शब्दकल्पद्रुमः/कारकुक्षीयः

विकिस्रोतः तः
पृष्ठ २/०९९

कारकुक्षीयः, पुं, (कारकुक्षि + च्छः ।) शाल्वदेशः ।

(तत्र भवः अण् बहुषु तस्य लुक् ।) तद्देशीयजने
बहुवचनान्तः । इति हेमचन्द्रः ॥

कारणं, क्ली, (कार्य्यतेऽनेन । णिजन्तात् कृञो ल्युट् ।)

येन विना यन्न भवति तत् । तत्पर्य्यायः । हेतुः २
वीजम् ३ । इत्यमरः । १ । ४ । २८ ॥ निमित्तम्
४ प्रत्ययः ५ । इति जटाधरः ॥ (यथा, विष्णु-
पुराणे । १ । १७ । ३० ।
“यतः प्रधानपुरुषौ यतश्चैतत् चराचरम् ।
कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु” ॥)
कारणत्वमाह । अन्यथासिद्धिशून्यत्वे सति नियत-
पूर्ब्बवर्त्तित्वम् । तत्रिविधम् । समवायिकारणत्वम्
१ असमवायिकारणत्वम् २ निमित्तकारणत्वम् ३
परमाणुपरिमाणभिन्नानां कारणत्वम् । इति
भाषापरिच्छेदः । १६-१७ ॥ अणुपरिमाणन्तु न
कस्यापि कारणम् । इति सिद्धान्तमुक्तावली
(यथा, हेः रामायणे । १ । ६४ । ११ ।
“बहुभिः कारणैर्देव ! विश्वामित्रो महामुनिः ।
लोभितः क्रोधितश्चैव तपसा चाभिवर्द्धते” ॥)
करणम् । (कृ वधे + स्वार्थे णिच् भावे ल्युट् ।)
बधः । इति मेदिनी ॥ (आदिः । मूलम् । यथा,
मनुः । ११ । ८४ ।
“ब्राह्मणः सम्भवेनैव देवानामपि दैवतम् ।
प्रमाणञ्चैव लोकस्य ब्रह्मात्रैव हि कारणम्” ॥
प्रमाणम् । यथा, मनुः । ८ । २०० ।
“सम्भोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न सम्भोग इति स्थितिः” ॥)
इन्द्रियम् । (यथा, गीतायाम् । १३ । २० ।
“कार्य्यकारणकर्त्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तत्वे हेतुरुच्यते” ॥
“कार्य्यं शरीरं कारणानि सुखदुःखसाधनानी-
न्द्रियाणि तेषां कर्त्तृत्वे तदाकारपरिणामे” ।
इति तट्टीकायां श्रीधरस्वामी ॥) देहः । (यथा,
शाङ्करात्मबोधे । १३ ।
“अनाद्यविद्याऽनिर्व्वाच्या कारणोपाधिरुच्यते ।
उपाधित्रितयादन्यमात्मानमवधारयेत्” ॥)
साधनम् । (करणमेव स्वार्थे अण् ।) कर्म्म ।
(यथा, चाणक्ये । २३ ।
“न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित् रिपुः ।
कारणेन हि जानाति मित्राणि च रिपूंस्तथा” ॥)
कायस्थः । (करणशब्देऽस्य विशेषो ज्ञेयः ॥) वाद्य-
प्रभेदः । गीतप्रभेदः । इति भरतधृतरत्नकोषः ॥
(आदिकारणत्वात् विष्णुः । यथा महाभारते ।
१३ । १४९ । ५४ ।
“करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः” ॥
शिवः । यथा शङ्करकृते वेदसारशिवस्तवे ७ ।
“अजं शाश्वतं कारणं कारणानाम्
शिवं केवलं भासकं भासकानाम्” ॥)

कारणगुणोद्भवगुणः, पुं, (कारणगुण उद्भवो यस्य ।

स चासौ गुणश्चेति कर्म्मधारयः ।) कारणगुण-
पूर्ब्बकगुणः । तद्यथा । रूपम् १ रसः २ गन्धः ३
अपाकजस्पर्शः ४ द्रवत्वम् ५ स्नेहः ६ वेगः ७ गुरु-
त्वम् ८ एकत्वम् ९ पृथक्त्वम् १० परिमाणम् ११
स्थितिस्थापकसंस्कारः १२ । इति भाषा-
रिपच्छेदे । ९६ ॥

कारणशरीरं, क्ली, (कारणं अविद्या सैव शरी-

रम् । अनाद्यविद्याऽनिर्व्वचनीयं शरीरद्वयकारण-
मात्रम् । सत्स्वरूपाज्ञानं यदस्ति तत्कारण-
शरीरमित्याहुः ।) सत्त्वप्रधानमज्ञानम् । (किन्तु
वीजावस्थायां सूक्ष्मवृत्तित्वात् विषयव्यापाररहि-
तस्यान्तःकरणस्य सुतरांसुखस्वरूपेणानुभूयतेऽसौ
द्रष्टा ।) तत्पर्य्यायः । आनन्दमयकोषः २ सुषुप्तिः ३ ।
(यदुक्तं वेदान्तसारे । १६ ।
“अस्यापीयमहङ्कारादिकारणत्वात् कारणश-
रीरं आनन्दप्रचुरत्वात् कोषवदाच्छादकत्वाच्च
आनन्दमयकोषः सर्व्वोपरमत्वात् सुषुप्तिः अत-
एव स्थूलसूक्ष्मशरीरलयस्थानमितिचोच्यते” ॥ अत्र
सुबोधनी यथा ।
“प्रलयकाले हिरण्यगर्भादिप्रपञ्चोत्पादकेश्वर-
गतमूलप्रकृतिवत् सुषुप्तिकाले अहङ्कारादिशरी-
रोत्पादकसंस्कारमात्रावशिष्टजीवगताज्ञानस्यापि
कारणशरीरत्वं इन्द्रियतद्विषयाभावे व्यासङ्गा-
भावादानन्दबाहुल्यादानन्दमयत्वं आच्छादकत्वा-
त्कोषत्वञ्च युक्तमितिभावः । ननु स्थूलसूक्ष्मशरीर-
लयस्थानस्य कथं सुषुप्तिशब्दवाच्यत्वमित्याशङ्क्य
पूर्ब्बवत् संज्ञाभेद इति वक्तुं तत्र युक्तिमाह सर्व्वो-
परमत्वादिति । पञ्चीकृतस्थूलशरीरस्य व्यावहारि-
कस्य स्वाप्नप्रपञ्चस्य स्वकारणेऽज्ञाने लीनत्वात्
सर्व्वोपरतिरित्यर्थः । तथा चोक्तम् ।
“लये फेनस्य तद्धर्म्मा द्रव्याद्याः स्युस्तरङ्गके ।
तस्यापि विलये नीरे तिष्ठन्त्येते यथा पुरा ॥
व्यवहारिक देहस्य लयः स्यात् प्रतिभासिके ।
तल्लये सच्चिदानन्दाः पर्य्यवस्यन्ति साक्षिणि” ॥)

कारणा, स्त्री, (कृ हिंसायाम् । णिजन्तात् कृञो

“ण्यासश्रन्थेति” । ३ । ३ । १०७ । युच् ततः
टाप् ।) यातना । गाढवेदना । इत्यमरः । १ । ९ । ३ ॥
नरकरुजा यमयातना । इति केचित् । इति
भरतः ॥

कारणिकः, त्रि, (करणैः कारणैर्वा चरति । “चर-

तीति” । ४ । ४ । ८ । ठक् ।) परीक्षकः । इत्य-
मरः । ३ । १ । ७ ॥

कारणोत्तरं, क्ली, (कारणेन उत्तरम् ।) प्रत्यव-

स्कन्दनम् । सत्यत्वेनाङ्गीकृत्य तत्प्रतिकूलरूप-
कारणं ब्रूयात् तदा तदुत्तरम् । तत्त्रिविधम् ।
बलवत् १ तुल्यबलम् २ दुर्ब्बलम् ३ । आद्यं यथा
मया त्वत्तः शतं गृहीतमिति सत्यं किन्तु तत्
परिशोधितम् । द्वितीयं यथा मदीयेयं भूमिः
क्रमागतत्वादिति वाद्युक्ते प्रतिवादिनोऽपि तथो
त्तरम् । तृतीयं यथा ममेयं भूमिः क्रमागतत्वात्
इति वाद्युक्तेममेयं भूमिः दशवर्षोपभुज्यमानत्वात्
इति प्रत्युत्तरम् । इति व्यवहारतत्त्वम् ॥

कारण्डवः, पुं, स्त्री, (ञमन्ताडड इति रमेर्ड ।

रण्डः । ईषत् रण्डः । “ईषदर्थे” ६ । ७ । १०५ ।
इति कोः कादेशः । कारण्डं वाति । वा गतौ +
“आतोनुपेति” । ३ । २ । ३ । कः । करण्डस्येदं
कारण्डं तदाकारं वाति वा ।) हंसविशेषः
इत्यमरः । २ । ५ । ३४ ॥ खडहाँस इति भाषा
(यथा ऋतुसंहारे । शरद्वर्णणे ८ ।
“कारण्डवाननविघट्टितवीचिमालाः
कादम्बसारसकुलाकुलतीरदेशाः” ॥)

कारण्डव्यूहः, पुं, बुद्धभेदः । इति त्रिकाण्डशेषः ।

(बौद्धशास्त्रविशेषः ॥)

कारन्धमी, [न्] पुं, (कर एव कारस्तं धमतीति । ध्मा

+ इनिः । पृषोदरादित्वात् साधुः ।) कांस्यकारः ।
धातुवादरतः इति मेदिनी ॥

कारम्भा, स्त्री, (ईषत् रम्भा । कोः कादेशः ।) प्रिय-

ङ्गुवृक्षः । इत्यमरः । २ । ४ । ५६ ॥

कारवः, पुं, (का इति रवो यस्य । कुत्सितो रवो

यस्येति वा ।) काकः । इति त्रिकाण्डशेषः ॥

कारवल्ली, स्त्री, (कारा इतस्ततो विक्षिप्ता बल्ली

यस्याः । यद्वा कुत्सित आरो गतिर्यस्याः । सा
चासौ वल्ली चेति ।) कारवेल्लः । काण्डीरः । इति
राजनिर्घण्टः ॥

कारवी, स्त्री, (कारं वाति । वा + कः । के जलोप-

लक्षितवर्षाकाले रवो यस्य । कारवः केकावरो
मयूरस्तस्य पुच्छमिवाकारोऽस्त्यस्य अच् । यद्वा कृ
हिंसायां स्वार्थे णिच् ततः क्विप् । कारमवति । कर्म्म
ण्यण् । गौरादित्वात् ङीष् ।) मधुरा । मौरी इति
भाषा । दीप्यः । मयूरशिखा । रुद्रजटा इति
भाषा । क्षेत्रयमानिका इति केचित् । सुषवी ।
केले जीरा इति भाषा । हिङ्गुपत्री । हिङ्गेर पाता
इति भाषा । इत्यमरभरतौ ॥ क्षुद्रकारवेल्ली ।
इति राजनिर्घण्टः । छोट करला इति भाषा ॥

कारवेल्लं, क्ली, (कारं वेल्लति । वेल्ल चलने कर्म्म-

ण्यण् । यद्वा कारेण वातगमनेन वेल्लति चलति
गच्छति वा वेल्ल चलने अच् ।) कठिल्लकम् ।
करला इति भाषा । तत्पर्य्यायगुणाः ।
“कारवेल्लं कठिल्लं स्यात् कारवेल्ली ततो लघुः ।
कारवेल्लं हिमं भेदि लघु तिक्तमवातलम् ॥
ज्वरपित्तकफास्रध्नं पाण्डुमेहकृमीन् हरेत् ।
तद्गणा कारवेल्ली स्याद्विशेषाद्दीपनी लघुः” ॥
इति भावप्रकाशः ॥ अमरे पुंलिङ्गोऽयम् ॥

कारवेल्लः, पुं, (कारेण वायुवत् गत्या वेल्लति चल-

तीति । कार + वेल्ल + अच् ।) लताविशेषः ।
करला इति भाषा । तत्पर्य्यायः । कठिल्लकः २
सुषवी ३ । इत्यमरः । २ । ४ । १५४ ॥ शुषवी ४
सुशवी ५ । इति तट्टीका ॥ कण्डुरः ६ काण्डकटुकः
७ सुकाण्डः ८ उग्रकाण्डः ९ कठिल्लः १० नासा-
सम्बेदनः ११ पटुः १२ । इति राजनिर्घण्ठः ।
तत्पुष्पगुणः । धारकत्वम् । रक्तपित्तरोगे सुपथ्य-
त्वञ्च ॥ तत्फलगुणः । शुक्रकफपित्तनाशित्वम् ।
रुचिकरत्वञ्च । इति राजवल्लभः ॥

कारवेल्लकः, पुं, (कारवेल्ल एव । स्वार्थे कण् ।) कार-

वेल्लः । इति रत्नमाला ॥ (क्लीवत्वमपि दृश्यते ।
यथा शुश्रुते सूत्रस्थाने ४६ अध्याये ।
“तद्वत् कर्कोटकं प्रोक्तं कारवेल्लकमेव च” ॥)

कारवेल्ली, स्त्री, (कारवेल्ल + अल्पार्थे ङीष् ।) क्षुद्र-

पृष्ठ २/१००
:कारवेल्लम् । करेली इति हिन्दी भाषा । उच्छे
इति वङ्गभाषा ॥ (यदुक्तं पाकराजेश्वरे ।
“कारवेल्लीफलं तक्रे श्वेदितं हिङ्गुमर्द्दितम् ।
भर्ज्जितं नवनीतेन सैन्धवेन समन्वितम् ॥
विदलितमुखमीषत् कारवेल्लीकठोरं
पुलकितमिव तैले साधितं रामठेन ।
रचितमरिचचूर्णं सैन्धवेनातिपूर्णम्
सुललितरसनाग्रं लोलता मातनोति” ॥
अन्यत् कारवेल्लशब्दे द्रष्टव्यम् ॥)

कारमिहिका, स्त्री, (कारस्य तुषारशैलस्य मिहिका

नीहार इव ।) कर्पूरम् । इति राजनिर्घण्टः ॥

कारस्करः, पुं, (कारं वधं करोतीति । कृ + “कृञो-

हेतुताच्छील्यानुलोम्येषु” । ३ । २ । २० । इति टः
निपातनात् सुट् ।) वृक्षविशेषः । तत्पर्य्यायः ।
किम्पाकः २ विषतिन्दुः ३ करद्रुमः ४ रम्यफलः ५
कुपीलुः ६ कालकूटः ७ । (यथा महाभारते
२ । द्यूतपर्व्वणि ४९ । २१ ।
“आवर्ज्जिता इवाभान्ति नीपाश्चित्रककौकुराः ।
कारस्करा लौहजङ्घा युधिष्ठिरनिवेशने” ॥)
अस्य गुणाः । कटुत्वम् । उष्णत्वम् । तिक्तत्वम् ।
कुष्ठवातामयास्रकण्डूतिकफार्शोव्रणनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

कारस्कराटिका, स्त्री, (कारस्कर इव अटति । अट्

+ ण्वुल् टाप् अत इत्वञ्च ।) कर्णजलौका । इति
त्रिकाण्डशेषः ॥ केर्णो केनुइ इति च भाषा ॥

कारा, स्त्री, (कीर्य्यते क्षिप्यते दण्डार्हो यस्याम् । कॄ

विक्षेपे भिदादित्वात् अङ् । “ऋदृशोऽङीति”
७ । ४ । १६ । गुणे दीर्घत्वं निपात्यते ।) कारागा-
रम् । तत्पर्य्यायः । बन्धनालयः २ इत्यमरः । २ ।
८ । ११९ ॥ दूती । प्रसेवकः । सुवर्णकारिका ।
बन्धनम् । इति मेदिनी ॥ पीडा । इति त्रिकाण्ड-
शेषः ॥

कारागारं, क्ली, (कारैव आगारं कारायै बन्धनाय

आगारं वा ।) बन्धनगृहम् । यथा । “रिपुः कारा-
गारं कलयति च तं केलिकलया” । इति तन्त्रसारे
श्यामास्तोत्रम् ॥

कारागुप्तः, स्त्रि, (कारायां बन्धनागारे गुप्तः रुद्धः

रक्षितो वा ।) कारागारस्थः । इति हेमचन्द्रः ।
कयेदी इति भाषा ॥

कारायिका, स्त्री, (कं जलं आराति आदत्ते प्रचरण-

स्थानतया इति यावत् । आ + रा + ण्वुल् टाप्
इत्वञ्च ।) बलाका । इति जटाधरः ॥

कारावेश्म, [न्] क्ली, (कारैव कारायै वा वेश्म

गृहम् ।) कारागारम् । तत्पर्य्यायः । वधाङ्गकम् २ ।
इति त्रिकाण्डशेषः ॥

कारिः, स्त्री, (क्रियतेऽसौ । कृ + “विभाषाख्यानप-

रिप्रश्नयोरिञच” । ३ । ३ । ११ । इति इञ् ।)
क्रिया । (यदुक्तं सिद्धान्तकौमुद्यां । “त्वं कां
कारिमकार्षोः । सर्व्वां कारिमकार्षम्” ॥) करो-
तीति डु कृञ् करणे । “कृञ उदीचां कारुषु”
उणां । ४ । १२८ । इति इञ् ।) शिल्पिनि त्रि ।
इति मेदिनी ॥

कारिका, स्त्री, (धात्वर्थे निर्द्देशे करोतेर्ण्वुल्

णित्त्वाद्वृद्धिः । यद्वा करोतीति ण्वुल् प्रत्ययस्था-
दिति इत्वम् ।) नटस्त्री । कृतिः । विवरणश्लोकः ।
(यथा, महाभारते । २ । ११ । ३३ ।
“नाटका विविधाः काव्याः कथाख्यायिककारिकाः” ॥)
शिल्पम् । यातना । इति मेदिनी ॥ वृद्धिः । इत्य-
मरटीकायां रमानाथः । सुद इति भाषा ॥ स्व-
ल्पाक्षरवृत्त्या बह्वर्थज्ञापिका कविता । यथा, --
“कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी” ।
इति हेमचन्द्रः ॥

कारितः, त्रि, (कृ + णिच् + कर्म्मणि क्तः ।) कुर्व्वन्

प्रेरितः । कराण इति भाषा । यथा, मार्कण्डेये ।
देवीमाहात्म्ये ८१ । ६५ ।
“विष्णुः शरीरग्रहणमहमीशान एव च ।
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत्” ॥

कारिता, स्त्री, (कारित + टाप् ।) ऋणिकेन या

स्वकार्य्यसाधकतया अशीतितमभागद्विकशतादि-
तोऽधिका वृद्धिर्व्यवस्थापिता सा । अधिक् सुद
इति भाषा । यथा, विवादार्णवसेतौ कात्यायनः ॥
“ऋणिकेन तु या वृद्धिरधिका संप्रकीर्त्तिता ।
आपत्कालकृता नित्यं दातव्या सा तु कारिता” ॥
(तथा च मनुः ८ । १५३ ।
“नाति सम्बत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् ।
चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या” ॥)
तत्पर्य्यायः । कारिका २ कारितावृद्धिः ३ । इति
मिताक्षरा ॥

कारी, स्त्री, (कृणाति हिनस्ति कण्टकैः । कृ

हिंसायां + इञ् ततो ङीष् ।) वृक्षविशेषः ।
कण्टकारी आकर्षकारीत्येषा द्विधा । तत्पर्य्यायः ।
कारिका २ कार्य्या ३ गिरिजा ४ कटुपत्रिका ५ ।
अस्या गुणाः । कषायत्वम् । मधुरत्वम् । पित्त-
नाशित्वम् । दीपनत्वम् । ग्राहित्वम् । रुचिकण्ठ-
शोषकारित्वम् । गुरुत्वञ्च । इति राजनिर्घण्टः ॥

कारीषं, क्ली, (करीषाणां समूहः । भिदादित्वात्

अण् ।) करीषसमूहः । इत्यमरः । ३ । २ । ४३ ॥
घुटेर राशि इति भाषा । (यथा, हरिवंशे ।
“कारीषेषु प्रकॢप्तेषु दीप्यमानेषु सर्व्वशः” ॥

कारुः, पुं, (करोति इति । “कृवापाजिमीति” ।

उणां १ । १ । उण् ।) विश्वकर्म्मा । इति मेदिनी ॥
(भावे उण ।) शिल्पम् । इति हेमचन्द्रः ॥

कारुः, त्रि, (करोति इति । कृ + उण् । उणां । १ । १ ।)

कारकः । (यथा, भट्टिः ७ । २८ ।
“राघवस्य ततः कार्य्यं कारुर्व्वानरपुङ्गवः ।
सर्व्ववानरसेनानामाश्वागमनमादिशत्” ॥)
शिल्पी । इति मेदिनी ॥ (यथा, कूर्म्मपुराणे ।
“कारयित्वा तु कर्म्माणि कारुं पश्चान्न वञ्चयेत्” ॥)

कारुकः, त्रि, (कारु + स्वार्थे कन् ।) शिल्पी । (यथा

मनुः । ४ । २१९ ।
“कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च
गणान्नं गणिकान्नञ्च लोकेभ्यः परिकृन्तति” ॥)

कारुजः, पुं, (कं जलं आरुजति । आ + रुज + कः ।)

करभः । फेनः । वल्मीकः । नागकेशरः । गैरिकम् ॥
(कारोः कारुतो जायते । कारु + जन + डः ।)
शिल्पिनां चित्रम् । स्वयं जाततिलः । इति
हेमचन्द्रः ॥

कारुणिकः, त्रि, (करुणा शीलमस्य । शीलमितिठक् ।)

दयालुः । इत्यमरः । ३ । १ । १५ ॥ (यथा, रघुः ।
१५ । ७१ ।
“कविः कारुणिको वव्रे सीतायाः सम्परिग्रहम्” ॥)

कारुण्डी, स्त्री, (कुत्सिता ईषत् वा रुण्डी मूर्द्धहीना

इव ।) जलौकाः । इति शब्दचन्द्रिका ॥ कारु-
ण्डिका इति च पाठः ॥

कारुण्यं, क्ली, (करुणः करुणावान् । तस्य भावः ।

करुणैव वा ष्यञ् ।) करुणा । इत्यमरः । १ । ७ ।
१८ ॥ (यथा गोः रामायणे १ । २ । १५ ।
“मुनेः शिष्यसहायस्य कारुण्य समजायत” ॥)

कारूषाः, पुं, (करूषो अभिजन एषाम् । भर्गा-

दित्वात् अण् बहुषु न तस्य लुक् ।) करूषदेश-
वासिनः । तत्पर्य्यायः । वृहद्गहाः २ । इति हेमच-
न्द्रः ॥ बहुवचनान्तोऽयं शब्दः ॥ (यथा, विष्णु-
पुराणे २ । ३ । १६ ।
“कारूषा मालवाश्चैव पारिपात्रनिवासिनः” ॥)

कारोत्तमः, पुं, (कारेण सुरागालनेन उत्तमः । मण्डस्य

उत्तमतया तथात्वम् ।) कारोत्तरः । इत्यमर-
टीकायां स्वामी ॥

कारोत्तरः, पुं, (कारेण सुरागालनक्रियया उत्तरति ।

उत् + तॄ + अच् ।) सुराग्रभागः । तत्पर्य्यायः ।
सुरामण्डः २ । इत्यमरः । २ । १० । ४३ ॥ कूपः ।
इति हारावली ॥

कार्कश्यं, क्ली, (कर्कशस्य भावः । कर्कश + ष्यञ् ।)

कर्कशता । (यथा, अमरुशतके २४ ।
“कार्कश्यंगमितेपि चेतसि तनू रोमाञ्चमालम्बते” ।)

कार्त्तवीर्य्यः पुं, (कृतवीर्य्यस्य अपत्यं अण् ।) चन्द्र-

वंशीयकृतवीर्य्यराजपुत्त्रः । तत्पर्य्यायः । हेहयः २
दोःसहस्रभृत् ३ अर्ज्जुनः ४ । (यथा, भागवते ९ ।
२३ । २४ ।
“न नूनं कार्त्तवीर्य्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञदानतपोयोगश्रुतवीर्य्यजयादिमिः” ॥
अस्य खलु माहिष्मती नाम पुरी राजधान्या-
सीत् । मुजवीर्य्येणायं सप्तद्वीयां धरामजयत् ।
दत्तात्त्रेययोगात् बाहुसहसस्रभावं लब्धवान् ।
दिग्विजये आगतो रावणोऽनेन पराजितो निगडे
बद्धः पितामहेन पुलस्त्यमुनिना ततो मोचितः ।
अयन्तु जमदग्नेराश्रमं गात्वा बलात् सवत्सां होम-
धेनुं जहार । ततः कद्धेन जामदग्नेन सबलोनि-
हतोऽसौ कार्त्तवीर्य्यः । अथ वैरशुद्धिं चिकीर्षुभिः
दुरात्मभिः कार्त्तवीर्य्यपुत्त्रैरागत्य स्वाश्रमे ध्यानस्थो
जमदग्निर्निपातितः । ततोऽनेन पितृवधामर्षात्
जातक्रोधेन परुशुरामेण सर्व्वेहैहयाः निपातिताः ॥
जैनराजचक्रवत्तिविशेषः । तत्पर्य्यायः । सुभूमः २ ।
इति हेमचद्रः ॥

कार्त्तस्वरं क्ली, (कृतस्वरे आकरभेदे भवम् अण्

कृताः पठिताः स्वरा येन सः कृतस्वरः सामगान-
कर्त्ता तस्मै दक्षिणात्वेन देयं वा । “शेषे” । ४ । २
पृष्ठ २/१०१
:९२ इत्यण ।) स्वर्णम् । (यथा, माघे १ । २० ।
“स तप्तकार्त्तस्वरभास्वराम्बरः” ॥)
धुस्तूरः । इत्यमरः । २ । ४ । ७७ ॥

कार्त्तान्तिकः, पुं, (कृतान्तं वेत्ति । “क्रतूक्थादि

सूत्त्रान्ताट्वक्” । ४ । २ । ३० । इति ठक ।) ज्यो-
तिर्व्वित् । दैवज्ञः । इत्यमरः । २ । ८ । १४ ॥

