शब्दकल्पद्रुमः/ए

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ १/२९०

एकारः । स तु एकादशस्वरवर्णः । अस्योच्चारण-

स्थानंतालुकण्ठश्च । (यदुक्तं सिद्धान्तकौमुद्याम् ।
“एदैतोः कण्ठतालु” । तथाच शिक्षायाम् ।
“एऐ तुकण्ठतालव्यावो औ कण्ठोष्ठजौ स्मृतौ” ॥)
स दीर्घः प्लुतश्च भवति । इति व्याकरणम् ॥ (उदा-
त्तानुदात्तस्वरितभेदात् त्रिविधोऽपि प्रत्येकं पुनर-
नुनासिकाननुनासिकभेदात् षड्विधएव ॥)
“एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् ।
रञ्जिनीकुसुमप्रख्यं पञ्चदेवमयं सदा ॥
पञ्चप्राणात्मकं वर्णं तथा विन्दुत्रयात्मकम् ।
चतुर्व्वर्गप्रदं देचि स्वयं परमकुण्डली” ॥
इति कामधेनुतन्त्रं ॥ (वङ्गीयभाषायां) अस्य लेख-
नप्रकारो यथा ।
“कुञ्चिता वामतो रेखा दक्षकोणायता त्वधः ।
पुनर्व्वामगता सैव तासु वह्नीशवायवः” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा ।
“एकारो वास्तवः शक्तिर्झिण्टी सोष्ठो भगं मरुत् ।
सूक्ष्मा भूतोऽर्द्धकेशी च ज्योत्स्ना श्रद्धा प्रमर्द्दनः ।
भयं ज्ञानं कृषा धीरा जङ्घा सर्व्वसमुद्भवः ।
वह्विर्विष्णुर्भगवती कुण्डली मोहिनी वसः ॥
योषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञकः ।
सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः” ॥
इति तन्त्रशास्त्रम् ॥ * ॥ अन्यच्च ।
“एकारो वामगण्डान्तः शक्तिर्झिण्टी भगन्तथा ।
माक्षवीजञ्च विजया ओष्ठ एकादशस्वरः” ॥
इति वीजवर्णाभिधानम् ॥ (मातृकान्यासेऽस्य
ओष्ठस्थाने न्यस्यतया ओष्ठशब्देनाप्यभिधानम् ।
भातृकान्यासमन्त्रो यथा, --
“ऐं नम ओष्ठे ऐं नमोऽधरे” ॥ इति । अनु-
बन्धविशेषः । तेन लुङि सिचि अवृद्धिः स्यात् ।
यथाह कविकल्पद्रुमे ॥
“ऌरङ्वानिर्वाथ एः सिचि ।
अवृद्धिः ऐर्यजादिः स्यात्” ॥
एतेन कटे वर्षावर्णयोरित्यस्य लुङि अकटीदिति
स्यात् ॥)

, व्य, स्मृतिः । असूया । अनुकम्पा । आमन्त्रणम् ।

आह्वानम् । इति मेदिनी ॥

एः, पुं, (एति प्राप्नोति सर्व्वंविश्वमिति । इण् + अच् ।

“सर्व्वं विष्णुमयं जगत्” इति वाक्यादस्य तथा-
त्वम् ॥) विष्णुः । इत्येकाक्षरकोषः ॥

एकं त्रि, (एतीति । इण गतौ । “इण्भीकापा-

शल्यतिमर्च्चिभ्यः कन्” ॥ ३ । ४३ । इत्युणादिसूत्रेण
कन् ।) मुख्यम् । अन्यत् । केवलम् । इत्यमरः ॥
(“त्वमेको ह्यस्य सर्व्वस्य विधानस्य स्वयम्भुवः” ।
इति मनौ १ । ३ । “अजामेकां लोहितशुक्लकृष्णाम्”
इति श्रुतिः ॥ “एकातपत्रं जगतः प्रभुत्वम्” । इति
रघुवंशे २ । ४७ । “ममात्र भावैकरसं मनः स्थिरम्”
इति कुमारे ५ । ८२ ॥) आदिसंख्या । इति मेदिनी ।
अथैकवाचकानि । परमात्मा १ विधुः २ क्षितिः
३ गणेशदन्तः ४ शुक्रचक्षुः ५ । इति कविकल्प-
लता ॥ अग्निः ६ सूर्य्यः ७ देवराजः ८ यमः ९ ।
इति महाभारते वनपर्ब्ब ॥ (सर्व्वनामशब्दोऽयम् ।
तथा च सिद्धान्तकौमुद्यां “सर्व्वादयश्च पञ्चत्रिं-
शत्” इत्युक्त्वा “त्यद्-तद्-यद् एतद्-इदम्-अदस्
पृष्ठ १/२९१
एक-द्वि-युष्मद्-अस्मद्-भवत्-किम्” इत्युक्तवान् ।
यथा शाकुन्तले २ अङ्के । “विश्रान्तेन भवता
ममाप्येकस्मिन् कर्म्मणि सहायेन भवितव्यम्” ।
पुं, स्वनामख्यात ऐलवंशीयो नृपतिभेदः ।
यथा, भागवते ९ । १५ । २ ।
‘श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतं जयः ।
रयस्य सुतएकश्च जयस्य तनयोऽमितः’ ॥
परमेश्वरः । विष्णुः । यथा विष्णुसंहितायाम् ।
“एको नैकः सवः कः किम्” । “परमार्थतः सजा-
तीयविजातीयस्वगतभेदराहित्यादेकः” । इति
भाष्यम् । घटे घटान्तरात् भेदः सजातीयभेदः ।
घटे पटात् भेदः विजातीयभेदः । घटे कपाला-
देर्भेदः स्वगतभेदः ॥)

एककः त्रि, (“एकादाकिनिच्चासहाये” । ५ । ३ ।

५२ । इत्यत्र चकारात् पक्षे कन् ।) असहायः ।
एकला इति भाषा । तत्पर्य्यायः । एकः २
एकाकी ३ । इत्यमरः ॥
(“महानप्येकको वृक्षः सर्व्वतः सुप्रतिष्ठितः ।
प्रसह्यैव हि वातेन शक्यो धर्षयितुं यतः” ॥
इति पञ्चतन्त्रे ३ । ५२ । ॥ तथा नैषधे । २ । ३६ ।
“विधिरेककचक्रचारिणम्
किमु निर्म्मित्सति मान्मथं रथम्” ॥)

एककुण्डलः पुं, (एकं कुण्डलं यस्य ।) बलरामः ।

कुवेरः । इति मेदिनी ॥

एकगुरुः, पुं, (एको गुरुर्यस्य ।) सतीर्थः । इत्यमरः ॥

एकगुरुर शिष्य इति भाषा ॥

एकचक्रं, क्ली, (एकं चक्रं यस्य ।) पुरीविशेषः । तत्प-

र्य्यायः । हरिगृहम् २ शुम्भपुरी ३ । इति त्रिकाण्ड-
शेषः ॥ सूर्य्यरथः । त्रि, असहायचारी । यथा,
ऋग्वेदे १ । १६४ । २ ।
“सप्त युञ्जन्ति रथमेकचक्र-
मेकोऽश्वो वहति सप्तनामा ।
त्रिनाभिचक्रमजरमनर्व्वं
यत्रेमा विश्वा भुवनाधितस्थुः” ॥
अत्र भाष्यकृता यद्व्याख्यातन्तदाह ।
“एकचक्रमेकरथाङ्गोपेतम् । यद्यपि त्रीणि
चक्राणि तथापि तेषामेकरूपत्वादेकचक्रमित्युच्यते
रथं रंहणस्वभावं भुर्य्यस्य सम्बन्धिनं सप्तै-
तत्संङ्ख्यका अश्वा युञ्जन्ति अनुबध्नन्ति वहन्त्य-
होरात्रनिर्वाहाय । किं वस्तुतः सप्त नेत्याह ।
एकोऽश्वः सप्तनामा । एक एव सप्ताभिधानः
सप्तधा नमनप्रकारो वा एक एव वायुः सप्तरूपं
धृत्वा वहतीत्यर्थः । वाष्वधीनत्वादन्तरीक्षसञ्चारस्य
एकचक्रमित्युक्तम् । कीदृशन्तदित्यत आह ।
त्रिनाभि बलयत्रयमध्यस्थितनाभिस्थानीयच्छिद्र-
त्रयोपेतम् । अंजरममरणधर्म्माकम् । अनर्व्वम-
शिथिलं पुनस्तदेव विशेष्यते । यत्र यस्मिंश्चक्रे
इमा विश्वा भुवना इमानि प्रसिद्धानि सर्व्वाणि
भूतजातान्यधि आश्रित्य तस्थुस्तिष्ठन्ति । यद्वा
एकचक्रमेकचारिणमसाहाय्येन सञ्चरन्तं रथ-
मादित्यं सप्त युञ्जन्ति सर्पणस्वभावाः सप्तसंख्या
वा रश्मयः सप्तप्रकारकार्य्या असाधारणाः पर-
स्परविलक्षणाः षडृतवः एकः साधारण इत्येवं-
रूपा यद्वा मासद्वयात्मकाः षट् अपरोऽधि-
मासात्मक एक इत्येवं सप्तर्त्तवो युञ्जन्ति एतस्य
कार्य्यं निर्व्वहन्तीत्यर्थः । स चैकोऽसहायोऽश्वो
ल्यापनशील आदित्यः सप्तनामा सप्तरसानां
सन्नमयितारो रश्मयो यस्य तादृशः । सप्तर्षि-
भिः स्तूयमानो वादित्यो वहति धारयति भ्रम-
तीत्यर्थः । किं भूतम् । त्रिनाभि चक्रम् । त्रयो
नाभिस्थानीयाः सन्ध्यासम्बद्धा वा एव ऋतवो
यस्य तत्तादृशम् । के ते ग्रीष्मवर्षाहेमन्ताख्याः
यद्वा भूतभविष्यद्वर्त्तमानाख्यास्त्रयः कालास्त्रिना-
भयः । तद्विशिष्टं चक्रं चक्रवत् पुनः पुनः
परिभ्रममाणं संवत्सराख्यचक्रमजरममरणम् ।
न हि कदाचिदपि कालो म्रियते अनादिनिधनः
कालः इति स्मृतेः । अनर्व्वमप्रतिहतम् । ईदृशं
संवत्सराख्यं चक्रं नानाकालावयवोपेतमयमादित्यः
पुनः पुनरावर्त्तयति संवत्सरादर्वाचीनानां तत्रै-
वान्तर्भावात् युगादीनां तदावृत्तिसाध्यात् संवत्-
सरस्य चक्रत्वेन रूपणम् । पुनः कीदृशं तत् । यत्र
यस्मिंश्चक्रे इमा विश्वा भुवना इमानि सर्व्वाणि
भूतान्यधितस्थुः आश्रित्य तिष्ठन्ति कालाधी-
नत्वात् सर्व्वस्याः स्थितेः । ईदृशस्य कालस्य का-
रणभूतपरमेश्वरपरिज्ञानेन मोक्षसद्भावात् ज्ञान-
मोक्षाक्षरप्रशंसा च” ॥ नृपाद्वयविशिष्टम् । एक-
राजविशिष्टम् । यथा, भागवते । ३ । १ । २० ।
“इत्थं व्रजन् भारतमेव वर्षं
कालेन यावत् गतवान् प्रभासम् ।
तावच्छशास क्षितिमेकचक्रा-
मेकातपत्रामजितेन पार्थः” ॥
पुं, असुरभेदः । यथा, हरिवंशे ३ । ८४ ।
“एकचक्रो महाबाहुस्तारकश्च महाबलः” ।
अयं हि प्रतिविन्ध्य इति नाम्ना प्रसिद्धः । यथा ।
महाभारते १ । सम्भवपर्ब्बण्यंशावतरणे ६७ । २२ ।
“एकचक्र इवि ख्यात आसीद्यस्तु महासुरः ।
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ” ॥
स्त्री, स्वनामख्याता पुरी । अत्रस्थो भीमसेनो
महाबलं वकनामानमसुरं हतवान् ॥ यथा, --
महाभारते । १ । अंशावतारपर्ब्बणि भारतसूत्रे ।
६१ । २६-२८ ।
“ते तत्र नियता कालम् कञ्चिदूषुर्नरर्षभाः ।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥
तत्राससाद क्षुधितं पुरुषादं वृकोदरः ।
भीमसेनो महाबाहुर्व्वकं नाम महाबलम् ॥
तञ्चापि पुरुषव्याघ्रो बाहुवीर्य्येण पाण्डवः ।
निहत्य तरसा वीरो नागरान् पर्य्यसान्त्वयत्” ॥)

एकचरः, पुं, (एकश्चरति यः । चर + पचाद्यच् ।)

हिंस्रपशुविशेषः । गण्डार इति भाषा । तत्प-
र्य्यायः । वार्द्धीनसः २ गणोत्साहः ३ गण्डकः ४ ।
इति त्रिकाण्डशेषः ॥
(सर्पादिः । यथा, मनुः । ५ । १७ ।
“न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान्” ।
“ये एकाकिनः प्रायेण चरन्ति सर्पादयम्तानेक-
चरान्” । इति तट्टीकायां कुल्लुकभट्टः ॥ (त्रि,
एकाकिचारी । यूथभ्रष्टः । यथा, “अयमेकचरो-
ऽभिवर्त्तते माम्” । इति किराते । १३ । ३ ।
“एकचरो यूथादपेतः” । इति तट्टीका ॥)

एकचारी, [न्] पुं, (एकः सन् चरतीति । चर् +

णिनि ।) बुद्धसहचारी । इति त्रिकाण्डशेषः ॥
(एकचारिणि, त्रि ॥)

एकजटा, स्त्री, (एका जटा यस्याः ।

“एषैवैकजटा ख्याता यस्मात्तस्या जटाधिका’ ।
इति श्रवणात् । यद्वा एका मुख्या जटा यस्याः ।
“खंलिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम्” ।
इति च श्रवणात्तथात्वम् ।) उग्रतारा । तस्या
आविर्भावो यथा, --
“सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।
गङ्गावतारनिकटे महामायां प्रतुष्टुवुः ॥
अनेकसंस्तुता देवी तदा सर्व्वामरोत्करैः ।
मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत ॥
युष्माभिरमरैरत्र स्तूयते का च भाविनी ।
किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति ॥
एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः ।
समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति ॥
शुम्भो निशुम्भो ह्यसुरौ बाधेते सकलान् सुरान् ।
तस्मात्तयोर्ब्बधायाहं स्तूयेऽद्य सकलैः सुरैः ॥
विनिःसृतायां देव्यान्तु मातङ्ग्याः कायतस्तदा ।
भिन्नाञ्जननिभा कृष्णा साभूत् गौरी क्षणादपि ॥
कालिकाख्याभवत् सापि हिमाचलकृताश्रया ।
तामुग्रतारामृषयो वदन्तीह मनीषिणः ॥
उग्रादपि भयात् त्राति यस्माद्भक्तान् सदाम्बिका ।
एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च ॥
एषैवैकजटा ख्याता यस्मात्तस्या जटाधिका ।
शृणुतं चिन्तनं चास्याः सम्यक् वेतालभैरवौ ॥
यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् ।
चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम् ॥
खङ्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः ।
कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम् ॥
खं लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् ।
मुण्डामालाधरां शीर्षे ग्रीवायामपि सर्व्वदा ॥
वक्षसा नागहारन्तु बिभ्रतीं रक्तलोचनाम् ।
कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम् ॥
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।
विन्यस्य सिंहपृष्ठे तु लेलिहानासवं स्वयम् ॥
साट्टहासमहाघोरा रावयुक्तातिभीषणा ।
चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः ॥ * ॥
एतस्याः संप्रवक्ष्यामि या अष्टौ योगिनीस्तु ताः ।
महाकाल्यथ रुद्राणी उग्रा भीमा तथैव च ॥
घोरा च भ्रामरी चैव महारात्रिश्च सप्तमी ।
भैरवी चाष्टमी प्रोक्ता योगिनीस्ताः प्रपूजयेत्” ॥
इति कालिकापुराणे ६१ अध्यायः ॥

एकजन्मा, [न्] पुं, (एकं मुख्यं जन्म यस्य । दिक्-

पालांशसम्भूतत्वादस्य तथात्वम् ।) राजा । इति
त्रिकाण्डशेषः ॥ (एकं न द्वितीयं जन्म यस्य
इत्यर्थे । शूद्रः । तस्य अद्विजत्वात् तथात्वम् ।)
पृष्ठ १/२९२

एकतमः, त्रि, (एक + “एकाच्च प्राचाम्” । ५ । ३ ।

९४ । इति डतमच् ।) बहूनां मध्ये एकः । इति
व्याकरणम् ॥ (यथा महाभारते आदिपर्ब्बणि ।
“अस्त्राणि वा शरीरं वा ब्रह्मन्नेकतमं वृणु” ॥)

एकतरः, त्रि, (एक + “एकाच्च प्राचाम्” । ५ । ३ ।

९४ । इति डतरच् ।) द्वयोर्म्मध्ये एकः । इति
व्याकरणम् । भिन्नः । इत्यमरटीकायां भरतः ॥
(यदाह कात्यायनः ।
“यदि ह्येकतरो ह्येषां स्त्रीधनं भक्षयेद्बलात्” ॥)

एकता, स्त्री, (एकस्य भावः । एक + तल् + टाप् ।)

एकत्वम् । ऐक्यम् । इति व्याकरणम् ॥
(यथा, रामायणे ६६ । १३ ।
“वह्वीरपि मतीर्गत्वा मन्त्रिणो मन्त्रनिर्णये ।
पुनर्यत्रैकतां प्राप्ताः स मन्त्रो मध्यमः स्मृतः” ॥)

एकतानः, त्रि, (एकेन भावरसेन तन्यते विस्तीर्य्यते

इति । तन इञ विस्तारे । कर्म्मण्यण् ।) एकाग्रः ।
एकविषयासक्तचित्तः । इत्यमरः ॥ (यथा भाग-
वते ७ । ९ । ८ ।
“ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः
सत्त्वैकतानमतयो वचसां प्रवाहैः ।
नाराधितुं पुरुगुणैरधुनापि पिप्रुः
किं तोष्टुमर्हति स मे हरिरुग्रजातेः” ॥
एकस्तानो विस्तृतिर्यस्येति ।) एकताले पुं । इत्य-
मरटीकायां स्वामी ॥

