शब्दकल्पद्रुमः/कदम्बकः

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ २/०१८

कदम्बकः, पुं, (कदम्ब इव कायति प्रकाशते । हरिद्रा

पोतवर्णत्वात् कदम्बकोरकोपरिस्थितसूक्ष्मांश-
तुल्यफलत्वाच्च सर्षपस्यापि तथात्वम् । वृक्षे तु
कदम्ब एव स्वार्थे कन् ।) सर्षपः । हरिद्रुः । इति
राजनिर्घण्टः ॥ कदम्बवृक्षः । इति शब्दरत्नावली ॥

कदम्बदः, पुं, (कदम्बः कदम्बस्योपरिस्थः सूक्ष्मांश-

इव दीयतेऽसौ । कदम्ब + दो खण्डने + कर्म्मणि
+ घञर्थे कः । सर्षपस्य कदम्बकोरकोपरिस्थ-
सूक्ष्मांशतुल्यफलत्वात् तथात्वम् ।) सर्षपः । इति
शब्दचन्द्रिका ॥

कदम्बपुष्पा, स्त्री, (कदम्बस्येव पुष्पमस्त्यस्याः । अर्श

आदित्वात् अच् ततष्टाप् ।) मुण्डितिकावृक्षः । इति
रत्नमाला । मुण्डिरी इति भाषा ॥ (विशेषोऽस्या
मुण्डितिकाशब्दे ज्ञातव्यः ॥)

कदम्बपुष्पी, स्त्री, (कदम्बपुष्पमिव पुष्पमस्याः । कदम्ब-

पुष्प + ङीप् ।) महाश्रावणिकावृक्षः । इति राज-
निर्घण्टः शब्दचन्द्रिका च । मुण्डिरी इति भाषा ॥

कदम्बी, स्त्री, (कद् + करणे अम्बच् गौरादित्वात्

ङीष् ।) देवदालीलता । इति राजनिर्घण्टः ॥ (देव-
दालीशब्देगुणादयोऽस्या ज्ञातव्याः ॥)

कदरं, क्ली, (कं जलं दृणाति दारयति नाशयतीत्यर्थः ।

क + दॄ + अच् ।) पायसभेदः । इति शब्दमाला ॥

कदरः, पुं, (कं जलं दृणाति श्लेष्मणा संहतजलं नाश-

यतीत्यर्थः । क + दॄ + अच् ।) श्वेतखदिरः । काँटा
वावला इति भाषा । तत्पर्य्यायः । सोमवल्कः २ ।
इत्यमरः । २ । ४ । ४० ॥ ब्रह्मशल्यः ३ खदिरोपमः
४ । इति रत्नमाला ॥ (श्वेतसारः ५ । खदिरः ६ ।
सोमवल्कलः ७ । इति भावप्रकाशः ॥
गुणानाह तत्रैव ।
“कदरो विशदो वर्ण्यो मुखरोगकफास्रजित्” ॥
व्यवहारो यथा, चरके ।
“तिन्दुकपियालवदरकदरखदिरसप्तपर्णाश्चकर्णा-
र्ज्जुनासनारिमेदा इति दशेमान्युदर्द्दप्रशमनानि
भवन्ति” ॥) क्रकचः । करात् इति भाषा ॥ व्याधि-
भेदः । इति मेदिनी ॥ कडा जामुडा इति भाषा ॥
तस्य लक्षणम् । यथा निदाने ।
“शर्करोन्मथिते पादे क्षते वा कण्टकादितः ।
ग्रन्थिः कोलवदुत्पन्नो जायते कदरस्तु सः” ॥
(“शर्करोन्मथिते पादे क्षते वा कण्टकादिभिः ।
मेदोरक्तानुगैश्चैव दोषैर्वा जायते नृणाम् ॥
सकोलः कठिनो ग्रन्थिर्निम्नमध्योन्नतोपि वा ।
कोलमात्रः सरुक्स्रावी जायते कदरस्तु सः” ॥
इति सुश्रुतः ॥) तच्चिकित्सा यथा भावप्रकाशे ॥
“दहेत् कदरमुद्धृत्य तैलेन दहनेन वा” ॥
अङ्कुशः । इति हारावली ॥

कदर्य्यः, त्रि, (कुसितोऽर्य्यः स्वामी ॥ कुगतीति-

समामः ।) क्षुद्रः । कृपणः । इत्यमरः । ३ । १ । ४८ ॥
“आत्मानं धर्म्मकृत्यञ्च पुत्त्रदारांश्च पीडयन् ।
यो लोभात् मञ्चिनोत्यर्थान् स कदर्य्य इति स्मृतः” ॥
इति स्मृतिः ॥ (तथा, छान्दोग्योपनिषदि । ५ । ११ ।
५ । “तेभ्योऽप्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार
सहप्रातः सञ्जिहान उवाच नमेस्तेनो जनपदे न
कदर्य्यो न मद्यपो नानाहिताग्नि र्नाविद्वानिति” ॥)

कदलः, पुं, (कद + वृषादित्वात् कलच् ।) कदली-

वृक्षः । पृश्नीलता । इति मेदिनी ॥
(यथा, अमरुशतके । ९५ ।
“ऊरुद्वयं मृगदृशः कदलस्य काण्डौ
मध्यञ्च वेणिरतुलं स्तनयुग्ममस्याः” ॥)

कदलकः, पुं, (कदल + स्वार्थे कन् ।) कदलीवृक्षः ।

इति शब्दरत्नावली ॥

कदला, स्त्री, (कदल + टाप् ।) पृश्नी । चाकुलिया

इति भाषा । डिम्बिका । शाल्मलीवृक्षः । इति
मेदिनी ॥

कदली, स्त्री, (कदल + गौरादित्वात् ङीष् । यद्वा

काय जलाय दल्यते त्वगस्य गौरादित्वात् ङीष् ।)
स्वनामप्रसिद्धौषधिविशेषः । कला इति भाषा ।
तत्पर्य्यायः । वारणवुसा २ रम्भा ३ मोचा ४
अंशुमत्फला ५ काष्ठीला ६ । इत्यमरः ॥ कदलः
७ वारणवुषा ८ वारवुषा ९ । इति तट्टीका ॥
सुफला १० सुकुमारा ११ सकृत्फला १२ गुच्छ-
फला १३ हस्तिविषाणी १४ गुच्छदन्तिका १५
निःसारा १६ राजेष्टा १७ बालकप्रिया १८ ऊरु-
स्तम्भा १९ भानुफला २० वनलक्ष्मीः २१ । कदलकः
२२ मोचकः २३ रोचकः २४ लोचकः २५ वारवृषा
२६ । इति शब्दरत्नावली ॥ वारणवल्लभा २७
चर्म्मण्वती २८ । इति जटाधरः ॥ (यथा, महा-
भारते २ । दूतपर्ब्बणि ६६ । १२ ।
“कदलीशुण्डसदृशं सर्व्वलक्षणसंयुतम् ।
गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्” ॥)
अस्याः पक्वफलगुणः । कषायत्वम् । मधुरत्वम् ।
शीतलत्वम् । पित्तास्रविमर्द्दनत्वम् । गुरुतरत्वम् ।
मन्दानले अपथ्यत्वम् । सद्यः शुक्रविबर्द्धनत्वम् ।
क्लमतृष्णाहरत्वम् । कान्तिदातृत्वम् । दीप्ताग्नौ
सुखदत्वम् । कफामयकरत्वम् । सन्तर्पणत्वम् ।
दुर्ज्जरत्वञ्च ॥ * ॥ (यथा हारीते ।
“हृद्यं मनोज्ञं कफवृद्धिकारि
शीतञ्च सन्तर्पणमेव बल्यम् ।
रक्तं सपित्तं श्वसनञ्चदाहं
रम्भाफलञ्चापि नरस्य हन्ति ॥
अपक्वकं ग्राहि च शीतलञ्च
कषायकं वातकफं करोति ।
विष्टम्भि बल्यं गुरु दुर्ज्जरञ्च
आरण्यरम्भाफलमेव तद्वत्” ॥)
मोचकगुणाः । हृद्यत्वम् । कफकृमिनाशित्वम् ।
कुष्ठप्लीहज्वरहरत्वम् । अग्निदीपनत्वम् । वस्ति-
शोधनत्वञ्च ॥ * ॥
(“मोचाफलं स्वादु शीतं विष्टम्भि कफनुद्गुरु ।
स्निग्धं पित्तास्रतृड्दाहक्षतक्षयसमीरजित् ॥
पक्वं स्वादु हिमं पाके स्वादु वृश्यञ्च वृंहणम् ।
क्षुत्तृष्णानेत्रगदहृन्मेहघ्नं रुचिमांसकृत्” ॥
इति भावप्रकाशः ॥ कदली पुष्पगुणांश्चाह ॥
“कदल्याः कुसुमं स्निग्धं मधुरन्तुवरं गुरु ।
वातपित्तहरं शीतं रक्तपित्तक्षयप्रनुत्” ॥)
अस्या मूलगुणाः । बलकारित्वम् । वातपित्त-
नाशित्वम् । गुरुत्वञ्च ॥ * ॥
“माणिक्यमर्त्त्यामृतचम्पकाद्या
भेदाः कदल्या बहवोऽपि सन्ति ।
उक्ता गुणास्तेष्वधिका भवन्ति
निर्द्दोषता स्याल्लघुता च तेषाम्” ॥
इति राजनिर्घण्टः ॥ * ॥ चम्पकाख्यकदली-
फलगुणाः । वातपित्तहरत्वम् । गुरुत्वम् । शुक्र-
वृद्धिकारित्वम् । अतिशीतलत्वम् । रसे पाके
मधुरत्वञ्च । दुग्धदधितक्रतालयुक्तं कदलं दुर्ज्जरम् ।
इति राजवल्लभः ॥ * ॥ हरिणविशेषः । पताका ।
इति मेदिनी ॥ करिवैजयन्ती । इति हंलायुधः ॥
हातिर उपरेर निशान इति भाषा ॥

कदा, व्य, (किम् + काले दा । “सर्व्वैकान्यकिंयत्तदः-

काले दा” । ५ । ३ । १५ ।) कस्मिन् काले ।
इति व्याकरणम् ॥ कवे कखन इति भाषा ॥ (यथा,
ऋग्वेदे १ । ८४ । ८ । “कदा नः शुश्रवद्गिर इन्द्रो
अङ्ग” ॥ तथा हितोपदेशे । १ । १२२ ।
“जातिद्रव्यबलानाञ्च साम्यमेषां मया सह ।
मत्प्रमुत्वफलं ब्रूहि कदा किन्तद्भविष्यति” ॥)

कदाकारः, पुं, (कुत्सितः आकारः । नैवात्र बहु-

ब्रीहिः निपिद्धत्वात् । यथा, “कोः कत्तत्पुरुष-
ऽचि” । ६ । ३ । १०१ ।) कुत्सिताकारः ॥ (कुत्सि-
ताकारविशिष्टे, त्रि ॥)

कदाख्यं, क्ली, (कुत्सिता आख्या नाम यस्य ।) कुष्ठवृक्षः ।

कुड् इति भाषा । तत्पर्य्यायः । कौबेरम् २ दुष्टम्
३ व्याप्यम् ४ । इति शब्दचन्द्रिका ॥

कदाचन, व्य, (कदा + अनिर्द्धारिते चनप्रत्ययः ।)

कस्मिन् काले । इति व्याकरणम् । कोन समये
इति भाषा । (यथा, मनुः । २ । ५८ ।
“ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
कालत्रैदशिकाभ्यां वा न पित्र्येण कदाचन” ॥)

कदाचित्, व्य, (कदा + अनिर्द्धारिते चित् ।) कस्मिं-

श्चित् काले । तत्पर्य्यायः । जातु २ । इत्यमरः ।
३ । ४ । ४ ॥ कर्हिचित् ३ । इति हेमचन्द्रः ॥
(यथा, मनुः । ४ । ७४ ।
“नाक्षैः क्रीडेत् कदाचित्तु स्वयं नोपानहौ हरेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं नचासने” ॥)

कदुष्णं, क्लो, (कद् ईषत् उष्णं ईषदर्थे कीः “कव-

ञ्चोष्णे” ६ । ३ । १०७ । चकारात् । कदादेशः ।)
ईषदुष्णम् । तत्पर्य्यायः । कोष्णम् २ कवोष्णम्
३ मन्दोष्णम् ४ । (यथा भट्टिः । ३ । १८ ।
“ससीतयोराघवयोरधीयन्
श्वसन् कदुष्णं पुरमाविवेश” ॥)
तद्वति त्रि । इत्यमरः । १ । ४ । ३५ ॥

कद्ड कार्कश्ये । (भ्वां--परं--अकं--सेट् ।) तवर्गतृतोयो-

पधः । क्विपि संयोगान्तलोपे कद् इति । कड्डति
पद्ममृणालं कर्कशं स्यादित्यर्थः । इति दुर्गादासः ॥

कद्रथः, पुं, (कुत्सितः रथः । कोः कदादेशः ।

“रथवदयोश्च” । ६ । ३ । १०२ ।) कुत्सितरथः ।
इति व्याकरणम् ॥ (यथा, भट्टिः ५ । १०३ ।
पृष्ठ २/०१९
:“युधिकद्रथवद्भीमं वभञ्ज ध्वजशालिनग्” ॥)

कद्रुः, पुं, (कद् + रुः ।) पिङ्गलवर्णः । तद्वति त्रि ।

इत्यमरः । १ । ५ । १६ ॥

कद्रुः, स्त्री, (कद् + रुः । यद्वा मृगष्वादित्वात् साधुः ।)

नागमाता । इति मेदिनी ॥ सा तु दक्षकन्या
कश्यपपत्नी च । इति पुराणम् ॥ (यथा, रामा-
यणम् । ३ । २० । २९ ।
“रोहिण्यां जज्ञिरे गावो गन्धर्व्यां वाजिनस्तथा ।
सुरसाऽजनयन्नागान् राम ! कद्रुश्च पग्नगान्” ॥)

कद्रुपुत्त्रः, पुं, (कद्रोः पुत्त्रः ।) नागः । इति शब्दचन्द्रिका ॥

कद्रुसुतः, पुं, (कद्रोः सुतः ।) नागः । तत्पर्य्यायः ।

काद्रवेयः २ । इति शब्दरत्नावली ॥ कञ्चुकालुः ३
कद्रुपुत्त्रः ४ । इति शब्दचन्द्रिका ॥

कद्वदः, त्रि, (कुत्सितं वदति यः । वदेः पचाद्यच् ।

कुत्सितः वदः इति वा “रथवदयोश्च” । ६ । २ ।
१०२ । इति कदादेशः ।) कुत्सितवक्ता । तत्प-
र्य्यायः । गर्ह्यवादी २ । इत्यमरः । ३ । १ । ३७ ॥
दुर्व्वाक् ३ । अतिकुत्सितः । इति हेमचन्द्रः ॥
(यथा, भट्टिः ६ । ७५ ।
“सर्व्वत्र दयिताधीनं सुव्यक्तं रामणीयकम् ।
येन जातं प्रियापाये कद्वदं हंसकोकिलम्” ॥)

कन, ई ञि प्रीतौ । गतौ । द्युतौ । इति कविकल्पद्र-

मः ॥ (भ्वां--परं--अकं--सकं च--सेट् ईदित् ।)
ई ञि कान्तोऽस्ति । इति दुर्गादासः ॥

कनकं, क्ली, (कनति दीप्यते इति । कनी दीप्तौ +

कृञादिभ्यो वुन् ।) स्वर्णम् । इत्यमरः । २ । ९ ।
९४ ॥ (यथा, मेघदूते । २ ।
“तस्मिन्नद्रौ कतिचिदबला विप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः” ॥)

कनकः, पुं, (कनति दीप्यते यः । कनी दीप्तौ + कृञा-

दिभ्यो वुन् ।) पलाशवृक्षः । नागकेशरवृक्षः ।
धूस्तूरवृक्षः । (यथा, इन्द्रजालतन्त्रे ।
“कपालं मानुषं गृह्य कनकस्य फलानि च” ॥)
काञ्चनालवृक्षः । कालीयवृक्षः । चम्पकवृक्षः । इति
मेदिनी ॥ कासमर्द्दवृक्षः । कणगुग्गुलुवृक्षः । इति
राजनिर्घण्टः ॥ लाक्षातरुः । इति शब्दमाला ॥
(शिवः । यथा, महाभारते । १३ । १७ । ९२ ।
“उपकारः प्रियः सर्व्वः कनकः काञ्चनच्छविः” ॥
यदुवंशीयस्य दुर्द्दमस्य पुत्त्रः ।
यथा, हरिवंशे ३३ । ६ ।
“दुर्द्दमस्य सुतो धीमान् कनको नाम नामतः” ॥)

कनकक्षारः, पुं, (कनकस्य द्रावणार्थं क्षारः ।) टङ्कणः ।

इति राजनिर्घण्टः । सोवागा इति भाषा ॥ (टङ्गण-
शब्देऽस्य गुणा व्याख्येयाः ॥)

कणकदण्डकं, क्ली, (कनकस्य कनकनिम्भितो वा

दण्डः यत्र । कप् स्वार्थे कन् वा ।) राजच्छत्रम् ।
इति त्रिकाण्डशेषः ॥

कनकपलः, पुं, (कनकस्य कर्षचतुष्टयरूपपलं तत्परि-

माणम् ।) पलपरिमाणम् । तत्तु सुवर्णादिपरि-
माणकषोडशमाषकम् । तत्पर्य्यायः । कुरुविस्तः २ ।
इति हारावली ॥ (कनकमिव पलं मांसमस्य इति
व्युत्पत्त्या मत्स्यविशेषः ॥)

कनकप्रभा, स्त्री, (कनकस्य प्रभेव प्रभा यस्याः ।)

महाज्योतिष्मती । इति राजनिर्घण्टः ॥ (स्वनाम-
ख्यातो ञ्वरातीसाररोगस्यौषधविशेषो यथा ।
“सुवर्णवीजं मरिचं विराल-
पदं कणा टङ्गणकं विषञ्च ।
गन्धं जयाद्भिस्त्रिदिनं विमर्द्द्य
गुञ्जा प्रमाणा वटिका विधेया ॥
रक्तातिसारग्रहणीज्वराग्नि-
मान्द्यादि हन्यात् कनकप्रभेयम् ।
दध्योदनं भोज्यमनुष्णवारि-
मांसं भजेत्तित्तिरिलावकानाम्” ॥
इति वैद्यकरसेन्द्रसारसंग्रहः ॥ * ॥)

कनकप्रसवा, स्त्री, (कनकवत् प्रसवः पुष्पं यस्याः ।)

स्वर्णकेतकी । इति राजनिर्घण्टः ॥

कनकरम्भा, स्त्री, (कनकवर्णवत् रम्भा । यद्वा कनक-

वर्णफणिनी रम्भा ।) सुवर्णकदली । इति राज-
निर्घण्टः ॥

कनकरसः पुं, (कनकवर्णो रसः ।) हरितालम् । इति

राजनिर्घण्टः ॥ (“कतमोऽयं पूर्ब्बापरसमुद्रावगाढः
कनकरसनिस्यन्दी सान्ध्य इव मेघपरिघः सानु-
मानालोक्यते” । इति शाकुन्तले ७ अङ्के ॥)

कनकलोद्भवः, पुं, (कनति दीप्यते इति । कना दीप्ता

कला अवयवः तया उद्भवतीति । कनकला + उद्
+ भू + अच् ।) रालः । इति राजनिर्घण्टः । धुना
इति भाषा ॥

कनकाचलः, पुं, (कनकमयो अचलः पर्ब्बतः ।) अस्ता-

चलः । सुमेरुपर्ब्बतः । इति सिद्धान्तशिरोमणिः ॥
दानविशेषः । इति स्मृतिः ॥
(अस्य परिमाणमुक्तं ब्रह्माण्डपुराणे यथा, --
“अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् ।
यस्य प्रसादाद्भवनं विरिञ्चेर्याति मानवः ॥
उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः ।
तदर्द्धेनाधरस्तद्वत् अल्पवित्तोऽपि शक्तितः ॥
दद्यादेकपलादूर्द्धं यथा शक्त्या विमत्सरः ।
धान्यपर्ब्बतवत् सर्व्वं विदध्यात् विधिमुत्तमम्
विष्कम्भशैलास्तद्वच्च ॠत्विग्भ्यः प्रतिपादयेत्” ॥)

कनकाध्यक्षः, पुं, (कनकस्य रक्षणे अध्यक्षः मध्यपद-

लोपः ।) सुवर्णरक्षकः । तत्पर्य्यायः । भौरिकः २ ।
इत्यमरः । २ । ८ । ७ ॥

कनकारकः, पुं, (कनकं दीप्तस्वर्णदीप्तिमिव सर्व्वतो

ऋच्छति व्याप्नोतीति । कनक + ऋ + अण् ।
स्वार्थे + कन् ।) कोविदारवृक्षः । इति राज-
निर्घण्टः ॥ (कोविदारशब्देऽस्य गुणादिकं ज्ञात-
व्यम् ॥)

कनकालुका, स्त्री, (कनकनिर्म्मित आलुः । सलि-

लाद्याधारपात्रविशेषः संज्ञायां कन् टाप् च ।)
स्वर्णकलसः । तत्पर्य्यायः । भृङ्गारः २ । इत्यमरः ।
२ । ८ । ३२ ॥

कनकाह्वं, क्ली, (कनकस्याह्वा नाम यस्य ।) नागकेश-

रपुष्पम् । इति राजनिर्घण्टः ॥ (नागकेशरशब्दे-
ऽस्य विशेषो द्रष्टव्यः ॥)

कनकाह्वयः, पुं, (कनकं आह्वयोऽस्य । कनकमाह्वयते

स्पर्द्धते वा । कनक + आ + ह्वे + कः ।) धुस्तूर-
वृक्षः । इत्यमरः । २ । ४ । ७७ ॥ नागकेशरवृक्षः ।
इति शब्दचन्द्रिका ॥

कननः, त्रि, (कन् + युच् ।) काणः । इति हेमचन्द्रः ॥

कनिष्ठः, त्रि, (अतिशयेन युवा अल्पो वा । इष्टन् ।

कनादेशश्च ।) अतियुवा । अल्पः । पश्चाज्जातः ।
तत्पर्य्यायः । जघन्यजः २ यवीयान् ३ अवरजः ४
अनुजः ५ । इत्यमरः । २ । ६ । ४३ ॥ कनीयान् ६
कन्यसः ७ यविष्ठः ८ । इति तट्टीकासारसुन्दरी ॥
(यथा, मनुः । ९ । ११३ ।
“ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् ।
येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान्मध्यमं धनम्” ॥
शिवः । यथा, महाभारते । १३ । १७ । १३१ ।
“पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः” ॥)

कनिष्ठकं, क्ली, (कनिष्ठमिव कायति प्रकाशते । कनि-

ष्ठ + कै + कः ।) शूकतृणम् । इति राजनिर्घण्टः ॥

कनिष्ठा, स्त्री, (कनिष्ठ + ङीषादिकं बाधित्वा

अजादित्वात् टाप् ।) दुर्बलाङ्गुलिः । इत्यमरमेदि-
नीकरौ ॥ कडे आङ्गुल इति भाषा । (यथा, रामा-
यणे ३ । ४१ । ७ ।
“कनिष्ठायामप्यङ्गुल्यां भ्रादुर्म्मम स राक्षसः ।
दुःखं कर्त्तुमपर्य्याप्तो देवि ! कस्माद्विषीदसि” ॥)
धीरादितिसृणां द्विधाभेदान्तर्गतनायिकाविशेषः ।
अस्या लक्षणम् । परिणीतत्वे सति भर्त्तुर्न्यूनस्नेहा
इति रसमञ्जरी ॥ (त्रि, मनुः ९ । १२२ ॥
पुत्त्रः कनिष्ठो ज्येष्ठायां कनिष्ठायाञ्च पूर्ब्बजः” ।
“यदि प्रथमोढायां कनीयान् पुत्त्रो जातः पश्चा-
दूढायाञ्च ज्येष्ठः” ॥ इति कुल्लूकभट्टः ॥)

कनी, स्त्री, (कन + अच् + गौरादित्वात् ङीष् ।)

कन्या । इति हेमचन्द्रः ॥

कनीचिः, स्त्री, (कन् + बाहुलकात् इचि प्रत्ययः ।

पृषोदरादित्वात् दीर्घश्च ।) गुञ्जा । इति शब्दरत्ना-
वली ॥ कुँच् इति भाषा ॥ पुष्पयुक्तलता । शकटः ।
इत्युणादिकोषः ॥ मूर्द्धन्यणमध्योऽपि पाठः ॥

कनीनिका, स्त्री, (कन् + ईन् । संज्ञाया कन् ।

ततष्टाप् + अत इत्वम् ।) चक्षुस्तारा । कनिष्ठा
ङ्गुलिः । इति मेदिनी ॥

कनीनी, स्त्री, (कन् + ईन् ततो ङीष् ।) कनिष्ठा-

ङ्गुलिः । इत्यमरटीका ॥

कनीयसं, क्ली, (कन् दीप्तौ + अच् । कनः सूर्य्यः

तस्येदम् । कन + च्छः कनीयम् । तद्रूपत्वेन सीयते
अवसीयते इति । सो + घञर्थे कर्म्मणि कः ।
सूर्य्यदेवाधिष्ठातृकत्वमिति ताम्रस्योक्तेः ।) ताम्रम् ।
इति हेमचन्द्रः ॥

कनीयान्, [स्] त्रि, (अयमनयोरतिशयेन युवा

अल्पो वा इत्यर्थे ईयसुन् । ततः कनादेशः ।)
अनुजः । अतियुवा । अत्यल्पः । इति मेदिनी ॥
(यथा, ऋग्वेदे । ४ । २४ । ९ । “स भूयसा कनीयो
नारिरेचीद्दीनां दक्षा विदुहन्ति प्रवाणम्” ॥
“मातुः पितुः कनीयांसं न नमेद् वयसाऽधिकः ।
प्रणमेच्च गुरोः पत्नीं ज्येष्ठभार्य्यां विमातरम्” ॥
इति स्मृतिः ॥)
पृष्ठ २/०२०

कन्तुः, पुं, (“कंशम्भ्यां वभयुस्तितुतयसः इति तुः” ।

५ । २ । १३८ । कम् + तुः । कामयते इति कमु
कान्तौ । अर्जिदृशीत्यादिना कुप्रत्यये तुकि सिद्ध-
त्वात् । “कमिभनिजनिगाभायाहिभ्यश्च” । उणां
१ । ७३ ।) कामदेवः । इति त्रिकाण्डशेषः ॥
हृदयम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(चित्रम् । इति उज्जलदत्तः । कं सुखं अस्यास्तीति
व्युत्पत्त्या सुखी जनः ॥)

कन्था, स्त्री, (कम् + बाहुलकात् थन् + टाप् ।)

स्यूतंकर्पटः । इति स्त्रीलिङ्गसंग्रहे अमरः ॥ काँथा
इति भाषा । (यथा, यतिपञ्चके २ । “कन्थामिव
श्रीमपि कुत्सयन्तः कौपीनवन्तः खलु भाग्यवन्तः” ॥)
मृण्मयमित्तिः । इति मेदिनी । काँथ् इति भाषा ॥
उसीनराख्यजनपदप्रसिद्धग्रामाणां नामसु विषय-
भूतेषु षष्ठ्यन्तात् परा कन्था क्लीवे स्यात् । यथा
सौसमीनां कन्था सौसमिकन्थम् । आह्नीनां
कन्था आह्निकन्थम् । इत्यमरटीकायां भरतः ॥