कार्त्तिकः, पुं, (कृत्तिकानक्षत्रयुक्ता पौर्णमासी यत्र

मासे इति पाक्षिको अण् ।) वैशाखादिद्वादश
मासान्तर्गतसप्तममासः । कृत्तिकानक्षत्रयुक्ता
पौणमासी यत्र मासे सः । अयं तुलास्थरविप्रा-
रब्धशुक्लप्रतिपदादिदर्शान्तरूपगुख्यचान्द्रः । सौ-
रस्तु तुलाराशिस्थरविककालः । इति स्मृतिः ॥
तत्पर्य्यायः । बाहुलः २ ऊर्ज्जः ३ कार्त्तिकिकः ४ ।
इत्यमरः । १ । १७ ॥ कौमुदः ५ । इति शब्द-
रत्नावली ॥ * ॥
अथ कार्त्तिककृत्यम् ।
पद्मपुराणे ।
“तुलामकरमेषेषु प्रातःस्नानं विधीयते” ।
तत्र संकल्पः अरुणोदयकाले मज्जनं कृत्वाचम्य
ॐ तत्सदद्य कार्त्तिके मासि अमुकपक्षे अमुक-
तिथावारभ्य तुलास्थरविं यावत् प्रत्यहं अमुक-
गोत्रः श्री अमुकदेवशर्म्मा श्रीविष्णुप्रीतिकामः
प्रातःस्नानमहं करिष्ये इति संकल्प्य यथोक्तवि-
धिना इतिकर्त्तव्यतां विधाय --
“ॐकार्त्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्द्दन ! ।
प्रीत्यर्थं तव देवेश ! दामोदर ! मया सह” ॥
इति स्नायात् । मया लक्ष्म्या । प्रतिदिनसंकल्पे
तु आरभ्य तुलास्थरविं यावत् प्रत्यहं इति न
वक्तव्यम् । किन्तु मासीत्यनन्तरं तुलास्थरवा-
वित्यधिकं वक्तव्यम् । चान्द्रस्नानवाक्यन्तु वैशाख-
कृत्ये अनुसन्धेयम् । तथा वायुपुराणे ।
“यदीच्छेद्विपुलान् भोगान् चन्द्रसूर्य्यग्रहोपमान् ।
कार्त्तिकं सकलं व्याप्य प्रातःस्नायी भवेन्नरः” ॥ * ॥
तथा च गारुडे ।
“गवामयुतदानेन यत् फलं लभते खग ! ।
तुलसीपत्रकैकेन तत् फलं कार्त्तिके स्मृतम्” ॥
ॐअद्येत्यादि तुलसीपत्रकैकसमसंख्यायुतधेनु-
दानजन्यफलसमफलप्राप्तिकामः एतानि तुलसी-
पत्राणि श्रीविष्णवेऽहं ददे । इत्यभिलप्य एतानि
तुलसीपत्राणि श्रीविष्णवे नमः । इत्यनेन
दद्यात् ॥ * ॥
ब्रह्माण्डपुपाणे ।
“विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् ।
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः ॥
ॐदामोदराय नभसि तुलायां लोलया सह ।
प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे” ॥
लोलया लक्ष्म्या ।
“इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना ।
आकाशे मण्डपे वापि स चाक्षयफलं लभेत्” ॥
स्नानवत् । ॐअद्येत्यादि अमुकतिथावारभ्य तुला-
स्थरविं यावत् प्रत्यहं अमुकगोत्रोऽमुकदेवशर्म्मा
अक्षयदीपदानफलप्राप्तिकामः श्रीविष्णुप्रीतिकामो
वा आकाशे मण्डपे वापि श्रीविष्णवे दीपदान-
महं करिष्ये । इति संकल्प्य दामोदरायेत्यादिना
दद्यात् । द्वितीयादिदिने ॐदामोदरायेत्यनेनेति
विशेषः । विष्णुगृहे तु । ॐअद्येत्यादि अमुकति-
थावारभ्य तुलास्थरविं यावत् प्रत्यहं अमुकगोत्रो-
ऽमुकदेवशर्म्माअग्निष्टोमसहस्रजन्यफलसमफलप्रा-
प्तिकामः श्रीविष्णप्रीतिकामो वा श्रीविष्णुवेश्मनि
श्रीविष्णवे दीपदानमहं करिष्ये । इति संकल्प्य
ॐ दामोदरायेत्यादिना दद्यात् । द्वितीयादिदिने
ॐ दामोदरायेत्यनेनेति विशेषः ॥ * ॥
हविष्यान्नादौ तु ब्रह्मपुराणे ।
“व्रतोपवासनियमैः कार्त्तिको यस्य गच्छति ।
देवो वैमानिको भूत्वा स याति परमं पदम्” ॥
तत्र अद्येत्यादि अमुकतिथावारभ्य तुलास्थरविं
यावत् प्रत्यहं अमुकगोत्रोऽमुकदेवशर्म्मा वैमा-
निकदेवत्वभवनपूर्ब्बकपरमपदप्राप्तिकामः श्रीवि-
ष्णुप्रीतिकामो वा हविष्येतरभोजननिवृत्तिमहं
करिष्ये । इत्यादिवाक्ये विशेषः । एवं फलाहारा-
दावपि ॥ * ॥ हविष्यद्रव्याणि च ।
“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः ।
कलायकङ्गुनीवारा वास्तूकं हिलमोचिका ॥
यष्टिका कालशाकञ्च मूलकं केमुकेतरत् ।
लवणे सैन्धवसामुद्रे गव्ये च दधिसर्पिषी ॥
पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी ।
तिन्तिडी जीरकञ्चैव नागरङ्गञ्च पिप्पली ॥
कदली लवली धात्री फलान्यगुडमैक्षवम् ।
अतैलपक्वं मुनयो हविष्यान्नं विदुर्ब्बुधाः” ॥
हैमन्तिकमित्यभिधायागस्त्यसंहितायाम् ।
“नारिकेलफलञ्चैव कदलीं लवलीन्तथा ।
आम्रमामलकञ्चैव पनसञ्च हरीतकीम् ॥
व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः” ।
अत्र च आरब्धव्रतोपवासादौ फलजलादिभक्षण-
मप्याहतुरुद्योगपर्व्ववौधायनौ ।
“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकास्या च गुरोर्व्वचनमौषधम्” ॥ * ॥
फलाहारादावपि तुलसीराहित्ये दोषमाह ।
“तुलसीं विना या क्रियते न पूजा
स्नानं न तद्यत् तुलसीं विना कृतम् ।
भुक्तं न तद्यत् तुलसीविवर्ज्जितं
पीतं न तद्यत्तुलसीविवर्ज्जितम्” ॥ * ॥
नारदीये ।
“न मात्स्य भक्षयेन्मांसं न कौर्म्मं नान्यदेव हि ।
चण्डालो जायते राजन् कार्त्तिके मांसभक्षणात्” ॥
तथा च महाभारते ।
“कौमुदन्तु विशेषेण शुक्लपक्षे नराधिप ! ।
वर्ज्जयेत् सर्व्वमांसानि धर्म्मो ह्यत्र विधीयते” ॥
कौमुदं कार्त्तिकम् । कार्त्तिकमधिकृत्य ब्रह्म-
पुराणम् ।
“एकादश्यादिषु तथा तासु पञ्चसु रात्रिषु ।
दिने दिने च स्नातव्यं शीतलासु नदीषु च ।
वर्ज्जितव्या तथा हिंसा मांसभोजनमेव च” ॥
ततश्च मांसभोजननिषेघे कार्त्तिकमासतत्शुक्ल-
पक्षतदेकादश्यादिपञ्चदिनानि शक्ताशक्तभेदात्
पापतारतम्याद्वा निषिद्धानि ।
“कार्त्तिके शौकरं मांसं यस्तु भुञ्जीत दुर्म्मतिः ।
षष्ठिवर्षसहस्राणि रौरवे परिपच्यते” ॥ ओल-
पटोलकदम्बवृन्ताककांस्यसन्धिजानि वर्ज्जयेत् ।
“पटोलानि फदम्बानि वृन्ताकसहितानि च ।
भुञ्जानः कार्त्तिके मासि याददाहूतनारकी” ॥ * ॥
भूतचतुर्द्दशीकृत्यं तत्शब्दे द्रष्टव्यम् । तत्र दीप-
दाने विशेषो सथा, --
“ततः प्रवोषसमये दीपान्दद्यात् प्रयत्नतः ।
ब्रह्मविष्णुशिवादीनां भवनेषु मठेषु च ।
कूटागारेषु चैत्येषु गुहासु च नदीषु च” ॥
दीपदानमन्त्रः ।
“ॐनमः पितृभ्यः प्रेतेभ्यो नमो धर्म्माय विष्णवे ।
नमो धर्म्माय रुद्राय कान्तारपतये नमः” ॥ * ॥
दीपान्विताकृत्यं तत्शब्दे द्रष्टव्यम् । तत्र विशेषो
यथा । तत्र बालातुरवृद्धव्यतिरेकेण दिवा न
भोक्तव्यम् । तत्र पार्व्वणश्राद्धं कृत्वा प्रदोषे प्राची-
नावीती दक्षिणामुखो ज्वलदुल्काम् ।
“ॐ शस्त्राशस्त्रहतानाञ्च भुतानां भूतदर्शयोः ।
उज्ज्वलज्योतिषा देहं दहेयं व्योमवह्निना” ॥
इत्यनेन गृह्णीयात् ।
“ॐ अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम ।
उज्ज्वलज्योतिषा दग्धास्ते यान्तु परमां गतिम्” ॥
इत्यनेन भूमौ स्थापयेत् ।
“ॐ यमलोकं परित्यज्य आगता ये महालये ।
उज्ज्वलज्योतिषा वर्त्म प्रपश्यन्तो व्रजन्तु ते” ॥
इत्यनेन पितॄन् विसर्ज्जयेत् । यद्येवं पूर्ब्बदिन एव
प्रदोषव्यापिन्यमावास्या तदा पूर्ब्बदिन एव श्राद्ध-
मकृत्वापि उल्कादानं कर्त्तव्यम् । आचारात्
पञ्चभूतोपाख्यानञ्च श्रोतव्यम् । उभयतः प्रदोष-
व्याप्तौ परदिन एव युग्मात् । उभयतः प्रदोषा-
प्राप्तावपि उल्कादानं परदिने पार्व्वणानुरोधात् ।
अत्रैव पूर्ब्बदिने लक्ष्मी रात्रौ पूज्या ।
“अमावस्या यदा रात्रौ दिवाभागे चतुर्द्दशी ।
पूजनीया तदा लक्ष्मीर्व्विज्ञेया सुखरात्रिका” ॥
इति वचनात् । लक्ष्मीपूजाविषयेऽप्येवं व्यवस्था ।
ततो गृहमध्ये उत्तराभिमुखो लक्ष्मीं पूजयेत् ।
ततः स्वस्तिवाचनपूर्ब्बकं ॐ सूर्य्यः सोम इति
ॐ तद्विष्णोरिति च पठित्वा तिलपुष्पजलान्या-
दाय ॐ तत्सदित्युच्चार्य्य ॐ अद्येत्यादि अमुक-
गोत्रोऽमुकदेवशर्मा परमविसूतिलाभकामो लक्ष्मी-
पूजनमहं करिष्ये । इति संकल्प्य शालम्रामे
घटादिस्थजले वा भूतशुद्ध्यादिकं कृत्वा लक्ष्मीं-
पूजयेत् । तद्यथा । ॐ पाशाक्षमालिकाम्भोज
इत्यादिना ध्यात्त्वां । ॐ भूर्मुवःस्वर्म्मह । लक्ष्मि !
इहागच्छ इत्याद्यावाह्य एतत्पाद्यं ॐ लक्ष्म्यै नमः ।
एवमर्घ्याचमनीयगन्धपुष्पधूपदीपनैवेद्यपुनराचम-
नीयताम्बूलादि प्रत्येकं दद्यात् ।
“ॐ नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चणात्” ॥
इत्यनेन पुष्पाञ्जलित्रयं दत्त्वा प्रणमेत् ।
पृष्ठ २/१०२
:ॐ विश्वरूपस्य भार्य्यासि पद्मे पद्मालये ! शुभे ! ।
सर्व्वतः पाहि मां देवि महालक्ष्मि ! नमोऽस्तुते” ॥
ततः । “सुखरात्र्याः प्रदोषे तु कुवेरं पूजयन्ति ये” ॥
इति रुद्रधरवचनात् । कुवेरमपि पाद्यादिभिः
पूजयेत् ।
“ॐ धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः” ॥
इति पठित्वा । ॐ कुवेराय नम इति त्रिः पूज-
येत् । ततो गृहादिषु दीपान्दद्यात् । तत्र मन्त्रः ।
ॐ अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च ।
उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम् ॥
ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुञ्जीत ।
तत्र प्रत्यूषे भविष्योक्तं कर्म्म कर्त्तव्यम् । गोरोचना-
तिलकधारणं प्रदीपवन्दनं कृत्वा लक्ष्मीं त्रिः पूज-
येत् ॥ तत्र मन्त्रः ।
“ॐ विश्वरूपस्य भार्य्यासि पद्मे पद्मालये ! शुभे ! ।
मलालक्ष्मि ! नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।
सुखरात्रि ! प्रभातेऽद्य तन्मे लक्ष्मीर्व्यपोहतु ॥
या रात्रिः सर्व्वभूतानां या च देवेष्ववस्थिता ।
सम्बत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥
माता त्वं सर्व्वलोकानां देवानां सृष्टिसम्भवा ।
आख्याता भूतले देवि ! सुखरात्रि ! नमोऽस्तु ते” ॥
ॐ लक्ष्म्यै नमः इति त्रिः पूजयेत् ॥ अन्यत् सुख-
रात्रिशब्दे द्रष्टव्यम् ॥ * ॥
अथ द्यूतप्रतिपत् । तत्र प्रभाते अक्षक्रीडादिकं
कार्य्यम् । तत्र जयेवर्षं शुभम् । पराजये वर्षम-
शुभम् । ततः संकल्प्य शालग्रामे जले वा एतत्
पाद्यं ॐ बलये नमः । इत्यादि संपूज्य ।
“ॐ बलिराज ! नमस्तुभ्यं विरोचनसुत प्रभो ! ।
भविष्येन्द्र सुराराते ! पूजेयं प्रतिगृह्यताम्” ॥
अनेन पुष्पाञ्जलित्रयं दद्यात् ।
“यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! ।
हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि” ॥
तथा ।
“महापुण्या तिथिरियंबलिराज्यविवर्द्धिनी ।
स्नानं दानं शतगुणं कार्त्तिकेऽस्यां तिथौ भवेत् ॥ * ॥
अथ भ्रातृद्वितीया । तत्राष्टधाविभक्तदिनपञ्चम-
यामार्द्धप्राप्तायां द्वितीयायां उभयादने तथा
चेत्परदिने कृत्यं युग्मात् । तत ॐ तत्सदि-
त्युच्चार्य्य ॐ अद्येत्यादि अमुकगोत्रोऽमुकदेवशर्म्मा
स्वरक्षणकामो यमादिपूजनमहं करिष्ये । इति
संकल्प्य शालग्रामे घटादिस्थजले वा पूजयेत् ।
एतत् पाद्यं ॐ यमाय नमः । एवं क्रमेण संपूज्य ।
“एह्येहि मार्त्तण्डज ! पाशहस्त !
यमान्तकालोकधरामरेश ! ।
भ्रातृद्वितीयाकृतदेवपूजां
गृहाण चार्घ्यं भगवन्नमस्ते” ॥
इदमर्घ्यं ॐ यमाय नमः तत आचमनीयादिकं
दत्त्वा प्रणमेत् ।
“ॐ धर्म्मराज ! नमस्तुभ्यं नमस्ते यमुनाग्रज ! ।
पाहि मां किङ्करैः सार्द्धं सूर्य्यपुत्त्र ! नमोस्तु ते” ॥
तत ॐ चित्रगुप्ताय नमः । इत्यनेन पूजयेत् । तत
ॐ यमदूतेभ्यो नमः । इत्यनेन पाद्यादिभिः
पूजयेत् । यमुनाञ्च पाद्यादिभिः संपूज्य प्रणमेत् ।
“ॐ यमस्वसर्नमस्तेऽस्तु यमुने ! लोकपूजिते ।
वरदा भव मे नित्यं सूर्य्यपुत्त्रि ! नमोऽस्तु ते” ॥
ततो भ्रातृभोजनकाले अन्नादिकं दत्त्वा भगिनी
पठेत् ।
“भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं शुभम् ।
प्रीतये यमराजस्य यमुनाया विशेषतः” ॥
ज्येष्ठा चेत् तवाग्रजाताहमिति वदेत् । ततः
पुष्टिकामो भ्राता भुञ्जीत । “यत्नेन भगिनीह-
स्तात् भोक्तव्यं पुष्टिवर्द्धनं” इति वचनात् ॥ * ॥
विष्णूत्थानं उत्थानैकादशीशब्दे द्रष्टव्यम् । तत्र
कार्त्तिकशुक्लैकादश्यादितिथिपञ्चके वकपञ्चकम् ।
“वकोऽपि तत्र नाश्नीयान्मत्स्यञ्चैव कदाचन” ।
इति वचनात् ॥ कार्त्तिक्यां गोदानादौ फलाधि-
क्यम् । “कार्त्तिक्यां गोप्रदो भवेत्” । इति वच-
नात् । इति कृत्यतत्त्वम् ॥ * ॥ * ॥ अपि च ।
अथं कार्त्तिकव्रतनित्यता । स्कान्देब्रह्मनारदसंवादे ।
“दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन्न हि ।
धर्म्मं धर्म्मभृतां श्रेष्ठ ! स मातृपितृघातकः ॥
अव्रतेन क्षिपेद्यस्तु मासं दामोदरप्रियम् ।
तिर्य्यग्योनिमवाप्नोति सर्व्वधर्म्मवहिष्कृतः ॥
स ब्रह्महा स गोघ्नश्च स्वर्णस्तेयी सदानृती ।
न करोति मुनिश्रेष्ठ ! यो नरः कार्त्तिके व्रतम् ॥
विधवा च विशेषेण व्रतं यदि न कार्त्तिके ।
करोति मुनिशार्दूल ! नरकं याति सा ध्रुवम् ॥
व्रतन्तु कांर्त्तिके मासि यदा न कुरुते गृही ।
इष्टापूर्त्तं वृथा तस्य यावदाहूतनारकी ॥
संप्राप्ते कार्त्तिके मासे द्विजो व्रतपराङ्मुखः ।
भवन्ति विमुखाः सर्व्वे तस्य देवाः सवासवाः ॥
इष्ट्वा च तहुभिर्यज्ञैः कृत्वा श्राद्धशतानि च ।
स्वर्गं नाप्नोति विप्रेन्द्र ! अकृत्वा कार्त्तिके व्रतम् ॥
यतिश्च विधवा चैव विशेषेण वनाश्रमी ।
कार्त्तिके नरकं यान्ति अकृत्वा वैष्णवं व्रतम् ॥
वेदैरधीतैः किं तस्य पुराणपठनैश्च किम् ।
कृतं यदि न विप्रेन्द्र ! कार्त्तिके वैष्णवं व्रतम् ॥
जन्मप्रभृति यत्पुण्यं विधिवत्समुपार्ज्जितम् ।
भस्मी भवति तत्सर्व्वमकृत्वा कार्त्तिके व्रतम् ॥
यद्दत्तञ्च परं जप्तं कृतञ्च सुमहत्तपः ।
सर्व्वं विफलतामेति अकृत्वा कार्त्तिके व्रतम् ॥
सप्तजन्मार्ज्जितं पुण्यं वृथा भवति नारद ! ।
अकृत्वा कार्त्तिके मासि वैष्णवं व्रतमुत्तमम् ॥
पापभूतास्तु ते ज्ञेया लोके मर्त्या महामुने ! ।
वैष्णवाख्यं व्रतं यैस्तु न कृतं कार्त्तिके शुभम्” ॥
किञ्च ।
“अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन्नरः ।
जन्मार्ज्जितस्य पुण्यस्य फलं नाप्नोति नारद !” ॥
किञ्च ।
“नियमेन विना चैव यो नयेत् कार्त्तिकं मुने ! ।
चातुर्म्मास्यं तथा चैव ब्रह्महा स कुलाधमः” ॥
किञ्च ।
“पिण्डदानं पितॄणाञ्च पितृपक्षे न वै कृतम् ।
व्रतं न कार्त्तिके मासि श्रावण्यामृषितर्पणम् ॥
चैत्रे नान्दोलितो विष्णुर्म्माघस्नानं न सज्जले ।
न कृता मर्द्दकी पुष्ये श्रावणे रोहिणाष्टमी ॥
सङ्गमे न कृता येन द्वादशी श्रवणान्विता ।
कुत्र यास्यन्ति ते मूढा नाहं जानामि नारद !” ॥
पाद्मे च । श्रीसौनकादिमुनिगणसंवादे ।
“मानुषः कर्म्मभूमौ यः कार्त्तिकं नयते मुधा
चिन्तामणिं करे प्राप्य क्षिपते कर्द्दमाम्बुनि ॥
नियमेन विना विप्राः कार्त्तिकं यः क्षिपेन्नरः ।
कृष्णः पराङ्मुखस्तस्य यस्मादूर्ज्जोऽस्य वल्लभः” ॥ * ॥
तत्र विशेषेण स्नानदानादिसत्कर्म्मनित्यता ।
स्कान्दे तत्रैव ।
“यैर्न्न दत्तं हुतं जप्तं न स्नानं न हरेर्व्रतम् ।
न कृतं कार्त्तिके पुत्त्र ! द्विजास्ते वै नराधमाः” ।
किञ्च ।
“यैन्न दत्तं हुतं जप्तं कार्त्तिके न व्रतं कृतम् ।
तेनात्मा हारितो नूनं न प्राप्तं प्रार्थितं फलम्” ।
किञ्च ।
“संप्राप्ते कार्त्तिके मासि ये रता न जनार्द्दने ।
तेषां सौरिपुरे वासः पितृभिः सह नारद” ॥
किञ्च ।
“कार्त्तिके नार्च्चितो यैस्तु भक्तिभावेन केशवः ।
नरकं ते गमिष्यन्ति यमदूतैस्तु यन्त्रिताः ॥
जन्मकोटिसहस्रैस्तु मानुष्यं प्राप्य दुर्ल्लभम् ।
कार्त्तिके नार्च्चितो विष्णुर्हारितं तेन जन्म वै ॥
विष्णोः पूजा कथा विष्णोर्वैष्णवानाञ्च दर्शनम् ।
न भवेत् कार्त्तिके यस्य हन्ति पुण्यं दशाब्दिकम्” ॥
अथ कार्त्तिकमाहात्म्यम् । स्कान्दे ।
“कार्त्तिकस्य तु माहात्म्यं प्राक् सामान्येन लिख्यते ।
ततो विशेषतस्तत्र कर्म्म देशादिभेदतः” ॥
अथ सामान्यतः स्कान्दे तत्रैव ।
“कार्त्तिकस्य तु मासस्य कोट्यंशेनापि नार्हति ।
सर्व्वतीर्थेषु यत् स्नानं सर्व्वदानेषु यत् फलम् ॥
एकतः सर्व्वतीर्थानि सर्व्वे यज्ञा सदक्षिणाः ।
एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले ॥
मेरुतुल्यसुवर्णानि सर्व्वदानानि चैकतः ।
एकतः कार्त्तिको वत्स ! सर्व्वदा केशवप्रियः ॥
यत् किञ्चित् क्रियते पुण्यं विष्णुमुद्दिश्य कार्त्तिके
तदक्षयं भवेत्सर्व्वं सत्योक्तं तव नारद ! ॥
कार्त्तिकं खलु वै मासं सर्व्वमासेषु चोत्तमम् ।
पुण्यानां परमं पुण्यं पावनानाञ्च पावनम् ॥
यथा नदीनां विप्रेन्द्र शैलानाञ्चैव नारद ! ।
उदधीनाञ्च विप्रर्षे ! क्षयो नैवोपपद्यते ॥
पुण्यं कार्त्तिकमासे तु यत् किञ्चित् क्रियते मुने ! ।
न तस्यास्ति क्षयो ब्रह्मन् पापस्याप्येवमेव च ॥
न कार्त्तिकसमो मासो न कृतेन समं युगम् ।
न वेदसदृशं शास्त्रं न तीर्थं गङ्गया समम् ॥
कार्त्तिकः प्रवरो मासो वैष्णवानां प्रियः सदा ।
कार्त्तिकं सकलं यस्तु भक्त्या सेवेत वष्णवः ॥
पितॄनुद्धरते सर्व्वान् नरकस्थान् महामुने” ! ।
पाद्मे च तत्रैव ।
पृष्ठ २/१०३
:“द्वादशस्वपि मासेषु कार्त्तिकः कृष्णवल्लभः ।
तस्मिन् संपूजितो विष्णुरल्पकैरप्युपायनैः ॥
ददाति वैष्णवं लोकमित्येवं निश्चितं मया ।
यथा दामोदरो भक्तवत्सलो विदितो जनै
तस्यायन्तादृशो मासः स्वल्पमप्युरुकारकः ।
दुर्ल्लभो मानुषो देहो देहिनां क्षणभङ्गुरः ॥
तत्रापि दुर्ल्लभः कालः कार्त्तिको हरिवल्लभः ।
दीपेनापि हि यत्रासौ प्रीयते हरिरीश्वरः ॥
सुगतिञ्च ददात्येव परदीपप्रबोधनात्” ॥ * ॥
अथ व्रतमाहात्म्य स्कान्दे तत्रैव ।
“व्रतानामिह सर्व्वेषामेकजन्मानुगं फलम् ।
कार्त्तिके तु व्रतस्योक्तं फलं जन्मशतानुगम् ॥
अक्रूरतीर्थे विप्रेन्द्र ! कार्त्तिक्यां समुपोष्य च ।
स्नात्वा यत् फलमाप्नोति तच्छ्रुत्वा वैष्णवं व्रतम् ॥
वाराणस्यां कुरुक्षेत्रे नैमिषे पुष्करेऽर्ब्बुदे ।
गत्वा यत् फलमाप्नोति व्रतं कृत्वा तु कार्त्तिके ॥
अनिष्ट्वा च सदा यज्ञैर्न कृत्वा पितृभिः स्वधाम् ।
व्रतेन कार्त्तिके मासि वैष्णवन्तु पदं व्रजेत् ॥
प्रवृत्तानाञ्च भक्ष्याणां कार्त्तिके नियमे कृते ।
अवश्यं कृष्णरूपत्वं प्राप्यते मुक्तिदं शुभम्” ॥
किञ्च ।
“ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वा मुनिसत्तम ! ।
वियोनिं न व्रजत्येव व्रतं कृत्वा तु कार्त्तिके” ॥
किञ्च ।
“कार्त्तिके मुनिशार्दूल ! स्वशक्त्या वैष्णवं व्रतम् ।
यः करोति यथोक्तन्तु मुक्तिस्तस्य करे स्थिता ॥
सुपुण्ये कार्त्तिके मासि देवर्षिपितृसेविते ।
क्रियमाणे व्रते नॄणां स्वल्पेऽपि स्यान्महाफलम्” ॥ * ॥
अथ कर्म्मविशेषमाहात्म्यम् । स्कान्दे तत्रैव ।
“दानं दत्तं हुतं जप्तं तपश्चैव तथा कृतम् ।
तदक्षयफलं प्रोक्तं कार्त्तिके च द्विजोत्तम” ! ॥
किञ्च ।
“यत् किञ्चित् कार्त्तिके दत्तं विष्णुमुद्दिश्य मानवैः ।
तदक्षयं लभ्यते वै अन्नदानं विशेषतः” ॥
किञ्च ।
“यस्तु सम्बत्सरं पूर्णमग्निहोत्रमुपासते ।
कार्त्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः ॥
कार्त्तिके या करोत्येवं केशवालयमण्डलम् ।
स्वर्गस्था शोभते सा तु कपोती पक्षिणी यथा ॥
यः करोति नरो नित्यं कार्त्तिके पत्रभोजनम् ।
न स दुर्गतिमाप्नोति यावदिन्द्राश्चतुर्द्दश ॥
जन्मप्रभृति यत्पापं मानवैश्च कृतं भवेत् ।
तत्सर्व्वं नाशमाप्नोति ब्रह्मपत्रेषु भोजनात् ॥
सर्व्वकामफलं तस्य सर्व्वतीर्थफलं लभेत् ।
न वापि नरकं पश्येत्ब्रह्मपत्रेषु भोजनात् ॥
ब्रह्म चैष स्मृतः साक्षात् पलाशः सर्व्वकामदः ।
मध्यमं वर्ज्जितं पत्रं शूद्रस्य मुनिसत्तम ! ॥
भुञ्जन्नरकमाप्नोति यावदिन्द्राश्चतुर्द्दश ।
तिलदानं नदीस्नानं सत्कथा साधुसेवनम् ॥
भोजनं ब्रह्मपत्रेष कार्त्तिके मुक्तिदायकम् ।
जागरं कार्त्तिके मासि यः करोत्यरुणोदये ॥
दामोदराग्रे विप्रेन्द्र ! गोसहस्रफलं लभेत् ! ।
जागरं पश्चिमे यामे यः करोति महामुने ! ॥
कार्त्तिके सन्निधौ विष्णोस्तत्पदं करसंस्थितम् ।
साधुसेवा गवां ग्रासः कथा विष्णोरथार्च्चनम् ।
जागरः पश्चिमे यामे दुर्ल्लभः कार्त्तिके कलौ” ॥
किञ्च ।
“जलधेनुसहस्रञ्च वृषसंस्थे दिवाकरे ।
तोयं दत्त्वा यदाप्नोति स्नानं कृत्वा तु कार्त्तिके ॥
सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ।
सूर्य्यवारेण यत्स्नानं तदेकाहेन कार्त्तिके ॥
पितॄनुद्दिश्य यद्दत्तं कार्त्तिके कृष्णवल्लभे ।
अन्नोदकं मुनिश्रेष्ठ ! अक्षयं जायते नृणाम्” ॥ * ॥
किञ्च ।
“गीतशास्त्रविनोदेन कार्त्तिकं यो नयेन्नरः ।
न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय !” ॥
किञ्च ।
“प्रदक्षिणञ्च यः कुर्य्यात् कार्त्तिके विष्णुसद्मनि ।
पदे पदेऽश्वमेधस्य फलभागी भवेन्नरः ॥
गीतं वाद्यञ्च नृत्यञ्च कार्त्तिके पुरतो हरेः ।
यः करोति नरो भक्त्या लभते चाक्षयं फलम् ॥
हरेर्नाम सहस्राख्यं गजेन्द्रस्य च मोक्षणम् ।
कार्त्तिके पठते यस्तु पुनर्जन्म न विद्यते ॥
कार्त्तिके पश्चिमे यामे स्तवं गानं करोति यः ।
वसते श्वेतद्वीपे तु पितृभिः सह नारद ! ॥
नैवेद्यदानेन तु हरेः कार्त्तिके यवसंख्यया ।
युगानि वसते स्वर्गे तावन्ति मुनिसत्तम ! ॥
अगुरुन्तु सकर्पूरं यो दहेत् केशवाग्रतः ।
कार्त्तिके तु मुनिश्रेष्ठ ! युगान्ते न पुनर्भवः” ॥
किञ्च ।
“नियमेन कथां विष्णोर्ये शृण्वन्ति च भाविताः ।
श्लोकार्द्ध्वं श्लोकपादं वा कार्त्तिके गोशतं फलम् ॥
सर्व्वधर्म्मान् परित्यज्य कार्त्तिके केशवाग्रतः ।
शास्त्रस्योच्चारणं पुण्यं श्रोतव्यञ्च महामुने ! ॥
श्रेयसा लोभबुद्ध्या वा यः करोति हरेः कथाम् ।
कार्त्तिके मुनिशार्दूल ! कुलानां तारयेच्छतम् ॥
नित्यं शास्त्रविनोदेन कार्त्तिकं यः क्षिपेन्नरः ।
निर्द्दहेत् सर्व्वपापानि यज्ञायुतफलं लभेत् ॥
न तथा तुष्यते दानैर्न यज्ञैर्गोगजादिकैः ।
यथाशास्त्रकथालापैः कार्त्तिके मधुसूदनः ॥
कार्त्तिके मुनिशार्दूल ! यः शृणोति हरेः कथाम् ।
स निस्तरति दुर्गाणि जन्मकोटिशतानि च ॥
यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ! ।
अष्टादशपुराणानां कार्त्तिके फलमाप्नुयात्” ॥
किञ्च ।
“सर्व्वान् धर्म्मान् परित्यज्य इष्टापूर्त्तादिकान्नरः ।
कार्त्तिके परया भक्त्या वैष्णवैः सह संवसेत्” ॥
पाद्मे च तत्रैव ।
“कार्त्तिके भूमिशायी यो ब्रह्मचारी हविष्यभुक् ।
पलाशपत्रे भुञ्जानो दामोदरमथार्च्चयेत् ॥
स सर्व्वपातकं हित्वा वैकुण्ठे हरिसन्निधौ ।
मोदते विष्णुसदृशो भजनानन्दनिर्वृतः” ॥
किञ्च ।
“कार्त्तिकं सकलं मासं प्रांतःस्नायी जितेन्द्रियः ।
जपन् हविष्यभुक् दान्तः सर्व्वपापैः प्रमुच्यते ॥
कार्त्तिकन्तु नरो मासं यः कुर्य्यादेकभोजनम् ।
शूरश्च बहुवीर्य्यश्च कीर्त्तिमांश्च स जायते” ॥
किञ्च ।
“पलाशपत्रभोजी च कार्त्तिके पुरुषो नरः ।
निष्पापः स्यात्तु नैवेद्यं हरेभुक्त्वा विमुच्यते ॥
मध्यस्थमैश्वरं पत्रं वर्जयेद्ब्राह्मणेतरः” ।
किञ्च ।
“अपराधसहस्राणि पातकानि महान्त्यपि ।
क्षमतेऽस्य हरिर्द्देवः पूजितः कार्त्तिके प्रभुः ॥
नैवेद्यं पायसं विष्णोः प्रियं खण्डं घृतान्वितम् ।
विभज्य तच्च भुञ्जानो यज्ञसाम्यं दिने दिने” ॥
तत्रैव श्रीकृष्णसत्या संवादे ।
“स्नानं जागरणं दीपं तुलसीवनपालनम् ।
कार्त्तिके ये प्रकुर्व्वन्ति ते नरा विष्णुमूर्त्तयः ॥
इत्थं दिनत्रयमपि कार्त्तिके ये प्रकुर्व्वते ।
देवानामपि ते वन्द्याः किंयैराजन्मतत् कृतम्” ॥ * ॥
तत्रैव कार्त्तिकव्रताङ्गानि ।
“हरिजागरणं प्रातःस्नानं तुलसिसेवनम् ।
उद्यापनं दीपदानं व्रतान्येतानि कार्त्तिके” ॥
किञ्च ।
“पञ्चभिर्व्रतकैरेभिः सम्पूर्णं कार्त्तिके व्रती ।
फलमाप्नोति तत् प्रोक्तं भुक्तिमुक्तिफलप्रदम् ॥
विष्णोः शिवस्य वा कुर्य्यादालये हरिजागरम् ।
कुर्य्यादश्वत्थमूले वा तुलसीनां वनेषु च ॥
आपद्गतो यदाप्यम्भो न लभेत् सवनाय सः ।
व्याधितो वा पुनः कुर्य्याद्विष्णोर्न्नामापमार्ज्जनम् ॥
उद्यापनविधिं कर्त्तुमशक्तो यो व्रते स्थितः ।
ब्राह्मणान् भोजयेच्छक्त्या व्रतसम्पूर्णहेतवे ॥
अशक्तो दीपदानस्य परदीपान् प्रबोधयेत् ।
तेषां वा रक्षणं कुर्य्याद्वातादिभ्यः प्रयत्नतः ॥
अभावे तुलसीनाञ्च पूजयेद्वैष्णवं द्विजम् ।
सर्व्वाभावे व्रती कुर्य्याद्ब्राह्मणानां गवामपि ॥
सेवां वा बोधिवटयोर्व्रतसम्पूर्णहेतवे” ॥ * ॥
अथ दीपदानमाहात्म्यम् । स्कान्दे तत्रैव ।
“कृत्वा कोटिसहस्राणि पातकानि बहून्यपि ।
निमेषार्द्धेनदीपस्य विलयं यान्ति कार्त्तिके” ॥
किञ्च ।
“शृणु दीपस्य माहात्म्यं कार्त्तिके केशवप्रियम् ।
दीपदानेन विप्रेन्द्र ! न पुनर्जायते भुवि ॥
रविग्रहे कुरुक्षेत्रे नर्म्मदायां शशिग्रहे ।
तत् फलं कोटिगुणितं दीपदानेन कार्त्तिके ॥