एकतालः, पुं, (एकस्तुल्यस्तालो मानं यत्र ।) सम-

न्वितलयः । नृत्यगीतवाद्यानां साम्यं यत्र । सम-
ताल इति यस्याख्या । इत्यमरमरतौ ॥ (सङ्गीत-
शास्त्रे खनामख्यातः तालभेदः । त्रि, एकताल-
वृक्षसमन्वितः । यथा रघौ १५ । २३ ।
“एकताल इवोत्पातपवनप्रेरितो गिरिः” ॥)

एकतीर्थी, [न्] पुं, (एकं समं तीर्थमाश्रमो यस्य ।)

सतीर्थः । गुरुभाइ इति भाषा ॥ (“एकतीर्थी
एकाश्रमी” इति मिताक्षरा ॥)

एकत्र, व्य, (एक + त्रल् ।) एकस्मिन् । इति व्याक-

रणम् ॥ एकसङ्गे इति भाषा । (एकत्र निर्णीतः
शास्त्रार्थो बाधकं विनान्यत्रापि प्रयुज्यते” । इति
दुर्गादासः । यथा मनुः । ५ । १३६ ।
“एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
उभयोः सप्त दातष्या मृदः शुद्धिमभीप्सता” ॥)

एकदंष्ट्रः, पुं, (एका द्रंष्ट्रा यस्य । परशुरामेणैक-

दन्तस्य उत्पाटनात् तथात्वम् ।) गणेशः । इति
त्रिकाण्डशेषः ॥ (अस्य परशुरामकृतदन्तोत्पाट-
नकथा एकदन्तशब्दे द्रष्टव्या ॥)

एकदन्तः, पुं, (एको दन्तो यस्य ।) गणेशः ।

इत्यमरः ॥ (परशुरामकृतगणेशदन्तोत्पाटनकथा
ब्रह्मवैवर्त्ते उक्ता । एकदा रहसि स्थितयोः शिवा-
शिवयोर्द्वारपालत्वमङ्गीकृतं गजाननेन । एतस्मिन्न-
न्तरे परशुरामः शिवं द्रुष्टुमागतः । शिव-
दर्शनव्याकुलस्यान्तर्जिगमिषोर्द्वाररोधे कृते गण-
पतिना सह तस्य तुमुलं युद्धमभवत् । परशु-
रामक्षिप्तेन परशुना च गजाननस्य एको दन्तः
भग्नः । तदा प्रभृत्येव एकदन्तोऽसौ कथ्यते ॥)

एकदा, व्य, (एक + “सर्व्वैकान्यकिंयत्तदः काले

दा” । ५ । ३ । १५ । इति दा ।) एकस्मिन् काले ।
तत्पर्य्यायः । युगपत् २ । इत्यमरः ॥
(यथा भागवते ६ । ३ । २९ ।
“जिह्वा न वक्ति मगवद्गुणनामधेयं
चेतश्च न स्मरति चच्चरणारविन्दम् ।
कृष्णाय नो नमति यच्छिर एकदापि
तानानयध्वमसतोऽकृतविष्णुकृत्यान्” ॥)

एकदृक्, [श्] पुं, (एकं सर्व्वमभिन्नं पश्यति यः ।

एकादृश् + क्विप् ।) महादेवः । (एका दृक् यस्य ।
रामबाणमोक्षणेन नष्टे एकचक्षुषि काकस्य
तथात्वम् ।) काकः । काणे त्रि । इति हेमचन्द्रः ॥
(एकमेव सर्व्वं ब्रह्मत्वेन पश्यति यः इति व्युत्पत्त्या
तत्त्ववेत्ता । ब्रह्मज्ञानी ॥ एकमेव पक्षं पश्यतीत्यर्थे
एकपक्षाश्रयी ॥)

एकदेहः, पुं, (एकः मुख्यो देहो यस्य । ग्रहेषु

सौम्यत्वादस्य तथात्वम् ।) बुधग्रहः । इति त्रि-
काण्डशेषः ॥ (एको मेदरक्तादीनां साम्यात् तुल्यो
देहः शरीरं यत्र । गोत्रम् । वंशः ।
यथा, हरिवंशे ४६ अध्याये ।
“बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् ।
एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः” ॥
दम्पती । “अस्थिभिरस्थीनि मांसैर्मांसानि त्वचा
त्वचमिति श्रुतेः” । तथा, --
“शरीरार्द्धं स्मृता जाया पुण्यापुण्यफले समा” ।
इति स्मृत्युक्तेश्च जायापत्योरेकदेहत्वम्” ॥)

एकधा, व्य, (एक + “एकाद्धोध्यमुञ” । ४ । २ । ४ ॥

इति धा ।) एकप्रकारम् । इति व्याकरणम् ॥
(यथा महाभारते अनुगीतापर्ब्बणि १४ । ४२ । ६० ।
“सर्व्ववित् सर्व्वभूतेषु विन्दत्यात्मानमात्मनि ।
एकधा बहुधा चैव विकुर्व्वाणस्ततस्ततः” ॥)

एकधुरः, त्रि, (एका धूः । ॠक्पूरब्धूःपथामानक्षे” ।

५ । ४ । ७४ । इति अः समासान्तः ।) एकभार-
वाहकगवादिः । एकपिठा गरु इति भाषा । तत्प-
र्य्यायः । एकधुरीणः २ एकधुरावहः ३ । इत्यमरः ॥
(यथा, पाणिनिः । ४ । ४ । ७९ । “एकधुरान्नुक्” ।)

एकधुरावहः, त्रि, (वहतीति वहः । वह् + अच् ।

एकधुरायाः वहः ।) एकधुरः । इत्यमरः ॥

एकधुरीणः, त्रि, (एकधुरां वहति यः । “एकधुरान्नुक्

च” । ४ । ४ । ७९ । चकारेण स्वस्यानुकर्षणसाम-
र्थ्यात् पक्षे श्रवणम् ॥) एकधुरः । एकभारवोढा ।
इत्यमरः ॥ एकस्य रथस्य लाङ्गलादेर्व्वा धुरं वहति
यः । इत्यमरटीकायां भरतः ॥

एकनटः, पुं, (एको मुख्यो नटः ।) मुख्यनटः । तत्प-

र्य्यायः । कथकः २ । इति त्रिकाण्डशेषः ॥ कथा-
प्राणः ३ । इति शब्दरत्नावली ॥

एकपक्षः, त्रि, (एकः पक्षो यस्य ।) सहायः । इति

त्रिकाण्डशेषः ॥ (एकः पक्षः इति विग्रहे ।
अद्वितीयः पक्षः ॥ यथा, रघौ १४ । ३४ ।
“इत्येकपक्षाश्रयविक्लवत्वात्
आसीत् स दोलाचलचित्तवृत्तिः ॥)

एकपत्नी, स्त्री, (एकोऽद्वितीयः पतिर्यस्याः इति

विग्रहे “नित्यं सपत्न्यादिषु” इति एकपतिशब्दस्य
नकारान्तादेशे “ऋन्नेभ्य” इति ङीप् ।) पति-
व्रता । इति त्रिकाण्डशेषः ॥ (यथा, मेघदूते । १० ॥
“ताञ्चावश्यं दिवसगणनातत्परामेकपत्नीम्” ॥
एकः समानः पतिर्यस्या इति विग्रहे । सपत्नी ।
यथा मनुः । ९ । १८५ ।
“सर्व्वासामेकपत्नीनामेका चेत् पुत्त्रिणी भवेत् ।
सर्व्वास्तास्तेन पुत्त्रेण प्राह पुत्त्रवतीर्मनुः” ॥)

एकपत्रिका, स्त्री, (एकं गन्धवत्त्वात् श्रेष्ठं पत्रं यस्याः ।)

गन्धपत्रवृक्षः । इति राजनिर्घण्टः ॥

एकपदं, क्ली, (एकं पदं पदमात्रोच्चारणकालो यस्मिन् ।)

तत्कालः । इति मेदिनी ॥ (तत्पर्य्यायः । तत्क्षणम् १
इति विश्वः । यथा, रघुः ८ । ४८ । “कथमेकपदे
निरागसं जनमाभाष्यमिमं न मन्यसे” ॥ “एकपदे
तत्क्षणे । स्यात् तत्क्षणे एकपदमिति विश्वः” ।
इति तट्टीका ॥ एकं प्रशस्तं पदं स्थानम् । “पदं
व्यवसितित्राणस्थानलक्ष्याङ्घ्रिवस्तुषु” इत्यमरोक्ते-
स्तथात्वम् । वैकुण्ठम् । सुप्तिङन्तरूपपदम् ।
यथा माघे २ । ९५ ।
“निहन्त्यरीनेकपदे य उदात्तः स्वरानिव” ॥
एकं श्रेष्ठं पदं कोष्ठरूपपूजास्थानम् । वास्तुमण्डल-
स्थमेककोष्ठात्मकस्थानम् । यथा, वास्तुयागतत्त्वधृत-
देवीपुराणम् ।
“इन्द्रश्चेन्द्रात्मजश्चोभावेकैकपदसंस्थितौ” ॥)

एकपदः, पुं, (एकं पदं पदविन्यासो यस्मिन् ।) शृङ्गार-

बन्धविशेषः । तस्य लक्षणम् ।
पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम् ।
स्तनौ धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः” ॥
इति रतिमञ्जरी ॥ (वास्तयागमण्डलैककोष्ठपूज-
नीयो देवभेदः । यथा वास्तुयागतत्त्वधृतदेवी-
पुराणवचनम् । “भृगुश्चैकपदो ज्ञेयः” । इति ।
एकं पदं चरणं यस्य इति विग्रहे वाच्यलिङ्गः ।
एकपदविशिष्टः । यथा भागवते १ । १६ । २० ।
“पादैर्न्यूनं शोचसि मैकपाद-
मात्मानं वा वृषलैर्भोक्ष्यमाणम्” ॥
एकेन पदा चरन् वृषरूपधरो धर्म्मो गोरूपधरां
पृथ्वीं रुदतीं दृष्ट्वोवाच । हे भद्रे ! पादैर्न्यूनं एक-
पादं मां तथा शूद्रैर्भोक्ष्यमाणमात्मानं वा शोचसि
किम् । इति तट्टीका ॥)

एकपदी, स्त्री, (एकः पादो यस्याम् । कुम्भपदीषु

चेति निपातः । यद्वा संख्यासु पूर्ब्बस्येति पादस्या-
न्तलोपः । पादोऽन्यतरस्यामिति ङीप् ॥ स्वाङ्गा-
च्चेति ङीष् वा । पादः पत् ।) पन्थाः । इत्यमरः ॥

एकपर्णिका, स्त्री, (एकपर्णा + कन् । तपःसाधनार्थं

पार्ब्बत्याः पत्रमात्रभक्षणात् तथात्वम् ।) दुर्गा ।
देवीपुराणे देवीनिरुक्तं नाम ४५ अध्यायः ॥
“अपर्णाशा निराहारा एकाशी एकपर्णिका ।
पाटला पाटलाहारा देवी लोकेषु गीयते” ॥

एकपात्, [द्] पुं, (एकः पादो यस्य । संख्यासु पूर्ब्ब-

स्येति अन्त्यलोपः ।) शिवः । इति त्रिकाण्डशेषः ॥
(रुद्रः । यथा, महाभारते सम्भवपर्ब्बणि १ ।
१२३ । ६५ ।
पृष्ठ १/२९३
:“अजैकपादहिव्रध्रः पिनाकी च परन्तपः” ॥
विष्णुः । यथा, विष्णुसंहितायाम् ।
“चतुरात्मा चतुर्भावश्चतुर्व्वेदविदेकपात्” ॥
एकः पादो यस्य इति विग्रहे वाच्यलिङ्गः ॥)

एकपिङ्गः, पुं, (एकं पिङ्गं पिङ्गलवर्णं नेत्रं यस्य ।)

कुवेरः । इत्यमरः ॥ (कुवेरस्य पिङ्गनेत्रकथा उक्ता
काशीखण्डे । यथा, --
“प्रसार्य्य नयने पूर्ब्बमुमामेव व्यलोकयत् ।
शम्भोः समीपे का योषिदेषा सर्व्वाङ्गसुन्दरी ॥
अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ।
अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम् ।
क्रूरदृग्वीक्षते यावत् पुनः पुनरिदं वदन् ।
तावत् प्रस्फोटितं नेत्रं वामं वामविलोकनात् ॥
अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः ।
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेष पश्यति ॥
असूयमानो मे रूपं प्रेमसौभाग्यसम्पदः ।
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥
उमे ! त्वदीयपुत्रोऽयं न च क्रूरेण चक्षुषा ।
संपश्यते तपोलक्ष्मीं तव किन्त्वधिवर्णयन् ॥
इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ।
वरं ददामि ते वत्स ! तपसानेन तोषितः ॥
निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः ।
यक्षाणां किन्नराणाञ्च राजा राज्ञाञ्च सुव्रत ! ॥
पतिः पुण्यजनानाञ्च सर्व्वेषां धनदो भव ।
मया सख्यञ्च ते नित्यं वत्स्यामि च तवान्तिके ॥
अलकां निकषामित्र ! तव प्रीतिं विवर्द्धयन् ।
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥
इति दत्त्वा वरान् देवः पुनराह शिवः शिवाम् ।
प्रसादं कुरु देवेशि ! तपस्विन्यङ्गजे तव ।
देव्युवाच ।
वत्स ! ते निर्म्मला भक्तिर्भवे भवतु सर्व्वदा ।
भवैकपिङ्गो नेत्रेण वामेन स्फुटितेन च ॥
देवदत्तास्तु ये तुभ्यं वराः सन्तु तथैव ते ।
कुवेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत” ॥)

एकपिङ्गलः, पुं, (एकं पिङ्गलं नेत्रं यस्य ।) कुवेरः ।

इत्यमरटीकायां भरतः ॥ (अस्य पिङ्गलनेत्रकथा
एकपिङ्गशब्दे द्रष्टव्या ॥)

एकभक्तव्रतं, क्ली, (एकं भक्तं भोजनं यत्र तत् व्रतम् ।)

रात्रिभोजनाभावविशिष्टदिवाभोजनम् । तथा च
स्कन्दपुराणे ।
“दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् ।
एकभक्तमिति प्रोक्तं रात्रौ तन्न कदाचन” ॥
(अस्य व्रतस्य नियमफलादिकञ्चोक्तं विष्णुधर्म्मो-
त्तरे । तद्यथा, --
“चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षिपेत् ।
सुवर्णमणिमुक्ताढ्यं गार्हस्थ्यं समवाप्नुयात् ॥
अहिंस्रः सर्व्वभूतेषु वासुदेवपरायणः ।
नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् ॥
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् ।
यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः ॥
अहिंस्रः सर्ष्वभूतेषु वासुदेवपरायणः ।
नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत् ॥
पौण्डरीकस्य यज्ञस्य ततः फलमवाप्नुयात् ।
दशवर्षसहस्राणि स्वर्गलोके महीयते ॥
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते” ॥ इति ॥)

एकमूला, स्त्री, (एकं मूलं यस्याः ।) शालपर्णी ।

अतसी । इति वैद्यकम् ॥ (एकमेव मूलं यस्य
इति विग्रहे एकमूलविशिष्टे, त्रि ॥)

एकयष्टिका, स्त्री, (एका यष्टिरिव ।) हारविशेषः ।

एकनरि हार इति भाषा । तत्पर्य्यायः । एका-
वली २ । इत्यमरः ॥

एकरजः, पुं, (रज्यते इति रजः । एको मुख्यो रजः ।

रञ्जनद्रव्यम् ।) भृङ्गराजवृक्षः । इति जटाधरः ॥
(भृङ्गराजशब्देऽस्य गुणादयो बोद्धव्याः ॥)

एकलः, त्रि, (एक + ला + क ।) एक की । इति

पद्यावली ॥ एकला इति भाषा । (यथा भागवते ५ ।
७ । १० । “तस्मिन् वाव किल स एकलः पुल-
हाश्रमोपवने विविधकुसुमकिसलयतुलसिकाम्बुभिः
कन्दमूलफलोपहारैश्च समीहमानो भगवत आ-
राधनं विविक्तौपरतविषयाभिलाष उपभृतोप-
शमः परां निर्वृतिमाप” ॥)

एकलिङ्गं, क्ली, (एकं लिङ्गं यस्य ।) स्थानविशेषः ।

तथा च आगमे ।
“पञ्चक्रोशान्तरे यत्र न लिङ्गान्तरमीक्ष्यते ।
तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा” ॥

एकलिङ्गः, पुं, (एकं लिङ्गं पिङ्गलनेत्ररूपं चिह्नं यस्य

सः ।) कुवेरः । इति शब्दरत्नावली ॥ (पिङ्गलनेत्र-
कथा एकपिङ्गशब्दे द्रष्टव्या ॥)

एकवर्णी, स्त्री, (एकमेव शब्दं वर्णयति या । एक +

वर्ण + अच् । गौरादित्वात् ङीष् ।) वाद्यभेदः ।
तत्पर्य्यायः । करताली २ कङ्कमाला ३ कलङ्कषा ४
इति शब्दरत्नावली ॥

एकवर्षिका, स्त्री, (एको वर्षो यस्याः । कः । इत्वम् ।) ।

एकहायनी गौः । इति हेमचन्द्रः ॥ एकवत्सरेर
वक्ना इति भाषा ॥

एकवादः, पुं, (एकोऽभिन्नस्वरो वादः वाद्यम् ।

डिण्डिम इति एकरूपवाद्यत्वादस्य तथात्वम् ।)
डिण्डिमवाद्यम् । इति शब्दरत्नावली ॥

एकविंशतिः, स्त्री, (एकाधिका विंशतिः ।) एका-

धिकविंशतिसंख्या । एकुश इति भाषा ।
यथा । मनुः ५ । ३५ ।
“नियुक्तस्तु यथान्यायं यो मांसं नात्त्यलोलुपः ।
सप्रेत्य पशुतां याति सम्भवानेकविंशतिम्” ॥