कन्थारी, स्त्री, (कम् + आरन् । पृषोदरादित्वात्

थुक् गौरादित्वात् ङीष् ।) वृक्षविशेषः । तत्प-
र्य्यायः । कन्थरी २ कन्था ३ दुर्द्धर्षा ४ तीक्ष्ण-
कण्टका ५ तीक्ष्णगन्धा ६ क्रूरगन्धा ७ दुष्प्रवेशा
८ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् ।
कफवातशोथरक्तग्रन्थिज्वरनाशित्वम् । दीपन-
त्वम् । रुचिकारित्वञ्च । इति राजनिर्घण्टः ॥

कन्दं, क्ली पुं, (कन्दयति जिह्वायाः वैक्लव्यं जनयति

रोदयति वा भक्षयन्तं जनम् । कदि + णिच् +
अच् । यद्वा कन्द्यते कन्द इति नाम्ना ज्ञायते । कदि
+ कर्म्मणि + घञ् ।) शूरणः । शस्यमूलम् । इति
मेदिनी ॥ गृञ्जनम् । इति राजनिर्घण्टः ॥ (यथा,
महाभारते १३ । १४ । ११९ ॥
“वने निवसतां नित्यं कन्दमूलफलाशिनाम्” ॥
यथा च, शान्तिशतके । २ । २० ।-
“शीतं निर्झरवारिपानमशनं कन्दः सहाया मृगाः” ॥
शूरणशब्देऽस्य विशेषो ज्ञेयः ॥)

कन्दः, पुं, (कं जलं ददातीति । क + दा + कः ।

कन्दति कन्दयति कन्द्यते वा । कदि आह्वाने रो-
दने च । अच् घञ् वा ।) मेघः । इति मेदिनी ॥
योनिरोगविशेषः । तस्य निदानलक्षणे । यथा, --
“दिवास्वप्नादतिक्रोधाद्व्यायामादतिमैथुनात् ।
क्षताच्च नखदन्ताद्यैर्वाताद्याः कुपिता यदा ॥
पूयशोणितसङ्काशं लकुचाकृतिसन्निभम् ।
उत्पद्यते यदा योनौ नाम्ना कन्दस्तु योनिजः” ॥
स चतुर्विधः । वातिकः १ पैत्तिकः २ श्लैष्मिकः ३
सान्निपातिकश्च ४ । एषां यथाक्रमं लक्षणानि ।
“रूक्षं विवर्णं स्फुटितं वातिकं तं विनिर्द्दिशेत् ।
दाहरागज्वरयुतं विद्यात् पित्तात्मकन्तु तम् ॥
नीलपुष्पप्रतीकाशं कण्डूमन्तं कफात्मकम् ।
सर्व्वलिङ्गसमायुक्तं सन्निपातात्मकं विदुः ।
सन्निपातात्मकोऽसाध्यः शेषाः कृच्छ्रप्रसाधनाः” ॥
इति भाधवकरः ॥ (अस्य चिकित्सामाह भाव-
प्रकाशः ॥
“गौरिकाम्रास्थि जन्तुघ्रं रजन्यञ्जनकट्फलाः ।
पूरयेद्योनिमेतेषां चूर्णैः क्षौद्रसमन्वितैः ॥
त्रिफलायाः कषायेण सक्षौद्रेण च सेवयेत् ।
प्रमदा योनिकन्देन व्याधिना परिमुच्यते” ॥
अन्यत्सर्व्वं योनिशव्दे द्रष्टव्यम् ॥)

कन्दगुडूची, स्त्री, (कन्दोद्भवा गुडूची । शाकपार्थि-

वादिवत् समासः । मध्यपदलोपश्च ।) गुडूची-
विशेषः । तत्पर्य्यायः । कन्दोद्भवा २ कन्दामृता ३
बहुच्छिन्ना ४ बहुरुहा ५ पिण्डालुः ६ कन्दरो-
हिणी ७ । इति राजनिर्घण्टः ॥

कन्दटं, क्ली, (कदि + अटन् ।) श्वेतोत्पलम् । इति

शब्दरत्नावली । सादा सुँदि इति भाषा ॥

कन्दफला, स्त्री, (कन्दात् कन्दमारभ्य वा फलं यस्याः ।)

क्षुद्रकारवेल्ली । इति राजनिर्घण्टः ॥

कन्दबहुला, स्त्री, (कन्दादारभ्य कन्देन कन्देषु बहुला

वा ।) त्रिपर्णिका । इति राजनिर्घण्टः ॥

कन्दमूलं, क्ली, (कन्द एव कन्दरूपं वा मूलं यस्य ।)

मूलकम् । इति राजनिर्घण्टः ॥ (मूलकशब्देऽस्य-
गुणा वक्तव्याः ॥)

कन्दरं, क्ली, (केन जलेन दीर्य्यते । दॄ + विदारे +

कर्म्मणि अप् । कं जलं श्लेष्मजनितं दृणाति नाश-
यतीति वा । दॄ + अच् ।) आर्द्रकम् । इति राज-
निर्घण्टः ॥ (आर्द्रकशब्देऽस्य गुणादयो ज्ञेयाः ॥)

कन्दरः, पुं स्त्री, (केन जलेन द्रीर्य्यते विदीर्य्यतेऽसौ ।

दॄ + कर्म्मणि अप् ।) गुहा । इति मेदिनी ॥
“निह्रादीचेन्मुरज इव ते कन्दरेषु ध्वनिः स्थात्” ।
इति मेघदूते ५८ ॥) कृत्रिमोऽकत्रिमो वा सजलो
निर्जलो वा गृहाकारो गिरिनितम्बदेशः । इति
भरतः ॥ तत्पर्य्यायः । दरी २ कन्दरा ३ इत्यमरः ।
२ । ३ । ६ ॥ कन्दरी ४ । इति पञ्जिका ॥ दरः ५ ।
इति स्वामी ॥ (यथा, भागवते । ४ । ६ । ११ ।
“नानाऽमलप्रस्रवणैर्नानाकन्दरसानुभिः” ॥)

कन्दरः, पुं, (कं मातङ्गशिरो दीर्य्यतेऽनेन । दॄ + करणे

अप् ।) अङ्कुशः । इति मेदिनी ॥

कन्दरा, स्त्री, (कन्दर + टाप् ।) गुहा । इत्यमरः ।

२ । ३ । ६ ॥)

कन्दराकरः, पुं, (कन्दरस्य आकरः ।) पर्ब्बतः । इति

हारावली ॥

कन्दरालः, पुं, (कन्दराय अङ्कुराय अलतीति । कन्दर

+ अल् + अच् ॥) गर्द्धभाण्डवृक्षः । प्लक्षवृक्षः ।
इति मेदिनी ॥ आखोटवृक्षः । इति राजनिर्घण्टः ॥

कन्दरालकः, पुं, (कन्दराल एव स्वार्थे कन् ।)

प्लक्षवृक्षः । इति शब्दरत्नाक्ली ॥ (प्लक्षशब्दे
विशेषोऽस्य ज्ञातव्यः ॥)

कन्दरी, स्त्री, गुहा । इत्यमरः । २ । ३ । ६ ॥

कन्दरोद्भवा, स्त्री, (कन्दरे उद्भवतीति । कन्दर + उद्

+ भू + अच् + टाप् ।) क्षुद्रपाषाणभेदीवृक्षः
इति राजनिर्घण्टः ॥

कन्दर्पः, पुं, (कमित्यव्ययं कुत्सायां, कं कुत्सितो दर्पः

यस्मात् । यद्वा कं सुखं तेन तत्र वा दृप्यति । दृप्
+ अच् । कं ब्रह्माणं प्रति दर्पितवान् वा ।)
कामदेवः । इत्यमरः । १ । १ । २६ ॥ (यथा, महा-
भारते १ । २१५ । १८ ॥
“साहन्त्वाममिषेकार्थमवतीर्णं समुद्रगाम् ।
दृष्ट्रैव पुरुषव्याघ्र ! कन्दर्पेणाभिमूर्च्छिता” ॥)
ध्रुवकभेदः । यथा, -- सङ्गीतदामोदरः ॥
“त्रयोविंशतिवर्णाङ्घ्रिर्ध्रुवः कन्दर्पसंज्ञकः ।
वीरे वा करुणे वा स्यात् खण्डताले विधीयते” ॥

कन्दर्पकूपः, पुं, (कन्दर्पस्य कूप इव ।) योनिः । इति

जटाधरः ॥

कन्दर्पजीवः, पुं, (कन्दर्पं जीवयति परिवर्द्धयतीति ।

कन्दर्प + जीव + अच् ।) कामवृद्धिनामवृक्षः । इति
राजनिर्घण्ट ॥

कन्डर्पमुषलः पुं, (कन्दर्पस्य मुषल इव ।) लिङ्गः । इति

त्रिकाण्डशेषः ॥

कन्दर्पशृङ्खलः, पुं, (कन्दर्पः शृङ्खलः यत्र । यद्वा

कन्दर्पाय शृङ्खलः ।) शृङ्गारबन्धविशेषः । तस्य
लक्षणम् । यथा रतिमञ्जरी ।
“नारी पदद्वयं स्थाप्य कान्तस्योरुद्वयोपरि ।
कटिञ्चेद्दोलयेदाशु तन्धः कन्दर्पशृङ्खलः” ॥

कन्दलं, त्रि, (कदि + अलच् ।) कपालः । उपरागः ।

नवाङ्कुरः । कलध्वनिः । इति मेदिनी ॥ अपवादः ।
इति शब्दरत्नावली ॥ (कदलीविशेषः । यथा,
अमरुशतके ४८ । “प्रारम्भे निपतन्ति कन्दल-
दलोल्लासाः पयोविन्दवः” ॥)

कन्दलः, पुं, (कदि + अलच् ।) कनकम् । युद्धम् ।

कपालः । इति धरणी ॥

कन्दलता, स्त्री, (कन्दप्रधाना लता ।) मालाकन्दः ।

इति राजनिर्घण्टः ॥

कन्दली, स्त्री, (कन्दल + गौरादित्वात् ङीष् ।)

मृगविशेषः । यस्य चर्म्म व्यवह्रियते । गुल्मप्रभेदः ।
(यथा, मेघटूते २१ ।
“आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्” ॥)
कदली । इति मेदिनी ॥ (यथा, विक्रमोर्व्वश्यां । ७८ ।
“आरक्तराजिभिरियं कुसुमैर्नवकन्दलीसलिल-
गर्भैः” । इति ॥)
पताका । इति त्रिकाण्डशेषः ॥ पद्मवीजम् । इति
राजनिर्घण्टः ॥

कन्दलीकुसुमं, क्ली, (कन्दल्या इव कुसुमंमस्य ।) शि-

लीन्ध्रम् । इति जटाधरः ॥

कन्दवर्द्धनः, पुं, (कन्देन वर्द्धते इति । वृध् + ल्युः ।)

शूरणः । इति राजनिर्घण्टः ॥ (शूरणशब्देऽस्य
गुणादयो द्रष्टव्याः ॥)

कन्दवल्ली, स्त्री, (कन्दाकारा + वल्ली ।) बन्ध्याकर्को-

टकी । इति राजनिर्घण्टः ॥

कन्दशूरणः, पुं, (कन्देषु शूरणः श्रेष्ठः ।) ओल्लः ।

इति राजनिर्घण्टः ॥ (ओल्लशब्देऽस्य गुणादयो
व्याख्याताः ॥)

कन्दसंज्ञं, क्ली, (कन्द इति संज्ञा यस्य कन्दनाम्ना

संज्ञायते वा ।) योनिरक्तरोगविशेषः । तत्प-
र्य्यायः । योन्यर्शः २ । इति त्रिकाण्डशेषः ॥ तस्य
निदानादि कन्दशब्दे द्रष्टव्यम् ॥

कन्दसारं, क्ली, (कन्दानां सारो यत्र ।) नन्दनवनम् ।

इति त्रिकाण्डशेषः ॥

कन्दाढ्यः, पुं, (कन्देन आढ्यः ।) धरणीकन्दः । इति राजनिर्घण्टः ॥

पृष्ठ २/०२१

कन्दार्हः, पुं, (कन्देषु अर्हः आदरणीयः ।) शूरणः ।

इति राजनिर्घण्टः ॥

कन्दालुः, पुं, (कन्दमय आलुः ।) कासालुः । धरणी-

कन्दः । त्रिपर्णिका । इति राजनिर्घण्टः ॥

कन्दिरी, स्त्री, (कन्द + इरच् + गौरादित्वात् ङीष् ।)

लज्जालुवृक्षः । इति वैद्यकम् ॥ (लज्जालुशब्दे
विशेषोऽस्या ज्ञातव्यः ॥)

कन्दी, [न्] पुं, (कन्दोऽस्त्यस्य । अस्त्यर्थे इनिः ।)

शूरणः । इति राजनिर्घण्टः ॥

कन्दुः, पुं स्त्री, (स्कन्दति शोषयति जलादिकं स्कन्देः

सलोपश्चेत्युः ।) लौहमयपाकपात्रम् । ताओया
इति लोहता इति च भाषा । तत्पर्य्यायः । स्वेदनी
२ । इत्यमरः । २ । ९ । ३० ॥

कन्दुकः, पुं, (कं सुखं ददातीति । कम् + दा +

मितद्र्वादित्वात् डुः संज्ञायां कन् ।) गेण्डुकः । इत्य-
मरः । २ । ७ । १३८ ॥ गेँडु इति भाषा ॥ (यथा,
कुमारे । १ । २९ । “सा कन्दुकैः कृत्रिमपुत्रकैश्च” ॥)

कन्दुपक्वं, क्ली, (कन्दौ पक्वम् ।) जलोपसेकं विना केव-

लपात्रे यत् वह्निना पक्वं भृष्टतण्डुलादि । यथा, --
“कन्दुपक्वानि तैलेनं पायसं दधि शक्तवः ।
द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि” ॥
इति तिथ्यादितत्त्वे कूर्म्मपुराणम् ॥

कन्दोटं, क्ली, (कदि + ओटन् ।) नीलोत्पलम् ।

इति शब्दरत्नावली ॥

कन्दोटः, पुं, (कदि + ओटन् ।) शुक्लोत्पलम् । इति

शब्दरत्नावली ॥

कन्दोतः, पुं, (कन्दे मूले उतः । कन्द + वेञ् + क्तः ।)

कुमुदम् । इति त्रिकाण्डशेषः ॥

कन्धः, पुं, (कंजलंदधाति धारयति । कं + धा + कः ।)

मेघः । इति शब्दरत्नावली ॥

कन्धरः, पुं, (कं जलं धरति धारयति वा । कम् + घृ +

अच् ।) मेधा । इति मेदिनी ॥ मारिषवृक्षः । इति
राजनिर्घण्टः ॥ (कं शिरो धरतीति ।) ग्रीवा ।
इत्यमरटीकासारसुन्दरी ॥ (भागवते ६ । १२ । ३३ ।
“वज्रस्तु तत्कन्धरमाशु वेगः
कृन्तन्समन्तात् परिवर्त्तमानः” ॥)

कन्धरा, स्त्री, (कं शिरो धरतीति । कम् + धृ +

अच् + टाप् ।) ग्रीवा इत्यमरः । २ । ६ । ८८ ॥
(यथा, याज्ञबल्क्यः । २ । २२३ ।
“कन्धरा बाहुसक्थ्नां च भङ्गे भध्यमसाहसः” ॥)

कन्धिः, स्त्री, (कं शिरः समुद्रपक्षे जलं ध्रियते यत्र ।

धृ + अधिकरणे + किः ।) ग्रीवा । समुद्रे पुं ।
इति राजनिर्घण्टः ॥

कन्नं, क्ली, (कन्यते प्राप्यते दुःखमनेन । कन गत्यां +

करणे क्तः ।) पातकम् । मूर्च्छा । इति शब्दमाला ॥
कल्लमिति च पाठः ॥

कन्यका, स्ती, (कन्या + अज्ञातादौ कन् पूर्ब्बह्रस्वश्च ।)

कुमारी । इति त्रिकाण्डशेषः ॥ यथा ।
“अष्टवर्षा मवेद्गौरी नववर्षा च रोहिणी ।
दशमे कन्यका प्रोक्ता अत ऊर्द्ध्वं रजस्वला” ॥
इति स्मृतिः ॥ परकीयनायिकाविशेषः । यथा ।
“अप्रकटपरपुरुषानुरागा परकीया । सा च
द्विविधा परोढा कन्यका च । कन्यायाः पित्राद्य-
धीनतया परकीयत्वम् । अस्या गुप्तैव सकला
चेष्टा” । इति रसमञ्जरी ॥

कन्यकाजातः, पुं स्त्री, (कन्यकायां अनूढायां जातः ।

कन्यका + जन + कर्त्तरि क्तः ।) अविवाहितापुत्त्रः ।
तत्पर्य्यायः । कानीनः २ । इत्यमरः । २ । ६ । १३७ ॥
(यथाह याज्ञवल्क्यः । १२ । १३२ ।
“कानोनः कन्यकाजातो मातामहसुतो मतः” ॥
कर्णः । स तु अनूढायां कुन्त्यां जातः ॥)

कन्यकापतिः, पुं, (कन्यकायाः पतिः ।) जामाता ।

इति शब्दरत्नावली ॥

कन्यसः, पुं, (कन + अघ्न्यादित्वात् । ४ । १११ । उणां ।

निपातनात् कन्यः । कन्यत्वेन काम्यत्वेन सीयते
अवसीयते इति । कन्य + सो + घञर्थे कः ।)
कनिष्ठभ्राता । इत्यमरटीकासारसुन्दरी ॥
(यथा रामायणम् । ५ । ३३ । १० ।
“रामस्य कन्यसो भ्राता सुमित्रा येन सुप्रजाः” ॥)

कन्यसा, स्त्री, (कन्यस + टाप् ।) कनिष्ठभगिनी ।

इत्यमरटीका ॥

कन्या, स्त्री, (कन् दीप्तौ + अघ्न्यादित्वात् यक् इत्यु-

णादौ ४ । १११ । कन्यायाः कनीन् चेति निर्द्दे
शात् पाणिनिमतानुसारेण न ङीष् अतष्टाप् ।)
कुमारी । इत्यमरः ॥ २ । ६ । ८ । सा तु दशम-
वर्षीया । इति स्मृतिः ॥ (यथा महाभारते
वनपर्ब्बणि ।
“यस्मात् कामयते सर्व्वान् कमेर्धातोश्च भाविनि ! ।
तस्मात् कन्येह सुश्रोणि ! स्वतन्त्रा बरवर्णिनि !” ॥)
नारी । ओषधीविशेषः । घृतकुमारी इति ख्याता ।
इति सेदिनी ॥ यथा सुश्रुते निदानस्थाने ॥
(“कान्तैर्द्वादशभिः पत्रैर्मयूराङ्गरुहोपमैः ।
कन्दजा काञ्चनक्षीरी कन्या नाम महौषधी” ॥
“शोथघ्नी कासहा कन्या” ॥ इति वैद्यकद्रव्य-
गुणः ॥ विशेषगुणादयोऽस्या घृतकुमारीशब्दे
द्रष्टव्याः ॥) स्थूलैला । वाराहीकन्दः । बन्ध्याकर्को-
टकी । इति राजनिर्घण्टः ॥ * ॥ मेषादिद्वादश-
राश्यन्तर्गतषष्ठराशिः । सा तु उत्तरफल्गुनीशेष-
पादत्रयहस्तासमुदाययुक्तचित्राप्रथमार्द्धेन भवति ।
तदधिष्ठातृदेवतायाः स्वरूपं यथा । जले । नौकास्थ-
शस्याग्निधारिणी स्त्री । इति दीपिका ॥ अपि च ।
नीलकण्ठीजातके ॥
“पाण्डुर्द्विपात् स्त्रीद्वितनुर्यमाशा-
निशामरुच्छीतसमोदयक्ष्मा ।
कन्यार्द्धशब्दा शुभभूमिवैश्य-
रूक्षाल्पसङ्गप्रसवा शुभा च” ॥ * ॥
मतान्तरे सा तु शीर्षोदया । दिनबला । पिङ्गल-
वर्णा । दक्षिणदिक्स्वामिनी । वायुप्रकृतिः । शीत-
लस्वभावा । शुद्धभूमिचरा । वैश्यवर्णा । रूक्षा ।
श्लथाङ्गा । खटच्छब्दा । अल्पसन्ताना । अल्प-
पुंसङ्गा च ॥ * ॥ तत्र जातफलम् । “वेदशास्त्रे
श्रद्धावान् स्थानरोषे खेदितः भार्य्यायां । सदा
विरसश्च” । इति ज्योतिषम् ॥ * ॥ जन्मकालीन-
चन्द्राश्रितैतद्राशिफलम् । यथा कोष्ठीप्रदीपः ॥
“युवतिगे शशिनि प्रमदाजन-
प्रबलकेलिविलासकुतूहलैः ।
विमलशीलयुता जननोत्सवैः
सुविधिना विधिना सहितः पुमान्” ॥ * ॥
तस्या उदये तन्नामकलग्नं भवति । तस्य गणित-
प्राप्तपरिमाणं दशव्यङ्गुलाधिकपञ्चाङ्गुलप्रभे देशे
वर्त्तमानोनविंशायनांशे ऊनत्रिंशत्पलाधिकपञ्चद-
ण्डाः । इति ज्योतिषम् ॥ * ॥ तत्र जातफलम् ।
“कन्यालग्नोद्भवो मर्त्यो नानाशास्त्रविशारदः ।
सौभाग्यगुणसम्पन्नः सुन्दरः सुरतप्रियः” ॥
इति कोष्ठीप्रदीपः ॥ * ॥ सुता । तस्या विवाहं वि-
नान्यसंस्कारकर्म्मणि वृद्धिश्राद्धनिषेधो यथा, --
“कन्याया निष्क्रमो नास्ति वृद्धिश्राद्धंन विद्यते ।
नामान्नप्राशनं चूडां कुर्य्यात् स्त्रीणाममन्त्रकम्” ॥
“जातकर्म्मादिचूडान्तं कुमार्य्याश्चाप्यमन्त्रकम् ।
कर्त्तव्यं पञ्चभिर्व्वर्णैरेकं निष्क्रमणं विना” ॥
इति च महानिर्व्वाणतन्त्रे नवमोल्लासः ॥
(तीर्थविशेषः । यथा महाभारते ३ । ८३ । १०४ ।
“ततो गच्छेत धर्म्मज्ञ ! कन्यातीर्थमनुत्तमम् ।
कन्यातीर्थे नरः स्नात्वा गोसहस्रफलं लभेत्” ॥)

कन्याका, स्त्री, (कन्यैव इति स्वार्थे कन अनुक्तपुं-

स्कत्वात् न ह्रस्वः ।) कुमारी । इति शब्दरत्ना-
वली ॥

कन्याकुब्जः, पुं, (कन्याः कुब्जाः यत्र देशे सः । वायुना

हि अस्मिन् देशे कन्याः कुब्जीकृता अतोऽस्य
तथात्वम् ।) कान्यकुब्जदेशः । इति हेमचन्द्रः ॥
(यथा, महाभारते । वनपर्ब्बणि ॥
“कन्याकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः” ॥
वायुनाहि अस्मिन् देशे पुरा कन्याः कुब्जीकृताः ।
तद्विवरणमुच्यते । पुरा किल कुशनाभो राजषि-
र्घृताच्यां कन्याशतं जनयामास । रूपयौवनसम्पन्ना-
स्तास्तु कदाचित् उद्यानभूमिमागम्य परयानन्द-
सन्तत्या चिक्रीडुः । अथ सर्व्वगो वायुश्चारुसर्व्वा-
ङ्गीस्ता अवलोक्य कामशरपीडितोऽब्रवीत् । अहं
वः कामये, भवत्यो मे भार्य्या भवन्तु । अय ता
अङ्गनास्तस्य तद्वचनं श्रुत्वा उच्चैर्विहस्य तमब्रुवन्
भो वायो ! त्वं भूतानां अन्तश्चरसि तत्कथम-
स्माकं मनोभावं न वेत्सि । वयं किल कुशनाभ-
सुताः कथं पितरं कामतः समतिक्रम्य खयं वर-
मभिलषामः । पिता हि अस्मान् यस्मै दास्यति
स नो भर्त्ता भविष्यतीति । अतः क्षन्तव्याः खलु
भवन्नियोगं कर्त्तुमशक्ता वयम् । वायुस्तु तासामे-
तद्वचनमाकर्ण्य कोपसमन्वितः स्वतेजसा तासां
शरीरेषु प्रविश्य मध्ये बभञ्ज । ततः प्रभृति
देशोऽयं कन्याकुब्ज इत्येव ख्यातः ॥ अस्य विस्तृ-
तिस्तु रामायणे आदिकाण्डे ३५ अध्याये द्रष्टव्या ॥
अयन्तु काशीनदीतटे स्थितः । अधुना कुश-
स्थल इत्याख्यया प्रसिद्धः । इति कनिहामेनो-
क्तम् ॥ अस्य समीपे जाह्नवीप्रवहमाना वर्त्तते ।
इति महाभारते अनुशासनपर्ब्ब ॥)

कन्याटः, पुं, (कन्या अटति अत्र । कन्या + अट् + अ-

धिकरणे घञ् ।) वासगृहम् । इति त्रिकाण्डशेषः ॥
पृष्ठ २/०२२

कन्यादानं, क्ली, (कन्याया दानं वराय सम्प्रदानम् ।)

