ॥
किरणाख्या रवेः पुत्त्रा दृश्यन्ते प्राग्दिशि स्थिताः ।
तथा च परभागस्था नृपतेर्मयदाश्च ते” ॥ * ॥
अथाग्निपुत्त्रास्तावन्त आह ।
“शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः ।
आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिनो भयदाः” ॥
शुकपक्षी नीलपीतवर्णः । दहनोऽग्निः । बन्धु-
जीवकः पुष्पविशेषोऽतिलोहितः । लाक्षा वृक्ष-
निर्यासः । क्षतजं रक्तम् । तदुपमास्तत्तुल्यवर्णाः ।
ते च तावन्तः पञ्चविंशतिः आग्निय्यां दिशि दृश्य-
न्ते । ते च हुताशसुताः अग्निपुत्त्राः अग्निभयदाः ।
तथा च गर्गः ।
“नानावर्णाग्निसङ्काशा दीप्तिमन्तोऽपि चूलिनः ।
सृजन्त्यग्निमिवाकाशात् सर्व्वज्योतिषनाशनाः ॥
तेऽग्निपुत्त्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः ।
आग्नेय्यां दिशि दृश्यन्ते पञ्चविंशाः प्रकीर्त्तिताः” ॥
अथ मृत्युसुतास्तावन्त एवाह ।
“वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः ।
दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च” ॥
वक्रशिखाः अस्पष्टचूडाः । ते च रूक्षा अस्नि-
ग्धास्तेऽपि पञ्चविंशतिरेव । ते च मृत्योः पुत्त्रा
दक्षिणस्यां दिशि दृश्यन्ते । ते च जनानां मरकं
आवेदयन्ति ।
तथा च गर्गः ॥
“कृष्णा रूक्षा वक्रशिखा ट्टश्यन्ते याम्यदिक्स्थिताः ।
पञ्चविंशा मृत्युसुताः प्रजाक्षयकराः स्मृताः” ॥
अथ भूपुत्त्रा द्वाविंशतिरेवाह ।
“दर्पणवृत्ताकारा विशिखाः किरणान्विता धरा-
तनयाः । क्षुद्भयदा द्वाविंशतिरैशान्यामम्बुतैल-
निभाः” ॥ दर्पणवत् वृत्तं वर्त्तुलं आकारो येषां
ते विशिखा विचूलाः रश्मिसंयुक्ताः भूमेः पुत्त्राः ।
ते च द्वाविंशतिरैशान्यां दृश्यन्ते । जलस्य तैलस्य
च सदृशकान्तयः । एते दृष्टा दुर्भिक्षं ददति ॥
तथा च गर्गः ।
“समन्तवृत्ता विशिखा रश्मिभिः परिवारिताः ।
अम्बुतैलप्रतीकाशा द्वाविंशा भूसुताः स्मृताः ।
ऐशान्यां दिशि दृश्यन्ते दुर्भिक्षभयदाश्च ते” ॥ * ॥
अथ चन्द्रसुतास्त्रय आह । “शशिकिरणहिम-
रजतकुमुदकुन्दकुसुमोपमाः सुताः शशिनः । उत्त-
रतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः” ॥ एते
सौम्यायां दिशि दृश्यन्ते । ते च सुभिक्षं कुर्व्वन्ति ।
तथा च गर्गः ।
“चन्द्ररश्मिसुवर्णाभा हिमकुन्देन्दुसुप्रभाः ।
त्रयस्ते शशिनः पुत्त्राः सौम्याशास्थाः शुभावहाः” ॥
अथ ब्रह्मदण्डाख्यस्य लक्षणमाह ।
“ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः ।
अनियतदिकसंप्रभवो विज्ञेयो ब्रह्मदण्डाख्यः” ॥
ब्रह्मपुत्त्र एक एव । स च त्रिचूडः । वर्णैः सिता-
दिमिश्चोपलक्षितः । स तु ब्रह्मदण्डसंज्ञो ज्ञेयः ।
अनियतायां अनिश्चितायां दिशि संप्रभवः उत्पद्यते
सर्व्वासु दिक्षु दृश्यत इत्यर्थः । स तु युगस्यान्तं
करोति सर्व्वक्षयकरः इत्यर्थः ।
तथा च गर्गः ।
“एको ब्रह्मसुतः क्रूरस्त्रिवर्णस्त्रिशिखान्वितः ।
सर्व्वास्वाशासु दृश्यः स्यात् ब्रह्मदण्डः क्षयावहः” ॥
एकाधिकं शतं कथितं अन्यानि नवशतान्येको-
नानि कथनीयानि इत्यत आह ।
“शतमभिहितमेकसमेतमेकाधिकाच्छतात्परतः ।
एकोनानि नवशतानि केतूनां स्पष्टैर्लक्षणैः कथयिष्ये” ॥
शतमभिहितमेकसमेतं एकेनाधिकं केतूनां
शतमभिहितमुक्तम् । तस्मादेकाधिकाच्छतात्
परतः एकोनानि एकेन विरहितानि नवशतानि
केतूनां स्पष्टैर्व्यक्तैर्लक्षणैश्चिह्नैः कथयिष्ये ॥
अथ शुक्रपुत्त्राश्चतुरशीतिसंज्ञाश्चाह ।
“शुक्रसुता विसर्पकाः सौम्यैशान्योरुदयं यान्ति
चतुरशीत्याख्याः । विपुलसिततारकास्ते स्निग्धाश्च
भवन्ति तीव्रफलाः” ॥ सौम्या उत्तरा । ऐशानी ईशा-
नदिक् । तयोरुदयं दर्शनं गच्छन्ति ! ते च विपुला
विस्तीर्णाः सिताः शुक्लाः तारका येषाम् । स्निग्धा
निर्म्मलदेहाः ते च तीव्रफला अनिष्टफला इति ।
तथा च गर्गः ।
“स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सुप्रभाः ।
अर्च्चिष्मन्तः प्रसन्नाश्च तीव्रेण च सुखान्विताः ॥
एते विसर्पका नाम शुक्रपुत्त्राः पुरोदयाः ।
अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः” ॥ * ॥
अथ षष्टिशनैश्चरपुत्त्रानाह ।
“स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चरा-
ङ्गरुहाः । अतिकष्टफला दृश्याः सर्व्वत्रैते कनक-
संज्ञाः” ॥ ईदृशाःषष्टिः शनैश्चरपुत्त्राः कनककेतवः
सर्व्वत्र सर्व्वासु दिक्षु दृष्टाः अत्यशुभफलाश्च ते ।
तथा च गर्गः ।
“सुस्निग्धा रश्मिसंयुक्ता द्विशिखाः सिततारकाः ।
षष्ठिस्ते कनका घोराः शनैश्चरसुता ग्रहाः” ॥ * ॥
अथ गुरुसुताः पञ्चषष्टिराह ।
“विकचा नाम गुरुसुताः सितैकताराः शिखाप-
रित्यक्ताः । षष्टिपञ्चभिरधिकाः स्निग्धा याम्या-
श्रिताः पापाः” ॥
पञ्चषष्टिः केतवो विकचा नाम वृहस्पतिपुत्त्राः ।
ते च सितः श्वेतः एकस्तारको येषां चूडारहिताः ।
ते च दक्षिणस्यां दृश्यन्ते पापा अनिष्टफलदा
इत्यर्थः ।
तथा च गर्गः ।
“स्निग्धाः शुक्लाः प्रसन्नाश्च महारूपाः प्रभान्विताः ।
एकतारा वपुष्मन्तो विशिखा रश्मिभिर्वृताः ॥
एते वृहस्पतेः पुत्त्राः प्रायशो दक्षिणाश्रयाः ।
नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः” ॥
अथैकपञ्च शद्बुधपुत्त्रानाह ।
“नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः ।
बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत्” ॥
तस्करनामान एकपञ्चाशत् केतवो बुधस्य
पुत्त्राः । नातिस्फुटाः अल्पदेहाः यथेष्टायां दिशि
प्रभव उत्पत्तिर्येषां सर्व्वासु दिक्षु दृंश्यन्त इत्यर्थः ।
ते चानिष्टफलाः ।
तथा च गर्गः ।
“अरुन्धतिसमा व्यक्ताः केचिदव्यक्ततारकाः ।
पाण्डुवर्णाः सुदीर्घाश्च सूक्ष्मा रश्मिभिरावृताः ॥
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः ।
एकाधिकास्ते पञ्चाशदथोऽत्यर्थचरा ग्रहाः” ॥ * ॥
अथ षष्टिभौमपुत्त्रानाह ।
“क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः
षष्टिः । नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः
पापाः” ॥ कौङ्कुमनामानः षष्टिकेतवो मङ्गलपुत्त्राः
रक्तवह्निसदृशाः लोहिता इत्यर्थः । त्रिचूला-
स्त्रिशिखास्तारा येषां ते च उत्तरस्यां दृश्यन्ते
पापफलाश्च ।
तथा च गर्गः ।
“त्रिशिखाश्च त्रिताराश्च रक्तलोहितरश्मयः ।
प्रायशस्तूत्तरामाशां सेवन्ते नित्यमेव ते ॥
लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः ।
नामतः कौङ्कुमा ज्ञेया राज्ञां संग्रामकारकाः” ॥ * ॥
अथ त्रयस्त्रिंशद्राहुपुत्त्रानाह ।
“त्रिंशत्तु त्र्यधिका राहोस्ते तामसकीलका इति
ख्याताः । रविशशिना दृश्यन्ते तेषां फलमर्कचा-
रोक्तम्” ॥
त्रयस्त्रिंशत् स्वर्भानुपुत्त्रास्ते च नामतः तामस-
कीलका इति प्रसिद्धाः । ते च अर्कचन्द्रमण्डलस्था
दृश्यन्ते तेषाञ्च फलं सूर्य्यचारे कथितं तामस-
कीलकसंज्ञा राहुसुता इति ।
तथा च गर्गः ।
“कृष्णाभाः कृष्णपर्य्यन्ताः संकुलाः कृष्णरश्मयः ।
राहुपुत्त्रास्त्रयस्त्रिंशत् कीलकाश्चातिदारुणाः ॥
रविमण्डलगाश्चैते दृश्यन्ते चन्द्रगास्तथा” ॥
तथा च पराशरः ।
“अपर्व्वण्येव दृश्यन्ते ह्यङ्गिराः काककीलकाः ।
रवेरिवाङ्गिरामध्ये ह्युभयोः काककीलकौ ॥
अङ्गिराः सरथो वापि दृश्यते पुरुषाकृतिः ।
काकः काकाकृतिर्घोरस्त्रिकोणो वाथ लक्ष्यते ॥
मण्डलं कीलको मध्ये मण्डलस्यासितो ग्रहः ।
महानृपविरोधाय यस्यर्क्षं तस्य मृत्यवे” इति ॥ * ॥
अथ विंशत्यधिकं शतमग्निपुत्त्रानाह ।
“विंशत्यधिकमन्यच्छतमग्नेर्व्विश्वरूपसंज्ञानाम् ।