एकवीरः पुं, वृक्षभेदः । तत्पर्य्यायः । महावीरः २

सकृद्वीरः ३ सुवीरकः ४ । अस्य गुणाः । मदका-
रित्वम् । अत्युष्णत्वम् । कटुत्वम् । तोदवातनाशि-
त्वम् । चटुलीकटिपृष्ठादिचलपक्षाभिघातहारि
त्वञ्च । इति राजनिर्घण्टः ॥ (त्रि, एकः अद्वितीयो
वीरः । वीरवरः । प्रशस्तवीर्य्यशाली ।
यथा भागवते ३ । १ । ४० ।
“अहो पृथापि ध्रियतेऽर्भकार्थे
राजर्षिवर्य्येण विनापि तेन ।
यस्त्वेकवीरोऽधिरथो विजिग्ये
धनुर्द्वितीयः ककुभश्चतस्रः” ॥)

एकवृक्षः, पुं, (एको वृक्षो यस्मिन् ।) स्थानभदः ।

“चतुःक्रोशान्तरे यत्र न वृक्षान्तरमीक्ष्यते ।
एकवृक्षः स विज्ञेयः” । इति आगमः ॥ (एकोऽद्वि-
तीयो वृक्षः इति विग्रहे एकस्मिन् वृक्षे । यथा
सारमञ्जरी । “एकवृक्षः पञ्चनौका भवति” ।
एको वृक्ष इति पाठान्तरम् ॥)

एकशफः, पुं, (एकः शफः खुरो यस्य । अखण्ड-

खुरत्वात् तथात्वम् ।) घोटकः । इति त्रिकाण्ड-
शेषः ॥ एकखुरजन्तुमात्रम् । यथा ।
“खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।
एते चैकशफाः क्षत्तः शृणु पञ्चनखान् पशून्” ॥
इति श्रीभागवतम् ॥ ३ । १० । २२ ॥ (अस्य दुग्ध-
दधि-मूत्र-मांसादिगुणा अश्वशब्दे ऐकशफशब्दे
च ज्ञातव्याः ॥)

एकशृङ्गः, पुं, (एकं शृङ्गं यस्य ।) विष्णुः । इति

त्रिकाण्डशेषः ॥ (स्वायम्भुवमन्वन्तरे अकालप्रलयात्
मत्स्यरूपधरस्यास्य शृङ्गे मनोर्नौर्बद्धा । तत्कथा
यथा कालिकापुराणे ३२ अध्याये ।
“स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार वै तदा ।
ततो जलानामुपरि सशृङ्ग इव पर्ब्बतः ॥
उद्दीप्तश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् ।
आगतस्तत्र न चिरात् यत्रास्ते समनुर्हरिः” ॥
विस्तृतिस्तु आकालिकशब्दे द्रष्टव्या ।) एकशृङ्ग-
युक्तपशुमात्रम् ॥ (पितृगणभेदः । यथा, महा-
भारते २ । ११ । ४१-४३ ।
“पितॄणाञ्च गणान् विद्धि सप्त वै पुरुषर्षभ ! ।
मूर्त्तिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः ॥
वैराजाश्च महाभागा अग्निस्वात्ताश्च भारत ।
गार्हपत्या नाकचराः पितरो लोकविश्रुताः ॥
सोमपा एकशृङ्गाश्च चतुर्व्वेदाः कलास्तथा ।
एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप” ॥)

एकषष्टिः, स्त्री, (एकाधिका षष्टिः ।) संख्यासंख्येय-

विशेषः । इत्यमरः ॥ ६१ एकषट्टि इति भाषा ।
(यथा भागवते ६ । ६ । ३० ।
“सुता दनोरेकषष्टिस्तेषां प्राधानिकान् शृणु” ।)

एकसर्गः, त्रि, (एकस्मिन् विषये सर्गो निश्चयो

यस्य ।) एकाग्रः । इत्यमरः ॥

एकसूत्रः, पुं, (एकं सूत्रं यस्य । एकसूत्रेण वादनात्

तथात्वम् ।) डमरुवाद्यम् । इति शब्दरत्नावली ॥

एकहायनी, स्त्री, (एकः हायनो यस्याः । “दामहाय-

नान्ताच्च” । ४ । १ । २६ । इति ङीष् ।) एक-
वर्षीयगवी । एकवत्सरेर वाच्छुर इति भाषा ।
तत्पर्य्यायः । एकाब्दा २ । इत्यमरः ॥ (पुंसि प्रमाणं
यथा, मनुः ११ । १३६ ।
“वासो दद्याद्धयं हत्वा पञ्च नीलान् वृषान् गजम् ।
अजमेषावनड्वाहं खरं हत्वैकहायनम्” ॥
“अश्वं हत्वा वस्त्रं दद्यात् हस्तिनं हत्वा पञ्च
नीलान् वृषभान् दद्यात् प्रत्येकं छागमेषौ हत्वा
वृषभं दद्यात् गर्द्दभं हत्वा एकवर्षं वत्सं दद्यात्”
इति कुल्लुकभट्टः ॥)

एका, स्त्री, (एक + टाप् ।) दुर्गा । यथा ।

“एका गुणार्था त्रैलोक्ये तस्मादेका स उच्यते” ।
पृष्ठ १/२९४
:देवी सा परमार्थेति वदन्ते भिन्नदर्शिनः ॥ इति” ।
“एका सा तु पृथक्त्वेन विना सर्व्वत्र विश्रुता ।
यथा तु व्यज्यते वर्णैर्विचित्रैः स्फटिको मणिः ॥
तथा गुणवशाद्देवी नानाभावेषु वर्ण्यते” ॥
इति च देवीपुराणे देवीनिरुक्तं नाम ४५ अध्यायः ॥
(अद्वितीया । यथा, मार्कण्डेये ९० । ७ ।
“एकैवाहं जगत्यत्र द्वितीया का ममापरा” ।
“अजामेकां लोहितशुक्लकृष्णां” । इति श्रुतिः ॥
एकैव । स्त्री । यथा भट्टिः १ । १४ ।
“प्रासोष्ट शत्रुघ्नमुदारुचेष्टम्
एका सुमित्रा सह लक्ष्मणेन” ॥)

एकाकी, [न्] त्रि, (एक + “एकादाकिनिच्चास-

हाये” । आकिनिच् ।) सहायरहितः । अस-
हायः । एकला इति भाषा । तत्पर्य्यायः । एकः २
एकक ३ । इत्यमरः ॥ एकलः ४ । इति शब्द-
रत्नावली ॥ (यथा मनुः । ४ । २५८ ।
“एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः ।
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति” ॥)

एकाक्षः, पुं, (एकमक्षि यस्य । सक्थ्यक्ष्णोः साङ्गात्

षच् ।) काकः । इति शब्दचन्द्रिका ॥ (काकस्य यथा
एकनेत्रत्वं जातम् । तत् पाद्मे भरतस्यायोध्यां
प्रतिनिवृत्त्यनन्तरमुक्तम् । तद्यथा, --
“राघवश्चित्रकूटाद्रौ सानुजोऽरमत स्त्रिया ।
कदाचिदङ्के वैदेह्या निद्राणे रघुनन्दने ॥
ऐन्द्रः काकः समागम्य जानकीं वीक्ष्य कामुकः ।
विददार नखैस्तीक्ष्णैः पीनोन्नतपयोधरम् ॥
तत् दृष्ट्वा राघवः क्रुद्धः कुशं जग्राह पाणिना ।
ब्राह्मेणास्त्रेण संयोज्य चिक्षेप धाङ्क्षमारणे ॥
तत् दृष्ट्वा घोरसङ्काशं ज्वलत्कालानलोपमम् ।
दृष्ट्वा काकः प्रदुद्राव निनदन् दारुणस्वनम् ॥
वायसस्त्रिषु लोकेषु बभ्राम भयपीडितः ।
यत्र यत्र ययौ काकः शरणार्थी च वायसः ॥
तत्र तत्र तदस्त्रं तु प्रविवेश भयावहम् ।
ब्रह्माणमिन्द्रं रुद्रं मां शरणार्थी जगाम सः ॥
तत् दृष्ट्वा वायसं भीतं देवता न ररक्षिम ।
न शक्ताः स्म वयं त्रातुं राघवास्त्राद्भयङ्करात् ॥
इत्यब्रूम महादेवा अन्यथास्त्रं दहेच्च नः ।
पुनश्चागात् विधिं काको दयया विधिराह तम् ॥
भो भो बलिभुजां श्रेष्ठ तमेव शरणं व्रज ।
स एव रक्षकः श्रीशः शरणागतवत्सलः ॥
इत्युक्तः सोऽथ बलिभुक् ब्रह्मणा रघुनन्दनम् ।
उपेत्य सहसा भूमौ निपपात भयातुरः ॥
प्राणसंशयमापन्नं दृष्ट्वा सीता तु वायसम् ।
त्राहि त्राहीति भर्त्तारमुवाच दयिता विभुम् ॥
तच्छिरः पादयोस्तस्य युयुजे चाथ जानकी ।
तमुत्थाप्य करेणाथ कृपापीयूषसागरः ।
ररक्षामौ निजास्त्राय तदेकाक्षि ददौ तदा ॥
वावसोऽपि मुहुर्नत्वा सीतायै राघवाय च ।
स्वर्लोकं प्रययौ हृष्टो राघवेणाभिपालितः” ॥)
एकनेत्रविशिष्टे काणे त्रि ॥

एकाग्रः, त्रि, (एकं एकस्मिन् वा अग्रं पुरोगतं ज्ञेय-

मस्य ।) अनन्यचित्तः । तत्पर्य्यायः । एकतानः २
अनन्यवृत्तिः ३ एकायनः ४ एकसर्गः ५ एकाग्य्रः ६
एकायनगतः ७ । इत्यमरः ॥ (यथा, मनुः । १ । १ ।
“मनुमेकाग्रमासीनमभिगम्य महर्षयः” ।
“एकाग्रं विषयान्तराव्याक्षिप्तचित्तम्” । इति
कुल्लुकभट्टः । तथा भागवते ८ । १६ । ३ ।
“मनश्चैकाग्रया बुद्ध्या भगवत्यखिलात्मनि ।
वासुदेवे समाधाय चचार ह परव्रतम्” ॥
तथा गीतायाम् ६ । १२ ।
“तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासाने युञ्ज्याद्योगमात्मविशुद्धये” ॥
“एकाग्रं विक्षेपरहितं मनः कृत्वा” । इति स्वामि-
टीका ।) अनाकुलः । इति मेदिनी ॥

एकाग्र्यः, त्रि, (एकं अग्र्यं अस्य ।) एकाग्रः । इत्यमरः ॥

एकाङ्गं, क्ली (एकं सुन्दरमङ्गं यस्य । एकं सुन्दर-

मङ्गं भवत्यस्माद्वा ।) चन्दनम् । इति हारावली ॥
(एकमद्वितीयमङ्गम् । एकस्मिन्नपि अङ्गे । यथा,
महाभारते १३ । दानधर्म्मकथने । ८२ । २१ ।
“माननामहमिच्छामि भवत्यः सततं शुभाः ।
अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि च सुकुत्सिते” ॥
एकं श्रेष्ठमङ्गमिति विग्रहे मस्तकम् । अस्य
पर्य्याये उत्तमाङ्गशब्ददर्शनात् ॥)

एकाङ्गः, पुं, (एकं सुन्दरम् अङ्गं यस्य । सौम्यत्वादस्य

तथात्वम् ।) बुधग्रहः । इति त्रिकाण्डशेषः ॥

एकादश, [न्] त्रि, (एकाधिका दश ।) संख्या-

विशेषः । ११ एगार इति भाषा । तद्वाचकौ ।
रुद्रः १ दुर्य्योधनसेनापतिः २ । इति कविकल्प-
द्रुमः ॥ (यथा मनुः २ । ३६ ।
“गर्भादेकादशे राज्ञो गर्भाच्च द्वादशे विशः” ॥)

