शब्दकल्पद्रुमः/कुचः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/१३५

कुचः, पुं, (कुचति संकुचतीति । कुच् संकोचे ।

“इगुपधेति” । ३ । १ । १३५ । कः ।) स्तनः ।
इत्यमरः । २ । ६ । ७७ । (यथा गोः रामायणे ।
५ । १३ । ५७ ।
“अन्या वक्षसि चान्यस्यास्तस्याश्चाप्यपराः कुचे ।
उरूपार्श्वकटीपृष्ठमन्योन्यं समुपाश्रिताः” ॥
स्त्रीणां यौवने कुचपरिवृद्धिर्भवति ।
यथाह भावप्रकाशे ।
“पुष्पाणां मुकुले गन्धो यथा सन्नपि नाप्यते ।
तेषां तदपि तारुण्ये पुष्टत्वात् व्यक्तिमेति हि ॥
कुसुमानां प्रफुल्लानां गन्धः प्रादुर्भवेद्यथा ।
रोमराज्यादयः पुंसां नारीणामपि यौवने ॥
जायते ऽत्र च यो भेदो ज्ञेयो व्याख्यानतः स च” ॥
व्याख्यानं यथा, --
“पुंसां रोमराजिश्मश्रुप्रभृतयः
नारीणान्तु रोमराजी स्त नार्त्तवादयः” ॥)

कुचण्डिका, स्त्री, (कुत्सिता चण्डिका कोपना इव ।

विकृतिकारितया तथात्वम् ।) मूर्व्वालता । इति
शब्दचन्द्रिका ॥

कुचन्दनम्, क्ली, (कुत्सितं गन्धहीनतया यच्चन्दनं

यद्वा कौ पृथिव्यां चन्दनमिव ।) रक्तचन्दनम् ।
इत्यमरः । २ । ६ । १३२ ॥ पत्राङ्गम् । वकम्
काठ् इति भाषा । वृक्षभेदः । इति मेदिनी ॥
कुङ्कुमम् । इति शब्दचन्द्रिका । (अस्य पर्य्याया
यथा, -- वैद्यकरत्नमालायाम् ।
“पतङ्गं रञ्जनं रक्तं पत्राङ्गञ्च कुचन्दनम्” ॥)

कुचफलः, पुं, (कुच इव फलं यस्य । कुचसदृशत्वा-

त्तथात्वम् ।) दाडिमवृक्षः । इति राजनिर्घण्टः ॥
(गुणपर्य्याया दाडिमशब्दे ऽस्य ज्ञातव्याः ॥)

कुचरः, त्रि, (कुत्सितं चरतीति । कु + चर् + अच् ।)

कुवादः । परदोषकथनशीलः । इत्यमरः । ३ । १
३७ ॥ (दुर्गमदेशगन्ता । यथा, ऋग्वेदे । १ । १५४ । २ ।
“प्र तद्विष्णुः स्तवते वीर्य्येण मृगो न मीमः कुचरो
गिरिष्ठाः” ॥ कुस्थाने चरतीति । कान्तारादि-
पर्य्यटकः । कौ पृथ्व्यां चरतीति । भूमिचरः ॥
यथा महाभारते । १४ । ३८ । १३, १४ ।
“दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत् ।
अध्वगाः परितप्येयुरुष्णतो दुःखभागिनः ॥
आदित्यः सत्वमुद्रिक्तं कुचरास्तु तथा तमः ।
परितापोऽध्वगानाञ्च रजसो गुण उच्यते” ॥)

कुचाग्रं, क्ली, (कुचस्य कुचयोर्वा अग्रम् ।) स्तनाग्र-

भागः । तत्पर्य्यायः । चूचुकम् २ । इत्यमरः । २ ।
६ । ७७ ॥ चुचुकम् ३ । इति तट्टीका ॥

कुचाङ्गेरी, स्त्री, (कुत्सिता चाङ्गेरी ।) इति रत्न-

माला ॥ चुक्रिका । चुकापालं इति भाषा ॥

कुचिकः, पुं स्त्री, (कुच + बाहुलकात् इकन् ।)

मत्स्यविशेषः । इति त्रिकाण्डशेषः । कुँचिया
इति भाषा ॥

कुचेलः, त्रि, (कुत्सितं चेलं वस्त्रं यस्य ।) कुवासाः ।

परिहितकुत्सितवस्त्रो जनः । इति मेदिनी ॥
(कुत्सितं चेलमिति विग्रहे । क्ली, जीर्णवस्त्रम् ।
यथा, मनुः ६ । ४४ ।
“कपालं वृक्षमूलानि कुचेलमसहायता ।
समता चव सर्व्वस्मिन्नेतन्मुक्तस्य लक्षणम्” ॥)

कुचेला, स्त्री, (कुचा सङ्कुचा इला भूमिः निद्रा वा

यस्याः ।) विद्धकर्णी । इति मेदिनी (यथा, भैषज्य-
रत्नावल्याम् ।
“कुचेला कुलका रात्रिर्मेघनामा च ग्रन्थिका” ॥
अस्याः पर्य्याया यथा ।
“अम्बष्ठाम्बष्ठकीपाटा कुचेला पापचेलिका ।
एकाष्ठीला वरा तिक्ता प्राचीनौकाशिवावुका” ॥
इति वैद्यकरत्नमालायाम् ॥)

कुचेली, स्त्री, (कुचेल + गौरादित्वात् ङीष् ।) अम्वष्ठा ।

इति रत्नमाला ॥ आकनादि इति भाषा ॥

कुच्छं, क्ली, (कोः पृथिव्याः दुःखं छ्यति दर्शनाघ्राणा-

दिना लुनातीति । कु + छो + कः ।) कुमुदम् ।
इति शब्दचन्द्रिका ॥ (कुमुदशब्देऽस्य गुणपर्य्याया
बोद्धव्याः ॥)

कुज उ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) उ कोजित्वा कुक्त्वा । स्तेयं चौर्य्यम् । इति
दुर्गादासः ॥

कुज, इ अव्यक्तशब्दे । इति चन्द्रः । (भ्वां-परं-अकं-

सेट्-इदित् ।) कुञ्जति कुञ्जरः । इति दुर्गादासः ॥

कुजः, पुं, (कोः पृथिव्याः जायते । कु + जन् + डः ।)

भङ्गलग्रहः । (यथा, मङ्गलग्रहस्तुतौ । “अङ्गारकः
कुजो भौमः” इति ।) नरकासुरः । (यथा, --
“तत्राहृतास्ता नरदेवकन्याः
कुजेन दृष्ट्वा हरिमार्त्तवन्धुम्” ॥
श्रीमद्भागवते ३ । ३ । ८ ॥) वृक्षः । इति हेमचन्द्रः ॥
कुजम्भलः, त्रि, (कोः पृथिव्याः कौ वा जम्भलः
मृत्तिकादिखननेन सन्धिचौरः ।) चौरविशेषः ।
इति हारावली । सिँदेल चोर इति भाषा ॥

कुजम्भलः, त्रि, (कुजम्भोऽस्यास्तीति । इलच् ।)

कुजम्भलः । इति शब्दरत्नावली ॥

कुजा, स्त्री, (कुजाः पृथिवीजाः वृक्षाः आश्रयत्वेन

सन्ति अस्याः इति अच् ततष्टाप् । यथा, --
“कदली दाडिमी धान्यं हरिद्रा मानकं कचुः ।
विल्वाशोकौ जयन्ती च विज्ञेया नवपत्रिका” ॥
इति मन्त्रोक्तनवपत्रिकासु “तव स्थानमिदं मर्त्त्ये”
इत्यादि निर्द्देशेन चास्याः आश्रयत्वात् तथात्वम् ।)
कात्यायनी देवी । इति मेदिनी ॥ (कोः पृथिव्याः
जायते । जन + डः टाप् च । सोता देषी भूमेः
तदुत्पत्तिकथा कालिका पुराणे ३७ अध्यायेः ।
“ततः पुरोधसं राजा गोतमं मुनिसत्तमम् ।
तत्पुत्त्रञ्च शतानन्दं पुरोधायाकरोन्मखम् ॥
द्वौ पुत्त्रौ तस्य सञ्जातौ यज्ञभूमौ परौ स्मृतौ ।
एका च दुहिता साध्वी भूम्यन्तरगता शुभा” ॥)

कुज्जिशः, पुं, मत्स्यभेदः । अस्य गुणाः । मधुरत्वम् ।

हृद्यत्वम् । कषायत्वम् । दीपनत्वम् । बलकारित्वम् ।
स्निग्धत्वम् । गुरुत्वम् । ग्राहित्वम् । वाते हित-
त्वम् । रोचनत्वञ्च । इति राजनिर्घण्टः ॥

कुज्झटिः, स्त्रो, (कोजति अपहरति सूर्य्यप्रकाशम् ।

कुज् + क्विप् न कुत्वम् । झट् संघाते इन् । ततः
कर्म्मधारयः ।) कुज्झटिका । कुया । कुयासा इति
च भाषा । तत्पर्य्यायः । धूममहिषी २ रतान्ध्री
३ कुहेलिका ४ धूमिका ५ नभोरेणुः ६ । इति
त्रिकाण्डशेषः ॥ अस्य गुणाः । रूक्षत्वम् । तमोगुण-
प्रायत्वम् । कफपित्तकारित्वञ्च । इति राजवल्लमः ॥

कुज्झटिका, स्त्री, (कुज्झटि + स्वार्थे कन् टाप् ।)

कुज्झटिः । इति शब्दरत्नावली ॥

कुज्झटी, स्त्री, (कुज्झटि + स्त्रियां वा ङीप् ।)

कुज्झटिः । इति शब्दरत्नावली ॥

कुञ्चनं, क्ली, (कुञ्चति अनेन । कुन्च + करणे ल्युट् ।)

नेत्ररोगविशेषः । तस्य लक्षणं यथा, --
“वाताद्या वर्त्मसङ्कोचं जनयन्ति यदा मलाः ।
तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद्विदुः” ॥
इति माधवकरः ॥ (भावे ल्युट् । सङ्कोचः । यथा
सुश्रुते ।
“कुर्य्यात् शिरागतं मूलशिरा कुञ्चनपूरणम्” ॥)

कुञ्चफला, स्त्री, (कुञ्चं कुञ्चितं फलं अस्याः ।) कुष्माण्डी ।

इति राजनिर्घण्टः ॥

कुञ्चिः, पुं, (कुन्च + इन् ।) अष्टमुष्टिपरिमाणम् ।

यथा, स्मृतिः ॥
“अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम्” ॥

कुञ्चिका, स्त्री, (कुन्च + ण्वुल् + टाप् इत्वंञ्च ।)

गुञ्जा । कुँच् इति भाषा । वंशशाखा । कञ्चि इति
भाषा । इति शब्दचन्द्रिका ॥ कृष्णजीरकः । इति
जटाधरः ॥
(अस्या व्यवहारो यथा मरिचाद्यचूर्णे ।
“मरिचः कुञ्चिकाम्बष्ठा वृक्षाम्लाः कुडवाः पृथक्” ॥
इत्यादिषु द्रष्टव्यम् । इति चरके चिकित्सास्थाने ।
१९ अः ॥) कूर्च्चिका । कुँजि चावि इति च भाषा ।
इति हेमचन्द्रः ॥ मेथिका । इति राजनिर्घण्टः ॥
मत्स्यभेदः । कुँचे इति भाषा । यथा । “कुञ्चिकयैनं
विस्माययति भाययति” । इति मुग्धबोधम् ॥

कुञ्चितं, त्रि, (कुन्च + क्तः ।) वक्रम् । इत्यमरः ।

३ । १ । ७१ ॥ (यथा, नैषधे ३ । १ ।
“आकुञ्चिताभ्यामथ पक्षतिभ्यां
नभोविभागात्तरसावतीर्य्य” ॥)
तगरपुष्पे क्ली । इति राजनिर्घण्टः ॥

कुञ्जः, पुं क्ली, (कौ जायते जन + डः । पृषोदरा-

दित्वात् मुमि साधः ।) पर्व्वतादेर्लतापल्लवादिभिः
समन्ताच्छादितगर्भो गह्वरादिदेशः । इति मधु-
प्रभृतयः ॥ उपरि चतुर्दिक्षु च लतादिभिराच्छा-
दितस्य स्थानस्य मध्ये शून्यदेशः । इत्यन्ये । इति
भरतः ॥ तत्पर्य्यायः । निकुञ्जः । इत्यमरः । २ । ३ । ८ ॥
(यथा, पदाङ्कदूते १ ।
“गोपीभर्त्तुर्विरहविधुरा काचिदिन्दीवराक्षी
उन्मत्तेव स्खलितकवरी निःश्वसन्ती विशालम् ।
अत्रैवास्ते मुररिपुरिति भ्रान्तिदूतीसहाया
त्यक्त्वा गेहं झटिति यमुना मञ्जुकुञ्जं जगाम” ॥)
हनुः । हस्तिदन्तः । इति मेदिनी ॥

कुञ्जरः, पुं, (प्रशस्तः कुञ्जः हनुर्दन्तो वा अस्त्यस्य ।

कुञ्ज + “रप्रकरणे खमुखकुञ्जेभ्यः उपसंख्यानम्” ।
वार्त्तिकं इति रः ।) हस्ती । (यथा, महाभारते
३ । द्वैतवनप्रवेशे २६ । १५ ।
“कुञ्जरस्येव संग्रामे परिगृह्याङ्कुशग्रहम्” ॥)
उत्तरपदे श्रेष्ठवाचकः । यथा पुरुषकुञ्जर इत्यादि ।
इत्यमरः । २ । ८ । ३४ ॥ (सर्पविशेषः । यथा,
महाभारते । ३५ । १५ ।
पृष्ठ २/१३६
“कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः” ॥)
केशः । इति मेदिनी ॥ देशभेदः । इति शब्द-
रत्नावली ॥ (पर्व्वतविशेषः ॥ यथा गोः रामायणे
४ । ४१ । ५० ।
“ततः शक्रध्वजाकारः कुञ्जरो नाम पर्व्वतः ।
अगस्त्यभवनं तत्र निर्म्मितं विश्वकर्म्मणा” ॥)

कुञ्जरपिप्पली, स्त्री, (कुञ्जरनाम्नी पिप्पली ।) गज-

पिप्पली । इति शब्दमाला ॥ (गजपिप्पलीशब्दे-
ऽस्या विवृतिर्ज्ञेया ॥)

कुञ्जरक्षारमूलं, क्ली, (कुञ्जरपिप्पल्या इव क्षारं उग्रं

मूलमस्य ।) मूलकम् । इति राजनिर्घण्टः ॥

कुञ्जरा, स्त्री, (कुञ्जः हस्तिदन्त इव पुष्पं अस्त्यस्याः ।

रप्रत्यये अच् तत अजादित्वात् टाप् ।) धातकी ।
धाइफुल इति भाषा । (अस्याः पर्य्याया यथा, --
“धातकी धातुपुष्पी च ताम्रपुष्पी च कुञ्जरा ।
सुभिक्षा बहुपुष्पी च वह्निज्वाला च सा स्मृता” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । गुणा-
श्चास्या धातकीशब्दे ज्ञातव्याः ॥) पाटलावृक्षः ।
इति मेदिनो ॥ (कुञ्जर + टाप् ।) हस्तिनी । इति
शब्दचन्द्रिका ॥

कुञ्जरारातिः, पुं, (कुञ्जरस्य अरातिः शत्रुः ।) शरभः

इति हेमचन्द्रः ॥ (सिंहः । इति व्युत्पत्तिलव्धो-
ऽर्थः ॥)

कुञ्जरालुकं, क्ली, (कुञ्जरसंज्ञकं आलुकम् ।) आलुक-

विशेषः । हस्त्यालु । इति शब्दचन्द्रिका ॥

कुञ्जराशनः, पुं, (कुञ्जरेण अश्यते । अश भोजने +

कर्म्मणि ल्युट् ।) अश्वत्थवृक्षः । इत्यमरः । २ । ४ ।
२० ॥ (अश्वत्थशब्देऽस्य विवरणं ज्ञेयम् ॥)

कुञ्जरी, स्त्री, (कुञ्जर + जातित्वात् ङीष् ।) हस्तिनी ।

इति शब्दचन्द्रिका ॥

कुञ्जलं, क्ली, (कुत्सितं जलमिव जलं यत्र । पृषोदरात्

साधुः ।) काञ्जिकम् । इत्यमरः । २ । ९ । ३९ ॥

कुञ्जवल्लरी, स्त्री, (कुञ्जाकृतिरिव कुञ्जाकारा वा

वल्लरी ।) निकुञ्जिकाम्लावृक्षः । इति राजनिर्घण्टः ॥

कुञ्जिका, स्त्री, (कुन्ज + ण्वुल् + टाप् इत्वं च ।)

कृष्णजीरकः । कुञ्चिका इति क्वचित् पाठः । इति
जटाधरः ॥ निकुञ्जिकाम्लावृक्षः । इति राज-
निर्घण्टः ॥

कुट इ वैकल्ये । इति कविकल्पद्रुमः ॥ (भ्वां--परं--

सकं--सेट् । इदित् ।) पञ्चमस्वरी । इ कुण्ट्यते ।
वैकल्यमिह विकलीकरणम् । कुण्टति जनं
शोकः । इति दुर्गादासः ॥

कुट शि कौटिल्ये । इति कविकल्पद्रुमः ॥ (तुदां-परं

-अकं-सकञ्च-सेट् ।) शि कुटति अकुटीत् चुकोट
कौटिल्यमिह कुटिलीभावः कुटिलीकरणञ्च ।
इति दुर्गादासः ॥

कुट क ङ प्रतापने । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं--सकं--सेट् ।) पञ्चमस्वरी । क ङ कोट-
यते । एषोऽन्यैर्न मन्यते । इति दुर्गादासः ॥

कुटः, पुं क्ली, (कुट + कः ।) कलशः । इत्यमरः ।

२ । ९ । ३२ ॥

कुटः, पुं, (कुट् + कः ।) कोटः । इति मेदिनी । गड

इत्यादि भाषा ॥ शिलाकुट्टम् । पातरभाङ्गा हातुडी
इति भाषा । वृक्षः । इति हेमचन्द्रः ॥ पर्व्वतः ।
इति हारावली ॥ (कुटिले त्रि, यथा, ऋगवेदे
१ । ४६ । ४ । “हविषाजारो अपां पिपर्त्ति
पपुरिर्नरा । पिता कुटस्य चर्षणिः” ॥)

कुटङ्कः, पुं, (कुर्गृहभूमिः टङ्क्यते आच्छाद्यतेऽनेन ।

कु + टकि आच्छादने । करणे घञ् ।) गृहाच्छाद-
नम् । इति शब्दमाला ॥ चाल इति ख्यातः ॥

कुटङ्गकः, पुं, (कुटस्याङ्गमिव । शकन्ध्वादित्वात् साधुः ।)

वृक्षलतागहनम् । छदिः । चाल इति भाषा ।
गृहभेदः । इत्यमरटीकायां मुकुटादयः ॥ कुँडे
इति भाषा ॥

कुटचः, पु, (कुटे गिरौ चीयते उत्पद्यते । चि + डः ।)

कुटजवृक्षः । इति शब्दचन्द्रिका ॥ (कुटजशब्दे
गुणादयोऽस्य बोद्धव्याः ॥)

कुटजः, पुं, (कुटे पर्व्वते जायते । जन् + डः ।) पुष्प-

वृक्षविशेषः । यस्य फलं इन्द्रयवः । कुडची इति
भाषा ॥ (यथा, माघे ६ । ३५ ।
“कुटजपुष्पपरागकणाः स्फुटं
विदधिरे दधिरेणुविडम्बनाम्” ॥)
तत्पर्य्यायः । शक्रः २ वत्सकः ३ गिरिमल्लिका ४ ।
इत्यमरः । २ । ४ । ६६ ॥ कौटजः ५ । इति तट्टीका ॥
वृक्षकः ६ शक्रपर्य्यायः ७ । इति रत्नमाला ॥
कुटजः ८ काही ९ कालिङ्गः १० मल्लिकापुष्पः
११ प्राष्टष्यः १२ शत्रुपादपः १३ वरतिक्तः १४
यवफलः १५ संग्राही १६ पाण्डुरद्रुमः १७ प्रावृ-
षेण्यः १८ महागन्धः १९ पाण्डरः २० । इति
शब्दरत्नावली ॥ अपि च ।
“कुटजः कूटजः कौटो वत्सको गिरिमल्लिका ।
कालिङ्गः शत्रुशाखी च मल्लिकापुष्प इत्यपि ॥
इन्द्रो यवफलः प्रोक्तो वृक्षकः पाण्डुरद्रुमः ।
कुटजः कटुको रूक्षो दीपनस्तुवरो हिमः” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । कषायत्वम् । अतिसारना-
शित्वञ्च । असितस्य तस्य गुणः । रक्तपित्तत्वग्दोषा-
र्शोनाशित्वम् । इति राजनिर्घण्टः ॥ कफनाश-
कत्वम् । इति राजवल्लभः ॥
(“कुटजत्वक्कृतः क्वाथो घनीभूतः सुशीतलः ।
लेहितोऽतिविषायुक्तः सर्व्वातीसारनुद्भवेत्” ॥
“कुटजस्य पलं ग्राह्यमष्टभागजले शृतम् ।
तथैव विपचेद्भूयो दाडिमोदकसंयुतम् ॥
यावच्चैवलसीकाभं शृतं तमुपकल्पयेत् ।
तस्यार्द्धकर्षतक्रेण पिबेद्रक्तातिसारवान् ॥
अवश्यमरणीयोऽपि मृत्योर्याति न गोचरम्” ।
इति वैद्यकचक्रपाणिसंग्रहेऽतिसाराधिकारे ॥)
अगस्त्यमुनिः । द्रोणाचार्य्यः । इति मेदिनी ॥

कुटन्नटं, क्ली, (कुटन् वक्रीभवन् सन् नटति । नट

स्पन्दने + पचाद्यच् ।) कैवर्त्तीमुस्तकम् । इत्यमरः ।
२ । ४ । १३१ ॥ केउटिया मुता इति ख्यातम् ।
केशुर इति नीचोक्तिः । इति तट्टीका ॥
(अस्य व्यवहारो यत्र तद्यथा ।
“पद्मकं चन्दनोशीरं पाठं मूर्व्वां कुटन्नटम्” ॥
इति वाभटे चिकित्सास्थाने १० अध्याये ।
अस्य पर्य्यायाः यथा ।
“कुटन्नटं परं बल्यं मुस्ताभञ्च परीलवम्” ॥
इति वैद्यकरत्नमालायाम् ॥
कोसची मोथा । गुडतजी इति च । इयन्तु वितु-
न्नकनाम्नो वृक्षस्य त्वक् मुस्ताकृतिः ॥
पर्य्यायाश्च-यथा ।
“कुटन्नटं दासपुरं बालेयं परिपेलवम् ।
प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि च ।
मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥ गुणा
श्चास्य वितुन्नकशब्दे ज्ञातव्याः ॥)

कुटन्नटः, पुं, (कुटन् सन् नटति । नट् + अच् ।)

श्योनाकवृक्षः । इत्यमरः । २ । ४ । ५७ ॥
(अस्य पर्य्याया यथा ।
“श्योनाकः शोषणश्च स्यान्नटकट्वङ्गटुण्टुकः ।
मण्डूकपर्णपत्रोणं शुकनासकुटन्नटाः ।
दीर्घवृन्तो रलुश्चापि पृथुशिम्वः कटम्भरः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ श्यो-
नाकशब्देऽस्य गुणाश्च बोद्धव्याः ॥)

कुटपः, पुं, (कुटात् विपज्जालात् पाति रक्षति । कुट्

+ पा + कः ।) मुनिः । निष्कुटः । गृहसमीपोपव-
नम् । (कुट + “उषिकुटिदलीति” । उणां ३ ।
१४२ । इति कपन् ।) मानभेदः । स तु कुडव-
परिमाणम् । इति हेमचन्द्रः ॥ कमले क्ली । इति
राजनिर्घण्टः ॥

कुटरं, क्ली, (कुट + बाहुलकात् करन् ।) कुठरः

मन्थानदण्डबन्धनस्तम्भः । इत्यमरटीकायां नील-
कण्ठः ॥

कुटरुः, पुं, (कुट + “कुटः किञ्च्च” । उणां ४ । ८० ।

इत्यरुः किञ्च ।) वस्त्रगृहम् । इत्युणादिकोषः ॥
कानात् तांवु इति भाषा ॥

कुटरुणा, स्त्री, (कुटेषु वृक्षेषु अरुणा । शकन्ध्वा-

दित्वात् साधुः ।) त्रिवृता । इति रत्नमाला ॥
तेउडी इति भाषा ॥

कुटलं, क्ली, (कुटति आच्छादयत्यनेन । कुट् + करणे

कलच् ।) पटलम् । इति हारावली ॥ चाल छाद
इति भाषा ॥

कुटहारिका, स्त्री, (कुटं कलशं हरति जलाद्यानय-

नार्थं गृह्णाति या । कुट + हृ + ण्वुल् टाप् इत्वं
च ।) दासी । इति हेमचन्द्रः ॥

कुटिः, स्त्री, (कुट्यते सञ्चीयते द्रव्यादिभिः असौ ।

कुट् + “कॄ गॄ शॄ पॄ कुटीति” । उणां ४ । १४२ ।
इति इः स च कित् ।) गृहम् । इत्यमरटीकायां
भरतः ॥

कुटिः, पुं, (कुठ्यते छिद्यते ऽसौ । कुट छेदने + “कुटि

कंप्योर्नलोपश्च” । उणां ४ । १४३ । इति इः ।
स च कित् । धातोर्नलोपश्च ।) वृक्षः । इति
शब्दरत्नावली ॥ शरीरम् । इति सिद्धान्तकौमु-
द्यामुणादिवृत्तिः ॥ (पर्व्वतः । इत्युज्ज्वलदत्तः ।
४ । १४३ ॥)

कुटिचरः, पुं, (कुटि कुटिलं जले चरतीति । कुटि +

पृष्ठ २/१३७
चर + टः ।) जलशूकरः । इति शब्दरत्नावली ॥
शुशुक् इति भाषा ॥

कुटितं, त्रि, (कुटं कौटिल्यं जातमस्य । कुट् + इतच्

किच्च ।) कुटिलम् । इत्युणादिकोषः ॥

कुटिरम्, क्ली, (कुट्यते निर्म्मीयते यत् । कुट् + इरन् ।)

कुटीरम् । लघुकुटी । इत्यमरटीकायां मरतः ॥

कुटिलं, त्रि, (कुट् वक्रीभावे + बाहुलकात् इलच् ।)

अनृजु । वाँका इति भाषा । तत्पर्य्यायः । अरालम्
२ वृजिनम् ३ जिह्मम् ४ ऊर्म्मिमत् ५ कुञ्चितम् ६
नतम् ७ आविद्धम् ८ भुग्नम् ९ वेल्लितम् १०
वक्रम् ११ । इत्यमरः । ३ । १ । ७१ ॥ मङ्गुरम् १२ ।
इति हेमचन्द्रः ॥ वेङ्कु १३ विनतम् १४ उन्दुरम्
१५ । इति शब्दरत्नावली ॥
(यथा, विष्णुपुराणे १ । ९ । २३ ।
“ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् ।
निरीक्ष्य कस्त्रिभुवने मम यो न गतो भयम्” ॥)
तगरपुष्पे क्ली । इति राजनिर्घण्टः ॥ (अस्य पर्य्याया
यथा, --
“कालानुशारिवा वक्रं तगरं कुटिलं शठम् ।
महोरगं नतं जिह्मं दीनं तगरपादिकम्” ॥
इति वैद्यकरत्नमालायाम् ॥ क्ली, छन्दोभेदः ॥)

कुटिला, स्त्री, (कुटति वक्रं व्रजतीति । कुट् + इलच्

+ स्त्रियां टाप् ।) नदीविशेषः । इति मेदिनी ॥
सरस्वती नदी । स्पृक्कानामगन्धद्रव्यम् । इति रा-
जनिर्घण्टः ॥ (राधिकाभर्तृभगिनी ॥ त्रि, अस-
रलम् ॥)

कुटी, स्त्री पुं, (कुटि + वा ङीप् ।) कुटः । गृहम् ।

इत्यमरः । २ । २ । ६ ॥ (यथा मनुः । ११ । ७२ ।
“ब्रह्महा द्वादशसमाः कुटीं कृत्वा वने वसेत्” ॥)

कुटी, स्त्री, कुम्भदासी । कुटिनी इति भाषा ॥ मुरा-

नामगन्धद्रव्यम् । चित्रगुच्छः । इति मेदिनी ॥

कुटीचकः, पुं, (कुट्या क्लेशेन पुत्त्रान्नेन चकते तृप्नोति ।

कुटी + चक् + अच् ।) पुत्त्रान्नजीवी । तत्पर्य्यायः ।
पुत्त्रान्नादः २ । इति त्रिकाण्डशेषः ॥ (कुट्यां
पर्णकुटीरे चकते तृप्नोति वसतीति । सन्न्यासि-
भेदः । स च कर्म्मनिष्ठः । यथा -- महाभारते
१३ । १४ अध्याये ।
“चतुर्व्विधा भिक्षवस्ते कुटीचकबहूदकौ ।
हंसः परमहंसश्च योऽत्र पश्चात् स उत्तमः” ॥)

कुटीचरकः, पुं, (कुट्यां चरति । कुटी + चर + टः

स्वार्थे कन् ।) यतिविशेषः । इति यतिधर्म्मसंग्रहः ॥

कुटीरः, पुं, (कुटी + स्वल्पार्थे रः ।) क्षुद्रगृहम् ।

कुँडे इति भाषा । तत्पर्य्यायः । स्वल्पवेश्म २ ।
इति जटाधरः ॥ (यथा, गीतगोविन्दे । १० । २८ ।
“ललित-लवङ्ग-लता-परिशीलन-कोमल-मलय-
समीरे । मधुकर-निकर-करम्बित-कोकिल-कूजि-
त-कुञ्ज-कुटीरे” ॥)

कुटुङ्गकः, पुं, (कुटुङ्ग + स्वार्थे कन् ।) वृक्षलतागह-

नम् । पिटः । डोल इति भाषा । छदिः । चाल
इति भाषा । इत्यमरटीकायां भरतः ॥ वृक्षलता ।
गृहभेदः । इत्यमरटीकासारसुन्दरी ॥ कुँडे इति
भाषा ॥