तीव्रानलभयदानां ज्वालामालाकुलतनूनाम्” ॥
अन्यत् अपरं शतं विंशत्यधिकं केतूनामग्नेः
सुतानां विश्वरूपनाम्नां कीदृशानां ज्वालामाला-
भिराकुला व्याप्तास्तनवो मूर्त्तयो येषाम् । तथा
तीव्रं घोरमग्निभयं ददति ।
तथा च गर्गः ।
“नानावर्णा हुताशाभा दीप्तिमन्तो विचूलिनः ।
सृजन्त्यग्निमिवाकाशे सर्व्वज्योतिर्व्विनाशनाः ॥
तेऽग्निपुत्त्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः ।
विंशं ग्रहशतं घोरं विश्वरूपेति विश्रुतम्” ॥ * ॥
अथ सप्तसप्ततिवायुपुत्त्रानाह ।
“श्यावारुणा विताराश्चामररूपा विकीर्णदीधितयः ।
अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः” ॥
अरुणसंज्ञा वायोः पुत्त्राः श्यावलोहित-
वर्णाः तारकवर्जिताश्चामररूपा वालव्यजनाकृतयः
पृष्ठ २/१८९
व्याक्षिप्तरश्मयः रूक्षाः दुष्टफलप्रदाः । अत्र येषां
दिङ्नियमो नास्ति तेऽनियतदर्शनाः सर्व्वास्वपि
दिक्षु दृश्यन्ते ।
तथा च गर्गः ।
“अताररूपप्रतिमाः श्यावरक्तसुवर्णिनः ।
वालरूपा इवाभान्ति शुक्लविस्तीर्णरश्मयः ॥
सप्तसप्तति चैवान्ये वायोः पुत्त्राः प्रचक्षते ।
लोकविध्वंसना वृक्षा नामतस्त्वरुणा ग्रहाः” ॥ * ॥
अथाष्टौ प्रजापतिसुता द्वे च शते चतुरधिके
ब्रह्मणः पुत्त्रास्तानाह ।
“तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ ।
द्वे च शते चतुरधिके चतुरस्रा ब्रह्मसन्तानाः ॥
अष्टौ केतवो गणका नाम प्रजापतेः पुत्त्राः” ।
ते च ताराणां नक्षत्राणां पुञ्जः समूहस्तदाकाराः ।
ते च अशुभदायिनः । तथा च । द्वे शते चतुर-
धिके केतूनां ते च चतुरस्रसंज्ञाः चतुराकृतयस्ते
च ब्रह्मणः पुत्त्राः पापफला एव ज्ञेयाः ते चाग्नेय-
दिग्भवाः । तथा च गर्गः ।
“तारापुञ्जप्रतीकाशा व्योममण्डलसंस्थिताः ।
प्राजापत्या ग्रहास्त्वष्टौ गणका भयवेदिनः ॥
त्र्यस्राश्च चतुरस्रा वा सशिखाः श्वेतरश्मयः ।
द्वे शते चतुरश्चैव ब्रह्मजा भयदाश्च ते” ॥ * ॥
अथ द्वात्रिंशद्वरुणपुत्त्रानाह ।
“कङ्का नाम वरुणजा द्वात्रिंशत् गुल्मसंस्थानाः ।
शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः” ॥
ते वरुणपुत्त्राः वंशगुल्मवत् संस्थानमाकृति-
र्येषां । गुल्म एकमूलजो लतासमूहः । शशिवत्
चन्द्रवत् प्रभया कान्त्या समेतास्ते च तीव्रफलाः
कष्टफलाः प्रोक्ताः कथितास्ते चानियतदिक्-
प्रभवाः । तथा च गर्गः ।
“वंशगुल्मप्रतीकाशा महान्तः पूर्णरश्मयः ।
काकतुण्डनिभैश्चाभि रश्मिभिः केचिदावृताः ॥
मयूखानुन्मृजन्तीव स्निग्धत्वात् सौम्यदर्शनाः ।
एते कष्टफलाः कङ्का द्वात्रिंशद्वारुणा ग्रहाः” ॥ * ॥
अथ षण्णवतिकालपुत्त्रानाह ।
“षण्णवतिः कालसूताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
पुण्ड्राऽभयप्रदाः स्युर्व्विरूपतारास्ते शिखिनः” ॥
कालपुत्त्राः कबन्धसंस्थानाः षण्णवतिः । कबन्ध-
श्छिन्नशिरःपुरुषस्तद्वत् संस्थानमाकृतिर्येषां ते
च विरूपा अस्फुटास्तारका येषां ते शिखिनः
केतवः पुण्डा नाम जनपदास्तेषां श्रेयस्कराः स्युः ।
अन्यत्र पुनर्भयदास्ते चानियतदिकसंप्रभवाः ।
तथा च गर्गः ।
“तारापुञ्जविरूपाश्च कबन्धाकृतिसंस्थिताः ।
पीतारुणाः सवर्णाश्च भस्मकर्पूररश्मयः ॥
कालपुत्त्राः कबन्धाश्च नबतिः षट् प्रकीर्त्तिताः ।
लोकरोगकरा घोराः पुण्ड्राणामभयप्रदाः” ॥ * ॥
अथ नवविदिक्पुत्त्राः सर्व्वेषाञ्च संख्यामन्येषाञ्च
वक्ष्यामीत्येतदाह ।
“शुक्लविपुलैकतारा नवविदिशां केतवः समुत्पन्नाः ।
एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये” ॥
विदिशां दिगन्तराणाञ्च नव केतवः समुत्पन्नाः
विदिक्पुत्त्रा इत्यर्थः । किम्भूताः शुक्लः श्वेतवर्णो
विपुलो विस्तीर्ण एकतारो येषां ते विदिक्केतवो
दृश्यन्ते दृष्टाश्च पापफलाः ।
तथा च गर्गः ।
“शुक्लैकतारा विपुला विदिक्पुत्त्रा नवग्रहाः ।
विदिक्षु संस्थिता एव दृश्यन्ते भयदायकाः” ॥
एवं केतुसहस्रमिति । एवं केतूनां सहस्रं उक्तं
एषामेव विशेषलक्षणं वक्ष्ये । एषां मध्यात्
केचित् दृश्यन्ते न सर्व्व एव । तत्र ये दृश्यन्ते
तेषां लक्षणं वक्तुकामस्तत्रादावेव केतोर्लक्षण-
माह ॥ * ॥
“उदगायतो महान् स्निग्धमूर्त्तिरपरोदयी वसा
केतुः । सद्यः करोति मरकं सुभिक्षमप्युत्तमं
कुरुते” ॥ उदगायत उत्तरस्यां दिश्यायतो दीर्घः
महानतिस्थूलः निर्म्मलतनुः अपरोदयी पश्चि-
मायां दिश्युदयं याति । स च नाम्ना वसाकेतुर्दृष्टः
सद्य एव तस्मिन्नहनि मरणं करोति । उत्तममपि
प्रधानं सुभिक्षञ्च कुरुते ॥ * ॥
अथास्थिकेतोः शस्त्राख्यस्य च लक्षणमाह ।
“तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः
स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय” ॥
तदित्यनेन वसाकेतोः परामर्शः । अस्थिकेतुश्च
तल्लक्षणैर्वसाकेतुसदृशैर्युक्तः । उदगायत इत्यादि
किन्त्वयं विशेषः स तु रूक्षः स्नेहरहितः दृष्टश्च
क्षुद्भयावहः कथितः । स्निग्धस्तादृगिति तादृग्व-
साकेतुसदृशोऽन्यः स्निग्धो निर्म्मलदेहः प्राच्यां
दृश्यते । स तु शस्त्रनामा केतर्दृष्टः डमरं शस्त्र-
कलहं मरकञ्च करोति । तथा च पराशरः ।
“एभिः षड्विंशतिरुदयैः फलमावेदयन्ति ।
तन्नामतो रूपतः फलतः कालतोऽभिधास्यामः” ॥
तत्र मार्त्तिवास्त्रय उदयं यान्ति । एकैकशो
वसास्थिशस्त्रकेतुर्व्वा । तत्र वसाकेतुः स्निग्धो
महानुदगायतशिखस्त्रिंशद्वर्षशतं प्रोष्य संप्लवे
युगे पश्चिमोदितः सद्यो मरकफलः सौभिक्षकरः
रूक्षोऽस्थिकेतुः सौभिक्षकरस्तुल्यप्रवासकालफलः
पूर्ब्बेण स्निग्ध एव शस्त्रकेतूराजविरोधमरकफलः
समोदयः ॥ * ॥
अथ कपालकेतोर्लक्षणमाह ।
“दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः ।
प्राङ्नभसोऽर्द्धविचारी क्षुन्मरकावृष्टिरोगकरः” ॥
कपालकेतुर्नाम अमावस्यायां दृश्यते पूर्ब्बदिशि
उद्यं याति । कीदृशः सधूम्रा रश्मिशिखा यस्य
किरणकान्तिर्धूम्रवर्णेत्यर्थः । नभस आकाशस्य
अर्द्धं यावद्विचरति । स च दुर्भिक्षमरकावर्षण-
रोगप्रदः ।
तथा च पराशरः ।
“अथादित्यजानां कपालकेतुरुदयते अमावास्यायां
पूर्ब्बस्यां दिशि सधूम्रार्च्चिशिखो नभसो विषयार्द्ध-
चरो दृश्यते । पञ्चविंशवर्षशतं प्रोष्य त्रींश्च
पक्षान् सृतिर्यस्य कुमुदकेतोश्चारान्ते स दृष्ट एव ।
दुर्भिक्षानावृष्टिव्याधिभयं प्रत्युपद्रवान् सृजति ।
यावतो दिवसान् दृश्यते तावन्मासान्मासैः संव-
त्सरान् पञ्चप्रस्थं वर्षाधान्यस्यार्घ्यं कृत्वा प्रजाना-
मेकमुपयुङ्क्ते” ॥
अथ रौद्रकेतोर्लक्षणमाह ।
“प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्रार्च्चिः ।
नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः” ॥
रौद्रनामा केतुः पूर्ब्बस्यां दिशि वैश्वानरमार्गे
दहनवीथ्यां दृश्यते । पूर्ब्बाषाढोत्तराषाढयोः
समीप इत्यर्थः । कीदृशः शूलाग्रः शूलाकृतिरग्रं
यस्य केतोः स शूलाग्रः त्रिशिख इत्यर्थः । तस्यैव
विशेषणं श्यावरूक्षताम्रार्च्चिः श्यावरूक्षं ताम्रं
चार्च्चिस्तेजो यस्य स श्यावरूक्षताम्रार्च्चिः । नभस
आकाशस्य त्रिभागगमनशीलः । स च कपाल-
केतोः समफलः । एतदुक्तं भवति क्षुन्मरकावृष्टि-
रोगकृत् । आचार्य्येण शुक्राचारे वैश्वानरमार्गः
प्रदर्शित एव आषाढाद्वयं दहन इति ।
तथा च पराशरः ।
“अथ दक्षयज्ञे रुद्रक्रोधोद्भवः कालकेतुस्त्रीणि
वर्षशतानि नव च मासान् प्रोष्य उदयते । पूर्ब्बेण
वैश्वानरमार्गे इत्यमृतमयस्य मणिकेतोश्चारान्ते
श्यावरूक्षताम्रारुणां शूलाकारसदृशीं शिखां
कृत्वा नभसस्त्रिभागचारी स शस्त्रभयरोगदुर्भि-