एकादशी, स्त्री, (एकादशानां पूरणी । एकादश +

डडन्तात् ङीप् ।) तिथिविशेषः । सा तु शुक्लपक्षे
सूर्य्यमण्डलात् चन्द्रमण्डलस्य निर्गमरूपैकादश-
कलाक्रियारूपा । कृष्णपक्षे सूर्य्यमण्डले चन्द्रमण्ड-
लस्य प्रवेशरूपैकादशकलाक्रियारूपा । तत्पर्य्यायः ।
हरिवासरम् २ । हरिदिनम् ३ । इति स्मृतिः ॥
तत्र जातफलम् ।
“क्रोधोत्कटः क्लेशसहः सुभाषी
यागादिकर्त्ता स्वजनैकभर्त्ता ।
महामतिर्देवगुरुप्रियः स्या-
देकादशीजो मनुजोऽतिहृष्टः” ॥
इति कोष्टीप्रदीपः ॥ * ॥ तत्र उपवासविधिः ।
पारणदिने द्वादशीलाभे सर्व्वएव पूर्णां त्यक्त्वा
खण्डामुपवसेयुः । तदलाभे गृही प्रर्ब्बां तनन्यः
परां-विधवापि उपवसेत् । पूर्णा तु ।
“उदयात् प्राक् यदा विप्र मुहूर्त्तद्वयसंयुता ।
संपूर्णैकादशी ज्ञेया तत्रैवोपवसेद् गृही” ॥
इति गारुडोक्ता ॥ यदा तु पूर्ब्बदिने दशम्या पर-
दिने द्वादश्या युक्तैकादशी तदा उत्तरामुपोष्य
द्वादश्यां पारणं कुर्य्यात् । परदिने द्वादश्यनिर्गमे
त्रयोदश्यामपि । यदा तु सूर्य्योदयानन्तरं दशमी-
युतैकादशी अथ च परदिने न निःसरति तदा
तां विहाय द्वादशीमुपवसेत् । यदा तु सूर्य्योदय-
प्राक्कालीनदशमीविद्धैकादशी परदिने च न निः-
सरति तदा तामुपवसेत् । यदा तद्विधा सती
परदिनेऽपि निःसरति तत्परदिने च द्वादशी तदा
तां विहाय खण्डामुपोष्य द्वादश्यां पारयेत् । यदा
तूभयदिने तद्विधैकादशी परदिने च न द्वादशी
तदा षष्टिदण्डात्मिकां विद्धामुपोष्य परदिने
द्वादश्याद्यपादमुत्तीर्य्य पारयेत् । वैष्णवस्तु तत्रापि
शुक्लपक्षे परामुपोष्य त्रयोदश्यां पारयेत् । सर्व्व-
स्यां कृष्णैकादश्यां वैष्णवानां सपुत्त्राणां गृहस्था-
नामप्युपवासो नित्यः । ब्राह्मणस्य विशेषतो
नित्यः । वैष्णवेतरेषां तादृशानां हरिशयनमध्य-
वर्त्तिनीषु कृष्णैकादशीषु उपवासो नित्यः । अ-
पुत्त्रवतां गृहिणान्तु सर्व्वास्वेव नित्याधिकारः ।
काम्योपवासे त्वविशेषेणैव सर्व्वेषामधिकारः ।
नित्योपवासे रविशुक्रादिदोषो नास्ति । अष्टाब्दा-
दधिको मर्त्योऽपूर्णाशीतिवत्सरो नित्याधिकारो ।
विधावानान्तु सर्व्वास्वेव नित्याधिकारः तत्र मल-
मासादिदोषो नास्ति । इत्येकादशीतत्त्वोक्त-
व्यवस्था ॥ * ॥
अथ हरिभक्तिविलासोक्तैकादशीव्यवस्था लिख्यते ।
तत्रादौ उपवासपूर्ब्बदिनकृत्यम् ।
“प्रातःस्नानादिकं कृत्वा सुवेशो धौतवस्त्रकः ।
व्रतं संकल्प्य कुर्व्वीत वैष्णवैश्च महोत्सवम्” ॥
इति कारिका ॥ संकल्पमन्त्रः ।
“दशमीदिनमारभ्य करिष्येऽहं व्रतं तव ।
त्रिदिनं देवदेवेश निर्व्विघ्नं कुरु केशव” ॥ * ॥
तत्र रुक्माङ्गदराजवाक्यं नारदीये ।
“प्रातर्हरिदिनं लोकास्तिष्ठध्वं चैकभोजनाः ।
अक्षारलवणाः सर्व्वे हविष्यान्ननिषेविनः ॥
अवनीतल्पशयनाः प्रियासङ्गविवर्ज्जिताः ।
स्मरध्वं देवमीशानं पुराणं पुरुषोत्तमम्” ॥ * ॥
अथान्यनियमाः । स्कान्दे ।
“कांस्यं मांस्यं मसूरञ्च क्षौद्रं चानृतभाषणम् ।
पुनर्भोजनमायासं दशम्यां परिवर्ज्जयेत्” ॥
पारणदिनोक्तनिषिद्धद्रव्याण्यत्रापि निषिद्धानि ॥ * ॥
ततो व्रतस्य नित्यत्वमाह कण्वः ।
“एकादश्यामुपवसेन्न कदाचिदतिक्रमेत्” ।
आग्नेयञ्च ।
“उपोष्यैकादशीं राजन् यावदायुःप्रवृत्तिभिः” ॥ * ॥
भोजननिषेधो नारदीये पाद्मोत्तरखण्डे च ।
“रटन्तीह पुराणानि भूयोभूयो वरानने ! ।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे” ॥
पक्षद्वयेऽपि नित्यत्वम् । विष्णुरहस्यम् ।
“शुक्ले वा यदि वा कृष्णे विष्णुपूजनतत्परः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि” ॥ * ॥
संक्रान्त्यादावपि नित्यत्वम् । कात्यायनः ।
“संक्रान्तौ रविवारे वा यदा चैकादशी भवेत् ।
उपोष्या सा महापुण्या सर्व्वपापहरातिथिः” ॥ * ॥
उपवासदिने श्राद्धनिषेधः । पाद्मोत्तरखण्डे ।
“एकादश्यान्तु प्राप्तायां मातापित्रोर्मृतेऽहनि ।
द्वादश्यां तत्प्रदातव्यं नोपवासदिने क्वचित्” ॥ * ॥
अथ अधिकारिणः । पाद्मोत्तरखण्डे ।
“वर्णानामाश्रमाणाञ्च स्त्रीणाञ्च वरवर्णिनि ।
पृष्ठ १/२९५
:एकादश्युपवासस्तु कर्त्तव्यो नात्र संशयः” ॥
कात्यायनस्मृतौ च ।
“अष्टवर्षाधिको मर्त्यो ह्यपूर्णाशीतिवत्सरः ।
एकादश्यामुपवसेत् पक्षयोरुभयोरपि” ॥ * ॥
अशक्तौ प्रतिनिधिः । वायुपुराणे ।
“उपवासे त्वशक्तस्य आहिताग्नेरथापि वा ।
पुत्त्रान् वा कारयेदन्यान् ब्राह्मणान् वापि कारयेत् ॥
अथवा विप्रमुख्येभ्यो दानं दद्यात् स्वशक्तितः ।
उपवासन्तु कुर्व्वाणः पुण्यं शतगुणं भवेत्” ॥
मार्कण्डेयपुराणे च ।
“एकभक्तेन नक्तेन बालवृद्धातुरः क्षिपेत् ।
पयोमूलफलैर्व्वापि न निर्द्वादशिको भवेत्” ॥ * ॥
अनुकल्पापवादः । गरुडपुराणे ।
“मच्छयने मदुत्थाने मत्पार्श्वपरिवर्त्तने ।
फलमूलजलाहारी हृदि शल्यं ममार्पयेत्” ॥ * ॥
एकादशीमाहात्म्यम् । तत्त्वसागरे ।
“एकादशीसमं किञ्चित् पावनं न च विद्यते ।
स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्त्रप्रदायिनी” ॥
गारुडे च ।
“एकादशीव्रतं भक्त्या यः करोति नरः सदा ।
स विष्णुलोकं व्रजति याति विष्णोः सरूपताम्” ॥ * ॥
उपवासदिननिर्णयः । सौरधर्म्मोत्तरे ।
“एकादशीमुपवसेत् द्वादशीमथवा पुनः ।
विमिश्रां वापि कुर्व्वीत न दशम्या युतां क्वचित्” ॥ * ॥
विद्धोपवासदोषमाह वशिष्ठः ।
“दशम्येकादशी यत्र तत्र नोपवसेद्बुधः ।
अपत्यानि विनश्यन्ति स्वर्गलोकं न गच्छति” ॥ * ॥
द्वादश्युपवासफलम् । स्कान्दे ।
“ऊर्द्ध्वं हरिदिनं न स्यात् द्वादशीं ग्राहयेत्ततः ।
द्वादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम् ॥
एवं कुर्व्वन् नरो भक्त्या विष्णुसायुज्यमाप्नुयात् ।
अन्यथा कुरुते यस्तु स याति नरकं ध्रुवम्” ॥ * ॥
सपूर्णालक्षणेन विद्धालक्षणम् । भविष्यपुराणे ।
“आदित्योदयवेलायाः प्राङ्मुहूर्त्तद्वयान्विता ।
एकादशी च संपूर्णा विद्धान्या परिकीर्त्तिता” ॥ * ॥
अरुणोदयविद्धापरित्यागमाह कण्वः ।
“अरुणोदयवेलायां दशमीसंयुता यदि ।
अत्रोपोष्या द्वादशी स्यात् त्रयोदश्यान्तु पारणं” ॥
वेधश्चतुर्विधः । ब्रह्मवैवर्त्ते ।
“अरुणोदयवेधः स्यात् सार्द्धन्तु घटिकात्रयम् ।
अतिवेधो द्विघटिकः प्रभासन्दर्शनाद्रवेः ॥
महावेधोऽपि तत्रैव दृश्यतेऽर्को न दृश्यते ।
तुरीयस्तत्र विहितो योगः सूर्य्योदये बुधैः” ॥ * ॥
अरुणोदयविद्धोपवासदोषः । पाद्मे ।
“अरुणोदयकाले तु वेधं दृष्ट्वा चतुर्व्विधम् ।
मद्दिनं ये प्रकुर्व्वन्ति यावदाहूतनारकाः” ॥ * ॥
शुद्धाविशेषपरित्यांगः । गारुडे ।
सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा ।
वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते ॥
गृहस्थोऽपि परां कुर्य्यात् पूर्ब्बां नोपवसेत्तदा” ॥ * ॥
अथाष्टमहाद्वादशीनां विशेषतो निरूपणम् ।
यथा, ब्रह्मवैवर्त्ते ।
“उन्मीलनी वञ्जुली च त्रिस्पृशा पक्षवर्द्धिनी ।
जया च विजया चैव जयन्ती पापनाशिनी ॥
द्वादश्योऽष्टौ महापुण्याः सर्व्वपापहरा द्विज ।
तिथियोगेन जायन्ते चतस्रश्चापरास्तथा ॥
नक्षत्रयोगाच्च बलात् पापं प्रशमयन्ति ताः” ॥ * ॥
अथोन्मीलनी । यथा ब्रह्मवैवर्त्ते ।
“एकादशी च संपूर्णा वर्द्धते पुनरेव सा ।
द्वादशी च न वर्द्धेत कथितोन्मीलनी च सा” ॥
पद्मपुराणे ॥
“सर्व्वत्रैकादशी कार्य्या द्वादशीमिश्रिता नरैः ।
प्रातर्भवतु वा मा वा यतो नित्यमुपोषणम्” ॥ * ॥
अथ वञ्जुली । ब्रह्मवैवर्त्ते ।
“द्वादश्येव विवर्द्धेत नचैवैकादशी यदा ।
वञ्जुलीति भृगुश्रेष्ठ ! कथिता पापनाशिनी” ॥
भागवतादितन्त्रे ।
“संपूर्णैकादशी त्याज्या परतो द्वादशी यदि ।
उपोष्या द्वादशी शुद्धा द्वादश्यामेव पारणम्” ॥ * ॥
अथ त्रिस्पृशा । ब्रह्मवैवर्त्तपुराणे ।
“अरुणोदय आद्या स्यात् द्वादशी सकलं दिनम् ।
अन्ते त्रयोदशी प्रातस्त्रिस्पृशा सा हरेः प्रिया” ॥
नारदीये ।
“एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
त्रिस्पृशा नाम सा प्रोक्ता ब्रह्महत्यां व्यपोहति” ॥
अथ पक्षवर्द्धिनी । ब्रह्मवैवर्त्ते ।
“दर्शश्च पौर्णमासी च संपूर्णा वर्द्धते यदि ।
द्वितीयेऽह्नि द्विजश्रेष्ठ सा भवेत् पक्षवर्द्धिनी” ॥ * ॥
ब्रह्मवैवर्त्ते ।
“कुहूराके यदा वृद्धिं प्रयाते पक्षवर्द्धिनी ।
विहायैकादशीं तत्र द्वादशीं समुपोषयेत्” ॥ * ॥
अथ जयादिः । ब्रह्मवैवर्त्ते ।
“पुष्यश्रवणपुष्याद्यरोहिणीसंयुतास्तु ताः ।
उपोषिताः समफला द्वादश्योऽष्टौ पृथक् पृथक्” ॥
अथोपवासदिनकृत्यम् । देवलः ।
“गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासन्तु गृह्णीयाद्यद्वा संकल्पयेद्बुधः” ॥
तत्र सङ्कल्पमन्त्रः ।
“एकादश्यां निराहारः स्थित्वाहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत” ॥ * ॥
पुष्पाञ्जलित्रयदानं मन्त्रपूतजलपानञ्चाह मार्क-
ण्डेयः ।
“अष्टाक्षरेण मन्त्रेण त्रिजप्तेनाभिमन्त्रितम् ।
उपवासफलं प्रेप्सुः पिबेत्तोयं समाहितः ॥
देवार्च्चनं ततः कृत्वा पुष्पाञ्जलिमथापि वा ।
संकल्पमन्त्रमुच्चार्य्य देवाय विनिवेदयेत्” ॥ * ॥
संकल्पादौ विशेषः । नारदीये ।
“पूर्ब्बायाः सङ्गदोषेणैकादश्याः स्नानपूजने ।
वर्ज्जयन्ति नराः पूर्ब्बान् यामांश्च चतुरो द्विज ॥
तदूर्द्ध्वं स्नानपूजादि कर्त्तव्यं तदुपोषितैः ।
न दिवा शुद्धिमाप्नोति तदा रात्रौ विधीयते ॥
दिनकार्य्यमशेषञ्च कर्त्तव्यं शर्व्वरीमुखे” ॥ * ॥
पूजाजागरणविधिः । ब्राह्मे ।
“एकादश्यामुभौ पक्षौ निराहारः समाहितः ।
स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥
संपूज्य विधिवद्विष्णुं श्रद्धायातिसमाहितः ।
पुष्पैर्गन्धैस्तथा धूपैर्दीपैन वेद्यकैः परैः ॥
उपहारैर्ब्बहुविधैर्जपहोमप्रदक्षिणैः ।
स्तौत्रैर्नानाविधैर्नृत्यगीतवाद्यैर्मनोरमैः ॥
एवं संपूज्य विधिवद्रात्रौ कुर्य्यात् प्रजागरम्” ॥ * ॥
अथ जागरणलक्षणम् । स्कान्दे ।
“शृणु नारद वक्ष्यामि जागरस्य तु लक्षणम् ।
येन विज्ञातमात्रेण दुर्लभो न जनार्द्दनः ॥
गीतं वाद्यञ्च नृत्यञ्च पुराणपठनन्तथा ।
धूपं दीपञ्च नैवेद्यं पुष्पगन्धानुलेपनम् ॥
फलमर्घ्यञ्च श्रद्धा च दानमिन्द्रियनिग्रहः ।
सत्यान्वितं विनिद्रञ्च मुदायुक्तं क्रियान्वितम् ॥
साश्चर्य्यञ्चैव सोत्साहं पापालस्यादिवर्ज्जितम् ।
प्रदक्षिणाभिः संयुक्तं नमस्कारपुरःसरम् ॥
नीराजनसमायुक्तमनिर्व्विण्णेन चेतसा ।
यामे यामे महाभागे कुर्य्यादारात्रिकं हरेः ॥
एतैर्गुणैः समायुक्तं कुर्य्याज्जागरणं हरेः’ ॥ * ॥
अथ पारणदिनकृत्यम् । कात्यायनः ।
“प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत् ।
पारणन्तु ततः कुर्य्यात् व्रतसिद्ध्यै हरिं स्मरन्” ॥
तत्र समर्पणमन्त्रः ।
“अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव” ॥ * ॥
अथ पारणे द्वादशीलङ्घने दोषः । स्कान्दे ।
“पारणाहनि संप्राप्ते द्वादशीं यो व्यतिक्रमेत् ।
त्रयोदश्यान्तु भुञ्जानः शतजन्मानि नारकी” ॥ * ॥
अथ द्वादश्यत्यल्पत्वे कृत्यसमाधानम् । देवीरहस्ये ।
“अल्पा चेद्द्वादशी कुर्य्यात् नित्यकर्म्मारुणोदये ।
अत्यल्पा चेन्निशीथोऽर्द्धमामध्याह्निकमेव तत्” ॥ * ॥
अथ सङ्कटे पारणसमाधानम् । कात्यायनः ।
“मन्त्रं जपित्वा हरये निवेद्योपोषणं व्रती ।
अद्भिस्तु पारणं कुर्य्यात् सङ्कटे विषमे सति” ॥ * ॥
अथ हरिवासरकालपारणानिषेधः । विष्णुधर्म्मो-
त्तरे ।
“द्वादश्याः प्रथमः पादो ह्ररिवासरसंज्ञकः ।
तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः” ॥ * ॥
अथ द्वादशीदिने वर्ज्जनीयानि । स्कान्दे ।
“क्षौद्रं मांसं सुरां तैलं व्यायामं क्रोधमैथुने ।
परान्नं कांस्यताम्बूले लोभं निर्म्माल्यलङ्घनम् ॥
द्वादश्यां द्वादशैतानि वैष्णवः परिवर्ज्जयेत्” ॥
अपि च । वितथभाषणम् । प्रवासः । दिवास्वप्नः ।
अञ्जनम् । शिलापिष्टम् । मसूरम् । द्यूतम् । हिंसा ।
चणकम् । कोरदूषकम् । औषधम् । एतानि
पुराणान्तरोक्तान्यपि वर्ज्जनीयानि ॥ * ॥ इति
श्रीहरिभक्तिविलासोक्तैकादशीव्यवस्था समाप्ता ॥ * ॥
अथे पश्चिमदेशप्रसिद्धनानापुराणोक्तषड्विंशत्ये-
कादशीनामानि लिख्यन्ते । अग्रहायणस्य कृष्णैका-
दशी उत्पन्ना १ शुक्ला मोक्षा २ । पौषस्य
कृष्णैकादशी सफला ३ शुक्ला पुत्त्रदा ४ । माघस्य
कृष्णकादशी षट्तिला ५ शुक्ला जया ६ । फाल्गु-
नस्य कृष्णैकादशी विजया ७ शुक्ला आमर्दकी ८ ।
पृष्ठ १/२९६
:चैत्रस्य कृष्णैकादशी पापमोचनी ९ शुक्ला का-
मदा १० । वैशाखस्य कृष्णैकादशी वरूथिनी ११
शुक्ला मोहनी १२ । ज्यैष्ठस्य कृष्णैकादशी अपरा
१३ शुक्ला निर्जला १४ । आषाढस्य कृष्णैकादशी
योगिनी १५ शुक्ला पद्मा १६ । श्रावणस्य कृष्णै-
कादशी कामिका १७ शुक्ला पुत्त्रदा १८ । भाद्रस्य
कृष्णैकादशी अजा १९ शुक्ला वामना २० ।
आश्विनस्य कृष्णैकादशी इन्दिरा २१ शुक्ला पापा-
ङ्कुशा २२ । कार्त्तिकस्य कृष्णैकादशी रमा २३
शुक्ला प्रबोधिनी २४ । मलमासस्य शुक्लैकादशी
सुमद्रा २५ कृष्णा कमला २६ ॥ * ॥ इत्येकादशी-
प्रकरणं समाप्तम् ॥ (संख्याविशेषः । एगार इति
भाषा । यथा महाभारते ६ । १६ । २१ ।
“एकादशी धार्त्तराष्ट्री कौरवाणां महाचमूः” ॥)

एकाद्गविंशतिः, त्रि, (एकेन न विंशतिः । एकादि-

श्चैकस्य चादुक्” । ६ । ३ । ७६ । इत्यनेन सिद्धम् ।)
एकोनविंशतिः १९ । इति व्याकरणम् ॥

एकानंशा, स्त्री, (एको न अंशो यस्याः ।) पार्ब्बती ।

इति त्रिकाण्डशेषः ॥ (इयं हि यशोदागर्भसम्भवा ।
यदुक्तं हरिवंशे । ५९ । १४ -- ४७ ।
“देवक्यजनयत् विष्णुं यशोदा तां तु कन्यकाम्” ।
“विद्धि चैनामथोत्पन्नां अंशाद्देवीं प्रजापतेः ।
एकानंशां योगकलां रक्षार्थं केशवस्य तु” ॥)

एकान्तं, क्ली, (एकस्मिन्नेव अन्तः समाप्तिर्यस्य ।) अत्य-

न्तम् । तत्पर्य्यायः । अतिशयः २ भरः ३ अतिवेलम् ४
भृशम् ५ अत्यर्थम् ६ अतिमात्रम् ७ उद्गाढम् ८
निर्भरम् ९ तीव्रम् १० नितान्तम् ११ गाढम् १२
वाढम् १३ दृढम् १४ । (यथा माघे २ । ८३ ।
“तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः” ॥
तद्वति, त्रि । यथा कुमारे १ । ३६ ।
“नागेन्द्रहस्तास्त्वचि कर्कशत्वा-
देकान्तशैत्यात् कदलीविशेषाः” ॥
तथा भागवते । १ । ४ । ४ ।
तस्य पुत्त्रो महायोगी समदृङ्निर्विकल्पकः ।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते” ॥)
भेद्यगामिनि त्रि । इत्यमरः ॥ (सर्व्वत्र यदवधारे-
णोच्यते स एकान्तः ॥ यथा “तृवृद्विरेचयति मद-
नफलं वामयतीति” ॥ इत्युत्तरतन्त्रे ६५ अध्याये
सुश्रुतेनोक्तम् ॥) निर्ज्जनम् ॥ (यथा हितोपदेशे
विग्रहे । १५ । “अथ केनापि शस्यरक्षकेण धूसर-
कम्बलकृततनुत्राणेन धनुःकाण्डं सज्जीकृत्यावनत-
कायेन एकान्ते स्थितम्” ॥)

एकान्ती [न्] (एकान्तमस्त्यस्य । एकान्त + इनि ।)

विष्णुभक्तविशेषः । यथा, गारुडे १३१ अध्याये ।
“एकान्तेनाममो विष्णुर्यस्मादेषां परायणः ।
तस्मादेकान्तिनः प्रोक्तास्तद्भागवतचेतसः ॥
प्रियाणामपि सर्व्वेषां देवदेवस्य स प्रियः ।
आपत्म्वपि तदा यस्य भक्तिरव्यभिचारिणी” ॥

एकान्नः, त्रि, (एकं एककालपक्वं अन्नं यत्र ।) एक-

भक्तः । यथा । काशीखण्डे ।
“ऊर्ज्जे यवान्नमश्नीयादेकान्नमथवा पुनः ।
वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्ज्जयेत्” ॥
इति तिथ्यादितत्त्वम् ॥ एकं अविभक्तमन्नंयस्य इति
व्युत्पत्त्या एकपाकावस्थितः । अविभक्तः । यथा,
“एकपाकेन वसतां पितृदेवद्विजार्च्चनम् ।
एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे” ॥
इति प्रायश्चित्ततत्त्वधृतवृहस्पतिवचनम् ॥

एकान्नविंशति, त्रि, (एकेन न विंशतिः । “एका-

दिश्चैकस्य चादुक्” । ६३ । ७६ । नञो विंशत्या
समासे कृते एकशब्देन सह तृतीयेति योग-
विभागात् समासः । अनुनासिकविकल्पः ।)
एकोनविंशतिः १९ । इति व्याकरणम् ॥

एकाब्दा, स्त्री, (एकोऽब्दो यस्याः सा ।) एकहायनी ।

एकवत्सरवयस्कगवी । इत्यमरः ॥

एकायनः, त्रि, (एकं अयनं विषयो यस्य ।) एकाग्रः ।

एकविषयासक्तचित्तः । इत्यमरः । (यथा छान्दोग्यो-
पनिषदि । ७ । ४ । २ । तानि हतानि संकल्पैका-
यनानि सङ्कल्पात्मकानि संकल्पे प्रतिष्ठितानि” ।
एकमयनं गतिर्यत्र । एकामात्रगमनयोग्यः । यदुक्तं
महाभारते ३ । १४६ । ६६ ।
“अनेनैव पथा मा वै गच्छेदिति विचार्य्य सः ।
आस्त एकायने मार्गे कदलीषण्डमण्डिते” ॥)