कुटुम्ब, क ङ धृत्याम् । इति कविकल्पद्रुमः । (चुरां-

आत्मं-अकं-सेट् ।) ओष्ठवर्गशेषोपधः । क ङ
कुटुम्बयते । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥

कुटुम्बः, पुं, (कुटुम्बयते पालयति । कुटुम्ब + अच । यद्वा

कुटुम्ब्यते पाल्यते सम्बध्यते वा । कुटुम्ब + कर्म्मणि
घञ् ।) नाम । ज्ञातिः । बान्धवः । सन्ततिः । इति
शब्दरत्नावली ॥ पोष्यवर्गः । इत्यमरमाला ॥
(यथा, मनुः । ११ । २२ ॥
“तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान्महीपतिः ।
श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत्” ॥)

कुटुम्बव्यापृतः, त्रि, (कुटुम्बभरणाय व्यापृतः नियुक्तः ।)

कुटुम्बपोषणासक्तः । तत्पर्य्यायः । अभ्यागारिकः २
उपाधिः ३ । इत्यमरः । ३ । १ । ११ ॥ (कुटुम्बेन
पुत्त्रदारादिपोष्यवर्गेण व्यापृतः संयुक्तः । बहु-
परिवारविशिष्टः पुरुषः ॥)

कुटुम्बिनी, स्त्री, (कुटुम्बः अतिशयेन अस्त्यस्याः ।

अस्त्यर्थे इनिः । ततो ङीप् ।) कुटुम्बविशिष्टा ।
पतिपुत्त्रदुहित्रादिमती प्रतिष्ठिता स्त्री । तत्प-
र्य्यायः । पुरन्ध्री २ । इत्यमरः । २ । ६ । ६ ॥
पुरन्ध्रिः ३ । इति भरतः ॥ पुरन्ध्रिका ४ । इति
शब्दरत्नावली ॥ (यथा रघुवंशे । ८ । ८६ ।
“अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवा-
पदत्तिभिः” ॥) क्षुद्रक्षुपविषेषः । तत्पर्य्यायः ।
पयस्या २ क्षीरिणी ३ जलकामुका ४ वक्रशल्या
५ दुराधर्षा ६ क्रूरकर्म्मा ७ सिरिण्टिका ८
शीता ९ प्रहरकुटुवी १० शीतला ११ जलेरुहा
१२ । अस्या गुणाः । मधुरत्वम् । ग्राहित्वम् ।
कफपित्तव्रणरक्तदोषकण्डूनाशित्वम् । रसायत्वञ्च ।
इति राजनिर्घण्टः ॥

कुटुम्बी, [न्] पुं, (कुटुम्बः अस्त्यस्य । अस्त्यर्थे इनिः ।)

गार्हस्थ्याश्रमविशिष्टः । तत्पर्य्यायः । गृही २
गृहमेधी ३ गृहस्थः ४ । इति जटाधरः ॥ (यथा,
कुमारे । ६ । ८ । ५ ।
“शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत ।
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्विनः” ॥)

कुटुम्बी [न्], त्रि, (कुटुम्बः पोष्यवर्गो ऽस्त्यस्य अस्त्यर्थे

इनिः ।) कृषकः । इति शब्दचन्द्रिका ॥ कुटुम्ब-
विशिष्टश्च ॥

कुटुम्बौकः, [स्] क्ली, (कुटुम्बानां ज्ञातिबान्धवानां

दार-पुत्त्रादीनां ओकः वासस्थानम् ।) कुटुम्बवास-
स्थानम् । इति जटाधरः ॥

कुट्ट, क कुत्सायाम् । छिदि । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) क कुट्टयति । इति दुर्गा-
दासः ॥

कुट्ट, क ङ प्रतापने । इति कविकल्पद्रुमः ॥ (चुरां--

आत्मं--सकं--सेट् ।) पञ्चमस्वरी । टद्वयान्तः । क ङ
कुट्टयते । एषोऽन्यैर्न मन्यते । इति दुर्गादासः ॥

कुट्टकः, पुं, (कुट्टकः भाज्यभाजकादिगणनं यत्र ।)

अङ्कविशेषः । तस्य सूत्रं यथा,
“भाज्यो हारः क्षेपकश्चापवर्त्यः
केनाप्यादौ संभवेत् कुट्टकार्थम् ।
येन च्छिन्नौ भाज्यहारौ न तेन
क्षेपश्चैतद्दुष्टमुद्दिष्टमेव” ॥
उदाहरणं यथा ।
“एकविंशतियुतं शतद्वयं
यद्गुणं गुणकपञ्चषष्टियुक् ।
पञ्चवर्जितशतद्वयोद्धृतं
शुद्धिमेति गुणकं वदाशु तम्” ॥
इति लीलावती ॥ (कुट्टयति उपलदन्तादिमिर्भि-
नत्ति छिनत्ति चूर्णयति वा । कुट्ट छेदे + ण्वुल् ।
छेदके, त्रि । यथा, याज्ञवल्क्यः । ३ । ४९ ।
“दन्तोलूखलिकः कालपक्वाशी वाश्मकुट्टकः” ॥)

कुट्टनं, क्ली, (कुट्टते इति । कुट्ट छेदने + भावे ल्युट् ।)

छेदनम् । कोटा इति भाषा । कुत्सनम् । प्रता-
पणम् ॥

कुट्टनी, स्त्री, (कुट्टयति छिनत्ति नाशयति स्त्रीणां

कुलमनया । कुट्ट + स्वार्थे णिच् ततः ल्युट् ङीप् ।
यद्वा कुट्ट्यते छिद्यते स्त्रीणां कुलं अनया । कुट्ट
छेदने + करणे ल्युट् ङीप् च ।) पुरुषेण सह
परस्त्रीयोगकर्त्री । कुट्नी इति भाषा । तत्प-
र्य्यायः । शम्भली २ । इत्यमरः । २ । ६ । १९ ॥
कुटुनी ३ सम्भली ४ । इति तट्टीका ॥ माधवी
५ रङ्गमाता ६ अर्ज्जुनी ७ । इति जटाधरः ॥
कुम्भदासी ८ गणेरुका ९ । इति शब्दरत्ना-
वली ॥ (यथा, हितोपदेशे । १ । २४३ ।
“तदालिङ्गनमवलोक्य समीपवर्त्तिनीं कुट्टन्यचि-
न्तयत्” ॥)

कुट्टमितं, क्ली, स्त्रीणां दशधाशृङ्गारचेष्टान्तर्गत-

चेष्टाविशेषः । स्त्रीणां स्वाभाविकदशालङ्कारान्त-
र्गतमिदम् । इति हेमचन्द्रः ॥ तस्य लक्षणं यथा,
साहित्यदर्पणे । ३ । १११ ।
“केशस्तनाधरादीनां यत्तु हर्षोऽपि सम्भ्रमात् ।
प्राहुः कुट्टमितं नाम शिरःकरविधूननम्” ॥

कुट्टारं, क्ली, (कुट्ट + आरन् ।) केवलम् । रतिः । इति

मेदिनी ॥ कम्बलम् । इति विश्वः ॥

कुट्टारः, पु, (कुट्टते भिद्यते हन्यते वाऽस्मिन् पतने-

नेति शेषः । कुट्ट + आरन् ।) पर्व्वतः । इति त्रि-
काण्डशेषः ॥

कुट्टिमः, पुं क्ली, (कुट्ट + भावे घञ् । तेन निर्वृत्तः

निष्पन्नः इत्यर्थे इमप् ।) मणिभूः । इत्यमर-
टीकायां भरतः ॥ (यथा रघुः ११ । ९ ।
“मम्लतुर्न मणिकुट्टिमोचितौ
मातृपार्श्वपरिवर्त्तिनाविव” ॥)
सुधाघटितभूतलम् । इति सुभूतिः ॥ कुटीरः ।
इति मथुरानाथः ॥ दाडिमवृक्षः । इति राज-
निर्घण्टः ॥

कुट्टिहारिका, स्त्री, (कुट्टते यत् । कुट्ट + इन् । कुट्टिं

मत्स्यमांसादिकं हरति । कुट्टि + हृ + ण्वुल्टाप्
अत इत्वं च ।) दासी । इति हलायुधः ॥

कुट्टीरः, पुं, (कुट्ट्यते ऽस्मिन् । कुट्ट + ईरन् ।) पर्व्वतः ।

इति हारावली ॥

कुद्मलं, क्ली, (कुट्टते नारकिभ्यो यन्त्वणा दीयते यत्र ।

कुट + “वृषादित्वात्” । उणां १ । १०८ । इति कलच्
तस्य मुट् च ।) नरकभेदः । इति मेदिनी ॥ यत्र
पृष्ठ २/१३८
रज्जुभिः पीडनम् । इति मनुः ॥

कुद्मलः, पुं, क्ली, (कुटति ईषत् विकासोन्मुखीभवतीति ।

कुटि + “वृषादिभ्यश्चित्” । उणां १ । १०८ । इति
क्मलच् ।) विकासोन्मुखप्रौढकलिका । ईषद्विक-
सिता कलिका । तत्पर्य्यायः । मुकुलः २ । इत्यमरः ॥
कोषः ३ । इति जटाधरः ॥ (यथा, माघे । २ । ७ ।
“द्योतितान्तः सभैः कुन्दकुद्मलाग्रदतः स्मितैः” ॥)

कुठ छिदि । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥

(भ्वां-परं-सकं-सेट् ।) कुठेरः कुठारः कुठाकुः ।
इति दुर्गादासः ॥

कुठ इ खोटने । वैकल्ये । आलस्ये । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-अकं-सेट्-इदित् ।) पञ्चमस्वरी ।
कर्म्भणि इ कुण्ठ्यते । वैकल्यं विकलीभावः ।
आलस्यं मन्दीभावः । कुण्ठति खञ्जः शोकार्त्तो
वृद्धो वा । इति दुर्गादासः ॥

कुठः, पुं, (कुठ्यते छिद्यतेऽसौ । कुठ छेदने + कर्म्मणि

घञर्थे कः ।) वृक्षः । इत्यमरः । २ । ४ । ५ ॥

कुठरः, पुं, (कुट + बाहुलकात् करन् ।) मन्थान-

दण्डबन्धनार्थस्तम्भः । तत्पर्य्यायः । दण्डविष्कम्भः
२ । इत्यमरः । २ । ९ । ७४ ॥ (नागविशेषः ।
(यथा, महाभारते १ । ३५ । १५ ।
“कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः” ॥

कुठाकुः, पुं, (कोठति आहन्ति भिनत्ति काष्ठम् ।

कुठ छेंदने + आकुन् किच्च ।) पक्षिविशेषः ।
इत्युणादिकोषः । काठ्ठोक्रा इति भाषा ॥

कुठाटङ्कः, पुं स्त्री, (कुठारष्टङ्क इव । पृषोदरादित्वात्

रलोपे साधुः ।) कुठारः । इति जटाधरः ॥

कुठारः, पुं स्त्री, (कोठतीत्यनेन । कुठ + करणे

आरन् ।) अस्त्रविशेषः । कुडाल इति भाषा ।
तत्पर्य्यायः । सुधितिः २ परशुः ३ परश्वधः ४ ।
इत्यमरः । २ । ८ । ९२ ॥ कुठारी ५ पर्शुः ६
परश्वधः ७ पर्श्वधः ८ । इति तट्टीका ॥ कुठाटङ्कः
९ द्रुघणः १० । इति जटाधरः ॥ (यथा,
श्रीमद्भागवते ३ । २५ । १२ ।
“तं त्वागताहं शरणं शरण्यं
स्वभृत्यसंसारतरोः कुठारम्” ॥)

कुठारः, पुं, (कुठ्यते छिद्यतेऽसौ । कुठ + कर्म्मणि

आरन् ।) वृक्षः । इति शब्दरत्नावली ॥

कुठारुः, पुं, (कुठ + आरु ।) वृक्षः । वानरः । इति

मेदिनी ॥ शस्त्रकारः । इति शब्दरत्नावली ॥

कुठिः, पुं, (कुठ + “कुठिकंप्योर्नलोपश्च” । उणां ४ ।

१४३ । इति इन् किच्च ।) पर्व्वतः । वृक्षः ।
इत्युणादिकोषः ॥

कुठिकः, पुं, (कुठ + इकन् किच्च ।) कुष्ठम् । इति

हारावली । कुड् इति भाषा ॥

कुठेरः, पुं, (कुण्ठति तापयति वैकल्यं करोति वा ।

कुठि खोठने वैकल्ये आलस्ये च + “पतिकठि-
कुठीति” । उणां १ । ५९ । इति एरक् बाहुल-
कात् नुमोऽभावः ।) अग्निः । इति शब्दमाला ॥
तुलसी । इत्युणादिकोषः ॥ अर्जकः । इति राज-
निर्घण्टः ॥ वर्वरी इति ख्यातः ।
(यथा, गोः रामायणे ३ । १७ । १० ।
“दाडिमान् करबीरांश्च अशोकांस्तिलकांस्तथा ।
अङ्कोटांश्च कुठेरांश्च नीलाशोकांश्च सर्व्वशः” ॥)

कुठेरकः, पुं, (कुठेर इव कायति प्रकाशते । कै + कः ।)

पर्णासः । इत्यमरः । २ । ४ । ७९ ॥ तुलसी इति
ख्यातः । श्वेतच्छदः । इति शब्दचन्द्रिका ॥ श्वेततुलसी
वाबुइ तुलसी इति च ख्यातः । (अस्य पर्य्यायाः ।
“अर्ज्जुकः श्वेतपर्णासो गन्धपुत्त्रः कुठेरकः” ।
इति वैद्यकरत्नमालायाम् । वर्व्वरी । एतदर्थे-
ऽस्य पर्य्याया यथा, -- मावप्रकाशस्य पूर्ब्बखण्डे
प्रथमभागे ।
“वर्व्वरी तुवरीतुङ्गी खरपुष्पाजगन्धिका ।
पर्णाशस्तत्र कृष्णे तु कठिल्लककुठेरकौ” ॥
गुणाश्चास्य वर्व्वरीशब्दे ज्ञेयाः ॥) नन्दीवृक्षः ।
इति राजनिर्घण्टः ॥

कुठेरजः, पुं, (कुठेर इव जायते । जन् + डः ।) कुठे-

रकः । श्वेततुलसी । इति शब्दरत्नावली ॥

कुठेरुः, पुं, (कुठ + एरुक् ।) चामरवातः । चाम-

रेर वातास इति माषा । तत्पर्य्यायः । मन्थरुः
२ । इति त्रिकाण्डशेषः ॥

कुड शि बाल्ये । अदने । इति कविकल्पद्रुमः ॥ (तुदां --

परं-अकं-सकञ्च-सेट् ।) एतदाद्याश्चत्वारः पञ्चम-
स्वरिणः । बाल्यमिह शिशुव्यापारः । शि कुडति
अकुडीत् सिताभिः शिशुः । इति दुर्गादासः ॥

कुड इ वैकल्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेत्-इदित् ।) इ कर्म्मणि कुण्ड्यते । कुण्डति
जनं दैवः विकलं करोतीत्यर्थः । इति दुर्गादासः ॥

कुड इ ङ दाहे । इति कविकल्पद्रुमः । (भ्वां-आत्मं-

सकं-सेट्-इदित् ।) इ कर्म्मणि कुण्ड्यते । ङ
कुण्डते इति दुर्गादासः ॥

कुड इ क रक्षे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट्-इदित् ।) इ क कुण्डयति । इति दुर्गा-
दासः ॥

कुडपः, पुं, (कुड + कपन् ।) कुडवपरिमाणम् । इत्थ-

मरटीकायां स्वामी ॥

कुडवः, पुं, (कुण्डति परिमाति अनेनास्मिन् वा । कुड

+ कवन् ।) परिमाणविशेषः । (यथा, आर्य्या-
सप्तशत्थाम् । १३० । “उपनीय कमलकुडवं
कथयति समयश्चिकित्सके हलिकः” ॥) स तु प्रस्थ-
चतुर्थांशः । इति लीलावती ॥ वैद्यकमते विप्र-
सृतपरिमाणम् । द्वात्रिंशत्तोलकमिति यावत् ।
तत्पर्य्यायः । अञ्जलिः २ अष्टमारम् ३ शरावार्द्धम्
४ । इति परिभाषा ॥ (यदुक्तं वैद्यकपरिभाषायाम् ॥
“रत्तिकादिषु मानेषु यावन्न कुडवो भवेत् ।
शुष्कद्रवार्द्रयोश्चापि तुल्यमानं प्रकीर्त्तितम्” ॥
“प्रसृतिभ्यामञ्जलिः स्यात् कुडवोऽर्द्धशरावकः ॥
अष्ठमानञ्च स ज्ञेयः” । इति शार्ङ्गधरस्य पूर्ब्ब-
खण्डे । १ अः ॥)

कुडहुञ्ची, स्त्री, (कुडी क्षुद्रा हुञ्ची कारवेल्ली ।) क्षुद्र-

कारवेल्ली । इति राजनिर्घण्टः ॥

कुडिः, पुं, (कुण्ड्यते दह्यते इति । कुडि दाहे + इन् ।)

शरीरम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कुडिशः, पुं, (कुड्यते भक्ष्यतेऽसौ । कुड अदने +

बाहुलकात् शः तत इट् ।) मत्स्यविशेषः । कुडचि
माच् इति भाषा । अस्य गुणाः । मधुरत्वम् ।
हृद्यत्वम् । कषायत्वम् । अग्निदीपनत्वम् । लघुत्वम् ।
स्निग्धत्वम् । वातरोगे पथ्यत्वम् । रोचनत्वम् ।
बलकोष्ठबन्धकारित्वञ्च । इति राजवल्लभः ॥

कुड्मलः, पुं, (कुड बाल्ये + “वृषादिभ्यश्चित्” ।

उणां १ । १०८ । इति कलच् कुडेरपि । मुट् च ।)
कुद्मलः । इत्यमरटीका सिद्धान्तकौमुदी च ॥

कुड्यं, क्ली, (कुडि + तत्र साधुरिति यत् । कौते-

रघ्न्यादित्वात् यक् डुगागमश्च इत्युज्ज्वलदत्तादयः ।)
भित्तिः । भित् देयाल इत्यादि भाषा । इत्यमरः ।
२ । २ । ४ ॥ (यथा, महाभारते १ । १४५ । १० ।
“सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया ।
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय” ॥)
विलेपनम् । इति मेदिनी ॥ कौतूहलम् । इति
शब्दरत्नावली ॥

कुड्यकं, क्ली, (कुड्य + स्वार्थे कन् ।) कुड्यम् । भित्तिः ।

इति शब्दरत्नावली ॥

कुड्यच्छेदी, [न्] पुं, (कुड्यं भित्तिं छिनत्ति विदार-

यतीति । कुड्य + छिद् + णिनिः ।) चौरविशेषः ।
इति शब्दरत्नावली ॥ सिँदेल चोर इति भाषा ॥

कुड्यच्छेद्यं, क्ली, (कुड्यस्थितं कुड्यस्य वा छेद्यम् ।)

खानिकम् । इति त्रिकाण्डशेषः । देयालेर गर्त्त
इति भाषा ॥

कुड्यमत्सी, स्त्री, (कुड्ये मस्ती इव । मत्स्य + जाति-

त्वात् ङीष् यलोपः ।) गृहगोधिका । इति शब्द-
रत्नावली ॥

कुड्यमत्स्यः, पुं, (कुड्ये मत्स्य इव ।) गृहगोधिका ।

इति हेमचन्द्रः ॥

कुण त् क आभाषे । मन्त्रे । इति कविकल्पद्रमः ॥

(अदन्त-चुरां-परं-सकं-सेट् ।) ह्रस्वो मूर्द्धन्योपधः ।
कुणयति । मन्त्रोऽभिमुखीकरणम् । गुप्तोक्तिरि-
त्येके । इति दुर्गादासः ॥

कुण श उपकरणे । शब्दे । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-सेट् ।) उपकरणं दानादिना
पोषणम् । श कुणति दीनं दयालुः । कोणिता ।
इति दुर्गादासः ॥

कुणञ्जरः, पुं, (कुणं भुक्तान्नादिकं जरयति । कुण + जॄ

+ बाहुलकात् खच् ।) वृक्षविशेषः । वनवेतुया
इति भाषा । तत्पर्य्यायः । कुणञ्जा २ कृणञ्जः ३
अरण्यवास्तूकः ४ । अस्य गुणाः । मधुरत्वम् ।
रुचिकारित्वम् । दीपनत्वम् । पाचनत्वम् । हित-
त्वञ्च । एतच्छाकगुणाः । त्रिदोषनाशित्वम् ।
मधुरत्वम् । रुचिकारित्वम् । दीपनत्वम् । ईष-
त्कषायत्वम् । संग्राहित्वम् । पित्तश्लेष्महरत्वम् ।
लघुत्वञ्च । इति राजनिर्घण्टः ॥

कुणपः, पुं, (क्वणेः + कपन् सम्प्रसारणञ्च ।) शवम् ।

मृतशरीरम् । इत्यमरः । २ । ८ । ११८ ॥ (यथा,
महाभारते १४ । ६ । २२-२३ ।
नारद उवाच ।
“उन्मत्तवेशं बिभ्रत् स चंक्रमीति यथासुखम्
वाराणस्यां महाराज ! दर्शनेप्सुर्महेश्वरम् ॥
पृष्ठ २/१३९
तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् ।
तं दृष्ट्वा यो निवर्त्तेत स सम्बर्त्तो महीपते !” ॥)
एतदर्थे नपुंसकलिङ्गोऽपीति नयनानन्दः ॥ पूति-
गन्धिः । इति मेदिनी ॥ अस्त्रविशेषः । वडशा
इति भाषा । इत्यमरटीकायां रायमुकुटः ॥ पूति-
गन्धौ त्रिलिङ्गोऽपि यथा, --
“कुणपं मस्तुलुङ्गाभं सुगन्धं क्वथितं बहु” ॥
इति माधवकरः ॥ (रोगविशेषः । यथा ॥ “कुण-
पञ्चास्रपित्ताभ्याम्” । इति शार्ङ्गधरे मध्यखण्डे ।
१ अध्यायः ॥)

कुणपी, स्त्री, (कुणप + गौरादित्वात् ङीष् ।) विट्-

शारिका । इति मेदिनी ॥ गयेशालिक इति
भाषा ॥

कुणलः, पुं, (क्वण + “पीयुक्वणिभ्यामिति” उणां ३ ।

७६ । इति । कालन् । सम्प्रसारणञ्च ।) देशभेदः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (अशोक-
राजपुत्त्रेष्वेकः । स च बौद्धः ॥)

कुणिः पुं, (कुण + इन् ।) तुन्नवृक्षः । इत्यमरमेदिनी-

करौ ॥ तुँद् इति भाषा । (शरीरस्य स्थानविशेषः ।
“कक्षाक्षमध्ये कक्षाधृक् कुणित्वं तत्र जायते” ॥
इति वाभटे शारीरस्थाने ४ अध्याये ॥)

कुणिः, त्रि, (कुण + इन् ।) कुकरः । इति मेदिनी ॥

कोपा इति भाषा ॥ (यथा, सुश्रुते ।
“गर्भवातप्रकोपेण दोहदे चावमानिते ।
भवेत् कुब्जः कुणिः पङ्गुः” इति ॥)

कुणिन्दः, पुं, (कुण शब्दे + “कुणिपुल्योः किन्दच्” ।

उणां ४ । ८५ । इति किन्दच् ।) शब्दः । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

कुण्टकः, त्रि, (कुटि + ण्वुल् ।) स्थूलः । इति शब्द-

माला । मोटा इति भाषा ॥

कुण्ठः, त्रि, (कुण्ठति क्रियासु मन्दीभूतो भवति ।

कुठि + अच् ।) क्रियासु मन्दः । अकर्म्मण्यः । इत्य-
मरः । २ । १ । १७ ॥
(यथा, शङ्करकविकृते विष्णुस्तोत्रे ३४ ।
“वैकुण्ठीये ऽत्रकण्ठे वसतु मम मतिः कुण्ठभावं
विहाय” ॥) मूर्खः । इति मेदिनी ॥

कुण्ठकः, त्रि, (कुण्ठति कुण्ठयति वा आत्मानं जडी-

भूतं करोति । कुठि + ण्वुल् ।) मूर्खः । इति शब्द-
माला ॥

कुण्ठितः, त्रि, (कुठि + कर्त्तरि क्तः ।) सङ्कुचितः ।

यथा । “दशवदनभुजानां कुण्ठिता यत्र शक्तिः” ॥
इति महानाटकम् ॥

कुण्डं, क्ली, (कुणतीति । “ञमन्तात् डः” । उणां

१ । ११३ । इति डः ।) मानभेदः । (कुण्ड्यते
रक्ष्यते जलं यत्र । कुडि + अधिकरणे अप् ।)
देवजलाशयः । इति मेदिनी ॥ जलाधारविशेषः ।
चौवाच्चा इति भाषा ॥
तज्जलगुणाः । अग्निकफकारित्वम् । रूक्षत्वम् ।
मधुरत्वम् । लघुत्वञ्च । इति राजनिर्घण्टः ॥ कफा-
जनकत्वम् । इति राजवल्लभः ॥ * ॥ (पात्रविशेषः ।
यथा, रघौ १ । ८४ ।
“भुवं कोष्णेण कुण्डोध्नी मेध्येनावभृतादपि” ॥)
होमीयाग्न्यालयः । तत्तु प्रायश्चतुर्हस्तमितं भवति
तस्य विधिः । तत्र मत्स्यपुराणम् ।
“प्रागुदक्प्लवनां भूमिं कारयेद्यत्नतो नरः” ॥
प्रागुदक्प्लवनां पूर्ब्बनीचां उत्तरनीचां वा ॥
तत्र वशिष्ठपञ्चरात्रे विज्ञानललितायाञ्च ।
“सर्व्वाधिकारिकं कुण्डं चतुरस्रन्तु सर्व्वदम्” ।
चतुरस्रं चतुष्कोणम् ॥ भविष्योत्तरम् ।
“सहस्रे त्वथ होतव्ये कुर्य्यात् कुण्डं करात्मकम् ।
द्विहस्तमयुते तच्च लक्षहोमे चतुष्करम्” ॥
द्विहस्तादिके यामलः ।
“पूर्ब्बपूर्ब्बस्य कुण्डस्य कोणसूत्रेण निर्म्मितम् ।
उत्तरोत्तरकुण्डानां मानं तत्परिकीर्त्तितम्” ॥
पूर्ब्बपूर्ब्बस्य कुण्डस्य हस्तद्विहस्तादिमितस्य कोण-
सूत्रेण ईशानान्निरृतिकोणदत्तसूत्रेण परिमितं
यन्मानं उत्तरोत्तरकुण्डानां तदेव पारिभाषिकं
द्विहस्तादिमानं न तु प्रकृतहस्तद्वैगुण्यादिमितम् ।
तथात्वे द्विहस्तादिमितस्य चतुर्हस्तपरिमाणा-
पत्तेः । कृषकस्य भूमेः परिमाणवत् ॥
वशिष्ठपञ्चरात्रे ।
“यावान् कुण्डस्य विस्तारः खननं तावदिष्यते ।
हस्तैके मेखलास्तिस्रो वेदाग्निनयनाङ्गुलाः ॥
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः ।
चतुर्हस्ते तु कुण्डे ता वसुतर्कयुगाङ्गुलाः” ॥
मेखला ब्रह्मचारिमेखलावत् कुण्डवेष्टिता मृद्घ-
टिताः । ताश्च खातदेशाद्वाह्ये एकाङ्गुलरूपं कण्ठं
परित्यज्य उच्छ्रायेण विस्तारेण चेत्यादिक्रमेण
वेदाद्यङ्गुलाः । एतद्विपरीतास्तन्त्रान्तरोक्ता व्यव-
हारविरुद्धाः । वेदाश्चत्वारः अग्नयस्त्रयः नयने द्वे
रसाः षट् गुणास्त्रयः वसुतर्कयुगानि अष्टषट्-
चत्वारि ॥ पिङ्गलामते ।
“खातादेकाङ्गुलं त्यक्त्वा मेखलानां विधिर्भवेत्” ॥
एककुण्डस्य पश्चिमदिक्कर्त्तव्यतामाह महादा-
ननिर्णये वशिष्ठपञ्चरात्रम् ।
“भुक्तौ मुक्तौ तथा पुष्टौ जीर्णोद्धारे तथैव च ।
सदा होमे सदा शान्तावेकं वारुणदिग्गतम्” ॥
शारदातिलके ।
“होतुरग्र योनिरासामुपर्य्यश्वत्थपत्रवत् ।
मुष्ट्यरत्न्येकहस्तानां कुण्डानां योनिरीरिता ॥
षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशालिनी ।
एकाङ्गुलन्तु योन्यग्रं कुर्य्यादीषदधोमुखम् ॥
एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयक्रमेणैव योन्यग्रमपि वर्द्धयेत् ॥
स्थलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रकम्” ॥
आसां मेखलानां अश्वत्थपत्रवदित्यनेन चतुरङ्गुल-
विस्तृतमूलात् यथोक्तक्रमेण एकाङ्गुलान्तःसंकु-
चितविस्तारा ॥ यामले ।
“नालमेखलयोर्म्मध्ये परिधेः स्थापनाय च ।
रग्ध्रं कुर्य्यात्तथा विद्वान् द्वितीयमेखलोपरि” ॥
परिधीं स्तद्विन्यासानाह छन्दोगपरिशिष्टे ।
“बाहुमात्राः परिधय ऋजवः सत्वचोऽव्रणाः ।
त्रयो भवन्त्यशीर्णाग्रा एकेषान्तु चतुर्द्दिशम् ॥
प्रागग्रावभितः पश्चादुदगग्रमथापरम् ।
न्यसेत् परिधिमन्यश्चेदुदगग्रः स पूर्ब्बतः” ॥
अव्रणाः छिद्ररहिताः अभितोऽग्नेः पार्श्वद्वये
दक्षिणतः उत्तरतः पश्चात् पश्चिमे उदगग्रं उत्तरा-
ग्रम् ॥ त्रैलोक्यसारेऽपि ।
“कुम्भद्वयसमायुक्ता अश्वत्थदलवन्नता ।
अङ्गुष्ठमेखलायुक्ता मध्ये त्वाज्यस्थितिर्यथा” ॥
कुम्भद्वयसमायुक्ता गजकुम्भाकारमूलदेशयुक्ता
नता नम्रा अङ्गुष्ठमितमृद्घटितमेखलावेष्टनयुक्ता
तथात्वे हस्तगलिताज्यस्थित्या कुण्डे तत्पातो भव-
तीत्यर्थः ॥ पञ्चरात्रे ।
“कल्पयेदन्तरे नाभिं कुण्डस्याम्बुजसन्निमाम् ।
मुष्ट्यरत्न्येकहस्तानां नाभिरुत्सेधविस्तृता ॥
नेत्रवेदाङ्गुलोपेता कुण्डेष्वन्येषु वर्द्धयेत् ।
यवद्वयक्रमेणैव नाभिं पृथगुदारधीः ॥
नाभिक्षेत्रं त्रिधा कृत्वा मध्ये कुर्व्वीत कर्णिकाम् ।
वहिरंशद्वये नाष्टौ पत्राणि परिकल्पयेत्” ॥ * ॥
तत्र कुण्डस्य दोषानाह विश्वकर्म्मा ।
“खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ।
वक्रकुण्डेच सन्तापो मरणं छिन्नमेखले ॥
मेखलारहिते शोको ह्यधिके वित्तसंक्षयः ।
भार्य्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम् ॥
अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितम्” ॥
अत एव वशिष्ठसंहितायाम् ।
“तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् ।
हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्म्मणि” ॥
इति तिथ्यादितत्त्वम् ॥