वराय कन्यासम्प्रदानम् । तद्दानफलादि यथा ।
यम उवाच ।
“कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् ।
ब्रह्मदेयां द्विजश्रेष्ठ ! ब्रह्मलोकं व्रजन्ति ते ॥
कन्यादानन्तु सर्व्वेषां दानानामुत्तमं स्मृतम्” ॥ * ॥
तद्ग्रहणे दशकुलत्यागो यथा, --
“महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः ।
स्त्रीसम्बन्धे दशेमानि कुलानि परिवर्जयेत् ॥
हीनज्ञातिषु पाषण्डे मुने उद्वेगकारिणाम् ।
छद्मामयसदावाच्यचित्रिकुष्ठिकुलानि च ॥
यस्यास्तु न भवेत् भ्राता न च विज्ञायते पिता ।
नोपयच्छेत तां प्राज्ञः पुत्त्रिकाधर्म्मशङ्कया” ॥ * ॥
ततोऽष्टप्रकारविवाहानन्तरम् ।
“कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् ।
विवाहकाले संप्राप्ते यथोक्ते सदृशे वरे ।
क्रमात् क्रमं कतुशतमनुपूर्ब्बं लभन्ति ते ॥
श्रुत्वा कन्याप्रदानन्तु पितरः प्रपितामहाः ।
विमुक्ताः सर्व्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥
ब्राह्मेण तु विवाहेन यस्तु कन्यां प्रयच्छति ।
ब्रह्मलोकं व्रजेच्छीध्रं ब्रह्माद्यैः पूजितः सुरैः ॥
दिव्येन तु विवाहेन यस्तु कन्यां प्रयच्छति ।
भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति ॥
गान्धर्ब्बेण विवाहेन यस्तु कन्यां प्रयच्छति ।
गन्धर्ब्बलोकमासाद्य क्रीडते देववच्चिरम् ॥
शुल्केन दत्त्वा यः कन्यां तां पश्चात् सम्यगर्च्चयेत् ।
स किन्नरैश्च गन्धर्ब्बैः क्राडते कालमक्षयम् ॥
न मन्युं कारयेत्तासां पूज्याश्च सततं गृहे ।
ब्रह्मदेया विशेषेण ब्राह्मभोज्या सदा भवेत् ॥
कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते ।
अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥
अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन ।
दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥
महासत्वसमाकीर्णान्नास्ति ते नरकाद्भयम् ।
तीर्णस्त्वं सर्व्वदुः खेभ्यः परं स्वर्गमवाप्स्यसि ॥
दौहित्रस्य तु दानेन नन्दन्ति पितरः सदा ।
यत्किञ्चित् कुरुते दानं तदानन्त्याय कल्प्यते ।
भातापितुश्च विज्ञेयं तच्छुभस्याभिगामिनः ।
मातुः पितुर्हिरण्यस्य दौहित्रोऽर्द्धमवाप्नुते ॥
दत्त्वा कन्यां न शोचेत क्षुधितां मुदितां तथा ।
नग्नां दुःखाभिभूतां वा तथैव कृपणां कृशाम् ।
कुर्य्यान्मन्युं नचैवास्या आगताञ्चापि पोषयेत् ॥
यद्भूतमर्थयेत् किञ्चित् सर्व्वं तत् प्रतिपादयेत् ।
अप्रयच्छंन् पतेत् ब्रह्मन् ! नरके नात्र संशयः” ॥ * ॥
“शोचन्ति यामयो यत्र विनश्यत्याशु तत्कुलम् ।
न भुञ्जन्ति च यत्रैव निर्दहन्त्यप्रपूजिताः ॥
तस्मादेताः समभ्यर्च्च्या भूषणाच्छादनाशनैः ।
भूतिकामैर्नरैर्नित्यं सुतयुक्तास्तु सर्व्वदा ॥
संतृप्ताः स्युस्तथा पूज्याः श्राद्धे चैवोत्सवेषु च ।
यस्मिन्नेवं कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥
इह कीर्त्तिर्भवेत् स्वर्गे परत्र द्विजसत्तम ! ।
तिलराशिः कृतो यावत् दिवाकरसमं कृतः ॥
वर्षान्ते गृह्यमानस्तु तिल एको भवेद् यदा ।
सोऽक्षयं लभते तावत् ब्रह्यलोकं सनातनम् ॥
शतगव्याः प्रमाणेन सुकृते रोमसञ्चये ।
विशीर्य्यते तु वा लोकं वर्षे पूर्णे सुताप्रदः ।
तावत् स्वर्गं लभेत् सोऽपि यावल्लोम्नश्च संक्षयः ॥
महीदातुश्च गोदातुः कन्यादातुस्त्रयो रथाः ।
कन्यादात्रनुगाः पश्चात्समं यान्ति त्रयो रथाः ॥
कन्यादानं दरिद्रस्य यो ददाति सुसत्कृतैः ।
पूर्ब्बं धर्म्ममवाप्नोति यथावत् विधिकल्पितम् ।
तस्मात्कन्या प्रयत्नेन दातव्या श्रेय इच्छता” ॥
इत्याद्ये वह्निपुराणे कन्यादाननामाध्यायः ॥

कन्यापतिः, पुं, (कन्यायाः पतिः ।) जामाता । इति

जटाधरः ॥

कन्यापालः, पुं, (कन्याप्रधानः पालः । पालाख्य-

वणिगिति यावत् ।) पालवणिक् । शूद्रजातिवि-
शेषः । इति त्रिकाण्डशेषः ॥

कन्यारामः, पुं, बुद्धभेदः । इति त्रिकाण्डशेषः ॥

कन्यिका, स्त्री, (कन्या एव खार्थेकन् टाप् अत-

इत्वम् ।) कन्यका । इति शब्दरत्नावली ॥

कन्युषं, क्ली, (कन + इन् । कन्या दीप्त्या कान्त्या

तेजसा वा ओषति इव । कनि + उष् + कः ।)
हस्तपुच्छः । इति हारावली । हातेर पोँछा
इति भाषा ॥

कप चलने । सौत्रधातुरय । इति कविकल्पद्रुमः ॥

(भ्वां--परं--अकं--सेट् ।) कपोलः । इति दुर्गा-
दासः ॥

कप इ ङ सञ्चलने । इति कविकल्पद्रुमः ॥ (भ्वां--

आत्मं--अकं--सेट्--इदित् ।) इ कर्म्मणि कम्प्यते ॥
ङ कम्पते वायुना वृक्षः । इति दुर्गादासः ॥

कपटः, पुं, क्ली, (पटतीति पटः । पट् + अच् । कस्य

सतो ब्रह्मणोऽपि पटः आवरकः । यद्वा कप +
अटन् ।) अयथार्थव्यवहारः । प्रतारणा । तत्प-
र्य्यायः । व्याजः २ दम्भः ३ उपधिः ४ छद्म ५ कैत-
वम् ६ । इत्यमरः । १ । ७ । ३० ॥ कूटम् ७
कल्कम् ८ छलम् ९ मिषम् १० कैरवम् ११ ।
इति शब्दरत्नावली ॥
(“नरेन्द्रसिंह ! कपटं न वोढुं त्वमिहार्हसि” ।
इति महाभारते १ । ७४ । १०१ ॥ दनुपुत्त्रः ।
यथा महाभारते १ । ६४ । २५ ।
“निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा ।
एते ख्याता दर्नोर्वंशे दानवाः परिकीर्त्तिताः” ॥)

कपटिकः, त्रि, (कपटः विद्यतेऽस्मिन् अस्त्यस्य वा ।

कपट + मत्वर्थे + ठन् ।) कपटविशिष्टः । इति
शब्दरत्नावली ॥

कपटिनी, स्त्री, (कपटिन् + गौरादित्वात् ङीष् ।)

चीडानामगन्धद्रव्यम् । इति राजनिर्घण्टः ॥

कपटी, स्त्री, (कप + अटन् । गौरादित्वात् ङीष् ।)

परिमाणविशेषः । इति शब्दरत्नावली । एक
आँकाड् इति भाषा ॥

कपटी, [न्] त्रि, (कपटोऽस्त्यस्य अस्मिन् वा अस्त्यर्थे

+ इनिः ।) कपटविशिष्टः । कपटधारी । इति
शब्दरत्नावली ॥

कपटेश्वरी, स्त्री, (कमिव शुभ्रः पटः वसनं तत्तुल्यं

फलं ईष्टे + प्रेरयतीति । कपट + ईश् + क्वरप् +
स्त्रियां ङीप् ।) श्वेतकण्टकारी । इति राज-
निर्घण्टः ॥

कपर्द्दः, पुं, (पर्ब्ब पूरणे + सम्पदादित्वात् भावे

क्विप् । “रात् लोपः” । ६ । ४ । २१ । इति
वलोपे पर् पूर्त्तिः । केन सुखेन जलेन वा पर
पूर्त्तिं ददातीति । क + पर् + दा + सुपीति योग
विभागात् कः । कस्य गङ्गाजलस्य परा पूरणेन
दापयति शुध्यति वा । क + पर् + दैप् शोधने
“आतोऽनुपसर्गे कः” । ३ । २ । ३ । इति कः ।)
शिवजटा । इत्यमरः । १ । १ । ३७ ॥ (यथा
काशिखण्डे । २९ । ४४ ।
“कमनीयजलाकम्रा कपर्द्दिसुकपर्दगा” ॥)
वराटकः । इति मेदिनी ॥ (“पञ्चभिः कपद्दः
पञ्चिका नाम द्यूतमस्ति” । इति पां २ । १ ।
१० । सूत्रस्य सरला टीका ॥)

कपर्द्दकः, पुं, (कपर्द्द + कन् ।) शिवस्य जटाजूटः

वराटकः । इति मेदिनी । कडि इति भाषा ॥
(“यद्यहमिमं शक्तुशरावं विक्रीय दश कपर्द्दकान्
प्राप्नोमि” ॥ इति हितोपदेशः ॥) शेषस्य पर्य्यायः ।
वराटः २ कपर्द्दः ३ वराटिका ४ चराचरः ५
चरः ६ वर्ज्यः ७ बालक्रीडकः ८ । अस्य गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कर्णशूलव्रणगुल्म-
शूलनेत्रदोषनाशित्वञ्च ॥ तस्य भेदाः । सुवर्णवर्णा
सिंही १ धूम्रवर्णा व्याघ्री २ पीतपृष्ठासितोदरा
मृगी ३ श्वेतवर्णा हंसी ४ नातिदीर्घिका विदन्ता
५ । इति राजनिर्घण्टः ॥ (वराटकशब्देऽस्य
गुणादयो व्याख्येयाः ॥)

कपर्द्दी, [न्] पुं, (कपर्द्दो जटाजूटोऽस्त्यस्य । इनिः ।)

शिवः । इत्यमरः । १ । १ । ३४ ॥ (यथा,
महाभारते १३ । १७ । ४५ ।
“अजश्च बहुरूपश्च गन्धधारी कपर्द्द्यपि” ॥
“कपर्द्दी कैलासं करिवरमथोऽयं कुलिशभृत्”
इति कालिदासः ॥
यथा, ऋग्वेदे । १० । १०२ । ८ ।
“शुनमष्ट्रा व्यचरद् कपर्द्दी” ॥)

कपाटं, त्रि, (कं वायुं मस्तकं वा पाटयंतीति । पट-

गतौ + णिच् + कर्म्मणि उपपदे अण् ।) स्वनाम-
ख्यातद्वाराच्छादककाष्ठफलकविशेषः । तत्पर्य्यायः ।
अररम् २ । इत्यमरः । २ । २ । १७ ॥ कवाटः ३ कपाटी
४ कवाटी ५ अररी ६ अररिः ७ । इति तट्टीका ॥
द्वारकण्टकम् ८ असारम् ९ । इति शब्दरत्नावली ॥
(यथा महाभारते १ । जतुगृहवासे । १४८ । १७ ।
“चक्रे च वेश्मनस्तस्य मध्ये नातिमहाविलम् ।
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत” ! ॥
कं शिरः इत्युपलक्षणेन मनुष्यादीनां ग्रहणमिति
बोध्यम् । कं वातं वा पाटयति वारयति गृह-
द्वारदेशं आवृणोतीत्यर्थः । मनुव्यवातादीनां गतिं
रुणद्धि वा । क + पट् + णिच् + अण् । यथा,
“द्वाराणि समुपावृण्वन् कपाटान्यवघट्टयन्” ।
इति रामायणम् ।
पृष्ठ २/०२३

कपालः, पुं, क्ली, (कं मस्तकं पालयतीति । क + पालि

+ अण् । यद्वा कम्पते यः । कपि चलने + “तमि
विशिविडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन्” ।
उणां १ । ११७ । इति कालन् । कपिनिर्देशाद्
नलोपः ।) शिरोऽस्थि । माथार खुलि इति भाषा ।
तत्पर्य्यायः । कर्परः इत्यमरः । २ । ६ । ६८ ॥
(यथाह याज्ञबल्क्यः । ३ । ९० ।
“द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा” ॥)
घटादेः खण्डम् । खापरा खोला इत्यादि भाषा ॥
(यथा, भाषापरिच्छेदे । ११ ।
“घटादीनां कपालादौ द्रव्येषु गुणकर्म्मणोः ।
तेषु जातेश्च सम्बन्धः समवायः प्रकीर्त्तितः” ॥)
समूहः । इति मेदिनी ॥ (मृण्मयकर्परादिभि-
क्षापात्रम् । यथा, मनुः । ६ । ४४ ।
“कपालं वृक्षमूलानि कुचेलमसहायता ।
समता चैव सर्व्वस्मिन्नेतन्मुक्तस्य लक्षणम्” ॥)
पुरोडाशः । यथा शतपथब्राह्मणे ।
“कपालानि चोपदधातिपुरोडाशं चाधिश्रयति” ॥)
कुष्ठरोगविशेषः । इति हेमचन्द्रः ॥ तस्य लक्ष-
णम् । यथा, माधवकरः ॥
“कृष्णारुणकपालाभं यद्रूक्षं परुषं तनु ।
कापालं तोदबहुलं तत्कुष्ठं विषमं स्मृतम्” ॥

कपालनालिका, स्त्री, (कपालस्य सूत्रसंघस्य ना-

लिका ।) तर्कुः । इति त्रिकाण्डशेषः ॥ टेको
इति भाषा ॥

कपालभृद्, पुं, (कपालं भिक्षापात्रं ब्रह्मकपालं वा

बिभर्त्ति धारयति । कपाल + भृ + क्विप् तुक् च ।)
शिवः । इत्यमरः । १ । १ । ३४ ॥

कपालिका, स्त्री, (कपाल + कन् + टाप् ।) दन्त-

रोगविशेषः । तस्य लक्षणम् ।
“कपालेष्विव दीर्य्यत्सु दन्तानां सैव शर्करा ।
कपालिकेति पठिता सदा दन्तविनाशिनी” ॥
इति माधवकरः ॥ तस्याश्चिकित्सा दन्तरोगशब्दे
द्रष्टव्या ॥ (घटकपालिका । यथा, विष्णुपुराणे । २
१२ । ४१ ।
“महीघटत्वं घटतः कपालिका
कपालिकाचूर्णरजस्ततोऽणुः ।
जनैः स्वकर्म्मस्तिमितात्मनिश्चयैः
आलक्ष्यते ब्रुहि किमत्र वस्तु” ॥)

कपालिनी, स्त्री, (कपालोऽस्त्यस्य । कपाल + इनि +

स्त्रिया ङीप् ।) दुर्गा । इति हेमचन्द्रः ॥

कपाली, [न्] पुं, (कपालोऽस्त्यस्य । कपाल + इनिः ।)

महादेवः । इति हलायुधः ॥ स्वनामख्यातजाति-
विशेषः । स तु ब्राह्मणकन्यायां तीवराज्जातः ।
इति पराशरपद्धतिः ॥ (त्रि, कपालविशिष्टः ।
यथा, कुमारे । ५ । ७८ ।
“कपालि वा स्यादथवेन्दुशेखरं
न विश्वमूर्त्तेरवधार्य्यते वपुः” ॥
“नटी कपालिनी वेश्या कुलटा नापिताङ्गना” ॥
इति च तन्त्रम् ॥ योगिविशेषः । यथा, हटयोग-
दीपिकायां १ । ७ ।
“कपाली विन्दुनाथश्च काकचण्डीश्वराह्वयः” ॥)

कपिः, पुं, (कम्पते यः सदा । कपिचलने । “कुण्डि-

कम्प्योर्नलोपश्च” उणां । ४ । १४३ । इ प्रत्ययः ।)
वानरः । इत्यमरः । २ । ५ । ३ ॥
(यथा, मनुः । ११ । १५४ ॥
“विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणञ्चरेत्” ॥)
सिह्लकः । मधुसूदनः । इति मेदिनी ॥ (यथा,
महाभारते १३ । १४९ । १०९ ।
“सनात्सनातनतमः कपिलः कपिरव्ययः” ॥)
धात्रिका । इति शब्दमाला ॥ करञ्जभेदः । इति
शब्दचन्द्रिका ॥ (कादुदकात् पृथ्वीं पाति इति ।
वराहः । रक्तचन्दनम् । पिङ्गलम् । तद्वर्णवति त्रि ॥)

कपिकच्छुः, स्त्री, (कपीनामपि कच्छुर्यस्याः कण्डू-

हेतुत्वात् ।) वृक्षविशेषः । आलकुशी इति भाषा ।
केॐयाच इति हिन्दाभाषा । तत्पर्य्यायः । आत्म-
गुप्ता २ जडा ३ अध्यण्डा ४ कण्डूरा ५ प्राव्रषा-
यणी ६ ऋष्यप्रोक्ता ७ शूकशिम्बिः ८ मर्कटी ९ ।
इत्यमरः । २ । ४ । ८७ ॥ स्वगुप्ता १० । अजहा ११ कण्डुरा
१२ प्रावृषायिणी १३ प्रावृषा १४ शूकशिम्बी १५
शूकशिम्बा १६ कपिकच्छूः १७ । इति भरतः ॥
स्वयंगुप्ता १८ महर्षभी १९ लाङ्गली २० कुण्डली
२१ चण्डा २२ दुरभिग्रहा २३ कपिरोमफला
२४ गुप्ता २५ दुष्पर्शा २६ अजडा २७ प्रावृषेण्या
२८ वदरी २९ गुरुः ३० आर्षभी ३१ शिम्बी ३२
वराहिका ३३ तीक्ष्णा ३४ रोमालुः ३५ वन-
शूकरी ३६ कीशरोमा ३७ रोमवल्ली ३८ । शूक-
शिम्बिः ३९ वानरी ४० कपीकच्छुः ४१ शुक-
पिण्डी ४२ शूकपिण्डी ४३ कपिप्रभा ४४ । इति
शब्दरत्नावली ॥ अस्या गुणाः । स्वादुरसत्वम् ।
शुक्रवृद्धिकारित्वम् । वातक्षयपित्तास्रविकृतव्रण-
नाशित्वम् । शीतत्वञ्च । तस्या वीजगुणौ । वातश-
मनत्वम् । परमवाजीकरत्वञ्च । इति राजनिर्घण्टः ॥
(शूकशिम्बीशब्देऽस्या विशेषश्च ज्ञेयः ॥)

कपिकच्छुफलोपमा, स्त्री, (कपिकच्छुफलस्य उप-

मात्र ।) जतुकालता । इति राजनिर्घण्टः ॥

कपिकच्छुरा, स्त्री, (कपिभ्यः कच्छुं कण्डूं राति ददाति ।

कपिकच्छु + रा + कः ।) कपिकच्छुः । इति शब्द-
माला ॥ (यथा, गारुडे १९७ अध्याये ।
“एरण्डशारिका पर्णी गुडूची कपिकच्छुरा ।
एषां दशपलान् भागान् क्वाथयेत् सलिलेऽमले” ॥)

कपिकन्दुकं, क्ली, (कपि + कदि + उकः । अतो-

लोपः । कस्य शिरसः पिकन्दुकं अस्थि । यद्वा
कपिः परमात्मा विष्णुः कन्दति क्रीडति यत्र तत्रत्यं
अस्थि ।) शिरोऽस्थि । इति शब्दचन्द्रिका । माथार
खुलि इति भाषा ॥

कपिका, स्त्री, (कपिरिव कायिति यज्ञवराहवत् नील-

वर्णतया प्रकाशते शोभते वा । एकदेशसाम्यात्
तथात्वम् ।) नीलसिन्दुवारवृक्षः । इति राज
निर्घण्टः ॥ (नीलसिन्दुवारशब्देऽस्या गुणादयो
व्याख्येयाः ॥)

कपिकोलिः, पुं, (कपीनां प्रियः कोलिः ।) कोलि-

विशेषः । इति रत्नमाला । शेयाकुल इति भाषा ॥

कपिचूडा, स्त्री, (कपीनां चूडा इव । आम्रातक-

मुकुलस्य कपिचूडातुल्यत्वात् ।) आम्रातकवृक्षः ।
इति राजनिर्घण्टः । (आम्रातकशब्दे विशेषो-
ऽस्या ज्ञेयः ॥)

कपिचूतः, पुं, (कपीनां चूत इव अत्यन्तप्रियत्वात् ।)

आम्रातकवृक्षः । इति त्रिकाण्डशेषः ॥

कपिजः, पुं, (कपेः शिलायाः जायते । जन् + डः ।

कपितैलम् ॥) तुरुष्कः । इति राजनिर्घण्टः ।
शिलारस इति भाषा ॥

कपिजङ्घिका, स्त्री, (कपेः वानरस्य जङ्घा इव जङ्घा

यस्याः । संज्ञायां कन् । कपिसदृशजङ्घाया दैर्घ्यात्
इत्येवम् ।) तैलपिपीलिका । इति राजनिर्घण्टः ॥

कपिञ्जलः, पुं, (कपिरिव जवते वेगेन गच्छति यद्वा कम्

श्रुतिसुखदं शब्दम् पिञ्जयति कपिवत् पिञ्जलो
वा । ईषत्पिङ्गलवर्णो हरितालवर्णो वा । पृषो-
दरादित्वात् साधुः ।) चातकपक्षी । तन्मांस-
गुणाः । लघुत्वम् । शीतत्वम् । कफरक्तपित्तनाशि-
त्वम् । अग्निदातृत्वञ्च । इति राजवल्लभः ॥ पक्षि-
विशेषः । तत्पर्य्यायः । तेजलः २ ॥ तस्य मांसं
शुक्रवृद्धिकरम् । इति राजनिर्घण्टः ॥ तित्तिरि-
पक्षी । इति त्रिकाण्डशेषः ॥ (यथा, --
“कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरः ।
कपिञ्जल इति ख्यातो लोके कपिशतित्तिशः” ॥
इति भावप्रकाशः ॥
“पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ।
मन्दवातेषु शस्यन्ते शैत्यमाधुर्य्यलाघवात्” ॥
इति चरकः । तथा सुश्रुतश्च ।
“रक्तपित्तहरः शीतो लघुश्चापि कपिञ्जलः ।
कफोत्थेषु च रोगेषु मन्दवाते च शस्यते” ॥
ऋषिकुमारभेदः । अयन्तुश्वेतकेतुपुत्त्रस्य पुण्डरी-
कस्य बन्धुः । यथा कादम्बर्य्यां महाश्वेतोपाख्याने ।
“सखे ! कपिञ्जल ! किं मामन्यथा सम्भावयसि” ॥)

कपितैलं, क्ली, (कपिभिर्वानरैः शिलायाः विदारणात्

सम्पादितं यत् तैलम् ।) तुरुष्कनामगन्धद्रव्यम् ।
इति भावप्रकाशः ॥ (तथाचोक्तम् ।
“सिह्लाकस्तु तुरुस्कः स्याद्यतो यवनदेशगः ।
कपितैलञ्च सङ्ख्यातं तथा च कपिनामकः” ॥)

कपित्थः, पुं, (कपिः तिष्ठति फलप्रियत्वात् लोभात्

वा यत्र । कपि + स्था + कः । पृषोदरादित्वात्
सलोपे साधुः ।) वृक्षविशेषः । कत्वेल इति भाषा
तत्पर्य्यायः । दधित्थः २ ग्राही ३ मन्मथः ४ दधि-
फलः ५ पुष्पफलः ६ दन्तशठः ७ । इत्यमरः
२ । ४ । २१ ॥ कगित्थः ८ । इति भरतः ॥ मालूरः
९ मङ्गल्यः १० नीलमल्लिका ११ ग्राहिफलः १२
चिरपाकी १३ ग्रन्थिफलः १४ कुचफलः १५ क-
पीष्टः १६ गन्धफलः १७ दन्तफलः १८ करभव-
ल्लभः १९ काठिन्यफलः २० करञ्जफलकः २१ ।
अस्यामफलगुणः । अम्लत्वम् । उष्णत्वम् । कफ-
नाशित्वम् । ग्राहित्वम् । वायुवर्द्धकत्वम् । कण्ठ-
रोगजिह्वाधिकजडताकारित्वम् । त्रिदोषवर्द्धक-
त्वम् । विषहरत्वम् । रोचकत्वञ्च । तत्पक्वफल-
गुणाः । दोषत्रयहरत्वम् । मधुराम्लरसत्वम् ।
पृष्ठ २/०२४
:गुरुत्वम् । श्वासवभिश्रमक्लमहरत्वम् । हिक्काप-
नोदक्षमत्वम् । ग्राहित्वम् । रुचिप्रदत्वम् । ततः
सर्व्वदा सेव्यम् । इति राजनिर्घण्टः ॥
“कपित्थमामं कण्डघ्नं विषघ्नं ग्राहि वातलम् ।
मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्” ॥
इति राजवल्लभः ॥ (तथा च चरके ॥
“कपित्थं विषकण्ठ्यघ्नमामं संग्राहि वातलम् ॥
मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम् ।
परिपक्वं सदोषघ्नं विषघ्नं ग्राहि गुर्व्वपि” ॥
“कुशद्वीपेश्वरस्य राज्ञो ज्योतिष्मत्संज्ञकस्य सप्त-
पुत्त्राणामेकतमः । तद्वर्षमपि तन्नम्ना ख्यातम् ।
तद्विवरणन्तु विष्णुपुराणे २ यांशे ४ अध्याये
द्रष्टव्यम्”)

कपित्थत्वक्, क्ली, (कपित्थस्य मालूरस्य त्वगिव त्वग्

यस्य ।) एलबालुकम् । इति राजनिर्घण्टः ॥
(एलवालुकशब्देऽस्य विशेषगुणा ज्ञातव्याः ॥)

कपित्थपर्णी, स्त्री, (कपित्थस्य पर्णमिव पर्णं पत्रं

यस्याः । कपित्थपर्ण + गौरादित्वात् ङीष् ।)
वृक्षविशेषः । कपित्थानीति ख्याता । तत्पर्य्यायः ।
विरजा २ सुरसा ३ चित्रपत्रिका ४ । इति रत्न-
माला ॥

कपित्थास्यः, पुं, (कपित्थवत् कपित्थफलवत् वर्त्तु-

लाकारं आस्यं मुखं यस्य ।) वानरविशेषः । तत्प-
य्यायः । गोलाङ्गूलः २ दधिशोणः ३ नगाटनः ४ ।
इति त्रिकाण्डशेषः ॥

कपिध्वजः, पुं, (कपिर्हनूमान् ध्वजे यस्य सः । प्रतिज्ञा-

पालनपरतन्त्रेन महावीरेण हनूमताधिष्ठित-
ध्वजत्वात् वानरलाञ्छनध्वजत्वाद्वा तथात्वम् ।)
अर्ज्जुनः । इति त्रिकाण्डशेषः ॥
(यथा गीतायाम् । १ । २० ।
“अथ व्यवस्थितान् दृष्ट्वा धार्त्तराष्ट्रान् कपिध्वजः” ॥)

कपिनामा, [न्] पुं, (कपेर्नामैव नाम यस्य ।) सि-

ह्लकः । इति रत्नमाला ॥ (स्वार्थे कन् प्रत्ययेनास्य
प्रमाणमुक्तं भावप्रकाशे यथा, --
“कपितैलञ्च संख्यातं तथा च कपिनामकः” ॥)

कपिपिप्पली, स्त्री, (कपिः कपिवत् रक्तवर्णा पिप्प-

लीव रक्तवर्णपिप्पलीतुल्येति यावत् ।) रक्ता-
पामार्गः । इति वैद्यकम् ॥ सूर्य्यावर्त्तवृक्षः । इति
रत्नमाला ॥

कपिप्रभा, स्त्री, (कपिष्वपि प्रभा निजप्रमूतगुण-

प्रसारणं यस्याः । कपीनामपि कण्डूयनादस्या-
स्तथात्वम् ।) कपिकच्छुः । इति शब्दरत्नावली ॥

कपिप्रभुः, पुं, (कपीनां हनूमदादीनां प्रभुः

नियन्ता ।) रघुनाथः । इति शब्दरत्नावली ॥
(वानरराजः बाली सुग्रीवश्च ॥)

कपिप्रियः, पुं, (कपीनां प्रियः ।) आम्रातकः । इति

राजनिर्घण्टः ॥ कपित्थः । इति जटाधरः ॥

कपिरथः, पुं, (कपिर्हनूमान् रथ इव वहनकारी

वाहनं वा यस्य ।) श्रीरामः । इति शब्दरत्ना-
वली ॥ (कपिः महावीरः हनूमान् रथे यस्य
इति व्युत्पत्त्या कपिलाञ्छितध्वजः अर्ज्जुनः ॥)