घृतेन दीपको यस्य तिलतैलेन वा पुनः ।
ज्वलते मुनिशार्दूल ! अश्वमेधेन तस्य किम् ॥
मन्त्रहीनं क्रियाहीनं शौचहीनं जनार्द्दने ।
सर्व्वं सम्पूर्णतां याति कार्त्तिके दीपदानतः ॥
तेनेष्टं क्रतुभिः सर्व्वैः कृतं तीर्थावगाहनम् ।
दीपदानं कृतं येन कार्त्तिके केशवाग्रतः ॥
तावद्गर्ज्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले ।
यावन्न ज्वलते ज्योतिः कार्त्तिके केशवाग्रतः ॥
श्रूयते चापि पितृभिर्गाथा गीता पुरा द्विज ! ।
भविष्यति कुलेऽल्माकं पितृभक्तः सुतो भुति ॥
पृष्ठ २/१०४
:कार्चिके दीपदानेन यस्तोषयति केशवम् ।
मुक्तिं प्राप्स्यामहे नूनं प्रसादाच्चक्रपाणिनः” ॥
किञ्च ।
“मेरुमन्दरमात्राणि कृत्वा पापान्यशेषतः ।
दहते नात्र सन्देहो दीपदानात्तु कार्त्तिके ॥
गृहे वायतने वापि दीपं दद्याच्च कार्त्तिके ।
पुरतो वासुदेवस्य महाफलविधायिनः ॥
स जातो मानुषो लोके स धन्यः स च कीर्त्तिमान् ।
प्रदत्तः कार्त्तिके मासि दीपो वै मधुहाग्रतः ॥
निमिषार्द्धार्द्धमात्रेण दीपदानेन कार्त्तिके ।
न तत् क्रतुशतैः प्राप्यं फलं तीर्थशतैरपि ॥
सर्व्वानुष्ठानहीनोऽपि सर्व्वपापरतोऽपि सन् ।
पूयते नात्र सन्देहो दीपं दत्त्वा तु कार्त्तिके ॥
तन्नास्ति पातकं किञ्चित् त्रिषु लोकेषु नारद !
यन्न शोधयते दीपः कार्त्तिके केशवाग्रतः ॥
पुरतो वासुदेवस्य दीपं दत्त्वा तु कार्त्तिके ।
प्राप्नोति शाश्वतं स्थानं सर्व्वावाधाविवर्ज्जितम् ॥
यः कुर्य्यात् कार्त्तिके मासि कर्पूरेण तु दीपकम् ।
द्वादश्याञ्च विशेषेण तस्य पुण्यं वदामि ते ॥
कुले तस्य प्रसूता ये ये भविष्यन्ति नारद ! ।
समतीताश्च ये केचिद् येषां सङ्ख्या न विद्यते ॥
क्रीडित्वा सुचिरं कालं देवलोके यदृच्छया ।
ते सर्व्वे मुक्तिमायान्ति प्रसादाच्चक्रपाणिनः” ॥
किञ्च ।
“द्यूतव्याजेन विप्रेन्द्र ! कार्त्तिके केशवालयम् ।
द्योतयेद् यो महाभाग ! पुनात्यासप्तमं कुलम् ॥
कार्त्तिके दीपदानन्तु कुर्य्याद् यो वैष्णवालये ।
धनं पुत्त्रो यशः कीर्त्तिर्भवेत्तस्य च सर्व्वदा ॥
यथा च मथनाद्वह्निः सर्व्वकाष्ठेषु दृश्यते ।
तथा च दृश्यते धर्म्मो दीपदाने न संशयः” ॥
किञ्च ।
“निर्द्धनेनापि विप्रेन्द्र ! कृत्वा चैवात्मविक्रयम् ।
कर्त्तव्यं दीपदानन्तु यावत् कार्त्तिकपूर्णिमा ॥
वैष्णवो न स मन्त्यव्यः संप्राप्ते कार्त्तिके मुने ! ।
यो न यच्छति मूढात्मा दीपं केशवसद्मनि” ॥
नारदीये श्रीरुक्याङ्गदमोहिनीसंवादे ।
“एकतः सर्व्वदानानि दीपदानानि चैकतः ।
कार्त्तिके न समं प्रोक्तं दीपदो ह्यधिकः स्मृतः” ॥
पाद्मे च तत्रैव ॥
“कार्त्तिके खण्डदीपं यो ददाति हरिसन्निधौ ।
दिव्यकान्तिविमानाग्रे रमते स हरेः पुरे” ॥ * ॥
अथ तत्र परदीपप्रबोधनमाहात्म्यम् ।
स्कान्दे तत्रैव ।
“पितृपक्षेऽन्नदानेन ज्यैष्ठाषाढे च वारिणा ।
कार्त्तिके तत् फलं पुंसां परदीपप्रबोधनात् ॥
बोधनात् परदीपस्य वैष्णवानाञ्च सेवनात् ।
कार्त्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥
दीयमानन्तु ये दीपं बोधयन्ति हरेर्गृहे ।
परेण नृपशार्दूल ! निस्तीर्णा यमयातना ॥
न तद्भवति विप्रेन्द्र ! इष्टैरपि महामखैः ।
कार्त्तिके यत् फलं प्रोक्तं परदीपप्रबोधनात् ॥
एकादश्यां परैर्द्दत्तं दीपं प्रज्वाल्य मूषिका ।
मानुष्यं दुर्ल्लभं प्राप्य परां गतिमवाप सा” ॥ * ॥
अथ शिखरदीपमाहात्म्यम् ।
स्कान्दे तत्रैव ।
“यदा यदा भासयते दीपकः कलसोपरि ।
तदा तदा मुनिश्रेष्ठ ! द्रवते पापसञ्चयः ॥
यो ददाति द्विंजातिभ्यो महीमुदधिमेखलाम् ।
हरेः शिखरदीपस्य कलां नार्हति षोडशीम् ॥
यो ददाति गवां कोटिं सवत्सां क्षीरसंयुताम् ।
हरेः शिखरदीपस्य कलां नार्हति षोडशीम् ॥
सर्व्वस्वदानं कुरुते वैष्णवानां महामुने ! ।
शिखरोपरि दीपस्य कलां नार्हति षोडशीम्” ॥
किञ्च ।
“यः करोति परं दीपं मूल्येनापि महामुने ! ।
शिखरोपरि मध्ये च कुलानां तारयेच्छतम् ॥
विमानं ज्योतिषा दीप्तं ये निरीक्षन्ति कार्त्तिके ।
केशवस्य महाभक्त्या कुले तेषां न नारकी ॥
दिवि देवा निरीक्षन्ते विष्णुदीपप्रदं नरम् ।
कदा भविष्यत्यस्माकं सङ्गमः पुण्यकर्म्मणा ॥
कार्त्तिके कार्त्तिकों यावत् प्रासादोपरि दीपकम् ।
यो ददाति बुनिश्रेष्ठ ! तस्येन्द्रत्वं न दुर्ल्लभम्” ॥ * ॥
अथ तत्र दीपमालामाहात्म्यम् ।
स्कान्दे तत्रैव ।
“दीपपङ्केश्च रचनां सवाह्याभ्यन्तरे हरेः ।
विष्णोर्विमाने कुरुते स नरः शङ्खवक्रघृत् ॥
दीपपङ्क्तेश्च रचनां कुरुते केशवालये ।
तस्यालये प्रसूतानां लक्षाणां नरकं न हि ॥
विष्णोर्व्विमानं दीपाढ्यं सवाह्याभ्यन्तरे मुने ! ।
दीपोद्यतकरे मार्गे तेन प्राप्तं परं पदम्” ॥
भविष्ये च ।
“यः कुर्य्यात् कार्त्तिके मासि शोभनां दीपमालिकाम् ।
प्रबोधे चैव द्वादश्यामेकादश्यां विशेषतः ॥
सूर्य्यायतप्रकाशस्तु तेजसा भासयन् दिशः ।
तेजोराशिविमानस्थो जगदुद्योतयंस्त्विषा ॥
यावत्प्रदीपसङ्ख्या तु घृतेनापूर्य्य बोधिता ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते” ॥ * ॥
अथ आकाशादिदीपमाहात्म्यम् ।
पाद्मे तत्रैव ।
“उच्चैः प्रदीपमाकाशे यो दद्यात् कार्त्तिके नरः ।
सर्व्व कुलं समुद्धृत्य विष्णुलोकमवाप्नुयात् ॥
विष्णुकेशवमुद्दिश्य दीपं दद्यात्तु कार्त्तिके ।
आकाशस्थं जलस्थञ्च शृणु तस्यापि यत्फलम् ॥
धनं धान्यं समृद्धिश्च पुत्त्रवानीश्वरो गृहे ।
लोचने च शुभे तस्य विद्वानपि च जायते” ॥
किञ्च ।
“विप्रवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् ।
अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥
चतुष्पथेषु रथ्यासु ब्राह्मणावसथेषु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारे गहनेषु च ॥
दीपदानाद्धि सर्व्वत्र महाफलमवाप्नुयात्” ॥ ॥ *
आकाशदीपदानमन्त्रः । तत्रैव ।
“दामोदराय नभसि तुलायां लोलया सह ।
प्रदीपन्ते प्रयच्छामि नमोऽनन्ताय वेधसे” ॥
अथ देशविशेषे कार्त्तिकमाहात्म्यविशेषः ॥
पाद्मे तत्रैव ।
“यत्र कुत्रापि देशेऽयं कार्त्तिकः स्नानदानतः ।
अग्निहोत्रसमफलः पूजायाञ्च विशेषतः ॥
कुरुक्षेत्रे कोटिगुणो गङ्गायाञ्चापि तत्समः ।
ततोऽधिकः पुष्करे स्याद्द्वारकायाञ्च भार्गव ! ॥
कृष्णुसालोक्यदो मासः पूजास्नानैश्च कार्त्तिकः ।
अन्याः पूर्य्यास्तत्समाना मुनयो मथुरां विना ॥
दामोदरत्वं हि हरेस्तत्रैवासीद्यतः किल ।
मथुरायां ततश्चोर्ज्जो वैकुण्ठप्रीतिबर्द्धनः ।
कार्त्तिको मथुरायां वै परमावधिरिष्यते ।
यथा माघे प्रयागः स्याद्वैशाखे जाह्नवी यथा ॥
कार्त्तिके मथुरा सेव्या ततोत्कर्षः परो न हि ॥
मथुराया नरैरूर्ज्जे स्नात्वा दामोदरोऽर्ञ्चितः ।
कृष्णरूपा हि ते ज्ञेया नात्र कार्य्या विचारणा ।
दुर्ल्लमः कार्त्तिको विप्र ! मथुरायां नृणामिह ।
यत्रार्ञ्चितः स्वकं रूपं मक्तेभ्यः संप्रयच्छति ॥
भुक्तिं मुक्तिं हरिर्द्दद्यादर्च्चितोऽन्यत्र सेविनाम् ।
भक्तिञ्च न ददात्येष यतो वश्यकरी हरेः ॥
सा त्वञ्जसा हरैर्भक्तिर्लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृदपि श्रीदामोदरपूजनात् ॥
मन्त्रद्रव्यविहीनञ्च विधिहीनञ्च पूजनम् ।
मन्यते कार्त्तिके देवो मथुरायां सदर्च्चनम् ॥
यस्य पापस्य युज्येत मरणान्ता हि निष्कृतिः ।
तच्छद्ध्यर्थमिदं प्रोक्तं प्रायश्चित्तं सुनिश्चितम् ।
कार्त्तिके मथुरायां वै श्रीदमोदरपूजनम् ॥
कार्त्तिके मथुरायां वै पूजनाद्दर्शनं ध्रुवः ।
शीध्रं संप्राप्तवान् बालो दुर्ल्लभं योगतत्परैः ॥
सुलमा मथुरा भूमौ प्रत्यब्दं कार्त्तिकस्तथा ।
तथापि संसरन्तीह नरा मूढा भवाम्बुधौ ॥
किं यज्ञैः किं तपोभिश्च तीर्थैरन्यैश्च सेवितैः ।
कार्त्तिके मथुरायाञ्चेदर्च्च्यते राधिकाप्रियः ॥
यानि सर्व्वाणि तीर्थानि नदा नद्यः सरांसि च ।
कार्त्तिके निवसन्त्यत्र माथुरे सर्व्वमण्डले ॥
कार्त्तिके जन्मसदने केशवस्य च ये नराः ।
सकृत्प्रविष्टाः श्रीकृष्णं ते यान्ति परमव्ययम् ॥
परोपहासम्द्दिश्य कार्त्तिके हरिपूजया ।
मथुरायां लभेद्भक्तिं किं पुनः श्रद्धया नरः” ॥ इति ॥
“इत्थं कार्त्तिककृत्यानि व्यक्तान्येव स्वतोऽभवन् ।
तत्र किञ्चिद्विशेषेण तद्विधिर्लिख्यतेऽधुना” ॥ * ॥
अथ कार्त्तिककृत्यविधिः । तत्रोपक्रमकालश्चोक्तः
श्रीकृष्णसत्यासवादीयकार्त्तिकमाहात्म्ये ।
“आश्विनस्य तु मासस्य या शुक्लैकादशी भवेत् ।
कार्त्तिकस्य व्रतानीह तस्यां कुर्य्यादतन्द्रितः ॥
नित्यं जागरणायान्ते यामे रात्रेः समुत्थितः ।
शुचिर्भूत्वा प्रबोध्याथ स्तोत्रैर्नोराजयेत् प्रभुम् ॥
निशम्य वैष्णवान् धर्म्मान् वैष्णवैः सह हर्षितः ।
कृत्वा गीतादिकं प्रातर्देवं नीराजयेत् पुनः ॥
नद्यादौ च ततो गत्वाचम्य सङ्कल्पमाचरेत् ।
प्रभुं प्रार्थ्याथ तस्मै च दद्र्यावर्घ्यं यथाविधि ॥
तत्र सङ्कल्पमन्त्रः ।
“कार्त्तिकेऽहं करिष्यामि प्रातःस्नानं जनार्दन ! ।
पृष्ठ २/१०५
:प्रीत्यर्थं तव देवेश दामोदर ! मया सह” ॥
प्रार्थनमन्त्रस्तु ।
“तव ध्यानेन देवेश ! जलेऽस्मिन् स्नातुमुद्यतः ।
त्वत्प्रसादाच्च मे पापं दामोदर ! विनश्यतु” ॥
अर्घ्यमन्त्रः ।
“व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन्मम” ।
अर्घ्यं गृहाण देवेश ! नमामि त्वां सुरेश्वर !” ॥
काशोखण्डे ।
“व्रतिनः कार्त्तिके मासि स्नातस्य विधिवन्मम ।
दामोदर ! गृहाणार्घ्यं दनुजेन्द्रनिसूदन ! ॥
नित्ये नैमित्तिके कृत्स्ने कार्त्तिके पापशोषणे ।
गृहाणार्घ्यं मया दत्तं राधया सहितो हरे !” ॥ * ॥
“तिलैरालिप्य देहं स्वं नामोच्चारणपूर्ब्बकम् ।
स्नात्वा स विधिना सन्ध्यामुपास्य गृहमाव्रजेत् ॥
उपलिप्याथ देवाग्रे निर्म्माय स्वस्तिकं प्रभुम् ।
तुलसीमालतीपद्मागस्त्यपुष्पादिनार्च्चयेत् ॥
नित्यं वैष्णवसङ्गत्या सेवेत भगवत्कथाम् ।
सर्पिषाहर्न्निशं दीपं तिलतैलेन चार्च्चयेत् ॥
विशेषतश्च नैवेद्यान्यर्पयेदाचरेत्तथा ।
प्रणामांश्च यथाशक्त्या एकभक्तादिकं व्रतम्” ॥
तथा च पाद्मे तत्रैव ।
“प्रातरुत्थाय शौचादि कृत्वा गत्वा जलाशये ।
कृत्वा च विधिवत् स्नानं ततो दामोदरार्च्चनम्” ॥
किञ्च ।
“मौनेन भोजनं कार्य्यं कार्त्तिके व्रतधारिणा ।
घृतेन दीपदानं स्यात्तिलतैलेन वा पुनः ॥
दिनञ्च कृष्णकथया वैष्णवानाञ्च सङ्गमैः ।
नीयतां कार्त्तिके मासि सङ्कल्पव्रतपालनम् ॥
आश्विने शुक्लपक्षस्य प्रारम्भो हरिवासरे ।
अथ वा पौर्णमासीतः संक्रान्तौ वा तुलागमे ॥
दीपदानमखण्डञ्च दद्याद्वै विष्णुसन्निधौ ।
देवालये तुलस्यां वा आकाशे वा तदुत्तमम्” ॥
किञ्च ।
“रजत कनकं दीपान् मणिमुक्ताफलादिकम् ।
दामोदरस्य प्रीत्यर्थं प्रदद्यात् कार्त्तिके नरः” ॥
स्कान्दे च श्रीरुक्माङ्गदमोहिनीसंवादे ।
“न गृहे कार्त्तिके कुर्य्याद्विशेषेण तु कार्त्तिकीम् ।
तीर्थेतु कार्त्तिकीं कुर्य्यात् सर्व्वयत्नेन भाविनि !” ॥ * ॥
अथ कार्त्तिके वर्ज्यानि ।
तत्रैवब्रह्मनारदसंवादे ।
“कार्त्तिके तु विशेषेण राजमाषांश्च भक्षयन् ।
निष्पावान् मुनिशार्दूल ! यावदाहूतनारकी ॥
कलिङ्गानि पटोलानि वृन्ताकं सन्धितानि च ।
न त्यजेत् कार्त्तिके मासिं यावदाहूतनारकी ॥
कार्त्तिके मासि धर्म्मात्मा मत्स्यमांसं न भक्षयेत् ।
तत्रैव यत्नतस्त्याज्यं शाशकं शौकरं तथा” ॥
किञ्च ।
“परान्नं परशय्याञ्च परवादं पराङ्गनाम् ।
सर्व्वदा वर्ज्जयेत् प्राज्ञो विशेषेण तु कार्त्तिके ॥
तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्यभोजनम् ।
कार्त्तिके वर्ज्जयेद्यस्तु परिपूर्णव्रती भवेत् ॥
संप्राप्तं कार्त्तिकं दृष्ट्वा परान्नं यस्तु वर्ज्जयेत् ।
दिने दिने तु कृच्छ्रस्य फलं प्राप्नोति मानवः” ॥
तत्रैव श्रीरुक्माङ्गदमोहिनीसंवादे ।
“कार्त्तिके वर्ज्जयेत्तैलं कार्त्तिके वर्ज्जयेन्मधु ।
कार्त्तिके वर्ज्जयेत् कांस्यं कार्त्तिके शुक्लसन्धितम् ॥
न मात्स्यं भक्षयेन्मांसं स कौर्म्मं नान्यदेव हि ।
चाण्डालः स भवेत् सुभ्रु ! कार्त्तिके मांसभक्षणात्” ॥
अथ श्रीराधादामोदरपूजाविधिः । पाद्मे तत्रैव ।
“ततः प्रियतमा विष्णो राधिका गोपिकासु च ।
कार्त्तिके पूजनीया च श्रीदामोदरसन्निधौ ॥
द्विजं दामोदरं कृत्वा तत्पत्नों राधिकां तथा ।
कार्त्तिके पूजनीयौ तौ वासोऽलङ्कारभोजनैः ॥
राधिकाप्रतिमां विप्राः पूजयेत् कार्त्तिके तु यः ।
तस्य तुष्यति तत्प्रीत्यै श्रीमान् दामोदरो हरिः” ॥
“दामोदराष्टकं नाम स्तोत्रं दामोदरार्च्चने ।
नित्यं दामोदराकर्षि पठेत् सत्यव्रतोदितम्” ॥ * ॥
अथ श्रीदामोदराष्ठकम् । तत्रैव ।
“नमामीश्वरं सच्चिदानरूपं
लसत्कुण्डलं गोकुले म्राजमानम् ।
यशोदाभियोलूखलाद्धावमानं
परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥
रुदन्तं मूहुर्न्नेत्रयुग्मं मृजन्तं
कराम्भोजयुग्मेन सातङ्कनेत्रम् ।
मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ-
स्थितग्रैवदामोदरं भक्तिबन्धम् ॥
इतीदृक् स्वलीलाभिरानन्दकुण्डे
स्वघोषं निमज्जन्तमाख्यापयन्तम् ।
तदीये शितज्ञेषु भक्तैर्ज्जितत्वं
पुनः प्रेमतस्त्वां शतावृत्ति वन्दे ॥
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणेऽहं वरेशादपीह ।
इदन्ते वपुर्नाथ गोपालबालं
सदा मे मनस्याविरास्तां किमन्यैः ॥
इदन्ते मुखाम्भोजमत्यन्तनीलै-
र्वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या ।
मुहुश्चुम्बितं विम्बरक्ताधरं मे
मनस्याविरास्तामलं लक्षलाभैः ॥
नमो देव ! दामोदरानन्त ! विष्णो !
प्रसीद प्रमो ! दुःखजालाब्धिमग्नम् ।
कृपादृष्टिवृष्ट्यातिदीनं वतानु-
गृहाणेश मामङ्ग मेऽध्यक्षिदृश्यः ॥
कुवेरात्मजौ बद्धमूर्त्त्यैव यद्व-
त्त्वया मोचितौ भक्तिभाजौ कृतौ च ।
तथा प्रेमभक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥
नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने
त्वदीयोदरायाथ विश्वस्य धाम्ने ।
मनो राधिकायै त्वदीयप्रियायै-
नमोऽनन्तलीलाय देवाय तुभ्यम्” ॥ * ॥
अथ तत्र श्रीकृष्णाष्टमीकृत्यम् ।
पाद्मे तत्रैव ।
“गोवर्द्धने गिरौ रम्ये राधाकुण्डं प्रियं हरेः ।
कार्त्तिके बहुलाष्टम्यां तत्र स्नात्वा हरेः प्रियः ॥
नरो भक्तो भवेद्विप्रास्तद्धि तस्य प्रतोषणम् ॥
यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।
सर्व्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा” ॥
किञ्च । तत्रैव श्रीराधिकोपाख्यानान्ते ।
“वृन्दावनाधिपत्यञ्च दत्तं तस्याः प्रतुष्यता ।
कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने ॥
तत्कुण्डे कार्त्ति काष्टम्या स्नात्वा पूज्यो जनार्द्दनः ।
सुबोधन्यां यथा प्रीतस्तथा प्रीतस्ततो भवेत्” ॥ * ॥
अथ तत्र कृष्णत्रयोदशीकृत्यम् ।
पाद्मे च तत्रैव ।
कार्त्तिके कृष्णपक्षे तु त्रयोदश्यां निशामुखे ।
यमदीपं वहिर्द्दद्यादपमृत्युर्विनश्यति” ॥
तत्र मन्त्रः ।
“मृत्युना पाशदण्डाभ्यां कालः श्यामलया सह ।
त्रयोदश्यां दीपदानात् सूर्य्यजः प्रीयतामिति” ॥ * ॥
अथ कृष्णचतुर्द्दशीकृत्यम् । तत्रैव ।
“चतुर्द्दश्यां धर्म्मराजपूजा कार्य्या प्रयत्नतः ।
स्नानमावश्यकं कार्य्यं नरैर्नरकभीरुभिः ॥
अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ।
तस्याब्दिकभवो धर्म्मो नश्यत्येव न संशयः” ॥
स्कान्दे च तत्रैव ।
“कार्त्तिके कृष्णपक्षे तु चतुर्द्दश्यां विधूदये ।
अवश्यमेव कर्त्तव्यं स्नानं नरकभीरुभिः” ॥
किञ्च । पाद्मे तत्रैव ।
“ततश्च तर्पणं कार्य्यं धर्म्मराजस्य नामभिः ।
जीवत्पिता न कुर्व्वीत तर्पणं यमभीष्मयोः ॥
यज्ञोपवीतिना कार्य्यं प्राचीनावीतिना तथा
देवत्वञ्च पितृत्वञ्च यमस्यास्ते द्विरूपता ॥
नक्तं यमचतुर्द्दश्यां यः कुर्य्याच्छिवसन्निधौ ।
न तत् क्रतुशतेनापि प्राप्यते पुण्यमीदृशम् ॥
कुमारीवटुकान् पूज्य तथा शैवतपोधनान् ।
राजसूयफलं तेन प्राप्यते नात्र संशयः ॥
कार्त्तिके भौमवारेण चित्रा कृष्णा चतुर्द्दशी ।
तस्यां भूतेशमभ्यर्च्च्य गच्छेच्छिवपुरं नरः” ॥
किञ्च ।
“अमावस्याचतुर्द्दश्योः प्रदोषे दीपदानतः ।
यममार्गान्धकारेभ्यो मुच्यते कार्त्तिके नरः” ॥ * ॥
अथामावास्याकृत्यम् । पाद्मे तत्रैव ।
“दिवा तत्र न भोक्त्वव्यं विना बालातुरान् जनान् ।
प्रदोषसमये लक्ष्मीं पूजयेञ्च यथाक्रमम्” ॥
किञ्च ।
“प्रदोषसमये विप्राः कर्त्तव्या दीपमालिका ।
दीपदानात् ततः पश्चाल्लक्ष्मीं सुप्तां प्रबोधयेत् ॥
त्वं ज्योतिः श्रीरविश्चन्द्रो विद्युत् सौवर्णतारकाः ।
सर्व्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः ॥
मन्त्रेणानेन कमलां दीपहस्ताः श्रियो द्विजाः ।
देवीं प्रबोधयेयुश्च ततः कुर्य्युश्च भोजनम् ॥
प्रदोषसमये लक्ष्मीं भोजयित्वा भुनक्ति यः ।
पुमान् संवत्सरं यावत् लक्ष्मीस्तं नैव मुञ्चति” ॥ * ॥
अथामावास्यानिर्णयः । यथा निर्णयामृते ।
उपवासादिष्वमावास्या प्रतिपद्युतैव ग्राह्या
तदुक्तम् ।
पृष्ठ २/१०६
:“अमावास्या तृतीया च सा उपोष्या परान्विता” ॥
इति । चतुर्द्दशीविद्धानिषेधश्च निगमे ।
“भूतविद्धा त्वमावास्या निष्फलं स्यात्त्रयं त्विदम्” ।
स्कान्देऽपि ।
“भूतविद्धा त्वमावास्या न ग्राह्या मुनिपुङ्गवैः” ॥
अथ शुक्लप्रतिपत्कृत्यम् । स्कान्दे ।
“प्रातर्गोवर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् ।
भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः ॥
श्रीकृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः ।
शुक्लप्रतिपदि प्रातः कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः” ॥
“प्रातर्गोवर्द्धनं पूज्य रात्रौ जागरणं चरेत्” । इति
क्वचित् पाठः । तस्मात्तदिदं कर्म्म गोवर्द्धनप्राधा-
न्येन गोप्राधान्येन च ख्यातमप्येकमेव ज्ञेयम् ।
अत्र दिननिर्णयः । यदाह देवलः ।
“प्रतिपद्दर्शसंयोगे क्रीडनन्तु गवां मतम् ।
परविद्धान्तु यः कुर्य्यात् पुत्त्रदारधनक्षयः” ॥
निर्णयामृतधृतपुराणान्तरवचनम् ।
“या कुहूः प्रतिपन्मिश्रा तत्र गाः पूजयेन्नृप ! ।
पूजामात्रेण वर्द्धन्ते प्रजा गावो महीपतेः” ॥
ततः प्रातर्गोवर्द्ध्वनं पूज्येति पूर्ब्बाह्नतात्पर्य्यकम् ।
द्वितीयासमये तु सर्व्वथा निषिद्धम् ।
तत्रैव । तद्यथा ।
“नन्दायां दर्शने रक्षाबलिदानदशासु च ।
भद्रायां गोकुलक्रीडा देशनाशाय जायते” ॥
पुराणसमुच्चये तु सम्भावितचन्द्रोदयद्वितीयासं-
योग एव निषिध्यते ।
“गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः ।
सोमो राजा पशून् हन्ति सुरभीपूजकांस्तथा” ॥
तदुदयसम्भावनञ्च निर्णयामृते निर्णीतम् ।
प्रतिपद्यापराह्निकत्रिमुहूर्त्तव्यापिन्यां द्वितीयायां
चन्द्रदर्शनं सम्भाव्यते । तदुक्तमग्न्याधानविषये
वृद्धशातातपेन ।
“द्वितीया त्रिमुहूर्त्ता चेत् प्रतिपद्यापराह्णिकी ।
अग्न्याधानञ्चतुर्द्दश्यां परतः सोमदर्शनात्” ॥ इति
अपराह्णश्च पञ्चधाविभक्तस्याह्नश्चतुर्थो भागः ।
ततश्च यत्र प्रतिपदि षन्मुहूर्त्त व्यापिनी द्वितीया
तत्र चन्द्रदर्शनसम्भावनमिति । अन्यदा तूत्तरैव
प्रतिपत्तत्र गृहीता । तथैव पुराणसमुच्चये ।
“वर्द्धमानतिथौ नन्दा यदा सार्द्धत्रियामिका ।
द्वितीयवृद्धिगामित्वादुत्त्रा तत्र चोच्यते” ॥
किञ्च । यदा पूर्णप्रतिपत् परत्र च निष्क्रामति
तदाप्युत्तरैव कार्य्या । यथोक्तं भविष्योत्तरे ।
“यथा द्वादशभिर्म्मासैर्म्मासो वृद्धो मलिम्लुचः ।
तथैवाहोरात्रिवृद्ध्या तिथिः प्रोक्तो मलिम्लुचः ॥
यथा मलिम्लुचः पूर्ब्बा मासो दैवस्तथापरः ।
त्याज्या तिथिस्तथा पूर्ब्बा ग्राह्या चैव तथोत्तरा” ॥
इति निर्णयामृतमतम् । किन्तु बञ्जुलीन्यायेन
पूर्ब्बैव मन्तुं शक्यते । तद्वदवापि देवलादि वचन-
प्रामाण्यमस्तीति ॥ * ॥
अथ गोवर्र्द्धनपूजाविधिः । पाद्मे तत्रैव ।
“मथुरायां तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् ।
गोमयेन महास्थलं तत्र पूज्यो गिरिर्यथा ॥
मथुरायां तथा साक्षात् कृत्वा चैव प्रदक्षिणम् ।
वैष्णवं धाम संप्राप्य मोदते हरिसन्निधौ” ॥
पूजामन्त्रः ।
“गोवर्द्धनधराधार गोकुलत्राणकारक ! ।
विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव” ॥ इति
गोपूजामन्त्रः । स्कान्दे तत्रैव ।
“लक्ष्मी र्या लोकपालानां धेनुरूपेण सस्थिता ।
घृतं वहति यज्ञार्थं यमपाशं व्यपोहतु ॥
अग्रतः सन्तु मे गावो गावो मे सन्तु पृष्ठतः ।
गावो मे पार्श्वतः सन्तु गवां मध्ये वसाम्यहम्” ॥
अथ गोक्रीडा तत्रैव ।
“क्रोधापयेद्ध्वावयेच्च गोमहिष्यादिकं ततः ।
वृषान् कर्षापयेद्गोपैरुक्तिप्रत्युक्तिवादनात्” ॥
पाद्मे च तत्रैव ।
“महिष्यादेस्तथा भूषा क्रीडनं वारणन्तथा” ।
तन्माहात्म्यञ्च तत्रैव ।
“एवं गोवर्द्धनं गाश्च पूजनीया विधानतः ।
गोवर्द्धनमखो रम्यः कृष्णसन्तोषकारकः” ॥ * ॥
अथ श्रीबलिदैत्यराजपूजा ।
“लिखित्वा श्रीबलिं पट्टे विन्ध्यावल्यान्वितं मुदा ।
प्रदोषे तत्प्रतिपदो भगवद्भक्तमर्च्चयेत्” ॥
तथा च स्कान्दे ।
“बलिमालिख्य दैत्येन्द्रं वर्णकैः पञ्चरङ्गकैः ।
सर्व्वाभरणसम्पूर्णं विन्ध्यावल्या सहासितम् ॥
कुष्माण्डमयजम्भोरु मुरदानवसंवृतम् ।
सम्पूर्णहृष्टवदनं किरीटोत्कटकुण्डलम् ॥
द्विभुजं दैत्यराजानं कारयित्वार्च्चयेन्नृप !” ।
तत्पूजाकारणम् । पाद्मे तत्रैव ।
“यथार्पितं देहमनेन विष्णवे
भीतेन मिथ्यावचसो महात्मना ।
दैत्येन तेनाथ कठोरचेष्टया
बद्धो बलिर्व्वामनमूर्त्तिना वत ॥
बद्ध्वानीतोऽथ पातालं विमनाः खिन्नमानसः ।
नाभ्यसूयद्धरिं दैत्यस्त्यक्ताहंममतः सुधीः ॥
तदोवाच हरिः प्रीतस्तस्मै दैत्याय भागकृत् ॥
अश्रोत्रिये दत्तममन्त्रकं हुतं
जप्तं तथा व्यग्रधिया जनेन यत् ।
तथोर्ज्जशुक्लप्रतिपद्दिनेन तु
त्वामर्च्चयेत्तत्सुकृतं तवास्तु ॥
इति तस्मै वरो दत्तो हरिणा दितिजाय च ।
ततोऽवश्यं प्रपूज्योऽसौ बलिराजदिने मुदा ॥
कृष्णसान्निध्यतश्चापि पूजनीयः प्रयत्नतः” ॥ * ॥
अथ बलिपूजाविधिः । स्कान्दे तत्रैव ।
“गृहस्य मध्ये शालायां विशालायां ततोऽर्च्चयत् ।
भ्रातृमातृजनैः सार्द्धं सन्तुष्टो बन्धुभिस्तथा ॥
कमलः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ।
गन्धपुष्पादिनैवेद्यैरक्षतैर्गुडपूपकैः” ॥
तत्र पूजामन्त्रः ।
“बलिराज ! नमस्तुभ्यं विरोचनसुतप्रभो ! ।
भविष्येन्द्रसुराराते ! पूजेयं प्रतिगृह्यताम् ॥
दीपोत्सवैर्जनितसर्व्वजनप्रमोदैः
कुर्व्वन्ति ये सुमतयो बलिराजपूजाम् ।
दानोपभोगसुखवृद्धिशताकुलानां
नूनं प्रयाति सकलं प्रमुदैव वर्षम्” ॥
अथ यमद्वितीयाकृत्यम् । स्कान्दे पाद्मे च ।
“ऊर्ज्जे शुक्लद्वितीयायां मध्याह्ने यममर्च्चयेत् ।
स्नानं कृत्वा भानुजायां यमलोकं न पश्यति” ॥
किञ्च ।
“तस्यां निजगृहे विप्र ! न भोक्तव्यं ततो बुधैः ।
स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम् ॥
दानानि च प्रदेयानि भगिनीभ्यो विधानतः ।
सर्व्वा भगिन्यः संपूज्या अभावे प्रतिपत्नजाः” ॥
किञ्च ।
“यस्यां तिथौ यमुनया यमराजदेवः
संभोजितस्त्वतिशयस्वसृसौहृदेन ।
तस्यां स्वसुः करतलादिह यो मुनक्ति
प्राप्नोति वित्तसुभगं धनमुत्तमं सः” ॥ * ॥
अथ शुक्लाष्टमीकृत्यम् ।
पाद्मे तत्रैव कूर्म्मपुराणे च ।
“कार्त्तिके शुक्लपक्षे तु स्मृता गोपाष्टमी बुघैः ।
तद्दिने वासुदेवोऽभूद्गोपः पूर्वं स वत्सपः ।
तत्र कुर्य्याद्गवां पूजां गोग्रासं गोप्रदक्षिणम् ।
गवानुगमनं कार्य्यं सर्व्वान् कामानभीप्सता ॥”
प्रबोधनीकृत्यं तत्शब्दे द्रष्टव्यम् । इति श्रीगो
पालभट्टविलिखिते लिखिते भगवद्भक्तिविलासे
श्रीदामोदरप्रियो नाम १६ षोडशविलासः ॥
तत्र जातस्य फलम् ।
“दक्षः क्रये विक्रयणे धनाट्यः
स्याद्वावदूकोऽखिलकौशलज्ञः ।
यः कार्त्तिके कार्त्तिकरूपधारी
जातो भवेद्युद्धविशारदश्च” ॥
इति कोष्ठीप्रदीपः ॥ * ॥ वर्षविशेषः । स च कृत्ति-
कारोहिण्योरेकतरस्मिन् वृहस्पतेरस्तोदयैकतर-
सम्बन्धे भवति । इति मलमासतत्त्वम् ॥ कार्त्तिकेय
यथा, -- ब्रह्मवैवर्त्ते गणेशखण्डम् ॥
“दृष्ट्वा तान् कृत्तिकाः सर्व्वा भयविह्वलमानसाः ।
कार्त्तिकं कथयामासुर्ज्वलन्तं ब्रह्मतेजसा” ॥