क्षावृष्टिमरकैर्यावन्मासान् दृश्यते तावद्वर्षाणि
त्रिभागशेषां प्रजां कृत्वा” ॥ शारदधान्यस्याढक-
मर्धं कृत्वा चास्तं व्रजति ।
तथा च वृद्धगर्गः ।
“ज्यैष्ठमूलमनुराधा या वीथी संप्रकीर्त्तिता ।
ताञ्च वीर्थी समारुह्य केतुश्चेत् क्रीडते भृशम् ॥
दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्कराम् ।
शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ॥
पूर्ब्बेण उदितश्चैव नक्षत्राण्युपधूपयेत् ।
घोरं प्रजासूत्सृजति फलं मासे त्रयोदशे ॥
त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
यावतो दिवसांस्तिष्ठेत् तावद्वर्षाणि तद्भयम् ॥
शास्त्राग्निभयरोगैश्च दुर्भिक्षमरकैर्हताः ।
घूर्णमानाः प्रजाः सर्व्वा विद्रवन्ति दिशो दश” ॥ * ॥
अथ चलकेतोर्लक्षणमाह ।
“अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलोच्छ्रि-
तया । गच्छेत् यथोदक् तथा तया दैर्घ्यमायाति ॥
सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव प्रतिनि-
वृत्तः स्यात् । नभसोऽर्द्धभागमित्वा याम्येनास्त
समुपयाति ॥ हन्यात् प्रयागकूलात् यावदवन्तीञ्च
पुष्करारण्यम् । उदगपि च देविकामपि भूयिष्ठं
मध्यदेशाख्यम् ॥ अन्यानपि च स देशान् क्वचित्
क्वचिद्धन्ति रोगदुर्भिक्षैः । दश मासान् फलपाको
ऽस्य कैश्चिदष्टादश प्रोक्तः” ॥
अपरस्यामिति पश्चियामां दिशि चलकेतुनामा
केतुर्दृश्यते । स च कीदृशः याम्यायां दिशि अग्रं
यस्याः तया अङ्गुलप्रमाणोच्छ्रितया यथा येन
प्रकारेण उदक उत्तरस्यां दिशि याति तथा
तेनैव प्रकारेण दैर्घ्यं दीर्घतां प्राप्नोति । सप्तमुनीत्
वशिष्ठादीन् संस्पृश्य तथा ध्रुवं ध्रुवतारकं अभि-
जितञ्च नक्षत्रं संस्पृश्य ततः प्रतिनिवृत्तः प्रत्या-
पृष्ठ २/१९०
गतः नभस आकाशस्य अर्द्धभागमित्वा गत्वा
प्राप्य याम्येन दक्षिणस्यां दिशि अदर्शनं याति ।
स एव चलकेतुः प्रयागकूलादारभ्य यावदवन्तीं
पुष्करारण्यनामस्थानं तावत् नाशयेत् । उदगपि
चोत्तरस्यां दिश्यपि च यावत् देविकां नदीं ताव-
द्धन्यात् । मध्यदेशाख्यं मध्यदेशं भूयिष्ठमतिशयेन
हन्यात् । अन्यानपि च स देशानिति । स चल-
केतुः अन्यान् अपरान् देशानपि रोगदुर्भिक्षैः
क्वचित् क्वचित् नाशयति न सर्व्वत्र । अस्य केतो-
र्दशमासान् यावत् फलपाकः । अदर्शनात् त्रिप-
क्षात् परतो यावद्दश मासांस्तावदशुभं फलं
ददादि । कैश्चिदन्यैर्गर्गादिभिरष्टादश मासान्
यावत् फलपाकः प्रोक्तः । तथा च पराशरः ।
“अथ पैतामहश्चलकेतुः पञ्चदशवर्षशतं प्रोष्य
उदितः पश्चिमेनाङ्गुलिपर्व्वमात्रां शिखां दक्षिणा-
भिनतां कृत्वा चलकेतुश्चारान्ते नभसस्त्रिभाग-
मनुचरन् यथा यथोत्तरां व्रजति तथा तथा शूला
ग्राकारां शिखां दर्शयन् ब्राह्मं नक्षत्रमुपसृत्य
मनाक् ध्रुवं व्रजराशिं सप्तर्षीन् संस्पृश्य नभसो-
ऽर्द्धमात्रं दक्षिणमनुपरिक्रम्य अस्तं व्रजति । स
स्वर्गे दारुणकर्म्मा स्वर्गप्राप्तित्वादेव वक्रास्तमभि-
निहन्ति लोकमपि च । भूमिं कम्पयित्वा दश
मासान् मध्यदेशे भूयिष्ठं जनपदमवशेषं कुरुते ।
तेष्वपि च क्वचित् क्वचित् शस्त्रदुर्भिक्षमरक-
व्याधिभयैः क्लिष्णात्यष्टादशमासानिति ॥
तथा च गर्गः ।
“क्षुच्छस्त्रमरकव्याधिभयैः संपीडयेत् प्रजाः ।
मासान् दश तथाष्टौ च चलकेतुः सुदारुणः” ॥ * ॥
तत श्वेतकेतोर्लक्षणमाह ।
“प्रागर्द्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।
क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ ॥
स्निग्धौ मुभिक्षशिवदौ अथाधिकं दृश्यते कनामा
यः । दशवर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतं ॥
प्रागर्द्धरात्रदृश्य इति । श्वेतकेतुनामा केतुः प्राक्
पूर्ब्बस्यां दिशि अर्द्धरात्रकाले दृश्यते याम्याग्रो
दक्षिणशिखः अन्यश्च द्वितीयः क इति कनामा
केतुरपरे पश्चिमायां दिशि दृश्यते । युगाकृतिः
युगसंस्थानाकारः तौ द्वावपि युगपत्तुल्यकालं
सप्त दिवसान् दृश्येते । तौ च द्वावपि स्निग्धावति
निर्म्मलौ दृश्यौ च सुभिक्षशिवदौ । अथ यः
कनामा स यदि सप्तभ्योऽधिकं दृश्यते तदा शस्त्र-
प्रकोपजं संग्रामजमुपतापं जनयति ।
तथा च पराशरः ।
“अथोद्दालकः श्वेतकेतुर्द्दशोत्तरं वर्षशतं प्रोष्य
भटकेतोश्चारान्ते पूर्ब्बस्यां दक्षिणाभिनतशिखो-
ऽर्द्धरात्रकाले दृश्यस्तेनैव सह द्वितीयः कः प्रजा-
पतिपुत्त्रः । पश्चिमकेन गृहकेतुर्यूपसंस्थायी-
युगपद्दृश्येत । ततस्तावुमौ सप्तरात्रदृश्यौ दश-
वर्षाणि प्रजाः पीडयेते । कः प्रजापतिपुत्त्रो यद्य-
धिकं दृश्यते तदा दारुणतरं प्रजानां शस्त्रकोपं
कुर्य्यात् । तथैव स्नेहवर्णयुक्तौ क्षेमारोग्यसुभिक्षदौ
भवतः” ॥
अथ श्वेतस्य लक्षणमाह ।
“श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभाग-
गतिः । विनिवर्त्ततेऽपसव्यं त्रिभागशेषाः प्रजाः
कुरुते” ॥
श्वेतनामा केतुः जटाकारो जटासदृशः श्यावः
कृष्णवर्णः वियत्याकाशे त्रिभागं यावद्गच्छति ततो-
ऽपसव्यं प्रदक्षिणं वामभागे निवर्त्तते तृतीयांशा-
वशेषाः प्रजाः कुरुते ।
तथा च पराशरः ।
“अथ काश्यपः श्वेतकेतुः पञ्चदशवर्षशतं प्रो-
ष्योग्रः सोमसहजस्य वप्रकेतोश्चारान्ते श्यावरूक्षो
नभसस्त्रिभागमाक्रम्यापसव्यं निवृत्योर्द्ध्वं प्रदक्षिण-
जटाकारशिखः स यावन्मासान् दृश्यते तावद्-
वर्षाणि सुभिक्षमावहति । मध्यदेशे आर्य्यगणा
नामदो नामोदीच्यैर्भूमिष्ठस्त्रिभागशेषां प्रजाम-
वशेषयति” ॥ * ॥
अथ रश्मिकेतोर्लक्षणमाह ।
“आधूम्रयातिशिखया दर्शनमायाति कृत्तिका-
संस्थः । ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते” ॥
यः केतुराधूम्रवर्णया शिखयोपलक्षितस्तथा कृत्ति-
कासंस्थः कविकानां समीपे दर्शनं गच्छति स
रश्मिकेतुः श्वेतकेतोः सदृशं फलं धत्ते ।
तथा च पराशरः ।
“अथ रश्मिकेतुर्व्विभावसुजः प्रोष्यवर्षशत-
मावर्त्तकेतोः । उदितश्चारान्ते कृत्तिकासु धूम्र-
केतुः” ॥ * ॥
ध्रुवकेतोर्लक्षणमाह ।
“ध्रुवकेतुरनियतगतिः प्रमाणाकृतिर्भवति । वि-
श्वक् दिव्यान्तरीक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥
सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।
गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति” ॥
ध्रुवेति । अनियता अनिश्चिता गतिर्गमनं प्रमाणं
स्थूलसूक्ष्ममध्यभावमाकृतिः आकारो यस्य स तथा-
भूतः । स च विश्वक् समन्ततो भवति सर्व्वासु
दिक्ष्वित्यर्थः । स च दिव्यान्तरीक्षभौमस्त्रिविधो
भवति । क्वचिद्द्विविधो नानाकारो भवति । स च
स्निग्धो निर्म्मलशरीर इष्टफलः । एष च एवं
विधानां विनाशिनां मुमूर्षूणां दर्शनमुदयं याति ।
नृपाणां विनाशिनां सेनाङ्गेषु सोपकरणेषु खली-
नतोरणादिषु दर्शनं याति । देशानां विनाशिनां
गृहवृक्षपर्व्वतेषु च दृश्यते । तथा गृहिणामुप-
स्करेषु उपस्करभाण्डेषु दर्व्वीसूर्पमार्ज्जन्यादिषु
गृहतरुशैलेषु विनाशिनामेव दर्शनं याति ।
तथा च पराशरः ।
“अथानियतदिक्कालरूपवर्णप्रमाणसंस्थानो
धूमकेतुः परा भविष्यतां देशानां राज्ञां जन-
पदानाञ्च वृक्षपुरपर्व्वतवेश्मध्वजपताकाशस्त्रव-
र्म्मायुधावरणरथनागोष्ट्रपुरुषशयनासनभाण्डेषु च
दृश्यते । स एव दिवि स्निग्धो विमलः प्रदक्षिण-
शिखो गजनागवीथीनामुत्तरेण व्रजन् सुभिक्ष-
क्षेमारोग्यं चावहति । दशैकविंशतिद्विषष्ठिश-
तधा वा दर्शनमिच्छन्ति मुनयो धूमकेतोस्तस्य
च प्रागुदयान्निमित्तान्यर्व्वाचीनचलनमग्नेः प्रभा-
मत्स्यप्रधूपनं दिशां शीतोष्णविपर्य्यय ईतिर्व्यक्षि-
बाहुसम्भवश्च” ॥ * ॥
अथ कुमुदकेतोर्लक्षणमाह ।