एकायनगतः त्रि, (एकायनं गतः प्राप्तः । एकस्मिन्न-

यने गतं ज्ञानमस्येति वा ।) एकाग्रः । इत्यमरः ॥

एकावली, स्त्री, (एका श्रेष्ठा आवली माला ।) एक-

यष्टिका । इत्यमरः ॥ एकनर हार इति भाषा ।
(अलङ्कारविशेषः । तल्लक्षणादिकमुक्तं साहित्य-
दर्पणे १० परिच्छदे । १०१ । यथा, --
“पूर्ब्बं पूर्ब्बं प्रति विशेषणत्वेन परं परम् ।
स्थाप्यतेऽपोह्यते वा चेत्स्यात्तदैकावली द्विधा” ॥
क्रमेणोदाहरणम् । तत्रैव ।
“सरो विकसिताम्भोजमम्भोजं भृङ्गसङ्गतम् ।
भृङ्गा यत्र ससङ्गीताः सङ्गीतं सस्मरोदयम्” ॥
“न तज्जलं यन्न सुचारुपङ्कजं
न पङ्कजं तद्यदलीनषट्पदम् ।
न षट्पदोऽसौ न जुगुञ्ज यः कलं
न गुञ्जितं तन्न जहार यन्मनः” ॥
भट्टिः । २ । १९ ॥ क्वचिद्विशेष्यमपि यथोत्तरं वि-
शेषणतया स्थापितमपोहितञ्च दृश्यते । यथा, --
“वाप्यो भवन्ति विमलाः स्फुटन्ति कमलानि वापीषु ।
कमलेषु पतन्त्यलयः करोति सङ्गीतमलिषु पदम्” ॥
एवमपोहनेऽपि ॥)

एकाश्रितगुणः, पुं, (एकस्मिन् पदार्थे आश्रितोगुणः ।)

एकवृत्तिधर्म्मः । तद्यथा । रूपम् १ रसः २
गन्धः ३ स्पर्शः ४ एकत्वम् ५ एकपृथक्त्वम् ६
परिमाणम् ७ परत्वम् ८ अपरत्वम् ९ बुद्धिः १०
सुखम् ११ दुःखम् १२ इच्छा १३ द्वेषः १४ यत्नः
१५ गुरुत्वम् १६ द्रवत्वम् १७ स्नेहः १८ संस्कारः
१९ अदृष्टम् २० शब्दः २१ । इति सिद्धान्त-
मुक्तावली ॥ ९० ॥

एकाष्ठीलः, पुं, (एकमस्थि लाति । ला + क ।

सुषामादित्वात् षत्वं दीर्घत्वञ्च ।) वकवृक्षः । इति
कश्चिदमरः ॥

एकाष्ठीला, स्त्री, (एकाष्ठील + टाप् ।) वकवृक्षः ।

इत्यमरः ॥ पाठा । इति राजनिर्घण्टः ॥ आक्नादि
इति भाषा । (अस्याः पर्य्याया यथा ॥
“अम्बष्ठाम्बष्ठकी पाठा कुचेला पापचेलिका ।
एकाष्ठीला वरा तिक्ता प्राचीनौका शिवावुका” ॥
इति वैद्यकरत्नमाला ॥)

एकाहः, पुं, (एकमहः । “उत्तमैकाभ्याञ्च” । ५ । ४ ।

९० इत्यनेन सिद्धम् ।) एकदिनम् । इति व्याक-
रणम् ॥ (यथा, मनुः ५ । ५९ ।
“अर्व्वाक् सञ्चयनादस्थ्नां त्र्यहमेकाहमेव च” ॥)

एकाहारः, पुं, (एकः न द्वितीय आहारः ।) एक-

दिनवृत्त्येकवारभोजनम् । यथा ।
“एकाहारः सदा कार्य्यो न द्वितीयः कदाचन ।
पर्थ्यङ्कशायिनी नारी विधवा पातयेत् पतिम्” ॥
इति शुद्धितत्त्वधृतस्मृतिः ॥

एकीयः, त्रि, (एकस्मिन् तिष्ठतीति । एक + छ ।)

एकपक्षः । सहायः । सहभावी । इति त्रिकाण्डशेषः ॥

एकोद्दिष्टं, क्ली, (एकः प्रेत एव उद्दिष्टो यत्र ।) प्रेतो-

द्देश्यकश्राद्धम् । यथा । गोभिलः अथैकोद्दिष्ट-
मेकं पवित्रमेकोऽर्घ्यः एकः पिण्डो नावाहनं नाग्नौ-
करणं नात्र विश्वे देवाः स्वदितमिति तृप्तिप्रश्नः
सुस्वदितमिति प्रत्युत्तरम् । उपतिष्ठतामित्यक्षय्य-
स्थाने अभिरम्यतामिति विसर्गोऽभिरतोऽस्मीति
प्रतिवचनमेतत् प्रेतश्राद्धमिति ॥ * ॥ एतत् प्रेत-
श्राद्धमित्युपसंहारात् एकं प्रेतमुद्दिश्य यद्दीयते
श्राद्धं तदेकोद्दिष्टमिति वैदिकप्रयोगाधीनं
यौगिकम् । अतएव प्रतिसांवत्सरिकस्य नैको-
द्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वं अत्रार्घ्यैक्याद्द्विद-
लरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्रमिति
पुनरभिधानसार्थकत्वाय तदवयवैकदलपरम् । अत्र
नावाहनं नाग्नौ करणमिति निषेधयोः पौर्ब्बा-
पर्य्यादग्नौ करणपूर्ब्बकालीनं प्रधानसम्बन्धि श्राद्ध-
सूत्रोद्दिष्टं श्राद्धार्थावाहनमेव निषिध्यते न त्व-
प्रधानसम्बन्धि पितृयज्ञवदित्यतिदेशप्राप्तं पिण्डा-
र्थावाहनमिति । एतेन पिण्डार्थावाहननिषेधो
मैथिलोक्तो हेयः । अत्राग्नौ करणनिषेधेन हुत-
शेषस्यालाभे हुतशेषं दत्त्वा पात्रमालभ्य जपति
पृथिवीत्यादि स्वाहा इत्यन्तसूत्रोक्तपात्रालम्भन-
स्यापि बाधः । आनन्तर्य्याभावात् अमृतमिति
मन्त्रलिङ्गविरोधाच्च । स्वदितमिति तृप्तिप्रश्न इति
तृप्ताः स्थ इति तृप्तिप्रश्ने स्वदितमिति प्रश्नः ।
कुशमयब्राह्मणपक्षे तु प्रतिवचनानुपपत्त्या प्रश्न-
स्यापि निवृत्तिः । अक्षय्यशब्दस्थाने उपतिष्ठता-
मिति प्रयोगः अत्रोपतिष्ठतामित्यनेन अन्नादिक-
मित्यस्यान्वये अस्त्वित्यस्य अन्वयानुपपत्त्या तस्या-
प्यप्रयोगः । अतएव पितृदयितायामन्नादिकमुप-
तिष्ठतामिति लिखितम् । अभिरम्यतामिति वाजे
वाजे इति स्थाने अभिरम्यतामित्यनेन विसर्जन-
मिति । एतदिति पूर्ब्बोक्तेतिकर्त्तव्यताकश्राद्धमि-
त्यर्थः । प्रेतश्राद्धं प्रेतस्य श्राद्धं न तु पार्ब्बणविकृति-
त्वेन प्राप्तपितृलोकरूपपितुः श्राद्धं अकृतसपि-
ण्डीकरणस्य तथाविधपितृत्वाभावात् । अतएवै-
तन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि पितृ-
पृष्ठ १/२९७
:शब्दं न युञ्जीत पितृहा चोपजायते इत्युक्तम् ।
अतएव विष्णुना प्रेतस्य नामगोत्राभ्यां दत्ताक्ष-
य्योदकेषु इत्यत्र प्रेतनामगोत्राभ्यामित्यनेन प्रेत-
स्येत्युक्तं न तु सम्बन्धिन इत्युक्तम् । ततश्च मन्त्रे
प्राप्तपितृलोकोपाधिकएव पितृपदस्थाने प्रेत-
पदोहो न तु अग्निस्वात्ताद्युपाधिके एवमभिलाप-
वाक्येऽपि सम्बन्धित्वेन नोल्लेखः किन्तु प्रेतत्वेन
असम्बन्धिनोऽपि मठच्छात्रादेरपि प्रेतश्राद्धाधि-
कारित्वात् । सांवत्सरिकश्राद्धे एकोद्दिष्टविकृ-
तीभूतेऽपि प्राप्तपितृलोकोपाधिकपितृपदवन्मन्त्रे
अभिलापे च सम्बन्धिबोधकपितृत्वेनैवोल्लेखः ।
एवञ्च देवताभ्यः पितृभ्यश्च इत्यत्र न प्रेतपदोहः
पितृपदस्य दिव्यपितृपरत्वात् । एवं नैकवचनोहो-
ऽपि तथा मधु द्यौरस्तु नः पिता इत्यस्य द्यौः स्वर्गः
पिता पितेव सर्व्वस्याधिगम्यत्वात् मध्वस्तु मधु-
मयी भवत्विति भाष्यव्याखाने द्यौरिति पितेति
पदयोः सामानाधिकरण्यं प्रतीयते अत्र च द्युत्व-
पितृत्वयोर्भेदेऽपि सामानाधिकरण्येनाभेदावगमात्
दिवः पितृसाधर्म्म्यप्राप्तिरिति पितृपदं पितृ-
तुल्यपरं न तु जनकपर प्राप्तपितृलोकपरं वेति ।
तेनात्र मन्त्रे पितेत्येव वक्तव्यं न तु प्रेतपदोहः ।
न वा पितृशब्दं न युञ्जीत इत्यनेन निषेधः । एव-
मामावेति मन्त्रे पितरा इत्यत्र नोहः । एवं वृद्धि-
श्राद्धेऽप्येतेषु नान्दीमुखविशेषणं न देयमेवेति ।
अन्यत्र सर्व्वत्रोत्सर्गवाक्ये मन्त्रे च पितृपदप्रयोग-
निषेधात् प्रेतपदोहः कार्य्यः । विष्णुः । एकवन्म-
न्त्रानूहेत एकोद्दिष्टे इति एकवत् एकवचनवत्
यथा स्यात्तथोहेत यथा पवित्र स्थो वैष्णव्यावित्यत्र
पवित्रासि वैष्णवीति एवं विष्णोर्मनसा पूते स्थ
इत्यत्रापि पूतमसीति । अत्र पितरो मादयध्वं
यथाभाग मा वृषायध्वं इति मन्त्रे अत्र प्रेत-
मादयस्व यथाभाग मावृषायस्व इत्यूत्त्यम् । अमी
मदन्तः पितर इत्यत्र अमी मदत् प्रेतं इति ।
वृषायिषत इत्यत्र वृषायिष्टेति । एत पितर इति
पिण्डार्थावाहनमन्त्रे एहि प्रेत इति । सौम्यास
इत्यत्र सौम्येति । दत्तास्मभ्यमित्यत्र देह्यस्मभ्य-
मिति । नियच्छत इत्यत्र नियच्छेति । नमो व
इत्यादिमन्त्रेषु पितर इति स्थानचतुष्टये प्रेते-
त्यूह्यम् । एवं व इत्यत्र ते इति । आशीःप्रार्थने
येभ्य इत्यत्र यस्मै इति । तेषामित्यत्र तस्येत्यूह्यम् ।
एतद्वः पितर इत्यत्र तु प्रेता इति विकृतावूहो
न तु बहुवचनस्य । एतद्वः पितरो वास इति
जल्पन् पृथक् पृथक् इति ब्रह्मपुराणेन प्रकृता-
वेव पार्ब्बणे पित्रादिषु प्रत्येकमेतद्वः पितर इति
बहुवचनान्तमन्त्रप्रयोगात् अत्रानर्थक्येन तद्वि-
कृतावेकोद्दिष्टेऽप्यसमवेतार्थबहुवचनस्यैव युक्त-
त्वात् । ततश्च प्रकृतौ समवेतार्थस्यैव विकृतावूहः ।
सांवत्सरिके त्वेकवचनस्यैवोहो न तु पितृपदस्य
तत्र प्राप्तपितृलोकत्वेन तस्यैव युक्तत्वात् । स्मृतिः ।
“प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्य्युषितञ्च यत् ।
दम्पत्योर्भुक्तशेषञ्च न भुञ्जीत कदाचन” ॥
उच्छिष्टं पाकपात्रे अवशिष्टम् । ग्रहे उपरागे
पर्य्युषितं स्थितम् । दम्पत्योराश्रमस्वामिनोर्भोजना-
नन्तरं पाकस्थाल्यामवशिष्टमिति श्राद्धचिन्ता-
मणिः ॥ यत्तु देवलवचनम् ।
“एकोद्दिष्टस्य शेषन्तु ब्राह्मणेभ्यः समुत्सृजेत् ।
पश्चात् स्वयञ्च भुञ्जीत पुनर्मङ्गलभोजनम्” ॥
इति । तस्यैकोद्दिष्टशेषं ब्राह्मणेभ्यः समुत्सृजेत् न
त्ववशेषयेत् पुनर्मङ्गलभोजनं पाकान्तरकृतान्नं
भुञ्जीतेत्यन्वय इति ॥ * ॥ तत्करणकालो यथा ।
ब्रह्मपुराणम् ।
“पूर्ब्बाह्णे मातृकं श्राद्धमपराह्णे तु पैत्रिकम् ।
एकोद्दिष्टन्तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्” ॥
मध्याह्ने तु विशेषमाह कालमाधवीये व्यासः ।
“कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।
आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्” ॥
आवर्त्तनं पश्चिमदिगवस्थितच्छायायाः पूर्ब्बदिग्-
गमनारम्भकालः । तत्समीपे कुतपशेषदण्डे ।
यदाह गोतमः ।
“आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत्” ।
तेन पूर्ब्बदिवसीयकुतपरौहिणयोस्तत्तत्तिथेर्लाभे
परत्र कुतपमात्रलाभे शुक्लपक्षेऽपि पूर्ब्बदिने
एकोद्दिष्टं उभयप्राप्त्यनुरोधात् । पूर्ब्बदिने कुत-
पालाभे परत्र तल्लाभे कृष्णपक्षऽपि परदिनएव
समाप्तिकालादारम्भकालस्य बलवत्त्वात् । तथा च
बौधायनः ।
“यो यस्य विहितः कालः कर्म्मणस्तदुपक्रमे ।
तिथिर्याभिमता सा तु कार्य्या नोपक्रमोज्झिता” ॥
उभयत्र कुतपमात्रालाभे शुक्लपक्षेऽपि पूर्ब्बदिने
समाप्तिकालानुरोधात् पूर्ब्बदिने रौहिणालाभे
परत्र सप्तममुहूर्त्तलाभे कृष्णपक्षेऽपि परदिने
मध्याह्नानुरोधात् । इति श्राद्धतत्त्वम् ॥ * ॥
एकोद्दिष्टविधिकसांवत्सरिकश्राद्धम् । यथा, --
“एकोद्दिष्टं पुरावश्यं तद्विशेषं वदे शृणु” ।
प्रथमं निमन्त्रणं पादप्रक्षालनं आसनं अद्य अमुक-
गोत्रस्य मत्पितुरमुकदेवशर्म्मणः प्रतिसांवत्-
सरिकमेकोद्दिष्टं श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्ये
श्राद्धकरणानुज्ञापनम् । आसनं अर्घ्यः । गन्धादि-
दानं नित्यश्राद्धम् । अन्नसङ्कल्पनं जप्यं निवीती
उत्तराभिमुखीभूयातिथिश्राद्धं कुर्य्यात् । ततस्तृप्तिं
ज्ञात्वा दक्षिणाभिमुखो वामोपवीती उच्छिष्ट-
समीपे ये अग्निदग्धा इति अन्नविकिरणम् । ॐ
अमुकगोत्र मत्पितरमुकदेवशर्म्मन् एतत्ते जल-
मवने निक्ष्व ये चात्र त्वामनुयांश्च त्वमनु तसै ते
स्वधा । इति रेखोपरि दक्षिणामुखवारिधारादा-
नम् । इति गारुडे २२३ अध्यायः ॥

एकोशिका, स्त्री, (एका मुख्या उशिका कमनीया ।)

वृक्षविशेषः । इति रत्नमाला ॥ आक्नादि इति भाषा ॥

एज, ऋ ङ दीप्तौ इति कविकल्पद्रुमः ॥ (भ्वादिं-

आत्मं-अकं-सेट् ।) ऋ मा भवान् एजिजत् । ङ
एजते । इति दुर्गादासः ।

एज, ऋ कम्पे । इति कविकल्पद्रुमः । (भ्वादिं-परं-सकं

सेट् ।) ऋ मा भवान् एजजित् । एजति वायुना
वृक्षा । इति दुर्गादासः ॥

एठ, ङ बाधने । इति कविकल्पद्रुमः ॥ (भ्वादिं-आत्मं

सकं-सेट् ।) बाधनं विहतिः । ङ एठते वत्सरं
लोकः । इति दुर्गादासः ॥

एडः, त्रि, (इलति । इल स्वप्ने । अच् । डलयो-

रैक्यम् । यद्वा आ सर्व्वतः ईड्यते । ईड स्तुतौ ।
घञ् ।) वधिरः । इत्यमरः ॥
(मेषः । यथाह कात्यायनः ।
“श्वैडवराहेषूदधारा प्राचीदं विष्णुः” ॥)

एडकः, पुंः (एड + स्वार्थे कन् । यद्वा इलति एलयति

वा इल + ण्वुल् ।) मेषः । इत्यमरः ॥ वनच्छगलः ।
इति त्रिकाण्डशेषः ॥

एडका, स्त्री, (एडकस्य स्त्री । अजादित्वात् टाप् ।

क्षिपकादित्वान्नेत्वम् ।) मेषी । इत्यमरटीकायां
रायमुकुटः ॥

एडगजः, पुं, (एडो मेष एव गजो यस्य भञ्जकत्वात् ।)