कार्त्तिकिकः, पुं, (कार्त्तिकी पौर्णमासी अस्मिन्

मासे इति । “विभाषा फाल्गुनीश्रवणाकार्त्तिकी-
चैत्रीभ्यः” । ४ । २ । २३ । इति ठक् ।) कार्त्तिक-
मासः । इत्यमरः । १ । ४ । १८ ॥

कार्त्तिकेयः, पुं, (कृत्तिकानामपत्यम् । “स्त्रीभ्योढक्” ।

४ । १ । १२० । इति ढक् ।) शिवपुत्त्रः । यथा, --
“या बभूव रहःक्रीडा पार्व्वतीशिवयोः पुरा ।
दृष्टस्य च सुरैः शम्भोर्व्वीर्य्यं भूमौ पपात ह ॥
भूमिस्तदक्षिपत् वह्नौ वह्निश्च शरकानने ।
तत्त्वं लब्धःकृत्तिकाभिरघुना गच्छ साम्प्रतम् ॥
तवाभिषेकं विष्णुश्च करिष्यति सुरैः सह ।
हनिष्यसि तारकाख्यं सर्व्वशस्त्रं लभिष्यसि ॥
पुत्त्रस्त्वं विश्वसंहर्तुस्त्वां गोप्तुमक्षमा इमाः ।
नाग्निं गोप्तुं यथाशक्तः शुष्कवृक्षः स्वकोटरे” ॥
इति ब्रह्मतैवर्त्ते गणेशखण्डम् ॥ * ॥
स एव कल्पभेदे अग्निपुत्त्रः । यथा, --
“कुमारश्चाभवत् तत्र तरुणार्कसमद्युतिः ।
पृष्ठ २/१०७
:वह्नितेजोभवः श्रीमान् गङ्गाकुक्षिपरिच्युतः ॥
तं कुमारं ततो जातं दृष्ट्वा सेन्द्रा मरुद्गणाः ।
तदा क्षीरप्रदानार्थं कृत्तिकाः संन्ययोजयन् ॥
ताः क्षीरं तस्य देवस्य समयेन ददुस्तदा ।
स्यादस्माकमयं पुत्त्रः ख्यातो नाम्नेति राघव ! ॥
अन्योन्यं पिबतस्तासां तनयस्य मुखानि षट् ।
समभूवन् महाबाहो ! षण्मुखस्तेन विश्रुतः ॥
ततस्ता देवता ऊचुः कार्त्तिकेय इति प्रभुः ।
पुत्त्रोऽयं जगति ख्यातो भविष्यति न संशयः” ॥
इति वाल्मीकीयरामायणम् ॥ * ॥ तत्पर्य्यायः महा-
सेनः २ शरजन्मा ३ षडाननः ४ पार्व्वतीनन्दनः
५ स्कन्दः ६ सेनानीः ७ अग्निभूः ८ गुहः ९ बाहु
लेयः १० तारकजित् ११ विशाखः १२ शिखिवा-
हनः १३ षाण्मातुरः १४ शक्तिधरः १५ कुमारः १६
क्रौञ्चदारणः १७ । इत्यमरः । १ । १ । ४१-४३ ॥ आग्नेयः
१८ दीप्तकीर्त्तिः १९ अनमेयः २० मयूरकेतुः २१
धर्म्मात्मा २२ भूतेशः २३ महिषार्दनः २४
कामजित् २५ कामदः २६ कान्तः २७ सत्यवाक्
२८ भुवनेश्वरः २९ शिशुः ३० शीघ्रः ३१ शुचिः
३२ चण्डः ३३ दीप्तवर्णः ३४ शुभाननः ३५ अमोघः
३६ अनघः ३७ रौद्रः ३८ प्रियः ३९ चन्द्राननः ४३
दीप्तशक्तिः ४१ प्रशान्तात्मा ४२ भद्रकृत् ४३
कूटमोहनः ४४ षष्ठीप्रियः ४५ पवित्रः ४६ मातृ
वत्सलः ४७ कन्याहर्त्ता ४८ विभक्तः ४९ स्वाहेयः
५० रेवतीसुतः ५१ प्रभुः ५२ नेता ५३ नैगमेयः
५४ सुदुश्चरः ५५ सुव्रतः ५६ ललितः ५७ बाल-
क्रीडनप्रियः ५८ खचारी ५९ ब्रह्मचारी ६० शूरः
६१ शरवणोद्भवः ६२ विश्वामित्रप्रियः ६३ देव-
सेनाप्रियः ६४ वासुदेवप्रियः ६५ प्रियकः । ६६
इति वनपर्व्व ॥ गाङ्गः ६७ स्वामी ६८ द्वादशलो-
चनः ६९ । इतिजटाधरः ॥ सिद्धसेनः ७० शम्भु-
तनयः ७१ देवसेनापतिः ७२ बालचर्य्यः ७३ कृक-
वाकुध्वजः ७४ महाबाहुः ७५ युद्धरङ्गः ७६
शिखिध्वजः ७७ । इति शब्दरत्नावली ॥ (पाव-
कात्मजः ७८ । रुद्रसूनुः ७९ । षट्शिराः ८० ।
दितिजान्तकः ८१ । इति महाभारतम् ॥ * ॥)
अस्य ध्यानम् । यथा ।
“कार्त्तिकेयं महाभागं मयूरोपरिसंस्थितम् ।
तप्तकाञ्चनवर्णाभं शक्तिहस्तं वरप्रदम् ॥
द्विभुजं शत्रुहन्तारं नानालङ्कारभूषितम् ।
प्रसन्नवदनं देवं सर्व्वसेनासमावृतम्” ॥
इति कार्त्तिकेयपूजापद्धतिः ॥

कार्त्तिकेयप्रसूः, स्त्री, (कार्त्तिकेयं प्रसूते या । प्र +

सू + क्विप् । कार्त्तिकेयस्य प्रसूर्वा ।) दुर्गा । इति
शब्दरत्नावली ॥

कार्त्तिकोत्सवः, पुं, (कार्त्तिक्यां कार्त्तिकीपौर्णमास्यां

भव उत्सवः । तत्सम्बन्धी तत्कर्त्तव्यः उत्सवो वा ।)
कौमुदी । कार्त्तिकी पूर्णिमा । इति त्रिकाण्ड-
शेषः ॥

कार्पटः, पुं, (कार्पट इव आकारोऽस्त्यस्य । कार्पाट

+ अच् ।) जतु । जौ इति भाषा । कार्य्यी ! इति
हेमचन्द्रः ॥ दरवारी उमेदोयार इत्यादि पारस्य-
भाषा ॥ (कर्पट एव ! स्वार्थे अण् । जीर्णवस्त्र-
खण्डम् ॥)

कार्पटिकः, पुं, (कार्पटं अन्तस्तत्त्वं वेत्ति इति कर्पटेन

चरति इति वा । ठक् । कार्पटोऽस्त्यस्य वा ठन् ।)
मर्म्मवेत्ता । इति त्रिकाण्डशेषः ॥ तीर्थसेवी ।
इति काशीखण्डम् ॥
(“सायं च तत्रैव वहिः सकुटुम्बस्तरोस्तले ।
समावसत् कार्पाटिकैः सोऽन्यदेशागतैः सह” ॥
इति कथासरित्सागरे ॥)

कार्पण्यं, क्ली, (कृपणस्य भावः । कृपण + ष्यञ् ।)

कृपणता । तत्पर्य्यायः । दैन्यम् २ । इति हेमचन्द्रः ॥
(यथा, भगवद्गीतायाम् २ । ७ ।
“कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्म्मसंमूढचेताः” ॥)

कार्पासः, पुं, क्ली, (कर्पास एव । स्वार्थे अण् ।) कर्पास-

वृक्षः । कापास् इति भाषा ॥ (अस्य पत्रादिना
सर्पदष्टः पुरुषो नीरोगो भवति । इदानीं पत्रा-
दीनां व्यवहारक्रम उच्यते ।
दंशनानन्तरमेव दष्टं पुरुष सार्द्धद्वितोलक-
परिमितः कार्पासपत्ररसः पाययितव्यः । अथ
क्षतप्रदेशं विधौतं परिष्कॄतञ्च विधाय तत्र पत्र-
रसः प्रदेयः । क्षतस्थानोपरि च कार्पासपत्रैः
प्रलेपो दातव्यः । एवं कृतेऽपि यदि शरीरस्य
कश्चिदंशः स्फीतो भवेत् तदा तत्रैव एतत्पत्र-
रसेन पेषयितव्यम् । आसुस्थात् प्रतिसपाददण्ड-
मेवं कृते सर्पदष्टः पुरुषः सुस्थो भविष्यतीति
निश्चयः ॥)

कार्पासं, त्रि, (कर्पास्याः विकारे अवयवे वा अण्

विल्वाद्यण् वा ।) कार्पासजातवस्त्रादि । तत्पर्य्यायः ।
फालम् २ वादरम् ३ । इत्यमरः । २ । ६ । १११ ॥
(यथा, महाभारते २ । ५० । २४ ।
“श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्” ॥)

कार्पासधेनुः, स्त्री, (दानार्थं कल्पिता कार्पासवस्त्र-

निर्म्मिता धेनुः ।) दानार्थकार्पासादिनिर्म्मित-
धेनुः । यथा ।
होतोवाच ।
“अथातः संप्रवक्ष्यामि धेनुं कार्पासिकीं नृप ! ।
यत्प्रदानान्नरा यान्ति ऐन्द्रलोकमनुत्तमम् ॥
विषुवे त्वयने पुण्ये युगादिग्रहणे तथा ।
ग्रहपीडासु चोग्रासु दुःस्वप्नारिष्टदर्शने ॥
पुण्ये ह्यायतने राजन् शुचिदेशे गवां गणे ।
गोमयेनोपलिप्तायां दर्भानास्तीर्य्य तै तिलान् ॥
तन्मध्ये स्थापयेत् धेनुं वस्त्रमाल्यानुलेपनैः ।
नैवेद्यधूपदीपाद्यैः पूजयेच्च विमत्सरः ॥
उत्तमा चतुर्भिर्भारैस्तदर्द्धेन तु मध्यमा ।
भारेण चाधमा प्रोक्ता वित्तशाठ्यं विवर्जयेत् ॥
चतुर्थांशेन कृत्वा वै वत्सन्तु परिकल्पयेत् ।
कर्त्तव्या रुक्मशृङ्गैस्तु रजतक्षुरसंयुता ॥
नानाफलमया दन्ता रत्नगर्भसमन्विता ।
इत्येवं सर्व्वसंपूर्णं कृत्वा श्रद्धासमन्वितः ॥
आवाहयेत्तां कार्पासधेनुं मन्त्रैर्द्विजातये ।
दद्यादथ दर्भपाणिः प्रयतः श्रद्धयान्वितः ॥
पूर्ब्बोक्तस्तु विधिः कार्य्यो दानमन्त्रपुरःरः” ॥
पूर्ब्बोक्तविधिः लवणधेनूक्तविधिः ।
“यथा देवगणः सर्व्वस्त्वया हीनो न वर्त्तते ।
तथा मामुद्धरेर्द्देवि ! पाहि संसारसागरात्” ॥
इत्यादिवराहपुराणे श्वेतोपाख्याने कार्पासधेनु-
माहात्म्यम् ॥

कार्पासनासिका, स्त्री, (कार्पासस्य नासिका इव ।)

तर्कुः । इति शब्दरत्नावली । टेको इति भाषा ॥

कार्पासिका, स्त्री, (कार्पासी + कन् । ततष्टाप् ।)

कार्पासी । इति शब्दरत्नावली ॥ (त्रि, कार्पा-
साज्जातः । कार्पासनिर्म्मितम् । यथा गोः रामा-
यणे । ५ । ४९ । ५ ।
“अवेष्टयन्त लाङ्गूलं जीर्णैः कार्पासिकैः पटैः” ॥)

कार्पासी, स्त्री, (कार्पास + जातित्वात् ङीष् । यद्वा

कर्पासोऽस्त्यस्याः प्रज्ञाद्यण् ततो ङीप् ।) का-
र्पासवृक्षः । कापास इति भाषा ॥ तत्पर्य्यायः ।
बदरा २ तुण्डिकेरी ३ समुद्रान्ता ४ । इत्यमरः ।
२ । ४ । ११६ ॥ पटदः ५ । इति रत्नमाला ॥
सारिणी ६ चव्या ७ तूला ८ गुडः ९ तुण्डके-
रिका १० मरूद्भवा ११ पिचुः १२ बादरः
१३ । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । स्तन-
दुग्धकारित्वम् । पित्तकफतृष्णादाहश्रमभ्रान्ति-
मूर्च्छानाशित्वम् । बलकारित्वञ्च । इति राज-
निर्घण्टः ॥ तत्पत्रगुणाः । वायुनाशित्वम् । रक्त-
कारित्वम् । मूत्रवर्द्धकत्वम् । कर्णपिण्डिकानाद-
पूयास्रावनाशित्वञ्च । तद्वीजगुणाः । स्तन्यदत्वम् ।
वृष्यत्वम् । स्निग्धत्वम् । कफकरत्वम् । गुरुत्वञ्च ।
इति भावप्रकाशः ॥

कार्म्मः, त्रि, (कर्म्म शीलं अस्य । छत्रादित्वात् णः ।

“कार्म्मस्ताच्छील्ये” । ६ । ४ । १९२ । इति
सूत्रानुसारेण निपातनात् टिलोपः । फल मन-
पेक्ष्य कर्म्मसु प्रवृत्तः ।) कर्म्मशीलः । इत्यमरः ।
३ । १ । १८ ॥

कार्म्मणं, क्ली, (कर्म्मैव इति । कर्म्मन् + “तद्युक्तत्वात्

कर्म्मणोऽण्” । ५ । ४ । २६ । इति अण् । कर्म्मणे
हितमिति अण् वा ।) मूलकर्म्म । इत्यमरः । ३ ।
२ । ४ ॥ ओषध्यादिमूलेन यत् त्रासनोच्चाटन-
स्तम्भनवशीकरणादिकर्म्म तत् । इति भरतः ॥
(यथा माघे । १० । ३७ ।
“चाटु चाकृतकसम्रममासां
कार्म्मणत्वमगमन् रमणेषु” ॥
तथा च, काशीखण्डे ४५ । ९ ।
“काचित्कार्म्मणतत्त्वज्ञा काचित्मौक्तिकगुम्फिका” ॥)
मन्त्रतन्त्रादियोजनम् । (कर्म्म साध्यत्वेन अस्त्यस्य
इति अण् ।) कर्म्मठे त्रि । इति मेदिनी ॥

कार्म्मिकः, त्रि, (कर्म्मणा चित्रकर्म्मणा निर्वृत्तः ।

इति ठक् ।) विचित्रवस्त्रादि । (“कार्म्मिकं कर्म्मणा
चित्रेण निर्म्मितं यत्र निष्पन्ने पटे चक्रस्वस्तिका-
दिकं चित्रसूत्रैः क्रियते तत्कार्म्मिकमित्युच्यते” ॥)
इति मिताक्षरा । (तथा च याज्ञवल्क्यः । २ । १८३ ।
“कार्म्मिके रोमबद्धे च त्रिंशद्भागक्षयो मतः” ॥)

कार्म्मुकं क्ली, (कर्म्मणे प्रभवतीति । “कर्म्मण

पृष्ठ २/१०८
:उकञ्” । ५ । १ । १०३ । इति उकञ् ।) धनुः ।
इत्यमरः । २ । ८ । ८३ । धनुक् इति भाषा ॥
(यथा, माघे । २ । ९७ ।
“कार्म्मुकेणेव गुणिना वाणः सन्धानमेष्यति” ॥)

कार्म्मुकः, पुं, (कार्म्मुकं धनुः साध्यत्वेनास्त्यस्य इति

अच् ।) वंशः । वाँश् इति भाषा । (कर्म्मणे कार्य्याय
प्रभवतीति । कर्म्मन् + उकञ् ।) कर्म्मक्षमे त्रि ।
इति मेदिनी ॥ श्वेतखदिरः । हिज्जलः । महा-
निम्बः । इति राजनिर्घण्टः ॥

कार्य्यं, क्ली, (क्रियते यत् तत् । कृ + “विभाषा कृ

वृषोः” । ३ । १ । १२० । इति क्यवभावे “ऋहलो-
र्ण्यत्” । ३ । १ । १२५ । इति ण्यत् । ततो वृद्धिः ।)
क्रियते यत् । इति व्याकरणम् । काज इति भाषा ।
(“कार्य्यन्तु तद्यस्याभिनिर्वृत्तिरभिसन्धाय प्रवर्त्तते
कर्त्ता” । इति चरके विमानस्थाने । ८ अध्यायः ॥
तथा मनुः । ९ । २९९ ।
“आरभेत ततः कार्य्यं सञ्चिन्त्य गुरुलाघवम्” ॥
कर्त्तव्यम् । यथा तत्रैव । ३ । ८० ।
“आशासते कुटुम्बिभ्यस्तेभ्यः कार्य्यं विजानता” ॥)
तत्प्रति कारणम् त्रिविधम् । समवायिकारणम् १
यथा घटकार्य्यं प्रति कपालम् । असमवायिकार-
णम् २ यथा घटकार्य्यं प्रति कपालसंयोगादि ।
निमित्तकारणम् ३ यथा घटं प्रति दण्डचक्रादि ।
इति तर्कशास्त्रम् ॥ हेतुः । प्रयोजनम् । इति
मेदिनी ॥ ऋणादिविवादः यथा, --
“यस्मात् कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः ।
तस्मान्न लभते कालमभियुक्तश्च कालभाक्” ॥
इति व्यवहारतत्त्वे कात्यायनः ॥
(तथा च मनुः । ८ । ४३ ।
“नोत्पादयेत् स्वयं कार्य्यं राजा नाप्यस्य पूरुषः” ॥)
अपूर्ब्बम् । यथा, --
“विधिप्रत्ययस्य कार्य्ये शक्तिरिति मीमांसकाः” ॥
व्याकरणमते आदेशप्रत्ययागमाः । इति दुर्गा-
दासः ॥ (त्रि, करणीयम् । कर्त्तव्यम् । यथा मनुः ।
२ । २४८ ।
“सहपिण्डक्रियायान्तु कृतायामस्य धर्म्मतः ।
अनयैवावृता कार्य्यं पिण्डनिर्व्वपनं सुतैः” ॥)

कार्य्यकुशलः, त्रि, (कार्य्ये कर्म्मणि कुशलः निपुणः ।)

कर्म्मठः । इति भूरिप्रयोगः ॥

कार्य्यपुटः, पुं, (कार्य्यां क्रियायां न पुटति । कारि +

पुट् संश्लेषणे + कः ।) क्षपणः । उन्मत्तः । अनर्थ-
करः । इति विश्वमेदिन्यौ ॥

कार्य्यप्रद्वेषः, पुं, (कार्य्यं प्रद्वेष्टि अनेन । प्र + द्विष्

+ करणे घञ् ।) आलस्यम् । इति राजनिर्घण्टः ॥

कार्य्या, स्त्री, (कृ + ण्यत् । टाप् ।) कारीवृक्षः । इति

राजनिर्घण्टः ॥

कार्य्यी, [न्] पुं, (कार्य्यं अस्त्यस्य इति इनिः ।) यस्य

निर्द्दिश्यते कार्य्यं सः । इति दुर्गादासः ॥ क-
र्म्मार्था । इति कार्पटशब्दार्थे हेमचन्द्रः । (यथा
मना । ८ । २ ।
“विनीतवेषाभरणः पश्येत्कार्य्याणि कार्य्यिणाम्” ॥)

कार्श्मरी, स्त्री, (कृश् + स्वार्थे णिच् भावे मनिन्

कार्श्म तत् राति । रा + कः गौरादित्वात् ङीष् ।)
काश्मरी । गम्भारीवृक्षः । इत्यमरटीकायां भरतः ॥

कार्श्यः, पुं, (कृश् + स्वार्थे ष्यञ् ।) कार्ष्यः । सालवृक्षः ।

इत्यमरटीकायां भरतः ॥ कच्चूरः । लकूचः । इति
राजनिर्घण्टः ॥ (कृशस्य भावः । “वर्णदृढादिभ्यः
ष्यञ्च” । ५ । १ । १२३ । इति ष्यञ् ।) कृशतायां क्ली ॥
(यथा, मेघदूते ३१ ।
“सौभाग्यन्ते सुभग ! विरहावस्थया व्यञ्जयन्ती
कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः” ॥)