“कुमुद इति कुमुदकान्तिर्व्वारुण्यां प्राक्शिखो
निशामेकाम् । दृष्टः सुभिक्षमतुलं दश किल
वर्षाणि स करोति” ॥ कुमुद इति श्वेतवर्ण इत्यर्थः ।
पश्चिमायां प्राक्शिखः पूर्ब्बाग्रो निशामेकां
दृश्यते । किलेत्यागमसूचने । स च दृष्टो दश
वर्षाण्यतुलमसमं सुभिक्षं करोति । तथा च परा-
शरः । “अथामृतजः कुमुदो मणिर्जलो भवः पद्मः
आवर्त्तः सम्बर्त्तः शङ्खो हिमो रूक्षः कुक्षिः फलो
विसर्पणः शीतश्चेति । तत्र कुमुदकेतुर्व्वसाकेतो-
श्चार्द्धसमाप्तौ वारुण्यां दर्शनमुपैति । गोक्षीर-
विमलस्निग्धप्रभां पूर्ब्बेणाभिगतां शिखां घृत्वैक-
रात्रिचरः स दृष्ट एव सुभिक्षमुत्पादयति दश
वर्षाणि प्रजानामविरोधञ्च । प्रतीच्यानाञ्च मुख-
रोगारोचकप्रतिश्यायपाण्डुरोगज्वरैः प्रजानां
बाधत इति” ॥ * ॥
अथ मणिकेतोर्लक्षणमाह ।
“सकृदेकयामदृश्यो सुसूक्ष्मतारः परिणमति
मणिकेतुः । ऋज्वी शिखाऽस्य शुक्ला स्तनोद्गता
क्षीरधारेव ॥ उदयन्नेव सुभिक्षं चतुरो मासान्
करोत्यसौ सार्द्धान् । प्रादुर्भावं प्रायः करोति च
क्षुद्रजन्तूनाम्” ॥ सकृदिति । मणिकेतुः स च
पश्चिमायां दिशि सूक्ष्मतारोऽल्पतारकः सकृदेक-
वारमेकयामदृश्यः । यामशब्देन रात्रिचतुर्भागः ।
अस्य केतोरृज्वी स्पष्टा शिखा चूडा श्वेतवर्णा
दृश्यते । कीदृशी स्तनोत्था क्षीरधारेव स्तनात्
निःसृता क्षीरधारा यथा दृश्यते तद्वत्तच्छिखा ।
उदयन्नेवेति । असौ केतुरुदयन्नेवोदितमात्र एव
चतुरः सार्द्धानर्द्धोनपञ्चमासान् सुभिक्षं क्षेममुत्पा-
दयति । प्रायो बाहुल्येन क्षुद्रजन्तूनां नकुलादीनां
प्रादुर्भावमूत्पत्तिं करोति ।
तथा च पराशरः ।
मणिकेतुरपि कपालकेतोरवसाने प्रतीच्यामुदयं
याति । स तु सूक्ष्मतारकः श्वेतवर्णया क्षीरप्रसे-
कया पूर्ब्बाभिनतया शिखया शर्व्वर्य्यामेकयाम-
दृश्यः । स उदयात् प्रभृति पञ्च मासान् क्षेमं
सुभिक्षमुत्पादयति ॥ क्षुद्रजन्तूनां प्रादुर्भावं करो-
त्यतिमात्रकालदृष्टः” ॥ * ॥
अथ जलकेतोर्लक्षणमाह ।
“जलकेतुरपि च पश्चात् स्निग्धः शिखयाऽपरेण
चोन्नतया । नव मासान् सुभिक्षं करोति शोक-
शान्तिञ्च लोकस्य” ॥ पश्चात् पश्चिमायां दिशि
दृश्यते अपरेण पश्चिमेन चोन्नतया उच्चया शिखया
युक्तः । स च दृष्टः नवमासपर्य्यन्तं सुभिक्षं करोति
लोकमङ्गलकरश्च । तथा च पराशरः । “अथ
जलकेतुः पैतामहः यस्य चलकेतोर्नवमासावशिष्टे
कर्म्मणि कृते प्रवर्त्तयति । पश्चिमेनोदितः स्निग्धः
सुजातोऽनुपश्चिमाभिनतः । स च शिखी नव-
मासान्तात् क्षेमसुभिक्षारोग्याणि प्रजाभ्यो वत्ते ।
पृष्ठ २/१९१
अन्यग्रहकृतानां चाशुभानां व्याघातायेति” ॥ * ॥
अथ भवकेतोर्लक्षणमाह ।
“भवकेतुरेकरात्रं दृश्यः प्राक् सुसूक्ष्मतारकः
स्निग्धः । हरिलाङ्गूलोपमया प्रदक्षिणावर्त्तया
शिखया ॥ यावदेव मुहूर्त्तान् दर्शनमायाति निर्द्दि-
शेन्मासान् । तावदतुलं सुभिक्षं रूक्षे प्राणान्ति-
कान् रोगान्” ॥ भवकेतुः पूर्ब्बस्यां दिशि एकां
निशां दृश्यः सुसूक्ष्मोऽल्पः तारको यस्य
स्निग्धो निर्म्मलदेहः शिखयोपलक्षितः । कीदृ-
शया हरिः सिंहस्तस्य लाङ्गूलं पुच्छं तदुपमया
तदाकारया प्रदक्षिणेनावर्त्तो यस्याः तथाभूतया
स च यावत्संख्यान् क्षणान् दृश्यते तावन्मासान्
समं सुभिक्षं निर्द्दिशेत् यदि स्निग्धः । रूक्षे तु
पुनः प्राणान्तिकान् रोगान् वदेत् । तथा च
पराशरः । “अथ जलकेतोः कर्म्मसमाप्ताः धूम्रा-
दयः शीतार्त्ता अष्टौ प्रादुर्भवन्ति । तत्र त्रयोदश-
चतुर्द्दशाष्टादशवर्षान्तात् दृश्यते । सुभिक्ष्या क्षेम्या
विपर्य्यया विपरीताः क्षुद्रजन्तूनाञ्च वधाय तेषा-
मष्टानां कर्म्मण्यतीते भवकेतुर्दृश्यते । पूर्ब्बेणैक-
रात्रं यावत् कृत्तिकानामन्तरतो वा तत्प्रमाणया
स्निग्धपारुष्याभया सिंहलाङ्गूलसंस्थानया प्रदक्षिण-
ताम्रया शिखयोदितः । स यावन्मुहूर्त्तान् दृश्यते
तावन्मासान् भवत्यतीव सुभिक्षाय ॥ रूक्षः
प्राणहराणाञ्च रोगाणां प्रादुर्भावायेति” ॥ * ॥
अथ पद्मकेतोर्लक्षणमाह ।
“अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामेकाम् ।
सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि” ॥
पद्मकेतुः पश्चिमायां दिशि रात्रिमेकां दृश्यते
कीदृशः मृणालवत् गौरः श्वेत इत्यर्थः । दृष्टः
सप्तवर्षाणि अतिहर्षयुक्तानि सुभिक्षं करोति ।
तथा च पराशरः ।
“सप्तवर्षाण्यत्युच्छ्रितं हर्षमावहति जगतः” ॥ * ॥
अथावर्त्तकेतोर्लक्षणमाह ।
“आवर्त्त इति निशार्द्धेऽसव्यशिखोऽरुणनिभोऽपरे
स्निग्धः । यावत्क्षणान् स दृश्यस्तावन्मासान् सुभि-
क्षकरः” ॥ निशार्द्धे पश्चिमायां दिशि दक्षिण-
दिगाश्रितशिखः स्निग्धो निर्म्मलमूर्त्तिर्दृश्यते स
तु यावत्संख्यान् मुहूर्त्तान् दृश्यते तावदेव मासान्
सुभिक्षं करोति ।
तथा च पराशरः ।
“अथावर्त्तकेतुः श्वेतकेतोः कर्म्मण्यतीतेऽपरे-
ऽर्द्धरात्रेऽसव्योदितारुणाभया प्रदक्षिणेन ताम्रया
शिखयोदितः । स यावन्मुहूर्त्तान् दृश्यते तावन्मा-
सान् अतीव सुभिक्षं नित्ययज्ञोत्सवं जगत्” ॥ * ॥
अथ सम्बर्त्तकेतोर्लक्षणमाह ।
“पश्चात् सन्ध्याकाले सम्बर्त्तो नाम धूम्रताम्रशिखः ।
नभस्त्रिभागमाक्रम्य समूलाग्रस्थितो रौद्रः” ॥
यावत एव मुहूर्त्तान् दृश्यो वर्षाणि हन्ति
तावन्ति । भूपांश्च शस्त्रनिपातैरुदयर्क्षं चापि
पीडयति” ॥ पश्चादिति । पश्चिमायां दिशि
यावतो मुहूर्त्तान् दृश्यस्तावन्ति तत्संख्यानि वर्षाणि
नाशयति तथा नृपान् संग्रामैर्हन्ति । तथोदयर्क्षं
यस्मिन्नक्षत्रे उदितो दृश्यते तच्च पीडयति । तथा
च पराशरः । अथ सम्बर्त्तको वर्षसहस्रमष्टोत्तरं
प्रोष्य पश्चिमेनास्तं गते सवितरि सन्ध्यायां दृश्यते
तन्वीं ताम्ररूपां शूलाभां धूमं विमुञ्चन्तीं दारुणां
शिखां कृत्वा नभस्त्रिभागमाक्रम्य यावन्मुहूर्त्तान्
निशि तिष्ठति तावद्वर्षाणि हन्ति परस्परं
शस्त्रौघमपि पार्थिवाः । यानि नक्षत्राणि समा-
श्रयति यत्र वोदेति तानि दाहनतरं पीडयति
तदाश्रितांश्च देशानिति” ।
तथा च गर्गः ।
“येषां नक्षत्रविषये रूक्षः स ज्वाललोहितः ।
दृश्यते बहुमूर्त्तिश्च तेषां विद्यात् महाभयम् ॥
अवर्षशस्त्रपारुष्यकोपं दुर्भिक्षमेव च ।
कुर्य्यान्नृपतिपीडाञ्च सचक्रपरचक्रतः ॥
यत्र तिष्ठति नक्षत्रे प्रवासं यत्र गच्छति ।
धूपयेद्वा स्पृशेद्वापि हन्याद्देशांस्तथाश्रयान् ॥
यस्याभिषेकनक्षत्रं जन्मभं कर्म्मभं तथा ।
देशर्क्षं पीडयेद्वापि स शान्तिपरमो भवेत् ॥
स्निग्धः प्रसन्नो विमलः प्रदक्षिणशिखस्तथा ।
दृश्यते येषु देशेषु शिवं तेषु विनिर्द्दिशेत्” ॥
अथ शुभान् केतून् वर्ज्जयित्वाशुभानां नक्षत्रस्पर्श-
नाधूपनाद्दुष्टफलं वक्ष्यामीत्याह ।
“ये शस्तास्तान् हित्वा केतुभिराधूपितेऽथवा स्पृष्टे ।
नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान्” ॥
ये केतवः शस्ताः प्रशस्तफलास्तान् त्यक्त्वान्यैः
केतुभिः नक्षत्रे धूपिते अथवा स्पृष्टे येषां नृपाणां
वधो मरणं भवति तान् नृपान् कथयिष्ये
तांश्चाधुनाह । “अश्विन्यामश्मकपं भरणीषु किरा-
तपार्थिवं हन्यात् । बहुलासु कलिङ्गेशं रो-
हिण्यां शूरसेनापतिम्” ॥ अश्विन्यामभिधूपितायां
स्पृष्टायां वा केतुना अश्मकानां जनानामधिपतिं
नाशयेत् एवं सर्व्वत्र । अन्येष्वाह । “उशीनरमपि
भाग्ये उज्जयनीपमार्य्यम्ने । सावित्रे दण्डकाधिपतिं
भौजङ्गे असिकेशम् । मघायां अङ्गाधिपं
पूर्ब्बफल्गुन्यां पाण्डुनाथम्” ॥ भाग्ये पूर्ब्बफल्गुन्यां
उशीनरम् । आर्य्यन्मे उत्तरफल्गुन्यां उज्जयनी-