कुण्डं, क्ली स्त्री, (कुण्ड्यते रक्ष्यते मक्ष्यादि अस्मिन् ।

कुडि रक्षणे + अच् ।) स्थाली । इत्यमरभरतौ ।

कुण्डः, पुं, (कुण्ड्यते दह्यते कुलं अनेन । कुडि-दाहे

+ करणे-घञ् ।) अमृते भर्त्तरि जारजः । जीवति
भर्त्तरि उपपतिजातः । इत्यमरः । २ । ६ । ३६ ॥
स्वामी वाँचिया थाकिते उपपतिजात विजन्म
सन्तान इति भाषा ॥ (यथा मनुः ३ । १७४ ।
“पत्यौ जीवति कुण्डः स्यान्मृते भर्त्तरि गोलकः” ॥
सर्पविशेषः । यथा महाभारते । १ । १२३ । ६८ ।
“कच्छपश्चाथ कुण्डश्च तक्षकश्च महोरगः” ॥)

कुण्डकीटः, पुं, (कुण्डे नरककुण्डे स्थितः कीट इव

चार्व्वाकसंसृष्टत्वात् ।) चार्व्वाकवचनाभिज्ञपुरुषः ।
पतितब्राह्मणीपुत्त्रः ॥ (कुण्डे योनिकुण्डे कीट-
इव ।) दासीकामुकः । इति मेदिनी ॥

कुण्डगोलकं, क्ली, (कुण्डे पात्रविशेषे गोलं गोलाकारं

कं जलं अत्र ।) काञ्जिकम् । इति हेमचन्द्रः ॥
(काञ्जी इति भाषा ॥ * ॥ कुण्डश्च गोलकश्च इति
द्वन्देकृते कुण्डगोलकौ । यथा मनुः । ३ । १७४ ।
“परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यात् मृते भर्त्तरि गोलकः” ॥)

कुण्डङ्गः, पुं, (कुण्डं तदाकारं गच्छति । गम +

बाहुलकात् खः डिच्च ।) कुञ्जम् । वृक्षच्छादि-
तस्थानम् । इति हेमचन्द्रः ॥

कुण्डपाय्यः, पुं, (कुण्डैः चमसैः पीयतेऽत्र सोमः । कुण्ड

+ पा + अधिकरणे यत् युगागमश्च निपात्थते ।)
क्रतुः । इति मुग्धबोधम् ॥
पृष्ठ २/१४०

कुण्डलं, क्ली, (कुण्ड्यते रक्ष्यते इति कुडि रक्षायां

+ वृषादित्वात् कलच् । यद्वा कुण्डं तदाकारं
लाति गृह्णातीति । ला + कः ।) स्वनामख्यात-
कर्णभूषणम् । (यथा विष्णुध्याने ।
“ध्येयः सदा सवितृमण्डलमध्यवर्त्ती
नारायणः सरसिजासनसन्निविष्टः
केयूरवान् कनककुण्डलवान् किरीटी” ॥)
तत्पर्य्यायः । कर्णवेष्टनम् २ । इत्यमरः । २ । ६ । १०३ ।
पाशः । वलयः । इति मेदिनी ॥ (पुं, कौरव्यकुलज-
सर्पविशेषः । यथा महाभारते १ । ५७ । १३ ।
“एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।
बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ ।
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्” ॥
पुंलिङ्गे ऽस्य रक्तकाञ्चनवाचकता उक्ता । यथा,
वैद्यकरत्नमालायाम् ।
“रक्तपुष्पः कोविदारो युग्मपत्रस्तु कुण्डलः” ॥)

कुण्डलिनी, स्त्री, (कुण्डलिन् + स्त्रियां ङीप् ।) कुल-

कुण्डलिनी शक्तिः । यथा, --
“ध्यायेत् कुण्डलिनीं सूक्ष्मां मूलाधारनिवासिनीम् ।
तामिष्टदेवतारूपां सार्द्धत्रिवलयान्विताम् ॥
कोटिसौदामिनीमासां स्वयम्भूलिङ्गवेष्टिनीम् ।
तामुत्थाप्य महादेवीं प्राणमन्त्रेण साधकः ॥
उद्यद्दिनकरोद्योतां यावच्छ्वासं दृढासनः ।
अशेषाशुभशान्त्यर्थं समाहितमनाश्चिरम् ।
तत्प्रभापटलव्याप्तं शरीरमपि चिन्तयेत्” ॥
इति तन्त्रसारः ॥ * ॥
गुडूची । इति राजनिर्घण्टः ॥ मिष्टान्नविशेषः ।
जिलिपी इति भाषा । तस्य पाकप्रकारो यथा ।
“नूतनं घटमानीय तस्यान्तः कुशलो जनः ।
प्रस्थार्द्धपरिमाणेन दध्यम्लेन प्रलेपयेत् ॥
द्विप्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् ।
घृतमर्द्धशरावञ्च घोलयित्वा घटे क्षिपेतू ॥
आतपे स्थापयेत्तावद्यावद्याति तदम्लताम् ।
तां सुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे ॥
कर्पूरादिसुगन्धे च स्लपयित्वोद्धरेत्ततः” ॥
अस्या गुणाः ।
“एषा कुण्डलिनी नाम्ना पुष्टिकान्तिबलप्रदा ।
धातुवृद्धिकरी वृष्या रुच्या चेन्द्रियतर्पणी” ॥
इति भावप्रकाशः ॥

कुण्डली, स्त्री, (कुण्डल + जातौ ङीष् ।) मिष्टान्न-

विशेषः । जिलिपी इति भाषा । इति पाकराजे-
श्वरः ॥ * ॥ कुलकुण्डलिनी शक्तिः । यथा, --
“त्रिकोणं तत्तु विज्ञेयं शक्तिपीठं मनोहरम् ।
तद्गह्वरे कामवायुर्जीवरूपोऽतिचञ्चलः ॥
अधोमुखस्तत्र लिङ्गः स्वयम्भुस्तेन चाल्यते ॥
नीवारशूकवत्तन्वी कुण्डली परदेवता ॥
शङ्खतुल्यनिभा देवी सार्द्धत्रिवलयान्विता ।
मुखेनाच्छाद्य ब्रह्मास्यं तया संवेष्टितः प्रभुः ॥
डाकिनी ह्यत्र वसति द्वारपाली सयष्टिका ।
यः साधकोऽत्र रमते स दिव्यो नैव मानुषः” ॥
इति सम्भोहनतन्त्रम् ॥ (अस्याः पर्य्याया यथा,
हठयोगदीपिकायाम् । ३ । १०४ ॥ कुटिलाङ्गी २
कुण्डलिनी ३ भुजङ्गी ४ शक्तिः ५ ईश्वरी ६ अरु-
न्धती ७ ॥) गुडूची । काञ्चनवृक्षः । इति मेदिनी ।
(अस्याः पर्य्याया यथा, --
“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।
कुण्डलीताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥)
कपिकच्छुः । सर्पिणीवृक्षः । इति राजनिर्घण्टः ॥

कुण्डली, [न्] पुं, (कुण्डलं अस्त्यस्य इति इनिः ।

कुण्डलाकारेण स्थितेरस्य तथात्वम् ।) सर्पः । इत्य-
मरः । १ । ८ । ७ ॥ वरुणः । (कुण्डलं कुण्डलवदा-
कारं शरीरे अस्त्यस्य ।) मयूरः । इति मेदिनी ॥
चित्तलमृगः । इत्यजयपालः । (विष्णुः । यथा,
महाभारते १३ । १४९ । ११० ।
“अरौद्रः कुण्डली चक्री विक्रम्यूर्ज्जितशासनः” ॥)
कुण्डलयुक्ते, त्रि । इति मेदिनी । (यथा गोः रामा-
यणे । ३ । ९ । ११ ।
“इमे च पुरुषा दिव्या यान्त्यस्य रथमन्तिकात् ।
परं शुभाः कुण्डलिनो युवानः खङ्गपाणयः” ॥)

कुण्डाशी, [न्] त्रि, (कुण्डं योनिकुण्डं तदुप-

लक्षीकृत्य अश्नाति जीवनयात्रां यापयतीति ।
कुण्ड + अश् + णिनिः ।) भगभक्षकः । कोट्ना
इति भाषा । इति महाभारते दानधर्म्मः । (कुण्ड-
स्य जारजातस्य अन्नं अश्नातीति ।) कुण्डान्नभोजी ।
तस्य नरको यथा, --
“रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा ।
सूची माहिषकश्चैव पर्व्वकारी च यो द्विजः ॥
आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः ।
रुधिरान्धे पतन्त्येते सोमं विक्रीणते च ये” ॥
इति विष्णुपुराणे । २ । ६ । २०, २१ ॥ “रङ्गो-
पजीवी नटमल्लादिवृत्तिः । कैवर्त्तः धीवरवृत्तिः
पत्यौ जीवति जाराज्जातः कुण्डः तदन्नभोजी
कुण्डाशी । सूची पिशुनः । माहिषो महिषोप-
जीवी । यद्वा ।
‘महिषीत्युच्यते भार्य्याभगेनोपार्ज्जितं धनम् ।
उपजीवति यस्तस्याः स वै माहिषकः स्मृतः’ ॥
इति स्मृतिप्रोक्तः । पव्वकारी धनादिलोभेना-
पर्व्वसु अमावस्यादिक्रियाप्रवर्त्तकः । पर्व्वगामीति
पाठे पर्व्वसु स्त्रीगामी । शाकुनिः पक्षिजीवी ।
शुभनिमित्तशकुनोपजीवी वा । ग्रामयाजकः ग्रा-
मार्थे यज्वा” । इति तट्टीकायां श्रीधरस्वामी ॥
(धृतराष्ट्रपुत्त्रः । यथा महामारते । १ । ११७ । १३ ।
“कुण्डाशी विरजाश्चैव दुःशला च शताधिका” ॥)

कुण्डिका, स्त्री, (कुण्ड + स्वार्थे कन् टाप् अत इत्वं

च ।) कमण्डलुः । इति हेमचन्द्रः ॥ पिठरः । इति
शब्दचन्द्रिका । कुँडि इति भाषा ॥ (ताम्रकुण्डम् ।
स्थाली । सामवेदान्तर्गत उपनिषद्विशेषः । यथा,
मुक्तिकोपनिषदि ।
“अव्यक्तैकाक्षरं पूर्णा सूर्य्याक्ष्यध्यात्मकुण्डिका” ॥)

कुण्डिनं, क्ली, विदर्भनगरम् । इति हेमचन्द्रः ।

(यथा, हरिवशे ।
“कुण्डिने पुण्डरीकाक्ष ! भोजपुत्त्रस्य शासनात्” ॥)

कुण्डिनः, पुं, (कुडि रक्षायां दाहे च “बहुलमन्य-

त्रापि” । उणां । २ । ४९ । इति इनच् ।) मुनि-
विशेषः । इत्युणादिकोषः । (यथा, आश्वलायने ।
“कुण्डिनानां वाशिष्ठमैत्रावरुणकौण्डिन्येति” ॥
कुरुवंशीयनृपभेदः । स च घृतराष्ट्रस्य पुत्त्रः ।
यथा महाभारते १ । ९४ । ५६ ।
“हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः” ॥)

कुण्डी, स्त्री, (कुडि + इन् । ततो वा ङीप् । कुण्ड +

संज्ञायां वा ङीष् ।) कमण्डलुः । इत्यमरः । २ ।
७ । ४६ ॥ स्थाली । इत्यमरटीकायां भरतः ॥

कुण्डीरः, पुं, (कुण्ड्यते दह्यते संसारानलसन्तापेन ।

कुडि + ईरन् ।) मनुष्यः । (कुण्ड्यते रक्ष्यते दुर्ब्ब-
लो येन ।) बलवति त्रि । इति धरणी ॥

कुत् आस्तृतौ । सौत्रधातुरयम् । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-सकं-सेट् ।) कुतपः । इति दुर्गा-
दासः ॥ कुत् अपस्त्यः कुतपः कालविशेषः । कृत्ति-
रचितस्नेहपात्रञ्च । इति केचित् ॥

कुतः, [स्] व्य, प्रश्नः । पञ्चम्यर्थः । निह्नवः । इति

विश्वः । (यथा, विष्णुपुराणे । १ । १९ । ३७ ।
“सर्व्वभूतात्मके तात ! जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः” ॥)

कुतनुः, पुं, (कुत्सिता तनुर्यस्य । पिङ्गलनेत्रत्वात् तथा-

त्वम् ।) कुवेरः । इति त्रिकाण्डशेषः ॥ (त्रि,
कुत्सितशरीरः । इति व्युत्पत्तिलब्धोऽर्थः ॥)

कुतपः, पुं क्ली, अह्नोऽष्टमोऽंशः । दिवसस्याष्टमो

मूहूर्त्तः । यथा, --
“अह्नो मुहूर्त्ता विख्याता दश पञ्च च सर्व्वदा ।
तत्राष्टमो मुहूर्त्तो यः स कालः कुतपः स्मृतः” ॥
इति श्राद्ध्वतत्त्वे मत्स्यपुराणवचनम् ॥ * ॥ पारि-
भाषिककुतपा यथा, --
“मध्याह्नः खङ्गपात्रञ्च तथा नेपालकम्बलः ।
रौप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥
पापं कुत्सितमित्याहुस्तस्य सन्तापकारिणः ।
अष्टावेते यतस्तस्मात् कुतपा इति विश्रुताः” ॥
इति मिताक्षरायामाचाराध्यायः ॥ स च त्रिंश-
द्दण्डदिनमाने द्वितीहप्रहरशेषदण्डावधि तृतीय-
प्रहरप्रथमदण्डपर्य्यन्तकालः । इत्यमरः । २ । ७ । ३१ ॥
स तु एकोद्दिष्टश्राद्धारम्भकालः । यथा, --
“आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत्” ॥
इति श्राद्धतत्त्वम् ॥
“दिवसस्याष्टमे भागे मन्दीमवति भास्करः ।
स कालः कुतपो ज्ञेयः पितॄणामन्नमक्षयम्” ॥
इति शातातपः ॥ * ॥ दौहित्रः । वाद्यम् । छाग-
लोमजकम्बलम् । कुशतृणम् । इति मेदिनी ॥

कुतपः, पुं, (कुत्सितं पापं तपति कुं भूमिं तपति वा ।

तप + अच् । कुत् + कपन् वा ।) सूर्य्यः । वैश्वा-
नरः । द्विजन्मा । अतिथिः । गौः । भागिनेयः ।
इति हेमचन्द्रः ॥

कुतुकं, क्ली, (कुत् + बाहुलकात् उकञ् ।) कौतु-

कम् । इत्यमरः । १ । ७ । ३१ ॥ (यथा, गुमानि-
कविकृतोपदेशशतके । १०२ ।
“कुतुकाय कोविदानां मूढमतीनां महोपकाराय ।
पृष्ठ २/१४१
निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम्” ॥)

कुतुपं, क्ली पुं, (कुतप + पृषोदरादित्वात् साधुः ।)

कुतषः । दिनस्याष्टममुहूर्त्तः । इति शब्दरत्नावली ॥

कुतुपः, पुं, (ह्रस्वा कुतुः ततो डुप् च । ततः पृषोद-

रात् अकारागमे साधुः ।) चर्म्मनिर्म्मिताल्प-
स्नेहपात्रम् । इत्यमरः । २ । ९ । ३३ ॥ छोट कुपो
इति भाषा ॥

कुतूः, स्त्री, (कुत्सितं तन्यते । तन् बाहुलकात् कूः ।

टिलोपश्च ।) चर्म्मनिर्म्मितस्नेहपात्रम् । इत्यमरः ।
२ । ९ । ३३ ॥ मसक इति कुपो इति च भाषा ॥

कुतूणकः, पुं, (कु ईषत् तूणयति सङ्कोचयति चक्षुः यः ।

कु + तूण सङ्कोचे + ण्वुल् ।) बालरोगविशेषः ।
स तु नेत्ररोगः । कतुया इति भाषा । तस्य लक्ष-
णम् ॥
“कुतूणकः क्षीरदोषाच्छिशूनामेव वर्त्मनि ।
जायते तेन तन्नेत्रं कण्डूरञ्च स्रवेन्मुहुः ॥
शिशुः कुर्य्याल्ललाटाक्षिकूटनासावघर्षणम् ।
शक्तो नार्कप्रभां द्रष्टुं न वर्त्मोन्मीलनक्षमः” ॥
इति माधवकरः ॥ कुकूणक इत्यपि पाटः ॥
(यथा, --
“कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः ॥
स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः ।
स वर्त्मशूलपैच्छिल्यकर्णनासाक्षिमर्द्दनः” ॥
इत्युत्तरतन्त्रे ८ अध्याये वाभटेनोक्तम् ॥ * ॥
चिकित्सा यथा ॥
“शुण्ठी भृङ्गनिशाकल्कः पुटपाकः ससैन्धवः ।
कुकूणकेऽक्षिरोगेषु भद्रमाश्च्योतनं हितम् ॥
क्रिमिघ्नालशिलादार्व्वी लाक्षाकाञ्जिकगैरिकैः ।
चूर्णाञ्जनं कुकूणे स्याच्छिशूनां पोथकीषु च ।
सुदर्शनामूलचूर्णादञ्जनं स्यात् कुकूणके” ॥
इति वैद्यकचक्रपाणिसंग्रहे बालरोगाधिकारे ॥)

कुतूहलं, क्ली, (कुतूं चर्म्ममयतैलादिपात्रबत् अन्त-

र्हलति सोत्सुकं करोति । हल् + अच् ।) अपूर्ब्ब-
बस्तुदिदृक्षाद्यतिशयः । तत्पर्य्यायः ।
कौतूहलम् २ कौतुकः ३ कुतुकम् ४ । इत्यमरः ।
१ । ७ । ३१ ॥ चित्रम् ५ । इति शब्दरत्नावली ।
(यथा, नैषधे । १ । ११९ ।
“प्रियावियोगाद्विधुरोऽपि निभर
कुतूहलाक्रान्तमना मनागभूत्” ॥
नायकालङ्कारविशेषः । तल्लक्षणं यथा साहित्य-
दर्पणे । ३ । ११९ ।
“रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम्” ॥)

कुतूहलः, त्रि, प्रशस्तः । अद्भुतः । इति हेमचन्द्रः ॥

कुतृणं, क्ली, (कुत्सितं तृणमिव ।) कुम्भी । इति हारा

वली । पाना इति भाषा ॥ (कुम्भिकाशब्दे ऽस्य
विष्टतिर्ज्ञेया ॥)

कुत्र, व्य, (“सप्तम्यास्त्रल्” । ५ । ३ । १० । इति

त्रल् ।) कस्मिन् इति व्याकरणम् । कोथाय इति
भाषा ॥ (यथा, माहानाटके ।
“हा ! सीता केन नीता मम हृदयगता केन वा
कुत्र दृष्टा” ॥)

कुत्रचित्, व्य, (कुत्र च चित् च इति द्वन्द्वसमासः ।

मुग्धबोधमते “किमः क्त्यन्ताच्चिच्चनौ” । इति-
चित् ।) कोनखाने इति भाषा । इति व्याकरणम् ।
(यथा महाभारते । ३ । १४२ । ५३ ।
“असुरेभ्यो भयं नास्ति युष्माकं कुत्रचित् क्वचित्” ॥)

कुत्स ङ क ञ अवक्षेपे । इति कविकल्पद्रुमः ॥ चुरां--

आत्मं--उभञ्च--सकं--सेट् ।) पञ्चमस्वरी । दन्त्यवर्गा-
द्योपधः । अवक्षेपो निन्दा । ङ क, यो न कुत्सयते
कुत्स्यमिति हलायुधः ॥ ञ, कुत्सयति कुत्सयते ।
अयमात्मनेपदीत्यन्ये । कदाचित् परस्मैपदार्थो
ञकारः । इति दुर्गादासः ॥

कुत्सनं, क्ली, (कुत्स् + भावे ल्युट् ।) निन्दनम् । इति

शब्दरत्नावली ॥ (यथा मनौ ४ । १६३ ।
“नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम्” ॥
कुत्स्यते निन्द्यतेऽनेन । करणे ल्युट् । निन्दासा-
धनधर्म्मः । त्रि कुत्सायुक्तः ॥)

कुत्सला, स्त्री, (कुत्सं क्रयविक्रययोर्निषिद्धतया निन्दां

लाति । ला + कः + टाप् ।) नीलीवृक्षः । इति
शब्दचन्द्रिका ॥

कुत्सा, स्त्री, (कुत्स् निन्दने + भावे अप्--टाप् च ।)

कुत्सनम् । तत्पर्य्यायः । अवर्णः २ आक्षेपः ३
निर्व्वादः ४ परीवादः ५ अपवादः ६ उपक्रोशः ७
जुगुप्सा ८ निन्दा ९ गर्हणम् १० । इत्यमरः । १ ।
६ । १३ ॥ गर्हा ११ निन्दनम् १२ कुत्सनम् १३
परिवादः १४ जुगुप्सनम् १५ अपक्रोशः १६ भर्त्स-
नम् १७ अपवादः १८ । इति शब्दरत्नावली ॥
उपरागः १९ अवध्वंसः २० घृणा २१ धिक् २२
सामि २३ । इति जटाधरः ॥

कुत्सितं, क्ली, (कुत्स + कर्म्मणि क्तः ।) कुष्ठनामौषधम् ।

इति राजनिर्घण्टः ॥ (कुड् इति भाषा ॥)

कुत्सितः, त्रि, (कुत्स् + क्तः ।) निन्दितः । तत्पर्य्यायः ।

निकृष्टः २ प्रतिकृष्टः ३ अर्व्वा ४ रेफः ५ याप्यः
६ । अवमः ७ अधमः ८ कुपूयः ९ अवद्यः १०
खेटः ११ गर्ह्यः १२ अणकः १३ इत्यमरः ।
३ । १ । ५४ ॥ रेपः १४ अरमः १५ आणकः १६
अनकः १७ । इति तट्टीका ॥ कुप्रियः १८ । इति
जटाधरः ॥ आखेटः १९ रेपसः २० काण्डः २१
गर्हितः २२ अपकृष्टकः २३ । इति शब्दरत्नावली ॥

कुथ इ क्लेशे । वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--

अकं--सकञ्च--सेट् इदित् ।) पञ्चमस्वरी । इ कर्मणि
कुन्थ्यते । क्लेश इह दुःखानुभवः । शीतार्त्तश्च न
कुन्थतीति हलायुधः । इति दुर्गादासः ॥

कुथ य पूतित्वे । इति कविकल्पद्रुमः ॥ (दिवां-परं-

अकं-सेट् ।) पूतित्वं दुर्गन्धीभावः । य, कुथ्यति
मीनो दुर्गन्धः स्यादित्थर्थः । चुकोथ । इति दुर्गा-
दासः ॥

कुथः, पुं स्त्री, (कुन्थति अशोभां क्लेशं वा । कुथ इ

हिंसायां अच् । आगमविधेरनित्यत्वात् न नुमा-
गमः ।) गजपृष्टस्थितचित्रकम्बलम् । हातिर
पिठेर झुल् इति भाषा । तत्पर्य्यायः । प्रवेणी २
आस्तरणम् ३ वर्णः ४ परिस्तोमः ५ । इत्थमरः ।
२ । ८ । ४२ ॥ प्रवेणिः ६ परिष्टोमः ७ कुथा ८
कुथम् ९ । इति तट्टीका ॥ वोलः १० आस्तरः
११ । इति शब्दरत्नावली ॥
(यथा शब्दर्थचिन्तामणौ ।
“कुथा कन्या समाख्याता कुथः स्यात् करिकम्बलम् ।
कुथः कुशः कुथः कीटः प्रातःस्नायी द्विजः कुथः” ॥
यथा महाभारते २ । ५१ । ३६ ।
“शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्” ॥)

कुथः, पुं, (कुथ + अच् ।) कुशतृणम् । इत्यमरः ।

२ । ४ । १६६ ॥ (यथा हेः रामायणे । २ । ३० । १४ ।
“शाद्बलेषु यदा शिश्ये वनान्ते वनगोचरा ।
कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः” ॥)

कुथोदरी, स्त्री, (कुथं हिंसात्मकमुदरं यस्याः सा ।)

निकुम्भदुहिता । कुम्भकर्णपौत्त्री । सा च कल्कि
देवेन हता । यथा ।
मुनय ऊचुः ।
“शृणु विष्णुयशःपुत्त्र ! कुम्भकर्णात्मजात्मजा ।
कुथोदरीति विख्याता गगनार्द्धसमुत्थिता ॥
कीलकञ्जस्य महिषी विकञ्जजननी च सा ।
हिमालये शिरः कृत्वा पादौ च निषधाचले ॥
शेते स्तनं पाययन्ती विकञ्जं प्रस्नुतस्तनी ।
तस्या निश्वासवातेन विवशा वयमागताः ॥
दैवेनैव समानीताः प्राप्तास्तव पदाम्बुजम् ।
मुनयो रक्षणीयास्ते रक्षःसु च विपत्सु च ॥
इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः ।
सेनागणैः परिवृतो जगाम हिमवद्गिरिम्” ॥
इत्यादि ॥
“सा क्रुधोत्थाय सहसा ननर्द्द परमाद्भुतम् ।
तेन नादेन महाता वित्रस्तांश्चाभवन् जनाः ।
निपेतुः सैनिकाः सर्व्वे मूर्च्छिता धरणीतले ॥
सा रथांश्च गजांश्चापि विवृतास्या भयानका ।
जघास प्रश्वासवातैः समानीय कुथोदरी ॥
सेनागणास्तदुदरं प्रविष्टाः कल्किना सह ।
यथर्क्षमुखवातेन प्रविशन्ति पिपीलिकाः ॥
तद्दृष्ट्वा देवगन्धर्व्वा हाहाकारं प्रचक्रिरे ।
तत्रस्था मुनयः शेपुर्जेपुश्चान्ये महर्षयः ॥
निपेतुरन्ये दुःखार्त्ता ब्राह्मणा ब्रह्मवादिनः ।
रुरुदुः पृष्ठयोधा ये जहृषुस्तन्निशाचराः ॥
जगतां कदनं दृष्ट्वा सस्मारात्मानमात्मना ।
कल्किः कमलपत्राक्षः सुरारातिनिसूदनः ॥
वाणाग्निं चेलचर्म्मभ्यां कम्बलैर्यानदारुभिः ।
प्रज्वाल्योदरमध्येन् करवालं समाददे ॥
तेन खङ्गेन महता कुक्षिं निर्भिद्य बन्धुभिः ।
बलिभिर्भ्रातृभिर्व्वाहैर्वृतः शस्त्रास्त्रपाणिभिः ॥
वहिर्ब्बभूव सर्व्वेशः कल्किः कल्कविनाशनः ।
सहस्राक्षों यथा वृत्रकुक्षिं दम्भोलिनेमिना ॥
योनिरन्ध्राद्गजरथास्तुरगाश्चाभवन् वहिः ।
नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः ॥
ते निर्गतास्ततस्तस्याः सैनिकारुधिरोक्षिताः ।
तां विव्यधुर्निःक्षिपन्तीं तरसा चरणौ करौ ॥
ममार सा भिन्नदेहा भिन्नकुक्षिशिरोधरा ।
नादयन्ती दिशो द्यां खं चूर्णयन्ती च पर्व्वतान्” ।
इति कल्किपुराणे १६ अध्यायः ॥

कुदालः, पुं, (कुं भूमिं दालयति विदारयति । कु +

पृष्ठ २/१४२
दल् विदारणे + णिच् + अण् ।) कुद्दालः । इत्य-
मरटीकायां रमानाथः ॥

कुद्दारः, पुं, (कुं पृथ्वीं दारयति विदारयति । कु +

दॄ + णिच् + कर्म्मण्यण् । पृषोदरात् साधुः ।) कु-
द्दालः । इति जटाधरः ॥ (काञ्चनवृक्षः । वृक्षमा-
त्रम् । भूविदारणेन समुत्थितत्वात् ॥)

कुद्दालः, पुं, (कुं भूमिं दालयति । कु + दल् + णिच्

+ अण् । पृषोदरात् द्वित्वे साधुः ।) कोविदार-
वृक्षः । इत्यमरः । २ । ४ । २२ ॥ (यथास्य पर्य्यायाः ।
“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।
कुण्डलीताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥ गुणा-
श्चास्य काञ्चनारशब्दे उक्ताः ॥) भूमिदारणास्त्रम् ।
इति मेदिनी ॥ कोदाल इति भाषा । (यथा
महाभारते । ३ । १०७ । २३ ।
“समासाद्य विलं तच्चाप्यखनन् सगरात्मजाः ।
कुद्दालैर्ह्रेषुकैश्चैव समुद्रं यत्नमास्थिताः” ॥)