कार्षकः, पुं, (कर्षति इति । कृष + “कृषेर्वृद्धिश्चो-

दीचां” । उणां । २ । ३८ । इति क्वुन् । यद्वा कृषिः
शीलमस्य छत्रादित्वात् णः स्वार्थे कन् ।) कर्षकः ।
इत्यमरटीकायां रायमुकुटः ॥

कार्षापणः, पुं क्ली, (कर्षस्यायं “तस्येदम्” । ४ । ३ । १२० ।

इत्यण् । नित्यं पणः परिमाणे इत्यप् गोचर-
सञ्चरेति घो वा कार्षस्य कार्षेण वा आपणः
व्यवहारो यत्र । यद्वा कर्षस्येदं स्वार्थे वा अण्
तेन आपण्यते । आ + पण कर्म्मणि घः ।) का-
र्षिकः । षोडशपणः । इति मेदिनी ॥ रूप्यकर्ष-
कृतव्यवहारद्रव्यम् । लोके तु तन्मूल्ये षोडश-
पणसमुदाये कार्षापणस्योपचारेण प्रवृत्तिः । तथा
हि शास्त्रीयो रजतमाषो द्विकृष्णलः । द्वे कृष्णले
समधृते विज्ञेयो रूप्यमाषकः । इति मनुः ॥
आद्ये कृतयुगे रजतकृष्णलयोर्द्दशगण्डा मूल्य-
मिति द्वात्रिंशता कृष्णलाभी रजतकर्षस्य षो-
डशपणा एव मूल्यम् । पुराणशब्दश्चात्र कार्षिकं
पुराणञ्च कार्षापण इति वोपालितः । इत्यमर-
टीकायां भरतः ॥ (यथा, मनुः । ८ । १३६ ।
“कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः” ॥)

कार्षिकः, पुं, (कर्ष + स्वार्थे ठक् ।) कार्षापणः । इत्य-

मरः । २ । ९ । ८८ ॥ (यथा याज्ञवल्क्यः । १ । ३६५ ।
“निष्कः शुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः” ॥
कर्षः कर्षणं शीलमस्य । कर्ष + ठक् ।) कृषकः ।
इति हेमचन्द्रः ॥ (कर्षस्यायम् । कर्ष + ठञ् । शा-
स्त्रीयपलचतुर्भागः । कर्षः परिमाणमस्य ठक् ।
कर्षपरिमितद्रव्यम् । कर्षेण क्रीतः । ठञ् । कर्ष-
क्रीतः ॥)

कार्ष्णिः, पुं, (कृष्णस्यापत्यम् । अत इञ् ।) कामदेवः ।

इति त्रिकाण्डशेशः । (यथा हरिवंशे । १६३ । १९ ।
“तामापतन्तीं मायान्तु कार्ष्णिः कमललोचनः” ॥
गन्धर्व्वविशेषः । यथा महाभारते । १ । १२३ । ५३ ।
“युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा” ॥)

कार्ष्णी, स्त्री, (कार्ष्ण + ङीप् ।) शतावरी । इति

राजनिर्घण्टः ॥ (शतावरीशब्देऽस्या विवरणं ज्ञा-
तव्यम् ॥)

कार्ष्यः, पुं, (कृष् + “इगुपधेति” ३ । १ । १४५ ।

कः । चतुर्वर्णादित्वात् स्वार्थे ष्यण् ।) सालवृक्षः ॥
इत्यमरः । २ । ४ । ४४ ॥ (अस्य पर्य्यायो यथा ।
“शालस्तु सर्ज्जकार्ष्याश्वकर्णिकाशस्यसम्बरः” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

काल त् क कालोपदेशे । इति करिकल्पद्रुमः ।

(अदन्तचुरां--परं--सकं--सेट् ।) यथा अचकालत्
कालमियत्तया गणकः । एतावती वेलेति कथित-
वानित्यर्थः । इति दुर्गादासः ॥

कालं, क्ली, (ईषत् कृष्णत्वं लाति गृह्णाति । ला +

कः धातुषु कुत्सितरूपतया अलति वा । अल् +
अच् । कोः कादेशः ।) लौहम् । इति वाचस्पति-
रित्यमरटीकायां भरतः ॥ कक्वोलकम् । इति
राजनिर्घण्टः ॥ कालीयकम् । इति शब्दचन्द्रिका ॥

कालः, पुं, (कलयति आयुः । कल् संख्याने पचा-

द्यच् ततः प्रज्ञाद्यण् । यद्वा कालयति सर्व्वाणि
भूतानि । कल् प्रेरणे ण्यन्तात् पचाद्यच् ।) क्षण-
दण्डमुहूर्त्तप्रहरदिनरात्रिपक्षमासायनवत्सरादिः ।
इति दुर्गादासः ॥ तत्पर्य्यायः । दिष्टः २ अनेहा ३
समयः ४ । इत्यमरः । १ । ४ । १ ॥ “जन्यानां जनकः कालो
जगतामाश्रयो मतः । परापरत्वधीहेतुः क्षणादिः
स्यादुपाधितः” ॥ (यथा विष्णुपुराणे । १ । २ । १४ ।
“परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ! ।
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथा परम्” ॥)
अस्य गुणाः । सङ्ख्या १ परिमितिः २ पृथक्त्वम्
३ संयोगः ४ विभागः ५ । इति भाषापरिच्छेदः ॥
“अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः ।
कलनात् सर्व्वभूतानां स कालः परिकीर्त्तितः” ॥
इति तिथ्यादितत्त्वम् ॥ * ॥
(“कालस्तु त्रिविधो ज्ञेयोऽतीतोऽनागत एव च ।
वर्त्तमानस्तृतीयस्तु वक्ष्यामि शृणु लक्षणम् ॥
कालः कलयते लोकं कालः कलयते जगत् ।
कालः कलयते विश्वं तेन कालोऽभिधीयते ॥
कालस्य वशगाः सर्व्वे देवर्षिसिद्धकिन्नराः ।
कालो हि भगवान्देवः स साक्षात्परमेश्वरः ॥
सर्गपालनसंहर्त्ता स कालः सर्व्वतः समः ।
कालेन कल्प्यते विश्वं तेन कालोऽभिधीयते ॥
येनोत्पत्तिश्च जायेत येन वै कल्प्यते कला ।
सोऽन्तवच्च भवेत्कालो जगदुत्पत्तिकारकः ॥
यः कर्म्मणि प्रपश्येत प्रकर्षे वर्त्तमानके ।
सोऽपि प्रवर्त्तको ज्ञेयः कालः स्यात् प्रतिपालकः ॥
येन मृत्युवशं याति कृतं येन लयं व्रजेत् ।
संहर्त्ता सोऽपि विज्ञेयः कालः स्यात् कलनापरः ॥
कालः सृजति भूतानि कालः संहरते प्रजाः ।
कालः स्वपिति जागर्त्ति कालो हि दुरतिक्रमः ॥
काले देवा विनश्यन्ति काले चासुरपन्नगाः ।
नरेन्द्राः सर्व्वजीवाश्च काले सव्व विनश्यति ॥
त्रिकालात् परतो ज्ञेय आगन्तुर्गतचेष्टकः ।
तथा वर्षाहिमोष्णाख्या स्त्रयः काला इमे मताः ॥
तथा त्रयोऽन्येऽपि ज्ञेया उद्यन्मध्यास्तरूपिणः ।
सूक्ष्मोऽपि सर्व्वगः स वै व्यक्ताद्व्यक्ततरः शुभः” ॥
इति प्रथमस्थाने ४ अः । हारीतेनोक्तम् ॥)
यमः । (यथा गोः रामायणे । ३ । ३५ । ४३ ।
“आपतन्तीञ्चतां दृष्ट्वा कालदण्डोपमां गदाम्” ॥)
कृष्णवर्णः । कृष्णगुणवति त्रि । इत्यमरः । १ ।
५ । १४, १६ । (यथा गोः रामायणे । ६ । ६७ । २ ।
“उद्यतायुधनिस्त्रिंशे रथे च समलङ्कृते ।
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः” ॥)
मृत्युः । (यथा भागवते । ९ । ९ । २ ।
पृष्ठ २/१०९
:“दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान्
भगीरथस्तस्य पुत्त्रस्तेपे स सुमहत् तपः” ॥)
महाकालः । इति मेदिनी ॥ शनिः । इति
दीपिका ॥ कासमर्द्दः । रक्तचित्रकः । रालः ।
कोकिलः । इति राजनिर्घण्ठः ॥ (सर्व्वकलनात्
शिवः । यथा महाभारते । १३ । १७ । ४७ ।
“गजहा दैत्यहा कालो लोकधाता गुणाकरः” ॥
कालनियन्तृत्वात् विष्णुः । यथा महाभारते । १३ ।
१ । ४९ । ५८ ।
“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः” ॥
पर्व्वतविशेषः । यथा गोः राभायणे । ४ । ४४ । २१ ।
“ततो महाश्रमं गत्वा देवगन्धर्व्वसेवितम् ।
कालं नाम सदा शान्तं गमिष्यथ शिलोच्चयम्” ॥)

कालकं, क्ली, (काल + स्वार्थे कन् । यद्वा, कलयति

नोदयति रक्तताम् । कल नोदने + ण्वुल् ।) काल-
शाकम् । इति भावप्रकाशः ॥ (कालशाकशब्दे-
ऽस्य गुणादिकं बोध्यम् ॥) यकृत् । इति हेमचन्द्रः ॥

कालकः, पुं, (कालयतीति । कलत्कक्षेपे + “ण्वुल्तृचौ”

३ । १ । १३३ इति ण्वुल् ।) जतुकः । इत्यमरः ।
२ । ४ । ४९ ॥ जडुर इति भाषा ॥ (“वर्णे चा-
नित्ये” । “रक्ते” । “कालाच्च” । ५ । ४ । ३१, ३३
इति कन् । कालकः पटः । कालिका शाटी ।
कालकं मुखं इति सिद्धान्तकौमुदी ॥) अलगर्द्द-
सर्पः । इति शब्दरत्नावली ॥ (राक्षसविशेषः ।
यथा गोः रामायणे ३ । २९ । ३० ।
“दुर्ज्जयः कालकाख्यश्च परुषः कालिकामुखः” ॥)

कालकटङ्कटः, पुं, (कालरूपः कटङ्कटः ।) शिवः ।

शालकटङ्कटोऽपि पाठः । इति दानधर्म्मे शिव-
सहस्ननामसु पठितः ॥ (यथा, महाभारते १३ ।
शिवसहस्ननामकथने । १७ । ५७ ।
“वैणवी पणवी ताली खली कालकटङ्कटः” ॥)

कालकण्ठः, पुं, (कालः कृष्णवर्णः नीलो वा कण्ठो-

यस्य ।) शिवः । पीतसारः । मयूरः । खञ्जनः ।
कलविङ्कः । दात्यूहपक्षी । इति मेदिनी ॥

कालकण्ठकः, पुं, (कालंः कृष्णः कण्ठोऽस्य । ततः

कप् स्वार्थे कन् वा ।) दात्यूहपक्षी । इत्यमरः । २
५ । २१ ॥ (दात्यूहशब्देऽस्य गुणपर्य्याया वक्तव्याः ॥)

कालकन्दकः, पुं, (कालं कृष्णसर्पं कन्दति स्पर्द्धते यद्वा

कालः सन् कन्दते वैक्लव्यं गच्छति । काल + कदि
+ अच् । स्वार्थे कन् ।) जलसर्पः । इति शब्द-
रत्नावली ॥

कालकर्णिका, स्त्री, (कालस्य कर्णिका इव ।) अलक्ष्मीः ।

इति हेमचन्द्रः ॥

कालकर्णी, स्त्री, (कालः कर्णोऽस्याः । अच् ततः

स्त्रियां ङीप् ।) अलक्ष्मीः । इति शब्दरत्नावली ॥

कालका, स्त्री, (कालकेयाख्यासुराणां माता काला

एव कन् । बाहुलकात् न इत्वम् ।) कालकेयनामा
ऽसुरगणमाता । इति जटाधरः ॥ (सा च वैश्वानर-
कन्या । यथा, भागवते ६ । ६ । ३२ ।
“वैश्वानरसुता यश्च चतस्रश्चारुदर्शनाः ।
उपदानवी हयशिरा पुलोमा कालका तथा” ॥)

कालकीलः, पुं, (कालं प्रकृतकालोपयुक्तं सत् प्रसङ्गा-

दिकं कीलयति आवृणोति नाशयति वा । काल
+ कील + अण् । कोलाहलस्य सत्कथादिनाशक-
त्वात् तथात्वम् ।) कोहाहलः । इति शब्द-
रत्नावली ॥

कालकुण्ठः, पुं, (कालेन कालरूपिणा परमेश्वरेण

कुण्ठ्यते असौ । कुण्ठ + कर्म्मणि घञ् ।) यमः ।
इति शब्दमाला ॥

कालकुष्टं, क्ली, (कालात् कृष्णपर्व्वतात् कुष्यते

निष्कुष्यते । कुष् + कर्म्मणि क्तः ।) कङ्कुष्टम् ।
पर्व्वतीयमृत्तिकाविशेषः । इति राजनिर्घण्टः ॥

कालकूटं, क्ली, (कालं शिवमपि कूटयति अवसा-

दयति यद्वा कालस्य मृत्योः कूटं आयोजन
समष्टिः दूत इव वा ।) वोलम् । विषम् । इति
राजनिर्घण्टः ॥ (यथा, भागवते ८ । ६ । २५ ।
“नभेतव्यं कालकूटात् विषाज्जलधिसम्भवात्” ॥)

कालकूटः, पुं क्ली, (कालस्य मृत्योः कूटः छद्मदूत

इव ।) स्थावरविषभेदः । इत्यमरः ॥ १ । ८ । १० ।
(यथा भागवते ३ । २ । २३ ।
“अहो वकी यं स्तनकालकूटं
जिघांसयाऽपाययदप्यसाध्वी” ॥
अस्य स्वरूपं यथा, --
“देवासुररणे देवैर्हतस्य पृथुमालिनः ।
दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः ॥
निर्य्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः
सो हि क्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे शोधन-
मारणाधिकारे ॥ * ॥
देशविशेषः । यथा, महाभारते २ । २० । २६ ।
“कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् ।
रम्यं पद्मसरो गत्वा कालकूटमतीत्य च” ॥)

कालकूटकः, पुं, (कालस्य कूटमिव कायति प्रकाशते ।

कै + कः ।) कारस्करवृक्षः । इति राजनिर्घण्टः ॥
(यथा, महाभारते । १ । १२८ । ४४ ।
“ततो दुर्य्योधनः पापस्तद्भक्ष्ये कालकूटकम् ।
विषं प्रक्षेपयामास भीमसेनजिघांसया” ॥
कारस्करशब्देऽस्य गुणपर्य्याया ज्ञेयाः ॥)

कालकृत्, पुं, (कालं करोतीति । कालस्य परिमाणं

उदयास्ताभ्यां दण्डपलादिक्रमेण सम्पादयतीति ।
कृ + क्विप् तुगागमश्च ।) सूर्य्यः । इति त्रिकाण्ड-
शेषः ॥

कालकृतः, पुं, (कालेन परमेश्वरेण कृतः सृष्टः । यद्वा

कालं काष्ठाकलादिमानं कृतः कर्त्तां । कृ + कर्त्तरि
+ क्तः ।) सूर्य्यः । इति शब्दरत्नावली ॥ कालजाते,
त्रि । यथा, पुराणे, --
“सर्व्वं कालकृतं मन्ये कालो हि बलवत्तरः” ॥

कालखञ्जनं, क्ली, (कालेन कालान्तरेण खञ्जति

विकृतिं गच्छतीति । काल + खजि + ल्युः ।) यकृत् ।
इति हेमचन्द्रः ॥

कालखण्डं, क्ली, (कालं कृष्णं खण्डम् ।) यकृत् । दक्षि-

णकुक्षिस्थमांसखण्डम् । इत्यमरः । २ । ६ । ६६ ॥
(यकृत्शब्देऽस्य विशेषो ज्ञातव्यः ॥)

कालग्रन्थिः, पुं, (कालस्य ग्रन्थिरिव ।) वत्सरः । इति

त्रिकाण्डशेषः ॥

कालङ्कृतः, पुं, (कुत्सितोऽपि अलङ्कृतः ईषदलङ्कृतो

वा । कोः कादेशः ।) वृक्षविशेषः । कालकासुन्दे
इति भाषा । तत्पर्य्यायः । अरिमर्द्दः २ कासमर्द्दः
३ कर्कशः ४ । इति रत्नमाला ॥

कालचक्रं, क्ली, (कालस्य कालगतेश्चक्रमिव ।) काल-

रूपचक्रम् । यथाह -- हेमचन्द्रः ॥
“कालो द्विविधोऽवसर्पिण्युत्सर्पिणीषु भेदतः ।
सागरकोटिकोटीनां विंशत्या स समाप्यते ॥
अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः ।
एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम्” ॥
ज्योतिश्चक्रविशेषः । यथा, --
“त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके ।
सम्बत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्” ॥
इति विष्णुपुराणे २ । ८ । ४ । चक्रमेवोपासनार्थं
विशिष्यन्नाह । त्रिनाभिमतीति । नाभिः स्तम्भः
यत्राक्षः प्रोतः स च त्रिमेखलः । अह्नश्चात्र
नाभित्वेनोपास्यत्वात् मेखलारूपास्तिस्रो नाभयः
पूर्ब्बाह्णमध्याह्नापराह्णास्तद्युक्ते । पञ्चारे पञ्च संव-
त्सरपरिवत्सरादयो वक्ष्यमाणा अराः शलाका
यस्य सः तस्मिन् । षण्णेमिनि षट् ऋतवो नेमयः
प्रान्तबलयानि तद्वति । कालात्मकत्वादक्षयात्मके ।
संवत्सरमये संवत्सरावयवमासा रम्भकत्वात् संव-
त्सरत्वेनोपास्यत्वाच्च तन्मयम् । तदुक्तं मात्स्ये ।
“अहस्त्रिनाभिः सूर्य्यस्य त्वेकचक्रस्य वै स्मृतम् ।
अराः संवत्सराः पञ्च नेम्यः षडृतवः स्मृताः” ॥
इति । तस्मिन् कालचक्रं कालोपलक्षणभूतं कृत्स्नं
ज्योतिश्चक्रं प्रतिष्ठितं आश्रितम् । सूर्य्यगत्यधीन-
त्वात् कालचक्रफलस्य । इति तट्टीकायां श्रीधर-
स्वामी ॥ (“स एष निमेषादियुगपर्य्यन्तः कालश्चक्र-
वत् परिवर्त्त मानः कालचक्रमुच्यत इत्येके” ॥ इति
सुश्रुते सूत्रस्थाने ६ अध्याये ॥)

कालज्ञः, पुं, (कालं कालानुयायिकर्त्तव्यादिकं काल-

गतिं वा जानातीति । काल + ज्ञा + कः ।) कुक्कुटः ।
इति राजनिर्घण्टः ॥ (कालवेत्तरि त्रि,
यथा, मनुः ७ । २१७ ।
“तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः” ॥)

कालञ्जरः, पुं, (कालं जरयति । काल + जॄ + णिच्

+ अच् । बाहुलकात् मुम् ।) योगिचक्रमेलकम् ।
(कालं मृत्युं जरयतीति ।) भैरवः । (कालेन
जीर्य्यति । जॄ + अच् ।) पर्व्वतविशेषः । इति
मेदिनी ॥ (यथा, महाभारते ३ । तीर्थयात्रा-
पर्व्वणि ८५ । ५६ ।
“अत्र कालञ्जरं नाम पर्व्वतं लोकविश्रुतम् ।
तत्र देवह्रदे स्नात्वा गोसस्रफलं लभेत्” ॥)
देशविशेषः । इति धरणी ॥

कालञ्जरी, स्त्री, (कालं जरयति । काल + जॄ + णिच्

+ अच् । मृत्युञ्जयः तस्य पत्नी ङीप् ।) चण्डी ।
इति धरणी ॥ (स्वयमेव कालं जरयतीति व्युत्-
पत्त्या टावेव ।) तदा कालञ्जरा इति रूपान्तरम् ॥

कालतालः, पुं, (कालतायै कृष्णत्वात् अलति पर्य्या-

प्नोति । कालता + अल + अच् ।) तमालवृक्षः
पृष्ठ २/११०
:इति राजनिर्घण्टः ॥ (अस्य गुणादिकन्तमालशब्दे-
ज्ञेयम् ॥)

कालधर्म्मः, पुं, (कालस्य धर्म्मः । आयुषः परिणाम

काले पञ्चत्वप्राप्तिरूपो धर्म्मः ।) मृत्युः । इत्यमरः
। २ । ८ । ११६ ॥ समयस्य स्वभावः ॥ (यथा, हेः
रामायणे । २ । ७२ । ३७ ।
“कालधर्म्मपरिक्षिप्तः पाशैरिव महागजः” ॥)

कालनिर्य्यासः, पुं, (कालः कृष्णवर्णो निर्यासः ।)

गुग्गुलुः । इति रत्नमाला ॥

कालनेमिः, पुं, (कालम्य मृत्योः नेमिरिव चक्रवत् ।)

स्वनामख्यातराक्षसः । स च लङ्कापते रावणस्य
मातुलः । यथा, --
“कालनेमिं दुराधर्षं रक्षःपरमदुर्जयम् ।
चतुरास्यं चतुर्हस्तमष्टनेत्रं भयावहम्” ॥
इति गोः रामायणे ६ । ८२ । ६४ ॥ दैत्यविशेषः ।
यथा, -- श्रीभागवते ।
“आत्मानमिह संजातं जानन् प्राम्विष्णुना हतम् ।
महासुरं कालनेमिं यदुभिः स व्यरुध्यत” ॥
स तु हिरण्यकशिपुपुत्त्रः । इति हरिवंशः ॥
(कालचक्रम् ॥)

कालनेमिरिपुः, पुं, (कालनेमेः कालनेमिसंज्ञका-

सुरस्य रिपुः हन्ता ।) विष्णुः । इति शब्दरत्ना-
वली ॥ (कालनेमे रावणमातुलस्य रिपुः हन्ता ।
हनूमान् । इति व्युत्पत्तिलव्धोऽर्थः ॥)

कालनेमिहा, [न्] पुं, (कालनेमिं तन्नामानं असुरं

हतवान् । हन् + क्विप् ।) विष्णुः । इति त्रिकाण्ड-
शेषः ॥ (यदुक्तं महाभारते १३ । १४९ । ८२ ।
“कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः” ॥
कालनेमिं स्वनामख्यातरावणमातुलं हतवानिति
व्युत्पत्था हनूमान् ॥)

कालनेमी, [न्] पुं, (कालस्येव नेमिरस्त्यस्य ब्रीह्या-

देराकृतिगणत्वात् इनिः ।) कालनेमिः । इति
द्विस्वपकोषः ॥

कालनेम्यरिः, पुं, (कालनेमेः अरिः शत्रुः ।) विष्णुः ।

इति त्रिकाण्डशेषः ॥

कालपर्णः, पुं, (कालं कृष्णं पर्ण्णं पत्त्रं यस्य ।) तगर-

वृक्षः । इति शब्दरत्नावली ॥

कालपालकं, क्ली, (कालं कृष्णवर्णं पालयति धार-

यतीति । काल + पाल + ण्वु ल् ।) कङ्कुष्टमृत्तिका ।
इति राजनिर्घण्टः ॥

कालपीलुकः, पुं, (कालः कृष्णः पीलुः । स्वार्थे कन् ।)

कुपीलुः । इति भावप्रकाशः ॥ (गुणाः पर्य्याया-
श्चास्य कुपीलुशब्दे बोद्धव्याः ॥)

कालपुरुषः पुं, (कालः कालचक्रं पुरुष इव ।) यम-

सहायः । इति जटाधरः ॥ ज्योतिःशास्त्रम् । यथा
“किन्त्वस्य कालपुरुषाख्यमहार्णवस्य
गच्छेत् कदाचिदनृषिर्मनसापि पारम्” ॥
कालपुरुषः स चाख्या नाम यस्यासौ तस्य
ज्योतिःशास्त्रविस्तीर्णसमुद्रस्य । इति भट्टोत्पलः ॥ * ॥
नराणां शुभाशुभज्ञानार्थं जन्मलग्नादिद्वादशरा-
शिकल्पितपुरुषाकारः । यथा, --
“शीर्षमुखबाहुहृदयोदराणिकटिवस्तिगुह्यसंज्ञ-
कानि । ऊरूजानुकजङ्घेचरणाविति च राशयो-
ऽजाद्याः” ॥ इति दीपिका ॥ * ॥ नराणां शुभा-
शुभज्ञानार्थं जन्मलग्नादिराशिद्रेक्काणघटितपुरु-
षाकारः । यथा, “कं दृक्श्रोत्रनसाकपोलहनवो
वक्त्रञ्च होरादयस्ते कण्ठांशकबाहुपार्श्वहृदयक्रो-
डानिनाभिस्ततः । वस्तिः शिश्नगुदे ततश्च वृषणा-
वूरूततो जानुनी जङ्क्षाङ्घ्री ह्युभयत्र वाममुदितै-
र्द्रेक्काणभागैस्त्रिधा” ॥ इति “कालनरस्याङ्गेसद-
सद्ग्रहयोगतः । पुंसामपि तदङ्गेषु शुभाशुभफलं
वदेत्” ॥ इति वृहज्जातकम् ॥

कालपृष्ठं, क्ली, (कालं कृष्णं पृष्टं यस्य ।) कर्णधनुः ।

धनुर्मात्रम् । इति हेमचन्द्रः ॥

कालपृष्ठः, पुं, (कालं कृष्णवर्णं पृष्ठं पृष्टभागो यस्य ।)

कङ्कपक्षी । मृगविशेषः । इति हेमचन्द्रः ॥

कालपेषी, स्त्री, (पिष्यतेऽसौ । पिष् + कर्म्मणि घञ् ।

पेषः । कालः पेषः । ततः स्त्रियां ङीप् ।) श्या-
मालता । इति रत्नमाला ॥ (अस्या पर्य्याया यथा ॥
“कालपेषी महाश्यामा सुमद्रोत्पलशारिवा ।
दीर्घमूल च पालिन्दीमसूरविदला च सा” ॥)

कालप्रभातं, क्ली, (कालं कृष्णं प्रभातं यत्र ।) शर-

दृतुः । शरत्कालः । इति त्रिकाण्डशेषः ॥

कालभाण्डिका, स्त्री, (कालभायै कृष्णप्रभायै अण्डति

उद्यच्छति । अडि + ण्वुल् टाप् इत्वञ्च ।) मञ्जिष्टा ।
इति राजनिर्घण्टः ॥

कालमानः, पुं, (कालो मन्यते यः जनैरितिशेषः ।

काल + मन + कर्म्मणि घञ् ।) कृष्णार्ज्जकः । इति
रत्नमाला ॥ कालतुलसी इति भाषा । राजनिर्घण्टे
लान्तशब्दोऽयम् ॥ (लकारान्तस्यास्य व्यवहारो
यत्र तद्यथा ॥ सुश्रुते सूत्रस्थाने । ३८ अः ॥
“सुरसा-श्वेतशुरसा-फणिज्झकार्ज्जक-भूस्तृण-सुग-
न्धक-सुमुख-कालमाल-कासमर्द्द-क्षवक-खरपुष्पा-
विडङ्ग-कट्फल-सुरसीत्यादयः, सुरसादिगणे ॥)

कालमुष्ककः, पुं, (कालो मुष्क इव कायति प्रका-

शते । कै + कः ।) घण्टापारलिवृक्षः । इति रत्न-
माला ॥ (यस्मिन्नस्य व्यवहारस्तद्यथा, --
“प्रशस्तेऽहनि नक्षत्रे कृतमङ्गलपूर्ब्बकम् ।
कालमुष्ककमाहृत्य दग्ध्वा भस्म समाहरेत्” ॥
इति वैद्यकचक्रपाणिसंग्रहे अर्शोऽधिकारे कुत्र-
चित्क्षारनामकौषधे ॥)

कालमूलः, पुं, (कालं मूलं यस्य ।) रक्तचित्रकवृक्षः ।

इति राजनिर्घण्टः ॥

कालमेशिका, स्त्री, (कालः मिश्यते कालोऽयमिति

कथ्यते जनैरिति शेषः । मिश + कर्म्मणि घञ्
गौरादित्वात् ङीष् ततः कन् टाप् ह्रस्वश्च ।)
कालमेषिका । इत्यमरटीकायां रायमुकुटः ॥

कालमेशी, स्त्री, (कलमेश + ङीष्) कालमेषिका ।

इत्यमरटीकायां भरतः ॥

कालमेषिका, स्त्री, (कालं मिषति स्पर्द्धते स्वकाण्डेन ।

मिष + अण् । गौरादित्वात् ङीष् स्वार्थेकन् टाप्
ह्रस्वश्च ।) मञ्जिष्ठा । कृष्णत्रिवृता । इत्यमरः २ ।
४ । १०९ ॥ अस्याः पर्य्याया यथा, --
“त्रिवृत्श्यामार्द्धचन्द्रा च पालिन्दी च सुषेणिका ।
मसूरविदला कोलकैषिकाकालमेषिका” ॥
इति भावप्रकाशस्य पुर्ब्बखण्डे १ भागे ॥)

कालमेषी, स्त्री, (कालमेष + ङीष् ।) सोमराजी ।

इत्यमरः । २ । ४ । ९६ ॥ (अस्याः पर्य्यायो यथा, --
“अवल्गुजो वाकुची स्यात् सोमराजी सुपर्णिका ।
शशिलेखाकृष्णफला सोमा पूतिफलीति च” ॥
सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । गुणा-
श्चास्या वाकुचीशब्दे ज्ञेयाः ॥) मञ्जिष्ठा । इति
शब्दरत्नावली ॥ त्रिवृत् । इति राजनिर्घण्टः ॥