पतिम् । सावित्रे हस्तायां दण्डकारण्यनाथम् ।
भौजङ्गे अश्लेषायां असिका जनास्तेषामीशम् ।
अन्येष्वाह ।
“चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत् ।
वाचा काश्मीरकाम्बोजौ नृपती प्राभञ्जने न स्तः” ॥
चित्रासु केतुनाभिधूपितासु स्पृष्टासु च कुरु-
क्षेत्राधिपस्य मरणं वधं केतूपघातज्ञः समा-
दिशेत् । प्राभञ्जने खात्यां काश्मीरकाम्बोजाधिपौ
न स्तः न भवतः । अन्येष्वाह । “इक्ष्वाक्वलकनाथश्च
हन्यते यदि भवेद्विशाखासु । मैत्रे पुण्ड्राधिपतिं
ज्येष्ठासु च सार्व्वभौमकान्यकुब्जाधिपवधः” ॥
विशाखासु यदि केतूपघातो भवेत् तदा इक्ष्वा-
कुनाथोऽलकनाथश्च हन्यते । इक्ष्वाकवो जनाः ।
अलका नगरी । अनुराधायां पुण्ड्राधिपतिं
हन्यात् । ज्येष्ठासु च सार्व्वभौमस्य राज्ञो वधः
कान्यकुब्जाधिपस्य च वधः । अन्येष्वाह । “मूले
नृमद्रकपती जलदेवे काशिपो मरणमेति ।
यौधेयकार्ज्जुनायनशिविवैद्यान् वैश्वदेवे च” ॥
मूले केतुनाभिधूपिते स्पृष्टे वा नृपतिं मद्रकपतिं
च हन्ति । जलदेवे पूर्ब्बाषाढायां काशिपति-
र्म्मरणमेति । वैश्वदेवे उत्तराषाढायां यौधेयकः
अर्ज्जुनायनः शिविः वैद्यः एतान्नृपतीन् हन्ति ।
अथान्येष्वप्याह । “हन्यात् कैकयनाथं पाञ्चनदं
सिंहलाधिपं वङ्गपम् । नैमिषनृपं किरातपं
श्रवणादिषु षट्सु षडिमान् क्रमशः” ॥ षट्सु
श्रवणादिषु हतेषु षडिमान्नृपान् क्रमशः क्रमेण
हन्यात् ॥ तद्यथा ।
श्रवणे हते कैकयनाथम् । धनिष्ठायां पञ्चन-
दाधिपतिम् । शतभिषायां सिंहलाधिपतिम् ।
प्राग्माद्रपदायां वङ्गाधिपतिम् । उत्तरासु नैमिष-
नृपम् । रेवत्यां किराताधिपं हन्यात् ॥ * ॥
अथ केतोर्व्विशेषमाह ।
“उल्काभिताडितशिखः शिखी शिवः शिव-
तरोऽभिदृष्टः । अशुभः स एव चोलवङ्गसितहून-
चीनानाम्” ॥ यः शिखी केतुः उल्कयाभि-
मुख्येन ताडिता हता शिखा चूडा यस्य स
शिवः श्रेयस्करः योऽभिदृष्ट उदितमात्र एव
दृष्टः स शिवतरः अतिशयेन शुभप्रदः केतु-
रेवं विधश्चोलानां वङ्गानां सितानां हूनानां चा-
शुभः । चोलाद्याः सर्व्व एव जनाः ॥ * ॥
अन्यद्विशेषमाह ।
“नम्रा यतः शिखिशिखाभिसृता यतो वा-
थर्क्षं च संस्पृशति तत्कथितांश्च देशान् ।
दिव्यप्रभावनिहतान् स यथा गरुत्मान्
भुङ्क्ते गतो नरपतिः परभोगिभोगान्” ॥
यतो यस्यां दिशि शिखिनः शिखा केतुशिखा
नम्रा वक्रा तत्र ये देशा यस्यां वा गन्तुं प्रवृत्ता
अथ यदि ऋक्षं नक्षत्रं संस्पृशति तत्कथितांश्च
देशान् यस्यां दिशि शिखा नम्रा तत्र च ये देशा
वक्ष्यमाणास्तांस्तत्कथितान् नरपती राजा गतो
भुङ्क्ते स्वीकरोति । कीदृशान् दिव्येनाप्रतिहतेन
प्रभावेण पराक्रमेण निहतान् निर्ज्जितान् कीदृ-
शान् परैरन्यैर्भोगिभिर्भुज्यन्ते भोगा ग्रामास्तान्
कथं स राजा मुङ्क्ते यथा गरुत्मान् गरुडः दिव्य-
प्रभावनिहतान् परभोगिभोगान् भुङ्क्ते परा उत्-
कृष्टा ये भोगिनः सर्पास्तेषां भोगाः शरीराण्य-
ङ्गानि च तान् यथा येन प्रकारेण तथा ।
तथा च पराशरः ।
“यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् ।
यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥
प्रतिलोमो यतः केतुर्यया ध्यायति पार्थिवः ।
सामान्यवाहनबलस्तन्नाशमधिगच्छति” ॥
इति भट्टोत्पलविरचितायां संहितावृत्तौ केतु-
चाराध्यायः ॥ * ॥
अन्यच्च ।
“अनग्नावग्निरूपं वा ध्वजशस्त्रगृहोपमम् ।
तुरङ्गगजवृक्षादिनानारूपाणि केतवः ॥
शतमेकोत्तरं व्योम्नि सहस्रमपरे विदुः ।
पृष्ठ २/१९२
नानारूपमनेकञ्चाप्येकमेवाह नारदः ॥
दिव्या नक्षत्रगा भौमाः केतवस्त्रिविधा मताः ।
शुक्लो ह्रस्वतनुः स्निग्ध ऋजुश्चाचिरसंस्थितः ॥
उदितोऽप्यतिवृष्टिः स्यात् सुभिक्षसुखकृच्छिखी ।
विपरीतस्वरूपस्तु धूमकेतुर्न शोभनः ॥
इन्द्रायुधानुकारी च द्विचूडो वा त्रिचूडकः ।
श्वेतः शस्त्राकुलं कुर्य्याल्लोहितस्त्वग्निजं भयम् ॥
क्षुद्भयं पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम् ।
शक्त्याकारो विनाशाय सुखाय मुषलाकृतिः ॥
दीर्घः सूक्ष्मः सुखायैव ह्रस्वः स्थूलो विनाशकृत् ।
मणिवर्णसुवर्णाभ्यां किरणाभ्यां शिखान्विताः ॥
प्राक् पश्चिमदिशोदृश्या नृपयुद्धाय तेऽर्कजाः ।
वह्निजाः शुक्लवर्णाश्च लाक्षाबन्धूकसन्निभाः ॥
आग्नेय्यां दिशि दृश्यन्ते ते च वह्निभयप्रदाः ।
कृष्णा वक्रशिखा रूक्षा मृत्युजाः पञ्चविंशतिः ॥
याम्यायां ते च दृश्यन्ते नृणां मरकसूचकाः ।
आदर्शवृत्ताकृतयो विशिखाः क्षितिसम्भवाः ॥
सांशवस्तैलतोयाभा ऐशान्यां क्षुद्भयप्रदाः ।
चन्द्रजा हिमकुन्देन्दुकुमुदाभाश्च तैलवत् ॥
जलाभाश्चोत्तरे दृश्याः केतवस्ते सुभिक्षदाः ।
त्रिवर्णस्त्रिशिखश्चैको ब्रह्मजोऽसौ युगान्तकृत् ॥
स चानियतदिक्संस्थो ब्रह्मदण्डः स उच्यते ।
अर्कजा वह्निजा याम्यास्त्रयस्ते तत्त्वसङ्ख्यया (२५) ॥
क्षितिजा जातिसङ्ख्याश्च(२२) त्रयोऽन्ये ब्रह्मजोऽप्ययं ।
एकोत्तरशतं ह्येते सहस्रन्त्वथ लक्षणैः ॥
शुक्राच्चतुरशीत्याख्या विपुलाः सिततारकाः ।
स्निग्धास्तीव्रफला ज्ञेयाः सप्रभा द्विशिखाः परे ॥
षष्टिः शनितनूद्भूतास्तेऽतिनष्टफलप्रदाः ।
सर्व्वत्र कनकोद्दीप्ता विकचा नाम जीवजाः ॥
शितैकतारा विशिखाः पापा याम्याश्रितास्तु ते ।
नातिव्यक्ताः सूक्ष्मदीर्घाः शुक्ला बुधसमुद्भवाः ॥
पापदास्तस्कराख्यास्ते यथेष्टदिक्प्रभान्विताः ।
त्रिचूडताराः क्षतजा नानारूपाः कुजात्मजाः ॥
कौङ्कुमाख्या हि ते सौम्य दिक्स्थाः पापफलप्रदाः ।
त्रिशिखाश्च त्रिताराश्च रक्तलोहितरश्मयः ॥
लोहिताङ्गात्मजाः षष्टिः संग्रामभयकारकाः ।
तामसाः कीलकाख्याश्च राहुजाः सूर्य्यविम्वगाः ॥
दृष्टाः शुभफलास्ते च चन्द्रस्थाः पापदायिनः ।
कबन्धध्मांक्षशस्त्राभाश्चन्द्रेऽर्केऽप्यशुभप्रदाः ॥
कृष्णाभाः कृष्णपर्य्यन्ताः संकुलाः कृष्णरश्मयः ।
राहुपुत्त्रास्त्रयस्त्रिंशत् केतवश्चातिदारुणाः ॥
यत्रार्कविम्बे दृश्यन्ते व्यसनन्तन्महीपतेः ।
स्वचक्रं परचक्रेण पीड्यते क्षुद्रुजान्वितम् ॥
अनोधनुःक्षेत्ररूपा नृपवित्तक्षयावहाः ।
ध्माङ्क्षो वा कृष्णशङ्कुर्व्वा कबन्धो वार्कमण्डले ॥
दृश्यते यत्र तत्राशु भूमिपालो विनश्यति ।
दण्डकीलकपीठास्त्रं दृश्यते सूर्य्यमण्डले ॥
दुर्भिक्षेतिभयव्याधिवह्निचौरादिपीडनम् ।
शृगालान् गर्दभानश्वान् यांश्चान्यान् मृगपक्षिणः ॥
आदित्यमण्डले दृष्ट्वा देशभङ्गं विनिर्दिशेत् ।
मण्डलाभ्यन्तरस्थैश्च क्रव्यादैर्मृगपक्षिभिः ॥
परचक्रागमो वाच्यः प्रजानाशस्तथैव च ।
यत्रार्कविम्बस्तत्र स्याद्राजाऽन्यत्र प्रजाक्षयः ॥
एको दुर्भिक्षकृद्वात्यानृपनाशभयप्रदः ॥
सितरक्तहरित्कृष्णैर्व्विद्धो द्विजनृपादिहा ।
वह्निजा विश्वरूपाख्या ज्वालामालाकुलाः शतम् ॥
श्यामारुणा विताराश्च विकीर्णामरसन्निभाः ।
तारापुञ्जनिभा रूक्षा वायुजाः सप्तसप्ततिः ॥
ब्रह्मजाश्चतुरस्रास्ते वेदाधिकशतद्वयम् ।
द्वात्रिंशद्वंशगुल्माभाः कङ्काख्या वरुणोद्भवाः ॥
प्रभाढ्याः शशिवत्ते च ज्ञेयास्तीक्ष्णफलप्रदाः ।
विरूपताराश्चित्रा वा शिखिनस्तेऽशुभप्रदाः ॥
सर्व्वदिक्प्रभवाः शुक्लाः केतवो भयदायिनः ।
एवं केतुसहस्रञ्च तद्विशेषश्च वक्ष्यते” ॥ * ॥
“उत्तरायतसुस्निग्धो महान् यश्चापरोदयी ।
करोति मरकं सद्यः सुभिक्षञ्च तथोत्तमम् ॥
रूक्षोऽस्थिकेतुः क्षुद्भीत्यै प्राच्यां स्निग्धोऽप्युपप्लवः ।
कपालकेतुर्य्यो दर्शे सधूम्रांशुशिखो भवेत् ॥
प्रागर्द्धचारी नभसः क्षुन्मारावृष्टिकारकः ।
प्रागग्निमार्गाच्छूलाग्रो रूक्षः श्यामलताम्ररुक् ॥
त्रिभागचारी नभसो रौद्राख्यः पूर्ब्बवत् फलम् ।