कपिलः पुं, (कमु कान्तौ “कमेः पश्च” । उणां १ ।

५६ । इलच् । पश्चान्तादेशः ।) मुनिविशेषः । स तु
ज्ञानभक्तिसांख्ययोगप्रचारार्थभगवदतारः । कर्द्द-
मप्रजापतेरौरसाद्देवहूतिगर्भजातः । इति श्री-
भागवतम् ॥ (यथा गीतायां १० । २६ ।
“गन्धर्ब्बाणां चित्ररथः सिद्धानां कपिलो मुनिः” ॥
सगरराजसन्ततिष्वंसकारी रसातलस्थः कपिलो
मुनिः केषाञ्चिन्मते साङ्ख्ययोगप्रचारकर्त्ता न ।
अयन्तु अपरः कश्चित् स्वनामख्यातो मुनिः ।
एतदर्थे प्रमाणं यथा, रघुः ३ । ५० ।
“अतोऽयमश्वः कपिलानुकारिणा
पितुस्त्वदीयस्य मयापहारितः” ॥)
अग्निः । कुक्कुरः । इति हेमचन्द्रः ॥ सिह्लकनाम-
गन्धद्रव्यम् । इति रत्नमाला ॥ पिङ्गलवर्णः । तद्-
युक्ते त्रि । इत्यमरः । १ । ५ । १६--१९ ॥ नीलपीतः ।
कपिलः । इति रभसः ॥ “कपिलो रोचनाच्छविरि-
त्यन्ये” । इतिभरतः ॥ (यथा, महाभारते ३ । ३ । २४ ।
“अनन्तः कपिलो भानुः कामदः सर्व्वतोमुखः” ॥
महादेवः । यथा तत्रैव १३ । १७ । ९७ ।
“कपिलः कपिशः शुक्लः आयुश्चैव परोऽपरः” ॥
विष्णुः । यथा तत्रैव १३ । १४९ । १०९ ।
“सनात्सनातनतमः कपिलः कपिरव्ययः” ॥
नागविशेषः । यथा, हरिवंशे ३ । ११४ ।
“शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा” ॥
दानवभेदः । यथा तत्रैव ३ । ८२ ।
“अयोमुखः शम्बरश्च कपिलो वामनस्तथा” ॥)

कपिलद्युतिः, पुं, (कपिला रक्ता पिङ्गिलवर्णा वा

द्युतिः यस्य ।) सूर्य्यः । इति शब्दचन्द्रिका ॥

कपिलद्राक्षा, स्त्री, (कपिला द्राक्षा ।) द्राक्षाविशेषः ।

तत्पर्य्यायः । मृद्वीका २ गोस्तनी ३ कपिलफला ४
अमृतरसा ५ दीर्घफला ६ मधुवल्ली ७ मधुफला ८
मधुली ९ हरिता १० हारहारा ११ सुफला १२
मृद्वी १३ हिमोत्तरा १४ पथिका १५ हेमवती
१६ शतवीर्य्या १७ काश्मरी १८ । अस्या गुणाः ।
मधुरत्वम् । शीतत्वम् । हृद्यत्वम् । मदहर्ष-
दातृत्वम् । दाहमूर्च्छाज्वरश्वासतृष्णाहृल्लासना
शित्वञ्च । इति राजनिर्घण्टः ॥ (मृद्वीकाशब्दे-
ऽस्या गुणादयो ज्ञातव्याः ॥)

कपिलद्रुमः, पुं, (कपिलः कपिलवर्णो द्रुमः ।) काक्षी-

नामसुगन्धिकाष्ठम् । इति शब्दचन्द्रिका ॥

कपिलाधारा, स्त्री, (कपिलानां धारा इव दुग्धधारा-

सदृशी शुद्धा धारा यस्याः । यद्वा कपिलानां
दुग्धधाराभिः सम्भूता निर्म्मला धारा यस्याः ।
संज्ञायां ङ्यापोरिति पाणिनिसूत्रानुसारेण
ह्रस्वः ।) स्वर्णदी । तीर्थभेदः । इति हेमचन्द्रः ॥

कपिलशिंशपा, स्त्री (कपिला रक्तपीतमिश्रितवर्णा

शिंशपा ।) शिशपावृक्षविशेषः । तत्पर्य्यायः ।
कपिला २ पीता ३ सारिणी ४ कपिलाक्षी ५
भस्मगर्भा ६ कुशिंशपा ७ । अस्या गुणाः । तिक्त-
त्वम् । शीतवीर्य्यत्वम् । आमयवातपित्तज्वरच्छ-
र्द्दिहिक्कानाशित्वञ्च इति राजनिर्घण्टः ॥

कपिला, स्त्री, (कपिलो वर्णोऽस्त्यस्याः अर्श आद्यच् ।

टाप च ।) पुण्डरीकनामदिग्गजपत्नी । इत्यमरः ।
१ । ३ । ४ ॥ भस्मगर्भा शिंशपा । रेणुकानाम
गन्धद्रव्यम् । इत्यमरः । २ । ६३--१२० ॥
(यथाह राजवल्लभः ।
“रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा ।
भस्मगन्धा पाण्डुपुत्त्री स्मृता कौन्ती हरेणुका” ॥
अस्या गुणादिकं रेणुकाशब्दे द्रष्टव्यम् ॥) गो-
विशेषः ॥ इति हेमचन्द्रः ॥ सा तु स्वर्णवर्णा । इति
पुराणम् ॥ (यथा, महाभरते ३ । ८४ । ८२ ।
“कपिला सहवत्सा वै पर्ब्बते विचरत्युत” ॥
दक्षकन्या । यथा, महाभारते १ । ६५ । १२ ॥
“क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः” ॥
कपिलवर्णयोगात् । अनुदात्तत्वाभावात् वर्णा-
दिति न ङीप् ।) गृहकन्या । शिंशपा । राजरीतिः
इति राजनिर्घण्टः ॥ नदीविशेषः । यथा,
“कज्जला चलशैलात्तु पूर्ब्बस्मिन् शुभ्रपर्ब्बतः ।
शच्या सह पुरा रेमे यत्र शक्रः सुरेश्वरः ॥
तत्पूर्ब्बस्यां महादेवी नदी कपिलसंज्ञिता ।
तस्यां स्रात्वा नरो गङ्गास्नानजं फलमाप्नुयात्” ॥
इति कालिकापुराणे ८१ अध्यायः ॥ (तीर्थविशेषः ।
यथा, महाभारते ३ । ८३ । ४५ ।
“कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ।
तत्र स्नात्वार्च्चयित्वा च पितॄन् स्वान् दैबतान्यपि ।
कपिलानां सहस्रस्य फलं विन्दति मानवः” ॥
कपिलानां पयस्विनीधेनूनाम् इत्यर्थः ॥ पिङ्गल-
वर्णा । यथा, विष्णुपुराणे २ यांशे । ४ । ३१ ।
“कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक् पृथक्” ॥
कपिला कन्या नोपयन्तव्या यदुक्तं मनुना ३ । ८ ।
“नोद्वहेत्कपिलांकन्यां नाधिकाङ्गींन रोगिणीम्” ॥)

कपिलाक्षी, स्त्री, (कपिलं अक्षि तद्वत् पुष्पं यस्याः ।)

मृगेर्व्वारुः । कपिलशिंशपा । इति राजनिर्घण्टः ॥

कपिलाश्वः, पुं, (कपिलाः कपिलवर्णाः अश्वाः यस्य ।)

इन्द्रः । इति त्रिकाण्डशेषः ॥

कपिलोमफला, स्त्री, (कपिलोमस्वपि फलति कण्डू-

प्रदानाय प्रभवति या ।) कपिकच्छूः । इति राज-
निर्घण्टः ॥ (शूकशिम्बीशब्देऽस्या गुणा ज्ञेयाः ॥)

कपिलोमा, स्त्री, (कपिलोमवत् लोममञ्जरी यस्याः ।)

रेणुका । इति राजनिर्घण्टः ॥ (विस्तृतिस्तु रेणुका
शब्द द्रष्टव्या ॥)

कपिलोहं, क्ली, (कपिरिव कपिवर्णतुल्यं लोहम् ।)

पित्तलम् । इति हेमचन्द्रः ॥ (पित्तलशब्देऽस्य
गुणा ज्ञातव्याः ॥)

कपिल्लिका, स्त्री, (कपिवर्णा वल्लिका । पृषोदरा-

दित्वात् वलोपे साधुः ।) गजपिप्पली । इति
रत्नमाला ॥ (गजपिप्पलीशब्देऽस्या गुणा ज्ञेयाः ॥)

कपिवक्त्रः, (कपेर्वानरस्य वक्त्रमिव वक्त्रं यस्य भागि-

नेयपर्ब्बतमुनिशापप्रभावात् मातुलस्य देवषेस्तथा-
त्वम् ।) नारदः । इति त्रिकाण्डशेषः ॥ (यथा हि
नारदस्य कपिवक्त्रत्वं जातम् तदुच्यते ।
पुरा किल मातुलभागिनेयौ द्वावृषिसत्तमौ
नारदपर्ब्बतौ मानुषेषु सम्प्रीत्या विहर्त्तुकामौ
देवलोकादिहागतवन्तौ । आगत्य च सृञ्जयं
राजानमभ्येत्य तद्राज्ये ऊषतुः । आसीच्च
पृष्ठ २/०२५
:किलानयोः समयः शुभमशुभं वा हृदि जातं
सङ्कल्पं परस्परेण कथनीयमिति । अथ कदाचित्
राजा तावभ्युपेत्य स्वसुतां तदाराधनाय नियो-
जितवान् । अथ गच्छति काले नारदस्तु कन्दर्प-
बाणवशगः राजदुहितरि मनो निदधे । धर्म्म-
विदपि नारदः व्रीडमानः तीव्रमिदं मनोभावं
भागिनेयाय न शशंस । भागिनेयः पर्ब्बतस्तु इङ्गि-
तादिभिर्मातुलं कामार्त्तं वीक्ष्य समयभङ्गादति-
क्रुद्धः “इयं नृपसुता तव भार्य्या भविष्यति त्वमपि
वानरमूर्त्तिधरोऽत्र विचरिष्यति” इति तं शप्त-
वान् । एतच्छापात् खलु नारदो वानरमुख
आसीत् इति पौराणिकी कथा अत्र अनुसन्धेया ॥
विस्तृतिस्तु महाभारते शान्तिपर्ब्बणि ३० अध्याये
द्रष्टव्या ॥)

कपिवल्ली, स्त्री, (कपिरिव कपिलोमसदृशी वल्ली ।)

गजपिप्पली । इत्यमरः । १ । ५ । १६ ॥

कपिशः पुं, (कपिः वर्णविशेषः अस्त्यस्य कपिनामा-

स्यास्ति वा लोमादित्वात् शः ।) श्यावः । कृष्ण-
पीतमिश्रितवर्णः । तद्युक्ते त्रि । इत्यमरः १ । ५ । १६ ॥
(यथा, रघुः १२ । २८ ।
“सन्ध्याभ्रकपिशस्तस्य विराधो नाम राक्षसः ।
अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः” ॥
सर्व्ववर्णमयत्वात् शिवः । यथा, महाभारते १३ ।
शिवसहस्रनामकीर्त्तने १७ । ९७ ।
“कपिलः कपिशः शुक्लः आयुश्चैव परोऽपरः” ॥)
सिह्लकनाम गन्धद्रव्यम् । इति मेदिनी ॥

कपिशाञ्जनः, पुं, (कपिशं अञ्जनं कपिशयुक्तं अञ्जनं

वा यत्र । अञ्जनस्य कृष्णवर्णतया तस्य श्वेतवर्णत्वाच्च
एवमुच्यते ।) शिवः । इति त्रिकाण्डशेषः ॥

कपिशापुत्त्रः पुं, (कपिशायाः मदोन्मत्तायाःपिशाच्याः

पुत्त्रः ।) पिशाचः । इति शब्दमाला ॥

कपिशी, स्त्री, (कपिश इति वर्णवाचितया ङीष् ।)

माधवी । मदिरा । इति मेदिनी जटाधरश्च ॥
(हलायुधमतेऽस्य क्लोवत्वमपि दृश्यते ॥)

कपिशीका, स्त्री, (कपिश + स्वार्थे बाहुलकात्

ईकन् टाप् च ।) मदिरा । इति त्रिकाण्डशेषः ॥

कपिशीर्षं, क्ली, (कपीनां प्रियस्थानं शीर्षं वृक्ष-

प्राकारादीनां शिर्षदेश एव कपिप्रियत्वात् प्रसि-
द्धः । शाकपार्थिवादित्वात् समासः ।) प्राकारा-
ग्रम् । तत्पर्य्यायः ॥ खोडकशीर्षकम् २ क्रयशीर्षम्
३ । इति त्रिकाण्डशेषः ॥

कपिशीर्षकं, क्ली, (कपीनां शीर्षवर्णवत् कायति

प्रकाशते । कै + कः ।) हिङ्गुलम् । इति शब्द-
चन्द्रिका ॥ (हिङ्गुलशब्देऽस्य गुणादयो व्याख्येयाः ॥)

कपीकच्छुः, पुं, (कपिकच्छुरिति संज्ञायां वादीर्घः ।)

कपिकच्छुः । इति शब्दरत्नावली ॥

कपीज्यः, पु, (कपिभिर्वानरैरतिप्रियत्वात् इज्यते

पूज्यते । कपि + यज् + क्यप् ।) क्षीरिकावृक्षः ।
इति जटाधरः ॥ (रामचन्द्रः । इति व्युत्पत्त्यर्थः ॥)

कपीतः, पुं, (कं जलं तत्तुल्यश्वेतवर्णं अपि इतः

प्राप्तः अपेरल्लोपः । यद्वा कपिभिरितः प्रियत्वेन
प्राप्तः ।) श्वेतवुह्नावृक्षः । इति रत्नमाला ॥

कपीतनः, पुं, (कपीनां ईं लक्ष्मीं तनोति विस्तारय-

तीति । कपि + ई + तन् + पचाद्यच् । कपीनां
कपेर्वर्णस्य वा तनः । अन्येषामपीति । ६ । ३ ।
१३७ । दीर्घः ।) आम्रातकवृक्षः । गर्द्दभाण्डवृक्षः ।
शिरीषवृक्षः । इत्यमरः । २ । ४ । २७ ॥ अश्वत्थ-
वृक्षः । इति मेदिनी । गुवाकवृक्षः । विल्ववृक्षः ।
इति शब्दरत्नावली ॥ (आम्रातकशब्दे शिरीष-
शब्दे अश्वत्थशब्दे विल्वशब्दे चास्य गुणादयो
ज्ञातव्याः ॥)

कपीन्द्रः, पुं, (कपिश्चासौ इन्द्रश्चेति कपिरिन्द्र इव

इति वा ।) हनूमान् । इति शब्दरत्नावली ॥
(कपीनां वानराणामिन्द्रः । सुग्रीवः । बाली ।
इति रामायणम् ॥ विष्णुः । यथा, महाभारते ।
१३ । बिष्णुसहस्रनामकीर्त्तने १४९ । ६६ ।
“शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः” ॥)

कपीष्टः, पुं, (कपीनां इष्टः प्रियः ।) राजादनीवृक्षः ।

कपित्थः । इति राजनिर्घण्टः ॥ (कपित्थशब्देऽस्य
गुणादय उक्ताः ॥)

कपोतः, पुं, (को वायुः पोतः नौरिवास्य । यद्वा कवृ

वर्णे + “कवेरोतच् पश्च” । उणां । १ । ६३ ।
इति ओतच् + वस्य पश्च ।) गृहकपोतः । पायरा
इति भाषा । तत्पर्य्यायः । कलरवः २ पारावतः
३ । इत्यमरः । २ । ५ । १४ ॥ पारापतः ४ छेद्यः
५ रक्तलोचनः ६ । इति रभसः ॥ गृहकुक्कुटः ७ ।
यथा, --
“मार्जाररक्षिते दुःखं यादृशं गृहकुक्कुटे” ।
इति प्रयोगात् इति सारसुन्दरी ॥
(यथा, रामायणे । ५ । ९१ । ४ ।
“श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
अर्च्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः” ॥)
वनकपोतः । घुघु इति भाषा । तत्पर्य्यायः । चित्र-
कण्ठः २ । इति मेदिनी ॥ कोकदेवः ३ धूसरः ४
धूम्रलोचनः ५ दहनः ६ अग्निसहायः ७ भीषणः
८ गृहनाशनः ९ । तन्मांसगुणाः । वीर्य्यबल-
वृद्धिकारित्वम् । स्वादुत्वम् । कफपित्तास्रनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ मधुरत्वम् । शीतत्वम् । कषा-
यत्वम् । वातपित्तनाशित्वम् । सार्षपतैलभर्जनेन
विरुद्धत्वञ्च । इति राजवल्लभः ॥
(अस्य गुणान्तरं यथा, --
“पारावतो गुरुः स्निग्धो रक्तपित्तानिलापहः ।
संग्राही शीतलस्तज्ज्ञैः कथितो वीर्य्यवर्द्धनः” ॥
इति भावप्रकाशः ॥
“कपोतो वृंहणो बल्यो वातपित्तविनाशनः ।
तर्पणः शुक्रजननो हितो नॄणा रुचिदः” ॥
इति हारीतः ॥ कपोतविशेषस्य गुणाः ॥ यथा, --
“गुरुः सलवणः काणकपोतः सर्व्वदोषकृत्” ॥
इति वाभटः ॥
“कषायमधुराः शीता रक्तपित्तनिवर्हणाः ।
विपाके मधुराश्चैव कपोता गृहवासिनः ॥ १ ॥
तेभ्यो लघुतराः किञ्चित् कपोता वनवासिनः ।
शीताः संग्राहिणश्चैव स्वल्पं मृदुतराश्च ते” ॥ २ ॥
इति चरकः ॥
“सर्व्वदोषहरस्तेषां भेदाशी मलदूषकः ।
कषायस्वादुलवणो गुरुः काणकपोतकः” ॥
इति सुश्रुतः ॥)

कपोतकं, क्ली, (कपोत इव कपोतवर्नवत्कायति

प्रकाशते । कै + कः ।) सौवीराञ्जनम् । इति राज-
निर्घण्टः ॥

कपोतचरणा, स्त्री, (कपोतचरणः चरणाकारो

अस्त्यस्याः ।) नलीनामगन्धद्रव्यं । इति जटाधरः ॥

कपोतपालिका, स्त्री, (पालयति इति । पाल

रक्षणे + कर्त्तरि ण्वुल् । कपोतानां पालिका
कपोतान् पालयति इति वा कर्म्मण्यण् ।) विटङ्कः ।
सौधादिप्रान्तकाष्ठादिरचितपक्षिस्थानम् । इत्य-
मरः । २ । २ । १५ ॥ पायरार खोप इति भाषा ॥

कपोतपाली, स्त्री, (कपोतान् पालयति इति । पाल

कर्म्मण्यण् ङीप् च । केचित्तु पाल + अच् गौरादि-
त्वात् ङीष् ।) कपोतपालिका । इति हलायुधः ॥
(यथा माघे ३ । ५१ ।
“चिक्रंसया कृत्रिमपत्रिपङ्क्तेः
कपोलपालीषु निकेतनानाम्” ॥)

कपोतवङ्का, स्त्री, (कपोतो वञ्च्यते प्रतार्य्यतेऽनया ।

वन्च + करणे घञ् कुत्वं टाप् च ।) ब्राह्मीवृक्षः ।
इति राजनिर्घण्टः ॥ (यथा सुश्रुते ।
“कपोतवङ्कामूलं हि पिबेदम्लसुरादिभिः” ॥)

कपोतवर्णी, स्त्री, (कपोतस्य वर्ण इव वर्णो यस्याः

गौरादित्वात् ङीष् ।) सूक्ष्मैला । इति राज-
निर्घण्टः ॥ (सूक्ष्मैलाशब्देऽस्या विशेषो ज्ञेयः ॥)

कपोतवाणा, स्त्री, (कपोतपाद इव यो वाणः तद्वदा-

कारोऽस्याः ।) नलिकानामगन्धद्रव्यम् । इति राज-
निर्घण्टः ॥

कपोतसारं, क्ली, (कपोतः कपोतवर्ण इव सारः कृष्ण-

वर्णो यत्र ।) स्रोतोऽञ्जनम् । इति राजनिर्घण्टः ॥

कपोताङ्घ्रिः, स्त्री, (कपोतस्य अङ्घ्रिरिव ।) नलीना-

मगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२१ ॥

कपोताभः, पुं, (कपोतस्य आभा इव आभाऽस्य ।)

कपोतवर्णः । इति हेमचन्द्रः ॥ (मूषिकभेदः ।
“मूषिकश्च कपोताभस्तथैवाष्टादश स्मृताः” ।
इति सुश्रुतः ॥)

कपोतारिः, पुं, (कपोतानां अरिः शत्रुः ।) श्येन-

पक्षी । इति शब्दरत्नावली ॥

कपोलः, पुं, (कम्पते “कपिगण्डि कटिपटिभ्य ओ-

लच्” । उणां १ । ६७ । इति ओलच् कपि
इति निर्द्देशात् नलोपः । कं सुखं पोलतीति
वा पुलमहत्त्वे कर्म्मण्यण् ।) सृक्वतिर्य्यक्सन्निधि-
भागः । गाल इति भाषा । तत्पर्य्यायः । गण्डः
२ । इत्यमरः । २ । ६ । ९० ॥ गल्लः ३ । इति
राजनिर्घण्टः ॥ (यथा रघुः । ४ । ६८ ।
“तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम्” ॥)

कफः, पुं, (केन जलेन फलति इति । फल निष्पत्तौ

“अन्येष्वपि” ३ । २ । १०१ । इति डः । केशिरसि
फलति वा प्राग्वड्डः ।) शरीरस्यधातुविशेषः ।
तत्पर्य्यायः । श्लेष्मा २ संघातः ३ सौम्यधातुः ४
पृष्ठ २/०२६
:घनः ५ बली ६ । अस्य गुणाः । गुरुत्वम् । सन्धि-
विश्लेषकारित्वम् । मृदुत्वम् । प्रमर्द्दनत्वम् । स्निग्ध-
त्वम् । कटुत्वम् । शीतत्वम् । जडताकारित्वम् ।
शुक्लत्वम् । शीते वसन्ते निशामुखे पूर्ब्बाह्ने भुक्ते
च प्रकोपणत्वम् । इति राजनिर्घण्टः ॥ * ॥ अस्य
प्रकोपहेतुः । “गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष्य-
द्रवदधिदिननिद्रापूपसर्पिःप्रपूरैः । तुहिनपतन-
काले श्लेष्मणः सप्रकोपः प्रभवति दिवसादौ भुक्त-
मात्रे वसन्ते” ॥ * ॥ तस्य कर्म्माणि । “स्तमित्यं म-
धुरास्यता शिशिरता शौक्ल्यं प्रसेको मलप्राचुर्य्यं
स्थिरता रसश्च लवणः कण्डूरतिस्वप्नता । आलस्यं
चिरकारिता कठिनता शोथारुचिस्निग्धता तन्द्रा-
तृप्त्युपदेहकासगुरुता एताः कफोत्था रुजः” ॥ * ॥
अस्य प्रशमताकारणम् ।
“गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः ।
श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः” ॥
“रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवन-
स्त्रीसेवाध्वनियुद्धजागररतिक्रीडापदाघातनम् ।
धूमात्युष्णशिरोविरेकवमनस्वेदोपनाहादिकं
पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत्” ॥
स च पञ्चविधो यथा, --
“अवलम्बक इत्येकः क्लेदकः श्लेषकोऽपरः ।
बोधकस्तर्पकश्चेति श्लेष्मा पञ्चविधः स्मृतः” ॥ * ॥
एतेषां लक्षणानि यथा, --
“कफधाम्नान्तु शेषाणां यत्करोत्यवलम्बनम् ।
ततोऽवलम्बकाख्यातिं श्लेष्मा प्राप्नोत्युरःस्थितः ॥ १ ॥
आमाशयाश्रितः सोऽन्नक्लेदनात् क्लेदकः स्मृतः ॥ २ ॥
श्लेषकश्लेषणात् सन्धेः स च सन्धौ व्यवस्थितः ॥ ३ ॥
रसनावस्थितस्त्वेष बोधको रसबोधनात् ॥ ४ ॥
शिरसि प्रस्थितश्चासौ तर्पको नेत्रतर्पणात् ॥ ५ ॥ ॥ * ॥
अस्य स्थानानि ।
“उरःकण्ठशिरः क्लोमपर्ब्बाण्यामाशयो रसः ।
मेदो घ्राणञ्च जिह्वा च कफस्थानमुरः परम्” ॥ * ॥
(सन्धिसंश्लेषणस्नेहनरोपणपूरणबलस्थैर्य्यकृत्
श्लेष्मा पञ्चधा प्रविभक्त उदककर्म्मणानुग्रहं करो-
ति । इति तु प्रकारभेदेनास्य कार्य्यमुक्तम् ॥
अतः परमस्य क्षीणलक्षणमाह ।
श्लेष्मक्षये कक्षतान्तर्दाह आमाशयेतराशय-
शिरसां शून्यता सन्धिशैथिल्यं तृष्णा दौर्ब्बल्यं
प्रजागरणञ्च । तत्र स्वयोनिवर्द्धनद्रव्याण्येव प्रती-
कारः ॥ अतःपरमम्यातिवृद्धौ यल्लक्षणं तदाह ॥
श्लेष्मवृद्धौ शौक्ल्यं शैत्यं स्थैर्य्यं गौरवमवसाद-
स्तन्द्रानिद्रासन्ध्यस्थिविश्लेषश्च ॥)
तत्प्रकृतिकस्य लक्षणम् ।
“गम्भीरबुद्धि स्थूलाङ्गः स्निग्धकेशो महाबलः ।
स्वप्ने जलाशयालोकी श्लेष्मप्रकृतिको नरः” ॥ * ॥
(अपरञ्च यथाह हारीतः ।
“सुस्निग्धवर्णः सितनेत्रदीप्तः
श्यामः सुकेशो न च दीर्घरोमा ।
गम्भीरशब्दः श्रुतशास्त्रनिद्रा-
तन्द्राप्रियस्तिक्तकटूष्णभोजी ॥
सुमांसलः स्निग्धरसप्रियश्च
संगीतवाद्योऽतिसहिष्णुचित्तः ।
व्यायामशीलो रतलालसोऽसौ
भवेत् कफात्मप्रकृतिर्मनुष्यः ॥
शुक्लाक्षः स्थिरकुटिलातिनीलकेशो
लक्ष्मीवान् जलदमृदङ्गसिंहघोषः ।
सुप्तः सन् सकमलहंसचक्रवाकान्
सम्पश्येदपि च जलाशयान् मनोज्ञान् ॥
रक्तान्तनेत्रः सुविभक्तगात्रः
स्निग्धच्छविः सत्त्वगुणोपपन्नः ।
क्लेशक्षमोमानयिता गुरूणां
ज्ञेयो वलासप्रकृतिर्मनुष्यः ॥
दृढशास्त्रमतिः स्थिरमित्रधनः
परिगण्य चिरात् प्रददाति बहु ।
परिनिश्चितवाक्यपदः सततं
गुरुमानकरश्च भवेत् स सदा ॥
ब्रह्मरुद्रेन्द्रवरुणैः सिंहाश्वगजगोवृषैः ।
तार्क्षहंससमानूकाः श्लेष्मप्रकृतयो नराः” ॥
इति सुश्रुतश्च ॥
श्लेष्मस्थानान्यत ऊर्द्ध्वं तक्ष्यामः । तत्रामाशय-
पित्ताशयस्योपरिष्टात् तत्प्रत्यनीकत्वादूर्द्ध्वगतित्वा-
त्तेजसश्चन्द्र इवादितस्य स चतुर्व्विधस्याहारस्या-
धारः । स च तत्रौदकैर्गुणैराहारः प्रक्लिन्नो
भिन्नसंघातः सुखजरश्च भवति ।
“माधुर्य्यात् पिच्छिलत्वाच्च प्रक्लेदित्वात्तथैव च ।
आमाशये सम्भवति श्लेष्मामधुरशीतलः” ॥
स तत्रस्थ एव स्वशक्त्या शेषाणां श्लेष्मस्थानानां
शरीरस्य चोदककर्म्मणानुग्रहं करोति । उरस्थः-
स्त्रिकसन्धारणमात्मवीर्य्येणान्नरससहितेन हृद-
यावलम्बनं करोति । जिह्वामूलकण्ठस्थो जिह्वे-
न्द्रियस्य सौम्यत्वात् सम्यग्रसज्ञाने वर्त्तते । शिरस्थः
स्नेहसन्तर्पणाधिकृतत्वादिन्द्रियाणामात्मवीर्य्येणानु-
ग्रहं करोति । सन्धिस्थस्तु श्लेष्मा सर्व्वसन्धि-
संशेषात् सर्व्वसन्ध्यनुग्रहं करोति ॥ भवति चात्र ।
“श्लेष्मा श्वेतो गुरुः स्निग्धः पिच्छिलः शीत एव च ।
मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः” ॥)
तस्याविकृतस्य कर्म्म ।
“स्नेहो बन्धः स्थिरत्वञ्च गौरवं वृषता बलम् ।
क्षमा धृतिरलोभश्च कफकर्म्माविकारजम् ॥ * ॥
इति सुखबोधः ॥ फेनः । यथा अब्धिकफः इत्यादि ॥