कालरात्रिः, स्त्री, (कालः कालरूपा ब्रह्मैकदिने चतु-

र्द्दशमनूनामधिकारावसाने सृष्टिसंहारहेतुभूता
रात्रिः ।) रात्रिविशेषः । सा तु कालः संहारः ।
मरणं तदुपलक्षितारात्रिः कल्पान्तरात्रिरित्यर्थः ।
इति देवीमाहात्म्यटीकायां विद्याविनोदः ॥ भीम-
रथी । इति हारावली ॥ दुर्गायाः शक्तिविशेषः ।
यथा, --
“सा दूर्गा शक्तिभिः सार्द्धं काशीं रक्षति सर्व्वतः ।
ताः प्रयत्नेन संपूज्याः कालरात्रिमुखा नरैः” ॥
इति काशीखण्डम् ॥ (दीपावली । यथा, --
“दीपावली तु या प्रोक्ता कालरात्रिश्च सा मता” ।
इत्यागमवचनात् ।
क्रियायोग्यकालविशेषः । यदुक्तं दीपिकायाम् ।
“रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् ।
वुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् ॥
शनावाद्यं तथा चान्तं रात्रौ कालं विवर्जयेत्” ॥)

कालरुद्रः, पुं, (कालः कालरूपः सर्व्वसंहारको रुद्रः ।)

कालाग्निरुद्रः । यथा, देवीपुराणे, --
“येषु नः कालरुद्रस्य नानास्त्रीशतसङ्कुला ।
विचित्रहर्म्म्यविन्यासा कुतस्ते मेरुपृष्ठतः ॥
सा एव कालरुद्रस्य तनुरूपेण संस्थिता” ॥

काललवणं, क्ली, (कालं कृष्णवर्णं लवणम् ।) विड्-

लवणम् । इति रत्नमाला ॥
(“न काललवणे गन्धः सौवर्च्चलगुणाश्च ते” ॥
इति चरके सूत्रस्थाने २७ अः ॥)

काललौहं, क्ली, (कालं कृष्णं लौहं आयसमित्यर्थः ।)

कालायसम् । तिखा इति भाषा । तत्पर्य्यायः ।
कृष्णायसम् २ रुक्मम् ३ तीक्ष्णम् ४ । इति रत्न-
माला ॥ (कालायसशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

कालवलनं, क्ली, (कलयति उपभुनक्ति विषयं । कल +

णिच् + अच् । काल्यते प्रेर्य्यतेऽसौ कालेन वा णिच्
कर्म्मणि पञ् । कालः कायः तस्य वलनं आव-
रणम् । वल संवरणे + करणेल्युट् ।) वर्म्म । इति
त्रिकाण्डशेषः ॥ कायवलनमिति साधुपाठः ॥

कालवृन्तः, पुं, (कालं वृन्तं यस्य ।) कुलत्थवृक्षः ।

इति रत्नमाला ॥

कालवृन्ती, स्त्री, (कालवृन्त + गौरादित्वात् ङीष् ।)

पाटलावृक्षः । इति राजनिर्घण्टः ॥

कालवेला, स्त्री, (कालस्य वेला ।) क्रेयानर्हकालवि-

शेषः । सा तु रव्यादिवारे कालस्य शनेस्तत्तद्-
यामार्द्धरुपवेला । यथा । रवौ दिवा पञ्चमयामार्द्धं
नक्त षष्ठयामार्द्धम् । सोमे दिवा द्वितीययामार्द्धं
पृष्ठ २/१११
:नक्तं चतुर्थयामार्द्धम् । कुजे दिवा षष्टयामार्द्धं
नक्त्वं सप्तमयामार्द्धम् । वुधे दिवा तृतोय यामार्द्धं
नक्तं सप्तमयामार्द्धम् ॥ गुरौ दिवा सप्तमयामार्द्धं
नक्तं पञ्चमयामार्द्धम् । शुक्रे दिवा चतुर्थयामार्द्धं
नक्तं तृतीययामार्द्धम् । शनौ दिवा प्रथमाष्टम-
यामार्द्धं नक्तं तदेव । इति दीपिका ॥
लशाकं, क्ली, (कालं कृष्णं शाकम् ।) स्वनामख्यात-
शाकम् । नरचा इति हिन्दी भाषा । तत्पर्य्यायः ।
नाडिकम् २ श्राद्धशाकम् ३ कालकम् ४ । अस्य
गुणाः । सारकत्वम् । रुचिवायुबलकारित्वम् ।
कफशोथरक्तपित्तनाशित्वम् । मेध्यत्वम् । हिम-
त्वञ्च । इति भावप्रकाशः ॥ तिक्तपूतिका । कुलत्थ-
शाकं इति केचित् । अस्य गुणाः । कटुत्वम् ।
अग्निदीपनत्वम् । गुरुत्वम् । शोथनाशित्वञ्च ।
इति राजवल्लभः ॥ (यथा च वाभटे सूत्रस्थाने ।
६ अध्याये ।
“वर्षाभ्वौ कालशाकञ्च सक्षारं कटुतिक्तकम् ।
दीपनं भेदनं हन्ति गरशोफकफानिलान्” ॥)

कालशालिः, पुं, (कालः कृष्णः शालिः उत्कृष्टधान्य-

विशेषः ।) कृष्णशालिः । इति राजनिर्घण्टः ॥

कालशेयं, क्ली, (कलश्यां भवम् । कलशी + ढक् ।)

कालसेयम् । घोलम् । इत्यमरटीकायां भरतः ॥

कालसंरोधः, पुं, (कालस्य संरोधः ।) चिरकालाव-

स्थानम् । इति मिताक्षरा ॥ यथा ।
“न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः” ।
इति याज्ञवल्क्यः ॥

कालसर्पः, पुं, (कालः कृष्णः सर्पः ।) कृष्णसर्पः ।

तत्पर्य्यायः । अलगर्द्धः २ महाविषः ३ । इति
त्रिकाण्डशेषः ॥ (यथा काशीखण्डे १०० अध्याये ।
“स दष्टः कालसर्पेण स दष्टो मृत्त्युना स्फुटम् ।
स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः” ॥)

कालसारं, क्ली, (कालः सारः प्रधानं यस्य ।) पीत-

चन्दनम् । इति भावप्रकाशः ॥ (कालीयकशब्देऽस्य-
गुणादयो बोद्धव्याः ॥)

कालसारः, पुं, (कालः सारः प्रधानं यस्य ।) स्वनाम-

ख्यातहरिणः । तत्पर्य्यायः । कृष्णसारः २ । इति
शब्दरत्नावली ॥

कालसूत्रं, क्ली, (कालस्य यमस्य वन्धनहेतुकायाः

सूत्रमिव ।) नरकविशेषः । इत्यमरः । १ । ८ । २ ॥
तत्तु कुलालचक्रसूत्रच्छेदनरूपम् । इति मनुः ॥
(यथा मार्कण्डेये १४ । ८९ ।
“कालसूत्रे तथाच्छेदमनेकाश्चैव यातनाः ।
प्राप्य निष्कृतिमेतस्मात् न वेद्मि कथमेष्यति” ॥)

कालसेयं, क्ली, (कलस्यां भवम् । कलसी + ढक् ।)

घोलम् । इत्यमरः । २ । ९ । ५३ ॥

कालस्कन्धः, पुं, (कालः कृष्णः स्कन्धो यस्य ।) तमाल-

वृक्षः । तिन्दुकवृक्षः । जीवकद्रुमः । इति मेदिनी ॥
दुष्खदिरः । उदुम्बरः । इति राजनिर्घण्टः ॥
(अस्य व्यवहारो यथा, -- सुश्रुते सूत्रस्थाने ।
३८ अध्याये सालसादिवर्गे ॥
“सालसाराजकर्णखदिरकदरकालस्कन्धक्रमुकभूर्ज-
मेषशृङ्गीत्यादिषु” ॥)

काला, स्त्री, (कालो वर्णोऽस्त्यस्य अर्श आदिभ्य अच्

टाप् च । अत्र वर्णस्याविवक्षायां जानपदेति न
ङीष् । अर्श आद्यजन्तात् न ङीष् इत्यर्थः ।)
नीलिनी । कृष्णत्रिवृता । कृष्णजीरकः । इत्यमरः ।
२ । ४ । ९४ ॥ मञ्जिष्ठा इति मेदिनी ॥ कुलिक-
वृक्षः । कालियाकडा इति भाषा । इति रत्न-
माला ॥ अश्वगन्धावृक्षः । इति राजनिर्घण्टः ॥
पाटलावृक्षः । इति भावप्रकाशः ॥ (दक्षकन्या-
विशेषः । सा तु कश्यपपत्नी । यथा महाभारते
१ । सम्भवपर्व्वणि ६५ । १२ ।
“अदितिर्दितिर्दनुः काला दनायुः सिंहिका
तथा” ॥)

कालागुरु, क्ली, (कालं कृष्णं अगुरु ।) कृष्णागुरु ।

इत्यमरः । २ । ६ । १२७ ॥ (यथा रघुः ४ । ८१ ।
“चकम्पेतीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः ।
तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः” ॥
कृष्णागुरुशब्देऽस्य पर्य्यायः गुणाश्चज्ञेयाः ॥)

कालाग्निः, पुं, (कालः सर्व्वसंहारकः अग्निः । प्रल-

याग्निः । यथा महाभारते १ । ५४ । २५ ।
“ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् ।
नाशयिष्यामि माऽत्र त्वं भयं कार्षीः कथञ्चन” ॥
तदधिष्टातृरुद्रदेवस्य प्रियत्वात् पञ्चमुखरुद्राक्षो-
ऽपि कालाग्निनाभ्नाख्यायते ।) पञ्चमुखरुद्राक्षः ।
यथा स्कान्दे ।
“पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अगम्यागमनाञ्चेव अभक्ष्यस्य च भक्षणात् ।
मुच्यते सर्व्वपापेभ्यः पञ्चवक्व्रस्य धारणात्” ॥
इति तिथ्यादितत्त्वम् ॥

कालाग्निरुद्रः, पुं, (कालः संहारकः अग्निः सम्बर्त्त-

काग्निरित्यर्थः । तस्याधिष्ठाता रुद्रः । कालाग्नि
रिव रुद्रो वा ।) संहारकारिरुद्रः । यथा ।
कालाग्निरुद्र ऋषिरित्यादि वैदिकसन्ध्यायां रुद्रो-
पस्थानम् ॥ * ॥ तद्विवरणं यथा, --
शक्र उवाच ।
“भगवंस्तव वाक्यानां न तृप्तिर्भवते मम ।
कालाग्निपार्थिवं मानं श्रोतुमिच्छामि तत्त्वतः” ॥
भगवानुवाच ।
“न हि पार्थिवद्वीपेषु मेरुपृष्ठेऽपि वासव ! ।
भोगाह्लादकरा नॄणां तथा पातालवासिषु ॥
येषु नः कालरुद्रस्य नानास्त्रीशतसंकुला ।
विचित्रहर्म्म्यविन्यासा कुतस्ते मेरुपृष्टतः ॥
सा एव कालरुद्रस्य तनुरुपेण संस्थिता ।
सा पराशिवभावेन परमापददायिका ॥
तस्या यद्दुःसहं तेजो ब्रह्मादीनां क्षयं करम् ।
तं विद्धि कालरुद्रेति सौम्यरूपं सदाशिवम् ॥
कालाग्निव्यसनं लक्षं योजनानां प्रमाणतः ।
अर्द्धेनोच्छ्रयतस्तस्य पादाः पादेन वासव ! ॥
सिंहरूपा महाघोरा महानक्रा महाबलाः ।
कालाग्निरुद्ररूपो यो बहुरूपसमावृतः ॥
अनन्तपद्मरूपश्च धातारः कारणेश्वरः ।
दारुणाग्निश्च रुद्रश्च यमहन्ता क्षमान्तकः ॥
लोहितः क्रूरतेजात्मा घनो वृष्टिर्बलाहकः ।
विद्युतश्चलशीघ्रश्च प्रसन्नः शान्तसौम्यदृक् ॥
सर्व्वज्ञो विविधो बुद्धो द्युतिमान् दीप्तिसुप्रभः ।
एते रुद्रा महात्मानः कालिकाशक्तिवृंहिताः ॥
संहरन्ति समस्तेदं ब्रह्माद्यं सचराचरम् ।
कालाग्निभुवनीशोऽयं बहुकोटिभिरावृतः ॥
तस्याः पुरस्य विस्तारं शतकोटिसुवर्त्तुला ।
देवगन्धर्व्वसिद्धानां तत्र भोगाः सुदुर्ल्लभाः ॥
पूर्ब्बोत्तरपरा पङ्क्तिर्याम्योत्तरस्थिता परा ।
अनलानिलपरा च नैरृतीशानगापरा ॥
एतेषां मध्यतो राजन् कालरुद्रस्तु शोभने ।
पङ्क्त्याकारैः पुरैः सर्व्वं कटकं तस्य संस्थितम् ॥
समन्ताद्वेष्टितवनं प्राकाराट्टालगोपुरैः ।
वज्रेन्द्रनीलवैदूर्य्यैः प्राकारैः सर्व्वतोऽन्वितम् ॥
कालाग्निनरकान्ते तु पुरं कालस्य संस्थितम् ।
पञ्चाशल्लक्षविस्तारं समन्तात् परिवर्त्तुलम् ॥
जाम्बूनदमयैर्हेमैः खचितं रत्नधातुभिः ॥
प्रमदाजनसंजुष्टं नानावर्णसमावृतम् ॥
कामोन्मत्तप्रमत्तश्च तद्भाति जनसंकुलम् ।
कालस्य भुवनं दिव्यं वृत्ताकारं मनोहरम् ॥
वेष्टितं हेमप्राकारैर्योजनायुतमुच्छ्रितम् ।
प्राकारावहिदण्डान्ते अन्तरं योजनायुतम् ॥
अग्निज्वालैश्च निविडैर्भयदैः किंशुकप्रभैः ।
हरितालनिभा ज्वाला सिन्दूरगैरिकाप्रभा ॥
अत उर्द्ध्वं प्रजज्वाल वातोद्धूताग्निभास्वरा ।
वीचितरङ्गकल्लोलज्वालामालाकुलाम्बरा ॥
प्रवृत्तास्ताः प्रमाणेन योजनद्वयकोटयः ।
अष्टानवतिलक्षाणि ज्वाला ऊर्द्ध्वन्ततः शिला ॥
वज्रभूता सदा तप्ता तस्य तेजोनियामिका ।
चत्वारि कोटिमानेन कारणेन तु स्थापिता ॥
तस्यार्द्धेन भवेत् किञ्चित् कोट्यश्चत्वारि वासव ! ।
एवं कालाग्निरुद्रस्य माहात्म्यं कीर्त्तितं मया ॥
श्रवणात् सर्व्वपापानि शाम्यन्ति कालजान्यपि” ॥
इत्याद्ये देवीपुराणे कालाग्निरुद्रपुरकथनम् ॥
(कृष्णयजुर्व्वेदगतोपनिषद्विशेषः । यथा, मुक्ति-
कोपनिषदि ।
“कालाग्निरुद्रमैत्रेयी सुवालक्षरि मन्त्रिका” ॥
वटिकौषधविशेषः । यथा, --
“सूतकान्ताभ्रलौहानां भस्ममाक्षिकगन्धकम् ।
भूधराख्ये पुटे पश्चाद्दिनैकं तद्विपाचयेत् ॥
दशमांशं विषं योज्यं माषमात्रञ्च भक्षयेत् ।
रसः कालाग्निरुद्रोऽयं दशाहेन विसपेनुत्” ॥
कालाग्निरुद्रोरसः ॥
इति रसेन्द्रसारसंग्रहे वीसर्पाधिकारे ॥ * ॥)

कालाञ्जनी, स्त्री, (अज्यतेऽनया । अन्ज् + करणे

ल्युट् + ङीप् । काली अञ्जनी ततः पुंवद्भावः ।)
क्षुपविशेषः । कालिकर्पसिकिनी इति ख्याता ।
तत्पर्य्यायः । अञ्जनी २ रेचनी ३ शिलाञ्जनी ४
नीलाञ्जनी ५ कृष्णाभा ६ काली ७ कृष्णाञ्जनी ८ ।
अस्या गुणाः । कटुत्वम् । उष्णत्वम् । अमलत्वम् ।
कृमिशोधनत्वम् । अपानावर्त्त शमनत्वम् । जाठरा-
मयनाशित्वञ्च । इति राजनिर्घण्टः ॥

कालानुनादी, [न्] पुं, (कल एव कालः अव्यक्तमधर-

पृष्ठ २/११२
:ध्वनिः । तं अनुनदतीति । अनु + नद् + णिनिः ।)
रोलम्बः । भ्रमरः । कलविङ्कः । चटा इति भाषा ।
कपिञ्जलः । चातकपक्षी । इति मेदिनी ॥

कालानुशारिवा, स्त्री, (कालेन कृष्णवर्णेन अनु-

कृता शारिवा ।) तगरपादिकम् । तगरमूल इति
भाषा । शीतलीजटा । इति रत्नमाला । शीउली-
छोप् इति भाषा ॥ (तगरशब्दे ऽस्या गुणादयो
बोध्याः ॥)

कालानुसारकं, क्ली, (कालं कृष्णवर्णं मृगमदं अनुस-

रति गन्धेन । अनु + सृ + ण्वुल् ।) तगरम् । इति
राजनिर्घण्टः ॥ पीतचन्दनम् । इति भावप्रकाशः ॥

कालानुसारिः, पुं, (कालं कृष्णवर्णं मृगमदं अनुसर-

तीति । काल + अनु + सृ + इञ् ।) शैलेयम् ।
शैलजनामगन्धद्रव्यम् । इति शब्दरत्नावली ॥

कालानुसार्य्यं, क्ली, (कालेन मृगमदेनानुस्रियते ।

अनु + सृ गतौ + “ऋहलोर्ण्यत्” । ३ । १ । १२४ ।
इति ण्यत् ।) शैलेयम् । शैलज इति भाषा ।
कालीयकम् । कालीयानामपीतवर्णसुगन्धिका-
ष्ठम् । इत्यमरः । २ । ४ । १२२ ॥ शिंशपावृक्षः ।
इति मेदिनी । शिशु इति भाषा ॥ तगरम् । इति
भावप्रकाशः ॥

कालानुसार्य्यकं, क्ली, (कालानुसार्य्य + कप् ।) शैले-

यम् । इति राजनिर्घण्टः ॥

कालान्तरविषः, पुं, (कालान्तरे दंशनादन्यस्मिन् काले

विष विकृतिकारि यस्य ।) मूषिकादिः । इति
हेमचन्द्रः ॥

कालापः, पुं, (कालः मृत्युराप्यते यस्मात् । काल +

आप् + अपादाने घञ् ।) सर्पभोगः । राक्षसः ।
इति धरणी ॥ (कलापं स्वनामख्यातं व्याकरणं
वेत्तीति । अण ।) कलापव्याकरणवेत्तरि त्रि ।
(ऋषिविशेषः । यथा महाभारते । २ । ४ । १७ ।
“कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च ।
मुनयो धर्म्मविद्वांसो धृतात्मानो जितेन्द्रियाः” ॥)

कालायसं, क्ली, (कालञ्च तत् अयश्चेति । “अनो-

श्मायः सरसां जातिसंज्ञयोः” । ५ । ४ । ९४ ।
इति टच् ।) लौहम् । इत्यमरः । २ । ९ । ९८ ।
(यथा, गोः रामायणे । ५ । ४९ । ३२ ।
“ददर्श वीक्षमाणश्च परिघं तोरणाश्रयम् ।
तमादाय महाबाहुः कालायसमयं दृढम्” ॥
अस्य पर्य्याया यथा, --
“लोहोऽस्त्री शस्त्रकं तीक्ष्णंपिण्डं कालायसायसी” ।
अस्य सप्तदोषा यथा, --
“गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता ।
अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कालिकं, क्ली, (कालः कृष्णो वर्णोऽस्त्यस्य इति ठन् ।)

कृष्णचन्दनम् । तत्पर्य्यायः । कालीयम् २ काला-
यकम् ३ हरिप्रियम् ४ । इति शब्दचन्द्रिका ॥
(काले भवम् । ठञ् । कालेन निर्वृत्तं ठक् वा ।)
सामयिके त्रि । (यथा, भाषापरिच्छेदे १२२ ।
“दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम्” ॥)

कालिकः, पुं, (काले वर्षाकाले चरति ठञ् । के जले

अलति पर्य्याप्नोति अल् + बाहुलकात् इकन्
वा ।) क्रौञ्चः । इति शब्दरत्नावली ॥

कालिका, स्त्री, (कालो वर्णोऽस्त्यस्याः इनिठनाविति

ठन् । यद्वा, काल + जानपदात् ङीष् स्वार्थे कन्
ह्रस्वश्च । चण्डिकाभेदः । काली । तन्नामकारणं यथा ।
“सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।
गङ्गावतारनिकटे महामायांप्र तुष्टुवुः ॥
अनेकसंस्तुता देवी तदा सर्व्वामरोत्करैः ।
मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत ॥
युष्माभिरमरैरत्र स्तूयते का च भाविनी ।
किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति ।
एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः ।
समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति ॥
शुम्भो निशुम्भो ह्यसुरौ वाधेते सकलान् सुरान् ।
तस्मात्तयोर्व्वधायाहं स्तूयेऽद्य सकलैः सुरैः ॥
विनिःसृतायां देव्यान्तु मातङ्ग्याः कायतस्तदा ।
भिन्नाञ्जननिभा कृष्णा साभूत् गौरी क्षणादपि ॥
कालिकाख्याऽभवत्सापि हिमाचलकृताश्रया ।
तामुग्रतारां ऋषयो वदन्तीह मनीषिणः ।
उग्रादपि भयात्राति यस्माद्भक्तान् सदाम्बिका ॥
एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च ।
एषैवैकजटा ख्याता यस्मात्तस्या जटैकिका ।
शृणुतं चिन्तनं चास्याः सम्यग्वेतालभैरवौ ! ॥
यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् ।
चतुर्भुजां कृष्णवणा मुण्डमालाविमूषिताम् ॥
खङ्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः ।
कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम् ॥
खं लिंखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् ।
मुण्डमालाधरां शीर्षे ग्रीवायामपि सर्व्वदा ॥
वक्षसा नागहारन्तु बिम्रतों रक्तलोचनाम् ।
कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम् ॥
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।
विन्यस्य सिंहपृष्ठे तु लेलिहानासवं स्वयम् ॥
साट्टहासमहाघोररावयुक्तातिभीषणा ।
चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः ॥
एतस्याः संप्रवक्ष्यामि या अष्टौ योगिनीस्तु ताः ।
महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च ॥
घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी ।
भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत्” ॥
इति कालिकापुराणे उत्तरतन्त्रे ६० अध्यायः ।
कार्ष्ण्यम् । वृश्चिकपत्रवृक्षः । क्रमदेयवस्तुमूल्यम् ।
धूसरी । नवमेघः । पटोलशाखां । रोमाली ॥
मांसी । काकी । शिवा । मेघावलिः । इति मे-
दिनी ॥ (यथा रघुः ११ । १५ ।
“ताडका चलकपालकुण्डला
कालिकेव निविडा वलाकिनी” ॥)
स्वर्णदोषः । इति जटाधरः ॥ क्षीरकीटः । इति
हारावली ॥ मसी । इति शब्दरत्नावली ॥ का-
कोली । श्यामापक्षी । इति राजनिर्घण्टः ॥ प्रति-
मासीया वृद्धिः । यथा, --
“प्रतिमासं स्रवति या वृद्धिः सा कालिका मता” ।
इति विवादार्णवसेतौ नारदः ॥ सुरा । इति
हेमचन्द्रः ॥ कुञ्झटिका । इत्यमरटीकायां भरतः ॥
हिमाचलभवा त्रिशिरा हरीतकी । सा गन्ध-
योगकरणे प्रशस्ता । इति राजवल्लभः ॥ (नदी-
विशेषः । यथा महाभारते ३ । ८४ । १४६ ।
“कालिकासङ्गमे स्नात्वा कौशिक्यारुणयोर्यतः ।
त्रिरात्रोपषितो विद्वान् सर्व्वपापैः प्रमुच्यते” ॥)