कुद्यं, क्ली, (कुद् + क्यप् ।) कुड्यम् । भित्तिः । इत्यमर-

टीका ॥

कुद्र, इ क मिथ्योक्तौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् । इदित् ।) पञ्चमस्वरी । दन्त्यवर्ग-
तृतीयोपधः । इ क कुन्द्रयति नीचः । मिथ्यां
वदतीत्यर्थः । कुन्द्र इत्यनेनैवेष्टसिद्धे इदनुबन्धो
वेदेषूच्चारणभेदार्थः । इति दुर्गादासः ॥

कुद्रङ्कः, पुं, (कुद्रं मिथ्येव कायते अनित्यत्वात् क्षणभङ्गु-

रत्वाच्च । कै + कः । निपातनात् साधुः ।) गृह-
विशेषः । मञ्चोपरिमंण्डपः । तत्पर्य्यायः । उद्घाटः
२ पिठरः ३ । इति त्रिकाण्डशेषः ॥

कुद्रङ्गः, पुं, (कु ईषत् उद्गतो रञ्जः रञ्जनं यत्र अनित्य-

त्वात् । कु + उत् + रन्ज + अधिकरणे घञ् ।
पृषोदरादित्वात् साधुः ।) मञ्चमण्डपः । इति हारा-
वली ॥

कुद्रवः, पुं, (कुं भूमिं द्रावयति । कु + द्रु + अन्तर्णिच्

अच् ।) कोद्रवः । इत्यमरटीकायां भरतः ॥ (को-
दधान् इति भाषा ॥)

कुध्रः, पुं, (कुं पृथ्वीं भूमिं धारयति । कु + धृ + मूल-

विभुजादित्वात् कः ।) पर्व्वतः । इति हलायुधः ॥
(यथा कालिदासोक्तौ ।
“वार्चारेड्ध्वजधग्धृतोड्वधिपतिः कुध्रेड्जजानिर्गणेड्
गोराडारुडुरःसरेडुडुतरग्रैवेयकभ्राडडम् ।
उड्वीड्रुङ्नरकाग्निभिस्त्रिदृगिभेडार्द्राजिनाच्छच्छविः
स स्तादम्बुमदम्बुदालिगलरुग्देवो मुदे वो मृडः” ॥)

कुनखः, पुं, (कुत्सितो नखो यत्र ।) क्षुद्ररोगविशेषः ।

तस्य लक्षणं यथा ।
“नखमांसमधिष्ठाय वातः पित्तञ्च देहिनाम् ।
कुर्ष्वाते दाहपाकौ च तं व्याघिं चिप्पमादिशेत् ॥
तदेवाल्पतरैर्दोषैः परुषं कुनखं वदेत्” ॥
इति माधवकरः ॥
(अस्य चिकित्सा यथा ॥
“चिप्पे सटङ्कणास्फोता मूललेपो नखप्रदः” ।
इति वैद्यकचक्रपाणिसंग्रहे क्षद्ररोगाधिकारे ॥
तथाच सुश्रते ।
“अभिघातात् प्रदुष्टो यो नखोरूक्षोऽसितःखरः ।
भवेत्तु कुनखं विद्यात् कुलीनमिति संज्ञितम्” ॥
अयं हि रोगः जन्मान्तरीणसुवर्णापहरणा-
कृतप्रायश्चित्तस्य भुक्तावशिष्टमहापातकस्य चिह्न-
रूपः । यथा विष्णुसंहितायाम् ।
“नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये
लक्षणानि भवन्ति । कुष्ठ्यतिपातकी ब्रह्महा यक्ष्मी
सुरापः श्यावदन्तकः सुवर्णहारी कुनखी गुरुत-
ल्पगो दुश्चर्म्मा” ॥) कुत्सितनखयुक्ते, त्रि ॥

कुनखी [न्] त्रि, (कुनख इति स्वनामविश्रुतरोगो

ऽस्यास्तीति ।) कुनखरोगयुक्तः । सङ्कुचितनखः ।
यथा । “सुवर्णहारी कुनखी । कुनखी श्यावदन्तश्च
द्वादशरात्रं व्रतं चरित्वा तद्दन्तनखावुद्धरेयाताम्” ॥
इति शुद्धितत्त्वम् ॥

कुनटः, पुं, (कुत्सितं नटतीति । कु + नट् + अच् ।)

श्योनाकप्रभेदः । इति राजनिर्घण्टः ॥ (कुत्सितो
नटः इति विग्रहे नटाधमः ॥
श्योनाकशब्दे ऽस्य विवरणं ज्ञातव्यम् ॥)

कुनटी, स्त्री, (कुनट + गौरादित्वात् ङीष् ।) मनः-

शिला । इत्यमरः । २ । ९ । १०८ ॥
(अस्याः पर्य्यायाः ॥
“मनः शिला मनोज्ञा च नैपाली कुनटी शिला” ।
इति वैद्यकरत्नमालायाम् ॥
अन्यद्विवरणमस्य मनःशिला शब्दे व्याख्येयम् ॥)
धन्याकम् । इति राजनिर्घण्टः ॥
(पर्य्याया यथा ॥
“धान्यकं धानकं धान्यं धानाधानेयकन्तथा ।
कुनटी धेनुकाच्छत्रा कुस्तुम्बुरुवितुन्नकम्” ॥
गुणाश्चास्य धन्याकशब्दे ज्ञातव्याः ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
नेपालदेशजमनःशिला । इति केचित् । इति
भरतः ॥ (कुत्सिता नर्त्तकी । अनिपुणा नर्त्तकी ॥)

कुनली, [न्] पुं, (कुत्सित ईषद् वा नलोऽस्यास्तीति

इनिः ।) वकवृक्षः । इति त्रिकाण्डशेषः ॥

कुनाभिः, पुं, (ईषत् नाभिरिव आवर्त्तवत्त्वात् ।)

वातमण्डली । इति त्रिकाण्डशेषः ॥ घूर्णेवातास
इति भाषा ॥ निधिः । इति हेमचन्द्रः ॥

कुनाशकः, पुं, (ईषत् नाशयति स्पर्शनेन । कु + नश +

णिच् + ण्वुल् ।) यवासः । इत्यमरः । २ । ४ । ९१ ॥
(दुरालभा । आल्कुशीति भाषा ॥
अस्य पर्य्याया यथा ॥
“यासोपवासो दुष्पर्शो धन्वयासः कुनाशकः ।
दुरालभादुरालम्भा समुद्रान्ता च रोदिनी ॥
गान्धारी कच्छुरानन्ता कषाया हरविग्रहा” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे ॥)

कुन्च वक्रणे । तौच्छ्ये । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सकं-सेट् ।) पञ्चमस्वरी । वक्रणमिति वक्र
इवाचरतीति क्वौ वक्रं करोतीति ञौ च रूपम् ।
तेन कुटिलीभावः कुटिलीकरणञ्च । तौच्छ्यमल्पी-
भावः अल्पोकरणञ्च । कुञ्चति खलः कुटिलोऽल्पो
बा स्यादित्यर्थः । कुञ्चति लतां वायुः कुटिलामल्पां
वा करोतीत्यर्थः । इति दुर्गादासः ॥

कुन्तः, पुं, (कुं भूमिं उनत्ति क्लेदयति । कुं शरीर

उनत्ति भेदयति दारयति वा धातूनामनेकार्थ-
त्वात् उन्द + बाहुलकात् तः । शकन्ध्वादिवत्
साधुः ।) गवेधुका । प्रासास्त्रम् । इति मेदिनी ॥
(भल्लास्त्रम् । भाला इति भाषा । यथा कथासरित्
सागरे ।
“कुन्तदन्ता कथंकुर्य्यात् राक्षसीव हि सा शिवम्” ॥)
चण्डभावः । क्षुद्रजन्तुः । इति विश्वः ॥ क्षुद्रकीटः ।
उत्कुनम् । (उकुन् इति भाषा ॥)

कुन्तलः, पुं, (कुन्तं उत्कुनं लाति गृह्णाति । ला + कः ।)

केशः । (यथा साहित्यदर्पणे ३ । १२४ ।
“कापि कुन्तलसंव्यानसंयमव्यपदेशतः ।
बाहुमूलं स्तनौ नाभिपङ्कजं दर्शयेत् स्फुटम्” ॥)
ह्रीवेरम् । इत्यमरः २ । ६ । ९५ ॥ चषकः । यवः ।
इति मेदिनी ॥ (कुन्तस्य अग्राकारमिव लाति ।)
लाङ्गलः । इति विश्वः ॥ ध्रुवकभेदः । यथा, --
“वर्णैः षोडशभिः कार्य्यः कुन्तलो लघुशेखरे ।
शृङ्गारे च रसे प्रोक्तमानन्दफलदायकः” ॥
इति सङ्गीतदामोदरः ॥ (दाक्षिणात्यजनपद-
विशेषः । तदधिष्ठाता राजा च यथा महाभारते
२ । राजसूयिकपर्व्वणि ३४ । ११ ।
“आकर्षः कुन्तलश्चैव मालवाश्चान्ध्रकास्तथा ।
द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा” ॥)

कुन्तलवर्द्धनः, पुं, (कुन्तलान् केशान् स्वरसेन वर्द्ध-

यति । वृध् + णिच् + ल्युः ।) भृङ्गराजवृक्षः । इति
राजनिर्घण्टः ॥

कुन्तलाः, पुं, (कुन्ता अस्त्रविशेषा लीयन्ते गृह्यन्ते

यत्र । ला + घञर्थे कः ।) देशविशेषः । बहुवब-
नान्तशब्दोऽयम् । इति मेदिनी ॥ (स च दाक्षि-
णात्यप्रदेश इत्युच्यते । यथा महाभारते ६ । ९ । ५९ ।
“झिल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः ।
कोकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः” ॥)

कुन्तलिका, स्त्री, (कुन्तलस्य लाङ्गलस्याग्राकार इव

विद्यतेऽस्याः इति ठन् । टाप् अत इत्वं च ।)
दध्यादिच्छेदनो । दैकाटा छुरी इति भाषा ।
तत्पर्य्यायः । पालिका २ । इति हारावली ॥
(बालानामौषधम् । युथा सुश्रुते ।
“कुन्तलिका कुरण्टिका प्रभृतीनीत्युपक्रम्य ॥
अस्याः गुणास्तत्रैवोक्ताः ।
“स्वादुपाकरसाः शीताः कफघ्नाश्चातिपित्तलाः ।
लवणार्द्ररसा रूक्षाः सक्षारा वातलाः सराः” ॥
स्वादुतिक्ता कुन्तलिका” ॥)

कुन्तलीशीरं, क्ली, (कुन्तल इव उशीरम् ।) बा-

लकम् । इति राजनिर्घण्टः ॥ बाला इति
भषा ॥

कुन्ती, स्त्री, (राज्ञा कुन्तभोजेन आबाल्यात् पा-

लिता सती पृथा वसुदेवभगिनी कुन्तीति नाम्ना
विख्याता । यथा, हरिवंशे ३४ । २३-२४ ।
“पृथां दुहितरं वव्रे कुन्तिस्तु कुरुनन्दन ! ।
शूरः पूज्याय वृद्धाय कुन्तिभोजाय तां ददौ ॥
तस्मात्कुन्तीति विख्याता कुन्तिभोजात्मजा पृथा” ॥)
पाण्डुराजभार्य्या । सा च शूरसेनराजकन्या पृथा
पृष्ठ २/१४३
नाम्ना ख्याता । तत्पिता शूरसेनः तां राज्ञे कुन्ति-
भोजाय दत्तवान् । इयं हि कन्यावस्थायां मुनिदत्त-
विद्यापरीक्षार्थं मन्त्रबलाहूतात् सूर्य्यात् कर्णं
प्रासोष्ट । विवाहात् परञ्च सा मृगीभूतस्य मुनेः
शापात् स्त्रीसङ्गमवञ्चितस्य स्वामिनो महाराज-
पाण्डोराज्ञया धर्म्माद्युधिष्ठिरं पवनाद्भीमं इन्द्रा-
दर्ज्जुनं सुषुवे । इति महाभारते १ । १११ अध्यायः ॥
इयञ्च परमसाध्वीतया भगवद्वादरायणादिमह-
र्षिगणवरप्रभावेण प्रातःस्मरणीया रमणी ।
यदुक्तम्, --
“अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा ।
पञ्चकन्याः स्मरेन्नित्थं महापातकनाशनम्” ॥)
गुग्गुलुवृक्षः । शल्लकी । इति विश्वमेदिन्यौ ॥
ब्राह्मणी । इति जटाधरः ॥

कुन्थ ग श्लिषि । क्लिशि । इति कविकल्पद्रुमः ॥

(क्र्यां-परं-सकं-अकं च-सेट् ।) पञ्चमस्वरी । क्लिशि
दुःखानुभवे । ग कुथ्नाति बुभुक्षार्त्तः । इति हला-
युघः । चुकुन्थ । इति दुर्गादासः ॥

कुन्थुः, पुं, (कुथ्नाति दुःखसहनक्षमो भवति । कुन्थ +

उन् ।) बौद्धविशेषः । जिनचक्रवर्त्तिविशेषः । इति
हेमचन्द्रः ॥

कुन्दः, पुं क्ली, (कु कुत्सितं दुर्गन्धादिजनितक्लेशं

द्यति नाशयति । कु + दो छेदने + कः । पृषोद-
रात् नुंम् । यद्वा कौतीति । “अब्दादयश्च” ।
उणां ४ । ९८ । इति निपातनात् सिद्धम् ।)
पुष्पवृक्षविशेषः । कुँद्फुलेर गाछ इति भाषा ।
तत्पर्य्यायः । माघ्यम् २ । इत्यमरः । २ । ४ । ७३ ॥
शुक्लपुष्पः ३ । इति रत्नमाला ॥ मकरन्दः ४
महामोदः ५ मनोहरः ६ मुक्तापुष्पः ७ सदापुष्पः
८ तारपुष्पः ९ अट्टहासकः १० दमनः ११ वन-
हासः १२ मनोज्ञः १३ वोरटम् १४ वरटम्
१५ । इति शब्दरत्नावली ॥
(यथा, नवग्रहस्तोत्रे शुक्रस्तुतिः ।
“ॐ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।
सर्व्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्” ॥)
अपि च । भावप्रकाशे ॥
“कुन्दन्तु कथितं माध्यं सदापुष्पञ्च तत् स्मृतम् ।
कुन्दंशीतं लघु श्लेष्मशिरोरुग्विषपित्तहृत्” ॥
अस्य गुणाः । अतिमधुरत्वम् । शीतत्वम् । कषा-
यत्वम् । कैश्यभावनत्वम् । कफपित्तहरत्वम् ।
सारकत्वम् । दीपनत्वम् । पाचनत्वञ्च । इति राज-
निर्घण्टः ॥ तत्पुष्पगुणौ । श्लेष्मकारित्वम् । ग्राहि-
त्वञ्च । इति राजवल्लभः ॥

कुन्दः, पुं, कुन्दुरुनामगन्धद्रव्यम् । (अस्य पर्य्याया यथा ॥

“कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्यपि” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
भ्रमियन्त्रम् । कुँद् इति भाषा । कुवेरस्य निधि-
विशेषः । इति मेदिनी ॥ करवीरवृक्षः । इति
राजनिर्घण्टः ॥ (कुन्दपुष्पवर्ण इव श्वेततया
सत्ययुगे हंसावतारत्वाच्च । विष्णुः । यथा महा-
भारते १३ । १४९ । १०० ।
“कुमुदः कुन्दरः कुन्दः पर्ज्यन्यः पवनोऽनिलः” ॥
यद्वा कुं पृथ्वीं कश्यपाय दत्तवान् । दा + कः ।
द्वितीयाया अलुक् । परशुरामावतारे क्षत्रिय-
हत्यापापशुद्ध्यर्थं मारीचाय अश्वमेधयज्ञे महा-
दानस्य दक्षिणास्वरूपवसुन्धरादानादस्य तथा-
त्वम् । तत्कथा यथा हरिवंशे ।
“सर्व्वपापविशुद्ध्यर्थं वाजिमेधेन चेष्टवान् ।
तस्मिन् यज्ञे महादाने दक्षिणां भृगुनन्दनः ।
मारीचाय ददौ प्रीतः कश्यपाय वसुन्धराम्” ॥)

कुन्दकः, पुं, (कुन्द + संज्ञायां कन् ।) कुन्दुरुकः ।

इति राजनिर्घण्टः ॥

कुन्दमः, पुं, (अनिष्टकारित्वात् कुत्सितं उन्दुरादिकं

दमयति नाशयतीति । दम + णिच् + अच् पृषो-
दरात् मुमि साधुः । यद्वा कुन्देन मीयते प्रायेण
शुभ्रवर्णत्वात् । कुन्द + मा + घञर्थे कः ।) वि-
डालः । इति त्रिकाण्डशेषः ॥

कुन्दरः, पुं, (कुं भूमिं दारयति । अन्तर्भूतणिजर्थे दॄ

+ अच् पृषोदरात् मुमि साधुः ।) तृणभेदः ।
कुन्दरा इति कलिङ्गे ख्यातः । तत्पर्य्यायः । कण्डुरः ।
२ झिण्टी ३ दीर्घपत्रः ४ खरच्छदः ५ रसालः ६
क्षेत्रसम्भूतः ७ सुतृणः ८ मृगवल्लभः ९ । अस्य
मूलगुणाः । गौल्यत्वम् । शीतत्वम् । पित्ताति-
सारनाशित्वम् । गोधनानां प्रशस्तत्वम् । बल-
पुष्टिविवर्द्ध्वनत्वञ्च । इति राजनिर्घण्टः ॥ (कुन्दवत्
निर्म्मलानि धर्म्मानुवन्धीनि फलानि राति ददाति ।
कुन्द + रा + कः । यद्वा कुं पृथ्वीं, हिरण्याक्षदैत्यं
हन्तुकामो भगवान् विष्णुः वराहरूपेण दार-
यति । दॄ + णिच् + अच् पृषोदरात् मुमि साधुः ।
विष्णुः । यथा महाभारते १३ । १४९ । १०० ।
“कुमुदः कुन्दरः कुन्दः पर्ज्जन्यः पवनोऽनिलः” ॥)

कुन्दिनी, स्त्री, (कुन्दानां पद्मानां समूहः । खला-

दित्वात् इनिः । स्त्रियां ङीप् ।) पप्मिनी । पद्म-
समूहः । इति त्रिकाण्डशेषः ॥

कुन्दुः, स्त्री, (कुं भूमिं दृणातीति । कु + दॄ + बाहुल-

कात् डुः ।) कुन्दुरुनामगन्धद्रव्यम् । इति शब्द-
माला अमरटीका च ॥ (कुन्दरुशब्दे ऽस्या विव-
रणं ज्ञातव्यम् ॥) मूषिके पुं । इतिशब्दरत्ना-
वली ॥

कुन्दुरः, पुं, (कुं भूमिं दारयति । दॄ विदारे +

उरन् ।) कुन्दुरुनामगन्धद्रव्यम् । इत्यमरटीकायां
भरतः ॥

कुन्दुरुः, पुं, स्त्री, (कुं भूमिं उनत्ति । उन्द् + जत्र्वा-

दित्वात् निपातनात् साधुः ।) स्वनामख्यातसुग-
न्धिद्रव्यम् । यस्य निर्यासे कुन्दुरुखोटि इति
ख्यातिः । तत्पर्य्यायः । पालङ्क्या २ मुकुन्दः ३
कुन्दः ४ । इत्यमरः । २ । ४ । १२१ ॥ पालङ्की ५
मुकुन्दुः ६ कुन्दुः ७ कुन्दुरः ८ । इति तट्टीकायां
भरतः ॥ कुन्दुरुकः ९ सौराष्ट्रः १० शिखरी ११
कुन्दकः १२ तीक्ष्णः १३ गोपुरकः १४ बहुगन्धः
१५ पालिन्दः १६ भीषणः १७ तीक्ष्णगन्धः १८
बली १९ । इति जटाधरः ॥ अपि च ।
“कुन्दुरुस्तु मुकुन्दः स्यात् सुगन्धः कुन्द इत्याप ।
कुन्दुरुर्म्मधुरस्तिक्तस्तीक्ष्णस्त्वच्यः कटुर्हरेत् ।
ज्वरस्वेदग्रहालक्ष्मीमुखरोगकफानिलान्” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् ।
तिक्तत्वम् । कफपित्तार्त्तिदाहनाशित्वञ्च । अस्य
पानलेपनयोर्गुणः । शिशिरत्वम् । प्रदरामयशान्ति
कारित्वञ्च । इति राजनिर्घण्टः ॥ अलक्ष्मीरक्षो-
ज्वरनाशित्वम् । इति राजवल्लभः ॥
(अस्य व्यवहारो यथा वैद्यकचक्रपाणि-संग्रहे
ऽष्टादशशतिकप्रसारणी तैले ॥
“कर्पूरं कुन्दुरुनिशालवङ्गध्यामचन्दनम्” ॥ * ॥)

कुन्दुरुकः, पुं, स्त्री, (कुन्दुरु + स्वार्थे कन् ।) कुन्दुरुनाम

सुगन्धिद्रव्यम् । इति राजनिर्घण्टः ॥

कुन्दुरुकी, स्त्री, (कुन्दुरुक + जातित्वात् ङीष् ।)

शल्लकीवृक्षः । इत्यमरः । २ । ४ । १२४ ॥

कुप इ कि स्तृतौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट्-इदित् ।) पञ्चमस्वरी । इ कुम्प्यते ।
कि कुम्पयति कुम्पति । स्तृतिराच्छादनम् । इति
दुर्गादासः ॥

कुप, क द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां-परं-

अकं-सेट् ।) क कोपयति । इति दुर्गादासः ॥

कुप य इर् कोपे । इति कविकल्पद्रुमः ॥ (दिवां-

परं-अकं-सेट्-इरित् ।) कोपो नेत्रलौहित्यादि-
हेतुश्चित्तविकारः । य, कुप्यति माता शिशवे । इर्
अकुपत् अकोपीत् । अस्मात् पुषादित्वान्नित्यं
ङ इत्यन्ये । “कदाचित् कुप्यते माता नोदरस्था
हरीतकी” । इति तु कुप्यतीति कुप् ततः स
इवाचरति इति ङ्ये साध्यम् । इति दुर्गादासः ॥

कुपथः, पुं, कुत्सितः पन्थाः । (पाणिनिमते कापथ

इति नित्यं स्यात् । वोपदेवमते तु “पथि पुरुषे
वा” । इति सूत्रेण विभाषया कोः कादेशः ।) का-
पथः । इति शब्दरत्नावली । (यथा, श्रीमद्भागवते
५ । ६ । १० । “स्वधर्म्मपथमकुतोभयमपहाय
कुपथपाषण्डमसमञ्जसं निजमनीषया मन्दः प्रवर्त्त-
यिष्यति” ॥
कुपथः सेव्यत्वेनास्त्यस्य । अर्श आदित्वात् अच् ।
कुपथगामिनि, त्रि । यथा महाभारते । १ । ६७ । २९ ।
“कुपथस्तु महावीर्य्यः श्रीमान् राजन् ! महासुरः ।
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः” ॥)

कुपाणिः, त्रि, (कुत्सितः पाणिर्यस्य ।) वक्रहस्तः ।

इति जटाधरः । कोपा इति भाषा ॥

कुपिनी, [न्] पुं, (कुपिनी मत्स्यधानी अस्यास्तीति ।

व्रीह्यादित्वात् इनिः ।) कैवर्त्तः ॥ इति त्रिकाण्ड-
शेषः । जालिया इति भाषा ॥

कुपिनी, स्त्री, (कुम्प्यते रक्ष्यते मत्सोऽत्र । कुप इ कि

स्तृतौ अधिकरणे बाहुलकात् इनि । किच्च ङीप्
पृषोदरादित्वात् साधुः ।) स्वल्पमत्स्यधानी । इति
शब्दरत्नावली । खालुइ इति भाषा ॥

कुपिन्दः, पुं, (कुम्पयति विस्तारयति सूत्राणि । कुप

इ कि स्तृतौ + “कुपेर्वा वश्च” । उणां ४ । ८६ ।
इति किन्दच् ।) तन्त्रवायः । इत्युणादिकोषः ॥

कुपीलुः, पुं, (कुत्सितः पीलुः ।) कारस्करवृक्षः

तिन्दुकविशेषः । मधुरतेन्दु माकडाकेँदु इति च
भाषा । तत्पर्य्यायः । जलजः २ दीर्घपत्रकः ३ कुलकः
पृष्ठ २/१४४
४ कालतिन्दुकः ५ कालपीलुकः ६ काकेन्दुः ७
विषतिन्दुः ८ मर्कटतिन्दुकः ९ । अस्य गुणाः ।
शीतलत्वम् । तिक्तत्वम् । वातमदकारित्वम् ।
लघुत्वम् । व्यथाहरत्वम् । ग्राहित्वम् । कफपित्ता-
स्रनाशित्वञ्च । इति भावप्रकाशः ॥

कुपूयः, त्रि, (कुत्सितं पूयते । पूयीङ् विसरणे + पचा

द्यच् ।) कुत्सितः । जात्याचारादिनिन्दितः । इत्य-
मरभरतौ ॥

कुप्यं, क्ली, (गुप्यते रक्ष्यते द्रव्यादिकमत्र । गुपू

रक्षणे । “राजसूयसूर्य्यमृषोद्यरुच्यकुप्यकृष्टपच्या-
ष्यथ्याः” । ३ । १ । ११४ । इति क्यवन्तो निपा-
तितः । गुपेरादेः कत्वं च संज्ञायाम् ।) स्वर्णरूप्य-
भिन्नधातुः । इत्यमरः । २ । ९ । ९१ ॥ (यथा, महा-
भारते । १५ । ६ । ११ ।
“भूमिरल्पफला देया विपरीतस्य भारत ! ।
हिरण्यं कुप्यभूयिष्ठं मित्रं क्षीणमथो बलम्” ॥)
दस्ता इति ख्यातधातुः । इत्यष्टधातुमध्ये वैद्यकम् ॥

कुप्यशाला, स्त्री, (कुप्यानां स्वर्णरूप्याभ्यामन्येषां

भाजनादीनां शाला गृहम् ।) स्वर्णरूप्यभिन्न-
धातुपात्रादिनिर्म्माणादिगृहम् । काँसारिर दो-
कान इति भाषा । तत्पर्य्यायः । सन्धानी २ । इति
हेमचन्द्रः ॥

कुप्रियः, त्रि, (कुत्सितं प्रीणातीति । कु + प्री +

“इगुपधज्ञेति” । ३ । १ । १३५ । कः ।) जघन्यः ।
इति हलायुधः ॥ (बहुव्रीहौ तु कुत्सित-
प्रियः ॥)

कुब इ कि स्तृतौ । इति कविकल्पद्रुमः । (चुरां-पक्षे-

भ्वां-परं-सकं-सेट् ।) पञ्चमस्वरी । इ कुम्ब्यते ।
कि कुम्बयति कुम्बति । स्तृतिराच्छादनम् । इति
दुर्गादासः ॥

कुबे(वे)रः, पुं, (कुम्बतीति । कुब इ कि आच्छादने

“कुम्बेर्नलोपश्च” । उणां १ । ६० । इति एरक् ।
नलोपश्च । यद्वा कुत्सितं वेरं शरीरं यस्य । पिङ्गल
नेत्रत्वात्तथात्वम् ।) यक्षराजः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (स च विश्रवस ऋषे
रिलविलायां जातः । स तु त्रिपात् अष्टदन्तः
केकराक्षश्च । यथा, वायुपुराणे ।
“कुत्सायां क्वितिशब्दोऽयं शरीरं वेरमुच्यते ।
कुवेरः कुशरीरत्वात् नाम्ना तेनैव सोऽङ्कितः” ॥
तथा काशीखण्डे देवीदत्तशापोक्तौ च ।
“कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत !” ॥)

कुब्जः, त्रि, (कु ईषत् उब्ज आर्ज्जवमस्य । उब्ज आर्जवे

घञ् शकब्ध्वादिवदुलोपः ।) वायुनोन्नतहृदयः ।
उन्नतपृष्ठश्च । कुजा इति भाषा । तत्पर्य्यायः ।
गडुः २ गडुलः ३ इत्यमरः ॥ न्युब्जः ४ गडुरः ५
इति शब्दरत्नावली ॥ तस्य लक्षणमाह ।
“हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् ।
क्रुद्धो वायुर्यदा कुर्य्यात्तदा तं कुब्जमादिशेत्” ॥
इति माधवकरः ॥ यदेत्युक्त्या यदिवेति विकल्पार्थ-
स्तेन न पुनरुक्तिदोषः । नन्वन्तरायामः क्रोडनतो
भयति वहिरायामः पृष्टनतो भवति ताभ्यामस्य
को भेदः । उच्यते । अन्तरायामवहिरायामयोः
प्रकृतस्यैवान्तःशरीरस्य वहिःशरीरस्य चावन-
मनमत्र तु हृदयं पृष्ठं वा शरीराद्वहिर्भवतीति
भेदः ॥ * ॥
अथ चिकित्सा ।
“वाह्यायामेऽन्तरायामे धनुस्तब्धे च कुब्जके ।
योज्यं प्रसारिणीतैलं तेन तेषां शमो भबेत् ॥
वातव्याधिषु सामान्या याःक्रियाः कथिताः पुरा ।
कर्त्तव्या एव ताः सर्व्वास्तैलमेतद्विशेषतः” ॥
इति भावप्रकाशः ॥ (यथा, हरिवंशे ८३ । ३४ ।
“तान्तु कुब्जां स्थडोर्मध्ये द्व्यङ्गुलेनाग्रपाणिना ।
शनैः सन्तोडयामास कृष्णो लीलाविधानवित्” ॥
रोगविशेषस्यास्य चिकित्सार्थं वटिकौषधं
यथा ॥ * ॥
“रसौ गन्धौ समौ शुद्धौ तालकञ्चाभया तथा ।
विषं व्योषञ्च कटुकीं वोलजैपालकौ समौ” ॥
“भृङ्गराजरसैमर्द्द्यं स्नुह्यर्कस्वरसैस्तथा ।
गुञ्जाद्वयं प्रदातव्यं रसः कुब्जविनोदकः ॥
आमवाताढ्यवातादीन् कटीशूलञ्च नाशयेत् ।
अग्निञ्च कुरुते दीप्तं स्थौल्यानां नाशनं परम्” ॥
कुब्जविनोदो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे वातरोगाधि-
कारे ॥ * ॥)