कफकूर्च्चिका, स्त्री, (कफं कूर्चति विकृतं करोतीति ।

कफ + कूर्च + विकारे + ण्वुल् + टाप् इत्वञ्च ।)
लाला । लाल् थुतु सिक्नि इत्यादि भाषा ॥
तत्पर्य्यायः । सृणीका २ स्यन्दिनी ३ लाला ४
आस्यासवः ५ । इति हेमचन्द्रः ॥

कफघ्नी, स्त्री, (कफं कफविकृतिं हन्तीति । कफ +

हन् + टक् + ङीप् ।) हपुषाभेदः । इति राज-
निर्घण्टः ॥ (यथा, राजनिर्घण्टे शताह्वादिवर्ग-
श्चतुर्थः ।
“प्लीहशत्रुर्विषघ्नी च कफघ्नी चापराजिता” ॥)

कफणिः, पुं, स्त्री, (केन सुखेन फणति अनायासेन

सङ्कोचविकोचनत्वं प्राप्नोति स्फुरति वा । फण
गतौ, स्फुर सञ्चलने इति वा धातोः इन्
पृषोदरादित्वात् साधुः ।) कफोणिः । इति
हेमचन्द्रः ॥

कफवर्द्धनः, पुं, (कफं कफजनितं विकारं वर्द्धयतीति ।

कफ + वृध् + णिच् + ल्युः ।) पिण्डीतगरवृक्षः ।
इति त्रिकाण्डशेषः ॥ श्लेष्मवृद्धिकारके त्रि । इति
वैद्यकं ॥ (दिवास्वप्नाव्यायामालसमधुराम्ललवण-
शीतस्निग्धगुरुपिच्छिलाभिष्यन्दिहायनकयवनैष-
धेत्कटमाषमहामाष-गोधूमतिलपिष्टविकृतिदधि-
दुग्धकृशरापायसेक्षुविकारानुपौदकमांसवसाविस-
मृणालकशेरुकशृङ्गाटकमधुरवल्लीफलसमशनाध्य-
शनप्रभृतिभिः श्लेष्माप्रकोपमापद्यते ॥
“सशीतैः शीतकाले च वसन्ते च विशेषतः ।
पूर्ब्बाह्ने च प्रदोषे च भुक्तमात्रे प्रकुप्यति” ॥
इति सुश्रुतः ॥)

कफविरोधि, क्ली, (कफं विशेषेण रुणद्धीति ।

कफ + वि + रुध् + णिनिः ।) मरिचम् । इति
राजनिर्घण्टः ॥ (श्लेष्मनाशके, त्रि । मरिचशब्दे-
ऽस्य गुणा ज्ञेयाः ॥)

कफान्तकः, पुं, (कफस्य अन्तकः नाशकः । यद्वा ।

कफं अन्तयतीति । कफ + अन्त + करोत्यर्थे
णिच् + ण्वुल् ।) वर्व्वुरवृक्षः । इति राज-
निर्घण्टः ॥ (अस्य गुणादिकं वर्व्वूरशब्दे द्रष्टव्यम् ॥
कफनाशके, त्रि ॥)

कफारिः पुं, (कफस्य अरिः दमयितेत्यर्थः ।) शुण्ठी ।

इति राजनिर्घण्टः ॥ (श्लेष्मनाशके, त्रि । शुण्ठी-
शब्देऽस्य विशेषो ज्ञेयः ॥)

कफी, [न्] त्रि, (कफोऽस्त्यस्य । कफ + अस्त्यर्थे ।

“द्वन्द्वोपतापेति” । ५ । २ । १२८ । इनिः ।)
श्लेष्मयुक्तः । तत्पर्य्यायः । श्लेष्मलः २ श्लेष्मणः ३ ।
इत्यमरः । २ । ६ । ६० ॥ गजे पुं । इति सार-
स्वतः ॥

कफेलूः, त्रि, (कफं लाति आदत्ते इति । कफ + ला

आदाने + “अन्दू--दृन्फू--जम्बू-कम्बू-कफेलू-कर्कन्धू-
दिधिषु” । उणां १ । ९५ । इति कुप्रत्ययान्तो
निपातितः ।) कफयुक्तः । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥ (पुं, श्लेष्मातकवृक्षः ।
“कफेलूः श्लेष्मातकतरौ पुंसीति रूपमञ्जरी” ।
इति “उज्वलदत्तधृतवचनात्” ॥ १ । ९५ ॥)

कफोणिः, पुं, (कं सुखं स्फोरयति । स्फुर स्फुरणे

सञ्चलने च ण्यन्तात् अच इः । अथवा केन सुखेन
फणति स्फुरतीति वा । स्फुर, फण वा + इन्
उमयतः पृषोदरादित्वात् साधुः ।) भुजमध्य-
ग्रन्थिः । कनुइ इति भाषा ॥ तत्पर्य्यायः ।
कुर्परः २ । इत्यमरः । २ । ६ । ८० ॥ (कुर्परशब्दे
ऽस्य विशेषो ज्ञेयः ॥)

कब, ऋ ङ स्तुतौ । वर्णे । इति कविकल्पद्रुमः । (भ्वां-

आत्मं-सकं-सेट्-ऋदित् ।) वर्णः शुक्लादिक्रिया ।
ऋ अचकाबत् । ङ कबते कविर्विष्णुम् । कबते
प्रतिमां चित्रकारः । इति दुर्गादासः ॥

कबन्धं, क्ली, (कस्य प्राणवायोः बन्धः आश्रयः । जल-

पानमेव प्राणधारणकारणम् । कदापि प्राण-
स्थितिः जलं विना नैव स्यात् । यथा, श्रुतिः ।
पृष्ठ २/०२७
:“पञ्चदशाहानि माऽशीः काममपः पिनापोमयः
प्राणो न पिबतस्ते विच्छेत्स्यते” ।) जलम् । इत्य-
मरः । १ । १० । ४ ॥ (यथा, ऋग्वेदे ५ । ८५ । ३ ।
“नीचीनवारं वरुणः कबन्धं प्रससर्ज रोदसी अन्त-
रीक्षम्” ॥)

कबन्धः पुं, (कं सुखं बध्यते रुध्यतेऽस्मात् । क + बन्ध

+ घञ् ।) राहुः । रक्षोविशेषः । (यथा, रघुः
१२ । ५७ ।
“बधनिर्द्धूतशापस्य कबन्धस्योपदेशतः ।
मुमूर्च्छसख्यं रामस्य समानव्यसने हरौ” ॥
अस्य विवरणादिकमुच्यते । पुरा किल दनुनामा
कश्चिद्दानवः उग्रेण तपसा पितामहं सन्तोषयन्
दीर्घमायुः प्राप्तवान् । प्राप्तदीर्घायुरतिगर्व्वः सुर-
राजेन सह योद्धुं सुरपुरमगच्छत् । शक्रस्तु रण-
भूमिगतः प्रमुक्तेन वज्रेणास्य सक्थिनी शिरश्च
शरीरमध्येप्रावेशयत् । न त्वसौ पितामहवरप्रभा-
वतया प्राणान् मुमोच । अथ स एवं विकृत-
विग्रहोऽनाहारादितया क्लिश्यमानो बहुधा या-
चमानः सुरपतिं प्रसादयामास । इन्द्रस्तु प्रसन्नो यो-
जनमायतौ बाहू तीक्ष्णदंष्ट्रञ्च वदनमस्मै वक्षसि
प्रादात् । तदा प्रभृत्येवासौ वने विचरन् सुदीर्घ-
बाहुभ्यां वनजादीन् प्राणिनो गृहीत्वा भक्षयन्
विचचार । अथ गच्छति काले दशरथात्मजो
रामः ससीतालक्ष्मणः पितृसत्यपालनार्थं वने भ्रम-
न्नमुना कबन्धेन सम्प्राप्तः । प्रभूतबलशालिनानेन
गृहीतोऽपि रामः स्वखङ्गेनैनं व्यापादयामास ।
अथ रामहस्तनाशात् प्राप्तशापमोचनसमयो-
ऽयं कबन्धः विकृतरूपं विहाय दिव्यमूर्त्तिधरः
स्वर्लोकं ययौ । इति वाल्मीकियरामायणमतम् ।
महाभारतमते तु अयं विश्वावसुनामा गन्धर्व्व
आसीत् ब्राह्मणशापेन राक्षसयोनिं प्राप्तवान् ।
यदुक्तं तत्रैव ३ । २७८ । ४२ ।
“तस्याचचक्षे गन्धर्व्वो विश्वावसुरहं नृप ! ।
प्राप्तो ब्राह्मणशापेन योनिं राक्षससेविताम्” ॥)
उदरम् । इति मेदिनी ॥ (केन वायुना बध्यते
संबध्यते वा । धूमकेतुः । प्रवहवायुनोपचीयमान-
त्वात् तथात्वंतस्य च लोकसुखनाशकत्वं प्रसिद्धम् ॥)

कबन्धः, पुं, क्ली, (केन प्राणवायुना पुनर्बध्यते सम्ब-

ध्यते मस्तकहीनस्यापि दैवेन प्राणावेशात् जीव-
तो नरस्येव क्रियाकारित्वशक्तित्वात्तथात्वम् । क +
बन्ध + घञ् ।) क्रियायुक्तापमूर्द्धकलेवरम् । इत्य-
मरः २ । ८ । ११८ ॥ यथा, मार्कण्डेये ८२ । ६३ ।
“कबन्धाश्छिन्नशिरसः खङ्गशक्त्यृष्टिपाणयः” ॥
अपि च । “नागानामयुतं तुरङ्गनियुतं सार्द्धं
रथानां शतं पत्तीनां दशकोटयो निपतिता एकः
कबन्धो रणे । तादृक्कोटिकबन्धनर्त्तनविधौ
खेलच्चलत् खे शिरस्तेषां कोटिनिपातने रघुपतेः
कोदण्डघण्टारवः” ॥ इति प्राचीनाः ॥

कबित्थः, पुं, (कपयस्तिष्ठन्त्यत्र । “सुपिस्थः” इति

कः । पृषोदरादित्वात् साधुः ।) कपित्थवृक्षः ।
इत्यमरटीका ॥ कगित्थः । इत्यमरमालायां पाठः ॥

कबिलः, पुं, (कबृवर्णे + इलच् ।) कपिलवर्णः ।

इति भरतो द्विरूपकोषश्च ॥

कम, उ क ङ स्पृ हि । इति कविकल्पद्रुमः ॥ (चुरां

--आत्मं--सकं--सेट् ।) उ कमित्वा कान्त्वा । क ङ
कामयते । अन्यैर्भ्वादौ पठ्यमानस्याप्यस्य कित्क-
रणं कम ऋत इत्यादिना विहितस्य ञिङो
ज्ञापनार्थं तेन अरे ञिङोऽप्राप्तिपक्षे अचकमत ।
चकमे कमिता इत्यादि सिद्धम् । इति दुर्गा-
दासः ॥

कम, उ ङ कान्तौ । इति मुग्धबोधव्याकरणम् ।

(भ्वां-आत्मं-अकं-सेट् ॥)

कम्, व्य (कमुकान्तौ णिङभावे विच् ।) जलम् ।

शिरः । सुखम् । मङ्गलम् । पादपूरणम् । इति
शब्दरत्नावली ॥ (यथा ऋग्वेदे । १ । १२३ । ११ ॥
“सुसंकाशा मातृमृष्टेव योषा विस्तन्वं कृणुषे
दृशे कम्” । “अत्र कमिति पादपूरणे अथवा क-
मिति सुखवचनं सुखं यथा भवतीति” भाष्यम् ॥)

कमठं, क्ली, (कम + “कमेरठः” । उणां १ । १०२ ।

इति + अठ ।) भाण्डभेदः । तत्तु मुनीनां जल-
पात्रम् । इति मेदिनी ॥

कमठः पुं, (के जले मठति वसतीति । क + मठ

वासे + पचाद्यच् ।) कच्छपः । इत्यमरः । १ । १० ।
२१ ॥ (यथा महानाटके ।
“कमठपृष्ठकठोरमिदं धनु-
र्मधुरमूर्त्तिरसौ रघुनन्दनः” ॥
मकठात्कामठं मांसं रामठेन समन्वितम् ।
यदि सर्पिःसमायुक्तं का सुधा वसुधातले” ॥
इत्युद्भटः ॥ * ॥ गुणादयोऽस्य कच्छपशब्दे
ज्ञातव्याः ॥ भगवद्विष्णोर्द्वितीयावतारः । यथा
हटयोगदीपिकायाम् । १ । १० ।
“अशेषतापतप्तानां समाश्रयमठो हठः ।
अशेषयोगयुक्तानामाधारकमठो हटः” ॥)
वंशः । इति शब्दरत्नावली ॥ दैत्यविशेषः । मुनि-
भाजनम् । इति हेमचन्द्रः ॥ शल्लकी इति धरणी ॥
(नृपविशेषः । यथा महाभारते । २ । ४ । २२ ।
“कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ।
काम्बोजराजः कमठः कम्पनश्च महाबलः” ॥)

कमठी, स्त्री, (कमठ + पुंयोगादिति जातेरिति वा

ङीष् प्रत्ययः ।) कच्छपी । इत्यमरः । १ । १० । २४ ॥
(यथा शान्तिशतके ४ । १३ ।
“इदानीमह्माकं जठरकमठीपृष्ठकठिना-
मनोवृत्तिस्तत् किं व्यसनिविमुखैव क्षपयसि” ॥)

कमण्डलुः, पुं, क्ली, (कस्य प्रजापतेः जलस्य वा मण्डः

सारः तं लाति आदत्ते । ला + मितद्र्वादित्वात्
डुः ।) सन्न्यासिनां मृत्काष्ठादिमयपात्रम् । तत्प-
र्य्यायः । कुण्डी २ । इत्यमरः ७ । २ । ४६ ॥ करकः ३ ।
(यथा मनुः २ । ६४ ॥
“मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवित्” ॥)
प्लक्षवृक्षः । इति मेदिनी ॥

कमण्डलुतरुः, पुं, (कमण्डल्वाकारस्तरुः ।) प्लक्षवृक्षः ।

इति रत्नमाला ॥

कमनं, त्रि, (कम + निङ्भावे युच् । अनुदात्तश्चेति

कमेर्युच् वा ।) कामुकम् । अभिरूपम् । इति
मेदिनी ॥ (यथा भागवते १ । ९ । ३३ ।
“त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने” ॥)

कमनः, पुं, (काम्यतेऽनेन । कमेः + करणे + युच् ।)

कामः । अशोकवृक्षः । इति मेदिनी । ब्रह्मा ॥
इति हेमचन्द्रः ॥

कमनच्छदः, पुं, (कमनः कमनीयः छदः पक्षो यस्य ।)

कङ्कपक्षी । इति हेमचन्द्रः ॥

कमनीयं, त्रि, (काम्यते यत् कमेः कर्म्मणि अनीयर् ।)

कामनायोग्यम् । तत्पर्य्यायः । चारु २ हारि ३
रुचिरम् ४ मनोहरम् ५ वरुगु ६ कान्तम् ७ अभि-
रामम् ८ बन्धुरम् ९ वामम् १० रुच्यग् ११ सुष-
मम् १२ शोभनम् १३ मञ्जु १४ मञ्जलम् १५
मनोरमम् १६ साधु १७ रम्यम् १८ मनोज्ञम् १९
पेशलम् २० हृद्यम् २१ सुन्दरम् २२ काम्यम् २३
कम्रम् २४ सौम्यम् २५ मधुरम् २६ प्रियम् २७ ।
इति हेमचन्द्रः ॥ (यथा, कुमारे १ । ३७ ।
“आरोपितं यद्गिरिशेन पश्चात्
अनन्यनारीकमनीयमङ्कम्” ॥)

कमन्धं, क्ली, (कम् शिरः अन्धं शून्यं यस्य ।) कब-

न्धम् । (कमं कान्तिं जीवनं वा दधाति विदधा-
तीति । कम + धा + ड । पृषोदरादित्वात् साधुः ।)
जलम् । इत्यमरटीकायां रायमुकुटः ॥

कमरः, त्रि, (कामयते इति । कम् + “अर्त्ति-कमि-

भ्रमीति” उणां ३ । १३२ । अरश्चित् ।) कामी ।
इत्यणादिकोषः ॥

कमलं, क्ली, (कमेः णिङ् भावे वृषादित्वात् कलच् ।

कम् जलं अलति अलंकरोति वा । अल् + अच् ।
अन्तणिजन्तो वा ।) जलजपुष्पविशेषः । तत्पर्य्यायः ।
पद्मम् २ पाथोजम् ३ नलम् ४ नलिनम् ५ अम्भो-
जभ् ६ अम्बुजन्म ७ अम्बुजम् ८ श्रीः ९ अम्बुरु-
हम् १० अम्बुपद्मम् ११ सुजलम् १२ अम्भोरु-
हम् १३ सारसम् १४ पङ्कजम् १५ सरसीरुहम्
१६ कुटपम् १७ पाथोरुहम् १८ पुष्करम् १९
वार्ज्जम् २० तामरसम् २१ कुशेशयम् २२ कञ्जम्
२३ कजम् २४ अरविन्दम् २५ शतपत्रम् २६
विसकुसुमम् २७ सहस्रपत्रम् २८ महोत्पलम् २९
वारिरुहम् ३० सरसिजम् ३१ सलिलजम् ३२
पङ्केरुहम् ३३ राजीवम् ३४ । (यथा रघुः । ३ । ३६ ।
“अगच्छदंशेन गुणाभिलाषिणी
नवावतार कमलादिवोत्पलम्” ॥)
अस्य गुणाः शीतलत्वम् । स्वादुत्वम् । रक्तपित्त-
भ्रमार्त्तिनाशित्वम् । सुगन्धित्वम् । भ्रान्तिसन्ताप-
शान्तिपरमतृप्तिकारित्वञ्च । इति राजनिर्घण्टः ॥
(तथाच भावप्रकाशः ।
“कमलं शीतलं वर्ण्यं मधुरं कफपित्तजित् ।
तृष्णादाहास्रविस्फोटविषवीसर्पनाशनम् ॥
विशेषतः सितं पद्मं पुण्डरीकमिति स्मृतम् ।
रक्तं कोकनदं ज्ञेयं नीलमिन्दीवरं स्मृतम् ॥
धवलं कमलं शीतं मधुरं कफपित्तजित् ।
तस्मादल्पगुणं किञ्चिदन्यद्रक्तोत्पलादिकम्” ॥)
पृष्ठ २/०२८
:जलम् । ताम्रम् । क्लोम । औषधम् । इति मे-
दिनी ॥ सारसपक्षी । इत्यमरः । १ । १० । ४० ॥

कमलः, पुं, (कमेः + कलच् । यद्वा को वायुः तस्य

अमः गतिः तं लाति आदत्ते । क + अम + ला +
कः ।) मृगविशेषः । इति मेदिनी ॥ ध्रुवकभेदः ।
यथा, सङ्गीतदामोदरः ॥
“उक्तो मलयतालेन लघुमध्ये स्फुरेद्गुरुः ।
सप्तदशाक्षरैर्युक्तः कमलोऽयं भयानके” ॥

कमला, स्त्री, (काम्यतेऽसौ कमेः वृषादित्वात् कलच्

कमलं अस्त्यस्याः इति वा । अर्श + आद्यच् । टाप्
च ।) लक्ष्मीः । (“कमला श्रीर्हरिप्रिया” इत्य-
मरः । १ । १२८ ॥) वरस्त्री । इति मेदिनी ॥
स्वनामख्यातनिम्बुकः । कमलालेवु इति भाषा ।
यथा, --
“रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् ।
फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्ज्जयेत्” ॥
इति तन्त्रसारे पुरश्चरणप्रकरणम् ॥
(छन्दोविशेषः । यथा, वृत्तरत्नाकरे ।
“द्विगुणनगणसहितः सगण इह हि विहितः ।
फणिपतिमतिविमला क्षितिप भवति कमलेति” ॥
नर्त्तकीविशेषः । यथा राजतरङ्गिण्याम् ४ । ४२४ ।
“तर्त्तकी कमला नाम कान्तिमन्तं ददर्श तम् ।
असामान्याकृतेः पुंसः सा ददर्श सविस्मया” ॥
पुरीविशेषः । यथा तत्रैव ४ । ४८३ ।
“राजा मह्लाणपुरकृत् चक्रे विपुलकेशवम् ।
कमला सा स्वनाम्नापि कमलाख्यं पुरं व्यधात्” ॥
गङ्गा । यथा काशीखण्डे २९ । ४४ ।
“कमला कल्पलतिका काली कलुषवैरिणी” ॥)

कमलासनः, पुं, (कमलमासनमस्य । विष्णोर्नाभि-

पद्मजातत्वात् तथात्वम् ।) ब्रह्मा । इत्यमरः । १ ।
१ । १७ ॥ (यथा भागवते ५ । २० । ३० । “यस्मिन्
वृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं
भगवतः कमलासनस्याध्यासनं परिकल्पितम्” ॥
क्ली, कमलाया लक्ष्म्या असनं क्षेपणं दानमि-
त्यर्थः । यथा, शम्भुविरचिते राजेन्द्रकर्णपूरे ५३ ।
“तात्पर्य्यं कमलासनेविचरितं गौरिहितैःपालिता” ॥
“कमलाया लक्ष्म्या असने क्षेपणे याचकेभ्यो दाने
इत्यर्थः । अथच कमलरूपे विष्टरे ब्रह्मणः पद्मा-
सनत्वात्” । इति तट्टीका ॥)

कमलिनी, स्त्री, (कमलानि सन्त्यत्र । पुष्करादिभ्यो

देशे इति इनिः ।) पद्मिनी । (यथा रघुः ९ । २७ ।
“अभिययुः सरसो मधुसम्भृतां कमलिनीमलि-
नीरपतत्रिणः” ॥) पद्माकरः । इति शब्दरत्ना-
वली ॥ (गङ्गा यथा काशीखण्डे २९ । ४० ।
“कुमुद्वती कमलिनी कान्तिः कल्पितदायिनी” ॥)

कमलोत्तरं, क्ली, (कमलमिव उत्तरं । यद्वा कमला-

दुत्तरं उत्कृष्टमिव ।) कुसुम्भपुष्पम् । इत्यमरः ।
२ । ९ । १०६ ॥

कमा, स्त्री, (कम णिङभावे बाहुलकात् स्त्रियां

भावे अः । टाप् ।) शोभा । इति राजनिर्घण्टः ॥

कमिता, [ऋ] त्रि, (कम + णिङभावे तृच् ।) का-

मुकः । इयमरः । ३ । १ । २३ ॥

कम्पः, पुं, (कपि चलने + भावे घञ् ।) गात्रादि-

चलनम् । तत्पर्य्यायः । वेपथुः २ । इत्यमरः १ । ७ ।
३८ ॥ वेपनम् ३ वेपः ४ कम्पनम् ५ । इति राजनि-
र्घण्टः ॥ (यथा विक्रमोर्व्वश्याम् । “मुञ्चति न ताव-
दस्या भयकम्पः कुसुमकोमलं हृदयम्” । “न
कम्पो वायुना विना” । इति वैद्यकम् ॥)

कम्पनं, त्रि, (कपि चलनशब्दार्थादिति युच् ।) कम्प-

युक्तः । काँपुने इति भाषा । तत्पर्य्यायः । चल-
नम् २ कम्प्रम् ३ चलम् ४ लोलम् ५ चलाचलम् ६
चञ्चलम् ७ तरलम् ८ पारिप्लवम् ९ परिप्लवम्
१० । इत्यमरः । ३ । १ । ७४ ॥ चपलम् ११
चटुलम् १२ । इति तट्टीका ॥
(यथा महाभारते १३ । १४ । ७२ ।
“हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः” ॥
यथा सिद्धान्तकौमुद्याम् ॥ “कम्पा कम्पना
शाखा” । पां ३ । २ । १५३ ॥ कपि + भावे + ल्युट् ।)
कम्पे क्ली । इति मेदिनी ॥

कम्पनः, पुं, (कम्पयति वेपथुयुक्तं करोति शिशिरे-

णेति यावत् कपि + णिच् + युच् । ल्युर्वा ।) शि-
शिरऋतुः । इति राजनिर्घण्टः ॥
(नृपविशेषः । यथा महाभारते २ । ४ । २२ ।
“काम्बोजराजः कमठः कम्पनश्च महाबलः ।
सततं कम्पयामास यवनानेक एव यः” ॥)

कम्पलक्ष्मा, [न्] पुं, (कम्पः चलनं लक्ष्म लक्षणं यस्य ।)

वायुः । इति शब्दरत्नावली ॥

कम्पाकः, पुं, (कम्पया चलनेन कायति प्रकाशते

इति । कम्प + कै + कः ।) वायुः । इति हेमचन्द्रः ॥

कम्पितं, क्ली, (कपि + भावे + क्तः ।) चलनम् । तत्प-

र्य्यायः । कम्पनम् २ कम्पः ३ वेपनम् ४ वेपथुः ५ ।
इति शब्दरत्नावली ॥ (कपि + कर्त्तरि + क्तः ।)
कम्पयुक्ते त्रि ॥ (यथा रघुः । २ । १३ ।
“पृक्तस्तषारैर्गिरिनिर्झराणा-
मनोकहाकम्पितपुष्पगन्धी” ॥)

कम्पिलः, पुं, (कम्प + इलच् ।) रोचनी । कमला

गुँडि इति भाषा । तस्य रूपान्तराणि काम्पिल्लः ।
कम्पिल्लः । कम्पीलः । कम्पिल्यः । इत्यमरटीकायां
मुकुटादयः ॥