अपरस्यां चलकेतुः शिखया दक्षिणाग्रया ॥
अङ्गुलोच्छ्रायया गच्छेदुत्तराशां यथा यथा ।
तथा दैर्घ्यं समायाति मुनीन् संस्पृश्य सप्त च ॥
ध्रुवं प्रतिनिवृत्तोऽभिजितञ्च नभसोऽर्द्धकम् ।
गत्वाऽस्तं याति याम्येन स प्रयागकुलावधि ॥
अवन्तीं पुष्करारण्यं यावद्धन्यात्तथापरान् ।
देशान् क्वचित् क्वचिद्रोगदुर्भिक्षैः परिपीडितान् ॥
श्वेताख्यस्तु जटाकारो श्यामो व्योमत्रिभागगः ।
निवर्त्ततेऽपसव्येन त्रिमागी कुरुते प्रजाः ॥
आधूम्रशिखया दृश्यः कृत्तिकासंस्थितोऽपरः ।
रश्मिकेतुरिति ख्यातस्त्रिभागी कुरुते प्रजाः ॥
पश्चात् सन्ध्यासु सम्बर्त्तो धूमताम्रशिखो वियत् ।
त्र्यंशमाक्रम्य शूलाग्रावस्थितो रौद्रदर्शनः ॥
मुहूर्त्तान् यावतो दृश्यस्तावद्वर्षाणि हन्ति सः ।
भूपशस्त्रनिपाताद्यैरुदयर्क्षं निपीडयेत्” ॥ * ॥
“चैत्रवैशाखयोर्म्मध्ये कौवेरांस्तु विनिर्द्दिशेत् ।
उच्छ्रितैर्यूपवेदीभिरुच्छ्रितैर्ध्वजतोरणैः ॥
हविर्धूमाकुला तत्र दृश्यते च वसुन्धरा ।
ज्यैष्ठे चैव तथाषाढे वायुपुत्त्रांश्च निर्द्दिशेत् ॥
वान्ति चैव तथा वाता महायुद्धं महाभयम् ।
श्रावणप्रौष्ठपदयोर्व्वारुणांस्तु विनिर्द्दिशेत् ॥
आरोहयन्ति ते मेघान् पूर्णां कुर्य्युर्व्वसुन्धराम् ।
धान्यं समार्घ्यतां याति ईतयो न भवन्ति च ॥
आश्विने कार्त्तिके चैव सूर्य्यपुत्त्रान् विनिर्द्दिशेत् ।
ततो दहति तीव्रांशुः सर्व्वान्नानि दिवाकरः ॥
म्रियन्ते च तदा गावः श्वापदाश्च विशेषतः ।
मार्गशीर्षे च पौषे च वह्निपुत्त्रान् विनिर्द्दिशेत् ॥
शीघ्रं भवति दुर्भिक्षं हाहाभूतमचेतनम् ।
माघे च फाल्गुने चैव यमपुत्त्रान् विनिर्द्दिशेत् ॥
छर्द्दिर्ज्वरातिसारश्च ग्लानिश्चैवाक्षिवेदना ॥ * ॥
कृत्तिका रोहिणी सौम्यं पृथिव्या मध्यमुच्यते ॥
केतवो ह्यत्र दृश्यन्ते आग्नेया दश पञ्च च ।
आग्नेयेषु च दृष्टेषु लोकानां संक्षयो भवेत् ॥
नित्योद्विग्नाः प्रजाः सर्व्वा भवन्ति हि न संशयः ।
पुनर्व्वसुस्तथा पुष्यः पृथिव्याः पूर्ब्बमुच्यते ॥
केतवो ह्यत्र दृश्यन्ते रौद्रास्तेऽप्येकविंशतिः ।
यदा रौद्राः प्रदृश्यन्ते दुर्भिक्षं निर्द्दिशेत्तदा ॥
घूर्णन्ते च प्रजाः सर्व्वा मृत्युक्षुद्रोगपीडिताः ।
अश्लेषापित्र्यभाग्यानि विद्याद्दक्षिणपूर्ब्बतः ॥
केतवो ह्यत्र दृश्यन्ते औद्दालकिसुता दश ।
सुभिक्षं क्षेममारोग्यं सुवृष्टिः शस्यसम्पदः ॥
आर्य्यम्नादीनि च त्रीणि विद्याद्दक्षिणभागतः ।
केतवो ह्यत्र दृश्यन्ते काश्यपेयाश्चतुर्द्दश ॥
अनावृष्टिभयं घोरं प्रजानामतिदारुणम् ।
स्वाती विशाखा मित्रञ्च भागो दक्षिणपश्चिमः ॥
केतवो ह्यत्र दृश्यन्ते चत्वारो मृत्युसम्भवाः ।
दुर्भिक्षं मरकं घोरमनावृष्टिस्तथैव च ॥
उपद्रवश्च भूतानां तदा भवति दारुणः ।
ज्येष्ठा मूलमथाषाढा भाग उत्तरपश्चिमः ॥
केतवो ह्यत्र दृश्यन्ते त्रयस्ते सोमसम्भवाः ।
मुभिक्षञ्च सुवृष्टिञ्च मही यज्ञोत्सवाकुला ॥
उत्तरा श्रवणा चैव नक्षत्रं वसुदैवतम् ।
केतवो ह्यत्र दृश्यन्ते माहेयाः पञ्चविंशतिः ॥
माहेयेषु च दृष्टेषु लोकानां संक्षयो ध्रुवम् ।
तदा राजसहस्राणां मही पिबति शोणितम् ॥
वारुणञ्चैव नक्षत्रं तथा भाद्रपदद्वयम् ।
केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते” ॥ * ॥
“ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ।
ऊर्म्मिकेतुर्यदा दृश्येत्तदाप्युदकजं भयम् ॥
श्वेतकेतुर्यदा दृश्येत् श्वेतास्थि कुरुते महीम् ।
तदा मानुषमांसानि भक्षयन्तीह मानुषाः ॥
क्षुद्भयार्त्तं जगत् कृत्स्नं चक्रवद्भ्रमते तदा ।
धूमकेतुर्यदा दृश्येत्तस्य वक्ष्यामि लक्षणम् ॥
स हन्ति शिखया योधान् राजानं मन्त्रिणं जनान् ।
रेवत्याश्वयुजञ्चैव नक्षत्रं यमदैवतम् ॥
केतवो ह्यत्र दृश्यन्ते यमपुत्त्रास्त्रयोदश ।
यमपुत्त्रेषु दृष्टेषु लोकानां संक्षयो ध्रुवम् ॥
चतुर्व्विधानां भूतानां संशयो जायते महान्” ॥ * ॥
“अपरे विविधाः सन्ति वृहस्पत्यादिकेतवः ॥
नृपदेशविनाशाय दुर्भिक्षभयदायकाः ।
कुमुदाभस्तु कुमुदो वारुण्यां प्राक्शिखो निशाम् ॥
एकां दृष्टः सुभिक्षाय दशवर्षाणि सौख्यदः ।
पश्चिमाभ्युदिताश्चान्ये कुर्व्वन्ति प्रबलान् ज्वरान् ॥
पाण्डुरोगं प्रतिश्यायं मुखरोगमरोचकम् ।
क्षीरधारेव शुक्लाभा ऋज्वी सूक्ष्मतरा शिखा ॥
सकृद्यामैकदृश्यास्ते चतुर्म्मासं सुभिक्षदाः ।
जलकेतुस्तु यः पश्चात् शिखया नतया परे ॥
सुभिक्षं कुरुते शान्तिं प्रजानां नवमासतः ।
भवकेतुस्त्वेकरात्रं दृश्यः प्राक् सूक्ष्मतारकः ॥
दक्षिणावर्त्तशिखया हरिलङ्गूलतुल्यया ।
मुहूर्त्तान् यावतो दृश्यस्तावन्मासान् सुभिक्षदः ॥
स एव रूक्षो दृश्यश्चेद्रोगप्राणान्तकारणम् ।
पद्मकेतुर्मृणालाभो निशामेकां प्रदृश्यते ॥
सप्त मासान् सुभिक्षं स हर्ववर्षणदायकः ।
आवर्त्तः सव्यशिखयारणाभश्च निशार्द्धगः ॥
पृष्ठ २/१९३
स्निग्धोयावत्क्षणान् दृश्यस्तावन्मासान् सुभिक्षदः ।
ध्रुवकेतुस्त्वनियतगतिवर्णाकृतिर्ब्बहुः ॥
दिव्यान्तरीक्षभौमोऽयं स्निग्ध इष्टः स नान्यथा ।
सेनाङ्गेषु महीन्द्राणां देशस्य गिरिशाखिषु ॥
उपस्करेषु गृहिणां दृश्यते च विनाशकृत् ।
हन्यादुल्का यदागस्त्यं केतुर्व्वाप्युपधूपयेत् ॥
दुर्भिक्षं मरकञ्चैव तदा जगति जायते ।
यदा तु भार्गवं प्राप्य धूमकेतुः प्रधूपयेत् ॥
तदा सैन्यानि वध्यन्ते यत्रोद्युक्ता नराधिपाः ।
यात्रागताश्च ये सार्था असुमन्तश्च ये जनाः ॥
तथा चारगणाः सर्व्वे भयमृच्छन्ति दारुणम् ।
यदा प्रधूपयेत् केतुः सप्तर्षीन् ध्रुवमेव च ॥
तदा लोकाः क्षयं यान्ति सलिलञ्चापि शुष्यति ।
धूमकेतुर्यदा राज्ञो दृश्यते विषये क्वचित् ॥
सराष्ट्रः सपुरो राजा क्षिप्रमेव प्रणश्यति ।
यावन्त्यहानि दृश्यन्ते तावन्मासान् फलप्रदाः ॥
मासैरब्दान् विजानीयात् प्रथमे तु त्रिपक्षतः” ॥ * ॥
“केतूत्पाते तु सर्व्वस्मिन् सभये समुपस्थिते ॥
महाशान्तिं प्रकुर्व्वीत विविधां भूरिदक्षिणाम् ।
धनं वा सर्व्वमुत्सृज्य मृत्योर्म्मुच्येत बन्धनात् ॥
दद्याद्वा पृथिवीं सर्व्वां राजा शान्तिं नियच्छति ।
अकस्माद्दृश्यते केतुरुदयेऽस्तमयेऽपि वा ॥
निहन्त्यन्तःपुरे राज्ञो ज्वरः पित्तोद्भवो भवेत् ।
दधिमधुघृताक्तानां पुष्पाणामयुतं ततः ॥
जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ।
भूषितं हेमरत्नाद्यैस्ततः सम्पद्यते शुभम्” ॥
इति मथुरानाथविद्यालङ्कारकृतसमयामृते केतू-
त्पाताः समाप्ताः ॥ केतुगणः कुशद्वीपजातः जैमिनि-
मुनेः सन्तानः षडङ्गुलः धूम्रवर्णः गृध्रवाहनः
शूद्रवर्णः विकृताननः सूर्य्याभिमुखः वृद्धः धूम्र-
वसनः वरदः गदाधरश्च । तस्याधिदेवता चित्र-
गुप्तः प्रत्यधिदेवता ब्रह्मा । इति ग्रहयागतत्त्वम् ॥
अस्य स्वरूपं शनिराहुवत् । स च शिखावान्
अनेकरूपः । इति जातकम् ॥ * ॥
रोगः । पताका । (यथा, रघौ ७ । ६५ ।
“सशोणितैस्तेन शिलीमुखाग्रै-
र्निक्षेपिताः केतुषु पार्थिवानाम्” ॥)
उत्पातः । (यथा, मनुः १ । ३८ ।
“उल्कानिघातकेतूंश्च ज्योतींष्युञ्चावचानि च” ॥)
चिह्नम् । इति मेदिनी । (यथा, रघुः २ । ३३ ।
“तमार्य्यगृह्यं निगृहीतधेनु-
र्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन् विस्मितमात्मवृत्तौ
सिंहोरुसत्वं निजगाद सिंहः” ॥)
दीप्तिः । इति हेमचन्द्रः ॥ (सूर्य्यः । यर्था, ऋग्वेदे
१० । ८ । १ । “प्रकेतुना वहता यात्यग्निः” ।
तत्रैव । ३ । ३४ । ४ “प्रारोचयन् मनवे केतु-
मह्नाम्” । रश्मिः ॥ यथा, ॐ उदुत्यं जातवेदस्रं
देवं वहन्ति केतवः दृशे विश्वाय सूर्य्यम्” ॥)