कुब्जः, पुं, (कु ईषदुब्जं आर्जवमस्य । शकन्ध्वादित्वात्

साधुः ।) अपामार्गः । इति राजनिर्घण्टः ॥ खङ्गः ।
इति शब्दमाला ॥

कुब्जकः, पुं, (कौ पृथिव्यां उब्जति । उब्ज + ण्वुल् ।

शकन्ध्वादित्वात् उलोपे साधुः ।) पुष्पवृक्षविशेषः ।
कूजा इति ख्यातः । (यथा, शब्दार्थचिन्तामणि-
घृतनृसिंहपुराणे ।
“चम्पकात् पुष्पशतकादशोकं पुष्पमुत्तमम् ।
अशोकात् पुष्पसाहस्रात् सेवतीपुष्पमुत्तमम् ।
सेवतीपुष्पसाहस्रात् कुब्जकः पुष्पमुत्तमम्” ॥
तत्पर्य्यायः । भद्रतरुणी २ वृत्तपुष्पः ३ अतिकेशरः
४ महासहः ५ कण्टकाढ्यः ६ खर्व्वः ७ अलिकुल-
सङ्कुलः ८ वारिकण्टकः ९ । इति त्रिकाण्डशेषः ॥
अपि च ।
“कुब्जको भद्रतरणिर्वृहत्पुष्पोऽतिकेशरः ।
महासहा कण्टकाढ्या नीलालिकुलसङ्कुला” ॥
राजनिर्घण्टे महासहेत्यादिशब्दाः पुंलिङ्गाः ।
अस्य गुणाः ।
“कुब्जकः सुरभिः स्वादुः कषायानुरसः सरः ।
त्रिदोषशमनो वृष्यः शीतहर्त्ता च स स्मृतः” ॥
इति भावप्रकाशः ॥ सुरभित्वम् । रक्तपित्तकफ-
नाशित्वञ्च ॥ तत्पुष्पगुणाः । शीतलत्वम् । वर्णका-
रित्वम् । दाहवातपित्तनाशित्वञ्च । इति राज-
निर्घण्टः ॥

कुब्जकण्टकः, पुं, (कुब्जः कण्टकोऽत्र ।) श्वेतखदिरः ।

इति राजनिर्घण्टः ॥

कुब्रं, (व्रं)क्ली, (कुबि आच्छादने + ‘ऋज्रेन्द्राग्रबज्रेति’ ।

उणां २ । २८ । इति निपातनात् रन् ।) वनम् ।
इत्युणादिकोषः ॥ कुण्डम् । कुण्डलम् । तन्तुः । शर-
णम् । शकटम् । इति सङ्क्षिप्तसारे उणादिष्टत्तिः ॥

कुमार, त् क केलौ । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-अकं-सेट् ।) ह्रस्वी । अचुकुमारत् ।
इति दुर्गादासः ॥

कुमारं, क्ली, (कुमारयति नन्दति यत्र यस्मिन् सती-

त्यर्थः ।) जात्यकाञ्चनम् । इति मेदिनी । खाँटि
सोणा इति भाषा ॥

कुमारः, पुं, (कुत्सितो मारः कन्दर्पो यस्मात् ।)

कार्त्तिकेयः तदुत्पत्तिविवरणन्तु कार्त्तिकेयशब्दे
द्रष्टव्यम् ॥
(तथा महाभारते । १ । ६६ । २३-२४ ।
“अग्नेः पुत्त्रः कुमारस्तु श्रीमान् शरवणालयः ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ।
कीर्त्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः” ॥
कौ पृथिव्यां मारयति दुष्टान् । कु + मृ + णिच् +
अच् ।) नाठ्योक्तौ युवराजः । इत्यमरः ॥ (राज-
कुमारः । यथा, रघौ ७ । ६३ ।
“ततः प्रियोपात्तरसेऽधरौष्ठे
निवेश्य दध्मौ जलजं कुमारः” ॥)
शुकः । अश्ववारकः । (कुमारयति क्रीडतीति ।
कुमार-त् क क्रीडने + अच् ।) पञ्चवर्षीयबालकः ।
(यथा मनौ ७ । १७५ ।
“कन्यानां सम्प्रदानञ्च कुमाराणाञ्च रक्षणम्” ॥
“तस्यास्तु खल्वमरायाः प्रपतनार्थे खल्वेवमेव-
कर्म्मणि क्रियमाणे जातमात्रे ऽस्यैव कुमारस्य
कार्य्याण्येतानि कर्म्माणि भवन्ति तद्यथा-अश्म-
नोः सङ्घट्टनं कर्णयोर्मूले शीतोदकेनोष्णोदकेन वा
सुखपरिषेकः । तथा संक्लेशविहतान् प्राणान्
पुनर्लभेत कृष्णकपालिका शूर्पेण चैनमभिनिष्पु-
नीयाद् यद् यच्चेष्टं स्यात् यावत् प्राणानां प्रत्यागमं
तत्तत् सर्व्वमेव कुर्य्युः । ततः प्रत्यागतप्राणं प्रकृति-
भूतमभिसमीक्ष्य स्नानोदकग्रहणाभ्यामुपपाद-
येत् । अथास्य ताल्वोष्ठकण्ठ-जिह्वा-प्रमार्ज्जन-
मारभेत अङ्गुल्या सुपरिलिखितनखयासुप्रक्षा-
लितोपधानकार्पासपिचुमत्या प्रथमं प्रमार्ज्जित-
स्यास्यच शिरस्तालू कार्पासपिचुना स्नेहगर्भेण
प्रतिच्छादयेत् । ततो ऽस्यानन्तरं कार्यं सैन्धवोप-
हितेन सर्पिषा प्रच्छर्द्दनम्” ।
“दशम्यां निश्यतीतायां सपुत्त्रास्त्री सर्व्वगन्धौ-
षधैर्गौरसर्षप-लोध्रैश्च स्नाता लघ्वहतवस्त्रं परि-
धाय पवित्रेष्टलघुविचित्रभूषणवती संस्पृश्य मङ्ग-
लान्युचितामर्च्चयित्वा च देवतां शिखिनः शुक्ल-
वाससो व्यङ्ग्यांश्च ब्राह्मणान् स्वस्तिवाचयित्वा कुमार-
महतेन शुचिवाससाच्छादयेत् । प्राक् शिरस-
मुदक्शिरसं वा संवेश्य देवतापूर्ब्बं द्विजातिभ्यः
प्रणमतीत्युक्त्वा कुमारस्य पिता द्वे नामबी कार-
येत् नाक्षत्रिकं नामाभिप्रायिकञ्च” ।
“कृते च नामकर्म्मणि कुमारं परीक्षितुमुपक्रामे
दायुषः प्रमाण ज्ञान-हेतोः । तत्रेमान्यायुष्मतां
कुमाराणां लक्षणानि भवन्ति तद्यथा -- एकै-
कजा मृदवोऽल्पाः स्निग्धाः सुबद्धमूलाः कृष्णाः
केशाः प्रशस्यन्ते । स्थिरा बहला त्वक् प्रकृत्या-
कृतिसुस्रम्पन्नमीषत्प्रमाणातिरिक्तमनुरूपमात-
पृष्ठ २/१४५
पत्रोपमं शिरः प्रशस्यते । व्यूढं दृढं समं सु-
श्लिष्टशङ्खसन्ध्यर्द्धव्यञ्जनमुपचितं बलिनमर्द्धचन्द्रा-
कृतिललाटं बहलौ विपुलसमपिठौ समौ नीचौ
वृद्धौ पृष्ठतोऽवनतौ सुश्लिष्टकर्णपुटकौ महा-
च्छिद्रौ कर्णौ ईषत् प्रलम्बिन्यावसङ्गते समे
संहते महत्यौ भ्रुवौ समे समाहितदर्शने व्यक्त-
भागविभागे बलवती तेजसोपपन्ने स्वाङ्गोपाङ्गे
चक्षुषी । ऋज्वी महोच्छ्वासावंशसम्पन्नेषदवन-
ताग्रा नासिका । महदृजु-सुनिविष्टदन्तमास्यम् ।
आयामविस्तरोपपन्ना श्लक्ष्णा तन्वी प्रकृतियुक्ता
पाटलवर्णा जिह्वा । श्लक्ष्णं युक्तोपचयमुष्णोपपन्नं
रक्तं तालु । महानदीनः स्निग्धोऽनुनादी गम्भीर-
समुत्थो धीरस्वरः । नातिस्थूलौ नातिकृशौ
विस्तारोपपन्नावास्य प्रच्छादनौ रक्तावोष्ठौ । म-
हत्थौ हनुवृत्तौ । नातिमहती ग्रीवा । व्यूढमुप-
चितमुरो गूढं जत्रु पृष्ठवंशश्च । विकृष्टान्तरौ
स्तनौ, अंसपातिनी स्थिरे पार्श्वे, वृत्तपरिपूर्णायतौ
बाहू, सक्थिनी अङ्गुलयश्च । महदुपचितं पाणि-
पादम् । स्थिरावृत्ताः स्निग्धास्ताम्रास्तुङ्गाः कूर्म्मा-
काराः करजाः, प्रदक्षिणावर्त्ता सोत्सङ्गा च
नाभिः । नाभ्युरस्त्रिभागहीना समासमुपचित-
मांसा कृटीवृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ
नात्यवनतौ स्फिचावनुपूर्ब्बवृत्तौ उपचययुक्ता-
वुरू । नात्युपचिते नात्यपचिते ण्णीपदे प्रगूढ-
सिरास्थिसन्धी जङ्घे । नात्युपचितौ नात्यपचितौ
गुल्फौ पूर्ब्बोपदिष्टगुणौ पादौ कूर्म्माकारौ ।
प्रकृतियुक्तानि वात-मूत्र-पुरीषगुह्यानि तथा
स्वप्नजागरणायासस्मितरुदितस्तनग्रहणानि । यच्च
किञ्चिदन्यदपि अनुक्तमस्तिं तदपि सर्व्वं प्रकृति-
सम्पन्नमिष्टं विपरीतं पुनरनिष्टमिति दीर्घायु-
र्लक्षणानि” ॥ * ॥
अतोऽनन्तरं कुमारागारविधिमनु-
व्याख्यास्यामः ॥
“वास्तुविद्याकुशलः प्रशस्तं रम्यतमस्कं निवातं
प्रवातैकदेशं दृढमपगतश्वापदपशुदंष्ट्रिमूषिका-
पतङ्गं सुसंविभक्तसलिलोदूखलमूत्रवर्च्चस्थानस्रान-
भूमिमहानसमृतुसुखं यथर्त्तुशयनासनास्तरण-
सम्पन्नं कुर्य्यात् । तथा सुविहितरक्षाविधान-
बलिमङ्गलहोमप्रायश्चित्तं शुचिवृद्धवैद्यानुरक्त-
जनसम्पूर्णमिति कुमारागारविधिः ।
शयनास्तरणप्रावरणानि कुमारस्य मृदुलघु-
शुचिसुगन्धीनि स्युः । स्वेदमलजन्तुमन्ति मूत्र-
पुरीषोपसृष्टानि च वर्ज्ज्यानि स्युः ।
असति सम्भवेऽन्येषां तान्येव च सुप्रक्षालिं-
तोपधानानि सुधूपितानि सुशुद्धशुष्कान्युपयोगं
गच्छेयुः ।
धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानाञ्च
यवसर्षपातसी-हिङ्गु-गुग्गुलुवचारोचकवयःस्थागो-
लोमीजटिलापलङ्कषाशाकरोहिणीसर्पनिर्म्मोका-
नि घृतसंप्रयुक्तानि स्युः ।
मणयश्च धारणीयाः कुमारस्य खड्गरुरुगवय-
वृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्यो ऽग्रा-
णि गृहीतानि स्युः । मन्त्राद्याश्चौषधयो जीवकर्ष-
भकौ यान्यप्यन्यानि ब्राह्मणाः प्रशंसेयुः ।
क्रीडनकानि खल्वस्य तु विचित्राणि घोषव-
न्त्यभिरामाणि अगुरूण्यतीक्ष्णाग्राणि अनास्य-
प्रवेशीनि अप्राणहराणि अवित्रासनानि स्युः ।
नह्यस्य वित्रासनं साधु तस्मात्तस्मिन् रुदत्य-
भुञ्जाने वान्यत्र विधेयतामगच्छति राक्षसपि-
शाचपूतनाद्यानां नामान्याह्वयता कुमारस्य वि-
त्रासनार्थं नामग्रहणं न कार्य्यं स्यात् ।
यदि त्वातुर्य्यं किञ्चित् कुमारमागच्छेत् तत्प्र-
कृतिनिमित्तपूर्ब्बरूपलिङ्गोपशयविशेषैस्तत्ततोऽनु-
बुध्यसर्व्वविशेषानातुरौषध-देश-कालाश्रयानवेक्ष-
माणश्चिकित्सितुमारभेतैनं मधुरमृदुलघुसुरभि-
शीतसङ्करं कर्म्मप्रवर्त्तयन्नेवं सात्म्याहि कुमारा
भवन्ति तथा ते शर्म्म लभन्ते चिराय रोगत्वे-
ऽरोगवृत्तमातिष्ठेत् देशकालात्मगुणविपर्य्ययेण
वर्त्तमानः ।
क्रमेणासात्म्यानि परिवर्त्त्योपयुञ्जानः सर्व्वाण्य-
हितानि वर्जयेत्तथाबलवर्णशरीरायुषां सम्पद-
मवाप्नोतीति ।
एवमेनं कुमारमायौवनप्राप्तेर्धर्म्मार्थकुशला-
गमनाच्चानुपालयेदिति पुत्त्राशिषां समृद्धिकरं
कर्म्म व्याख्यातम् । तदाचरन् यथोक्तैर्विधिभिः
पूजां यथेष्टं लभते ऽनसूयक इति” ॥
इति शारीरस्थाने ऽष्टमेऽध्याये चरकेणोक्तम् ॥ * ॥
“अथ कुमारं शीताभिरद्भिराश्वास्य जात-
कर्म्मणि कृते मधुसर्पिरनन्ता ब्राह्मीरसेन सुवर्ण-
चूर्णमङ्गुल्यनामिकया लेहयेत्ततो बलातैलेनाभ्यज्य
क्षीरवृक्षकषायेण सर्व्वगन्धोदकेन वा रूप्यहेम-
प्रतप्तेन वा वारिणा स्नापयेदेनं कपित्थपत्र-
कषायेण वा कोष्णेन यथाकालं यथादेशं यथा
विभवञ्च ॥
क्षीराहाराय सर्पिः पाययेत् सिद्धार्थक-
वचामांसीपयस्यापामार्गशतावरीसारिवाब्राह्मी-
पिप्पलीहरिद्राकुष्ठसैन्धवसिद्धं क्षीरान्नमादाय म-
धुकवचा पिप्पली चित्रकत्रिफला सिद्धमन्नमादाय
द्विपञ्चमूलीक्षीर-तगर-भद्रदारु-मरिच-मधु-विड-
ङ्ग-द्राक्षा-द्विब्राह्मी सिद्धम् । तेनारोग्यबलमे-
धायूंषि शिशोर्मवन्ति ॥
बालं पुनर्गात्रसुखं गृह्णीयात् नचैनं तर्जयेत्
सहसा न प्रतिबोधयेत् वित्रासभयात् सहसा
नापहरेदुत्क्षिपेद्वा वातादिविघातभयात् नोप-
वेशयेत् कौब्ज्यभयात् नित्यञ्चैनमनुवर्त्तेत प्रिय-
शतैरजिघांसुः । एवमनभिहतमनास्त्वभिवर्द्धते
नित्यमुदग्रसत्त्व-सम्पन्नो नीरोगः सुप्रसन्नमनाश्च
भवति । वातातपविद्युत्प्रभापादपलताशून्यागार-
निम्नस्थानगृहच्छायादिभ्यो दुर्ग्रहोपसर्गतश्च बालं
रक्षेत् ।
“नाशुचौ विसृजेद्बालं नाकाशे विषमे न च ।
नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ॥
क्षीरसात्म्यतयाक्षीरमाजं गव्यमथापि वा ।
दद्यादास्तन्यपर्य्याप्तेर्बालानां वीक्ष्य मात्रया ॥
षण्मासञ्चैनमन्नं प्राशयेल्लघुहितञ्च । नित्यमव-
रोधरतश्च स्यात् कृतरक्ष उपसर्गभयात् । प्रयत्न-
तश्च ग्रहोपसर्गेभ्यो रक्ष्या बाला भवन्ति ॥
अथ कुमार उद्विजते त्रस्यति रोदिति नष्ट-
संज्ञो भवति नखदशनैर्धत्रीमात्मानञ्च परिणु-
दति दन्तान् खादति । कूजति जृम्भते भ्रुवौ
विक्षिपत्यूर्द्ध्वं निरीक्षते फेनमुद्वमति सन्दष्टौष्ठः
क्रूरो भिन्नामवर्च्चा दीनार्त्तस्वरो निशि जागर्त्ति
दुर्ब्बलो म्लानाङ्गो मत्स्यच्छुच्छुन्दरिमत्कुणगन्धो
यथा पुरा धात्र्याः स्तन्यमभिलषति तथा नाभिल-
षतीति सामान्येन ग्रहोपसृष्टलक्षणमुक्तं विस्तरे-
णोत्तरे वक्ष्यामः” ॥
इति सुश्रुतेनोत्तरतन्त्रे १० अध्याये उक्तम् ॥)
वरुणवृक्षः । इति मेदिनी ॥ अर्हदुपासकविशेषः ।
इति हेमचन्द्रः ॥ सिन्धुनदः । इति शब्दरत्नावली ॥
(सनकसनातनसनत्सनन्दा एते चत्वारोऽपि बा-
ल्यत एव ब्रह्मचारित्वात् कुमारा इत्युच्यन्ते ॥
त इव ये च कौमारतो ब्रह्मचारिणस्तेऽपि विज्ञे-
याः । यथा, मनौ । ५ । १५९ ।
“अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम्” ॥
मङ्गलग्रहः । यथा, नवग्रहस्तोत्रे ।
“धरणीगर्भसम्भूतं विद्युत्पुञ्जसमप्रभम् ।
कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम्” ॥
शुक्तिमत्पर्व्वतोद्भूतऋषिकुल्याविशेषः ।
यथा, विष्णुपुराणे ।
“ऋषिकुल्याः कुमाराद्याः शुक्तिमत्पादसम्भवाः” ॥
शाकद्वीपाधिपतेः सप्तपुत्त्राणामेकः । तन्नाम्ना तद्व-
र्षस्यापि तथा संज्ञा ।
यथा, विष्णुपुराणे २ । ४ । ५९-६० ।
“शाकद्वीपेश्वरस्यापि भवस्य सुमहात्मनः ।
सप्तैव तनयास्तेषां ददौ वर्षाणि सप्त सः ॥
जलदश्च कुमारश्च सुकुमारो मनीचकः ।
कुसुमोदश्च मौदाकिः सप्तमश्च महाद्रुमः ॥
तत्संज्ञान्येव तत्रापि सप्तवर्षाण्यनुक्रमात्” ॥
मन्त्रविशेषः । यथा, तन्त्रसारधृतविश्वसार-
वचनम् ।
“हृतवीर्य्यश्च भीमश्च प्रध्वस्तो बालकः पुनः ।
कुमारश्च युवा प्रौढो वृद्धो निस्त्रिंशकस्तथा” ॥
स्वरोदयोक्तबालचक्रस्थस्वरभेदः । बालोपद्रवक-
ग्रहभेदः । यथा, सुश्रुते उत्तरतन्त्रे ३७ अः ॥
“स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा ।
बिभर्त्ति चापरां संज्ञां कुमार इति स ग्रहः” ॥
त्रि, सुन्दरः ॥)

कुमारकः, पुं, (कुमार + संज्ञायां स्वार्थे वा कन् ।)

वरुणवृक्षः । इत्यमरः । २ । ४ । २५ ॥ बालकः ॥ इति
हेमचन्द्रः ॥ (यथा, महाभारते । १ । १२८ । २२ ।
“प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः ।
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः” ॥
राजकुमारः । यथा महाभारते । १ । १३३ । ७ ।
“ते तं दृष्ट्वा महात्मानमुपगम्य कुमारकाः ।
भग्रोत्साहक्रियात्मानो ब्राह्मणं पर्य्यवारयन्” ॥)
पृष्ठ २/१४६
कौरव्यवंशोद्भवो नागविशेषः । यथा, महाभारते
१ । आस्तीकपर्व्वणि ५७ । १३ ।
“एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।
बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ ।
कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्” ॥)

कुमारजीवः, पुं, (कुमारं जीवयतीति । जीव + णिच् +

अण् ।) पुत्त्रञ्जीवकवृक्षः । इति रत्नमाला । जी-
यापुता इति भाषा ॥

कुमारपालः, पुं, (कुमारं पालयति । पाल् + णिच्

+ अच् ।) शालिवाहनराजः । इति हेमचन्द्रः ॥
(शिशुपालके, त्रि ॥)

कुमारभृत्या, स्त्री, (कुमारस्य गर्भस्य निर्विघ्नप्रस-

वार्थं गर्भचिकित्साकुशलैः भिषग्भिः धात्र्या वा
भृत्या पालनम् ।) गर्भिण्याः परिचर्य्या । इति
हारावली ॥ तत्पर्य्यायः । बालतन्त्रम् २ गर्भिण्य-
वेक्षणम् ३ । इति त्रिकाण्डशेषः ॥
(यथा, रघुः । ३ । १२ ।
“कुमारभृत्याकुशलैरनुष्ठिते
भिषग्भिराप्तैरथ गर्भभर्म्मणि ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां
ददर्श काले दिवमभ्रितामिव” ॥)

कुमारयुः, पुं, (कुमारं कौमारं याति । मित्रय्वादि-

त्वात् कुः निपातनात् साधुः ।) युवराजः । इत्यु-
णादिकोषः ॥

कुमारवाही, [न्] पुं, (कुमारं कार्त्तिकेयं वहति ।

वह + णिनिः ।) मयूरः । इति शब्दरत्ना-
वली ॥

कुमारसूः, स्त्री, (कुमारं कार्त्तिकेयं सूते । सू + क्विप् ।)

गङ्गा । इति हेमचन्द्रः ॥ दुर्गा । इति व्युत्पत्ति-
लभ्योऽर्थः ॥ (पुं वह्निः । यथा, महाभारते ।
२ । सहदेवदिग्विजये ३१ । ४३ ।
“वैश्वानरस्त्वं पिङ्गेशः प्लवङ्गो भूरितेजसः ।
कुमारसूस्त्वं भगवान् रुद्रगर्भो हिरण्यकृत्” ॥)

कुमारिका, स्त्री, (कुमारयति आनन्देन क्रीडति ।

कुमार + णिच् + ण्वुल् + टाप् अत इत्यम् ।) कुमा-
री । इति शब्दरत्नावली ॥ नवमल्लिका । इति
रत्नमाला ॥ भारतवर्षस्य खण्डविशेषः । यथा, --
“वर्णव्यवस्थितिरिहैव कुमारिकाख्ये
शेषेषु चान्त्यजजना निवसन्ति सर्व्वे” ॥
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥ स्थूलैला ।
इति राजनिर्घण्टः ॥ (ओषधिविशेषः । घृत-
कुमारी इति ख्याता । अस्या व्यवहारो यथा
त्रैलोक्यचिन्तामणिरसे द्रष्टव्यः ।
“खल्वे द्रवेणैव कुमारिकायाः” ।
इति रसेन्द्रसारसङ्ग्रहे वातव्याध्यधिकारे ।
नेत्रमण्डलस्थप्रतिविम्बविशेषः । यथा, --
“दृष्टा यस्य विजानीयात् पन्नरूपां कुमारिकाम् ।
प्रतिच्छायामयोमक्ष्णो र्नैनमिच्छेच्चिकिस्तितुम्” ॥
इति चरके इन्द्रियस्थाने ७ अध्याये ॥)

कुमारी, स्त्री, (कुमार + प्रथमवयोवचनत्वात् स्त्रियां

ङीष ।) द्वादशवर्षीया कन्या । यथा, --
“अष्टवर्षा मवेद्गौरी दशवर्षा च कन्यका ।
सम्प्राप्ते द्वादशे वर्षे कुमारीत्यभिधीयते” ॥
इति स्मृतौ भेदः । इह अभेदोपचारात् कन्या
कुमारीत्थमरः ॥ इति भरतः ॥ आगमे तु कुमारी-
पूजने अजातपुष्पा चेत् तदा षोडशवर्षपर्य्यन्त-
वयस्का । तस्या वयोभेदेन नामभेदाः । यथा, --
“एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती ।
त्रिवर्षा तु त्रिधामूर्त्तिश्चतुर्व्वर्षा तु कालिका ॥
सुभगा पञ्चवर्षा च षड्वर्षा च उमा भवेत् ।
सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका ॥
नवभिः कालसङ्कर्षा दशभिश्चापराजिता ।
एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी ॥
त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका ।
क्षेत्रज्ञा पञ्चदशभिः षोडशे चान्नदा मता ॥
एवं क्रमेण सम्पूज्या यावत् पुष्पं न जायते ।
पुष्पितापि च सम्पूज्या तत्पुष्पादानकर्म्मणि” ॥ * ॥
तत्पूजाविधिर्यथा ।
“अथान्यत् साधनं वक्ष्ये महाचीनक्रमोद्भवम् ।
येनानुष्ठितमात्रेण शीघ्रं देवी प्रसीदति ॥
अष्टम्याञ्च चतुर्द्दश्यां कुह्वां वा रविसंक्रमे ।
कुमारीपूजनं कुर्य्याद्यथा विभवमात्मनः ॥
वस्त्रालङ्करणाद्यैश्च भक्ष्यैर्भोज्यैः सुविस्तरैः ।
पञ्चतत्त्वादिभिः सम्यग्देवीबुद्ध्या सुसाधकः” ॥
इत्यन्नदाकल्पः ॥ * ॥ (स्वनामख्याता परीक्षित्-
पुत्त्रस्य भीमसेनस्य पत्नी । यथा, -- महाभारते
१ । पूरुवंशानुकीर्त्तने ९५ । ४३ ।
“भीमसेनः खलु कैकेयीमुपयेमे कुमारीं नाम
तस्यामस्य जज्ञे प्रतिश्रता नाम” ॥)
पार्व्वती । नवमल्लिका । नदीविशेषः । (इयं हि
शाकद्वीपान्तर्गतसप्तनदीनामेका ।
यथा, विष्णुपुराणे २ । ४ । ६५ ।
“नद्यश्चात्र महापुण्याः सर्व्वपापभयापहा ।
सुकुमारी कुमारी च नलिनीधेनुका च या” ॥)
सहा । घृतकुमारी इति ख्याता । अपराजिता ।
जम्बुद्वीपः । इति मेदिनी ॥ सीता । इति हेम-
चन्द्रः ॥ बन्ध्याकर्कोटकी । स्थूलैला । मोदिनी-
पुष्पम् । तरुणीपुष्पम् । श्यामापक्षी । इति
राजनिर्घण्टः ॥

कुमाल त् क केलौ । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-अकं-सेट् ।) ह्रस्वीं । अचुकुमालत् ।
इति दुर्गादासः ॥

कुमालकः, पुं, (कुमाल + संज्ञायां कन् । कुमाल

त्क केलौ + ण्वुल् वा ।) सौवीरदेशः । इति
हेमचन्द्रः ॥

कुमुत्, [द्] क्ली, (कौ पृथिव्यां मोदते इति ।

कु + मुद् + क्विप् ।) कुमुदम् । इति मेदिनी । हेला
इति भाषा । रक्तोत्पलम् । इति त्रिकाण्डशेषः ॥
(यथा, भागवते ३ । २३ । ३८ ।
“बभ्राज उत्कचकुमुद्गणवानपीब्य
स्ताराभिरावृत इवोडुपतिर्नभस्थः” ॥
कुमुदस्य कन्दविशेषः । शालुक इति यस्य ख्यातिः ।
अस्य पर्य्याया यथा, --
“कैरवं चन्द्रकान्तञ्च गर्दभं कुमुदं कुमुत्” ॥
इति वैद्यकरत्नमालायाम् ॥)

कुमुत् [द्] त्रि, (कुस्तिते विषये मुत् हर्षो यस्य

कुत्सिता मुद् अस्य वा ।) कृपणः । इति मेदिनी ॥
अप्रीतः । इति शब्दरत्नावली ॥

कुमुदं, क्ली, (कौ मोदते । मुद् “इगुपधेति” । ३ ।

१ । १३५ । कः ।) श्वेतोत्पलम् । हेला सुँदि
इत्यादि भाषा ॥ (यथा, रामायणे ५ । ५५ । १ ।
“सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।
पुष्पश्रवणकादम्बमभ्रशैवलशाद्वलम्” ॥)
तत्पर्य्यायः । कैरवम् २ । इत्यमरः । १ । १० ।
३७ । चन्द्रकान्तम् ३ गर्द्दभम् ४ कुमुत् ५ । इति
रत्नमाला ॥ धवलोत्पलम् ६ कह्लारम् ७ शीत-
लकम् ८ शशिकान्तम् ९ इन्दुकमलम् १० चन्द्रि-
काम्बुजम् ११ गन्धसोमम् १२ । इति शब्द-
रत्नावली ॥ अपि च ।
“श्वेतं कुवलयं प्रोक्तं कुमुदं कैरवं तथा ।
कुमुदं पिच्छिलं स्निग्धं मधुरं ह्लादि शीतलम्” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । शीतलत्वम् ।
स्वादुत्वम् । पाके तिक्तत्वम् । कफरक्तदोषदाह-
श्रमपित्तनाशित्वञ्च । इति राजनिर्घण्टः । रक्त-
पद्मम् । इति मेदिनी ॥ रूप्यम् ॥ इति हेम-
चन्द्रः ॥