कम्पिल्लकः, पुं, (कम्पिल्ल + स्वार्थे + कन् ।) वृक्षवि-

शेषः । कमिला इति देशान्तरभाषा । तत्पर्य्यायः ।
रक्ताङ्गः २ रेची ३ रेचनकः ४ रञ्जकः ५ लोहि-
ताङ्गः ६ कम्पिल्लः ७ रक्तचूर्णकः ८ । तस्य गुणाः ।
विरेचकत्वम् । कटुत्वम् । उष्णत्वम् । व्रणकफ-
कासतन्तुकृमिनाशित्वम् । लघुत्वञ्च । इति राज-
निर्घण्टः ॥ (अस्य तैलगुणाः । तुम्बीकोशाम्रदन्ती-
द्रवन्तीश्यामासप्तला नीलिकाकम्पिल्लकशङ्खिनी-
स्नेहास्तिक्तकटुककषाया अधोभागदोषहराः क्रि-
मिकफकुष्ठानिलहरा द्ष्टव्रणविशोधनाश्च ॥ इति
सुश्रुतः ॥)

कम्पः, त्रि, (कपि + नमि-कम्पीति रः ।) कम्पयुक्तः ।

कम्पान्वितः । इत्यमरः । ३ । १ । ७४ ॥
(यथा नैषधे । १ । १४२ ।
“सुताः कमाहूय चिराय चूङ्कतै-
र्विधाय कम्प्राणि मुखानि कं प्रति” ॥)

कम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं--

सेट् ।) कम्बति । इति दुर्गादासः ॥

कम्बरः, पुं, (कम्ब + अरन् ।) चित्रवर्णः । कर्ब्बूर-

वर्णः । तद्वति त्रि । इति शब्दरत्नावली ॥

कम्बलं, क्ली, (कम्यते । इति कमु कान्तौ + कमेवुक्

चेति कलः । कम्बगतौ वृषादित्वात् कलच् वा ।)
जलम् । इति शब्दरत्नावली ॥

कम्बलः, पु, (कंकुत्सितं शिरो वा कं सलिलं वा

बलते बल संवरणे सञ्चारणे च अच् । यद्वा
कम्ब + गतौ इति धातोः वृषादित्वात् कलच् ।)
स्वनामख्यातमेषादिलोमरचितवस्त्रासनादि । तत्
पर्य्यायः । रल्लकः २ । इत्यमरः । २ । ६ । ११६ ॥
वेशकः ३ रोमयोनिः ४ रेणुका ५ । इति शब्द-
रत्नावली ॥ प्रावारः ६ । इति जटाधर ॥
(यथा महाभारते ३ । ३ । ५१ ।
“न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः ।
शीतवातार्दितं लोकं यथा तव मरीचयः” ॥)
नागराजः । सास्ना । प्रावारः । कृमिः । इत्यमरः ।
३ । ३ । १९३ । मेदिनी च ॥ उत्तरासङ्गः । इति
मेदिनी ॥ मृगविशेषः । इति जटाधरः ॥
(नागभेदौ । अनयोरेकः अधस्तात् पाताले वासुकि
प्रमुखो निवसति अपरस्तु वरुणदेवसभास्थः ।
यथाक्रमं उदाहरणे द्रष्टव्ये ।
यथा, भागवते ५ । २४ । ३१ ।
“ततोऽधास्तात् पाताले नागलोकपतयो वासु-
किप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृत-
राष्ट्र शङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभो-
गिनो महामर्षा निवसन्ति” ॥
यथा महाभारते । २ । ९ । ९ ।
“कम्बलाश्वतरौ नागौ धृतराष्ट्रवलाहकौ” ॥
कम्बलाद्यधिष्टितप्रयागान्तर्वर्त्तितीर्थविशेषः ।
यथा, महाभारते । ३ । तीर्थयात्रापर्व्वणि ८५ । ७५ ।
“प्रयागं सप्रतिष्टानं कम्बलाश्वतरौ तथा ।
तीर्थं भोगवती चैव वेदिरेषा प्रजापतेः” ॥

कम्बलिवाह्यकं, क्ली, (कम्बलः सास्ना अस्ति एषाम्

इति इनिः । कम्बलिभिर्वृषैरुह्यते । वह + कर्म्मणि
ण्यत् स्वार्थे संज्ञायां वा कन् ।) वृषवहनीय-
शकटम् । तत्पर्य्यायः । गन्त्री २ । इत्यमरः ।
२ । ८ । ५२ ॥ गान्त्री ३ । इति तट्टीका ॥

कम्बिः, स्त्री, (कमु + बाहुलकात् + विन् । यद्वा

कम्बति प्राप्नोति जानाति वा अन्नादि अनया ।
कम्ब + करणे इन् ।) दर्व्विः । इत्यमरः । २ । ९ । ३४ ।
हाता इति भाषा ॥ इति मेदिनी । वंशांशः ।
वाँशेर पाव् इति भाषा ॥

कम्बुः, पुं क्ली, (कमु + जत्रादयश्चेति निपातनात् ।

साधुः । कमु + उन् वुक्चेति वा ।) शङ्खः ।
इत्यमरः । १ । १० । २३ ॥ (यथा भागवते । ४ । ७ । २० ।
“कम्ब्बव्जचक्रशरचापगदासिचर्म्म-
व्यग्रैर्हिरण्मयभुजैरिव कर्णिकारः” ॥)

कम्बुः, पुं, (कम्ब गतौ इति मृगष्वादित्वात् उन्

वुगागमो वा । निपातनात् वा साधुः ॥) वलयम् ।
पृष्ठ २/०२९
:(यथा महाभारते ३ । २३२ । ४४ ।
“शतं दासीसहस्राणि कौन्तेयस्य महात्मनः ।
कम्बुकेयूरधारिण्यो निष्ककण्ट्यः स्वलङ्कृताः” ॥)
शम्बूकः । हस्ती । इत्यमरः । ३ । ३ । १३३ । मेदिनी च ॥
कर्व्वूरवर्णः । ग्रीवा । नलकम् । इति हेमचन्द्रः ।
फाँपा हाड इति भाषा ॥

कम्बुका, स्त्री, (कम्बरिव कायति शोभते प्रकाशते

वा । कै + कः टाप् च ।) अश्वगन्धावृक्षः । इति रत्न-
माला । (गुणादयोऽस्या अश्वगन्धाशब्दे ज्ञेयाः ॥)

कम्बुकाष्ठा, स्त्री, (कम्बु चित्रवर्णं काष्ठं यस्याः ।)

अश्वगन्धावृक्षः । इति राजनिर्घण्टः ॥

कम्बुग्रीवा, स्त्री, (कम्बुवत् रेखात्रयशोभिता ग्रीवा ।)

कम्ब्वाकृतिरेखात्रययुक्तग्रीवा । इत्यमरः । २ । ६ । ८८ ॥
(कम्बुःशङ्खस्तद्वत्रेखात्रययुक्ता ग्रीवा यस्येति विग्रहे
वाच्यलिङ्गः । यथा महाभारते । १ । १५३ । १८ ।
“कम्बुग्रीवः पुष्कराक्षो भर्त्ता युक्तोभवेन्मम” ॥)

कम्बुपुष्पी, स्त्री, (कम्बुः शङ्खः तद्वत् शुक्लं पुष्पं यस्याः ।)

शङ्खपुष्पीवृक्षः । इति राजनिर्घण्टः । (शङ्खपुष्पो-
शब्देऽस्या गुणा व्याख्येयाः ॥)

कम्बुमालिनी, स्त्री, (कम्बुतुल्यपुष्पाणा माला समूहः

अस्ति अस्याः ।) शङ्खपुष्पी । इति राजनिर्घण्टः ॥

कम्बोजः, पुं, (कम्ब + ओज ।) शङ्खविशेषः । देश-

भेदः । (यथा तन्त्रशास्त्रम् ।
“पञ्चनदं समारभ्य म्लेच्छाद्दक्षिणपूर्ब्बतः ।
कम्बोजदेशो देवेशि ! वाजिराशिपरायणः” ॥)
हस्तिप्रभेदः । इति मेदिनी ॥ (तद्देशवासिनि त्रि ॥)

कम्ब्बातायी, [न्] पुं, (कम्बुः शङ्खः स इव आतायी ।

शङ्खतुल्यशुक्लपूर्ब्बकायत्वास्तथात्वम् ।) शङ्खचिल्लः ।
इति महाभारतम् ॥

कम्भारी, स्त्री, (कं जलं बिभर्त्ति धारयतीति । डु भृ

धारणपोषणयोः + कर्म्मण्यण् + डीप् गौरादि-
त्वात् ङीष् वा ।) गम्भारीवृक्षः । इति शब्दमाला-
राजनिर्घण्टौ । (गम्भारीशब्देऽस्या गुणादयो व-
क्तव्याः ॥)

कम्भु, क्ली, (कं जलं तत्तुल्यं शैत्यं बिभर्त्ति । भृ + डुः ।)

उशीरम् । इति राजनिर्घण्टः ॥

कम्रः, त्रि, (कामयतीति । कम् + नमिकम्पीति रः ।

३ । २ । १६७ ।) कामुकः । मैथुनेच्छाविशिष्टः ।
इत्यमरः । ३ । १ । २४ ॥
(स्त्री, गङ्गा । यथा काशीखण्डे २९ । ४४ ।
“कमनीयजला कम्रा कपर्द्दिसुकपर्द्दगा” ॥
जह्नुं प्रतीपं शान्तनुं कामितवती कम्रा कामुका ॥
इति तट्टीका ॥ काम्यतेऽसौ इति ।)
कमनीयम् । यथा, --
“लोलां दृष्टिमितस्ततो वितनुते सभ्रूलताविभ्रमा-
माभुग्नेन विवर्त्तिता बलिमता मध्येन कम्रस्तनी” ।
इति शाकुन्तले १ अङ्के ॥

कयस्था, स्त्री, (को वायुः स इव वेगेन याति अथवा

कं जलं तस्य स्रोत इव याति । क + या + डः । तत्र
तिष्टति । स्था + कः टाप् च ।) वयस्था । इत्यमर-
टीकायां स्वामी ॥ काकोली इति ख्याता ॥

करः, पुं, (कं सुस्वं राति ददातीति । रा + कः ।) राज-

स्वम् । खाजाना इति पारस्यभाषा । तत्पर्य्यायः ।
भागधेयः २ बलिः ३ । इत्यमरः । २ । ८ । २७ ॥
कारः ४ । इति तट्टीका ॥ प्रत्यायः ५ । इति
मेदिनी ॥ * ॥
अथ राज्ञां करग्रहणप्रकारः । क्रयविक्रयादिना
लाभादीन् संप्रेक्ष्य राज्ञा करो ग्रहीतव्यः ।
यथा, मनुः । ७ । १२७-१३३ ।
“क्रयविक्रयमध्वानं भक्तञ्च सपरिव्ययम् ।
योगक्षेमञ्च संप्रेक्ष्य बणिजो दापयेत् करान् ॥
यथा फलेन युज्येत राजा कर्त्ता च कर्म्मणां ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान्” ॥ * ॥
राज्ञा राज्यात् वार्षिकः करोऽल्पाल्पं कृत्वा
ग्रहीतव्यः । यथा, --
“यथाल्पाल्पमदन्त्याद्यं वार्य्योकोवत्सषट्पदाः ।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः” ॥
मूलादधिकयोः पशुहिरण्ययोः पञ्चाशद्भागरूपः
करो ग्राह्यः ॥ धान्यानां भूम्युत्कर्षापेक्षया कर्ष-
काणां क्लेशलाघवगौरवापेक्षया च षष्ठोऽष्टमो
द्वादशो वा भागो राज्ञा ग्रहीतव्यः ।
यथा, --
“पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानामष्टमो भागः षष्ठो द्वादश एव वा” ॥ * ॥
द्रुमाश्ममधुसर्पिरादीनां
षड्भागो लाभात् ग्रहणीयः । यथा, --
“आददीताथ षड्भागं द्रुमाश्ममधुसर्पिषाम् ।
गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ॥
पत्रशाकतृणानाञ्च चर्म्मणां वैदलस्य च ।
मृ मयानाञ्च भाण्डानां सर्व्वस्याश्ममयस्य च” ॥ * ॥
अतिक्षीणधनोऽपि राजा
श्रोत्रियब्राह्मणात् करं न गृह्णीयात् । यथा, --
“म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् ।
न च क्षुधास्य संसीदेच्छोत्रियो विषये वसन्” ॥ * ॥
(कीर्य्यते विक्षिप्यतेऽसौ कर्म्मणि + अप् । हस्त-
करिशुण्डयोस्तु करणेऽपि अप् ॥) वर्षोपलः ।
किरणः । (यथा रामायणे ६ । ११ । ४४ ।
“तीक्ष्णः पटुर्दिनकरः करैस्तापयते जगत्” ॥)
हस्तः । (अमरः । ३ । ३ । १६३ ॥) हस्तिशुण्डः ।
इति मेदिनी ॥ (यथा, महाभारते ३ । ११ । २८ ।
“एवन्तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते ।
ऊरुं गजकराकारं करेणाभिजघान सः” ॥)
कर्म्मोपपदे कर्त्तृवाचकः । यथा । सुखकर इत्यादि ॥
(यथा, रामायणे ६ । ११ । ४४ ।
“तीक्ष्णः पटुर्दिनकरः करैस्तापयते जगत् ।
प्रतिलोमश्च ते वायुस्त्वत्परामवलक्षणम्” ॥)

करकं, क्ली पुं, (किरति विक्षिपति जलं अस्मात्

करोति जलमत्र वा । कॄ + वा कृ “कृञादिभ्यः
संज्ञायां वुन्” । उणां ५ । ३५ । इति वुन् ।)
करङ्कः । कमण्डलुः । इति मेदिनी ॥
(यथा, मनुः । ४ । ६६ ।
“उपानहौ च वासश्च धृतमन्यैनधारयेत् ।
उपवीतमलङ्कारं स्रजं करकमेव च” ॥)

करकः, पुं, (करोति वाष्वादिजनितदोषाभावं

कृणोति फलपत्रादिभिः वायुपित्तादिदोषं नाश-
यति वा कृञ् हिंसायां “कृञादिभ्यः संज्ञायां
वुन्” । उणां ५ । ३५ । इति वुन् ।) दाडिमवृक्षः ।
राजकरः । पक्षिविशेषः । लट्वाकरञ्जवृक्षः । इति
हेमचन्द्रः ॥ पलाशवृक्षः । इति हारावली ॥
कोविदारवृक्षः । वकुलवृक्षः । करीरवृक्षः ।
नारिकेलास्थि । इति राजनिर्घण्टः । माला इति
भाषा ॥ (यथा, रामायणे ५ । १४ । ४८ ।
“हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि” ॥)

करकच्छपिका, स्त्री, (कच्छपस्तदाकृतिर स्त्यस्याः ठन् ।

करे स्थिता कच्छपिका कच्छपाकारमुद्रा ।)
कूर्म्ममुद्रा । यथा, -- कालिकापुराणे ५६ अध्यायः ॥
“करकच्छपिकां कुर्य्यात् कूर्म्ममत्त्रेण साधकः ।
तत्र संस्कृतपुष्पेण पूजयेदात्मनो वपुः” ॥

करकण्टकः, पुं, (करे हस्ते कण्टक इव ।) नखः ।

इति त्रिकाण्डशेषः ॥

करका, स्त्री, पुं, (कृणोति हिनस्ति आम्रादिफलम् ।

“कृञादिभ्यो वुन्” । वुनन्तात् टापि क्षिपकादि-
त्वात् प्रत्ययस्थादिति इत्वं न किरति क्षिपति जलं
वा ।) मेधभवशिला । शिल इति भाषा । तत्प-
र्य्यायः । वर्षोपलः २ । इत्यमरः । १ । ३ । १२ ॥
मेघोपलः ३ । इति मेदिनी ॥ वीजोदकम् ४
घनकफः ५ मेघास्थि ६ वार्चरः ७ करः ८
करकः ९ । इति शब्दरत्नावली ॥ राधरङ्कुः १०
धाराङ्कुरः ११ । इति जटाधरः ॥ मेदिन्यां राध-
रङ्क इति पाठः ॥ (यथा मेघटूते ५६ ।
“तान्कुर्व्वीथास्तुमुलकरकावृष्टिहासावकीर्णान्” ॥)

करकाम्भाः, [स्] पुं, (करकावत् शीतलं अम्भो

जलं यत्र ।) नारिकेलवृक्षः । इति त्रिकाण्डशेषः ॥

करग्रहः, पुं, (करः इयं मम भार्य्या इति प्रतिज्ञया

गृह्यतेऽत्र वरेणेति यावत् । ग्रह + अधिकरणे
अप् ।) विवाहः । इति त्रिकाण्डशेषः ॥ (यथा,
आर्य्यासप्तशती । ६०३ ।
“सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता ।
भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालव” ॥)
करग्रहणञ्च ॥ (यथा, आर्य्यासप्तशती । ६२९ ।
“सकरग्रहं सरुदितं
साक्षेपं सनखमुष्टि सजिगीषम्” ॥)

करग्रहारम्भः, पुं, (करग्रहस्य करादानस्य आरम्भः

प्रजाभ्यः ।) राज्ञां प्रजाभ्यो नववर्षीयकरस्य प्रथमा-
दानम् । तद्दिनं पुण्याह इति ख्यातम् । तस्याप-
भाषा पुण्या । तस्य शुभदिननिरूपणम् यथा, --
“तीक्षोग्रवह्नीतरभेषु लग्ने
शीर्षोदये भानुदिने शुभाहे ।
कुर्य्यादनुक्तानि समीहितानि
करग्रहारम्भमपि प्रजाभ्यः” ॥
इति ज्योतिषम् ॥ अस्यार्थः । अश्लेषार्द्राज्येष्ठा-
मूलापूर्ब्बफल्गुनीपूर्ब्बाषाढापूर्ब्बभाद्रपदमघाभरणी-
कृतिकाभिन्ननक्षत्रेषु । मिथुनसिंहकन्यातुलावृ-
श्चिककुम्भमीनलग्नेषु । रविसोमबुधवृहस्पति-
शुक्रवारेषु करग्रहारम्भः कर्त्तव्यः ॥

करघर्षणः, पुं, (कराभ्यां घृष्यतेऽसौ । कर + घृष् +

पृष्ठ २/०३०
:कर्म्मणि ल्युट् ।) दधिमन्थनदण्डः । तत्पर्य्यायः ।
वैशाखः २ दधिचारः ३ तक्राटः ४ । इति हारा-
वली ॥ हस्तघर्षणे क्ली ॥

करघर्षी, [न्] पुं, (कराभ्यां करयोर्वा घर्ष घर्षणं

अस्ति अस्यास्मिन् वा । करघर्ष + इनिः ।) मन्था-
नदण्डः । इति शब्दमाला ॥

करङ्कः, पुं, (कस्य रङ्क इव ।) मस्तकम् । (कीर्य्यते

जलमत्र इति करः । कॄ + अप् । जलहोनः अङ्को
गर्भो यस्य शकन्ध्वादित्वात् अलोपे साधुः ।)
अशस्यनारिकेलफलास्थि । इति मेदिनी । नारि
केलेर खोल इति भाषा ॥ शरीरास्थि । इति
हेमचन्द्रः ॥ इक्षुभेदः । इति राजनिर्घण्ठः ॥ (पात्र-
विशेषः । यथा, “ताम्बूलकरङ्कवाहिनी” इति
कादम्बरी ॥)

करङ्कशालिः, पुं, (करङ्क इति नाम्ना शालते शोभते

इति । करङ्क + शाल + इन् ।) करङ्कनामेक्षुः ।
इति राजनिर्घण्टः ॥

करच्छदः, पुं, (करवत् आवरणकारी छदो यस्य ।)

शाखोटवृक्षः । शेओडा इतिभाषा ॥ इति भावप्र-
काशः । (अस्य गुणादिकं शाखोटशब्दे द्रष्टव्यम् ॥)

करच्छदा, स्त्री, (कर इव किरण इव लीहितवर्णः

छदः पुष्पं यस्याः । कर इव आवरकश्छदो वा
यस्याः ।) सिन्दूरपुष्पीवृक्षः । इति राजनिर्घण्टः ॥

करजं, क्ली, (करे जायते इति । कर + जन् + ड ।

व्याघ्रनखवदस्याकृतेस्तथात्वम् ।) व्याघ्रनखनाम-
गन्धद्रव्यम् । इत्यमरः । २ । ४ । ११९ ॥ (नवमीशब्दे-
ऽस्य गुणा वक्तव्याः ॥)

करजः, पुं, (कं सुखं जलं वा रञ्जयतीति । रञ्जेः

कर्म्मण्यण् ।) करञ्जवृक्षः । (“करञ्जकः स्यात्
करजः पत्रसूची फलाशनः” । इति शब्द-
रत्नावली ॥ करे जायते इति । जन + ड ।)
नखः । इति मेदिनी ॥ (यथा, मनुः । ४ । ७० ।
“नमृल्लोष्टञ्चमृद्नीयान्न च्छिन्द्यात् करजैस्तृणम्” ॥)

करजाख्यः, पुं, (करजस्याख्या एव आख्या यस्य ।)

नखीनामगन्धद्रव्यम् । इति रत्नमाला ॥

करज्योडिः, पुं, हस्तज्योडिवृक्षः । इति राज-

निर्घण्टः ॥ (केचित् करजोडिरिति वदन्ति ॥)

करञ्जः, पुं, (कं सुखं शिरो जलं वा रञ्जयतीति । क +

रञ्ज + णिच् + अण् ।) स्वनामख्यातवृक्षविशेषः ।
करम्चा इति भाषा । तत्पर्य्यायभेदौ यथा, --
“करञ्जकः स्यात् करजः पत्रसूची फलाशनः ।
आङ्गारमञ्जी षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ।
करञ्जभेदाश्चत्वारो विज्ञेया लोकतस्त्विमे” ॥
इति शब्दरत्नावली ॥ अपि च ।
“चिरविल्वो नक्तमालः करजश्च करञ्जकः ।
सोमवल्कः कलिङ्गस्तु पूतिकः कलिकारकः ॥
प्रकीर्य्यः पूतिकरजः पट्टिलः सुमना अपि ।
करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी” ॥
इति जटाधरः ॥ स षड्विधः । तत्र डरकरञ्ज-
पर्य्यायः । नक्तमालः २ पूतिकः ३ चिरविल्वकः ४
पूतिपर्णः ५ बद्धफलः ६ रोचनः ७ । इति राज-
निर्घण्टः ॥ चिरविल्वः ८ करजः ९ करञ्जकः १० ।
इत्यमरः । २ । ४ । ४७ ॥ चिरिविल्वः ११ । इति
तट्टीका ॥ उदकीर्य्यः १२ । इति रत्नमाला ॥ * ॥ अस्य
फलगुणाः । कटुत्वम् । उष्णत्वम् । चक्षुर्हितत्वम् ।
वातनाशित्वञ्च । इति राजनिर्घण्टः ॥ वातकफ-
मेहतनःकृमिकुष्ठनाशित्वञ्च ॥ * ॥ तत्पत्रगुणाः ।
कफवातार्शःकृमिशोथनाशित्वम् । भेदकत्वम् ।
पाके कटुत्वम् । वीर्य्योष्णत्वम् । पित्तवर्द्धकत्वम् ।
लघुत्वञ्च । इति भावप्रकाशः ॥ * ॥ ततैलगुणाः ।
अतिस्निग्धत्वम् । वातनाशित्वम् । स्थिरदीप्ति-
दातृत्वम् । नयनामयवातरोगकुष्टकण्डूविसूचिका-
नाशित्वम् । तीक्ष्णत्वम् । उष्णत्वम् । लेपेन नाना-
विधचर्म्मदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥
किटिमत्वम् । कृमिनाशित्वम् । रक्तपित्तदोष-
कारित्वञ्च । इति राजवल्लभः ॥ * ॥ अथ नाटा-
करञ्जपर्य्यायः । प्रकीर्य्यः १ पूतिकरजः २ पूतिकः
३ कलिकारकः ४ । इत्यमरः २ । ४ । ४८ ॥ पूती-
करञ्जः ५ सकण्टकः ६ । इति रत्नमाला ॥ * ॥
षड्ग्रन्थः । काँटाकरञ्ज गाँटिया करञ्ज इति
भाषा ॥ * ॥ मर्कटी । माकडाकरञ्ज इति भाषा ॥
  • ॥ अङ्गारवल्लरी । इत्यमरभरतौ विषकरञ्ज
इति भाषा ॥ * ॥ अथ अम्लकरञ्जपर्य्यायः ॥
करमर्द्दी १ वनेक्षुद्रा २ कराम्लः ३ करमर्द्दकः ४ ।
इति रत्नमाला ॥ कृष्णपाकफलः ५ अविग्नः ६
सुषेणः ७ । इत्यमरः । २ । ४ । ६७ ॥ अस्य फलगुणाः ।
पिपासानाशित्वम् । रुचिपित्तकारित्वम् । गुरु-
त्वञ्च । इति राजवल्लभः ॥ राजनिर्घण्टोक्तगुण-
पर्य्यायौ करमर्द्दकशब्दे द्रष्टव्यौ ॥
(यथा, महाभारते ३ । २२९ । ३५ ।
“पादपानाञ्च या माता करञ्जनिलया हि सा ।
वरदा सा हि सौम्या च नित्यं भूतानुकम्पिनी ।
करञ्जे तां नमस्यन्ति तस्मात् पुत्त्रार्थिनो नराः” ॥
किरति विक्षिपति धार्म्मिकानिति । कॄ विक्षेपे +
बाहुलकादौणादिकोऽञ्जन्प्रत्ययः । धर्म्मद्वेष्ठरि,
त्रि । यथा ऋग्वेदे । १ । ५३ । ८ ।
“त्वं करञ्जमुत पर्ण्यं बधी-
स्तेजिष्ठयातिथिग्वस्य वर्त्तनी” ॥)

करञ्जकः, पुं, (करञ्ज + स्वार्थे कत् ।) करञ्जवृक्षः ।

इत्यमरः । २ । ४ । ४७ ॥ भृङ्गराजवृक्षः । इति
जटाधरः ॥ (यथा महाभारते । १३ । १२८ । ८ ।
“यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके ।
सुवर्च्चलामूलहस्तः प्रजास्तस्य विवर्द्धते” ॥)

करञ्जफलकः, पुं, (करञ्जफलमिव फलं यस्य । ततः

स्वार्थे कन् । करञ्जफलमिव कायते इति वा । कै
+ कः ।) कपित्थवृक्षः । इति राजनिर्घण्टः ॥

करटः, पुं, (कं कुत्सितं रटति शब्दं करोतीति । रट

शब्दे + पचाद्यच् ।) काकः । (यथा गङ्गास्तोत्रे ।
“वरमिह गङ्गातीरे सरटः करटः ।” इति ॥
किरति विक्षिपति मदवारि इति । कॄ + अटन् ।)
हस्तिगण्डः । इत्यमरः । ३ । ३ । ३४ ॥ (यथा
महाभारते । ३ । २७७ द्रौपदीहरणपर्ब्ब-
णि ३८ ।
“कथं हि भिन्नकरटं पद्मिनं वनगोचरम् ।
उपस्थाय महानागं करेणुः शूकरं स्पृशेत्” ॥)
कुसुम्भवृक्षः । निन्द्यजीवनः । एकादशाहादि-
श्राद्धम् । दुर्द्दुरूटः । नास्तिक इति यावत्
(अयं तु क्षत्रियभेदाभिप्रायेणोक्तः । तथा च
महाभारते ६ । ९ । ६२ ।
“मालवा वल्लवाश्चैव तथैवापरवर्त्तकाः ।
कुलिन्दाः कालदाश्चैव दण्डकाः करटास्तथा” ॥)
वाद्यविशेषः । इति मेदिनी ॥