चक्रमर्द्दकः । इत्यमरः ॥ चाकुन्दिया इति भाषा ।
अस्य गुणाः । वायुकफकुष्ठत्वग्दोषगुल्मोदर-
रोगार्शोनाशित्वम् । कटुत्वञ्च । इति राजवल्लभः ॥
(पर्य्यायाः यथा, --
“चक्रमर्द्दः प्रपुन्नाटो दद्रुघ्नो मेषलोचनः ।
पद्माटः स्यादेडगजश्चक्री पुन्नाट इत्यपि” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ।
गुणाश्चास्य चक्रमर्द्दशब्दे ज्ञेयाः ॥
व्यवहारो यथा, --
“सलोमशः सैडगजः करब्जः” ।
इति चरके सूत्रस्थाने तृतीयेऽध्याये ॥)

एडमूकः, त्रि, (एडो वधिरो मूकश्च ।) वधिरः मूकश्च ।

वक्तुं श्रोतुमशिक्षितः । वाक्श्रुतिवर्जितः । इत्य-
मरः ॥ शठः । इति मेदिनी ॥

एडुकं, क्ली, (ईड + उलूकादयश्चेति ४ । ४१ । उणा-

दिसूत्रेण साधु । निपातनात् ह्रस्वम् ।) एडूकम् ।
इति भरतो द्विरूपकोषश्च ॥

एडूकं, क्ली, (ईड्यते इति । “उलूकादयश्च” ४ । ४१ ।

उणादिसूत्रेण साधु ।) अन्तर्न्यस्तकीकसकुड्यम् ।
इत्यमरः ॥ कीकसमिव कीकसं यत् कुड्यम् छिटा-
वेडा इति ख्यातमित्यन्ये । इति सारसुन्दरी ॥
कीकसमस्थि एतत् काष्ठादिकठिनद्रव्योपलक्षणं
कीकसमिव कीकसं किलिञ्जादीति मधुः ॥
“मध्यसंस्थापितास्थ्यादि कुड्यमेडूकमुच्यते” ।
इति माधवः ॥ (यथा महाभारते वनपर्ब्बणि ।
“एडूकचिह्ना पृथिवी न देवगृहभूषिता” ॥
अस्य शब्दस्य पुंस्त्वमपि दृश्यते महाभारते ३ ।
१९० । ६३ । यथा, --
“एडूकान् पूजयिष्यन्ति वर्जयिष्यन्ति देवताः ।
शूद्राः परिचरिष्यन्ति न द्विजान् युगसंक्षये” ॥)

एडोकं, क्ली, एडूकम् । इति भरतधृतद्विरूपकोषः ॥

एणः, पुं स्त्री, (एति द्रतं गच्छतीति । इ + बाहुल-

कात् णः ।) हरिणः । इति राजनिर्घण्टः ॥ मृग-
विशेषः । इत्यमरः ॥ अस्य मांसगुणाः । कषा-
यत्वम् । मधुरत्वम् पित्तरक्तकफज्वरनाशित्वम् ।
संग्राहित्वम् । रोचनत्वम् । हृद्यत्वम् । बलकारि-
पृष्ठ १/२९८
:त्वञ्च । इति राजवल्लभः ॥ (यथा मनुः ३ । २६९ ।
“अष्टावेणस्य मांसेन रौरवेण नवैव तु” ॥
अस्य लक्षणं यथा ॥ “एणः कृष्णः प्रकीर्त्तितः” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे २ भागे ॥)

एणकः, पुं, (एण + स्वार्थे कन् ।) एणः । इति शब्द

रत्नावली ॥

एणतिलकः, पुं, (एणो मृगस्तिलकमिव यस्य । चन्द्रस्य

मृगाङ्कत्वात्तथात्वम् ।) चन्द्रः । इति हारावली ॥

एणभृत्, पुं, (एणं बिभर्त्तीति । एण + भृ + क्विप् ।)

चन्द्रः । इति हेमचन्द्रः ॥

एतं, त्रि, (आ + इण् + क्त ।) आगतम् । इति मेदिनी ॥

कर्व्वूरवर्णयुक्तम् । इत्यमरः ॥ (स्त्रियां एनी एता ।
पाणिनिः ४ । १ । ३९ ॥)

एतः, पुं, (आ सम्यक् एति गच्छतीति । आ + इण्

+ क्त ।) मृगः । इति शब्दरत्नावली ॥ कर्व्वूरवर्णः ।
इति मेदिनी ॥

एतद्, त्रि, (इण् + “एतेस्तुट् च” इति उणादि-

सूत्रेण १ । १३२ । अतोऽदि स्यात्तस्य तुडागमः ।)
पुरोवर्त्तिवाचकसर्व्वनामशब्दः । इति व्याकरणम् ॥
एइ इति भाषा ।
(“एते वयममी दाराः कन्येयं कुलजीवितम्” ।
इति कुमारे ६ । ६३ ॥ “एतान् महाराज विशेष-
धर्म्मान्” । इति शुद्धितत्त्वम् । उक्तस्य पश्चादुक्तौ
“द्वितीयाटौस्मेनः” २ । ४ । ३४ । इति एणादेशः
स्यात् । यथा “य एनामाश्रमधर्म्मे नियङ्क्ते” ।
इति शाकुन्तले प्रथमाङ्के ॥)

एतनः, पुं, (आङ् + इ + तन ।) निश्वासः । इति हेमचन्द्रः ॥

एतर्हि, व्य, (इदम् + “इदमोर्हिल्” । ५ । ३ । १६ ।

इति र्हिल् ततो “एतेतौ रथोः” ५ । ३ । ४ ।
इति एतादेशः ।) एतस्मिन् काले । सम्प्रति ।
इत्यमरः ॥ (यथा भागवते १ । १७ । ४२ ।
“स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम्” ॥)

एतशः, पुं, (इण् + “इणस्तशन्तशसुनौ” ३ । १४९ ।

इति उणादिसूत्रेण तशन् ।) ब्राह्मणः । इत्यु-
णादिकोषः ॥

एतशाः, [स्] पुं, (इण् + “इणस्तशन्तशसुनौ”

३ । १४९ इति उणादिसूत्रेण तशसुन् ।) ब्राह्मणः ।
इत्युणादिकोषः ॥

एतावत्, त्रि, (एतद् + “यत्तदेतेभ्यः परिमाणे वतुप्” ।

५ । २ । ३९ । इति परिमाणे वतुप् । (एतत्परि-
माणम् । इति व्याकरणम् ॥ (यथा रघुः २ । ५१ ।
“एतावदुक्त्वा विरते मृगेन्द्रे
प्रतिस्वनेनास्य गुहागतेन” ॥)

एध, ङ, वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वादिं-

आत्मं-अकं-सेट् ।) ङ एधते । इति दुर्गादासः ॥
(यथा मनुः ४ । १७० ।
“हिंसारतश्च यो नित्यं नेहासौ सुखमेधते” ॥)

एधः, पुं, (इध्यतेऽनेनाग्निः । इन्ध + “हलश्च” ३ ।

३ । १२१ । इति करणे घञ् । अवोदैधौद्मप्रश्रथ-
हिमश्रथा” इति घञि नलोपो गुणश्च निपा-
तितः ॥) इन्धनम् । इत्यमरः ॥ जालानि काठ
इति भाषा । (यथा रघौ ९ । ८१
“एधान् हुताशनवतः स मुनिर्ययाचे” ॥)

एधः, [स्] क्ली, (एध् + असुन् ।) इन्धनम् । इत्य-

मरः ॥ (यथा गीतायाम् । ४ । ३७ ।
“यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्ज्जुनः” ॥)

एधतुः, त्रि, (एध् वृद्धौ “एधिवह्योश्चतुः” १ । ७९

उणादिसूत्रेण चतुः ।) वर्द्धितम् । वृद्धियुक्तम् ।
इति शब्दरत्नावली ॥

एधतुः, पुं, (एध + “एधिवह्योश्चतुः” । १ । ७९ ।

उणादिः चतुः ।) पुरुषः । अग्निः । इति मेदिनी ॥

एधितः, त्रि, (एध वृद्धौ + क्त ।) बर्द्धितः । वृद्धि-

प्राप्तः । इत्यमरः ॥

एनः, [स्] क्ली, (एति गच्छति प्रायश्चित्तेन । इण्

आगसीत्यसुन् नुडागमश्च ।) पापम् । अपराधः ।
इति मेदिनी ॥ निन्दा । इति शब्दरत्नावली ॥
(“एनोनिवृत्तेन्द्रियवृत्तिरेनम्
जगाद भूयो जगदेकनाथः ॥
इति रघुः । ५ । २३ ॥)

एरका, स्त्री, तृणविशेषः । तत्पर्य्यायः । गुन्द्रमूला २

शिम्बी ३ गुन्द्रा ४ शरी ५ । यथा भागवते
१ । ३ । १८ ।
“चतुर्द्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्ज्जितम् ।
ददार करजैर्वक्षस्येरकां कटकृद् यथा” ॥)
अस्या गुणाः । हिमत्वम् । शुक्रवृद्धिकारित्वम् ।
चक्षुर्हितत्वम् । वातकोपनत्वम् । मूत्रकृच्छ्राश्मरी-
दाहपित्तशोणितनाशित्वञ्च । इति राजनिर्घण्टः ॥
(यथा वैद्यके,
“एरका शिशिरा वृष्या चक्षुष्या वातकोपिनी ।
मूत्रकृच्छ्राश्मरीदाहपित्तशोणितनाशिनी” ॥
एषा यत्र व्यवह्रियते तद्यथा, --
“निर्व्वापणः स्याज्जलमेरका च” ।
इति चरके सूत्रस्थाने तृतीयेऽध्याये ॥ “एरका
होग्गलः” । इति चरकस्य शिवदासीयटीका ॥)

एरङ्गः, पुं, (एरति सम्यक् भ्रमति यः । आ + ईर-

गतौ कम्पने + अङ्गच् ।) मत्स्यभेदः । रङ्गा इति
ख्यातः । अस्य गुणाः । मधुरत्वम् । स्निग्धत्वम् ।
विष्टम्भित्वम् । शीतलत्वम् । गुरुत्वञ्च । इति भाव-
प्रकाशः ॥

एरण्डः पुं, (एरयति वायुम् । आ + ईर गतौ कम्पने

च + बाहुलकात् अण्डच् ।) वृक्षविशेषः । भेरेण्डा
इति भाषा । तत्पर्य्यायः । व्याघ्रपुच्छः २ गन्धर्व्व-
हस्तकः ३ उरुवूकः ४ रुवूकः ५ चित्रकः ६ चञ्चुः
७ पञ्चाङ्गुलः ८ मण्डः ९ वर्द्धमानः १० व्यडम्बकः
११ । इत्यमरः ॥ उरुवुकः १२ रुवुकः १३ रूवुकः
१४ रुवकः १५ वुकः १६ अमण्डः १७ आमण्डः
१८ व्यडम्बनः १९ । इति तट्टीकायां भरतः ॥
कान्तः २० तरुणः २१ शुक्लः २२ वातारिः २३
दीर्घपत्रकः २४ । इति राजनिर्घण्टः ॥ अस्य
तैलस्य गुणाः । मधुरत्वम् । गुरुत्वम् । अतिश्लेष्म-
वर्द्धनत्वम् । वातरक्तगुल्महृद्रोगजीर्णज्वरनाशि-
त्वञ्च । इति राजवल्लभः ॥ अपि च । कृमिदोष-
सकलाङ्गशूलकुष्ठनाशित्वम् । स्वादुत्वम् । रसाय-
नोत्तमत्वम् । पित्तप्रकोपनत्वम् । अतिदीपनत्वम् ।
आमवातनाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्य
भेदकत्वगुणोऽप्यस्ति ॥ श्वेतैरण्डगुणाः । कटुत्वम् ।
तिक्तत्वम् । उष्णत्वम् । कफार्त्तिज्वरवायुकासना-
शित्वम् । रसार्हत्वञ्च । इति राजनिर्घण्टः ॥ अस्य
मूलगुणाः । शूलवायुकफनाशित्वम् । शुक्रकारित्वञ्च ।
इति राजवल्लभः ॥
(शुक्लरक्तैरण्डयोः पर्य्यायगुणा यथा, --
“शुक्ल एरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः ।
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ।
वातारिस्तरुणश्चापि रुवूकश्च निगद्यते ॥
रक्तोऽपरो रुवुकः स्यादुरुवूको रुवूस्तथा ।
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ॥
एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् ।
शूलशोथकटीवस्तिशिरःपीडोदरज्वरान् ॥
व्रध्नश्वासकफानाहकासकुष्ठाममारुतान् ।
एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम् ॥
मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपनम् ।
वातार्य्यग्रदलं गुल्मं वस्तिशूलहरं परम् ॥
कफवातक्रिमीन् हन्ति वृद्धिं सप्तविधामपि ।
एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ॥
यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् ।
तद्वन्मज्जा च विड्भेदी वातश्लेष्मोदरापहः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
“सतिक्तोषणमेरण्डतैलं स्वादु सरं गुरु ।
व्रध्नगुल्मानिलकफानुदरं विषमज्वरम् ॥
रुक्शोफौ च कटीगुह्यकुष्ठपृष्ठाश्रयाञ्जयेत् ।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवन्त्विति” ॥
इति शार्ङ्गधरस्य पूर्ब्बखण्डे चतुर्थेऽध्याये ॥
“एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटुकषा-
यानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुर-
विपाकं वयःस्थापनं योनिशुक्रविशोधनमारो-
ग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोमाग-
दोषहरञ्च” ॥
इति सुश्रुते सूत्रस्थाने पञ्चचत्वारिंशत्तमेऽध्याये ॥)

एरण्डकः, पुं, (एरण्ड + स्वार्थे कन् ।) एरण्डवृक्षः ।

इति भरतो द्विरूपकोषश्च ॥ (एरण्डशब्देऽस्य
विशेषो ज्ञेयः ॥)

एरण्डजं, त्रि, (एरण्डात् एरण्ड्वृक्षात् जायते इति ।

एरण्ड + जन् + ड ।) एरण्डवृक्षजातम् । तत्तैलं
स्नेहमध्ये श्रेष्ठविरेचकम् । यथा ।
“चूर्णमध्ये त्रिवृत्चूर्णं स्वोरसे कारवेल्लकम् ।
स्नेहेष्वेरण्डजं तैलं फलेष्वेव हरीतकी” ॥
इति वाभटः ॥
(“एरण्डजं घनञ्चापि स्वादुमेव मृदु स्मृतम् ।
हृद्वस्तिजङ्घाकट्यूरुशूलानाहविबन्धनुत् ॥
आनाहाष्ठीलवान्तासृक्प्लीहोदावर्त्तशूलिनाम् ।
वातपित्तविकाराणां विदध्याच्च प्रशान्तये ।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डसमुद्भवम्” ॥
इति प्रथमस्थाने अष्टमेऽध्याये हारीतेनोक्तम् ॥)

एरण्डपत्रिका, स्त्री, (एरण्डस्य पत्रमिव पत्रमस्याः ।)

दन्तीवृक्षः । इति राजनिर्घण्टः ॥

एरण्डफला, स्त्री, (एरण्डस्य फलमिव फलमस्याः ।)

पृष्ठ १/२९९
:दन्तीवृक्षः । इति राजनिर्घण्टः ॥
(अस्याः पर्य्याया यथा, --
“लघुदन्ती विशल्या च स्यादुदुम्बरपर्ण्यपि ।
तथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया !
वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

एरण्डा, स्त्री, (आ + ईर् + बाहुलकात् अण्डच् +

टाप् ।) पिप्पली । इति शब्दचन्द्रिका ॥

एर्व्वारुः, पुं, (एरणमिति । आ + ईर् + सम्पदादि-

त्वात् क्विप् । एरं वृणोति वारयति वा । वृञ् +
बाहुलकात् उण् ।) कर्कटीभेदः । तत्पर्य्यायः ।
व्यालपत्रा २ लोमशा ३ स्थूला ४ तोयफला ५
हस्तिदन्तफला ६ कर्कटी ७ । अस्य गुणाः । पित्त-
हरत्वम् । सुशीतलत्वम् । मधुरत्वम् । मूत्रामय-
घ्नत्वम् । रुचिप्रदत्वम् । सन्तापमूर्च्छापहरत्वम्
तृप्तिदातृत्वम् । अतिसेवितश्चेत् वातप्रकोपका-
रित्वञ्च । इति राजनिर्घण्टः ॥
(“एर्व्वारुकं स्वादु शीतं सक्षारं कफवातकृत् ।
नातिपित्तकरं रुच्यं दीपनं दाहनाशनम्” ॥
इति प्रथमस्थाने दशमेऽध्याये हारीतेनोक्तम् ॥
“त्रपुषैर्व्वारुकं स्वादु गुरु विष्टम्भि शीतलम् ।
एर्व्वारुकञ्च सम्पक्वं दाहतृष्णाक्लमार्त्तिनुत्” ॥
इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम् ॥)

एलकः, त्रि, (एलति विग्रहादिस्थले आत्मानं क्षिप-

तीति इल् + ण्वुल् ।) मेषः । इति राजनिर्घण्टः ॥

एलङ्गः, पुं, (एरङ्गः + रस्य लः ।) मत्स्यभेदः । रायकडा

इति भाषा । रायखाँडा एलाङ्गा इत्यपि ख्यातः ।
अस्य गुणाः । मधुरत्वम् । वृष्यत्वम् । संग्राहित्वम् ।
कफवातनाशित्वम् । मेधाग्निपुष्टिकारित्वम् । शी-
तलत्वम् । गुरुत्वम् । श्लेष्मप्रसादनत्वञ्च । इति
राजनिर्घण्टः ॥ (यथा वैद्यकचक्रपाणिकृतद्रव्यगुणे
मांसवर्गाधिकारे ॥
“एलङ्गः स्निग्धो मधुरो गुरुविष्टम्भिशीतलः” ॥)

एलबालु, क्ली, (एलतीति । इल प्रेरणे पचाद्यच् ।

टाप् । एलेव बलते । बल प्राणने । बाहुलकात्
उण् । ङयापोरिति ह्रस्वः ।) एलबालुकम् । इति
शब्दरत्नावली ॥ (यत्र व्यवह्रियते तद्यथा, रोध्रा-
दिगणे ॥
“सैलबालु परिपेलवमोचाः” ॥
इति वाभटे सूत्रस्थाने पञ्चदशेऽध्याये ॥)