कुमुदः, पुं, (कुत्सिते नैरृतकोणे मोदते इति । कु +

मुद् + कः ।) नैरृतकोणस्थदिघस्ती । इत्यमरः ।
१ । ३ । ३ ॥ वानरविशेषः । (अयं खलु राम-
चन्द्रस्य सेनापतिवानराणां एकतमः ।
यथा, रामायणे । ६ । २ । २८ ।
“नाम्ना संकोचलो नाम नानाद्विजयुतो गिरिः ।
तत्र राज्यं प्रशास्त्येष कुमुदो नाम वानरः ।
योऽसौ शतसहस्राणि सहस्रं परिकर्षति” ॥)
नागविशेषः । (यथा, महाभारते । १ । ३५ । १५ ।
“कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः ।
कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा” ॥)
दैत्यभेदः । सितोत्पलम् । इति हेमचन्द्रः ॥ क-
र्पूरः । इति राजनिर्घण्टः ॥ ध्रुवकभेदः । यथा, --
“एकाविंशतिवर्णाङ्घ्रिर्मवेत् शृङ्गारके रसे ।
कुमुदोऽभोष्टदश्चैव ताले तुरगलीलके” ॥
इति सङ्गीतदामोदरः ॥ (कुं पृथ्वीं भूमिं वा मोद-
यति । अन्तर्भूतणिजन्तात् मुदः कः । विष्णुः ।
यथा, महाभारते । १३ । १४९ । ७६ ।
“शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः” ॥
विष्णुपार्श्वदः । यथा, भागवते । ८ । २१ । १० ।
“कुमुदः कुमुदाक्षश्च विश्वक्सेनः पतत्रिराट्” ॥
मेरोरुपष्टम्भगिरिविशेषः । स चायुतयोजनवि-
स्तृतः । यथा, भागवते ५ । १६ । १२ ।
“मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इति ।
अयुतयोजनविस्तारोन्नाहा मेरोश्चतुर्द्दिशमवष्टम्भ-
गिरय उपकॢप्ताः” ॥ शाल्मलद्वीपान्तर्गतप्रथम-
पर्व्वतः । यथा, विष्णुपुराणे २ । ४ । २६ ।
“कुमुदश्चान्नतश्चैव तृतीयश्च वलाहकः” ॥
आनूपजन्तुविशेषः । यथा, --
“हंससारसचक्राद्याः कुमुदाश्च कपिञ्जलाः ।
पृष्ठ २/१४७
आनूपास्तेषु विज्ञेयाः श्लेष्मला वातकोपनाः” ॥
इति हारीते प्रथमेस्थाने ११ अध्यायः ॥)

कुमुदबान्धवः, पुं, (कुमुदस्य बान्धवः ।) चन्द्रः । क-

र्पूरः । इत्यमरः । १ । ३ । १३ ॥

कुमुदवती, स्त्री, (कुमुदानि सन्त्यस्यां इति । मतुप्

मस्य वः ङीप् ।) कुमुद्वती । कुमुदसमूहः । इत्य-
मरटीकायां भरतः ॥

कुमुदा, स्त्री, (कुत्सितं मोदते । कु + मुद् + कः ।

टाप् च ।) कुम्भिका । पाना इति भाषा । गम्भा-
रीवृक्षः । इति मेदिनीकरहेमचन्द्रौ ॥
(अस्याः पर्य्याया यथा, --
“श्रीपर्णी काश्मरी भद्रा गाम्भारी गोपभद्रिका ।
कुमुदा च सदा भद्रा कट्फला कृष्णवृन्तिका” ॥
इति वैद्यकरत्नमालायाम् ॥) शालपर्णोवृक्षः ।
धातकीवृक्षः । कट्फलः । इति राजनिर्घण्टः ॥

कुमुदावासः, पुं, (कुमुदानां आवासः । कुमुदानि-

आवसन्त्यत्र वा । आ + वस् + अधिकरणे घञ् ।)
कुमुदप्रायदेशः । इति हेमचन्द्रः ॥

कुमुदिका, स्त्री, (कौ भूमौ मोदते इति । मुद् +

कर्त्तरि ण्वुल् टाप् अत इत्वञ्च ।) कट्फलः ।
इत्यमरः । २ । ४ । ४० ॥ (अस्याः पर्य्याया
यथा, --
“कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च ।
श्रीपर्णिका कुमुदिका भद्राभद्रवतीति च” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । गुणा-
श्चास्य कट्फलशब्दे व्यक्ताः ॥)

कुमुदिनी, स्त्री, (कुमुदानि सन्त्यस्याम् । कुमुद +

इनिः ङीप् ।) कुमुदयुक्तपुष्करिण्यादिः । कुमुद-
समूहः । कुमुदलता । इति भरतः ॥
(यथा भ्रमराष्टके । ७ ।
“अलिरसौ नलिनीवनवल्लभः
कुमुदिनी कुलकेलिकलारसः ।
विधिवशेन विदेशमुपागतः
कुटजपुष्परसं बहु मन्यते” ॥)
तत्पर्य्यायः । कुमुद्वती २ । इत्यमरः । १ । १० ।
३९ ॥ उत्पलिनी । इति राजनिर्घण्टः ॥ छोट
सुँदि इति भाषा ॥

कुमुदिनीपतिः, पुं, (कुमुदिन्याः पतिः वल्लभः ।)

चन्द्रः । इति हेमचन्द्रः ॥

कुमुदी, स्त्री, (कुमुद + स्त्रियां ङीष् ।) कट्फलः ।

इति शब्दरत्नावली ॥
(अस्या गुणादयः कट्फलशब्दे ज्ञातव्याः ॥)

कुमुदेशः, पुं, (कुमुदानां ईशः ।) चन्द्रः । इति शब्द-

रत्नावली ॥

कुमुद्वती, स्त्री, (कुमुद + “कुमुदनडवेतसेभ्यो ड्मतुप्” ।

४ । २ । ८७ । इति ड्मतुप् “मादुपधायाश्च” ।
८ । २ । ९ । इति मस्य वः । उगितश्चेति ङीप् ।)
कुमुदिनी । इत्यमरः । १ । १० । ३८ ॥
(यथा, भट्टिकाव्ये । २ । ६ ।
“प्रभातवाताहतिकम्पिताकृतिः
कुमुद्वतीरेणुपिशङ्गविग्रहम् ।
निरास भृङ्गं कुपितेव पद्मिनी
न मानिनीशं सहतेऽन्यसङ्गमम्” ॥
अस्याः पर्य्याया यथा, --
“कुमुद्वती कैरविका तथा कुमुदिनीति च” ।
गुणाश्चास्या कुमुदिनीशब्दे ज्ञेयाः । इति भावप्रका-
शस्य पूर्ब्बखण्डे प्रथमे भागे ॥
कुमुदाख्यनागराजस्य यवीयसी स्वसा सा तु
रामचन्द्रपुत्त्रस्य कुशस्य पत्नी ।
यथा, रघुः १७ । ६ ।
“तं स्वसा नागराजस्य कुमुदस्य कुभुद्वती ।
अन्वगात् कुमुदानन्दं शशाङ्कमिव कौमुदी” ॥
क्रौञ्चद्वीपान्तर्गतानां सप्तनदीनामेका नदी ।
यथा, विष्णुपुराणे २ । ४ । ५५ ।
“गौरी कुमुद्वती चैव सन्ध्यारात्रिर्मनोजबा ।
क्षान्तिश्च पुण्डरीका च सप्तैता वर्षनिम्नगाः” ॥)

कुमुद्वान्, त्रि, (कुमुद् + “कुमुदनडवेतसेभ्यः” । ४ ।

२ । ८७ । इति ड्मतुप् मस्य वः ।) कुमुदबहुल-
देशः । इत्यमरः । २ । १ । ९ ॥
(यथा रघुवंशे ४ । १९ ।
“हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु ।
विभूतयस्तदीयानां पर्य्यस्ता यशसामिव” ॥)

कुमोदकः, पुं, (कुं पृथ्वीं मोदयति । कु + मुद् +

णिच् + ण्वुल् । पृथिव्याः भारावतारणादिलीला-
कर्म्मभिः सर्व्वेषामानन्दकारकत्वात् तस्य तथा-
त्वम् ।) विष्णुः । इति हेमचन्द्रः ॥

कुम्पः, त्रि, (कुम्पति कुम्पयति वा । कुपि वेष्ठने +

अच् इदित्वात् नुम् ।) बाहुकुण्ठः । इति जटा-
धरः । कोपा इति भाषा ॥

कुम्बा, स्त्री, (कुवि वेष्टने + अच् टाप् च ।) सुग-

हनावृतिः । अस्पृश्यादिदर्शनवारणाय वेष्टनम् ।
इत्यमरः । २ । ७ । १८ ॥ (यथा तैत्तिरीयसंहि-
तायाम् । “तस्मिनुदीचीनकुम्बां शम्यां निद-
धाति” ॥ तथा शङ्करकविकृते अम्बाष्टके । ७ ।
“कुम्बावतीसमविडम्बा गलेन नवतुम्बाभवीणस-
विधा शं बाहुलेयशशिबिम्बाभिराममुखसम्बाधि-
तस्तनभरा” ॥ इति ॥)

कुम्भं, क्ली, (कुं भूमिं उम्भति गन्धेन पूरयति । कु +

उन्भ पूरणे + अच् ॥ शकन्ध्वादित्वात् साधुः ।)
गुग्गुलुः । इत्यमरः । ३ । ३ । १३४ ॥ त्रिवृत् ।
इति हेमचन्द्रः ॥

कुम्भः, पुं, (कुं भूमिं उम्भति जलेन । उन्भ + अच् ।

शकन्ध्वादित्वात् साधुः ।) घटः । अस्य परिमाणं
कलसशब्दे द्रष्टव्यम् ॥ गजकुम्भः । हस्तिशिरसः
पिण्डद्वयम् । इत्यमरः । ३ । ३ । १३४ ॥
(यथा प्रसन्नराघवे, -- “तैः किं मत्तकरीन्द्रकुम्भ-
कुहरेनारोपणीयाः कराः” ॥) कुम्भकर्णपुत्त्रः ।
(यथा, गोः रामायणे । ५ । ७९ । १५ ।
“सुतोऽथ कुम्भकर्णस्य कुम्भः परमकोपनः ।
अब्रवीत् परमक्रुद्धो रावणं लोकरावणम्” ॥)
वेश्यापतिः । इति विश्वमेदिन्यौ ॥ समाधिविशेषः ।
प्राणायामाङ्गकुम्भक इति यावत् । इति धरणी ॥
(प्रह्लादपुत्त्रः । यथा महाभारते १ । ६५ । १९ ।
“प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र भारत ! ॥
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत !” ॥
विष्णुः । यथा महाभारते १३ । १४९ । ८१ ।
“अर्च्चिष्मानर्च्चितः कुम्भो विशुद्धात्मा विशोधनः” ॥)
द्रोणद्वयपरिमाणम् । ६४ सेर इति भाषा ।
तत्पर्य्यायः । सूर्पः २ । इति वैद्यकपरिभाषा ॥
मेषादिद्वादशराश्यन्तर्गतैकादशराशिः । तस्य
पर्य्यायः । हृद्रोगः २ । इति दीपिका ॥ स
च धनिष्ठाशेषार्द्धसम्पूर्णशतभिषायुक्तपूर्ब्बभाद्रपदा
प्रथमपादत्रयेण भवति । अस्याधिष्ठात्री देवता
कलसधारी पुरुषः । स तु शीर्षोदयः । चरण-
रहितः । मध्यसन्तानः । मध्यमस्त्रीसङ्गः । कर्व्वूर-
वर्णः । वनचारी । वायुराशिः । स्निग्धः । उष्णः ।
अर्द्धस्वरः । वातपित्तकफप्रकृतिः । शूद्रवर्णः ।
पश्चिमदिक्स्वामी । श्लथाङ्गः । तत्र जातफलम् ॥
“मेधावी हस्तिघोटकधनेश्वरो दन्तपीडायुक्तः
स्नेहशून्यः” । इति ज्योतिषम् । जन्मकालीनचन्द्रा-
श्रितैतद्राशिफलम् ।
“अलसतासहितोऽन्यसुतप्रियः
कुशलताकलितोऽतिविचक्षणः ।
कलसगामिनि शीतकरे नरः
सदसि सज्जनमानसुरोचनः” ॥
इति कोष्ठीप्रदीपः ॥ तस्योदये तन्नामकलग्नं
भवति । तस्य गणितप्राप्तपरिमाणं यथा । दश-
व्यङ्गुलाधिकः पञ्चाङ्गुलप्रभे देशे वर्त्तमानोनविंशा-
यनांशे अष्टपञ्चाशत्पलाधिकत्रिदण्डाः । इति
ज्योतिषम् । तत्र जातफलम् ।
“कुम्भलग्ने समुद्भूतश्चलचित्तोऽतिसौहृदः ।
परदाररतो नित्यं सत्त्वकायो महासुखी” ॥
इति कोष्ठीप्रदीपः ॥

कुम्भकः, पुं, (कुम्भ इव कायति प्रकाशते निश्चलत्वात् ।

कै + कः । यद्वा कुम्भ + स्वार्थे कः ।) दक्षिण-
हस्तेन नासापुटद्वयं धृत्वा प्राणायामाङ्गं वायु-
स्तम्भनम् । इति तन्त्रम् ॥ (पातञ्जलयाज्ञव-
ल्क्यादौ तु ।
“कुम्भकः पूरको रेचः प्राणायामस्त्रिलक्षणः ।
पूरकं पूरणं वायोः कुम्भकः स्थापनं क्वचित् ॥
वहिर्निःसारणं तस्य रेचकः परिकीर्त्तितः ॥
दक्षिणे रेचयेद् वायुं वामेन पूरितोदरः ।
कुम्भेन धारयेन्नित्यं प्राणायामं विदुर्बुधाः ॥
अङ्गुष्ठेन पुटं ग्राह्यं नासया दक्षिणं पुनः ।
कनिष्ठानामिकाभ्याञ्च वामं प्राणस्य संग्रहे ॥
अङ्गुष्ठतर्जनीभ्यान्तु ऋग्वेदी सामगायनः ।
अङ्गुष्ठानामिकाभ्यान्तु ग्राह्यं सर्व्वैरथर्व्वभिः” ॥)
(तथा च, हठयोगदीपिकायाम् । २ । ४३ ।
“तत्सिद्धये विधानज्ञाश्चित्रान् कुर्व्वन्ति कुम्भकान् ।
विचित्रकुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात्” ॥
“तत्सिद्धये उन्मन्यवस्थासिद्धये” । इति त-
ट्टीका ॥ अस्य भेदाः यथा तत्रैव २ । ४४ ।
“सूर्य्यभेदनमुज्जायी सीत्कारी सीतली तथा ।
भस्त्रिकाभ्रामरीमूर्च्छा प्लाविनीत्यष्टकुम्भकाः” ॥
तथा पुनस्तत्रैव २ । ७१ ।
“प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्मकैः ।
पृष्ठ २/१४८
सहितः केवलश्चेति कुम्भको द्विविधो मतः” ॥ * ॥)

कुम्भकारः, पुं, (कुम्भं करोति । कुम्भ + कृ + “कर्म्म-

ण्यण्” । ३ । २ । १ । इति अण् ।) जातिविशेषः ।
कुमोर इति भाषा । स तु शूद्रागर्भे विश्वकर्म्मऐर-
साज्जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ तत्पर्य्यायः ।
कुलालः २ । इत्यमरः । २ । १० । ६ ॥ चक्री ३ ।
इति जटाधरः ॥ (एतज्जातिविषये तु पुराण-
भेदेन मतभेदो दृश्यते । यथा ।
“वैश्यायां विप्रतश्चौरात् कुम्भकारः स उच्यते” ॥
“मालाकाराच्चर्म्मकार्य्यां कुम्भकारो व्यजायत” ॥
“पट्टीकाराच्च तैलिक्यां कुम्भकारो बभूव ह” ॥
इत्यादि बहुलमतमस्ति बाहुल्यभिया नास्माभि-
रुद्ध्रियते ॥) कुक्कुभपक्षी । इति हेमचन्द्रः ॥

कुम्भकारिका, स्त्री, (कुम्भस्येव कार आकारो यस्याः ।

कुम्भकार + कप् + टाप् अत इत्वञ्च ।) कुलत्था ।
इति राजनिर्घण्टः ॥ (कुम्भं करोतीति । कुम्भ + कृ
+ ण्वुल् स्त्रियां टाप् अत इत्वम् । कुम्भकारस्त्री ।
इति व्युत्पत्तिलब्धोऽर्थः ॥)

कुम्भकारी, स्त्री, (कुम्भस्येव कार आकारो यस्याः ।

गौरादित्वात् ङीष् ।) कुलत्थाञ्जनम् । कुलत्थिका ।
इति राजनिर्घण्टः ॥ मनःशीला । इति जटाधरः ॥
(कुम्भकारस्य पत्नीति ङीष् ।) कुम्भकारभार्य्या ॥

कुम्भतुम्बी, स्त्री, (कुम्भ इव तुम्बी ।) अलावुप्रभेदः ।

गोल लाउ इति भाषा । तत्पर्य्यायः । कुम्भालावुः
२ गोरक्षतुम्बी ३ गोरक्षी ४ नागालावुः ५ घटा-
भिधा ६ घटालावुः ७ । अस्या गुणाः । मधुरत्वम् ।
शीतत्वम् । पित्तश्वासकफास्रज्वरकाशनाशित्वम् ।
रम्यत्वञ्च । इति राजनिर्घण्टः ॥

कुम्भदासी, स्त्री, (कुम्भस्य वेश्यापतेर्दासी ।) कुट्टनी ।

इति शब्दरत्नावली ॥

कुम्भयोनिः, पुं, (कुम्भः योनिर्जन्मस्थानं यस्य ।) अगस्त्य-

मुनिः । (यथा रघुः ४ । २१ ।
“प्रससादोदयादम्भः कुम्भयोनेर्महौजसः” ॥)
वशिष्ठमुनिः । (एतयोर्मुनिसत्तमयोरुत्पत्तिविवरणं
तु उर्व्वशीकृते कन्दर्पपीडितयोर्मित्रावरुणयोः
स्खलितेनैकस्मिन् कुम्भे सङ्गतेन रेतसा यथा घटितं
तथा तत् रामायणोत्तरकाण्डे ६६ -- ६७ सर्गे
विशेषतो द्रष्टव्यम् ॥) द्रोणाचार्य्यः । इति मेदिनी ॥
(अस्य उत्पत्तिकथायथा महाभारते १ । १३१ । ९-१४ ।
“गङ्गाद्वारं प्रति महान् बभूव भगवानृषिः ।
भरद्वाज इति ख्यातः सततं शंसितव्रतः ॥
सोऽभिषेक्तुं ततो गङ्गां पूर्ब्बमेवागमन्नदीम् ।
महर्षिभिर्भरद्वाजो हविर्द्धाने चरन् पुरा ॥
ददर्शाप्सरसं साक्षात् घृताचीमाप्लुतामृषिः ।
रूपयौवनसंम्पन्नां मददृप्तां मदालसाम् ॥
तस्याः पुनर्नदीतीरे वसनं पर्य्यवर्त्तत ।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥
तत्र संसक्तमनसो मरद्वाजस्य धीमतः ।
ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥
ततः सममवद्रोणः कलसे तस्य धीमतः ।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्ष्वशः ॥)
द्रोणपुष्पीष्टक्षः । इति राजनिर्घण्टः ॥ (स्त्रो, अप्स-
रोविशेषः । यथा महाभारते । ३ । ४३ । ३० ।
“गोपाली सहजन्या च कुम्भयोनिः प्रजागरा ।
चित्रसेना चित्रलेखा सहा च मधुरस्वना” ॥)

कुम्भला, स्त्री, (कुम्भं कुम्भाकारं लाति आदत्ते । कुम्भ

+ ला आदाने + कः टाप् च ।) मुण्डितिका ।
इति रत्नमाला ॥ मुण्डिरी इति भाषा ॥ (मुण्डी-
शब्दे विवृतिरस्या ज्ञेया ॥)

कुम्भवीजकः, पुं, (कुम्भ इव वीजं यस्य । ततः स्वार्थे

कः ।) रीठाकरञ्जः । इति राजनिर्घण्टः ॥

कुम्भशाला, स्त्री, (कुम्भाय कुम्भनिर्म्माणार्थं या

शाला ।) कुम्भनिर्म्माणादिगृहम् । तत्पर्य्यायः ।
पाकपुटी २ । इति हेमचन्द्रः ॥

कुम्भसन्धिः, पुं, (कुम्भयोः सन्धिर्मिलनम् ।) हस्ति-

कुम्भद्वयमध्यस्थानम् । तत्पर्य्यायः । आरक्षः २ ।
इति त्रिकाण्डशेषः ॥

कुम्भसम्भवः, पुं, (कुम्भः सम्भव उत्पत्तिस्थानं यस्य ।)

अगस्त्यमुनिः । इत्यमरः । १ । ३ । २० ॥
(यथा राजेन्द्रकर्णपुरे ७१ ।
“तद्युक्तं ननु कुम्भसम्भव ! भवत् प्रज्ञारहस्येन यत्
द्याञ्च क्ष्माञ्च तिरोदधन्निरवधिर्विन्ध्योऽपि वन्ध्यः
कृतः” ॥ वशिष्ठः । द्रोणः । एतयोरपि कुम्भो-
त्पत्तेस्तथात्वम् । एतद्विवरणन्तु कुम्भयोनिशब्दे
द्रष्टव्यम् ॥)

कुम्भा, स्त्री, (कु कुत्सितया निन्दितवृत्त्या उम्भा पूर्त्ति-

र्देहादेर्भरणं यस्याः । शकन्ध्वादित्वात् साधुः ।)
वेश्या । इति शब्दमाला ॥

कुम्भाण्डः, पुं, (कुम्भ इव अण्डं यस्य ।) वाणासुरस्या-

मात्यविशेषः । इति श्रीभागवतम् ॥
(यथा, हरिवंशे १७५ । १६३ ।
“कुम्भाण्डवचनैरेवं दानवेन्द्रः प्रचोदितः ।
वाचं रूक्षामतिक्रुद्धः प्रोवाच वदताम्बरः” ॥
अयञ्च वाणपराजयान्ते श्रीकृष्णप्रसादात् तद्रा-
ष्ट्रस्वामी बभूव ॥ यदुक्तं तत्रैव १८३ । २७ -३८ ।
श्रीकृष्ण उवाच ।
“कुम्भाण्ड ! मन्त्रिणां श्रेष्ठ ! प्रीतोऽस्मि तव सुव्रत ! ।
सुकृतन्ते विजानामि राष्ट्रिकोऽस्तु भवानिह ॥
सज्ञातिपक्षः सुसुखी निर्वृतोऽस्तु भवानिह ।
राज्यञ्चं ते मया दत्तं चिरं जीव ममाश्रयात्” ॥)
कुष्माण्डम् । कुष्माण्डीपर्य्याये कुम्भाण्डीदर्शनात् ॥

कुम्भाण्डी, स्त्री, (कुम्भाण्ड + स्त्रियां जातित्वात् ङीष् ।)

कुष्माण्डी । इति राजनिर्घण्टः ॥

कुम्भिका, स्त्री, (कु कुस्तितरूपेण उम्भति पूरयति आ-

च्छादयति वारि पुष्करिण्यादेः । शकन्ध्वादित्वात्
साधुः ।) जलजतृणविशेषः । पाना इति भाषा ।
तत्पर्य्यायः । वारिपर्णी २ । इत्यमरः । १ । १० । ३८ ॥
श्वेतपर्णा ३ अशकुम्भी ४ पानीयपृष्ठजः ५ । इति
रत्नमाला ॥ आकाशमूली ६ कुतृणम् ७ जलव-
ल्कलम् ८ । इति हारावली ॥ वारिमूली ९ खमू-
लिका १० पर्णी ११ पृश्नी १२ खमूली १३ खमूलिः
१४ वारिकणिका १५ । इति शब्दरत्नावली ॥
कुमुदा १६ दलाढकः १७ । इति जटाधरः ॥ अस्य
गुणाः वारिपर्णोशब्दे द्रष्टव्याः । पाटलावृक्षः ।
द्रोणपुष्पी । इति राजनिर्घण्टः ॥ नेत्ररोगविशेषः ।
तस्यं लक्षणं यथा, --
“वर्त्मान्ते पिडकाध्माता भिद्यन्ते च स्रवन्ति च ।
कुम्भीकवीजसदृशाः कुम्भिकाः सन्निपातजाः” ॥
इति माधवकरः ॥ (कुम्भा + स्वार्थे कन् टाप्
इत्वञ्च । वेश्या । इति शब्दमाला । कट्फलम् ।
भावप्रकाशे अस्याः पर्य्यायाः यथा, --
“कट्फलः सोमवल्कश्च कैटर्य्यः कुम्भिकापि च ।
श्रीपर्णिका कुमुदिका भद्रा भद्रवतीति च” ॥
गुणाश्चास्याः कट्फलशब्दे बोद्धव्याः ॥)

कुम्भिनीवीजं, क्ली, (कुम्भिन्या वीजम् ।) जयपालः ।

इति राजनिर्घण्टः ॥

कुम्भिपाकी, स्त्री, (कुम्भिना पाकोऽस्याः । गौरादि-

त्वात् ङीष् ।) कट्फलः । इति भावप्रकाशः ॥

कुम्भिमदः, पुं, (कुम्भोऽस्त्यस्य कुम्भी हस्ती तस्य मदः ।)

हस्तिमदः । इति राजनिर्घण्टः ॥ (गन्धद्रव्यविशेषः ॥)

कुम्भिलः, पुं, (कुम्भ + इलच् ।) चोरः । शालमत्स्यः ।

श्लोकार्थचौरः । श्यालः । इति हेमचन्द्रः ॥

कुम्भी, [न्] पुं, (कुम्भोऽस्यास्तीति । इनिः ।) हस्ती ।

कुम्भीरः । इति हेमचन्द्रः ॥ गुग्गुलुः । इति
जटाधरः ॥ (अग्निप्रकृतिविषकीटविशेषः । यथा,
“वाह्यकी पिञ्चिटः कुम्मी” ॥ इति सुश्रुते कल्प-
स्थाने ८ अध्याये ॥)

कुम्भी, स्त्री, (कुम्भ + अल्पार्थे ङीप् । क्षुद्रकुम्भः ।)

उखा पाटलावृक्षः । वारिपर्णी । कट्फलः । इति
हेमचन्द्रः ॥ वृक्षविशेषः । कुम्भीपुष्प इति कोकणे
प्रसिद्धा । तत्पर्य्यायः । रोमालुविटपी २ रोमशः
३ पर्पटद्रुमः ४ । अस्य गुणाः । कटुत्वम् । कषाय-
त्वम् । उष्णत्वम् । ग्राहित्वम् । वातकफापहत्वञ्च ।
दन्तीवृक्षः । इति राजनिर्घण्टः ॥

कुम्भीकः, पुं, (कुम्भीव कायते प्रकाशते । कै + कः ।)

पुन्नागवृक्षः । इति रत्नमाला ॥ (यथा, सुश्रुते ।
“प्रियङ्गुसमङ्गाधातकीपुन्नागरक्तचन्दनचन्दनमो-
चरसरसाञ्जनकुम्भीकस्रोतोऽञ्जनपद्मकेसरयोजन-
वल्ल्यो दीर्घमूलाचेति” ॥) कुम्भिका । यथा, --
“दूर्व्वाकशेरुपूतीककुम्भीकप्लवशैवलम्” ।
इति चक्रपाणिदत्तः ॥ (विकृतगर्भविशेषः । यथा,
“पुंस्त्वदोषास्तु पञ्चैव प्रोक्तास्तत्रेर्ष्यकः स्मृतः ।
आसेक्यश्चैव कुम्भीकः सुगीन्धखण्डसंज्ञितः” ॥
इति शार्ङ्गधरेण पूर्ब्बखण्डे सप्तमेऽध्याये उक्तम् ॥
“स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवंर्त्तते ।
कुम्भीकः स च विज्ञेयः” । इति सुश्रुते शारीर-
स्थाने २ अध्याये ॥)

कुम्भीनसः, पुं, (कुम्भीव नसा नासा यस्य ।) क्रूरसर्पः ।

इति मेदिनी ॥ (वायुप्रकृतिकविषकीटविशेषः ।
यथा । “कुम्भीनसस्तुण्डिकेरी” ॥ इति सुश्रुते कल्प-
स्थाने ८ अध्याये उक्तम् ॥)

कुम्भीनसी, स्त्री, (कुम्भीनस + स्त्रियां ङीष् ।) लवण-

दानवमाता । इति मेदिनी ॥ (यथा, रामायणे ।
७ । ३० । १९ ।
“ज्ञातींस्तान् धर्षयित्वेमास्त्वया नीता वराङ्गनाः ।
पृष्ठ २/१४९
त्वामतिक्रम्य मधुना राजन् कुम्भीनसी हृता” ॥)

कुम्भीपाकः, पुं, (कुम्भ्यां उखायां पाक इव पाको

यत्र ।) नरकविशेषः । इति जटाधरः ॥ तत्पर्य्यायः ।
सम्प्रतापनः २ । इति मनुः ॥ “य इह पशून्
पक्षिणो वा प्राणतो रन्धयति तं परत्र यमदूता-
स्तप्ततैले रन्धयन्ति यत्र । इति श्रीमागवते ।
६ । २६ । ७ ॥

कुम्भीरः, पुं, (कुम्भिनं हस्तिनमपि ईरयति । ईर

+ “कर्म्मण्यण्” । ३ । २ । १ ।) जलजन्तुविशेषः ।
कुमीरं इति भाषा । तत्पर्य्यायः । नक्रः २ । इत्य-
मरः । १ । १० । २१ ॥ कुम्भीलः ३ । इति तट्टीका ॥
गिलग्राहः ४ महाबलः ५ । इति राजनिर्घण्टः ॥
वार्भटः ६ अम्बुकिरातः ७ अम्बुकण्टकः ८ ।
इति शब्दरत्नावली ॥
(यथा, महाभारते । १३ । १११ । ५८ ।
“गर्दभत्वन्तु संप्राप्य दशवर्षाणि जीवति ।
संवत्सरन्तु कुम्भीरस्ततो जायेत मानवः” ॥)

कुम्भीरमक्षिका, स्त्री, (कुम्भीर इत्याख्या मक्षिका ।

यद्वा कुम्भीरोपपदयुक्ता मक्षिका ।) मक्षिका-
विशेषः । कुमीरा पोका इति भाषा । तत्पर्य्यायः ।
कणा २ । इति हारावली ॥

कुम्भीलः, पुं, (कुम्भीर + रस्य लः ।) कुम्भीरः । इत्य-

मरटीका ॥

कुम्भीवीजं, क्ली, (कुम्भ्या वीजम् ।) जयपालः । इति

राजनिर्घण्टः ॥ (जयपालशब्देऽस्य गुणादिकं
ज्ञेयम् ॥)