करटकः, पुं, (करट + स्वार्थे कन् ।) काकः । इति

शब्दरत्नावली ॥ (पिङ्गलकनाम्नः सिंहस्य मन्त्रि-
पुत्त्रविशेषः शृगालः । यथा हितोपदेशे २ । २५ ।
“स च तथाविधः करटकदमनकाभ्यां तन्मन्त्रि-
पुत्त्राभ्यां शृगालाभ्यां दृष्टः” ॥ स्तेयशास्त्रप्रवर्त्तकः
कर्णीसुतः । यथा कादम्बरीटीका ।
“कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्त्तकः” ॥)

करटा, स्त्री, (करट + “अजाद्यतष्टाप्” । ४ । १ । ४ ।

इति टाप् ।) दुःखदोह्या गवी । इति हेमचन्द्रः ॥

करटी, [न्] पुं स्त्री, (करटः मदक्षरणशीलगण्डः

प्राशस्त्येन अस्ति अस्य । करट + इनिः ।) हस्ती ।
इति हेमचन्द्रः ॥ (यथा, लङ्केश्चरविरचितशिव-
स्तुतौ । ४ ।
“कपर्दिनि कुमुद्वतीरमणखण्डचुडामणौ
कटीतटपटाभवत्करटिचर्मणि ब्रह्मणि ॥)

करटुः, पुं, (कृ + अटुः ।) पक्षिविशेषः । इति हेम-

चन्द्रः । करकटिया इति भाषा ॥

करणं, क्ली, (क्रियतेऽनेन । कृ + करणे + ल्युट् ।)

साधकतमम् । इत्यमरः । ३ । ३ । ५४ ॥ तत्तु
षट्कारकन्तर्गतकारकविशेषः । तस्य लक्षणम् ।
“क्रियायां साध्यायां बहूनां कारणानां मध्ये कार-
णान्तरव्यवधानाभावे यद्वस्तु क्रियानिष्पत्तिकारणं
विवक्षितं तस्मिन् करणत्वं प्रकीर्त्तितम् । तेन
दात्रेण धान्यं लुनातीत्यत्र हस्तादेः कारणत्वेऽपि
दात्रस्यैव करणत्वं विवक्षितम् ॥ तथाचोक्तम् ।
“कारणाव्यवधानेऽपि क्रिया निष्पत्तिकारणम् ।
यद्वै विवक्षितं तेषु करणत्वं प्रकीर्त्तितम्” ॥
इति मुग्धबोधटीकायां दुर्गादासः ॥ * ॥ तिथ्यर्द्ध-
परिमितववाद्येकादशसंज्ञककालविशेषः । तेषां
नामानि । ववः १ वालवः २ कौलवः ३ तैतिलः ४
गरः ५ बणिजः ६ विष्टिः ७ शकुनिः ८ चतुष्पदः
९ किन्तुघ्नः १० नागः ११ । तेषां यथाक्रमेणा-
धिष्ठातृदेवाः । इन्द्रः १ कमलजः २ मित्रः ३
अर्य्यमा ४ भूः ५ श्रीः ६ यमः ७ कलिः ८ वृषः
९ फणी १० मारुतः ११ । एकैकस्मिन् तिथौ
द्वे द्वे करणे भवतः । तेषां ववादयः सप्त अष्टा-
वृत्त्या शुक्लप्रतिपच्छेषार्द्धमारभ्य कृष्णपक्षीयचतु-
र्द्दशीप्रथमार्द्धपर्य्यन्तं भवन्ति । शेषाश्चत्वारः कृ-
ष्णचतुर्द्दशीशेषार्द्धावधिशुक्लप्रतिपत्प्रथमार्द्धपूर्य्यन्तं
नियमेन भवन्ति अतो ध्रुवाणि करणानि । पूर्ब्बे
सप्ताध्रुवाणि ॥ तेषामानयनक्रमो यथा ।
“तिथिर्द्विघ्ना करोनागशिष्टाकरणमादिमे ।
परे दले तु सैकं तत्करणं ववपूर्ब्बकम्” ॥
इति ज्योतिषम् ॥ * ॥ क्षेत्रम् । गात्रम् । इन्द्रि-
पृष्ठ २/०३१
:यम् । इत्यमरः । ३ । ३ । ५४ ॥ (यथा गीतायां
१८ । १४ ।
“अधिष्ठानं तथाकर्त्ता करणञ्च पृथग्विधम्” ॥)
हेतुः । कर्म्म । हस्तलेपः । नृत्यप्रभेदः । गीतवि-
शेषः । (तले व्यवस्थापकस्ताडनविशेषः ।
यदुक्तं राजकन्दर्पेण ।
“नृत्यवादित्रगीतानां प्रयोगवशभेदिनां ।
संस्थानं ताडनं रोधः करणानि प्रचक्षते” ॥
अस्य प्रमाणं यथा कुमारे ६ । ४० ।
“शिखरासक्तमेघानां व्यज्यस्ते यत्र वेश्मनाम् ।
अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः” ॥)
क्रियाभेदः । संवेशनम् । कायस्थः । इति मेदिनी ॥
कायस्थसंहतिः ॥ वर्णानां स्पष्टतादि । योगिना-
मासनादि । कृतादि । इति हेमचन्द्रः ॥ (सर्व्वेषा-
मादिकारणत्वात् विष्णुः । यथा, महाभारते
१३ । १४९ । ५४ ।
“करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः” ॥
लेख्यपत्रसाक्षिदिव्यादि । यथा मनुः ८ । ४१ ।
“अर्थेऽपव्ययमानन्तु करणेन विभावितम् ।
दापयेद्धनिकस्याथ दण्डलेशञ्च शक्तितः” ॥
भावे ल्युट् । कृतिः । यथा रामायणे ४ । १७ । ५६ ॥
“धर्म्मतः शेषकरणे प्रतीक्षिष्यामहे वयम्” ॥)

करणः, पुं, शूद्रावैश्ययोर्जातजातिविशेषः । इत्यमरः ।

२ । १० । २ ॥ अयं लिखनवृत्तिः कायस्थ इति
ख्यातः । इति भरतः ॥ यथा, --
“शूद्राविशोस्तु करणोऽम्बष्ठो वैश्याद्विजन्मनोः” ।
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥ * ॥
अपि च ।
“कायस्थे साधने क्लीवं पुंसि शूद्राविशोः सुते” ।
इति करणशब्दार्थे मेदिनो ॥ * ॥ अन्यच्च ।
“झल्लो मल्लश्च राजन्यात् ब्रात्यान्निच्छिविरेव च ।
नटश्च करणश्चैव खसद्रविड एव च” ॥
इति मानवे १० । २२ ॥ झल्लोमल्लश्चेति । “क्षत्रि-
यात् व्रात्यात् सवर्णायां झल्लमल्लनिच्छिविनट-
करणखसद्रविडाख्या जायन्ते । एतान्यप्येकस्यैव
नामानि” । इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥
तस्य कर्म्मविपाको यथा, --
“तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् ।
ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः ॥
तमःकुण्डे वर्षशतं स्थित्वा स्वर्णबणिक् भवेत् ।
जन्मैकञ्च दुराचारो जन्मैकं करणो भवेत् ॥
विश्वैकलिपिकर्त्ता च भक्ष्यदातुर्धनं हरेत् ॥
कायस्थेनोदरस्थेन मातुर्म्मांसं न खादितम् ।
तत्र नास्ति कृपा तस्य दन्ताभावेन केवलम् ॥
स्वर्णकारः स्वर्णबणिक् कायस्थश्च व्रजेश्वर ।
नरेषु मध्ये ते धूर्त्ताः कृपाहीना महीतले ॥
हृदयं क्षुरधाराभं तेषाञ्च नास्ति सादरम् ।
शतेषु सज्जनः कोऽपि कायस्थो नेतरौ च तौ ॥
सुबुद्धिः शिवयुक्तिश्च शास्त्रज्ञो धर्म्ममानसः ।
न विश्वसेत्तेषु तात स्वात्मकल्याणहेतवे” ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८५ अध्यायः ॥

करणत्राणं, क्ली, (करणं ज्ञानकर्म्मादिरूपं इन्द्रियं

त्रायतेऽनेन । करण + त्रै + करणे + ल्युट् । मस्त-
कस्य प्रधानकरणैकादशस्य मनसः स्थलत्वात् ।
करणैर्हस्तादिकर्म्मेन्द्रियादिभिः त्रायते वा इति
कर्म्मणि ल्युट् ।) मस्तकम् । इति हेमचन्द्रः ॥

करणीयं, त्रि, (कर्त्तुमुचितं कर्त्तुमर्ह्यं वा । कृ + अनी-

यर् ।) कर्त्तव्यम् । कार्य्यम् । इति व्याकरणम् ॥
(यथा रामायणे ३ । १४ । १० ।
“मया किं करणीयञ्च इत्युक्ते द्विजसन्निधौ ।
सर्व्वैरेव च तैरार्त्तैर्वागियं समुदाहृता” ॥)

करण्डः, पुं, (कृञ् + “कृसृभृवृञः” । इत्यण्डन् ।

उणां । १ । १२८ ।) मधुकोषः । मौचाक् इति भाषा ।
असिः । कारण्डवपक्षी । दलाढकम् । इति मेदिनी
हेमचन्द्रश्च ॥ वंशादिरचितभाण्डविशेषः समुद्गश्च ।
इत्यमरः । ३ । ५ । १८ ॥ साजि झाँपि इत्यादि
भाषा । (यथा भागवते ५ । १४ । ४ । “एवमेव
गृहाश्रमः कर्म्मक्षेत्रं यस्मिन् न हि कर्म्माण्युत्-
सीदन्ति यदयं कामकरण्ड एष आवसथः” ॥)

करण्डी, [न्] पुं, (करण्डस्येव आकारोऽस्यास्तीति ।

करण्ड + इनिः ।) मत्स्यः । इति त्रिकाण्डशेषः ।
(मत्स्यशब्देऽस्य गुणादिकथनं ज्ञेयम् ॥)

करतलः, पुं, (करस्य हस्तस्य तलः ।) हस्ततलः ।

हातेर तेलो इति भाषा । (यथा । जयदेवः । १ । ४५ ॥
“करतलतालतरलवलया वलिकलितलस्वनवंशे”
अपि च । यथा, श्रीभागवते । ८ । ७ । ४२ ॥
“ततः करतलीकृत्य व्यापि हालाहलं विषम् ।
अभक्षयन् महादेवः कृपया भूतभावनः” ॥)

करतालं, क्ली, (कराभ्यां हस्ताभ्यां दीयमानस्तालो

यत्र ।) वाद्यविशेषः । यथा, --
“शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् ।
दुर्गागारे वंशिवाद्यं मधुरीञ्च न वादयेत्” ॥
झल्लकं कांस्यनिर्म्मितकरतालकम् । इति तिथ्या-
दितत्त्वे रघुनन्दनभट्टाचार्य्येण व्याख्यातम् ॥

करताली, स्त्री, (करताल + गौरादित्वात् ङीष् ।)

वाद्यविशेषः । करताल खरताल इति ख्याता ।
तत्पर्य्यायः । करर्द्धिः २ । इति त्रिकाण्डशेषः ॥
करतलध्वनिः । तथा च । “यथा न स्यादाली-
कपटकरतालीपटुरवः” । इति उद्भटः ॥

करतोया, स्त्री, (करात् शङ्करस्य हस्तात् च्युतं तोयं

जलं अस्ति यत्र । अर्श आद्यच् ।) स्वनामख्यात-
उत्तरदेशस्थनदीविशेषः । तत्पर्य्यायः । सदानीरा
२ । इत्यमरः । १ । १० । ३३ ॥ सदानीरवहा ३ ।
इति शब्दरत्नावली ॥ * ॥ गौरीविवाहसमये
शङ्करकरगलितसंप्रदानतोयप्रभवत्वात्करस्य तोयं
विद्यतेऽत्र इति करतोया । श्रावणे एतद्वर्ज्जं
सर्व्वा नद्यो रजखलाः इयं तु न रजस्वला अत-
एव सदा सर्व्वदा नीरमस्या इतिसदानीरा ।
तथा च स्मृतिः ।
“अथादौ कर्कटे देवी त्र्यहं गङ्गा रजस्वला ।
सर्व्वा रक्तवहा नद्यः करतोयाम्बुवाहिनी” ॥
इत्यमरटीकायां भरतः ॥ (इयं हि तीर्थविशेषः ।
यथा महाभारते ३ । तीर्थयात्रःपर्ब्बणि । ८५ । ३ ॥
“करतोयां समासाद्य त्रिरात्रोपषितो नरः ।
अश्वमेधमवाप्नोति प्रजापतिकृतो विधिः” ॥)

करद्रुमः, पुं, (किरति शाखाः सर्व्वतः यः । स चासौ

द्रुमश्चेति ।) कारस्करवृक्षः । इति राजनिर्घण्टः ॥

करपत्रं, क्ली, (करेण करात् वा पततीति । पत +

“सर्व्वधातुभ्यः ष्ट्रन्” इति ष्ट्रन् ।) क्रकचः । इत्य-
मरः । २ । १० । ३५ ॥ करात् इति भाषा । (करौ
पत्रमिव नौरिव यत्र ।) जलक्रीडा । इति जटाधरः ॥

करपत्रवान्, [त्] पुं, (करपत्राकारपत्रमस्ति यस्मिन्

मतुप् मस्य वः ।) तालवृक्षः । इति शब्द-
चन्द्रिका ॥

करपत्रिका, स्त्री, (करौ पत्रं नौरिव यस्याः । पत्र

+ कप् + टाप् + अत इत्वम् ।) जलक्रीडा । इति
जटाधरः ॥

करपर्णः, पुं, (करो हस्तः तद्वत्पर्णं यस्य ।) भिण्डा-

वृक्षः । रक्तैरण्डः । इति राजनिर्घण्टः ॥ (एरण्ड-
शब्देऽस्य विशेषः उक्तः ॥)

करपल्लवः, पुं, (करस्य पल्लव इव ।) अङ्गुलिः । यथा,

मार्कण्डेये ८४ । २६ ।
“करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्व्वतः” ॥

करपात्रं, क्ली, (करः पात्रमिव यत्र ।) जलक्रीडा ।

इति हारावली ॥

करपालः, पुं, (करं पालयति रक्षति । पाल +

कर्म्मण्यण् ।) खङ्गः । इत्यमरः । २ । ८ । ८९ ॥

करपालिका, स्त्री, (करपाल् + ण्वुल् + टाप् अत

इत्वम् ।) ह्रस्वगदाकारहस्तदण्डः । सोँटा इति
ख्यातः । इति भरतः ॥ एकधारास्त्रम् । इति
स्वामी । तत्पर्य्यायः । ईली २ । इत्यमरः । २ ।
८ । ९१ ॥ इली ३ इलिः ४ करवालिका ५ । इति
तट्टीका ॥

करबालः, पुं, (करस्य बालः पुत्र इव । नखस्य कर-

जातत्वात् तथात्त्वम् ।) नखम् । इति शब्दमाला ॥
(करं बलति संवृणोति बल + अण् ।) खङ्गः ।
इत्यमरटीकायां भरतादयः । करवाल इति भाषा ।
(यथा, गीतगोविन्दे । १ । १० ॥
“म्लेच्छनिवहनिधने कलयसि करबालम्” ॥)

करबालिका, स्त्री, (कर + बल + ण्वुल् + टाप् +

अत इत्वम् ।) करपालिका । इत्यमरटीकायां
रायमुकुटादयः ॥

करभः, पुं, (कृणाति कीर्य्यतेऽनेन वा । कृञ् हिंसायां

कॄश विक्षेपे वा “कॄशॄशलिकलिगर्दिभ्योऽभच्” ।
उणां । ३ । १२२ । इति अभच् । करे भाति शोभते
इति वा । भा + कः ।) मणिवन्धावधिकनिष्ठा-
पर्य्यन्तं करस्य वहिर्भागः । (यथा, रघुः । ६ । ८३ ।
“धात्री कराभ्यां करभोपमोरुः ॥)
उष्ट्रशिशुः । इत्यमरः ॥ २ । ९ । ७५ ।
करिशावकः । इत्यमरटीकासारसुन्दरी ॥ (यथा
भागवते ८ । २ । २२ ।
“सघर्म्मतप्तः करिसिः करेणुभि-
र्वृतोमदच्युत्करभैरणुद्रतः” ॥)
उष्ट्रः । इति मेदिनी ॥ नखनामगन्धद्रव्यम् ।
इति राजनिर्घण्टः ॥ कटिः । इति जटाधरः ॥

करभकाण्डिका, स्त्री, (करभप्रियं काण्डमस्याः ।

पृष्ठ २/०३२
:करभकाण्ड + कप् + अत इत्वम् ।) उष्ट्रकाण्डी-
वृक्षः । इति राजनिर्घण्टः ॥

करभप्रिया, स्त्री, (करमस्य करिशावकस्य उष्ट्रस्य

वा प्रिया ।) क्षुद्रदुरालभा । इति राजनिघण्टः ॥

करभवल्लभः, पुं, (करभस्य हस्तिशावस्य वल्लभः

प्रियः ।) कपित्थवृक्षः । पीलुवृक्षः । इति राज-
निर्घण्टः ॥

करभादनी, स्त्री, (करभेन उष्ट्रेन अद्यतेऽसौ । अद् +

कर्म्मणि ल्युट् । ततो + ङीप् ।) क्षुद्रदुरालभा ।
इति राजनिर्घण्टः ॥
करभी, [न्] पुं, (कर इव भाति करभः शुण्डः स
अस्यास्ति । करभ + इनिः । यद्वा करभः हस्ता-
वयवविशेषः सोऽस्य शुण्डावच्छेदे अस्तोति इनिः ।)
हस्ती । इति राजनिर्घण्टः ॥

करभी, स्त्री, (करभ + ङीप् ।) उष्ट्री । तत्पर्य्यायः ।

वामी २ । इति जटाधरः ॥

करभीरः, पुं, (करभिणं हस्तिनं ईरयति प्रेरयति

मृत्युमुखम् । करभि + ईर् + अण् ।) सिंहः ।
इति शब्दरत्नावली ॥

करभूषणं, क्ली, (करयोर्भूषणम् ।) कङ्कणम् । इत्य-

मरः । २ । ६ । १०८ ॥ हस्ताभरणमात्रञ्च ॥

करमट्टः, पुं, (करं करिशुण्डमपि अट्ठति तुच्छी-

करोति । अस्य सरलकाण्डत्वात् तथात्त्वम् । अट्ट
अनादरे + खसुम् प्रत्ययः ।) गुवाकवृक्षः । इति
त्रिकाण्डशेषः ॥ (गुवाकशब्देऽस्य गुणा द्रष्टव्याः ॥)

करमरी, [न्] पुं, (किरति क्षिपति अत्र दण्ड्यान्

इति करः कारागारः । कॄ + अधिकरणे अप् ।
तस्मिन् करे मरः मरणं मृत्युवत् यातना यस्य
बाहुलकात् इनिः । तत्र म्रियते वा ।) वन्दी ।
इति त्रिकाण्डशेषः । कयेदी इति भाषा ॥

करमर्द्दः, पुं, (करं मृद्गातीति । करकण्डूप्रदत्वात् ।

मृद्क्षोदे + कर्म्मण्यण् । करेण मृद्यते इति कर्म्मणि
अप् वा ।) करमर्द्दकवृक्षः । इति शब्दरत्नावली ॥
(यथा भावप्रकाशे,--अस्य गुणा उक्ताः ।
“लघुदीर्घफलाभ्यान्तु करमर्द्दद्वयं मतम् ।
करमर्द्दद्वयं त्वाममम्लं गुरुतृषाहरम् ॥
उष्णं रुचिकरं प्रोक्तं पित्तरक्तकफप्रदम् ।
तत्पक्वं मधुरं रुच्यं लघुपित्तसमीरजित् ॥
करमर्द्दः सुषेणः स्यात् कृष्णपाकफलस्तथा ।
तस्माल्लघुफलायास्तु सा ज्ञेया करमर्द्दिका ॥)

करमर्द्दकः, पुं, (कर + मृद् + ण्वुल् । करमर्द्द एव

स्वार्थे कन् इति वा ।) वृक्षविशेषः । इत्यमर-
टीकासारसुन्दरी । पाणि आमला इति भाषा ॥
इति रत्नमालाराजनिर्घण्टादयः । करौन्दा इति
करम्चा इति च भाषा ॥ तत्पर्य्यायः । कृष्णपाक-
फलः २ अविग्नः ३ सुषेणः ४ । इत्यमरः । २ । ४ । ६७ ॥
कृष्णपाकः ५ पाकफलः ६ कृष्णकलः ७ पाककृष्ण-
फलः ८ कृष्णफलपाकः ९ पाककृष्णः १० फल-
कृष्णः ११ पाकफलकृष्णः १२ वनालयः १३ वला-
लकः १४ कराम्बुकः १५ वोलः १६ वशः १७ आ-
विग्नः १८ । इति तट्टीकायां भरतः ॥ करमर्द्दी
१९ वनेक्षुद्रा २० कराम्लः २१ । इति रत्नमाला ॥
करमर्द्द्वः २२ पाणिमर्द्दः २३ । तद्व्रालफलगुणाः ।
तिक्तत्वम् । अम्लत्वम् । दीपनत्वम् । दाहदातृत्वञ्च ।
तत्पक्वफलगुणः । त्रिदोषशभनत्वम् । अरुचि-
विषनाशित्वञ्च । इति राजनिर्घण्टः ॥ पिपासा-
नाशित्वम् । अम्लत्वम् । रुचिपित्तकारित्वम् ।
गुरुत्वञ्च । इति राजवल्लभः ॥ (यथा, वाभटः ।
“गुरूष्णवीर्य्यं वातघ्नं सरञ्च करमर्दकम्” ॥)

करमर्द्दी, स्त्री, (करं मृद्गातीति । कर + मृद् +

अण् ङीप् ।) करमर्दकवृक्षः । इति रत्नमाला ॥

करमालः, पुं, (करः करिशुण्डः तदाकारा माला

समूहः यस्य मेघस्य धूमस्य वा क्रमशः करि-
शुण्डवत् प्रसरत्वात् तथात्त्वम् ।) खतमालः ।
धूमः । इति हेमचन्द्रः ॥

करमाला, स्त्री, (कराङ्गुलीभिर्मालयेव जपनात् कर-

रूपा माला । कराङ्गुल्य मालेव वा ।) करपर्ब्ब-
रूपमाला । यथा,
“अनामिकात्रयं पर्ब्ब कनिष्ठात्रितयं तथा ।
तर्ज्जनीमूलपर्य्यन्तं करमाला प्रकीर्त्तिता” ॥
इति मुण्डमालातन्त्रे सामान्यविषयम् ॥ * ॥
“तर्ज्जनी मध्यमानामा कनिष्ठा चेति ताः क्रमात् ।
तिस्रोऽङ्गुल्यस्त्रिपर्ब्बाणो मध्यमा चैकपर्ब्बिका ।
पर्ब्बद्वयं मध्यमाया मेरुत्वेनोपकल्पयेत्” ॥
इति शिवरहस्यीयं शक्तिभिन्नविषयम् ॥ * ॥
“अनामामूलमारभ्य कनिष्ठादिक्रमेण तु ।
तर्ज्जनीमध्यपर्य्यन्तमष्टपर्ब्बसु संजपेत्” ॥
इति सनत्कुमारसंहितावचनं शक्तीतरेषामष्ट-
वारविषयम् ॥ * ॥
“अनामिकात्रयं पर्ब्ब कनिष्ठा च त्रिपर्ब्बिका ।
मध्यमायाश्च त्रितयं तर्ज्जनीमूलपर्ब्बिका ॥
करमाला समाख्याता आरभ्यानामिकान्तरात् ।
तर्ज्जन्यग्रे तथा मध्ये यो जपेत् स तु पापकृत्” ॥
इति शक्तिविषये मुण्डमालातन्त्रम् ॥ * ॥ तथा ।
“अनामामूलमारभ्य प्रादक्षिण्यक्रमेण तु ।
मध्यमामूलपर्य्यन्तं जपेदष्टसु पर्ब्बसु” ॥
इदमपि शक्तिविषये अष्टवारपरम् । इति श्या-
मारहस्यम् ॥

करमुक्तं, क्ली, (करेण सुदृढं धृत्वा शत्रुं प्रति मुच्यते ।

कर + मुच् + कर्म्मणि क्तः ।) अस्त्रविशेषः । इति
हलायुधः । वरछी भाला इत्यादि भाषा ॥

करम्बः, पुं, (कृञ् करणे + “कृकाद कडीत्यम्बच्” ।

उणां । ४ । ८२ ।) करम्भः । इत्यमरटीकायां
नीलकण्ठः ॥ मिश्रिते त्रि । इति हेमचन्द्रः ॥

करम्बितः, त्रि, (करम्बः मिश्रणंजातोऽस्य । करम्ब +

इतच् ।) मिश्रितः । खचितः । इति त्रिकाण्डशेषः ॥
(“ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे” ॥
इति गीतगोविन्दः । १ । २ ॥)

करम्भः, पुं, (केन जलेन रभ्यते मिश्रीक्रियते । रभि-

धातोरनेकार्थत्वात् “अकर्त्तरि चेति” घञ् । ३ । ३ ।
१९ । रभेरशव्लिटोः । ७ । १ । ६३ । इति नुम् ।)
दधिमिश्रितशक्तुः । इत्यमरः । २ । ९ । ४८ ॥
(यथा शतपथव्राह्मणे । २ । ५ । २ । ४ ।
“अतुषानिव यवान् कृत्वा तानीषदीवोपतप्य तेषां
करम्भपात्राणि कुर्व्वन्ति” ॥ उदमन्थः । यथा,
यजुर्व्वेदे १९ । २१ ।
“धानाः करम्भः सक्तवः परिवापः पयोदधि” ।
“करम्भः उदमन्थः । इति वेददीधितिः ॥
भृष्टयवमात्रम् । यथा मनुः १२ । ७६ ।
“करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान्” ।
करम्भवालुकातापान् करम्भैर्यवैः सह भृष्टा या
वालुकाः तद्वत्तप्तवालुकादीन् इत्यर्थः ॥ मिश्रगन्धः ।
यथा भागवते ३ । २६ । ४५ ।
“करम्भपूतिसौरभ्य शान्तोदग्रादिभिः पृथक् ।
द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते” ॥)

करम्भकं, क्ली, (करम्भ एव स्वार्थे कन् ।) करम्भः ।

दधिसक्तवः । तत्पर्य्यायः । कर्कसारम् २ । इति
हारावली ॥

करम्भा, स्त्री, (केन जलेन रभ्यते सिच्यते इति ।

अथवा केन वायुना रभ्यते मिश्रीक्रियते नानागन्धो
यस्याः । रभेर्नानार्थत्वात् क + रभ + घञ् + नुम्
टाप् च ।) शतावरी । प्रियङ्गुवृक्षः । इति राजनि-
र्घण्टः ॥ (स्वनामख्याता कलिङ्ग देशोत्पन्ना रमणी ।
सा तु पूरुवंशीयस्याक्रोधनस्य पत्नी । यथा महा-
भारते १ । ९५ । २२ ।
“अक्रोधनः खलु कालिङ्गीं करम्भां नामोपयेमे ।
तस्यामस्य जज्ञे देवातिथिः” ॥)