केतुभः, पुं, (केतुरिव भातीति । भा + कः ।) मेघः ।

इति शब्दमाला ॥

केतुमालं, क्ली, जम्बुद्वीपस्य नवखण्डान्तगतखण्ड-

विशेषः । इति त्रिकाण्डशेषः ॥ (क्वचित् पुंलिङ्गो-
ऽपि दृश्यते । यथा, महाभारते ६ । ६ । ३२ ।
“मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ! ।
जम्बुखण्डे च तत्रैंव महाजनपदो नृप” ॥
आग्नीध्रराजपुत्त्रः स्वायम्भुवमनोः प्रपौत्त्रश्च ।
यथा, भागवते ५ । २ । २० ।
“तस्यामुह वा आत्मजान् स राजवर आग्नीध्रो
नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरु-
भद्राश्वकेतुमालसंज्ञान् नवपुत्त्रानजनयत्” ॥
स्त्री, नदी । यथा, महाभारते । ३ । ८९ । १४ ।
“ततः पुण्यतमा राजन् ! सततं तापसैर्युता ।
केतुमाला च मेध्या च गङ्गाद्वारञ्च भूमिप !” ॥)

केतुरत्नं, क्ली, (केतोः रत्नं केतुभिः रश्मिभिः युक्तं

वा रत्नम् ।) वैदूर्य्यमणिः । इति राजनिर्घण्टः ॥

केदरः, पुं, (के मस्तके दृणाति । दॄ + अच् । केन

दीर्य्यते वा । दॄ + अप् कर्म्मणि ।) वृक्षविशेषः ।
इति लिङ्गादिसंग्रहे अमरः । टेरके त्रि । इति
शब्दरत्नावली ॥

केदारः, पुं, (के जले दार आदरो यस्य । यद्वा केन

जलेन द्रियते आद्रियते इति । निपातनात्
एत्वम् ।) क्षेत्रम् । क्षेत् इति भाषा । इत्यमरः ।
२ । ९ । ११ ॥ (यथा, मनौ ९ । ३८ ।
“भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।
नानारूपाणि जायन्ते वीजानीह स्वभावतः” ॥
क्षेत्रस्थक्षुद्रजलाधारविशेषः । यथा, रामायणे
३ । २२ । १८ ।
“वृषः पिबति केदारे निश्वासाकुलितं पयः” ॥)
केदारजलगुणाः । मधुरत्वम् । विपाके गुरुत्वम् ।
दोषलत्वम् । “तदेव बद्धमुक्तन्तु विशेषाद्दोषदं
भवेत्” । इति राजनिर्घण्टः ॥ (के मस्तके शिखर-
देशे दारः प्रश्रवणादिकारणस्वरूपविदीर्णस्थानं
अस्य ।) पर्व्वतविशेषः । (के मस्तके शिरःस्थित-
जटाभ्यन्तरे गङ्गारूपिणी दाराः पत्नी यस्य
सर्व्वत्र निपातनात् एत्वम् ।) शिवः । भूमिभेदः ।
आलवालम् । इति मेदिनी ॥ (भ्रूमध्यस्थानविशेषः ।
यथा, हठयोगदीपिकायाम् । ३ । २४ ।
“कालपाशमहाबन्धविमोचनविचक्षणः ।
त्रिवेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः” ॥
“केदारभ्रुवोर्मध्ये शिवस्थानं केदारशब्दवाच्यं तं
मनः स्वान्तं प्रापयेत्” । इति तट्टीका ॥ तीर्थ-
विशेषः । यथा, महाभारते । ३ । ८३ । ६६ ।
“केदारे चैव राजेन्द्र ! कपिलस्य महात्मनः ।
ब्रह्माणमधिगत्वा च शुचिः प्रयतमानसः ।
सर्व्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते” ॥ * ॥
केदारपर्व्वतस्थलिङ्गभेदः । स तु लिङ्गमूर्त्त्या
काश्यामाविर्भावात् तन्नाम्ना एवाख्यातः तद्विवरणं
यथा, काशीखण्डे । ७७ अध्याये ।
श्रीपार्व्वत्युवाच ।
“नमस्ते देवदेवेश ! प्रणमत्करुणानिधे ! ।
वद केदारमाहात्म्यं भक्तानामनुकम्पया ॥
तस्मिन् लिङ्गे सदा प्रीतिस्तव काश्यामनुत्तमा ।
तद्भक्ताश्च जना नित्यं देवदेव ! महाधियः ॥
श्रीदेवदेव उवाच ।
शृण्वपर्णेऽभिधास्यामि केदारेश्वरसंकथाम् ।
समाकर्ण्यापि यां पापोऽप्यपापो जायते क्षणात् ॥
केदारं यातुकामस्य पुंसो निश्चितचेतसः ।
आजन्मसञ्चितं पापं तत्क्षणादेव नश्यति ॥
गृहाद्विनिर्गते पुंसि केदारगतिनिश्चिते ।
जन्मद्वयार्ज्जितं पापं शरीरादपि निर्व्रजेत् ॥
मध्येमार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम् ।
देहगेहाद्विनिःसृत्य निराशं याति निश्वसत् ॥
सायं केदार केदार केदारेति त्रिरुच्चरन् ।
गेहेऽपि निवसन्नूनं यात्राफलमवाप्नुयात् ॥
दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमम्बु च ।
जन्मजन्मकृतात्पापात् मुच्यते नात्र संशयः ॥
हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च ।
कोटिजन्मार्ज्जितैनोभिर्मुच्यते नात्र संशयः ॥
सकृत्प्रणम्य केदारं हरपापकृतोदकः ।
स्थाप्य लिङ्गं हृदम्भोजे प्रान्ते मोक्षं गमिष्यति ॥
हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति ।
उद्धृत्य सप्त पुरुषान् स मे लोकं गमिष्यति ॥
पुरा रथन्तरे कल्पे यदभूदत्र तत् शृणु ।
अपर्णे दत्तकर्णा त्वं वर्णयामि तवाग्रतः ॥
एको ब्राह्मणदायाद उज्जयिन्या इहागतः ।
कृतोपनयनः पित्रा ब्रह्मचर्य्यव्रते स्थितः ॥
स्थलीं पाशुपतीं काशीं स विलोक्य समन्ततः ।
द्विजैः पाशुपतैः कीर्णां जटामुकुटमण्डितैः ॥
कृतलिङ्गसमर्च्चैश्च भूतिभूषितवर्ष्मभिः ।
भिक्षाहृतान्नसन्तुष्टैः पुष्टैर्गङ्गोदकामृतैः ॥
बभूवानन्दितमना व्रतं जग्राह चोत्तमम् ।
हिरण्यगर्भादाचार्य्यान्महत्पाशुपताभिधम् ॥
स च शिष्यो वशिष्ठोऽभूत् सर्व्वपाशुपतोत्तमः
स्नात्वा ह्रदे हरपापे नित्यं प्रातः समुत्थितः ॥
विभूत्याहरहः स्नाति त्रिकालं लिङ्गमर्च्चयन् ।
नान्तरं स विजानाति शिवलिङ्गे गुरौ तथा ॥
स द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह ।
ययौ केदारयात्रार्थं गिरिं गौरीगुरोर्गुरुम् ॥
यत्र गत्वा न शोचन्ति किञ्चित् संसारिणः क्वचित् ।
प्राश्योदकं लिङ्गरूपं लिङ्गरूपत्वमागताः ।
असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः ॥
गुरुर्हिरण्यगर्भाख्यः पञ्चत्वमगमत् तदा ।
पश्यतां तापसानाञ्च विमाने सार्व्वकामिके ॥
आरोप्य तं पारिषदाः कैलासमनयन् मुदा ।
यस्तु केदारमुद्दिश्य गेहादर्द्धपथेऽप्यहो ॥
अकातरस्त्यजेत् प्राणान् कैलासे स चिरं वसेत् ।
तदाश्चर्य्यं समालोक्य स वशिष्ठस्तपोधनः ॥
केदारमेव लिङ्गेषु बह्वमंस्त सुनिश्चितम् ।
अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात् ॥
अग्रहीन्नियमं चापि यथार्थं चाकरोत् पुनः ।
प्रतिचैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम् ॥
विलोकयिष्ये केदारं वसन् वाराणसीं पुरीम् ।
तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा ॥
आनन्दकानने नित्यं वसता ब्रह्मचारिणा ।
पुनर्यात्रां स वै चक्रे मधौ निकटवर्त्मनि ॥
पृष्ठ २/१९४
परमोत्साहसन्तुष्टः पलिताकलितोऽप्यलम् ।
तपोधनैस्तन्निधनं शङ्कमानैर्निवारितः ॥
कारुण्यपूर्णहृदयैरन्यैरपि च सङ्गिभिः ।
ततोऽपि न तदुत्साहभङ्गोऽभूद्दृढचेतसः ॥
मध्ये मार्गं मृतस्यापि गुरोरिव गतिर्मम ।
इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ ॥
अशूद्रान्नपरीपुष्टे तुष्टोऽहं चण्डिकेऽभवम् ।
स्वप्ने मया स संप्रोक्तो वशिष्टस्तापसोत्तमः ।
दृढव्रत ! प्रसन्नोऽस्मि केदारं विद्धि मामिह ॥
अभीष्टञ्च वरं मत्तः प्रार्थयस्वाविचारितम् ।
इत्युक्तवत्त्यपि मयि स्वप्नो मिथ्येति सोऽब्रवीत् ॥
ततोऽपि स मया प्रोक्तः स्वप्नो मिथ्याशुचिष्मताम् ।
भवादृशाममिथ्यैव स्वाध्यायवशवर्त्तिनाम् ॥
वरं ब्रूहि प्रसन्नोऽस्मि स्वप्नशङ्कां त्यज द्विज ! ।
तव सत्ववतः किञ्चित् मयाऽदेयं न किञ्चन ॥
इत्युक्तं मे समाकर्ण्य वरयामास मामिति ।
शिष्यो हिरण्यगर्भस्य तपस्विजनसत्तमः ॥
यदि प्रसन्नो देवेश ! तदा मे सानुगा इमे ।
सर्व्वे शूलिन्ननुग्राह्या एष एव वरो मम ॥
देवि ! तस्येदमाकर्ण्य परोपकृतिशालिनः ।
वचनं नितरां प्रीतस्तथेति तमुवाच ह ॥
पुनः परोपकरणात् तत्तपोद्विगुणीकृतम् ।
तेन पुण्येन स मया पुनः प्रोक्तो वरं वृणु ॥
स वशिष्ठो महाप्राज्ञो दृढपाशुपतव्रतः ।
देवि ! मे प्रार्थयामास हिमशैलादिहस्थितिम् ॥
ततस्तत्तपसा तुष्टः कलामात्रेण तत्र हि ।
हिमशैले स्थितश्चात्र सर्व्वभावेन संस्थितः ॥
ततः प्रभाते संजाते सर्व्वेषां पश्यतामहम् ।
हिमाद्रेः प्रस्थितः प्राप्तः स्तूयमानः सुरर्षिभिः ॥
वशिष्ठं पुरतः कृत्वा सर्व्वसार्थसमायुतम् ।
हरपापह्रदे तीर्थे स्थितोऽहं तदनुग्रहात् ॥
मत्परिग्रहतः सर्व्वे हरपापे कृतोदकाः ।
आराध्य मामनेनैव वपुषा सिद्धिमागताः ॥
तदाप्रभृति लिङ्गेऽस्मिन् स्थितः साधकसिद्धये ।
अविमुक्ते परे क्षेत्रे कलिकाले विशेषतः ॥
तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत् फलम् ।
तत् फलं सप्तगुणितं काश्यां केदारदर्शने ॥
गौरीकुण्डं यथा तत्र हंसतीर्थञ्च निर्म्मलम् ।
यथा मधस्रवा गङ्गा काश्यां तदखिलं तथा ॥
इदं तीथ हरपापं सप्तजन्माघनाशनम् ।
गङ्गायां मिलितं पश्चाज्जन्मकोटिकृताघहम्” ॥
केदाराख्यः पर्व्वतश्च तीर्थयात्रिभिः प्रायेण
वदर्य्याश्रमात् सप्तदिनैः समागमनीयः ॥ * ॥)