कुर श शब्दे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

अकं-सेट् ।) श कुरति कोरिता । इति दुर्गादासः ॥

कुरका, स्त्री, (कुर् + कः । कुरः शब्दः कायति

प्रकाशतेऽस्मिन् । कै + कः ।) सल्लकीवृक्षः । इति
राजनिर्घण्टः ॥

कुरङ्करः, पुं, (कुरमित्यव्यक्तशब्दं करोति । कुरम्

+ कृ + टः ।) सारसपक्षी । इति हेमचन्द्रः ॥

कुरङ्कुरः, पुं, (कुरं इत्यस्फुटशब्दं कुरति । कुर् + कः ।)

सारसपक्षी । इति हारावली ॥

कुरङ्गः पुं, (कौ पृथिव्यां भूमौ वा रङ्गति । रगि +

अच् । यद्वा, “विडादिभ्यः किच्च” । उणां १ । १२०
इति अङ्गच् बाहुलकात् उत्वं रपरत्वञ्च । कुरङ्ग-
विहङ्गादयःसर्व्वेनिपात्यन्ते । इति वा ।) हरिणः ।
इत्यमरः । २ । ५ । ८ ॥ कुतङ्गकोऽपि ॥
(यथा, भागवतटीकायां स्वामिना प्रोक्तम् ।
“कुरङ्गमातङ्गपतङ्गभृङ्ग-
मीना हताः पंञ्चभिरेव पञ्च” ॥
अस्य गुणाः यथा, --
“कुरङ्गो वृंहणो बल्यः शोतलः पित्तहृद्गुरुः ।
मधुरो वातहृद्ग्राही किञ्चित्कफकरः स्मृतः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ * ॥
अस्य लक्षणं यथा, --
“न कृष्णो न च ताम्रश्च कुरङ्गः सोऽभिधोयते” ॥
इति सूत्रस्थाने षट्चत्वारिंशेऽध्याये सुश्रते-
नोक्तम् ॥)

कुरङ्गनयना, स्त्री, (कुरङ्गस्य नयने इव नयने यस्याः ।)

मृगनयना नारी । इति राजनिर्घण्टः ॥ (उक्तञ्च,
“किन्त्वेकायमुना कुरङ्गनयना नेत्राम्बुभिर्वर्द्धते” ॥)

कुरङ्गनाभिः, पुं, (कुरङ्गस्य नाभिः ।) कस्तूरी । इति

राजनिर्घण्टः ॥ (कस्तूरीशब्दे ऽस्य गुणादयो
बोद्धव्याः ॥)

कुरङ्गमः, पुं, (कौ भूमौ रङ्गं मिमीते । मा + डः ।)

हरिणविशेषः । तत्पर्य्यायः । एणः २ ऋश्यः ३
रिश्यः ४ चारुलोचनः ५ । इति त्रिकाण्डशेषः ॥

कुरङ्गिका, स्त्री, (कौ रङ्गोऽस्या अस्तीति । ठन् टाप्

च ।) मुद्गपर्णी । इति राजनिर्घण्टः ॥

कुरचिल्लः, पुं, (कुरे शब्दे चिल्लति । चिल्ल शैथिल्ये

+ अच् ।) कर्कटः । इति हेमचन्द्रः ॥

कुरटः, पुं, (कुर् + अटन् किच्च । कु कुत्सितवृत्त्या

रटति जीवति देहयात्रां सम्पादयति वा । रट
+ अच् ।) चर्म्मकारः । इति त्रिकाण्डशेषः ॥

कुरण्टकः, पुं, (कुर्य्यते शब्द्यते इति । कुर् + कर्म्मणि

बाहुलकात् अण्टक् स्वार्थे कन् ।) पीताम्लानः ।
पीतझिण्टी । इति राजनिर्घण्टः ॥ (अस्य पर्य्याय-
लक्षणगुणा यथा, --
“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।
सहाचरः सहचरः स च मिन्द्यपि कथ्यते ॥
कुरण्टकोऽत्र पीते स्याद्रक्ते कुरवकः स्मृतः ।
नीले वाणाद्वयोरुक्तो दासे आर्त्तगलश्च सः ॥
सैरेयः कुष्ठवातास्रकफकण्डूविषापहः ।
तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम्” ॥
इति शुश्रुते सूत्रस्थाने ४६ अः ॥ अत्रास्य नपुं-
सकत्वं व्यज्यते ॥)

कुरण्डः, पुं, (कुर + अण्डक् ।) मुष्कवृद्धिरोगः ।

कोरण्ड इति भाषा । तत्पर्य्यायः । वृद्धिः
२ अण्डवर्द्धनः ३ । इति हेमचन्द्रः ॥ तस्य सम्प्राप्ति-
पूर्ब्बकं लक्षणं यथा, --
“क्रुद्धोऽनूर्द्ध्वगतिर्वायुः शोथशूलकरश्चरन् ।
मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः ॥
प्रपीड्य धमनीर्वृद्धिं करोति फलकोषयोः ।
दोषास्रमेदोमूत्रान्त्रैः सवृद्धिः सप्तधा मतः ॥
मूत्रान्त्रजावप्यनिलाद्धेतुभेदश्च केवलम् ।
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् ॥
पक्वोडुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् ।
कफाच्छीतो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ॥
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः ।
कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः ॥
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः ।
अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः ॥
मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः ।
वातकोपिभिराहारैः शीततोयावगाहनैः ॥
धारणे रणभाराध्वविषमाङ्गप्रवर्त्तनैः ।
क्षोभणैः क्षुभितश्चान्यैः क्षुद्रान्त्रावयवं यदा ॥
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् ।
कुर्य्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ॥
उपेक्ष्यमाणस्य च मुष्कष्टद्धि-
माध्मानरुक् स्तम्भवतीं स वायुः ।
प्रपीडितोऽन्तःस्वनवान् प्रयाति
प्रध्मापयन्नेति पुनश्च मुक्तः ॥
अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः” ॥
इति वृद्धिनिदानम् ॥ इति माधवकरः ॥ * ॥
तस्यौषधं यथा, --
“द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा ।
गण्डमालां हरेल्लेपात् कुरण्डगलगण्डकम् ॥
रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात् ।
नश्येद्वै पुरुषव्याधिं नात्र कार्य्या विचारणा” ॥
इति गारुडे १९० अध्यायः ॥ * ॥ अन्यच्च ।
“गव्यं घृतं सैन्धवसंप्रयुक्तं
शम्बूकभाण्डे निहितं तदेव ।
सप्ताहमादित्यकरैर्व्विपक्वं
हन्यात् कुरण्डं चिरजं प्रवृद्धम्” ॥
गव्यघृत कर्ष १ । सैन्धव मा ४ । शम्बूकभाण्डे
कृत्वा सप्तदिनं यावत् रौद्रे भावयेत् तेन कुरण्ड-
म्रक्षणम् ॥
“सैन्धवञ्च घृताभ्यक्तं ताम्रभाजन आतपे ।
प्रतप्तमूर्णया घृष्टं तन्मलञ्च समाहरेत् ॥
कुरण्डं म्रक्षयेत्तेन स निर्व्विघ्नं दिवानिशम् ।
कुरण्डं तेन संलिप्तं नास्तीत्याह पुनर्व्वसुः ॥
ताम्रभाजने घृतं सैन्धवं दत्त्वा रौद्रे तप्तं कृत्वा
मेषलोमलुण्डिकया घृष्ट्वा मलग्रहं कृत्वा तेन
म्रक्षयेत् ॥
बहुवारस्य वीजञ्च पिष्ट्वा तच्चार्द्रकैः सह ।
कुरण्डं नाशयेद्भद्रे लेपनान्नात्र संशयः ॥
घृतैर्नीलोत्पलं मूलं पिष्ट्वा लिम्पेत् कुरण्डकम् ।
अथवा लेपनं कुर्य्यात् गृहमण्डूकशोणितैः” ॥
इति भैषज्यरत्नावली ॥ * ॥ अपरञ्च ।
“गुग्गुलुं रुवुतैलं वा गोमूत्रेण पिबेन्नरः ।
वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम् ॥
सक्षीरं वा पिबेत्तैलं मासमेरण्डसम्भवम् ।
पुनर्नवायास्तैलं वा तैलं नारायणन्तथा ॥
पाने वस्तौ रुवोस्तैलं पेयं वा दशकाम्भसा ।
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम् ॥
क्षीरपिष्टैः प्रदेहः स्याद्दाहशोथरुजापहः ।
पञ्चवल्कलकल्केन सघृतेन प्रलेपनम् ॥
सर्व्वं पित्तहरं कार्य्यं रक्तजे रक्तमोक्षणम् ।
श्लेष्मवृद्धिं तूष्णवीर्य्यैर्मूत्रपिष्टैः प्रलेपयेत् ॥
पीतदारुकषायञ्च पिबेन्मूत्रेणं संयुतम् ।
स्विन्नां मेदःसमुत्थान्तु लेपयेत् सुरसादिना ॥
शिरोविरेकद्रव्यैर्व्वा सुखोष्णैर्मूत्रसंयुतैः ।
संस्वेद्य मूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत् ॥
सेवन्याः पार्श्वतोऽधस्ताद्विध्येद्व्रीहिमुखेन वै ।
शङ्खोपरि च कर्णान्ते त्यक्त्वा सेवनिमादरात् ॥
व्यत्यासाद्वा सिरा विध्येदन्त्रवृद्धिनिवृत्तये ।
अङ्गुष्ठमध्ये त्वक् छित्वा दहेदङ्गविपर्य्यये ॥
रास्नायष्ट्यमृतैरण्डबलागोक्षुरसाधितः ।
क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुवुतैलेन मिश्रितः ॥
तैलमेरण्डजं पीत्वा बलासिद्धपयोऽन्वितम् ।
आध्मानशू लोपचितामन्त्रवृद्धिं जयेन्नरः ॥
पृष्ठ २/१५०
हरीतकीं मूत्रसिद्धां सतैललवणान्विताम् ।
प्रातःप्रातश्च सेवेत कफवातामयापहाम् ॥
गोमूत्रपिष्टां रुवुतैलभृष्टां
हरीतकीं सैन्धवचूर्णयुक्ताम् ।
खादेन्नरः कोष्णजलानुपानां
निहन्ति वृद्धिं चिरजां प्रवृद्धाम् ॥
त्रिफलाक्वाथगोमूत्रं पिबेत् प्रातरतन्द्रितः ।
कफवातोद्भवं हन्ति श्वयथुं वृषणोत्थितम् ॥
सरलागुरुकुष्ठानि देवदारुमहौषधम् ।
मूत्रारनालसंपिष्टं शोथघ्नं कफवातनुत् ॥
त्रिफलाक्वाथगोमूत्रं कल्कः पथ्यासमुद्भवः ।
कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः ॥
गव्यं घृतं सैन्धवसंप्रयुक्तं
शम्बूकभाण्डे निहितं प्रयत्नात् ।
सप्ताहमादित्यकरैर्व्विपक्वं
निहन्ति कुरण्डमतिप्रवृद्धभ् ॥
ऐन्द्रीमूलभवं चूर्णं रुवुतैलेन मर्द्दितम् ।
त्र्यहाद्गोपयसा पीतं सर्व्ववृद्धिनिवारणम् ॥
रुद्रजटामूललिप्ता करटव्यङ्गचर्म्मणा ।
बद्धा वृद्धिः शमं याति चिरजापि न संशयः ॥
निपिष्टेनारनालेन रूपिकामूलवल्कलम् ।
लेपोवृद्ध्यामयं हन्ति बद्धमूलमपि दृढम् ॥
वचासर्षपकल्केन लेपो वृद्धिविनाशनः ।
लज्जागृघ्रमलाभ्यान्तु लेपो वृद्धिहरः परः” ॥ * ॥
“मूलं विल्वकपित्थयोरल्लकस्याग्नेर्वृहत्योर्द्वयोः
श्यामापूतिकरञ्जशिग्रुकतरोर्व्विश्वौषधारुष्करम् ।
कृष्णाग्रन्थिकचव्यपञ्चलवणं क्षाराजमोदान्वितं
पीतङ्काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं ब्रध्नजित् ॥
अवीक्षीरेण गोधूमकल्कं कुन्दुरुकस्य वा ।
प्रलेपनं सुखोष्णं स्यात् ब्रध्नशूलहरं परम् ॥
मृत्पात्रे तु वै काकोदरे तत्तु प्रवेशयेत् ।
ब्रध्रं मुहूर्त्तं मेधावी तत्क्षणादरुजो भवेत् ॥
अजाजी हवुषा कुष्ठं गोधूमं वदरणि च ।
काञ्जिकेन समं पिष्ट्वा कुर्य्याद्ब्रध्रप्रलेपनम् ॥
सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम् ॥
ह्रीवेरं मधुकं भार्गी देवदारु सनागरम् ॥
कट्फलं पौष्करं मेदां चविकां चित्रकं शटीम् ।
विडङ्गातिविषे श्यामां रेणुकां नीलिनीं स्थिराम् ॥
विल्वाजमोदां कृष्णाञ्च दन्तीं रास्नां प्रपिष्य च ।
साध्यसेरण्डजं तैलं तैलं वा कफवातनुत् ॥
ब्रध्रोदरार्त्तगुल्मार्शःप्लीहमेहाढ्यमारुतान् ।
आनाहमश्मरीञ्चैव हन्यात्तदनुवासनात्” ॥
वृहत्सैन्धवाद्यं तैलम् ॥
“सौरेश्वरघृतं योज्यं ब्रध्रवृद्धिनिवृत्तये” ॥
इतिब्रध्रवृद्ध्यधिकारः । इति चक्रपाणिदत्तः ॥ * ॥
(अस्य सनिदानं पूर्ब्बरूपसहितं लक्षणं संप्रा-
प्तिश्च यथा । “वातपित्तश्लेष्मशोणितमेदो मूत्रान्त्र-
निमित्ताः सप्त वृद्धयः । तासां मूत्रान्त्रनिमित्ते
वृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः ॥ अधः
प्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनी-
रभिप्रपद्यधमनीः फलकोषयोर्वृद्धिं जनयति तां
वृद्धिमित्याचक्षते ॥ तासां भविष्यतीनां पूर्ब्ब-
रूपाणि वस्तिकटीमुष्कमेढ्रेषु वेदना मारुत-
निग्रहः फलकोशशोफश्चेति ॥
तत्रानिलपरिपूर्णां वस्तिमिवाततां परुषा-
मनिमित्तानिलरुजं वातवृद्धिमाचक्षते, पक्वोडु-
म्बरसङ्काशां ज्वरदाहोष्मवती चाशुसमुत्थानपाकां
पित्तवृद्धिं कठिनामल्पवेदनां शीतां कण्डूमतीं
श्लेष्मवृद्धिं कृष्णस्कोटावृतां पित्तवृद्धिलिङ्गां रक्त-
वृद्धिं मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफल-
प्रकाशां मेदोवृद्धिम् ॥ मूत्रसन्धारण-शीलस्य मूत्र-
वृद्धिर्भवति सा गच्छतोऽम्बुपूर्णा दृतिरिव क्षुभ्यति
मूत्रकृच्छ्रवेदनां वृषणयोःश्वयथुं कोषयोश्चापाद-
यति तां मूचवृद्धिं विद्यात् ॥ भारहरणबलवद्वि-
ग्रहवृक्षप्रपतनादिभिरायासविशेषैर्वायुरतिप्रवृद्धः
प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं द्विगुणमा-
दायाधोगत्वा वङ्क्षणसन्धिमुपेत्य ग्रन्थिरूपेण स्थि-
त्वाऽप्रतिक्रियमाणे च कालान्तरेण फलकोषं प्र-
विश्य मुष्कशोफमापादयत्याध्मातो वस्तिरिवाततः
प्रदीर्घः शोफो भवति सशब्दमवपीडितश्चोर्द्ध्वमुपैति
विमुक्तश्च पुनराधमति तामन्त्रवृद्धिमसाध्या-
माचक्षते” ॥ * ॥ इति सुश्रुते निदानस्थाने ।
१२ अध्याये ॥
चिकित्सतञ्चास्य यथा, --
“अन्त्रवृद्ध्या विना षड् या वृद्धयस्तासु वर्जयेत् ।
अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम् ॥
अत्यासनञ्चङ्क्रमणमुपवासं गुरूणि च ।
तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ॥
स्विन्नञ्चैनं यथान्यायं पाययेत विरेचनम् ।
कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम् ॥
सक्षीरं वा पिबेन्मासं तैलमेरण्डसम्भवम् ।
ततः कालेऽनिलध्नानां क्वाथैः कल्कैश्च बुद्धिमान् ॥
निरूहयेन्निरूढञ्च भुक्तवन्तं रसौदनम् ॥
यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् ।
स्नेहोपनाहौ कुर्य्याच्च प्रदेहांश्चानिलापहान् ॥
विदग्धां पाचयित्वा वा सेवनीं परिवर्ज्जयेत् ॥
भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत् ।
पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ॥
पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा ।
शुद्धायाञ्च भिषग्दद्यात् तैलं कल्कञ्च रोपणम् ॥
रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक् ।
पिबेद्विरेचनं वापि शर्कराक्षौद्रसंयुतम् ॥
पित्तग्रन्थिक्रमं कुर्य्यादामे पक्वे च सर्व्वदा ।
वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् ॥
पीतदारु कषायञ्च पिबेन्मूत्रेण संयुतम् ॥
विम्लापनादृते वापि श्लेष्मग्रन्थिक्रमो हितः ।
पक्वायाञ्च विभिन्नायां तैलं शोधनमिष्यते ॥
सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम् ।
मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना ॥
शिरोविरेकैर्द्रव्यैर्व्वा सुखोष्णैर्मूत्रसंयुतैः ।
स्विन्नाञ्चावेष्ट्य पट्टेन समाश्वास्य तु मानवम् ॥
रक्षेत् फले सेवनीञ्च वृद्धिपत्रेण दारयेत् ।
मेदस्ततः समुद्धृत्य दद्यात्कासीससैन्धवे ॥
बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलञ्च दापयेत् ।
मनःशिलाललवणैः सिद्धमारुष्करेषु च ॥
मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् ।
सेवन्याः पार्श्वतोऽधस्ताद्विध्येद्ध्रीहिमुखेन तु ॥
अथात्र विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक्
मूत्रं नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत् ॥
शुद्वायां रोपणं दद्याद्वर्ज्जयेदन्त्रहेतुकीम् ॥
अप्राप्तफलकोशायां वातवृद्धिक्रमो हितः ।
तत्र या वङ्क्षणस्था तां दहेदर्द्धेन्दुवक्त्रया ॥
सम्यग्मार्गावरोधार्थं कोशप्राप्तान्तु वर्जयेत् ।
त्वचं भित्त्वाङ्गुष्ठमध्ये दहेच्चाङ्गविपर्य्ययात् ॥
अनेनैव विधानेन वृद्धी वातकफात्मिके ।
प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः ॥
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् ।
व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये” ॥
इति सुश्रुते चिकित्सितस्याने १९ अः ॥ * ॥)
भावप्रकाशोक्तचिकित्सादिः अन्त्रवृद्धिशब्दे द्रष्टव्यः ॥
साकरुण्डवृक्षः । इति राजनिर्घण्टः ।

कुरण्डकः, पुं, (कुर्य्यते शब्द्यते इति । कुर् + बाहुल-

कात् अण्टक् । पृषोदरात् साधुः । ततः स्वार्थे
कन् ।) कुरण्टकवृक्षः । इत्यमरटीकायां रायमु-
कुटः ॥ (कुरण्टकशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

कुररः, पुं, (कुङ्शब्दे + “कुवः क्ररच्” । उणां

३ । १३३ । इति क्ररच् प्रत्ययः ।) कुरलपक्षी ।
तत्पर्य्यायः । उत्क्रोशः २ । इत्यमरः । २ । ५ । २३ ॥
खरशब्दः ३ क्रौञ्चः ४ पंक्तिचरः ५ खरः ६ । इति
राजनिर्घण्टः ॥ (यथा महाभारते ३ नलोपाख्यान-
पर्व्वणि । ६४ । ११० ।
“प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्” ॥
अयं जलचरान्तर्गतपक्षिविशेषः । यथा, --
“कुररवकमकराः कङ्कचटकपिकभृङ्गसारसाः ।
आडिदात्यूहहंसा जलकरटिकपिङ्गा टिट्टिभाद्याः ।
जलेचरा विहङ्गास्ते भासकाः खञ्जरीटकाः ।
इत्येते जलजा जीवाः” ॥ इति हारीते प्रथमे
स्थाने ११ अध्याये ॥)

कुरराङ्घ्रिः, पुं, (कुररस्य अङ्घिरिव ।) देवसर्षपः ।

इति राजनिर्घण्टः ॥

कुररी, स्त्री, (कुरर + स्त्रियां जातित्वात् ङीष् ।)

मेषी । इति हेमचन्द्रः ॥ कुररपक्षिस्त्री । इत्य-
मरः ॥ (यथा, महाभारते । १ । ६ । १२ ।
“ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव” ॥)

कुरलः, पुं, (कुरर इति रस्य लः ।) कुररपक्षी ।

चूर्णकुन्तलः । इति धरणी ॥

कुरवः, पुं, (कु ईषत् रबः गुञ्जनध्वनिर्मधुकराणां

स्वल्पमधुतया यत्र ।) सितमन्दारः । इति राज-
निर्घण्टः ॥ कुरवकः । रक्तझिण्टी । इति शब्द-
रत्नावली ॥ पीतझिण्टी । इति हेमचन्द्रः ॥
(कुत्सितो रव इति कर्म्मधारयः ।) कुत्सितशब्दः ॥
(कुत्सितो रवो यस्य ।) कुत्सितशब्दयुक्ते त्रि ॥

कुरवकः, पुं, (कुरव + स्वार्थे कन् ।) रक्ताम्लानः ।

रक्तझिण्टी । इति राजनिर्घण्टः ॥ (यथा राजे-
न्द्रकर्णपूरे ६५ ।
“किञ्चित्कुड्मलितैकलोचनपुटं कण्डूं मुहुर्गण्डयोः
पृष्ठ २/१५१
झम्पाकम्पितकुड्मले कुरवके निर्वाप्य वन्यद्विपैः” ॥
तस्य पुष्पादिरपि । यथा कुमारटीकायां
मल्लिनाथः । “आलोकितः कुरवकः कुरुते विका-
शम्” ॥ अस्य पर्य्याया लक्षणञ्च यथा ॥
“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।
सहाचरः सहचरः स च भिन्द्यपि कथ्यते ।
कुरण्टकोऽत्र पीते स्याद्रक्ते कुरवकः स्मृतः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कुत्सितरवे त्रि ॥

कुरसः, पुं, (कुत्सितो रसो यत्र ।) मद्यभेदः । इति

हारावली ॥ कर्म्मधारये कुत्सितरसः । बहुव्रीहौ
कुत्सितरसयुक्ते त्रि ॥

कुरसा, स्त्री, (कुत्सितः ईषत् वा रसो यस्याः ।)

गोजिह्वा लता । इति शब्दचन्द्रिका ॥

कुराहः, पुं, कुलाहः । ईषत्पाण्डुः कृष्णजङ्घो घोटकः ।

इति हेमचन्द्रः ॥

कुरी, स्त्री, (कुं भूमिं राति ददाति । कु + रा + कः ।

ततो गौरादित्वात् ङीष् ।) तृणधान्यभेदः । इति
राजनिर्घण्टः ॥

कुरीरं, क्ली, (“कृञ उच्च” । उणां ४ । ३३ । इति

ईरन् उकारादेशश्च ।) मैथुनम । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥

कुरुः, पुं, (कृ + “कृग्रोरुच्च” । उणां १ । २५ । इति

कुः उच्च ।) आग्नीध्रराजपुत्त्रः । स तु प्रियव्रत-
राजपौत्त्रः । (स्वायम्भुवमनोः प्रपौत्त्रः उत्तरकुरु-
राज्यं प्राप्तवांश्च । तत्रत्या नदी च भद्रेति नाम्ना
विश्रुता । यथा विष्णुपुराणे । २ । १ । १६-२२ ।
“जम्बुद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ! ।
तस्य पुत्त्रा बभूवुस्ते प्रजापतिसमा नव ॥
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ।
रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च ॥
केतुमालस्तथैवान्यः साधुचेष्टो नृपोऽभवत् ।
जम्बुद्वीपविभागांश्च तेषां विप्र ! निशामय ॥
पित्रा दत्तं हिमाह्वन्तु वर्षं नाभेस्त दक्षिणम् ।
हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः ॥
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान् ।
इलावृताय प्रददौ मेरुर्यत्र तु मध्यगः ॥
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ।
श्वेतं तदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ॥
यदुत्तरं शृङ्गवतो वर्षं तत्कुरवे ददौ ।
मेरोः पूर्ब्बेण यद्वर्षं भद्राश्वाय प्रदत्तवान्” ॥
वैवस्वतमनुवंश्यश्चन्द्रवंशीयराजविशेषः । स तु
सम्बरणराजभार्य्यायां सूर्य्यकन्यायां तपत्यां जातः ।
अयमेव कुरुक्षेत्रपतिः । धार्त्तराष्ट्रपाण्डवानां
पूर्ब्बपुरुषः । यथा, --
“योऽजमीढसुतस्त्वन्य ऋक्षः सम्बरणस्ततः ।
तपत्यां सूर्य्यकन्यायां कुरुक्षेत्रपतिः कुरुः ॥
परीक्षित् सधनुर्जह्नुर्निषधाश्वः कुरोः सुताः” ॥
इति श्रीभागवते । ९ । २२ । ४ ॥) भक्तम् । देशविशेषः ।
इति मेदिनी ॥ स तु जम्बुद्वीपस्य नववर्षान्तर्गत-
वर्षविशेषः । इति ज्योतिषम् ॥ तद्देशवासी । तत्र
बहुवचनान्तः । (यथा गीतायाम् १ । २५ ।
“उवाच पार्थ ! पश्यैतान् समवेतान् कुरूनिति” ॥)
कण्टकारिका । इति शब्दचन्द्रिका ॥

कुरुकन्दकं, क्ली, (कुरुः इव विस्तीर्णः कन्दो यस्य ।

कप् ।) मूलकम् । इति शब्दमाला ॥

कुरुक्षेत्रं, क्ली, (कुरुणा चन्द्रवंशोद्भवेन राजविशेषेण

भूरितपसोपार्ज्जितं धर्म्मक्षेत्रनाम्ना प्रसिद्धं
कुरुदेशान्तर्गतं क्षेत्रम् । शाकपार्थिवादित्वात्
मध्यपदलोपः ।) देशविशेषः । तत्तु धर्म्मक्षेत्रम् ।
(किञ्चास्मिन्नेव क्षेत्रे क्षत्त्रियकुलारण्यकुठारेण भृ-
गुवंशधुरन्धरेण भगवता जामदग्र्यरामेण क्षत्त्रि-
यशोणितैः पञ्च ह्रदाः कृताः तदारभ्य च क्षेत्रमेतत्
समन्तपञ्चकनाम्नोच्यते । नितरामेवात्र युध्यतां
क्षत्त्रियाणां शरीरविसर्ज्जनेन पुण्यप्राचुर्य्यात्
वैकुण्ठप्राप्तिः । तत एवात्र कुरुपाण्डवानां सुमह-
द्युद्धं निर्वृत्तम् । एतद्विवरणं महाभारतीये १२ ।
४८ अध्याये श्रीकृष्णयुधिष्ठिरसंवादे द्रष्टव्यम् ॥
यथा भगवद्गीतायाम् १ । १ ।
“धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय !” ॥
एतत्क्षेत्रस्य सीमानिर्द्देशे बहूनि मतानि लक्ष्यन्ते
दिङ्मात्रमुदाहृतमत्र । यथा, हेमचन्द्रः ।
“धर्म्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि” ॥
तथा त्रिकाण्डशेषेऽपि ।
“कुरुक्षेत्रं प्रयागञ्च हिमाद्रिं विन्ध्यमन्तरा” ॥
एष हि ब्रह्मर्षिदेशः । यथा, मनौ । २ । १९ ।
“कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः” ॥)

कुरुक्षेत्रीयोगः, पुं, एकस्मिन् सावनदिने तिथित्रय-

नक्षत्रत्रययोगत्रयाणाञ्च स्पर्शः । इति स्मृतिः ॥
कुरुक्षेत्रे मृत्युयोगः । यथा, --
“पञ्चग्रहयुते मृत्यौ लग्नसंस्थे वृहस्पतौ ।
सौम्यक्षेत्रगते लग्ने कुरुक्षेत्रे मृतिर्भवेत्” ॥
इति जातकामृतसंग्रहे योगाध्यायः ॥

कुरुटः, पुं, (कुत्सितं रोटते दीप्यते प्रतिहन्ति वा ।

रुट दीप्तौ प्रतिघातादिषु च + “इगुपधेति” ३ ।
१ । १३५ । कः ।) सितावरशाकः । इति राजनिर्घण्टः ॥

कुरुण्टः, पुं, (कुत्सितं दुर्गन्धादिकं रुण्टति लुण्ठ-

तीति । कु + रुटि स्तेये + अच् ।) पीतझिण्टी ।
पीताम्लानः । इति मेदिनी ॥ (कुरुण्टकशब्देऽस्य
विवृतिरुक्ता ॥)

कुरुण्टकः, पुं, (कुरुण्ट + स्वार्थे कन् ।) पीताम्लानः ।

पीतझिण्टी । तत्पर्य्यायः । सहचरी २ सहचरः
३ । इत्यमरः । २ । ४ । ७५ ॥ सहाचरः ४ कुर-
ण्टकः । इति भरतः ॥
(“वीरः सहचरः पीतपुष्पो दासीकुरुण्टकः” ॥
इति वैद्यकरत्नमालायाम् । यत्रास्य व्यवहारस्त-
द्यथा, सुश्रुते सूत्रस्थाने ३८ अध्याये आरग्वधा-
दिवर्गे ॥ “आरग्वधमदनगोपघोण्टा कुटजपाठा
कण्टकीपाटलामूर्व्वेन्द्रयवसप्तपर्णनिम्बकुरुण्टकदा-
सीत्यादिषु द्रष्टव्यः ॥)

कुरुण्टी, स्त्री, (कु कुत्सितं रुण्टति स्वभासा । कु +

रुटि + अच् । गौरादित्वात् ङीष् ।) दारुपुत्त-
लिका । इति मेदिनी ॥ (कु कुत्सितं पापं रुण्टति
नाशयति ब्रह्मणः पत्युर्वा परिचर्य्यया ।) ब्राह्मणी ।
इति जटाधरः ॥