कररुहः, पुं, (करे रोहति कराड्गुलीभ्य उत्पद्यते

इत्यर्थः । कर + रुह + “इगुपधेति” । ३ । १ ।
१३४ । कः ।) नखः । इत्यमरः । २ । ६ । ८३ ॥
(यथा आर्य्यासप्तशती ३७ । “अस्याः कररुह-
खण्डितकाण्ड-पटप्रकटनिर्गता दृष्टिः” ॥)

करर्द्धिः, स्त्री, (करस्य ऋद्धिः करेण ऋद्धिर्यस्य वा ।

करसम्पत् ।) करताली । इति त्रिकाण्डशेषः ॥

करवालिका, स्त्री, (करं वलते । वल हिंसादानयोः

अण् । करेण वाल्यते वा । णिजन्तादच इः ततः
कन् + टाप् च ।) करपालिका । इयमरटीकायां
मरतः ॥

करवी, स्त्री, (कस्य वायोः रवो यत्र । गौरादित्वात्

ङीष् ।) कवरी । हिङ्गुपत्रम् । इति शब्दचन्द्रिका ॥

करवीरः, पुं, (करं वोरयति । वीर + विकान्तौ + कर्म्म

ण्यण् ।) खड्गः । देत्यविशेषः । इति मेदिनी ॥
श्मशानम् । इति हेमचन्द्रः ॥ ब्रह्मावर्त्ते दृशद्वती-
नदीतीरे चन्द्रशेखरराजपुरम् । इति कालिका-
पुराणे ४६ अध्यायः ॥ (पर्ब्बतविशेषः । यथा,
भागवते ५ । १६ । २८ ।
“एवमपरेण पवनपारियात्रौ
दक्षिणेन कैलास करवीरौ प्रगायतौ” ॥
नागविशेषः । यथा, महाभारते १ । ३५ । १२ ।
“करवीरः पुष्पदंष्ट्रो विल्वको विल्वपाण्डरः” ॥)
वृक्षविशेषः । करवी इति भाषा ॥
(यथा रामायणे ३ । १७ । १० ।
“दाडिमान् करवीरांश्च अशोकांस्तिलकांस्तथा” ॥)
तत्पर्य्यायः । प्रतिहासः २ शतप्रासः ३ चण्डातः ४
हयमारकः ५ । इत्यमरः । २ । ४ । ७६ ॥ प्रतीहासः
पृष्ठ २/०३३
:६ । इति तट्टीका ॥ अश्वघ्नः ७ हयारिः ८ अश्व-
मारकः ९ शीतकुम्भः १० तुरङ्गारिः ११ । इति
रत्नमाला ॥ अश्वहा १२ वीरः १३ हयमारः १४
हयघ्नः १५ शतकुन्दः १६ अश्वरोधकः १७ वीरकः
१८ कुन्दः १९ शकुन्दः २० श्वेतपुष्पकः २१ अश्वा-
न्तकः २२ नखराह्वः २३ अश्वनाशनः २४ स्थल-
कुमुदः २५ दिव्यपुष्पः २६ हरिप्रियः २७ गौरी-
पुष्पः २८ सिद्धपुष्पः २९ । अस्य गुणाः । कटु-
त्वम् । तीक्ष्णत्वम् । कुष्ठकण्डूतिनाशित्वम् । व्रणा-
र्त्तिविषविस्फोटकशमनत्वम् । अश्वमृतिप्रदत्वञ्च ।
इति राजनिर्घण्टः ॥ (श्वेतरक्तभेदेन यथा, --
“करवीरः श्वेतपुष्पः शीतकुम्भोऽश्वमारकः ।
द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥
करवीरद्वयं तिक्तं कषायं कटुकञ्च तत् ।
व्रणलाघवकृन्नेत्रकोपकुष्ठव्रणापहम् ।
वीर्य्योष्णं क्रिमिकण्डूघ्नं भक्षितं विषवन्मतम्” ॥
इति भावप्रकाशः ॥ नागविशेषः । इति भारतम् ॥)

करवीरकः, पुं, (करवीर इव कायति प्रकाशते ।

कै + कः । करं वीरयतीति । कर + वीर विक्रा-
न्तौ + ण्वुल् ।) अर्ज्जुनवृक्षः । इति राजनिर्घण्टः ॥
खड्गः । इति शब्दमाला ॥ (करवीर एव स्वार्थे
कन् ।) करवीरः । विषभेदः । स तु करवीरस्य
मूलम् । इति हेमचन्द्रः ॥

करवीरकन्दसंज्ञः, पुं, (करवीरकन्दसंज्ञया संज्ञा

यस्य । करवीरकन्द इति संज्ञा यस्य वा ।) तैल-
कन्दः । इति राजनिर्घण्टः ॥

करवीरभुजा, स्त्री, (करवीरस्य भुज इव शाखावत्

भुजः शाखाऽस्याः ।) आढकीवृक्षः । । इति राज-
निर्घण्टः ॥ अरहर इति भाषा ॥

करवीरी, स्त्री, (किरति क्षिपति राक्षसासुरादीन्

इति । कॄ + अच् । करः तादृशः वीरः पुत्त्रो
यस्याः । यद्वा कं सुखं राति ददातीति क + रा +
कः । सुखप्रदः वीरपुत्त्रो यस्याः ।) अदितिः ।
श्रेष्ठगवी । पुत्त्रवती । इति मेदिनी ॥

करशाखा, स्त्री, (करस्य शाखा इव ।) अङ्गुलौ ।

इत्यमरः । २ । ६ । ८१ ॥ तासां परिमाणं यथा ।
“अष्ठभिस्तैर्भवेत् ज्यैष्ठं मध्यमं सप्तभिर्यवैः ।
कन्यसं षड्भिरुद्दिष्ठमङ्गुलं मुनिसत्तम ॥
मानन्तु पार्श्वेन । षड्यवाः पार्श्वसम्मिताः । इति
कात्यायनदर्शनात्” । इति तिथ्यादितत्त्वम् ॥ तत्-
पर्य्यायः । अग्रुवः १ अल्व्यः २ क्षिपः ३ व्रिशः ४
शर्य्याः ५ रशनाः ६ धीतयः ७ अथर्य्यः ८ विपः
९ कक्ष्याः १० अवनयः ११ हरितः १२ स्वसारः
१३ जामयः १४ सनाभयः १५ योक्त्राणि १६
योजनानि १७ धुरः १८ शाखाः १९ अभीशवः २०
दीधितयः २१ गभस्तयः २२ । इति द्वाविंशति-
रङ्गुलिनामानि । इति वेदनिघण्टौ २ अध्यायः ॥

करशीकरः, पुं, (करात् करिशुण्डात् निःसृतः

शीकरः । करस्य गजशुण्डस्य शीकरो वा ।)
हस्तिशुण्डनिर्गतजलकणा । तत्पर्य्यायः । वमथुः २ ।
इत्यमरः । २ । ८ । ३७ ॥ (यथा रघुः । ७ । ४८ ।
“उद्यन्तमग्निं शमयाम्बभूवु-
र्गजा विविग्नाः करशीकरेण” ॥)

करशूकः, पुं, (करस्य शूकः सूक्ष्माग्र इव सूच्यग्र इव

वा ।) नखः । इति त्रिकाण्डशेषः ॥

करहाटः, पुं, (करेण किरणेन सूर्य्यस्येति यावत्

हाट्यते दीप्यते इति । हट् + णिच् + कर्म्म-
ण्यण् ।) पद्ममूलम् । मदनवृक्षः । इति मेदिनी ॥
महापिण्डीतरुः । इति राजनिर्घण्टः ॥

करहाटकः, पुं, (करहाट एव इति स्वार्थेकन् । करं

हाटयतोति ण्वुल् वा ।) मदनवृक्षः । इत्यमरः ।
२ । ४ । ५२ ॥ हस्तीयस्वर्णे क्ली ॥

करामर्द्दः, पुं, (करं आमृद्गातीति । कर + आ + मृद्

+ अण् ।) करमर्दवृक्षः । इति शब्दरत्नावली ॥
करम्चा इति भाषा ॥

कराम्बुकः, पुं, (कीर्य्यते क्षिप्यते । कॄ + कर्म्मणि

अप् । करं अम्बु यस्मात् कप् ।) कृष्णपाकफल-
वृक्षः । इति शब्दचन्द्रिका भरतधृतवाचस्पतिश्च ॥
पाणि आमला इति भाषा ॥

कराम्लकः, पुं, (कीर्य्यते इति करं कीर्य्यमाणं अम्लं

यतः । अम्ल + कप् ।) करमर्द्दकवृक्षः । इति
राजनिर्घण्टः ॥

करायिका, स्त्री, (कराविव आचरति उड्डीनादि-

काले करवल्लम्बमानत्वात्तथात्त्वम् । कर + आ-
चारे क्यङ् । ततो + ल्वुल् + टाप् च ।) बलाका-
पक्षी । क्षुद्रवकः । इति भूरिप्रयोगः ॥

करारोटः, पुं, (करे आरोटते दीप्यते । आ + रुट् +

अच् ।) अङ्गुरीयकम् । इति त्रिकाण्डशेषः ॥

करालं, क्ली, (कराय चक्षुरोगादिनाशाय अलति

पर्य्याप्नोतीति । अल् + अच् ।) कृष्णकुठेरकः । इति
मेदिनी ॥ काल तुलसी इति भाषा ॥

करालः, पुं, (करं आलाति गृह्नाति । आ + ला +

कः । कराय क्षेपाय अलति पर्य्याप्नोति वा ।)
सर्जरसयुक्ततैलम् । इति मेदिनी ॥ गर्जनतेल
इति भाषा ॥ तैले घृते वा पक्ववेसवारः । इति
पाकराजेश्वरः ॥ (क्वचित् क्लीवेऽपि दृश्यते । यथा,
“तप्तस्नेहे पचेत् पूर्ब्बं वेसवारकसंज्ञकम् ।
पाकप्रापितसौरभ्यं करालं सूदकैर्मतम्” ॥
गन्धर्व्वभेदः ॥ यथा, महाभारते । १ । १२३ । ५४ ।
“सद्धा वृहद्धा वृहकः करालश्च महामनाः” ॥)

करालः, त्रि, (कराय क्षेपाय भयप्रदर्शनाय अलति

यर्य्याप्नोति ।) दन्तुरः । देँतो इति भाषा ॥ (यथा,
“कराल वदनां घोरां मुक्तकेशीं चतुर्भुजां” ।
इति चामुण्डाध्यानम् ॥) तुङ्गः । उचु इति भाषा ॥
भीषणः । इति मेदिनी ॥ भयानक इति यावत् ॥
(यथा, रघुः । १२ । ९८ ।
“तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् ।
वपुर्महोरगस्येव करालफणमण्डलम्” ॥)

करालकः, पुं, (कराल एव स्वार्थे कन् । करालवत्

कायति वा ।) कृष्णतुलसी । इति रत्नमाला ॥
करालशब्दार्थश्चात्र ॥

करालत्रिपुटा, स्त्री, (करालानि त्रीणि पुटानि

यस्याः ।) लङ्काधान्यम् । इति राजनिर्घण्टः ॥

कराला, स्त्री, (करालनाम्ना नाम यस्याः ।) शारिवा ।

अनन्तमूल इति ख्याता । इति रत्नमाला ॥
(शारिवाशब्दे अस्या गुणा व्याख्येयाः ॥)

करालिकः, पुं, (कराणां करसदृशशाखानां आलिः

श्रेणिर्यत्र । कप् ।) वृक्षः । इति हेमचन्द्रः ॥

कराली, स्त्री, (कराल + गौरादित्वात् ङीष् ।) अग्नेः

सप्तजिह्वान्तर्गतजिह्वाविशेषः । इति जटाधरः ॥
(यथा मुण्डकोपनिषदि । १ । २ । ४ ।
“काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा ।
स्फुलिङ्गिनी विश्वरूपी च देवी
लेलायमाना इति सप्त जिह्वाः” ॥)

करिकणावल्ली, स्त्री, (करिकणाया इव वल्ली ।) चवि-

कावृक्षः । इति राजनिर्घण्टः । चै इति भाषा ॥
(चविकाशब्देऽस्या विशेषो ज्ञेयः ॥)

करिकुसुम्भः, पुं, (करीति नागकेशरःत्वद्वत् कुसुम्भः ।)

नागकेशरचूर्णकम् । इति हारावली ॥

करिगर्ज्जितं, क्ली, (करिणः गर्ज्जितं गर्ज्जनं । करि +

गर्ज्ज + भावे क्तः ।) हस्तिगर्जनम् । तत्पर्य्यायः ।
वृंहितम् २ । इत्यमरः । २ । ८ । १०७ ॥

करिजः, पुं, (करिणो जायते इति । करि + जन् +

कर्त्तरि डः ।) हस्तिशिशुः । इति शब्दमाला ॥

करिणी, स्त्रा (करिन् + स्त्रियां ङीप् ।) हस्ति-

नी । तत्पय्यायः । धेनुका २ वशा ३ । इत्य-
मरः । २ । ८ । ३६ ॥ करेणूः ४ करेणुः ५ करे-
णुका ६ रेणुका ७ वासिता ८ वासा ९ हस्तिनी
१० । इति शब्दरत्नावली ॥ कटम्भरा ११ पुष्क-
रिणी १२ कचा १३ गणिका १४ गजयोषित्
१५ । इति जटाधरः ॥ पद्मिनी १६ इत्यमर-
टीका ॥ (यथा भागवते । ४ । ९ । ५३ ।
“आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम्” ॥)

करिदारकः, पुं, (करिणं दृणाति हिनस्ति दारय-

तीत्यर्थः । दॄग् विदारे + ण्वुल् ।) सिंहः । इति
शब्दरत्नावली ॥

करिपत्रं, क्ली, (करिणः कर्णवत् पत्रं यस्य ।) तालीश-

पत्रम् । इति राजनिर्घण्टः ॥

करिपिप्पली, स्त्री, (करिसंज्ञया संज्ञा यस्याः पि-

प्पल्याः सा । करिनामिका पिप्पली ।) गजपि-
प्पली । इत्यमरः । २ । ४ । ९७ ॥

करिपोतः, पुं, (करिणः पोतः शिशुः ।) करिशा-

वकः । इति हलायुधः । २ । ६९ ॥

करिबन्धः, पुं, (करी बध्यते रुध्यतेऽत्र । यद्वा करिणं

हस्तिनं बध्नाति अत्र । बन्ध + अधिकरणे घञ् ।)
हस्तिबन्धनस्तम्भः । तत्पर्य्यायः । प्रारब्धिः २ ।
इति हारावली ॥

करिमाचलः, पुं, (मच शाठ्यदम्भयो रितिधातोः

भावे घञ् । करिणि हस्तिवधविषये माचं शाठ्यं
लाति गृह्नातीति । ला + कः ।) सिंहः । इति त्रि-
काण्डशेषः ॥

करिमुखः, पुं, (करिणो मुखमिव मुखं यस्य ।) गणेशः ।

इति त्रिकाण्डशेषः ॥

करिरः, पुं, क्ली, (कॄ + इरन् ।) करारः । इति

शब्दरत्नावली ॥
पृष्ठ २/०३४

करिशावकः, पुं, (करिणः शावकः शिशुः ।) हस्ति-

शिशुः । तत्पर्य्यायः । कलभः २ । करभ इत्यपि
पाठः । इत्यमरः । २ । ८ । ३५ ॥ करिपोतः ३ ।
इति हलायुधः ॥ करिजः ४ । इति शब्दमाला ॥
विक्कः ५ । धिक्कः ६ । यथा, शब्दरत्नावली ॥
“यावत् पञ्चाब्दमेतस्मिन् करभः कलभोऽपि च ।
विक्कधिक्कौ तथा स्त्री तु करभी कलभीत्यपि” ॥

करी, [न्] पुं, (करः शुण्डः अस्यास्तीति इनिः ।)

हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा भागवते
। ८ । २ । २२ ।
“स घर्म्मतप्तः करिभिः करेणुभि-
र्वृतो मदच्युत्कलभैरनुद्रुतः” ॥)

करीरः, पुं क्ली, (किरति विक्षिपति स्वदेहजावर-

णादीनिति । “कॄशॄपॄ कटिपटि शौटिभ्य ईरन्” ।
उणां । ४ । ३० । इति ईरन् ।) वंशाङ्कुरः । इत्य-
मरः । ३ । ३ । १७३ ॥ वाँशेर कोँडा इति भाषा ॥
(यथा, माघे ४ । १४ ।
“रत्नैः पुनर्यत्र रुचा रुचंस्वा-
मानिन्यिरे वंशकरीरनीलैः” ॥
“वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्य-
र्थत्वादपौनरुक्त्यम् ॥ अतएवैकार्थपदमप्रयोज्यमि-
त्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशे-
षकरेषु न दोष इत्याह वामनः” ॥ इति तट्टी-
कायां मल्लिनाथ ॥)
अस्य गुणाः । श्लेष्मनाशित्वम् । कषायत्वम् । दाह-
जनकत्वञ्च । इति राजवल्लभः ॥ (यथाह वाभटः ।
“करीरमाध्मानकरं कषायस्वादुतिक्तकम्” ॥
“वेणोः करीराः कफला मधुरा रसपाकतः ।
विदाहिनो वातकराः स कषाया विरूक्षणाः” ॥
इति सुश्रुतः ॥)

करीरः, पुं, (कीर्य्यते क्षिप्यते जलमत्र “कॄशॄपॄक-

टीति” ईरन् । उणां । ४ । ३० ।) घटः । इति
मेदिनी ॥ (कीर्य्यते दूरे निक्षिप्यते दूरतः त्यज्यते
कण्टकादिभयादिति यावत् ।) मरुभूमिज उष्ट्र-
प्रियः कण्टकिवृक्षः । करील इति भाषा ! तत्-
पर्य्यायः । क्रकरः २ ग्रन्थिलः ३ । इत्यमरः । २ ।
४ । ७७ ॥ क्रकचः ४ । इति तट्टीका ॥ निष्पत्रिका
५ करिरः ६ गूढपत्रः ७ करकः ८ तीक्ष्णकण्टकः
९ । अस्य गुणाः । (यथा भावप्रकाशे ।
“करीरः कटुकस्तिक्तः स्वेद्युष्णो भेदनः स्मृतः ।
दुर्नामकफवातामगरशोथव्रणप्रणुत्” ॥)
आध्मानकारित्वम् । कषायत्वम् । कटुत्वम् । उष्ण-
त्वम् । अतिशयकफकारित्वम् । श्वासानिलारो-
चकसर्व्वशूलविच्छर्द्दिखर्जूव्रणदोषनाशित्वञ्च । इति
राजनिर्घण्टः ॥

करीरा, स्त्री, (करिर + “अजाद्यतष्टाप्” । ४ । १ । ४ ।

इति टाप् ।) चीरिका । झिँझि पोका इति
भाषा ॥ हस्तिदन्तमूलम् । इत्युणादिकोषः ॥

करीरिका, स्त्री, (करीरमिवाकृतिरस्त्यस्याः । करीर

+ टन् + टाप् च ।) हस्तिदन्तमूलम् । इति त्रि-
काण्डशेषः ॥

करीरी, स्त्री, (कॄ + ईरन् + गौरादित्वात् ङीष् ।)

चीरिका । हस्तिदन्तमूलम् । इति मेदिनी ॥

करीषः, पुं, क्ली, (कीर्य्यते विक्षिप्यते इति । “कॄतॄ-

भ्यामीषन्” । उणां ४ । २६ । इति कॄ + ईषन् ।)
शुष्कगोमयम् । इत्यमरः । २ । ९ । ५१ ॥ घूँटे इति
भाषा । तत्पर्य्यायः । गोग्रन्थिः २ छगणः ३ । इति
हेमचन्द्रः ॥ (यथा, रामायणे । २ । १०० । ७ ।
“ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान् ।
मृगाणां महिषीणाञ्च करीषैः शीतकारणात्” ॥)

करीषाग्निः, पुं, (करीषे करीषस्थितो वा अग्निः ।)

शुष्कगोमयवह्निः । घूँटेर आगुन इति भाषा ।
तत्पर्य्यायः । छागणः २ । इति त्रिकाण्डशेषः ॥

करुणः, पुं, (करोति मनः आनुकूल्याय । कृ + “कृ

वृदारिभ्य उनन्” । उणां । ३ । ५३ । इति उनन् ।)
वृक्षविशेषः । करुणा लेवुर गाछ इति भाषा ।
तत्फलगुणः । कफवाय्वाममेदोनाशित्वम् । पित्त-
प्रकोपकत्वञ्च । इति राजवल्लभः ॥ बुद्धभेदः । इति
त्रिकाण्डशेषः ॥ शृङ्गाराद्यष्टरसान्तर्गततृतीय-
रसः । इत्यमरः । १ । ७ । १७ ॥ तस्य लक्षणादि ।
“इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोतवर्णोऽयं कथितो यमदैवतः ॥
शोकोऽत्र स्थायिभावः स्याच्छोच्यमालम्बनं मतम् ।
तस्य दाहादिकावस्था भवेदुद्दीपनं पुनः ॥
अनुभावा दैवनिन्दा भूपातक्रन्दितादयः ।
वैवर्णोच्छ्वासनिश्वासस्तम्भप्रलपनानि च ॥
निर्व्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥
शोच्यं विनष्टबन्धुप्रभृति । यथा राघवविलासे ।
विपिने क्व जटानिबन्धनं
तव चेदं क्व मनोहरं वपुः ।
अनयोर्घटना विधेः स्फुटं
ननु खड्गेन शिरीषकर्त्तनम् ॥
अत्र रामवनवासजनितशोकार्त्तस्य दशरथस्य
दैवनिन्दा । एवं बन्धुवियोगवित्तनाशादावपि
उदाहार्य्यम् ॥ परिपोषस्तु महाभारते स्त्रीपर्ब्बणि
बोद्धव्यः” । इति साहित्यदर्पणे ३ । १९९ ॥ (सर्व्व-
जीवेषु दयावान् । यथा भागवते । ३ । २७ । ८ ।
“यदृच्छयोपलनब्धे सन्तुष्टो मितभुग् मुनिः ।
विविक्तशरणः शान्तो मैत्रः करुण आत्मवान्” ॥)

करुणमल्ली, स्त्री, (करुणा करुणाया अर्हा मल्ली ।)

नवमल्लिका । इति शब्दचन्द्रिका ॥

करुणविप्रलम्भः, पुं, (करुणयुक्तो विप्रलम्भः ।) पूर्ब्ब-

रागादिचतुर्भेदविप्रलम्भशृङ्गारमध्ये विप्रलम्भवि-
शेषः । अस्य लक्षणम् । यथा साहित्यदर्पणे
३ परिच्छेदे १९३ ।
“यूनोरेकतरस्मिन् गतवति लोकान्तरं पुनर्लभ्ये ।
विमनायते यदैकस्तदा भवेत् करुणविप्रलम्भाख्यः” ॥
यथा, कादम्बर्य्याम् । “पुण्डरीकमहाश्वेतावृत्तान्ते
पुनरलभ्ये शरीरान्तरे वा लभ्ये करुणाख्य
एव रसः ॥ किञ्चात्राकाशसरस्वतीभाषानन्तरमेव
शृङ्गारः । सङ्गमप्रत्याशायां रतेरुद्भावात् प्रथ-
मस्तु करुण एवत्यभियुक्ता मन्यन्ते यच्चात्र सङ्गम-
प्रत्याशानन्तरमपि भवतो विप्रलम्भशृङ्गारस्य
प्रवासाख्यो भेद एवेति केचिदाहुः तदन्ये मरण-
रूपविशेषसम्भवात्तद्भिन्नमपि मन्यन्ते” ॥

करुणा, स्त्री, (“कृवृदारिभ्य उनन्” ॥ उणां । ३ ।

५३ । इति कृ + उनन् । टाप् च ।) परदुःखहा-
नीच्छा । तत्पर्य्यायः । कारुण्यम् २ घृणा ३ कृपा
४ दया ५ अनुकम्पा ६ । अनुक्रोशः ७ । इत्य-
मरः । १ । ७ । १ ॥ शूकः ८ । इति हेहचन्द्रः
(यथा रघुः ८ । ६७ ।
“करुणाविमुखेन मृत्युना
हरता त्वां वद किं न मे हृतम्” ॥
गङ्गानामविशेषः । यथा काशीखण्डे २९ । ४३ ।
“कूटस्था करुणा कान्ता कूर्मयाना कलावती” ॥
करुणा दयास्वरूपा । इति तट्टीका ॥)

करुणापरः, त्रि, (करुणा परा यस्य करुणायां परः

अनुरागी वा ।) दयापरः । तत्पर्य्यायः । दयालुः
२ कृपालुः ३ सूरतः ४ । इति हेमचन्द्रः ॥

करुणी, स्त्री, (कृ + उनन् + ङीप् ।) पुष्पवृक्षविशेषः ।

ककरखिरुणि इति कोकणे प्रसिद्धा । तत्पर्य्यायः ।
ग्रीष्मपुष्पी २ रक्तपुष्पी ३ चारिणी ४ राजप्रिया
५ राजपुष्पी ६ सूक्ष्मा ७ ब्रह्मचारिणी ८ । अस्या
गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कफ-
मारुताध्मानविषविच्छर्द्दिजन्तूर्द्ध्वश्वासनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

करेटः, पुं, (करे कराङ्गुलीषु अटति उत्पद्यते इति

अट् + अच् अलुक्समासः ।) नखः । इति त्रिका-
ण्डशेषः ॥

करेटव्या, स्त्री, (करे अटं अटनं व्ययतीति । व्ये + डः

ततष्टाप् ।) धनच्छूपक्षी । इति त्रिकाण्डशेषः ॥

करेटुः, पुं, (के जले वायौ वा रेटतीति । रेटृ भाषण-

याचनयोः + मृगष्वादित्वात् कुः ।) पक्षिविशेषः ।
करकटिया इति भाषा । तत्पर्य्यायः । कर्करेटुः २ ।
इत्यमरः । २ । ५ । १९ ॥ करटुः ३ कर्कराटुकः ४ ।
इति हेमचन्द्रः ॥

करेणुः, पुं, (“कृहृभ्यामेनुः” । उणां । २ । १ । इति

कृ + एनुः । के मस्तके रेणुः पांशुर्यस्य वा । मस्तके
शुण्डाकृष्टधूलीनिक्षेपणात् तथात्वम् ।) हस्ती ।
इत्यमरः । ३ । ३ । ५२ ॥ (यथा माघे १२ । ५ ।
“उत्क्षिप्तगात्रः स्म विडम्बयन्नभः
समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
आकुञ्चितप्रोहनिरूपितक्रमं
करेणुरारोहयते निषादिनम्” ॥)
कर्णिकारवृक्षः । इति विश्वः ॥

करेणुः, स्त्री, (कृ + एनुः ।) हस्तिनी । इत्यमरः । ३

। ३ । ५२ ॥ (यथा रामायणे २ । ४० । २९ ।
“शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः ।
यथा नादः करेणूनां बद्धे महति कुञ्जरे” ॥
अस्या दुग्धगुणा यथोक्ताः सुश्रुते ।
“हस्तिन्याः [दुग्धं] मधुरं वृष्यं कषायानुरसं गुरु ।
स्निग्धं स्थैर्य्यकरं शीतं चक्षुष्यं बलवर्द्धनम्” ॥)

करेणुभूः, पुं, (करेणौ करेणुविषये भवति हस्ति-

शास्त्रप्रवर्त्तनाय प्रभवतीत्यर्थः । भू + क्विप् ।) पाल-
काप्यमुनिः । इति हेमचन्द्रः ॥