कालिकाव्रतं, क्ली, (कालिकायाः प्रीतये यद्व्रतं वि-

हितनियमादिकम् ।) अमावास्यायां स्त्राकर्त्तव्य-
व्रतविशेषः । यथा, --
युधिंष्ठिर उवाच ।
“कालिकाव्रतमाहात्म्यं वद वेदविदाम्बर ! ।
किमेतस्य फलं देव को वा तद्विधिरेव च ॥
कस्माद्व्रतमिदं भूतं मर्त्ये केन प्रकाशितम् ।
त्वत्तस्तत् श्रोतुमिच्छामि तत्सर्व्वं ब्रूहि केशव !” ॥
श्रीकृष्ण उवाच ।
“पुरा मविष्यशास्त्रेषु यदुक्तं धर्म्मसंहितम् ।
तत्सर्व्वं शृणु राजेन्द्र ! कालिकाव्रतमुत्तमम् ॥
स्वर्गे पुरन्दरश्चासीत्तस्यैव राजसद्मनि ।
यद्वृत्तान्तमभूत्तत्र तच्छृणुष्व युधिष्ठिर ! ॥
सभायां संस्थितो राजा नृत्यासक्तो हि नित्यशः ।
दिनैकस्य च वृत्तान्तं श्रुत्वा हृष्टो बभूव सः ॥
अत्यामोदं समभ्येत्य पुष्पवृष्टिरमुत्तदा ।
पुरन्दरः स्वयं प्राप्य पारिजातं गृहीतवान् ॥
घ्रात्वा राज्ञा तदा पुष्पं प्रदत्तं तद्द्विजातये ।
लज्जितो ब्राह्मणः सोऽपि मानहीनोऽभवत्तदा ॥
क्रोधेन महताविष्टः शप्तुं कामसमन्वितः ।
क्षणं विमृष्य चेन्द्राय शापो दत्तः सुदारुणः ॥
व्याधालयेषु मार्ज्जारो द्वादशाब्दं भविष्यसि ।
तेन कर्म्मविपाकेन मदयुक्तो विचेतनः ॥
प्राप्तमार्ज्जारदेहोऽसौ राजा विपिनमास्थितः ।
पत्नी तस्य च तत्रासीत् पत्युः सर्व्वाधिकारिणी ॥
ततो व्याधगृहे राजा मार्ज्जारीभूय तिष्ठति ।
ततः पुरन्दरपुरं राजशून्यमभूत्तदा ॥
शची तु चिन्तायामास अन्नपानं विहाय सा ।
उपवासं समाचर्य्य मासमेकन्तु तिष्ठति ॥
ततो देवगणाः सर्व्वे चिन्तया व्याकुलेन्द्रियाः ।
गत्वा तु राजभवनं व्याकुलां तां विलोक्य च ॥
विमृष्य चामराः सर्व्वे शच्यै वाक्यमुदाहरन् ।
शचि ! त्वं राजजायासि कथमेतत् करोषि च ॥
मासमेकमनाहारं कृत्वा तिष्ठसि सुव्रते ! ।
किं वा त्वदीप्सितं देवि ! सत्येन वद पण्डिते ॥
तच्छ्रुत्वा तु तदा देवी कृताञ्जलिरभाषत ।
यूयमेव जगन्नाथाः सृष्टिस्थित्थन्तकारकाः ॥
क्व गतो मम भर्त्ता च तन्न जानामि कत्थताम् ।
परिचिन्त्यामराः सर्व्व ध्यानमास्थाय संस्थिताः ॥
मार्ज्जाररूपमास्थाय स्थीयते चान्त्यजाश्रमे ।
तच्छ्रुत्वा राजपत्नी च वेपमाना मुहुर्मुहुः ॥
उवाच कुशलं प्रश्नं राजार्थं किं करोम्यहम् ।
पत्युर्यथा विमोक्षः स्यात् तत् कुरुध्वं सुधाशनाः ॥
प्रत्यूचुश्चामराः सर्व्वे याहि त्वं दिजसन्निधिम् ।
संभाव्य मधुरं प्रश्नं द्विजसेवां समाचर ।
द्विजगेहं समागत्य द्विजसेवापराऽभवत् ॥
पृष्ठ २/११३
:स तस्याः प्रियकार्य्येण सन्तुष्टो द्विजसत्तमः ।
हिंसाद्रोहविमुक्तश्च बलिहोमपरायणः ।
शान्तो दान्तः क्षमायुक्तः सदा मधुरभाषितः ॥
सर्व्वप्राणिहितार्थी च लोभमोहविवर्ज्जितः ।
जितेन्द्रियो जितक्रोधो वृद्धोऽसौ ब्राह्मणोत्तमः ॥
राजपत्न्याः सुसेवाभिः प्रीतोऽसौ द्विजसत्तमः ।
प्रत्युवाच स तां प्रीत्या शचि ! त्वं चातिदुर्ल्लभे ।
किं वा त्वदीप्सितं देवि ! सत्येन वद पण्डिते” ॥
शच्युवाच ।
“पापं यज्ज्ञानतो भर्त्रा समस्तं कर्म्मणा कृतम्
तत् क्षमस्व महाभाग ! रक्षस्व सुरपालकम् ॥
वासवस्तव शापेन मार्ज्जारत्वमुपागतः ।
इन्द्रो व्याधगृहे देव ! विद्यते हि न संशयः ।
पुरन्दरस्य शापान्तः केनोपायेन सिध्यति” ॥
ब्राह्मण उवाच ।
“शचि ! त्वं पतिभक्तासि मद्वाक्यमवधारय ।
पतिव्रते ! महाभागे ! कालिकाव्रतमाचर ॥
दारुणं यत् कृतं तेन व्रतेनैव विमुच्यते ।
कोपात् शापो मया दत्तो तन्मोक्षं कुरु सुव्रते !” ॥
शच्युवाच ।
“विधानं ब्रूहि मे ब्रह्मन् कालिकाया व्रतस्य च ।
तदा तव प्रसादेन करोमि तद्व्रतं द्विज !” ॥
ब्राह्मण उवाच ।
“अश्वत्थतरुमूलेऽस्ति वटको नाम हिंसकः ।
तस्यैव भवनं गच्छ शापान्मोक्षं च कारय ॥
पत्नी सुभद्रा तस्यास्ति पतिशुश्रूषणे रता ।
तस्याः कुलव्रतं कर्म्म तत्परा भव शोभने ।
ततश्च प्राङ्मखीभूय गता सा तस्य मन्दिरम् ॥
दृष्ट्वा व्याधः शचीं देवीं प्रत्युवाच सुभद्रिकाम् ।
आयान्तीयं शची देवी तस्याः सम्भाषणं कुरु ॥
इति तस्य वचः श्रुत्वा सुभद्रा हृष्टमानसा ।
तस्याः सम्भाषणर्थन्तु सुभद्रा चागता वहिः ।
ताञ्च दृष्ट्वा शचीं देवों सार्घ्यपाद्यादिकं ददौ ॥
शचि ! त्वं राजभार्य्यासि कस्मादागमनं तव ।
किं कार्य्यं कथय त्वं हि इत्युवाच शचीं प्रति ॥
प्रत्युवाच शची तान्तु भर्ता मे सुरपालकः ।
स च ब्राह्माणशापेन मार्ज्जारश्चाभवद्द्रुतम् ॥
क्व गतः प्राणआथोऽसाविति चिन्तापरानिशम् ।
ज्ञात्वा केनाप्युपायेन प्राप्ता च भवतीगृहम् ॥
इत्युक्ता राजपत्न्या च दृष्टो मार्ज्जारकस्तदा ।
सा ज्ञात्वा तं प्रियं शक्रं चिन्तां प्राप्ता दुरत्ययाम् ॥
दृष्ट्वा मार्ज्जारतां प्राप्तं विललापाकुलेन्द्रिया ।
विलपन्तीं शचीं दृष्ट्वा सुभद्रा प्रत्युवाच ताम् ॥
पतिव्रते महाभागे ! त्वमेव राजगेहिनी ।
त्वं दुःखेन विलिप्तासि सन्देहो नास्ति तत्र वै ॥
किल तस्याप्युपायोऽस्ति कालिकाव्रतमाचर ।
अतिप्रत्थक्षरूपा सा अस्माकं कुलदेवता ॥
कालिका सा महादेवी शुभसन्ततिदायिनी ।
व्रतस्यास्य प्रभावेण साकल्यमुपजायते” ॥
शच्युवाच ।
“विधानं चास्य मे ब्रूहि कालिकाया व्रतस्य च ।
ममोपदिश्यतामेव तद्व्रतञ्च करोभ्यहम् ॥
शुद्धकाले समारभ्य कृष्णपक्षे चतुर्द्दशीम् ॥
संकल्प्य विधिना पूर्ब्बममावास्यां व्रतं चरेत् ।
समारभ्य गुणैकेन द्विगुणं परिशोधयेत् ॥
न रात्रौ भोजनं कार्य्यं वामहस्ते भुजिक्रिया ।
सिद्धमन्नं रात्रिकाले दग्धमीनञ्च सर्व्वदा ॥
वर्ज्जयेत् पिष्टकं किञ्चित् रक्तशाकस्य चाम्लकम् ।
द्विषट्कां विप्रजायाञ्च सधवां भोजयेत्ततः ॥
एवं क्रमेण कृत्वा तु कतिकालं नयेद्व्रतम् ।
ततः शुद्धदिने प्राप्ते भौमाहे मन्दवासरे ॥
यथाशक्त्युपचारैश्च पूजां कुर्य्याद्विधानतः ।
तथापराह्णकाले तु सन्ध्योपसमये तथा ॥
रात्रौ तु कदलीकाण्डे गृहं निर्म्माय प्राङ्गणे ।
तस्य मध्ये समारोप्य कालिकां पूजयेत् सदा ॥
पाद्यार्घ्याचमनीयैश्च गन्धपुष्पादिभिस्तथा ।
धूपैर्दिव्यप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ॥
पिष्टकं चैव सिद्धान्नं व्यञ्जनं दग्धमीनकम् ।
निवेद्य सकलं देव्यै बलिं दत्त्वा प्रणम्य च ॥
तदन्नं व्यञ्जनं सर्व्वं नैवेद्यादिबलिं तथा ।
महारण्ये प्रदातव्यं कृत्वैतत् व्रतमुत्तमम् ॥
वैणवे कदलीमूले या कुर्य्यात् कालिकाव्रतम् ।
कार्य्यसिद्धिर्भवेत् तस्या भविता गतिरुत्तमा ॥
एतद्व्रतविधानन्तु कृत्वा सिद्धिर्भविष्यति ।
एतद्व्रतमिदं भद्रे कुरु गत्वा निजालयम् ॥
तस्यास्तद्वचनं श्रुत्वा सा शची हर्षमानसा ।
गृहमागत्य सा तस्या वार्षिकं व्रतमाचरत् ॥
गन्धपुष्पैर्धूपदीपैर्नैवेद्यैरुत्तमैस्तथा ।
कृत्वा चाश्ममयीं देवीं पूजयेत् भक्तिसंयुता ॥
नानासुगन्धिपुष्पाणि दिव्यरत्नाद्यलङ्कृतम् ।
सिद्धान्नं पायसञ्चैव शर्करान्वितपिष्टकम् ॥
अमृतायुतहावञ्च दीयते च प्रयत्नतः ।
लुलापच्छागमेषादिबलिं दत्त्वा प्रभूतकम् ॥
नानावाद्यो द्यमैर्गीतैः प्रणिपत्य पुनः पुनः ।
कृताञ्जलिपुटा स्तोत्रं भक्तिनम्रा चकार सा ॥
तुष्टा प्राह महाकाली वरं वृणु शुभानने ! ।
तत् श्रुत्वा राजपत्नी सा बभाषे च मुदान्विता ॥
मत्प्रभुराखुभुक् भूतस्तन्मोक्षं कुरु चेश्वरि ! ।
वरं दत्त्वा हैमवती बभूवान्तर्हिता नृप ! ॥
द्वादशाब्दाच्च तत्शापान्मोचितो वत्सरे तदा ।
मार्ज्जाररूपं सन्त्यज्य स गतोऽन्तेऽमरावतीम् ॥
पुष्पवृष्टिश्च दुन्दुभ्या वाद्यं देवगणैः कृतम् ।
कालिकायाः प्रसादेन गतः शक्रो निजालयम् ॥
अनेनैव विधानेन या कुर्य्यात् कालिकाव्रतम् ।
सत्वरं कार्य्यसिद्धिः स्यात्तस्या अत्र न संशयः” ॥
इति भविष्यपुराणे कालिकाव्रतकथा समाप्ता ॥

कालिङ्गं, क्ली, (केन जलेन आलिङ्ग्यतेऽसौ । आ +

लिगि + कर्म्मणि घञ् ।) फलविशेषः । तरमुज्
इति ख्यातम् । तत्पर्य्यायः । कालिन्दकम् २ कृष्ण-
वीजम् ३ फलवर्त्तुलम् ४ । अस्य गुणाः । शीतल-
त्वम् । ग्राहित्वम् । स्वादुपाकरसत्वम् । गुरुत्वम् ।
विष्टम्भित्वम् । स्यन्दित्वम् । दृक्शुक्रपित्तनाशि-
त्वम् । कफवातकारित्वञ्च । पक्वस्य तस्य गुणाः ।
पित्तंवृद्धिकारित्वम् । उष्णत्वम् । क्षारत्वम् । कफ-
वातनाशित्वञ्च । तत्पत्रगुणौ । रुधिरस्थापनत्वम् ।
तिक्तत्वञ्च । इति पथ्यापथ्यविवेकः ॥

कालिङ्गः, पुं, (केन जलेनालिङ्ग्यते इति । क + आ

लिगि + कर्म्मणि घञ् ।) भूमिकर्कारुः । (कं जल-
मालिङ्गति । आ + लिगि + कर्म्मण्यण् ।) हस्ती ।
(कं वातं आलिङ्गति गृह्णाति अश्नाति इत्यर्थः ।)
सर्पः । इति मेदिनी ॥ (कुत्सितं लिङ्गं अङ्गादि-
चिह्नं यस्येति कोः कादेशः ।) लौहभेदः । अस्य
लक्षणम् । “कालिङ्गो लिङ्गवान् यः स्याद्घनः
सूक्ष्माङ्गको मतः” । इति सुखबोधः ॥ (कलिङ्गे
भवः । अण् । कलिङ्गदेशोद्भवः । यथा महा-
भारते ८ । कर्णशल्यसंवादे ४५ । १४ ।
“कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः ।
कोमलाःकाशयोऽङ्गाश्च कालिङ्गा मागधा स्तथा” ॥
कलिङ्गदेशस्य राजा । अण् । कलिङ्गराजः ।
यथा रघुः ४ । ४० ।
“प्रतिजग्राह कालिङ्गः तमस्त्रैर्गजसाधनः ।
पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्व्वतः” ॥)

कालिङ्गिका, स्त्री, (कालिङ्ग + गौरादित्वात् ङीष् ।

स्वार्थे संज्ञायां वा कन् टाप् ह्रस्वश्च ।) त्रिवृत् ।
इति राजनिर्घण्टः ॥

कालिङ्गी, स्त्री, (कालिङ्ग + गौरादित्वात् ङीष् ।)

राजकर्कटी । इति मेदिनी ॥ (कालिङ्गदेशोद्भवा ।
यथा महाभारते १ । ९५ । २२ ।
“अक्रोधनः खलु कालिङ्गीं करम्भां नामोपयेमे” ॥)

कालिदासः, पुं, (काल्याः दासः । संज्ञायां ह्रखः ।) स्वना-

मख्यातकविः । तत्पर्य्यायः । रघुकारः २ मेधारुद्रः
३ कोटिजित् ४ । इति त्रिकाण्डशेषः ॥ स तु
रघुकुमारसम्भवश्रुतबोधमेघदूताभिज्ञानशकुन्तल-
नलोदयशृङ्गारतिलकादिग्रन्थकर्त्ता विक्रमादित्य-
राजसभास्थनवरत्नमध्ये सप्तमरत्नञ्च ॥ (यदुक्तम् ।
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य” ॥)

कालिदासकः, पुं, (कालिदास + स्वार्थे कन् ।) कालि-

दासः । इति शब्दरत्नावली ॥

कालिनी, स्त्री, (कालः शिवः अधिष्ठातृतया यद्वा

कालः पुरुषाकारः आकाशस्थो लुब्धकः सन्निकृष्ट-
त्वेन अस्त्यस्याः ।) आर्द्रानक्षत्रम् । इति हेमचन्द्रः ॥

कालिन्दकं, क्ली, (कालिं जलराशिं ददातीति । दा +

कः । स्वार्थे कन् ।) कालिङ्गम् । इति राजनिर्घण्टः ॥

कालिन्दी, स्त्री, (कलिन्दाख्यपर्व्वते तत्सन्निहितदेशे

वा जाता । कलिन्दात् निःसृता वा “तत्र भवः” ।
४ । ३ । ५३ । इति अण् ततो ङीप् ।) यदुना नदी ।
इत्थमरः । १ । १० । ३२ ॥ (यथा रघुः १५ । २८ ।
“उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः ।
निर्म्ममे निर्म्ममोऽर्थेषु मथुरां मधुराकृतिः” ॥)
रक्तत्रिवृत् । इति राजनिर्घण्टः ॥

कालिन्दीकर्षणः, पुं, (कालिन्दीं कर्षति यः । कृष् +

कर्त्तरि ल्युः । कालिन्द्याः कर्षणो वा ।) बलदेवः ।
इति हलायुधः ॥
पृष्ठ २/११४
:(कालिन्दीसङ्कर्षणकथा हरिवंशे १०२ अध्याये
उक्ता । तद्यथा, --
“रामस्तु यमुनामाह स्नातुमिच्छे महानदि ! ।
एहि मामभिगच्छस्व रूपिणी सागरङ्गमे ॥
सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।
नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता ॥
ततश्चुक्रोध बलवान् रामो मदसमीरितः ।
चकार स हलं हस्ते कर्षणधोमुखं बली ॥
तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।
मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम् ॥
स हलेनानताग्रेण कुले गृह्य महानदीम् ।
चकर्ष यमुना रामो व्युत्थितां वनितामिव ॥
सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया ।
व्यावर्त्तत नदी भीता हलमार्गानुसारिणी ॥
लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी ।
सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥
पुलिनश्रोणिविम्बोष्ठी मृदितैस्तोयताडितैः ।
फेनमेखलसूत्रैश्च वेगगाम्बुदगामिनी ॥
तरङ्गविषभापीडा चक्रवाकोन्मुखस्तनी ।
वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥
सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।
तीरजोद्धूतकेशान्ता जलस्खलितगामिनी ॥
लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा ।
मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥
कृष्यते सा स्म वेगेन स्रोतःस्खलितगामिनी ।
उन्मार्गा नीतमार्गा सा येन वृन्दावनं वनम् ॥
वृन्दावनस्य मध्येन सा नीता यमुना नदी ।
रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥
सा यदा समभिक्रान्ता नदी वृन्दावनं वनम् ।
तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥
प्रसीद नाथ ! भीतास्मि प्रतिलोमेन कर्म्मणा ।
विपरीतमिदं रूपं तोयञ्च मम जायते ॥
असत्यहं नदीमध्ये रौहिणेय ! त्वया कृता ।
कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥
प्राप्तां मां सागरे नूनं सपत्न्यो वेगगर्व्विताः ।
फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥
प्रसादं कुरु मे वीर ! याचे त्वां कृष्णपूर्ब्बज ! ।
सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ! ॥
कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्त्यताम् ॥
गच्छामि चरणौ मूर्द्ध्ना तवैषा लाङ्गलायुघ ! ।
मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज !” ॥)

कालिन्दीभेदनः, पुं, (कालिन्दीं भिनत्ति । भिद् +

कर्त्तरि ल्युः । कालिन्द्या भेदनो वा ।) बलदेवः ।
इत्यमरः । १ । १ । २५ ॥ (“कालिन्दीभेदनो हलीति”
पुराणम् ॥)

कालिन्दीसूः, स्त्री, (सूते इति । सू + क्विप् । कालिन्द्याः

यमुनायाः सूः माता प्रसवित्रीत्यर्थः । कालिन्दीं
सूते सूतवती वा ।) सूर्य्यपत्नी । ग्रमुनामाता ।
इति त्रिकाण्डशेषः ॥

कालिन्दीसोदरः, पुं, (कालिन्द्याः सोदरः सहोदरः ।)

यमः । इति हेमचन्द्रः ॥

काली, स्त्री, (कालः कृष्णवर्णोऽभ्त्यस्याः । काल + “जा-

नपदकुण्डगोलस्थलभाजनागकालनीलेत्यादिना” ।
४ । १ । ४२ । ङीष् ।) शान्तनुराजपत्नी । इति त्रि-
काण्डशेषः ॥ (कालः शिवः । तस्य पत्नीति ङीष् ।)
कालिका । अम्बिकाललाटनिष्क्रान्ता देवी । यथा,
“ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति ।
कोपेन चास्या वदनं मसीवर्णमभूत्तदा ॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् ।
काली करालवदना विनिष्क्रान्तासिपाशिनी” ॥
इति मार्कण्डेयपुराणे ८७ । ५ ॥ * ॥ अन्यच्च ।
“देव्या ललाटनिष्क्रान्ता या कालीति च विश्रुता ।
तस्यास्तन्त्रं प्रवक्ष्यामि कामद शृणु भैरव ! ॥
समाप्तिसहितो दन्त्यः प्रान्त्यस्तस्मात् पुरःसरः ।
षष्ठस्वराग्निविन्द्विन्दुसहितो मादिरेव च ॥
कालीतन्त्रमिति प्रोक्तं धर्म्मकामाथदायकम् ।
एतन्मूर्त्तिं प्रवक्ष्यामि वत्सैकाग्रमनाः शृण ॥
नीलोत्पलदलश्यामा चतुर्ब्बाहुसमन्विता ।
खटठ्वाङ्गं चन्द्रहासञ्च बिभ्रती दक्षिणे करे ॥
वामे चर्म्म च पाशञ्च ऊर्द्ध्वाधो भावतः पुनः ।
दधती मुण्डमालाञ्च व्याघ्रचर्म्मवराम्बरा ॥
कृशाङ्गी दोर्घदंष्ट्रा च अतिदीर्घातिभीषणा ।
लोलजिह्वा निम्नरक्तनयना नादभैरवा ॥
कवन्धवाहना पीनविस्तारश्रवणानना ।
एषा ताराह्वया देवी चामुण्डेति च कथ्यते ॥
एतस्या योगिनीश्चाष्टौ पूजयेञ्चिन्तयेदपि ।
त्रिपुरा भीषणा चण्डी कर्त्री हन्त्री विधातृका ॥
कराला शूलिनी चेति अष्टौ ताः परिकीर्त्तिताः ।
एषातिकामदा देवी जाड्यहानिकरी सदा ॥
एतस्याः सदृशी काचित् कामदा न हि विद्यते” ।
इति श्रीकालिकापुराणे उत्तरतन्त्रे ६० अध्यायः ।
क्षीरकीटः । मातृभेदः । उमा । नवमेघसमूहः ।
परीवादः । इति हेमचन्द्रः ॥ कालाञ्जनी । तुवरी ।
त्रिवृत् । रात्रिः । इति राजनिर्घण्टः ॥ अग्नि-
शिखाभेदः । इति जटाधरः ॥ (यथा, मुण्डकोप-
निषदि १ । २ । ४ ।
“कालीकराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरूपी च देवी
लेलायमाना इति सप्त जिह्वा” ॥
वृश्चिकालीवृक्षः । इति रत्नमाला । (कालिया
विछाटी इति भाषा ॥ लता । यथा वैद्यके ।
“सप्तपर्णस्तथा काली गुडुची पिचुमर्द्दकम्” ॥ * ॥
भीमसेनस्य पत्नीभेदः । यथा, भागवते ९ । २२ । ३१ ।
“युधिष्ठिरात्तु पौरव्यां देवकोऽथ घटोत्कचः ।
भीमसेनात् हिडिम्बायां, काल्यां सर्व्वगतस्ततः” ॥
मातृकाध्यानं चामुण्डाशब्दे द्रष्टव्यम् । कालिकाया
ध्यानं लिख्यते यथा --
“करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥
सद्यश्छिन्नशिरःखङ्गवामाधोर्द्धकराम्बुजाम् ।
अभयं वरदञ्चैव दक्षिणोर्द्धाधपाणिकाम् ॥
महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चिताम् ॥
कर्णावतंसतानीतशवयुग्मभयानकाम् ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥
शवानां करसंधातैः कृतकाञ्चीं हसन्मुखीम् ।
सृक्वद्वयगलद्रक्तधाराविष्फुरिताननाम् ॥
घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकारलोचनत्रितयान्विताम्
दन्तुरां दक्षिणव्यापिमुक्तालम्बिकचोच्चयाम् ।
शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥
शिवाभिर्घोररादभिश्चतुर्द्दिक्षु समन्विताम् ।
महाकालेन च समं विपरीतरतातुराम् ॥
सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेत् कालिं सर्व्वकामार्थ सिद्धिदाम्” ॥
इति तन्त्रसारधृतकालतन्त्रम् ॥
(कालशक्त्या सर्व्वमिदं जगत् परिचालयति सैव
काली प्रकीर्त्तिता यद्वा कालयति कलयति वा
उत्पादयति पालयति प्रलये पुनरात्मन्येव विला-
पयतीति काली आद्या मूलप्रकृतिः महत्तत्वा-
देरुत्पत्तिलयादीनामाधारभूता । कलिहलि का-
मधेनुरिति कलधातुः बह्वर्थबोधिनी स्वरूपतः
ब्रह्मणः सकाशात् नानाविधजगद्विचित्रविर्म्माण-
समर्था बुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः कालीति
संज्ञया प्रकीर्त्त्यते । एतत् प्रबोधनाय समासतः
कतिपयवचनान्यत्रोद्धृतानि यथायथं द्रष्टव्यानि ।
तथाहि ज्ञानसङ्कलिनीतन्त्रे । भागवते च ।
“सा माया पालिनीशक्तिः सृष्टिसंहारकारिणी ।
सा वा एतस्य संस्रष्टुः शक्तिः सदसदात्मिका ॥
माया नाम महाभाग ! ययेदं निर्म्ममे विभुः” ।
एषैव पारमेश्वरी मूलशक्तिः दुर्ब्बलाधिकारिणा-
मुपासनासौकर्य्याय तन्त्रादिशास्त्रेषु कालीश्यामा-
तारादिविविधनामरूपैः कल्पिता ॥
यथा, --
“या देवी सर्व्वभूतेषु विष्णुमायेति शब्दिता” ।
चितिरूपेण या कृत्स्नमेतद्व्याप्य स्थिता जगदिति” ॥
इति मार्कण्डेयपुराणीयदेवीमाहात्म्ये देवकृत-
देव्याः स्तुतौ । ८५ । १२, ३४ । तथा च महा-
निर्व्वाणोक्ते ४ र्थ उल्लासे । देवीं प्रति सदाशि-
वोक्तिः ।
“त्वं परा प्रकृतिः साक्षात् ब्रह्मणः परमात्मनः ।
महत्तत्त्वादिभूतान्तं त्वया सृष्ठमिदं जगत् ॥
निमित्तमात्रं तद्ब्रह्म सर्व्वकारणकारणत् ।
तस्येच्छामात्रमालम्ब्य त्वं महायोगिनी परा ॥
करोषि पासि हंस्यन्ते जगदेतच्चराचरम् ।
कलनात् सर्व्वभूतानां महाकालः प्रकीर्त्तितः ।
महाकालस्य कलनात् त्वमाद्या कालिकापरा ॥
कालत्वादादिभूतत्त्वादाद्या कालीति गीयते ॥
ध्यानन्तु द्विविधिं प्रोक्तं स्वरूपारूपभेदतः ।
स्वरूपं तव यद्ध्यानमवाङ्मनसगोचरम् ॥
मनसोधारणार्थाय शीध्रं स्वाभीष्टसिद्धये ।
सूक्ष्मध्यानप्रबोधाय स्थूलध्यानं वदामि ते ॥
अरूपायाः कालिकायाः कालमातुर्महाद्युतेः ।
गुणक्रियानुसारेण क्रियते रूपकल्पना” ॥
तस्या अरूपाया महाकाल्या कथमेव रूप-
पृष्ठ २/११५
कल्पनादिकमिति जिज्ञासितवतीं पार्व्वतीं प्रति
भगवतः शिवस्योत्तरदानं तत्रैव १३ उल्लासे ॥
“उपासकानां कार्य्याय पुरैव कथितं प्रिये ! ।
गुणक्रियानुसारेण रूपं देव्याः प्रकल्पितम् ॥
श्वेतपीतादिको वर्णो यथा कृष्णे विलीयते ।
प्रविशन्ति तथा काल्यां सर्व्वभूतानि शैलजे ! ॥
अवस्तस्याः कालशक्तेर्निर्गुणाया निराकृतेः ।
हितायाः प्राप्तयोगानां वर्णः कृष्णो निरूपितः ॥
नित्यायाः कालरूपाया अव्ययायाः शिवात्मनः ।
अमृतत्वात् ललाटेऽस्याः शशिचिह्नं निरूपितम् ॥
शशिसूर्य्याग्निभिर्नित्यै रखिलं कालिकं जगत् ।
सम्पश्यति यतस्तस्मत् कल्पितं नयनत्रयम्” ॥
तस्याः स्थूलध्यानं यथा तत्रैव ५ म उल्लासे ।
“मेघाङ्गीं शशिशेखरां त्रिनयनां रक्ताम्बरं
बिभ्रतीं पाणिभ्यामभयं वरञ्च विलसद्रक्तारविन्द
स्थिताम् ॥
मेघाङ्गीमिति वर्णनेनास्याः कृष्णवर्णत्वं सूचितं
परो अरूपाया निराकृतेः कालशक्तेरेव ध्याना-
लम्बनतया ज्ञापकत्वमिति यावत् ॥
शशिशेखरेत्युक्त्या शशी चन्द्रः जीवसमष्टिः
सर्व्वजीववीजस्वरूपो हिरण्यगर्भो ब्रह्मा एव
चन्द्रनाम्नाख्यायते अतएवास्या देव्या ललाटे ऊर्द्ध्व-
देशे इति निर्देशात् समस्तजडशक्तिभ्यः पृथक्
कृत्वा जीवशक्तेरुत्कर्षं बोधयति यथा, --
“भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवरूपां महाबाहो ! ययेदं धार्य्यते जगत्” ॥
अतोऽस्या जीवशक्त्याधायकतया सैव परमात्म-
रूपिणी चिदानन्दमयीति प्रबोध्यते । यदि च
स्थानमेदे क्वचित् परब्रह्मणः सकाशादस्याः पा-
र्थक्यं दृश्यते तत्तु केवलमज्ञानां क्रियाविशेषबोध-
नायैव स्वरूपतः अग्नेर्दाहिकाशक्तिवत् सर्व्वत्रैव
शास्त्रकृद्भिस्तयोरभेदः प्रतिपादितः । त्रिनयन-
मित्युक्त्या सर्व्वज्योतिःपदार्थानां प्रधानभूता-
श्चन्द्रसूर्य्याग्रयः प्रकाशशक्तेराधिक्यात् तैरेवास्या
देव्या नयनत्रितयत्वेन प्रकल्पितं वस्तुतः सर्व्व-
प्रकाशकानां सूर्य्यादीनां सैवान्तर्यामितयाधिष्ठा-
त्रीदेवतात्मरूपिणीति बोध्यम् ॥
रक्ताम्बरं बिभ्रतों इति सृष्टिकरणर्थं सैव परमा-
त्मरूपिणी रजोगुणोद्रेकरूपमम्बरं वस्त्रं आवरण-
शक्तिमिति भावः बिभ्रतीं धारिणीं । पाणिभ्या-
ममयं वरञ्च इति भक्तसाधकानां रक्षार्थं कुशला-
र्थञ्च वराभयदानरूपशक्तिद्वयस्य पाणिद्वयत्वेन
कल्पितं रक्तारविन्दस्थितामिति रजोगुणसमुद्भ-
वाया इच्छाशक्तेरेवारविन्दत्वेन प्रकल्पनं कृतमिति
बोध्यम् । अतः स्थूलध्यानादीनां यदिचापाततः
स्थूलदृष्ट्या नामरूपादिस्थूलजडभावो लक्ष्यते परं
सर्व्वत्रैव तेषां सूक्ष्मार्थरूपपरमात्मन्येव गूढता-
त्पर्य्यार्थः प्रतिफलत्येव विजानद्भिरेव तत्सर्व्वतो-
ज्ञातुं शक्यते । न ह्येतदस्माकं केवलं स्वकपोल-
कल्पनामात्रं श्रीमद्भगवद्गीताप्रभृतितत्त्वज्ञान-
प्रतिपादकशास्त्रेषु विशेषतोनिश्चितं किञ्च प्रकृ-
तिपुरुषयोरपि तत्तच्छास्त्रे भूयोभूयोऽविनश्वर-
त्वमनादित्वं चाङ्गीकृतम् ।
“प्रकृतिं पुरुषञ्चैव बिद्ध्यनादी उभावपीत्यादि” ।
भूरिभूरि प्रमाणाणि सन्ति बाहुल्यभिया नैवा
स्मद्भिस्तान्युद्धृतानि ॥)

कालीकः, पुं, (के जले अलति पर्य्याप्नोति प्रभवती-

त्यर्थः । अल + इकन् पृषोदरादित्वात् दीर्घः ।
यद्वा के जले + अलीकः मत्स्यलाभाय कपटशान्त-
मूर्त्तिरिव ।) क्रौञ्चः । इति शब्दरत्नावली ॥

कालीची, स्त्री, (काल्या यमभगिन्या चीयतेऽत्र ।

चिञ् + बाहुलकात् अधिकरणे डः । गौरादि-
त्वात् ङीष् ।) यमविचारभूमिः । इति त्रिकाण्ड-
शेषः ॥

कालीतनयः, पुं, (काल्याः यमरूपाया यमभगिन्याः

यमत्वशक्ते र्वा तनयः इव यमवाहनत्वात्तथात्वम् ।
यद्वा, कालीं इतः ज्ञातः सन् बलिदानाय आत्मानं
नयति प्रापयति । नी + अच् । कालीं प्रति
उद्दिश्य वा इतः प्राप्तः उपस्थित इत्यर्थः आत्मनो
नयः प्रापणं यस्य । महिषस्य कालीसन्निधाने
बलिदानाय नीयमानतया तथात्वम् ।) महिषः ।
इति हेमचन्द्रः ॥

कालीयं, क्ली, (कालस्य कृष्णवर्णस्यायं कालस्थाने

भवं वा “वृद्धाच्छः” । ४ । २ । ११४ । इति च्छः ।)
कृष्णचन्दनम् । इति शब्दचन्द्रिका ॥ (अस्य व्यव-
हारो यथा, वैद्यकचक्रपाणिसंग्रहे एकादशश-
तिकप्रसारणीतैले । “कालीयोत्पलपद्मकाह्वय-
निशेत्यादि” ॥)