कुरुम्बं, क्ली, (कुर् + बाहुलकात् उम्बच् ।) कूल-

पालकम् । इति शब्दचन्द्रिका ॥ कमलालेवु इति
भाषा ॥

कुरुम्बा, स्त्री, (कुरुम्ब + स्त्रियां टाप् ।) द्रोणपुष्पी ।

इति राजनिर्घण्टः ॥ (द्रीणपुष्पीशब्देऽस्या गुणा-
दयो ज्ञेयाः ॥)

कुरुम्बिका, स्त्री, (कुरुम्बा + स्वार्थे कः टाप् इत्वं च ।)

द्रोणपुष्पी । इति राजनिर्घण्टः ॥

कुरुम्बी, स्त्री, (कुरुम्ब + स्त्रियां गौरादित्वात् ङीष् ।)

सैहलीवृक्षः । इति राजनिर्घण्टः ॥

कुरुराट् [ज्] पुं, (कुरुषु राजते । राज् + क्विप् ।)

दुर्य्योधनः । इति त्रिकाण्डशेषः ॥

कुरुलः, पुं, (कुर् + उलक् ।) मालस्थितचूर्णकुन्तलः ।

तत्पर्य्यायः । भ्रमरकः २ भ्रमरालकः ३ । इति
हेमचन्द्रः ॥

कुरुवकः, पुं, (रौतीति रुवो भ्रमरः । कुत्सितः स्वल्प-

मधुलाभात् विरक्तो रुवो यत्र । स्वल्पमधुत्वादस्य
तथात्वम् ।) रक्तझिण्टी । रक्ताम्लानः । इत्यमरः ।
२ । ४ । ७४ ॥ पीतझिण्टी । इति हेमचन्द्रः ॥ (कुरवक-
शब्दे पीतझिण्टीशब्दे च अस्य विवृतिर्ज्ञातव्या ॥)

कुरुविन्दं, क्ली, (कुरून् विन्दति + विदिलाभे “अनु-

पसर्गात् लिम्पविन्दधारिपारिवेद्युदेजिचेति साति
साहिभ्यश्च” । ३ । १ । १३८ । इति शः मुचा-
दित्वात् नुम् च ।) काचलवणम् । माणिक्यम् ।
इति राजनिर्घण्टः ॥ कुरुविल्वरत्नम् । कुल्माष-
शस्यम् । इति मेदिनी ॥ (क्वचिदस्य पुंलिङ्गत्व-
मपि दृश्यते । यथा, सुश्रुते सूत्रस्थाने ३६ अः ।
“कासीससैन्धवं किण्वं कुरुविन्दो मनःशिला” ॥)

कुरुविन्दः, पुं, (कुरु + विद् + शः नुम् च ।) मुस्तकम् ।

इत्यमरः । २ । ४ । १५९ ॥ माषः । इति राज-
निर्घण्टः ॥ (अस्य पर्य्याया यथा, --
“मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् ।
कुरुविन्दश्च सङ्ख्यातोऽपरः क्रोडकसेरुकः ।
भद्रमुस्तञ्च गुन्द्रा च तथा नागरमुस्तकः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कुरुविल्वः, पुं, (कुरुषु विल्ल इव ।) पद्मरागमणिः ।

इति त्रिकाण्डशेषः ॥

कुरुविल्वकः, पुं, (कुरुविल्ल + संज्ञायां कन् ।) कु-

ल्माषः । वनकुलत्थिका । इति रत्नमाला ॥ (गुणा-
श्चास्य कुल्माषशब्दे ज्ञेयाः ॥)

कुरुविस्तः, पुं, (कुरुषु विख्यातः विस्तः ।) स्वर्णपलम् ।

इत्यमरः । २ । ९ । ८६ ॥ चारि तोला सोणा ।
इति भाषा ॥

कुरूप्यं, क्ली, (कु ईषत् रूप्यमिव । रूप्यवत् शुभ्र-

त्वात्तथात्वम् ।) रङ्गम् । इति राजनिर्घण्टः ॥

कुर्कुरः, पुं स्त्री, (कुर् इत्यस्फुटं शब्दं कुरति शब्दायते ।

कुर् + कुर् + कः ।) कुक्कुरः । इत्यमरटीकायां
रायमुकुटः ॥

कुर्णजः, पुं, कुलञ्जनवृक्षः । इति राजनिर्घण्टः ॥

पृष्ठ २/१५२

कुर्द्द ङ क्रीडायाम् । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

अकं-सेट् ।) पञ्चमस्वरी । दीर्घिणः पृथक् पाठ-
सामर्थ्यात् पूर्ब्बस्य र्वनच्तयीति दीर्घो न स्यात् ।
ङ कुर्द्दते । इति दुर्गादासः ॥

कुर्द्दनं, क्ली, (कुर्द्द + भावे ल्युट् ।) क्रीडा । इत्यमर-

टीकायां स्वामी ॥

कुर्परः, पुं, (कुर् + क्विप् कुः । पिपर्त्ति । पृ + अच् परः ।

ततः कर्म्मधारयः ।) कफोणिः । जानु । इति मे-
दिनीकरहेमचन्द्रौ ॥ (कुर्परशब्देऽस्य विवरणं
व्याख्येयम् ॥)

कुर्पासः, पुं, (कुर्परे अस्यते आस्ते वा । अस्, आस्

वा + घञ् ततः पृषोदरात् साधुः ।) अर्द्धचोलकः ।
इति हारावली ॥

कुर्पासकः, पुं, (कुर्पास + स्वार्थे कन् ।) कञ्चुलिका ।

इत्यमरः ॥ काँचुलि इति भाषा । (यथा रत्ना-
वलीनाटके । “मनोज्ञकुर्पासकपीडितस्तना” ॥)

कुर्व्वत्, त्रि, (करोति इति । कृ + शतृ ।) कर्म्म-

कारः । भृत्यः । इति विश्वः ॥

कुल ज बन्धौ । संहतौ । इति कविकल्पद्रुमः ॥

(भ्वां-परं-अकं-क्वचित् सकं सेट् । ज्वलादिः ।)
ज कोलः कुलः । कोलति कुलीनः सर्व्वेषां बन्धुः
स्यादित्यर्थः । संहती राशीकरणमिति चतुर्भुजः ॥
केचित्तु संहतिस्थाने संख्यानं पठित्वा कोलति
कुलालः गणयति इत्यर्थः इत्याहुः । संस्त्यानं
पठित्वा संस्त्यानं उपचयः । इति रामः ॥ अन्ये तु
बन्धुषु ज्ञातिषु वर्त्तमानोऽयं अन्यत्रास्य न प्रयोगः ।
गडि गण्डे इतिवदित्याहुः । इति दुर्गादासः ॥

कुलं, क्ली, (कुल् + “इगुपधेति” । ३ । १ । १३५ ।

कः ।) वंशः । (यथा, रघौ । १६ । ८६ ।
“इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यो भवान् स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवदास समेतबन्धुः
कन्यामयेन कुमुदः कुलभूषणेन” ॥
तस्य लक्षणं यथा, शिष्टोक्तौ ।
“आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् ।
निष्ठा वृत्तिस्तपो दानं नवधा कुललक्षणम्” ॥)
तन्नाशकारणं यथा ।
“गोभिश्च दैवतैर्विप्रकृष्या राजोपसेवया ।
कुलान्यकुलतां यान्ति यानि हीनानि वृत्ततः ॥
कुविवाहः क्रियालोपैर्वेदानध्ययनेन च ।
कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण वै ॥
अनृतात् पारदार्य्याच्च तथाऽभक्षस्य भक्षणात् ।
अश्रौतधर्म्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥
अश्रोत्रिये वै वेदानां वृषलेषु तथैव च ।
विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम्” ॥
इति कूर्म्मपुराणे उपरिभागे १५ अध्यायः ॥
सजातीयगणः । इत्यमरः । २ । ७ । १ ॥ (कुं भूमिं लाति
गृह्णाति । ला + कः ।) जनपदः । गृहम् । (कौ
भूमौ जीयते । अन्येभ्योपीति डः ।) शरीरम् ।
इति मेदिनी ॥ अग्रम् । इति महाभारतम् ॥
(मध्यम-हलद्वयेन यावती भूमिः कृष्यते तावतो
भूमिः । यथा, मनुः । ७ । १११ ।
“दशी कुलन्तु भुञ्जीत विंशी पञ्चकुलानि च” ॥)

कुलः, पुं, (कुल् + कः ।) कुलिकः । शिल्पिकुल-

प्रधानः । इत्यमरटीकायां भरतः ॥

कुलकं, क्ली, (कौ भूमौ लीयते । कु + ली + डः ।

संज्ञायां कन् ।) पटोललता । सम्बद्धश्लोकसमूहः ।
इति मेदिनी ॥ (यथा, साहित्यदर्पणे ६ । २८७ ।
“कलापकं चतुर्भिश्च तदूर्द्धं कुलकं मतम्” ॥
पटोलार्थे यथा, -- “करीरं कुलकं नन्दी” इति
वाभटे सूत्रस्थाने । ६ अः । कुलकं पटोलभेदः ।
तित्पल्ला इति ख्यातम् ॥ इति तट्टीका ॥)

कुलकः, पुं, (कुल् + संज्ञायां कन् ।) काकेन्दुः ।

इत्यमरः । २ । ४ । ३९ ॥ वल्मीकः । कुलश्रेष्ठः ।
इति मेदिनी ॥ मरुवकवृक्षः । इति रत्नमाला ॥
हरितसर्पः । इति राजनिर्घण्टः ॥ कुपीलुः । इति
भावप्रकाशः ॥ शिल्पिकुलप्रधानः । इत्यमरटी-
कायां भरतः ॥

कुलकर्कटी, स्त्री, (कुला कर्कटी इति नित्यकर्म्मधा-

रयः ।) चीनाकर्कटी । इति राजनिर्घण्टः ॥

कुलकुण्डलिनी स्त्री, (कुले कुलचक्रे पृथिवीतत्त्व-

रूपेमूलाधारे कुण्डलाकृत्या सार्द्ध-
त्रिवलयाकारेण स्वयम्भुलिङ्गं वेष्टयित्वा तिष्ठतीति ।
कुल + कुण्डलिन् + ङीप् । कुण्डल + ङीष् । यद्वा
कौ पृथिवीतत्त्वाधारे मूलाधारे इत्यर्थः लीयते
इति । कु + ली + अन्येभ्योपीति डः । ततः कर्म्म
धारयः ।) मूलाधारपद्मस्थितशिवशक्तिविशेषः ।
यथा । पूर्णानन्दकृतषट्चक्रप्रकाशः ।

कुलकुण्डलिनी स्त्री, (कुले कुलचक्रे पृथिवीतत्त्व-

रूपे मूलाधारे कुण्डलाकृत्या सार्द्ध-
त्रिवलयाकारेण स्वयम्भुलिङ्गं वेष्टयित्वा तिष्ठतीति ।
कुल + कुण्डलिन् + ङीप् । कुण्डल + ङीष् । यद्वा
कौ पृथिवीतत्त्वाधारे मूलाधारे इत्यर्थः लीयते
इति । कु + ली + अन्येभ्योपीति डः । ततः कर्म्म
धारयः ।) मूलाधारपद्मस्थितशिवशक्तिविशेषः ।
यथा । पूर्णानन्दकृतषट्चक्रप्रकाशः ।
“कूजन्ती कुलकुण्डली च मधुरं मत्तालिमालास्फुटं
वाचः कोमलकाव्यबन्धरचनाभेदातिभेदक्रमैः ।
श्वासोच्छ्वासविवर्त्तनेन जगतां जीवो यया धार्य्यते
सा मूलाम्बुजगह्वरे विलसति प्रोद्दामदीप्तावली” ॥
कूजन्तीति । सा मूलाम्बुजगह्वर इत्यादि व्या-
ख्यातम् । कीदृशी कोमलकाव्यबन्धरचनाभेदा-
तिभेदक्रमैः कोमला कमनीयत्वविशिष्टा या काव्य-
बन्धरचना तस्याः भेदातिभेदक्रमैः भेदातिशयभेद-
क्रमैर्व्विशिष्टा वाचः मत्तालिमालास्फुटं मत्ता या
अलिमाला भ्रमरसमूहस्तद्वदस्फुटं यथा स्यात्
एवं मधुरं यथा स्यात् तथा कूजन्ती अव्यक्त-
मधुरध्वनिं कुर्व्वन्तीत्यर्थः । सा का इत्याकाङ्क्षा-
यामाह यथा कुलकुण्डलिन्या श्वासोच्छ्वासविवर्त्त-
नेन श्वासोच्छ्वासयोः परिवर्त्तनेन गमनागमनेन
जगतां संसाराणां जीवः प्राणो धार्य्यते । पुनः
कीदृशी प्रोद्दामदीप्तावली प्रकृष्टोत्तुङ्गदीप्ति-
श्रेणीस्वरूपा । तथा च मूलाधारपद्मे सर्पाकार-
सार्द्धत्रितयवेष्ठनविशिष्टा विद्युत्समूहरूपा कुल-
कुण्डलिनी तिष्ठतीत्यर्थः । इति तट्टीका ॥ * ॥
अन्यत् चक्रशब्दे मूलाधारशब्दे षट्चक्रशब्दे च
द्रष्टव्यम् ॥

कुलक्कः, पुं, (कु + लक्क + भावे घञ् ।) करताली ।

तत्पर्य्यायः । तालमर्द्दलः २ । इति हारावली ॥

कुलक्षया, स्त्री, (कुलस्य मूलस्य विस्तृतवल्लीजालस्य

वा क्षयो यस्याः ।) शूकशिम्बी । इति शब्दच-
न्द्रिका ॥

कुलजः, पुं, (कुले सत्कुले जायते । जन् + डः ।)

कुलीनः । सत्कुलोद्भवः । इति शब्दरत्नावली ॥
(यथा, मनुः ८ । १७९ ।
“कुलजे वृत्तसम्पन्ने धर्म्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्यार्य्ये निक्षेपं निक्षिपेद्बुधः” ॥)

कुलञ्जः, पुं, (कुं पृथिवीं रञ्जयति । रञ्ज + णिच् + अण्

रस्य लः ।) कुलञ्जनवृक्षः । इति राजनिर्घण्टः ॥

कुलञ्जनः, पुं, (कु + रञ्ज + णिच् + ल्युः । रस्य लः ।)

स्वनामख्यातवृक्षः । तत्पर्य्यायः । कुर्णजः २
गन्धमूलः ३ कुलञ्जः ४ । अस्य गुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । दीपनत्वम् । मुखदोषना-
शित्वञ्च । इति राजनिर्घण्टः ॥

कुलटा, स्त्री, (कुलात् व्यभिचारार्थं कुलान्तरं अट-

तीति । कुल + अट् + अच् । शकन्ध्वादित्वात्
अलोपः ।) व्यभिचारिणी । भ्रष्टा ।
(यथाह, आर्य्यासप्तशती ३९३ ।
“परपतिनिर्द्दयकुलटाशोषितशठ ! नेर्षया न कोपेन ।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य” ॥)
तत्पर्य्यायः । पुंश्चली २ धर्षिणी ३ बन्धकी ४
असती ५ इत्वरी ६ स्वैरिणी ७ पांशुला ८ । इत्य-
मरः । २ । ६ । १० ॥ धर्षणी ९ पांसुला १० । इति
तट्टीका ॥ घृष्टा ११ दुष्टा १२ धर्षिता १३ । इति
शब्दरत्नावली ॥ लङ्का १४ निशाचरी १५ त्रपा-
रण्डा १६ । इति जटाधरः ॥ * ॥ परकीयान्तर्गत-
नायिकाविशेषः । यथा, --
“एते वारिकणान् किरन्ति पुरुषान् वर्षन्ति
नाम्भोधराः शैलाः शाद्वलमुद्वहन्ति न सृजन्त्येते
पुनर्नायकान् । त्रैलोक्ये तरवः फलानि सुवते
नैवारभन्ते जनान् धातः ! कातरमालपामि कुल-
टाहेतोस्त्वया किं कृतम्” ॥ इति रसमञ्जरी ॥ * ॥
अस्या अन्नभोजनप्रायश्चित्तं प्रायश्चित्तशब्दे अभो-
ज्यान्नभक्षणप्रकरणे द्रष्टव्यम् ॥

कुलटी, स्त्री, (कुत्सितं रट्यते । रट भाषणे +

घञर्थे कः । गौरादित्वात् ङीष् रस्य लः ।) मनः-
शिला । इति रत्नमाला अमरटीका च ॥ (अस्या
गुणादयो मनःशिलाशब्दे बोद्धव्याः ॥)

कुलतिथिः, स्त्री पुं, (कुला तिथिः ।) चतुर्थ्यष्टमीद्वा-

दशीचतुर्द्दश्यः । यथा, तन्त्रसारे ।
“द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम् ।
विषसाश्चाकुलाः सर्व्वे शेषाश्च तिथयः कुलाः” ॥

कुलत्थः, पुं, (कुलं भूमिलग्नं सत् तिष्ठति । कुल +

स्था + कः । पृषोदरात् साधुः ।) शस्यभेदः । कुल-
त्थकडाइ इति भाषा ॥ (यथा, मार्कण्डेये । १५ । ७ ।
“धान्यंयवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्” ॥)
तत्पर्य्यायः । कालवृन्तः २ ताम्रवृक्षः ३ कुल-
त्थिका ४ । इति रत्नमाला ॥ ताम्रवृन्तः ५ । इति
त्रिकाण्डशेषः ॥ ताम्रवीजः ६ सितेतरः ७ । इति
राजनिर्धण्टः ॥ अस्य गुणाः । कफवातगुल्म-
शुक्राश्मरीमेदःश्वासकासप्रमेहनाशित्वम् । वृंह-
णत्वम् । उष्णत्वम् । कटुत्वम् । ग्राहित्वञ्च । इति
राजवल्लभः ॥ कषायत्वम् । रूक्षत्वम् । रक्तपित्त-
कारित्वम् । बलनाशित्वञ्च । अस्य यूषगुणः । वायु-
पृष्ठ २/१५३
शर्क्कराश्मरीनाशित्वम् । इति राजनिर्घण्टः ॥
(अस्य अपरे पर्य्यायगुणा यथा, --
“कुलत्थिका कुलत्थश्च कथ्यन्ते तद्गुणा अथ ।
कुलत्थः कटुकः पाके कषायः पित्तरक्तकृत् ।
लघुर्विदाही वीर्य्योष्णः श्वासकासकफानिलान् ॥
हन्ति हिक्काश्मरीशुक्रदाहानाहान् सपीनसान् ।
स्वेदसंग्राहको मेदोज्वरक्रिमिहरः परः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ * ॥
“उष्णः कुलत्थो रसतः कषायः
कटुर्विपाके कफमारुतघ्नः ।
शुक्राश्मरीगुल्म-निषूदनश्च
संग्राहकः पीनसकासहारी ॥
आनाहमेदोगुदकीलहिक्का
श्वासापहः शोणितपित्तकृच्च ।
कफस्य हन्ता नयनामयघ्नो
विशेषतो वन्यकुलत्थ उक्तः” ॥
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ * ॥)

कुलत्था, स्त्री, (कुलत्थ + स्त्रियां टाप् ।) वनकुलत्थः ।

तत्पर्य्यायः । दृक्प्रसादा २ अरण्यकुलत्थिका ३
कुलाली ४ लोचनहिता ५ चक्षुष्या ६ कुम्भका-
रिका ७ कुलत्थिका ८ । इति राजनिर्घण्टः ॥
कुल्माषः ९ कुरुविल्वकः १० । इति रत्नमाला ॥
अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । अर्शःशूल-
नाशित्वम् । विबन्धाध्मानशमनत्वम् । चक्षुर्हित-
त्वम् । व्रणरोपणत्वञ्च । कुलत्थाञ्जनम् । अस्य
पर्य्यायः पूर्ब्बवत्तदधिकस्तुं । कुम्भकारी १ प्रला-
पहा २ । अस्य गुणाः । चक्षुर्हितत्वम् । कषाय-
त्वम् । कटुत्वम् । हिमत्वम् । विषविस्फोटकण्डू-
व्रणदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥

कुलत्थिका, स्त्री, (कुलत्था स्वार्थे संज्ञायां वा कन्

अत इत्वम् ।) कुलत्थाकाराञ्जनप्रस्तरविशेषः । इत्य-
मरः । २ । ९ । १०२ ॥ अस्य गुणपर्य्यायौ कुलत्थाशब्दे
द्रष्टव्यौ । वनकुलत्थः । इति राजनिर्घण्टः ॥

कुलधर्म्मः, पुं, (कुलस्य कुले वा आचरितो धर्म्मः ।)

स्वजातीयधर्म्मः । कुलाचारः । यथा, --
“उत्सन्नकुलधर्म्माणां मनुष्याणां जनार्द्दन ! ।
नरके नियतं वासो भवतीत्यनुशुश्रुम” ॥
इति श्रीभगवद्गीतायाम् । १ । ४३ ॥

कुलधारकः, पुं, (कुलं धारयति रक्षति यः । कुल +

धृ + णिच् + ण्वुल् ।) पुत्त्रः । इति त्रिकाण्डशेषः ॥

कुलनायिका, स्त्री, (कुले कुलाचारयजनकाले पूज्या

या नायिका ।) पञ्च-मकारयजने पूज्या स्त्री ।
यथा, --
“रक्तमाल्येन सम्बीतो रक्तपुष्पविभूषितः ।
पञ्चीकरणसङ्केतैः पूजयेत् कुलनायिकाम्” ॥
सा नवविधा यथा, --
“नटी कापालिनी वेश्या रजकी नापिताङ्गना ।
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ।
मालाकारस्य कन्या च नव कन्याः प्रकीर्त्तिताः” ॥
इति तन्त्रसारः ॥

कुलनक्षत्रं, क्ली, (तन्त्रसारोक्तपारिभाषिकलक्षणं कुलं

तत्र तत्सम्बन्धि वा नक्षत्रम् ।) भरणीरोहिणी-
पुष्यमघोत्तरफल्गुनीचित्राविशाखाज्येष्ठापूर्ब्बाषा-
ढाश्रवणोत्तरभाद्रपदः । यथा, --
“वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम् ।
कुलानि समधिष्ट्यानि शेषाणि चाकुलानि च” ॥
इति तन्त्रसारः ॥

कुलनाशः, पुं, (कुलं मूमिलग्नं न अश्नाति । न + अश्

+ अच् । सुप्सुपेति समासः । उष्ट्रस्य हि उन्नत-
कन्धरत्वात् भूमिलग्नस्याभक्षकतया तथात्वम् ।)
उष्ट्रः । इति हेमचन्द्रः ॥ (कुलस्य नाशः ध्वसः ।)
कुलध्वंसः ॥

कुलपतिः, पुं, (कुलस्य वंशस्य गोत्रस्य वा पतिः

स्वामी ।) कुलस्वामी । गोत्रप्रधानः । कुलनाथः ।
यथा । “अथ सिन्धुसौवीरपतेरहूगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिविकावाहपुरु-
षान्वेषणसमये दैवेनोपसादितः स द्विजवर उप-
लब्धः” । इति श्रीभागवते ५ । १० । १ ॥ (कुलस्य
छात्रवर्गस्य पतिः पालकः । अन्नदानपोषणपूर्ब्बकं
अध्यापको मुनिविशेषः । उक्तञ्च ।
“मुनीनां दशसाहस्रं योऽन्नदानादिपोषणात् ।
अध्यापयति विप्रर्षिः स वै कुलपतिः स्मृतः” ॥)

कुलपत्रः, पुं, (कुलं भूलग्नं पत्रं पर्णमस्य ।) दमनक-

वृक्षः । इति राजनिर्घण्टः ॥

कुलपालकं, क्ली, (कुलं समूहं पालयतीति । पालि +

ण्वुल् । बहुफलोत्पत्तेस्तथात्वम् ।) कुरुम्बम् ।
कमलानेवु इति भाषा । इति शब्दचन्द्रिका ॥
(कुलं वंशं पालयति । पाल + णिच् + ण्वुल् ।)
वंशप्रतिपालके, त्रि ॥

कुलपालिः, स्त्री, (कुलं पालयति या । पालि + इन् ।)

कुलवती । इति शब्दमाला ॥

कुलपालिका, स्त्री, (कुलं पालयति । पालि + ण्वुल्

टाप् इत्वम् । यद्वा कुलपालि + स्वार्थे कन् टाप् ।)
कुलस्त्री । इत्यमरः । २ । ६ । ७ ॥

कुलभृत्या, स्त्री, (कुलैः वंशभवैः भृत्था भरणम् । कुल

+ भृ + भावे क्यप् ।) गर्भिणीपर्य्युपासना । इति
जटाधरः ॥ (कुलस्य भृत्या । वंशभरणम् ॥)

कुलम्भरः, पुं, (कुलं गृहं भलति हन्ति सन्धिकर्त्त-

नादिना इति । कुल + भल + अच् । निपातनात्
मुम् लस्य रः ।) कुजम्भलः । चौरः । इति
हारावली ॥

कुलवर्णा, स्त्री, (कुलेषु भिषक्कुलेषु वर्णः वर्णनं गुण-

कथनं यस्याः ।) रक्तत्रिवृत् । इति राजनिर्घण्टः ॥

कुलवारः, पुं, (कुलस्तदाख्यया प्रसिद्धो वारः ।) मङ्गल-

शुक्रवारौ । यथा ।
“रविश्चन्द्रो गुरुः सौरिश्चत्वारश्चाकुला इमे ।
भौमशुक्रौ कुलाख्यौ हि बुधवारः कुलाकुलः” ॥
इति तन्त्रसारः ॥

कुलविप्रः, पुं, (कुलपरम्परागतः कुलहिताय नियुक्तो

वा विप्रः ।) कुलपुरोहितः । इत्यमरटीकायां
स्वामी ॥

कुलश्रेष्ठी, [न्] त्रि, (कुलेषु शिल्पिकुलेषु श्रेष्ठी ।)

शिल्पिकुलप्रधानः । तत्पर्य्यायः । कुलिकः २ । इत्य-
मरः । २ । १० । ५ ॥ कुलकः ३ कुलः ४ श्रेष्ठी ५ ।
इति तट्टीकायां भरतः ॥

कुलसम्भवः, पुं, (कुले कस्यचित् वंशे सम्भवः उत्-

पत्तिरस्य ।) यस्य कस्यचित् कुले जातः । तत्प-
र्य्यायः । वीज्यः २ । इत्यमरः । २ । ७ । २ ॥

कुलसौरभं, क्ली, (कुलं श्रेष्ठं सौरभं यस्य ।) मरुवक-

वृक्षः । इति शब्दमाला ॥

कुलस्त्री, स्त्री, (कुले कुलस्थिता स्त्री ।) कुलपालिका ।

अनन्यगामिनी कुलरक्षिका स्त्री । इत्यमरः । २ ।
६ । ७ ॥ (तथा च चाणक्ये ।
“असन्तुष्टा द्विजा नष्टाः सन्तुष्टा इव प्रार्थिवाः ।
सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः” ॥
कुले कुलचक्रे मूलाधारे विराजते या स्त्री ।
कुलकुण्डलिनीशक्तिः । यथा, कुलार्णवे ।
“कुलस्त्रीज्ञानमात्रेण जीवन्मुक्तो भवेन्नरः” ॥)

कुलहण्डकः, पुं, (कुलाय संघाय हुण्डते । हुडि संघे

+ ण्वुल् । पृषोदरात् उकारलोपः ।) आरणिः ।
आवर्त्तः । इति हांरावली ॥

कुलाकुलतिथिः, पुं स्त्री, (तन्त्रोक्तकुलाकुलनाम्ना प्र-

सिद्धा तिथिः ।) द्वितीयाषष्ठीदशम्यः । यथा ।
“द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतम्” ॥
इति तन्त्रसारः ॥

कुलाकुलनक्षत्रं, क्ली, (तन्त्रोक्तकुलाकुलसंज्ञकं नक्ष-

त्रम् ।) आर्द्रामूलाभिजिच्छतभिषानक्षत्राणि ।
यथा, तन्त्रसारे ॥
“वारुणार्द्राभिजिन्मूलं कुलाकुलमुदाहृतम्” ॥

कुलाकुलवारः, पुं, (तन्त्रोक्तकुलाकुलनामा वारः ।)

बुधवारः । यथा, तन्त्रसारे ॥
“भौमशुक्रौ कुलाख्यौ हि बुधवारः कुलाकुलः” ॥

कुलाचलः, पुं (कुलसंज्ञकः अचलः पर्व्वतः । शाक-

पार्थिवादिवत् मध्यपदलोपः ।) कुलपर्व्वतः । यथा ।
“अष्टकुलाचलसप्तसमुद्रा
ब्रह्मपुरन्दरदिनकररुद्राः ।
न त्वं नाहं नायं लोक-
स्तदपि किमर्थं क्रियते शोकः” ॥
इति मोहमुद्गरे ७ ॥ सप्तकुलपर्व्वता यथा ।
“सप्त येऽस्मिन् महापर्व्वाः विस्तृताः कुलपर्व्वताः ।
माहेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारिपात्रश्च इत्येते कुलपर्व्वताः” ॥
इति मात्स्ये ९५ अध्यायः ॥

कुलाचार्य्यः, पुं, (कुलस्य वंशस्य व्याख्यायां वर्णनादौ

गुणकीर्त्तनविषये वा आचार्य्यः ।) कुलज्ञः । कुली-
नादीनां वंशांशव्याख्याकर्त्तृब्राह्मणः । अस्य विव-
रणं घटकशब्दे द्रष्टव्यम् ॥

कुलाटः, पुं, (कुलेन संघेन अटतीति । अट् + अच् ।)

क्षुद्रमत्स्यभेदः । इति शब्दमाला ॥

कुलाद्रिः, पुं, (कुलनाम्ना ख्यातोऽद्रिरचलः ।) कुला-

चलः । इति सिद्धान्तशिरोमणिः ॥

कुलाधारकः, पुं, (कुलस्य वंशस्य आधारकः प्रति-

ष्ठापकः ।) पुत्त्रः । इति शब्दरत्नावली ॥

कुलायं, क्ली, (कौ पृथिव्यां लायो लयो यस्य ।)

शरीरम् । इति पुराणम् ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/कुचः&oldid=43929" इत्यस्माद् प्रतिप्राप्तम्