केदारकटुका, स्त्री, (केदारस्य क्षैत्रस्य कटुका इव ।)

कदुका । इति राजनिर्घण्टः । कट्की इति भाषा ॥
(कटुकाशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

केदारजं, क्ली, (केदारात् जायते इति । जन् + डः ।)

पद्मकाष्ठम् । इति राजनिर्घण्टः ॥

केदारेशः, पुं, (केदार एतन्नामा पर्व्वतः तत्र य ईशः

लिङ्गरूपी महादेवः । यद्वा, केदाराख्यः ईशः ।)
काशीस्थशियविशेषः । यथा, --
“हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च ।
कोटिजन्मार्ज्जितैनोभिर्म्मुच्यते श्रद्धयान्वितः” ॥
इति स्कान्दे काशीखण्डे ७७ अध्यायः ॥

केदारेश्वरः, पुं, (केदाराख्य ईश्वरः । केदारपर्व्वतस्थ

ईश्वरो वा ।) काशीस्थशिवविंशेषः । यथा, --
“शृण्वपर्णेऽभिधास्यामि केदारेश्वरसंकथाम् ।
समाकर्ण्यापि यां पापोऽप्यपापो जायते क्षणात्” ॥
इति स्कान्दे काशीखण्डे ७७ अध्यायः ॥

केनारः, पुं, (के मूर्द्ध्नि नारः । अलुक्समासः ।)

कुम्भिनरकः । इति हेमचन्द्रः । शिरः । कपोलः ।
सन्धिः । इति मेदिनी ॥

केनिपातः, पुं, (के जले निपात्यतेऽसौ । नि + पत्

+ णिच् + अप् ।) अरित्रम् । इति शब्दरत्ना-
वली । हालि इति भाषा ॥

केनिपातकः, पुं, (केनिपात + स्वार्थे कन् ।) केनि-

पातः । इत्यमरः । १ । १० । १३ ॥

केन्दुः, पुं, (कु ईषत् इन्दुरिव । कोः कादेशः ।)

तिन्दुकवृक्षः । इति शब्दरत्नावली ॥

केन्दुकः, पुं, (केन्दु + संज्ञायां कन् ।) गालववृक्षः ।

इति शब्दचन्द्रिका ॥ गाव् इति भाषा ॥ ताल-
विशेषः । यथा । “लघुद्वयं विरामान्तताले केन्दुक-
संज्ञके” । लघुद्वयं स्थाने द्रुतद्वयमिति च पाठः ।
अपरं नियमं विना । इति सङ्गीतदामोदरः ॥

केन्द्रं, क्ली, लग्नम् । लग्नात् चतुर्थसप्तमदशम-

स्थानानि । तत्पर्य्यायः । कण्टकम् २ । यथा, --
“लग्नाम्बुद्व्यूनकर्म्माणि केन्द्रमुक्तञ्च कण्टकम् ।
चतुष्टयञ्चात्र खेटो बली लग्ने विशेषतः” ॥
इति नीलकण्ठकृतवर्षतन्त्राख्यजातकम् ॥ स्पष्ट-
ग्रहानयनार्थं शीघ्रमन्दसंज्ञकाङ्कद्वयम् । यथा, --
“मृदूच्चेन हीनो ग्रहो मन्दकेन्द्रं
चलोच्चं ग्रहाणां भवेच्छीघ्रकेन्द्रम्” ॥
इति भास्करीयसिद्धान्तशिरोमणौ स्पष्टाधिकारः ॥
ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्रात् विशोध्य
च शिष्टं केन्द्रम् । इति सूर्य्यसिद्धान्तः ॥ गोलस्य
मध्यस्थानम् । यथा, --
“वृत्तस्य मध्यं किल केन्द्रमुक्तम्
केन्द्रं ग्रहोच्चान्तरसुच्यतेऽतः ।
यवोऽन्तरे तावति तुङ्गदेशा-
न्नीचोच्चवृत्तस्य सदैव केन्द्रम्” ॥
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥ (यात्रा-
योगविषेषः । यथा, शब्दार्थचिन्तामणिधृतवचने ।
“आपोक्लिमगते चन्द्रे केन्द्रस्थे सुरपूजिते ।
योगः केन्द्र इति ख्यातो यातुरिष्टार्थसिद्धिदा” ॥
प्रान्तसीमा । यथा, योगशास्त्रे ।
“पृथिव्या उभयोः केन्द्रयोः स्थितौ द्वावेव योगिनौ ।
एकत्र सान्निध्यस्थितिवत् सन्निकर्षस्थिताविव वा
अन्योन्यमालपति” ॥)

केप, ऋ ङ गत्याम् । चाले । इति कविकल्पद्रुमः ।

(भ्वां-आत्मं-सकं-सेट्-ऋदित् ।) ङ, केपते । ऋ,
अचिकेपत् । इति दुर्गादासः ॥

केमद्रुमः, पुं, जन्मकालीनग्रहयोगविशेषः । यथा ।

“रविवर्ज्जं द्वादशगैरनफा चन्द्रात् द्वितीयगैः सुनफा ।
उभयस्थितैर्दुरधुरा केमद्रुमसंज्ञितो ऽन्यः” ॥
अनफादियोगः । सच्छीलं विषयसुखान्वितं प्रभु
ख्यातियुक्तमनफायाम् । सुनफायां धीधनकीर्त्ति-
युक्तमात्मार्ज्जितैश्वर्य्यञ्च ॥ बहुभृत्यकुटुम्बारम्भ
मुद्विग्नचित्तमपि दौरधुरे । भृतकं दुःखिनमधनं
जातं केमद्रुमे विद्यात् ॥ अनफादिफलम् । इति
ज्योतिस्तत्त्वम् ॥ (केमद्रुमयोगे जातंस्य फलं यथा,
जातकपद्धतौ ।
“नृपतेर्वंशजातोऽपि केमद्रुमभवो नरः ।
मलिनो दुःखितो नीचो निःस्वो दासो भवेत्खलः” ॥
तद्भङ्गस्तु तत्रैव । “चन्द्रे केन्द्रगतेऽथवा ग्रहयुते
सर्व्वैश्च दृष्टे विधौ सर्व्वैः कण्टकसंज्ञितैर्ग्रहयुतैः
केमद्रुमो नेष्यते । लग्नाद् विधो र्वा वृद्धिस्थैः शुभैः
सर्व्वं शुभं फलं । द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति
द्ररिद्रता” ॥)

केमुकः, पुं, (के शिरोवच्छेदे अमयतीति । अम् रोगे

+ उक प्रत्ययः ।) वृक्षविशेषः । केँउ इति भाषा ।
तत्पर्य्यायः । पेचुकः २ पेचुनी ३ पेचुः ४ पेचिका
५ दलसारिणी ६ केचुकः ७ । इति रत्नमाला ॥
तस्य मूलगुणाः । कफपित्तनाशित्वम् । रोच-
नत्वम् । अग्निदीपनत्वञ्च । इति राजवल्लभः ॥
कटुत्वम् । पाके तिक्तत्वम् । ग्राहित्वम् । हिमत्वम् ।
लघुत्वम् । पाचनत्वम् । हृद्यत्वम् । ज्वरकुष्ठकास-
प्रमेहास्रनाशित्वम् । वातलत्वम् । पटुत्वञ्च । इति
भावप्रकाशः ॥ (एतत् फलं हविष्ये वर्ज्जनीयम् ।
क्ली, कन्दशाकविशेषः ॥)

केयूरं, क्ली, (के बाहुशिरसि भूषणतां याति । या

गत्यां + ऊरः । अलुक् समासः ।) अलङ्कार-
विशेषः । ताड इति भाषा । तत्पर्य्यायः । अङ्गदम्
२ । इत्यमरः । २ । ६ । १०७ ॥ (यथा, महा-
भारते । ६ । ६७ । २१ ।
“पादानां भूषणानाञ्च केयूराणाञ्च सर्व्वशः ।
राशयश्चात्र दृश्यन्ते भीष्मभीमसमागमे” ॥)

केयूरः, पुं, रतिबन्धविशेषः । यथा, --

“स्त्रीजङ्घे चैव संपीड्य दीर्भ्यामालिङ्ग्य सुन्दरीम् ।
कारयेत् ष्ठापनं कामी बन्धः केयूरसंज्ञकः” ॥
इति स्मरदीपिका ॥ अप्रि च ।
“स्त्रीणां जङ्घान्तराविष्टौ गाढमालिङ्ग्य सुन्दरीम् ।
कामयेद्विपुलं कामी बन्धः केयूरसंज्ञकः” ॥
इति रतिमञ्जरी ॥

केरलः, पुं, देशभेदः । मालेओयार इति भाषा ।

यथा । उग्राः केरलपर्य्यायाः । इति हेमचन्द्रः ॥
वेदयागानधिकारिश्मश्रुधारिम्लेच्छविशेषः । पुरैते
क्षत्त्रिया आसन् सगरेणैषां धर्म्मो नाशितः
वेशान्यत्वञ्च कृतम् । यथा, --
“निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ।
शका यवनकाम्बोजाः पारदाः पह्नवास्तथा ॥
कोलिसर्पा माहिषका दर्व्वाश्चोलाः सकेरलाः ।
सर्व्वे ते क्षत्त्रियास्तात ! धर्म्मस्तेषां निराकृतः” ॥
इति हरिवंशः । (तथा च रघुवंशे । ४ । ५४ ।
“भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः” ॥)