कालीयकं, क्ली, (कालीय + स्वार्थे कन् । कालीयमिव

कायति वा । कै + कः ।) कालिया इति ख्यातं
पीतवर्णसुगन्धिकाष्ठम् । इत्यमरटीकासारसुन्दरी ॥
(यथा, महाभारते २ । ५१ । १० ।
“चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च ।
चर्म्मरत्नमुवर्णानां गन्धानाञ्चैव राशयः” ॥)
तत्पर्य्यायः । जायकं २ कालानुसार्य्यं ३ । इत्यमरः ।
२ । ६ । १२६ ॥ जावकम् ४ । इति टीकासर्व्वस्वम् ॥
कालेयम् ५ वर्णकम् ६ कान्तिदायकम् ७ । इति
भरतधृतव्याडिः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ पी-
तचन्दनशब्दे द्रष्टव्यौ ॥ कृष्णचन्दनम् । तत्पर्य्यायः ।
कालीयम् २ कालिकम् ३ हरिप्रियम् ४ । इति
शन्दचन्द्रिका ॥ दारुहरिद्रा । इति राजनिर्घण्टः ॥
(अस्य व्यवहारो यत्र तद्यथा, “सालसाराज-
कर्णस्वदिरकदरकालस्कन्धक्रमुकभूर्जमेष शृङ्गीति
निशचन्दनकुचन्दनशिंशपा शिरीषासनधवार्ज्जु-
नतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि काली-
यकञ्चेति” ॥ इति सुश्रुते सूत्रस्थाने । ३८
च्यध्यायः ॥)

कालीयकः, पुं, (कालीय + सज्ञायां स्वार्थे वा कन् ।)

दारुहरिद्रा । इति शब्दरत्नावली ॥ (अस्य पर्य्याया
यथा, --
“दार्व्वी दारुहरिद्रा च पर्ज्जन्यापर्ज्जनीति च ।
कटङ्कटेरी पीता च भवेत् सैव पचम्पचा ॥
सैवकालीयकः प्रोक्तस्तथा कालेयकोऽपि च ।
पीतद्रुश्च हरिद्रुश्च पीतदारुकपीतकम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

कालेयं, क्ली, (कं सुखं आलेयं आदेयं यस्मात् ।)

कालियानामपीतवर्णसुगन्धिकाष्ठम् । इति व्याडिः
रमानाथश्च ॥ (यथा, कुमारे ७ । ९ ।
“तां लोध्रकल्केन हृताङ्गतैला-
माश्यानकालेयकृताङ्गरागाम्” ॥
कलायै रक्तधारिण्यै हितं इति ढक् ।) काल-
खण्डनम् । यकृत् इति यावत् इति मेदिनी ॥

कालेयः, पुं, (कालाया अपत्यं ढक् ।) दैत्यभेदः । इति

मेदिनी ॥ (यथा, महाभारते १ । ६५ । ३४ ।
“कालायाःप्रथिताः पुत्त्राः कालकल्पाः प्रहारिणः ।
प्रविख्याता महावीर्य्या दानवेषु परन्तपाः ॥
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च ।
क्रोधशत्रुस्तथैवान्यः कालेया इति विश्रुताः ” ॥)

कालेयकं, क्ली, (कालेय + स्वार्थे कन् ।) कालीयकम् ।

कालियानाम पीतवर्णसुगन्धिकाष्टम् । इत्यमर-
टीका ॥ (“मधुकरकुलकलङ्ककालीकृतकालेयक-
कुसुमकुद्मलेषु” । इति कादम्बरी ॥)

कालेयकः, पुं, (कालेय + संज्ञायां स्वार्थे वा कन् ।)

दारुहरिद्रा । इत्यमरः २ । ४ । १०१ ॥ (यथा, सुश्रुते
सूत्रस्थाने ३९ अध्यायः । “कालेयकागुरुतिल-
पर्णी कुष्ठहरिद्रेति” ॥ कालीयकशब्देऽस्य विव-
रणं ज्ञातव्यम् ॥ कलये विवादाय साधुः । कल +
ढक् + संज्ञायां कन् । कुक्कुराणां हि अन्योन्य-
कलहपरत्वं प्रसिद्धम् ।) कुक्कुरः । इति राज-
निर्घण्टः ॥

काल्पः, पुं, (कल्पे विधौ भवः । “तत्र भवः” ४ । ३ ।

५३ । इति अण् ।) हरिद्राविशेषः । काँचा हलुद्
इति भाषा । तत्पर्य्यायः । कर्व्वूरः २ द्राविडकः ३
द्राविडभूतिकः ४ । इति शब्दरत्नावली ॥

काल्पकः, पुं, (कल्पे विधौ भवः । “तत्र भव” । ४ । ३ । ५३ ।

इत्यणन्तात् संज्ञायां खार्थे वा कन् ।) कर्व्वूरकः ।
इत्यमरः २ । ४ । १२५ ॥ काँचा हलुद् इति भाषा ॥

काल्पनिकः, त्रि, (कल्पनायाः आगतः । ठञ् ।)

कल्पनाभवः । कल्पितः । यथा । “रसः स्वाद्यते
इति काल्पनिकं भेदमुरीकृत्य कर्म्मकर्त्तरि वा
प्रयोगः” । इति साहित्यदर्पणम् ॥

काल्यं, क्ली, (कलयति चेष्टाम् । अघ्न्यादयश्चेति

कलेर्यक् । ततः प्रज्ञाद्यण् ।) प्रत्यूषः । इति हेम-
चन्द्रः ॥ (यथा हेः रामायणे २ । ३४ । ३४ ।
“तर्पितः सर्व्वकामैस्त्वंश्वः काल्ये साधयिष्यसि” ॥)

काल्यकः, पुं, (काले साधुः । तत्र साधुरिति यत् ।

स्वार्थे कन् ।) काल्पकः । इति शब्दरत्नावली ॥

काल्या, स्त्री, (कालः प्राप्तोऽस्याः । कालाद्यत् ।

टाप् च ।) गर्भग्रहणप्राप्तकाला ऋतुमतो गौः ।
तत्पर्य्यायः । उपसर्य्या २ । इत्यमरः । २ । ९ । ७० ॥
(“उपसर्य्या काल्या प्रजने” । इति पाणिनिः । ३ ।
१ । १०४ ॥)

कावचिकं, क्ली, (कवचिनां समूहः । “ठञ् कव-

चिनश्च” । ४ । २ । ४१ । इति ठञ् ।) वर्म्मभृतां
पृष्ठ २/११६
:गणः । कवचधारियोद्धृसमूहः । इत्यमरः । २ ।
८ । ६६ ॥

कावारं, क्ली, (कं जलं आवृणोतीति । आ + वृ +

अण् ।) शैवलः । इति त्रिकाण्डशेषः ॥

कावारी, स्त्री, (कावार + ङीष् ।) तृणादिच्छत्रम् ।

तत्पर्य्यायः । जङ्गमकुटी २ भ्रमत्कुटी ३ । इति
त्रिकाण्डशेषः ॥

कावृकः, पुं, (कुत्सितः वृक इव ईषत् वृक इव वा ।

कोः कादेशः ।) कुक्कुटः । चक्रवाकः । पीतमस्तक
पर्क्षा । इति विश्वमेदिन्यौ ॥

कावेरं, क्ली, (कस्य सूर्य्यस्येव आ ईषत् वेरं अङ्गं

यस्य । ज्योतिर्मयत्वात् तथात्वम् ।) कुङ्कुमम् । इति
जटाधरः ॥ (कुङ्कुमशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

कावेरी, स्त्री, (कं जलमेव वेरं शरीरं । तस्येयम् ।

“तस्येदम्” । ४ । ३ । १२० । इति अण् । ङीप् ।)
नदीविशेषः । इत्यमरः । १ । १० । ३५ ॥ (यथा,
महाभारते ३ । ८५ । २२ ।
“ततो गच्छेत कावेरीं वृतामप्सरसां गणैः ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्” ॥
इयं हि सह्याद्रेः मलयपर्व्वतस्य च सानुसन्नि-
कटस्था । इति रघुः ॥ कुत्सितं अपवित्रं वेरं
शरीरं यस्याः । कोः कादेशः ।) वेश्या । हरिद्रा ॥
इति मेदिनी ॥

काव्यं, क्ली, (कवेरिदं कर्म्म भावो वा । ष्यञ् ।) ग्रन्थः ।

इति मेदिनी ॥ रसयुक्तवाक्यम् । यथा, --
“वाक्यं रसात्मकं काव्यं दोषास्तस्यापकर्षकाः ।
उत्कर्षहेतवः प्रोक्ता गुणालङ्काररीतयः” ॥
एषां प्रत्येकं लक्षणानि लिख्यन्ते । तत्रादौ वाक्य-
लक्षणं यथा, --
“वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः” ॥
रसलक्षणं यथा, --
“विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा ।
रसतामेति रत्यादिः स्थायी भावः सचेतसाम्” ॥
दोषलक्षणं यथा, --
रसापकर्षका दोषास्ते पुनः पञ्चधा मताः ।
पदे तदंशे वाक्यार्थे सम्भवन्ति रसेऽपि यत्” ॥
गुणलक्षणं यथा, --
“रसस्याङ्गित्वमाप्तस्य धर्म्माः शौर्य्यादयो यथा ।
गुणा माधुर्य्यमोजोऽथ प्रसाद इति ते त्रिधा” ॥
अलङ्कारलक्षणं यथा, --
“शब्दार्थयोरस्थिरा ये धर्स्माः शोभातिशायिनः ॥
रसादीनुपकुर्व्वन्तोऽलङ्कारास्तेऽङ्गदादिवत्” ॥
रीतिलक्षणं यथा, --
“पदमंधटनारीतिरङ्गसंस्थाविशेषवत् ।
उपकर्त्री रसादीनां सा पुनः स्याच्चतुर्व्विधा ।
वैदर्मी चाथ गौडी च पाञ्चाली लाटिका तथा” ॥
इति माहित्यदर्पणम् ॥ * ॥ तत् काव्यं त्रिविधं
ध्वनिगुणीभूतव्यङ्ग्यचित्रमेदेन । तत्राद्यास्य लक्षणम् ।
“इदमुत्तममतिशयिनि व्यङ्ग्य वाच्यात् ध्वनिर्बुधैः
कथितः” । हितीयस्य लक्षणम् ।
“अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु सध्यकम्” ॥
तृतीयस्य लक्षणम् ।
“शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्” ।
इति काव्यप्रकाशः ॥
“एतेषां विवरणानि तत्तच्छब्दे द्रष्टव्यानि” ॥

काव्यः, पुं, (कवेः भृगोरपत्यं पुमान् इति “कुर्व्वाद्दिभ्यो

ण्यः” ४ । १ । १५१ । इति ण्यः । यञ् इति केचित् ।)
शुक्राचार्य्यः । इति मेदिनी ॥ (यथा, महाभारते
१ । सम्भवपर्व्वणि ७६ । ६ ।
“जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् ।
पौरहित्येन याज्यत्वे काव्यं तूशनसं परे” ॥
तामसमन्वन्तरीयऋषिविशेषः । यथा, मार्कण्डेये
७४ । ५९ ।
“ज्यीतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा ।
पीबरश्च तथा ब्रहान् सप्त सप्तर्षयोऽभवन्” ॥)

काव्यचौरः, पुं, (काव्यस्य चौर इव । अन्यरचितकावस्य

स्वकीयत्वेन प्रख्यापकत्वात् तस्य तथात्वं बोध्यम् ।)
चन्द्ररेणुः । इति त्रिकाण्डशेषः ॥

काव्या, स्त्री, (कववर्णने स्तुतिगाने च । बाहुलका-

दित्वात् ण्यत् । टाप् च । पूतनाया हि वाक्-
विलासविन्यासादिना नारीणां मनो मोहयित्वा
ताभ्यो शिशूनाकृष्य नाशकारितया तथात्वं बो-
ध्यम् ।) पूतना । बुद्धिः । इति मेदिनी ॥

काश ऋ ङ द्युतौ । कविकल्पद्रुमः ॥ (भ्वां--आत्मं--

अकं--सेट् ।) ऋ अचकाशत् । ङ काशते चन्द्रः ।
दन्त्यान्त इति केचित् । इति दुर्गादासः ॥

काश य उ ऋ ङ द्युतौ । इति कविकल्पद्रुमः ॥ (दिवां--

आत्मं-अकं-सेट् ।) य ङ काश्यते । उ काशित्वा
काष्ट्वा । ऋ अचकाशत् । इति दुर्गादासः ॥

काशः, पुं क्ली, (काशते दीप्यते शोभते इति यावत् ।

काशृ ङ दीप्तौ + पचाद्यच् ।) तृणभेदः । केश्या
इति भाषा । इति मेदिनी ॥ (यथा रघुः ४ । १७ ।
“पुण्डरीकातपत्रस्तं विकसत् काशचामरः ।
ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम्” ॥)
तत्पर्य्यायः ॥ इक्षुगन्धा २ पोटगलः ३ । इत्यमरः ।
२ । ४ । १६२ ॥ कासः ४ । इति भरतः ॥ काशी ।
५ । इति मुकुटादयः ॥ काशा ६ । इति नयना-
नन्दः ॥ वायसेक्षुः ७ काण्डेक्षुः ८ अमरपुष्पकः ९ ।
इति रत्नमाला ॥ काशकः १० वनहासकः ११ ।
इति शब्दरत्नावली ॥ इक्ष्वारिः १२ काकेक्षुः १३
इक्षुरः १४ इक्षुकाण्डः १५ शारदः १६ सित-
पुष्पकः १७ नादेयः १८ दर्भपत्रः १९ लेखनः २०
काण्डकाण्डकः २१ कच्छलकारकः २२ । अस्य
गुणाः । शिशिरत्वम् । गौल्यत्वम् । रुचिकारित्वम् ।
पित्तदाहनाशित्वम् । तृप्तिबलशुक्रकारित्वम् । श्रम-
शोषकफापहत्वञ्च । इति राजनिर्घण्टः ॥ कण्ठक-
ण्डूयनम् । इति शब्दरत्नावली ॥ तत्पर्य्यायगुणाः ।
“काशः काकेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा ।
इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः ॥
काशः म्यान्मधुरस्तिक्तः स्वादुपाके हिमः सरः ।
मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित्” ॥
इति भावप्रकाशः ॥

काशः, पुं, (केन जलेन कफात्मकेन अश्यते व्याप्यते-

ऽत्र । क + अश + अधिकरणे घञ् ।) क्षतम् ।
इति शब्दरत्नावली ॥ स्वनामख्यातरोगविशेषः ।
काशी इति भाषा । इत्यमरटीकायां मरतः ॥ तत्-
पर्य्यायः । क्षवथुः २ काशिका ३ । इति शब्दरत्ना-
वली ॥ कासः ४ । इत्यमरः । २ । ४ । १६१ ॥ कासयति
कुत्सितशब्दं कारयति कासः । कासृङ् कुशब्दे
ञ्यन्तात् पचाद्यन् कासो दन्त्यान्तः । कश शब्दे
इत्यस्मात् ञ्यन्तात् पचाद्यनि काशस्तालव्यान्तश्च ।
शालूरकाशशल्लक्य इत्युष्मभेदे दन्त्यतालव्यान्तमध्ये
पाठात् ।
“वाराणस्यां भवेत् काशी क्षवथौ ना तृणे स्त्रिंया” ।
मिति तालव्यान्तेषु रभसः । इति तट्टीकायां
भरतः ॥ * ॥ तस्य निदानं यथा, --
धन्वन्तरिरुवाच ।
“आशुकारी यतः काशः स एवातः प्रवक्ष्यते ।
पञ्च काशाः स्मृता वातपित्तश्लेप्मक्षतक्षयैः ॥
क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम् ।
तेषां भविष्यतां रुपं कण्ठे कण्डूररोचकः ॥
शूककर्णास्यकण्ठत्वं तत्राधो विहितोऽनिलः ।
ऊर्द्ध्वं प्रवृत्तः प्राप्योरस्तस्मिन् कण्ठे च संसृजन् ॥
शिरः श्रोतांसि संपूर्य्य ततोऽङ्गान्युत्क्षिपन्ति च ।
क्षिपन्निवाक्षिणी पृष्ठमुरः पार्श्वेच पीडयन् ॥
प्रवर्त्तते स वक्त्रेण भिन्नकांस्योपमध्वनिः ।
हृत्पार्श्वोरःशिरःशूलमोहक्षोभस्वरक्षयान् ॥
करोति शुष्ककाशञ्च महावेगरुजा स्वनम् ।
सोऽङ्गहर्षी कफं शुष्कं कृच्छ्रान्मुक्तोऽल्पतां व्रजेत् ॥
पित्तात्तु पीताक्षिकता तिक्तास्यत्वं ज्वरो भ्रमः ।
पित्तासृग्वमनं तृष्णा वैस्वर्य्यं धूमको मदः ॥
प्रततं काशवेगे च ज्योतिषामिव दर्शनम् ।
कफादुरोऽल्परुङ्मूर्द्धहृदयं स्तिमितं गुरु ॥
कण्ठे प्रलेपदमनं पीनसच्छर्द्द्यरोचकः ।
रोमहर्षघनस्निग्धश्लेष्मणश्च प्रवर्द्धनम् ॥
युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ।
उरस्यन्तःक्षितो वायुः पित्ते चानुगतो बली ॥
कुपितः कुरुते काशं कफं तेन सशोणितम् ।
पीतश्यावञ्च शुष्कञ्च ग्रथितं क्वणितं बहु ॥
ष्ठीवेत् कण्ठेन रुजता विभिन्नेनैव चोरसा ।
सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ॥
पर्व्वभेदज्वरश्वासतृष्णावैस्वर्य्यकम्पवान् ।
पारावत इवोत्कूजन् पार्श्वशूली ततोऽस्य च
कफाद्यैर्वमनं पक्तिर्बलं वर्णश्च हीयते ।
क्षीणस्य सासृङ्मूत्रत्व श्याबपृष्ठकटीग्रहः ॥
वायप्रधानाः कुपिता धातवो राजयक्ष्मणः ।
कुर्व्वन्ति यक्ष्मायतनैः काशं ष्ठीवेत् कफं ततः ॥
पूतिपूयोपमं पीतं विस्रं हरितलोहितम् ।
लुष्यते तुद्यत इव हृदयं पचतीव च ॥
अकस्मादुष्णं शीतेच्छा बह्वाशित्वं बलक्षयः ।
स्निग्धप्रसन्नवक्त्रत्वं श्रीमद्दर्शननेत्रता ॥
ततोऽस्य क्षयरूपाणि सर्व्वाण्याविर्भवन्ति च ।
इत्थेवं क्षयजः काशः क्षीणानां देहनाशनः ॥
याप्यो वा बलिनां तद्वत् क्षतजोऽपि नवौ च तौ ।
सिथ्येतामपि सामर्थ्यात् साध्यादौ च पृथक्क्रमः ॥
मिश्रायाप्याशु ये सर्व्वे जरसः स्थविरस्य च ।
पृष्ठ २/११७
:काशश्वासक्षयच्छर्द्दिस्वरसादादयो गदाः ॥
भवन्त्युपेक्षया यस्मात् तस्मात्तं त्वरया जयेत् ।
इति गारुडे काशरोगनिदानं १५४ अध्यायः ॥ * ॥
अथ काशस्य चिकित्सा ।
तत्र वातकाशस्य चिकित्सा ॥
“वास्तूको वायसीशाकं मूलकं सुनिषण्णकम् ।
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ॥
दध्यारणालाम्लफलं प्रसन्नापानमेव च ।
शस्यते वातकाशेषु स्वाद्वम्ललवणानि च ॥
वायसी काकमाची कवई इति लोके । सुनिषण्णकं
सिनुयारि इति लोके शाकविशेषः । चाङ्गेरी-
सदृशचतुष्पत्रा सजलदेशे भवति । चौपति इति
लोके ॥
“ग्राग्यानूपोदकैः शालियवगोधूमषष्टिकान् ।
रसैर्म्माषात्मगुप्तानां यूषैर्व्वा भोजयेद्धितान्” ॥
ग्राम्यानूपोदकैः रसैरित्यन्वयः । आत्मगुप्ता कि-
वाच्छ इति लोके ॥
“दशमूलीकृता काशश्वासहिक्कारुजापहा ।
यवागूर्दीपनी वृष्या वातरोगविनाशिनी ॥
रसः कर्क्कटकानां वा घृतभृष्टः स नागरः ।
वातकाशप्रशमनः शृङ्गिमत्स्यस्य वा पुनः” ॥ * ॥
अथ पित्तकाशस्य चिकित्सा ।
“कण्टकारीयुगद्राक्षावासाकर्चूरवालकैः ।
नागरेण च पिप्पल्या क्वथितं सलिलं पिबेत् ॥
शर्करामधुसंयुक्तं पित्तकाशहरं परम्” ॥ * ॥
अथ कफकाशस्य चिकित्सा ।
“पिप्पली कट्फलं शुण्ठी शृङ्गी भार्गी तथोषणम् ।
कारवी कण्टकारी च सिन्धुवारो यवानिका ॥
चित्रको वासकश्चैषां कषायं विधिवत् कृतम् ।
कफकाशविनाशाय पिबेत् कृष्णारजोयुतम्” ॥
पिप्पल्यादिक्वाथः ॥ * ॥
अथ क्षतजकाशस्य चिकित्सा ।
“इक्ष्विक्षुरालिकापद्ममृणालोत्पलचन्दनम् ।
मधुकं पिप्पली द्राक्षा लाक्षा शृङ्गी शतावरी ॥
द्विगुणा च तुगाक्षीरी सिता सर्व्वचतुर्गुणा ।
लिह्यात्तन्मधुसर्पिर्भ्यां क्षतकाशनिवृत्तये” ॥
इक्षुरालिका इक्षुभेदः । चन्द्र इति लोके । पद्मं
पद्मकाष्ठम् । मृणालं विशम् । उत्पलं कमलम् ।
चन्दनमत्र धवलम् चूर्णत्वात् । शृङ्गी कर्कट-
शृङ्गी । तुगाक्षीरी वंशलोचना । सा चेक्षोर्द्वि-
गुणा ॥ * ॥ अथ क्षयकाशचिकित्सा । “चूर्णं काकु-
भमिष्टं वासकरसभावितं बहून् वारान् । मधु-
घृतसितोपलाभिर्लेह्यं क्षयकाशरक्तपित्तहरम्” ॥
काकुभं चूर्णं ककुभत्वक्चूर्णम् ॥ * ॥
अथ काशस्य सामान्यतश्चिकित्सा ।
“ताम्यमानस्य काशेन नासास्रावे स्वरे जडे ।
क्षवथौ गन्धनाशे च धूमपानं प्रयोजयेत् ॥
मनःशिलालमरिचं मांसीमुस्तेङ्गुदैः पिबेत् ।
धूमं त्र्यहं च तस्यानु पयश्च सगुडं पिबेत् ॥
एष काशान् पृथक् द्वन्द्वसर्व्वदोषसमुद्भवान् ।
शतैरपि प्रयोगाणामसाध्यान् साधयेत् ध्रुवम्” ॥
आलं हरितालम् ॥ इङ्गुदमिह पुत्त्रजीवकफलम् ॥
“बदरीदलमालिप्तं शिलाया घर्म्मशोषितम् ।
तद्धूमपानं सक्षीरं महाकाशनिवारणम् ॥
कण्टकारिकृतक्वाथः सकृष्णः सर्व्वकाशहा ।
कण्टकार्य्याः कणायाश्च चूर्णं समधु काशहृत् ॥
लवङ्गजातीफलपिप्पलीनां
भागान् प्रकल्प्याक्षसमानमीषाम् ।
पलार्द्धमानं मरिचं प्रदेयं
प्रलानि चत्वारि महौषधस्य ॥
सितासमस्तेन समाप्य चूर्णं
रोगानिमानाशु बलान्निहन्ति ।
काशज्वरारोचकमेहगुल्म-
श्वासाग्निमान्द्यग्रहणीविकारान्” ॥
समशर्करचूर्णं वटिका वा ॥
“कुनटीसैन्धवव्योषविडङ्गामयहिङ्गुभिः ।
लेहः साज्यमधुः काशश्वासहिक्कानिवारणः” ॥ * ॥
“हरीतकीकणा शुण्ठी मरिचं गुडसंयुतम् ।
काशघ्नो मोदकः प्रोक्तः परं वह्नेः प्रदीपनः” ॥ * ॥
“कर्षः कर्षाशौ पलं पलद्वयं स्यात्ततोऽर्द्धकर्षश्च ।
मरिचस्य पिप्पलीनां दाडिमगुडयावशूकानाम्” ॥
सर्व्वौषधैरसाध्याः काशा ये वैद्यनिर्म्मुक्ताः ।
अपि यूयं छर्द्दयतां तेषामिदमौषधम्” ॥
पथ्यम् ॥ वङ्गसेनस्तु कर्षांश इति पाठे कर्षांशः
कर्षार्द्धमिति व्याचष्टे ॥
“मरिचं कर्षमात्रं स्यात् पिप्पली कर्षसंमिता ।
अर्द्धकर्षो यवक्षारः कर्षयुग्मञ्च दाडिमम् ॥
एतच्चूर्णीकृतं युञ्ज्यादष्टकर्षगुडेन हि ।
शाणप्रमाणं गुटिकां कृत्वा वक्त्रे विधारयेत् ॥
अस्याः प्रभावात् सर्व्वेऽपि कासा यान्त्येव संक्षयम्” ॥
दाडिमं दाडिमफलवल्कलं ग्राह्यम् । मरिचादि-
वटिका ॥ * ॥
“समूलवल्कच्छदकण्टकार्य्या-
स्तुलां ततो द्रोणमितं जलञ्च ।
हरीतकीनां शतमेकपात्रे
विपच्य कुर्य्याच्चरणाम्बुशेषम् ॥
तस्मिन् कषाये तनुवस्त्रपूते
हरीतकीभिः सहितो गुडस्य ।
तुलां विनिःक्षिप्य पचेत् सुपक्व-
मेतत् समुत्तार्य्य सुर्शीतले च ॥
पलं पलञ्चापि कटुत्रयञ्च
तथा चतुर्जातपलं विचूर्ण्य ।
पलानि षट् पुष्परसस्य चापि
विनिःक्षिपेत्तत्र विमिश्रयेच्च ॥
प्रयुज्यमानो विधिनष लेहो
यथाबलञ्चापि यथानलञ्च ।
वातात्मकं पित्तकृतं कफोत्थं
द्विदोषजातानपि च त्रिदोषम् ॥
क्षतोद्भवञ्च क्षयजञ्च काशं
श्वासञ्च हन्यात् सह पीनसेन ।
यक्ष्माणमेकादशमुग्ररूपं
हरीतकीयं भृगणोपदिष्टा” ॥
पुष्परसो मधु । चतुर्जातं त्वगेलापत्रनागकेशराः ।
भृगुहरीतकी ॥ * ॥
“कण्टकारीतुलां नीरद्रीणे पक्त्वा कषायकम् ।
पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ॥
पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः ।
मुस्तं कर्कटशृङ्गी च त्र्युषणं धन्वयासकः ॥
भार्गी रास्ना सटी चैव शर्करा पलविंशतिः ।
प्रत्येकञ्च पलान्यष्टौ प्रदद्यात् घृततैलयोः ॥
पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम् ।
चतुष्पलं तुगाक्षीर्य्याः पिप्पलीञ्च चतुष्पलाम् ॥
क्षिप्त्वा निदध्यात् सुदृढे मृण्मये भाजने शुभे ।
लेहोऽयं हन्ति हिक्कार्त्तिकासश्वासानशेषतः” ॥
कण्टकार्य्यावलेहः । इति कासाधिकारः । इति
भावप्रकाशः ॥ * ॥ अपि च ।
“हरीतकीकणा शुण्ठी मरिचं गुडसंयुतम् ।
काशघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे ।
प्रस्थसिद्धो घृताद्वातकाशनुद्दह्निदीपनः” ॥
इति गारुडे १७४ अध्यायः ॥
“मनःशिला बलापूलं काकपर्णञ्च गुग्गुलुम् ।
जातिपत्रं कोलिपत्रं तथा चैव मनःशिला ॥
एभिश्चैव कृता वर्त्तिर्बदराग्नौ महेश्वर ! ।
धूमपानं काशहरं नात्र कार्य्या विचारणा” ॥
इति च गारुडे १९४ अध्यायः ॥
“कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा ।
फेनोरसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ।
एषां वर्त्तिर्हन्ति काशं तिमिरं पटलं यथा” ॥
इति तत्रैव १९८ अध्यायः ॥
“अभयामलकं द्राक्षा पिप्पली कण्टकारिका ।
शृङ्गं पुनर्नवा शुण्ठी जग्धा काशं निहन्ति वै” ॥
इति च तत्रैव १९९ अध्यायः ॥

काशकः, पुं, (काशते दीप्यते इति । काश + कर्त्तरि

ण्वुल् ।) काशः । इति शब्दरत्नावली ॥ केश्या
इति भाषा ॥

काशमर्द्दः, पुं, (काशं मृद्गाति उपशमयति नाश-

यति वा । मृद् + “कर्म्मण्यण्” । ३ । २ । १ ।
इति अण् ।) कासमर्द्दवृक्षः । इत्यमरटीकायां
रायमुकुटः ॥ (कासमर्द्दशब्दे ऽस्य गुणाः पर्य्या-
याश्च ज्ञेयाः ॥)

काशा, स्त्री, (काशते इति । काश + अच् + टाप् ।)

काशतृणम् । इत्यमर-टीकायां भरतः ॥

काशाल्मलिः, स्त्री, (कुत्सिता शाल्मलिः । कोः

कादेशः ।) कूटशाल्मलिः । इति जटाधरः ॥

काशिः, स्त्री, (काश् + “सर्व्वधातुभ्य इन्” । उणां

४ । ११७ । इति इन् ।) काशी । इत्युणादिकोषः ॥
(यथा हेः रामायणे १ । १३ । २३ ।
“तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् ।
सद्वृत्तं देवसङ्काशं स्वयमेवानयस्व हि” ॥)
काशिनगरोपलक्षिते जनपदे पुंभूम्नि ।
यथा महाभारते ६ । ९ । ४१ ।
“अत ऊर्द्धं जनपदान्निबोध गदतो मम” ।
“बोधा मव्राः कलिङ्गाश्च काशयो परकाशयः” ॥
मुष्टिः । इति निरुक्तिः । यथा ऋग्वेदे ७ । १०४
। ८ । “आप इव काशिना संगृभीतो असन्नस्त्वा-
सत इन्द्र वक्ता” ॥ “काशिना मुष्टिना” इति
भाष्यम् ॥) सूर्य्ये पुं । इति जुमरव्याकरणम् ॥