एलबालुकं, क्ली, (एलबालु + स्वार्थे कन् ।) सुगन्धि-

द्रव्यविशेषः । लालुका इति ख्यातम् । तत्पर्य्यायः ।
ऐलेयम् २ सुगन्धि ३ हरिबालुकम् ४ बालुकम् ५
इत्यमरः ॥ हरिवासुकम् ६ । इति तट्टीका ॥ आलु-
कम् ७ एल्वबालुकं ८ कपित्थत्वक् ९ गन्धत्वक् १०
कुष्ठगन्धि ११ । अस्य गुणाः । अत्युग्रत्वम् । कषा-
यत्वम् । कफवातमूर्च्छातिज्वरदाहनाशित्वम् ।
परमरुचिकारित्वञ्च । इति राजनिर्घण्टः ॥
कक्कोलसदृशं कुष्ठगन्धि ॥ अस्य पर्य्यायगुणाः ॥
“एलबालुकमैलेयं सुगन्धि हरिबालुकम् ।
ऐलबालुकमेलालु कपित्थं पत्रमीरितम् ॥
एल्वालु कटुकं पाके कषायं शीतल लघु ।
हन्ति कण्डूव्रणच्छर्द्दितृट्कासारुचिहृद्रुजः ॥
बलासविषपित्तास्रकुष्ठमूत्रगदक्रिमीन्” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

एलविलः, पुं, ऐलविलः । कुवेरः । इत्यमरटीका ॥

एला, स्त्री, (इल् + अच् + टाप् ।) फलवृक्षविशेषः ।

एलाचि इति भाषा । तत्पर्य्यायः । बहुलगन्धा २
ऐन्द्री ३ द्राविडी ४ कपोतपर्णी ५ बाला ६ बल-
वती ७ हिमा ८ चन्द्रिका ९ सागरगामिनी १०
गन्धालीगर्भः ११ एलीका १२ कायस्था १३ । इति
राजनिर्घण्टः ॥ सा द्विविधा सूक्ष्मा । गुजराटी
एलाचि इति भाषा । स्थूला च । वड एलाचि इति
भाषा । आद्यायाः पर्य्यायः । उपकुञ्चिका १ तुत्था
२ कोरङ्गी ३ त्रिपुटा ४ त्रुटिः ५ । इत्यमरः ॥
वयस्था ६ तीक्ष्णगन्धा ७ सूक्ष्मैला ८ त्रिपुटी
९ । इति रत्नमाला ॥ द्वितीयायाः पर्य्यायः ।
पृथ्वीका २ चन्द्रबाला ३ निष्कुटिः ४ बहुला
५ । इत्यमरः ॥ स्थूला ६ मालेया ७ ताडका-
फलम् ८ । इति रत्नमाला ॥ एलाद्वयगुणाः ।
शीतलत्वम् । तिक्तत्वम् । उष्णत्वम् । सुगन्धित्वम् ।
पित्तरोगकफनाशित्वम् । हृद्रोगकारित्वम् । मला-
र्त्तिवान्तिपुंस्त्वघ्नत्वम् । स्थविरस्य गुणाढ्यत्वञ्च ।
इति राजनिर्घण्टः ॥ अपिच । शूलकोष्ठबद्ध-
तृष्णाच्छर्द्दिवायुनाशित्वम् । इति राजवल्लभः ॥
सूक्ष्मैलाविशेषगुणाः । कफश्वासकासार्शोमूत्र-
कृच्छ्रनाशित्वम् । इति राजनिर्घण्टः ॥
(“एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

एलापत्रः, पुं, (एलापत्रमिवाकारोऽस्त्यस्य ।

अर्शआदेरच् ।) नागभेदः । इति जटाधरः ॥
(यथा महाभारते आस्तीके पर्ब्बणि १ । ३५ । ६ ।
“नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः” ॥)

एलापर्णी, स्त्री, (एलाया इव पर्णमस्याः । “पाक-

कर्णेति” । ४ । १ । ६४ । ङीष् ।) वृक्षविशेषः ।
काँटा आमरुली एलानी इति च भाषा । तत्-
र्य्यायः । सुवहा २ रास्ना ३ युक्तरसा ४ । इत्य-
मरः ॥

एलीका, स्त्री, (आ + इल् + ईकन् + टाप् ।) सूक्ष्मैला ।

इति राजनिर्घण्टः ॥ (द्राविडीशब्देऽस्या गुणा-
दयो ज्ञातव्याः ॥)

एव, व्य, (अयनमिति । इण् + “इणशीभ्यां वन्” ।

१ । ५२ । उणादिः वन् ।) अवधारणम् । यथा ।
त्वमेव जानासि । तत्पर्य्यायः । एवम् २ तु ३ पुनः
४ वा ५ । इत्यमरः ॥ व ६ च ७ । इति सुभूतिः ॥
सादृश्यम् । इति भरतः । नियोगः । वाक्यपूरणम् ।
चारनियोगः । विनिग्रहः । इति मेदिनी ॥ (अनि-
योगः । यथा “अद्येव” इति मुग्धबोधव्याकरणम् ।
एवकारस्त्रिविधः । विशेष्यसङ्गतः विशेषेण-
सङ्गतः क्रियासङ्गतश्चेति । तत्र विशेष्यसङ्ग-
तस्य एवकारस्य अन्ययोगव्यवच्छेदोऽर्थः । पार्थ-
एव धनुर्द्ध्वर इत्यादौ विशेषणे धनुर्द्ध्वरे पार्था-
न्ययोगव्यवच्छेदाबोधात् । धनुर्द्ध्वरपदस्य उत्कृष्ट-
धनुर्द्ध्वरे लाक्षणिकत्वात् तथैव तात्पर्य्यात् ।
पार्थान्ययोगस्तादात्म्यम् । विशेषणसङ्गतस्य एव-
कारस्य अयोगव्यवच्छेदोऽर्थः । शङ्खः पाण्डुर-
एव इत्यादौ विशेष्ये शङ्खे पाण्डुरत्वायोग-
व्यवच्छेदबोधात् । क्रियासङ्गतस्य एवकारस्य
चात्यन्तायोगव्यवच्छेदोऽर्थः । सम्भवाभिप्रायके
नीलं सरोजं भवत्येव इत्यादौ अन्वयितावच्छेदक-
सरोजत्वसामानाधिकरण्येन सरोजनीलभवन-
कर्त्तृत्वात्यन्तायोगव्यवच्छेदबोधादिति सम्प्रदायः ॥)
गमनकर्त्तरि त्रि । इति सिद्धान्तकौमुदी (यथा
ऋग्वेदे ६ । ५१ । २ । “ऋजुमर्तेषु वृजिन
च पश्यन्नभिचष्टे सूरो अर्य एवान्” ॥ अश्वे पुं,
यथा, ऋग्वेदे । १ । १५८ । ३ । “उप वामवः
शरणम् गमेयं शूरो नाज्म पतयद्भिरेवः” ॥
“एवैरश्वैः” इति भाष्यम् । गमने क्ली । यथा,
ऋग्वेदे १ । १२९ । ३ । “एवेन सद्यः पर्य्येति
पार्थिवम्” । “एवेन गमनेन” । इति । भाष्यम् ॥)

एवं, व्य, साम्यम् । सादृश्यम् । यथा । अग्निरेवं विप्रः ।

अग्निरिवेत्यर्थः । तत्पर्य्यायः । वत् २ वा ३
यथा ४ तथा ५ इव ६ । वत्स्थाने व इति
केचित् पठन्ति । अयं प्रकारः । (यथा, कुमारे ।
६ । ८४ ।
“एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी” ॥)
तत्पर्य्यायः । इत्थम् २ । अवधारणम् । इत्यमरः ॥
यथा । एवमेतत् । अस्य पर्य्यायः एवशब्दे लि-
खितः । अङ्गीकारः । अर्थप्रश्नः । परकृतिः ।
पृच्छा । इति मेदिनी ॥

एष ऋ ङ गतौ । इति कविकल्पद्रुमः ॥ भ्वादिं-

आत्मं-सकं-सेट् ।) ऋ मा भवान् एषिषत् ।
ङ एषते । इति दुर्गादासः ।
(यथा, भागवते ३ । १४ । ४५ ।
“स वै वत भ्रष्टमतिस्तवैषते
यः कर्म्मणां पारमपारकर्म्मणाम्” ॥)

एषः, पुं, पुरोवर्त्तिपुरुषः । एतद्शब्दस्य पुंलिङ्गे

प्रथमैकवचने रूपमिदम् ॥

एषणः, पुं, (इष् + ल्यु ।) लौहमयबाणः । इति

हलायुधः ॥ (यथा, भागवते ७ । ९ । ३९ ।
“कामातुरं हर्षशोकभयैषणार्त्तं
तस्मै कथं तव पतिं विमृ शमि दीनः” ॥)

एषणिका, स्त्री, (इष्यतेऽनया । इष् गतौ + ल्युट् +

स्वार्थे कन् ततो टाप् इत्वञ्च ।) स्वर्णकारादीनां
तुला । निक्ति इति भाषा । तत्पर्य्यायः । नाराची
२ । इत्यमरः ॥

एषणी, स्त्री, (इष्यते अनया, इष् + ल्युट् + ङीष् ।)

व्रणमार्गानुसारिणी । वेलकार इति भाषा ।
तुलाभेदः । इति मेदिनी ॥ निक्ति इति भाषा ॥

एषा, स्त्री, (इषु श वाञ्छे + टाप् ।) इच्छा । इति

जटाधरः ॥ एतद्शब्दस्य स्त्रीलिङ्गेऽपि रूपमिदम् ॥
पृष्ठ १/३००

ऐकारः । स तु द्वादशस्वरवर्णः । अस्योच्चारण-

स्थानं तालु कण्ठश्च । (“एदैतोः कण्ठतालु” इ-
त्युक्तः । तथाच शिक्षायाम् । “ए ऐ तु कण्ठ-
तालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ॥) स च
ह्रस्वो न भवति । (द्विमात्रत्वात् दीर्घस्त्रिमात्र-
त्वात् प्लुतश्च भवति । उदात्तानुदात्तस्वरितभेदै-
स्त्रिविधोऽपि पुनः प्रत्येकमनुनासिकाननुनासिक-
भेदाभ्यां षड्विध एव ॥)
“ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् ।
कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा ॥
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ।
सदाशिवमयं वर्णं विन्दुत्रयसमन्वितम्” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम्) तस्य
लेखनप्रकारो यथा, --
“एकाररूपमध्ये तु किञ्चिद्दक्षे तदोर्द्ध्वतः ।
चन्द्रेन्द्रभानवस्तासु मात्रा शक्तिः क्रमात् स्मृताः ॥
त्रिधा शक्तिमयी पूर्ब्बा दुर्गा वाणी सरस्वती” ।
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तन्नामानि यथा, --
“ऐर्लज्जा भौतिकः कान्ता वायवी मोहिनी विभुः ।
दक्षा दामोदरप्रज्ञोऽधरो विकृतमुख्यपि ॥
क्षमात्मको जगद्योनिः परः परनिबोधकृत् ।
ज्ञानामृता कपर्द्दिश्रीः पीठेशोऽग्निः समातृकः ॥
त्रिपुरा लोहिता राज्ञी वाग्भवो भौतिकासनः ।
महेश्वरो द्वादशी च विमलश्च सरस्वती ॥
कामकोटो वामजानुरंशुमान् विजयो जटा” ।
इति तन्त्रशास्त्रम् ॥ दन्तान्तः । योनिः । इति
वीजवर्णाभिधानम् ॥ (अनुबन्धविशेषः । यथाह
कविकल्पद्रुमः । (“ऐर्यजादिः स्यादोर्निष्ठातन
औरनिट्” । एतेन यजादिगणीयत्वात् “ऐ वसौ
निवासे इत्यस्य लिटिप्रभृतिषु सम्प्रसारणे कृते
उवास इत्यादयो भवेयुः” ॥ मातृकान्यासे अधरे
न्यस्यतया तदाख्ययाप्यभिधानम् । मातृकान्यास-
मन्त्रो यथा । “एं नम ओष्ठे ऐं नमोऽधरे” ॥
इति ॥)

, व्य, (एतीति । आ + इण् + विच् ।) आह्वानम् ।

स्मरणम् । आमन्त्रणम् । इति मेदिनी ॥

ऐः पुं, (एति प्राप्नोति सर्व्वम् । आङ् + इण् + विच् ।)

महेश्वरः । इति एकाक्षरकोषः ॥

ऐकागारिकः, त्रि, (एकमसहायमगारं प्रयोजनमस्य ।

“ऐकागारिकट् चौरे” ५ । १ । ११३ इति इकट्
वृद्धिश्च निपातनात् ।) चौरः । इत्यमरः । एका-
गारवासी ॥

ऐकाहिकं, त्रि, (एकाहे भवम् । एकाह + ठक् ।)

एकाहनिष्पन्नम् । एकदिनान्तरभवम् । इति वैद्य-
कम् ॥ (वैद्यकगोपालकृष्णकविभूषणकृतकषाय-
संग्रहे दास्यादिपाचने यथा । “भूतोत्थं विषमं
त्रिदोषजजनितञ्चैकाहिकं द्व्याहिकम् ॥
“काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः ।
पृश्निपर्णी त्वपामार्गस्तथा भृङ्गराजोऽष्टमः ॥
एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः ।
रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत्” ॥
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
एकाहभवम् । यथा, --
“ऐकाहिकं द्वितीयस्थं तृतीयकचतुर्थकम्” ।
इत्यादि माहेश्वरकवचम् ॥

ऐकाहिकज्वरः, पुं, (ऐकाहिक एकाहभवो ज्वरः ।)

एकदिनान्तरागतज्वरः । तस्यौषधं यथा, --
“पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।
सार्द्धं विनाशयेद्दाहं ज्वरञ्च परमेश्वर ! ॥
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकादिनुत् ।
एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत् ॥
वास्योदकेन पीतं तत् वृहद्विषहरं भवेत्” ।
इति गारुडे १९३ अध्यायः ॥
(“ऐकाहिको द्याहिकश्च स्त्र्याहिकश्च तथापरः” ।
“मुस्तामृतामलक्यश्च नागरं कण्टकारिका ।
कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः ॥
ऐकाहिकं वा वेलाद्यं ज्वरजातं व्यपोहति ।
वानरेन्द्रमुखं दिव्यं तरुणादित्यतेजसम् ॥
ज्वरमैकाहिकं घोरं तत्क्षणादेव नश्यति ।
वानराकृतिमालिख्य खटिकाभिः पुनः शृणु ॥
गन्धपुष्पाक्षतैर्धूपैरर्च्चयेद्भिषजां वरः” ।
मन्त्रो यथा,
ॐ हां ह्रीं श्रीं सुग्रीवाय महाबलपराक्रमाय
सूर्य्यपुत्त्राय अमिततेजसे ऐकाहिक-द्व्याहिक-
त्र्याहिक-चातुर्थिक-महाज्वर-भूतज्वर-भयज्वर-
शोकज्वर-क्रोधज्वर-वेलाज्वर-प्रभृतिज्वराणां बन्ध
बन्ध ह्रां ह्रीं ह्रूं फट् स्वाहा । इति हारीते चि-
कित्सास्थाने । २ अध्याये ॥)

ऐक्यं, क्ली, (एक + भावे ष्यञ् ।) एकस्य भावः ।

एकता । एकत्वम् । एकीभावः । यथा । शारदा-
याम् ।
“गुरोर्ल्लब्ध्वा पुनर्व्विद्यामष्टकृत्वो जपेत् सुधीः ।
गुरुविद्यादेवतानामैक्यं सम्भावयन् धिया ॥
प्रणमेद्दण्डवद्भूमौ गुरुं तं देवतात्मकम्” ।
इति दीक्षातत्त्वम् ॥

ऐक्षवं, त्रि, (इक्षोर्विकारः । इक्षु + अण् ।) इक्षु-

विकारः । इक्षुसम्बन्धिगुडादि । इति स्मृतिः ॥
(अस्य गुणादय इक्षुशब्दे ज्ञातव्याः ॥)

ऐक्षवं, क्ली, (इक्षोर्भवम् । इक्षु + अण् ।) इक्षुभव-

गुडादि । यथा, --
“कदली लवणी धात्री फलान्यगुडमैक्षवम् ।
अतैलपक्वं मुनयो हविष्यान्नं विदुर्ब्बुधाः” ॥
इति तिथ्यादितत्त्वम् ॥ इक्षुगुडादिगुणा इक्षुशब्दे
ज्ञातव्याः ॥)

ऐङ्गुदं, क्ली, (इङ्गुद्या इदम् । “प्लक्षादिभ्योऽण्”

४ । ३ । १६४ । विधानसामर्थ्यान्नाणो लुक् ।) इङ्गु-
दीवृक्षस्य फलम् । इत्यमरः ॥
(“स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम्” ॥
इति सूत्रस्थाने । ४६ अ । सुश्रुतेनोक्तम् ॥)

ऐडुकं, क्ली, (एडुक एव । स्वार्थे अण् ।) एडूकम् ।

इति भरतो द्विरूपकोषश्च ॥

ऐणं, त्रि, (एणस्य इदम् । एण + अण् ।) एणस्य

चर्म्मादि । इत्यमरः ॥

ऐणिकः, त्रि, (एणं मृगं हन्तीति । एण + ठक् ।)

एणहन्ता । इति व्याकरणम् ॥

ऐणेयं, त्रि, (एण्या इदम् । एणी + ढञ् ।) एण्या-

श्चर्म्मादि । इत्यमरः ॥ स्त्रीणां रतिबन्धविशेषः ।
इति हेमचन्द्रः ॥

ऐतिह्यं, क्ली, (इतिह उपदेशपारम्पर्य्यम् । तदेव ।

इतिह “अनन्तावसथेतिहभेषजाञ् ञ्यः” । ५ ।
४ । २३ । इति स्वार्थे ञ्यः ।) पारम्पर्य्योपदेशः ।
तत्पर्य्यायः । इतिह । इत्यमरः ॥ (यथा रामायणे
। ५ । ८७ । २३ ।
“ऐतिह्यमनुमानञ्च प्रत्यक्षमपि चागमम् ।
ये हि सम्यक् परीक्षन्ते कुतस्तेषामबुद्धिता” ॥
“ऐतिह्यं नाम आप्तोपदेशो वेदादिः” ।
इति विमानस्थाने । ८ अ । चरकेणोक्तम् ॥)

ऐन्दवं, क्ली, (इन्दुर्देवता यस्य । इन्दु + अण् ।) मृग-

शिरोनक्षत्रम् । इति ज्योतिषम् ॥ यथा । मात्स्ये ।
“अश्विनी रेवती मूलमुत्तरत्रयमैन्दवम् ।
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते” ॥
ऐन्दवं मृगशिरः । इति मठप्रतिष्ठातत्त्वम् ॥
(इन्दोश्चन्द्रस्य इदम् । चन्द्रसम्बन्धिनि, त्रि । यथा,
मनुः ११ । १२५ ।
“सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् ।
मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम्” ॥)

ऐन्दवी, स्त्री, (ऐन्दव + ङीप् ।) सोमराजी । इति

वैद्यकम् ॥

ऐन्द्रं, क्ली, (इन्द्रो देवता यस्य । इन्द्र + अण् ।) ज्येष्ठा-

नक्षत्रम् । इति जटाधरः ॥ मूलविशेषः । वन
आदा इति भाषा । तत्पर्य्यायः । वनार्द्रका २
वनजा ३ अरण्यजार्द्रका ४ । अस्य गुणाः । कटु-
त्वम् । अम्लत्वम् । रुचिबलाग्निकारित्वञ्च । इति
राजनिर्घण्टः ॥ (इन्द्रस्य इदम् ।) इन्द्रसम्बन्धिनि
त्रि । (यथा मनुः ५ । ९३ ।
“न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् ।
ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” ॥
“ऐन्द्रंस्थानं राज्याभिषेकाख्यं आधिपत्यकारणम्”
इति तट्टीकायां कुल्लूकभट्टः ॥ तथा रघुः २ । ५० ।
“महीतलस्पर्शनमात्रभिन्न-
मृद्धं हि राज्यं पदमैन्द्रमाहुः” ॥
“ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत्” ॥
इति वाभटे सूत्रे । ५ अ ॥)
(इन्द्रस्यापत्यं पुमान् ।) बालिवानरे (अर्ज्जुने जयन्ते
च पुं ॥ जलविशेषः ।)

ऐन्द्रजालिकः, पुं, (इन्द्रजालेन दीव्यतीति । इन्द्रजाल

+ ठक् ।) इन्द्रजालकारकः । तत्पर्य्यायः । प्रती-
हारकः २ मायाकारकः ३ कौसुतिकः ४ मायावी
५ व्यंसकः ६ मायी ७ मायिकः ८ । इति जटा-
धरः ॥

ऐन्द्रलुप्तिकः, त्रि, केशघ्नरोगविशिष्टः । टेको इति

भाषा । तत्पर्य्यायः । खल्लीटः २ खलतिः ३ । इति
भूरिप्रयोगः ॥

ऐन्द्रिः, पुं, (इन्द्रस्यापत्यं पुमान् । इन्द्र + इञ् ।)

जयन्तनामा इन्द्रपुत्त्रः । काकः । इति मेदिनी ॥
(“ऐन्द्रिः किल नखैस्तस्याः विददार स्तनौ द्विजः” ।
इति रघुवंशे । १२ । २२ ॥) बालिनामवानराजः ।
इति त्रिकाण्डशेषः ॥ अर्ज्जुनः । इति हेमचन्द्रः ॥
पृष्ठ १/३०१

ऐन्द्रियकं, त्रि, (इन्द्रियेणानुभूयते । इन्द्रिय +

वुञ् ।) प्रत्यक्षम् । इन्द्रियग्राह्यम् । इत्यमरः ॥
(व्याधिविशेषः । यथा, --
“मिथ्याभियोगहीनेभ्यो यो व्याधिरुपजायते ।
शब्दादीनां स विज्ञेयो व्याधिरैन्द्रियको बुधैः ॥
वेदनानामशान्तानामित्येते हेतवः स्मृताः ।
सुखहेतुर्मतस्त्वेकः समयोगः सुदुर्ल्लभः ॥
नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः ।
हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्व्विधः ॥
सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चास्ति रुक् ।
न सुखं कारणं तस्मात् योगएव चतुर्व्विधः ॥
नात्मेन्द्रियमनोबुद्धिगोचरं कर्म्म वा विना ।
सुखं दुःखं यथा यच्च बोद्धव्यं तत्तथोच्यते ॥
स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च ।
द्विविधः सुखदुःखानां वेदनानां प्रवर्त्तकः ।
इच्छा द्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्त्तते ॥
तृष्णा च सुखदुःखानां कारणं पुनरुच्यते ।
उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान् ॥
स्पृश्यते नानुपादाने न स्पृष्टो वेत्ति वेदनाः ।
वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः ॥
केशलोमनखाग्रान्नमलद्रवगुणैर्विना” ।
इति चरके शारीरे १ अः ॥)

ऐन्द्री, स्त्री, (इन्द्रस्य शक्रस्य इयम् । इन्द्र + “तस्ये-

दम्” । ४ । ३ । १२० । इत्यण् । टिडृएति । ४ । १ ।
१५ । ङीप् ।) शची । (यथा, मार्कण्डेये ८८ । २० ।
“वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता” ।
इन्द्रस्य योगैश्वर्य्यशालिनो महादेवस्य पत्नी ।)
दुर्गा । इति शब्दरत्नावली ॥ अलक्ष्मीः । इति
त्रिकाण्डशेषः ॥ इन्द्रवारुणी । इति रत्नमाला ॥
राखाल शसा इति भाषा । पूर्ब्बा दिक् । इत्य-
मरटीकायां रमानाथः ॥ एला । इति राज-
निर्घण्टः ॥ एलाचि इति भाषा ।
“यष्ट्याह्वमैन्द्री नलिनानि दूर्ब्बा” ।
इति सूत्रे ३ अध्याये । चरकेणोक्तम् ॥)

ऐभी, स्त्री, (इभ इत्याख्यास्त्यस्याः । इभ + “प्रज्ञा-

दिभ्यश्च” । ५ । ४ । ३८ । इति अण् + ङीप् ।)
हस्तिघोषा लता । इति राजनिर्घण्टः ॥

ऐरावणः, पुं, (इरया जलेन वणति शब्दायते इति ।

इरा + वण + पचाद्यच् । तत इरावणएव स्वार्थे
प्रज्ञाद्यण् ५ । ४ । ३८ । यद्वा इरा सुरा वनमु-
दकं यस्मिन् । पूर्ब्बपदादिति ८ । ४ । ३ । णत्वम् ।
तत्र भवः । इरावण + अण् ।) ऐरावतहस्ती इत्य-
मरः ॥ यथा, महाभारते १ । १८ । ४१ ।
“श्वेतैर्दन्तैश्चतुर्भिस्तु महाकायस्ततःपरम् ।
ऐरावणो महानागोऽभवद्वज्रभृता धृतः” ॥)

ऐरावतं, क्ली, (इरा जलानि सन्त्यस्मिन् । इरा +

मतुप् । इरावान् मेघः । तत्र भवः । इत्यण् । जल-
वति मेघे सूर्य्यकरपतनादस्योत्पत्तेस्तथात्वम् ॥)
इन्द्रस्य ऋजुदीर्घधनुः ।
इति मेदिनी ॥ रामधनुक् इति भाषा ॥

ऐरावतः, पुं, (इरा जलानि विद्यतेऽस्मिन् । मतुप् ।

इरावान् समुद्रः । तत्र भवः इति । इरावत् + अण् ।
समुद्रमथनोत्थितत्वादस्य तथात्वम् । यद्वा इरा-
वत्या विद्युत अयं तस्येदमित्यण् ४ । ३ । १२० ।)
इन्द्रहस्ती । स तु शुक्लवर्णः चतुर्द्दन्तः समुद्र-
मथनोत्थितः पूर्ब्बदिग्गजश्च । तत्पर्य्यायः । अभ्र-
मातङ्गः २ ऐरावणः ३ अभ्रमुवल्लभः ४ । इत्य-
मरः ॥ श्वेतहस्ती ५ चतुर्द्दन्तः ६ मल्लनागः ७
इन्द्रकुञ्जरः ८ हस्तिमल्लः ९ सदादानः १० । इति
जटाधरः ॥ सुदामा ११ श्वेतकुञ्जरः १२ गजाग्रणीः
१३ नागमल्लः १४ । इति शब्दरत्नावली ॥ (यथा,
कुमारे । ३ । २२ ॥ (“ऐरावतास्फालनकर्कशेन” ।
“प्रावृषेण्यं पयोवाहं विद्युदैरावताविव” ।
इति रघौ । १ । ३६ ॥)
नागरङ्गः । लकुचवृक्षः । नागभेदः । इति मेदिनी ॥
(“ऐरावतं दन्तशठमम्लं शोणितपित्तकृत्” । इति
सूत्रे । ४६ अः । सुश्रुतेनोक्तम् ॥) (इरावत्या नद्याः
सन्निकृष्टो देशः । इरावती + अण् । यथा, महा-
भारते ३ । १६२ । ३३ ।
“बभूव परमाश्वानामैरावतपथे यथा” ॥)

ऐरावती, स्त्री, (इरा जलानि विद्यन्तेऽस्य इरावान्

मेघस्तस्य इयं । इरावत् + “तस्येदम्” । ४ । ३ ।
१२० । इति अण् + ङीप् ।) विद्युत् । विद्युद्विशेषः
इति मेदिनी ॥ ऐरावतभार्य्या । इत्यरारटीकायां
स्वामी ॥ वटपत्रीवृक्षः । इति राजनिर्घण्टः ॥
पञ्चालदेशीयनदीविशेषः । अधुना रावी इति
ख्याता ॥ (उत्तरमार्गे नक्षत्रविशेषाणां संज्ञाभेदः
यथा ।
“पुष्याश्लेषा तथादित्या वीथी चैरावती स्मृता” ॥)

ऐरिणं, क्ली, (इरिणे उषरभूमौ भवम् । इरिण +

अण् ।) पांशवलवणम् । इति राजनिर्घण्टः ॥
(पांशुलवणेऽस्य विवरणं ज्ञेयम् ॥)

ऐरेयं, क्ली, (इरा + ढक् ।) मद्यम् । इरा एव ऐरेयं

स्वार्थे ष्णेयप्रत्यये वृद्धिः ॥ (यत्रास्य व्यवहार-
स्तद्यथा, --
“ऋतेऽप्यूर्द्धमधश्चैवमैरेयाम्लसुरासतैः” ।
इति वैद्यकचक्रपाणिसंग्रहे विद्रध्यधिकारे ॥)

ऐलः, पुं, (इलाया अपत्यं पुमान् । इला + अण् ।)

इलापुत्त्रः । स तु चन्द्रवंशीयो राजा पुरूरवाः ।
इति हेमचन्द्रः ॥ (यथा महाभारते । १ । ७५ । १७ ।
“पुरूरवास्ततो विद्वानिलायां समपद्यत ।
सावै तस्याभवन्माता पिता चैवेति नः श्रुतम्” ॥
“षट् सुता जज्ञिरेऽथैलादायुर्द्धीमानमावसुः” ॥ २४ ॥

ऐलबालुकं, क्ली, (एलबालुकमेव । स्वार्थे अण् ।) एल-

बालुकम् । इति शब्दरत्नावली ॥

ऐलविलः, पुं, (इलविलाया अपत्यं पुमान् । इल-

विल + अण् ।) इलविलापुत्त्रः । स तु कुवेरः ।
इत्यमरः ॥ तस्य रूपान्तराणि । ऐडविडः । ऐड-
विलः । एलबिलः ॥

ऐलेयं, क्ली, एलबालुकनामगन्धद्रव्यम् । इत्यमरः ॥

(एलबालुकशब्देऽस्य विशेषो ज्ञातव्यः ॥) (पुं,
इलाया अपत्यम् । इला + ढक् । मङ्गलः । भौमः ।
पुरूरवाः ॥)

ऐशानी, स्त्री, (ईशानस्य महादेवस्य इयम् । ईशान

+ “तस्येदम्” । ४ । ३ । १२० । इति अण् +
ङीप् ।) ईशानकोणः । इति जटाधरः ॥ (‘ऐ-
शानीक्रमतो रेखा” इति स्मृतिः । “ऐशान्यां
मरणं ध्रुवं निगदितं दिग्लक्षणं खञ्जने” । इति
तिथितत्त्वम् ॥)

ऐशिकः, त्रि, (ईशस्य अयम् । ईश + ईकण् ।)

ईश्वरसम्बन्धी । ईश्वरेर इति भाषा ॥

ऐशी त्रि, (ईशस्य ईश्वरस्य च इयम् ।

ईश + ईश्वर + अण् + ङीप् ।) ईश्वर-
सम्बन्धी । ईश्वरेर इति भाषा ॥

ऐश्वरी त्री, (ईशस्य ईश्वरस्य च इयम् ।

ईश + ईश्वर + अण् + ङीप् ।) ईश्वर-
सम्बन्धी । ईश्वरेर इति भाषा ॥

ऐश्वर्य्यं, क्ली, (ईश्वरस्य भावः । ईश्वर + ष्यञ् ।)

ईश्वरधर्म्मः । तत्पर्य्यायः । विभूतिः २ भूतिः ३ ।
स चाष्टविधो यथा । अणिमा १ लघिमा २
प्राप्तिः ३ प्राकाम्यम् ४ महिमा ५ ईशित्वम् ६
वशित्वम् ७ कामावशायिता ८ । इत्यमरः ॥
(“ऐश्वर्य्यस्य समग्रस्य वीर्य्यस्य यशसः श्रियः ।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गना” ॥
इति पुराणम् । “ऐश्वर्य्यमपि बुद्धिधर्म्मः यतो-
ऽणिमादिप्रादुर्भावः” । इति वाचस्पतिमिश्रः ।
सम्पत्तिः । प्रभुत्वम् । नियन्तृत्वम् ।
यथा रघुवंशे । १२ । ६९ ॥
“तस्मै निशाचरैश्वर्य्यं प्रतिशुश्राव राघवः” ॥)
इति ॥)

ऐश्वर्य्यकर्म्मा, [न्] पुं, (ऐश्वर्य्यं कर्म्म यस्य ।) ईश्वर-

सम्बन्धिकर्म्मयुक्तः । तत्पर्य्यायः । इरज्यति १ प-
त्यते २ क्षयति ३ राजति ४ । इति चत्वार
ऐश्वर्य्यकर्म्माणः । इति वेदनिर्घण्टौ २ अध्यायः ॥

ऐषमः, [स्] व्य, (अस्मिन् वत्सरे इति । “सद्यःपरु-

त्परार्य्यैषमः” ५ । ३ । २२ । इति इदम इश् सम-
सन्प्रत्ययश्च संवत्सरे निपात्यते ।) वर्त्तमानवत्सरः ।
इत्यमरः ॥

ऐषमस्तनः, त्रि, (ऐषमोभवः । “ऐषमोह्यःश्वसो-

ऽन्यतरस्यां” । ४ । २ । १०५ । इति शैषिकेष्वर्थेषु पक्षे
ट्युल् तुट् च ।) ऐषमःसम्बन्धी । एइ वत्सरेर इति
भाषा । इति पाणिनिः ॥ ७ । २ । १०५ ॥

ऐषमस्त्यः, त्रि, (ऐषमोभवः । ऐषमस् + ऐषमो-

ह्यसिति पक्षे त्यप्) ऐषमस्तनः इति पाणिनिः ॥

ऐहिकं, त्रि, (इह + ढञ् ।) इह भवम् । इहकालेर

इति भाषा । इति व्याकरणम् ॥ (यथा भागवते
५ । १४ । ३२ । “क्वचिद्द्रुमवदैहिकार्थेषु रंस्यन्
यथा वानरः सुतदारवत्सलो व्यवायक्षणः” ॥)

ओकारः । स तु त्रयोदशस्वरवर्णः । अस्यो-

च्चारणस्थानं ओष्ठः कण्ठश्च । (“ओदौतोः कण्ठौ-
ष्ठम्” इत्युक्तेः । तथा च शिक्षायामुक्तम् ।
“ए ऐ तु कण्ठतालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ॥)
स तु ह्रस्वो न भवति । दीर्घः प्लुतश्च भवति ।
(प्रत्येकं उदात्तानुदात्तस्वरितभेदैस्त्रिविधोऽपि
अनुनासिकाननुनासिकभेदाभ्यां षड्विधः । एतेन
द्वादशविध एव निर्णीतः ।)
पृष्ठ १/३०२
:“ओकारं चञ्चलापाङ्गि ! पञ्चदेवमयं सदा ।
रक्तविद्युल्लताकारं त्रिगुणात्मानमीश्वरम् ॥
पञ्चप्राणमयं वर्णं नमामि देवमातरम् ।
एतद्वर्णं महेशानि स्वयं परमकुण्डली” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) तस्य
लेखनप्रकारो यथा, --
“वामतः कुण्डली भूत्वा दक्षान्मध्ये तु कुञ्चिता ।
किञ्चिद्दक्षगता या तु कुञ्चिता वामतस्त्वधः ॥
ब्रह्मेशविष्णवस्तासु मात्रा तु ब्रह्मरूपिणी ।
शक्तिश्च परमा सैव ध्यानमस्य प्रवक्ष्यते” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा, --
“ओकारः सत्यपीयूषौ पश्चिमास्यः श्रुतिः स्थिरा ।
सद्योजातो वासुदेवो गायत्री दीर्घजङ्घकः ।
आप्यायनी चोर्द्ध्वदन्तो लक्ष्मीर्वाणी मुखी द्विजः ॥
उद्देश्यदर्शकस्तीव्रः कैलासो वसुधाक्षरः ।
प्रणवांशो ब्रह्मसूत्रमजेशः सर्व्वमड्गला ॥
त्रयोदशी दीर्घनासा रतिनाथो दिगम्बरा ।
त्रैलोक्यविजया प्रक्षा प्रीतिवीजादिकर्षिणी” ॥
इति तन्त्रशास्त्रम् ॥ (अनुबन्धविशेषः । यथाह
कविकल्पद्रुमे । “ऐर्यजादिः स्यादोर्निष्ठातन और-
निट्” ॥ तेन ओ दी क्षये इत्यस्मात् कृतायां
निष्ठायां दीनं दीनवत् इति स्यात् ॥ मातृकान्यासे
ऊर्द्ध्वदन्तपङ्क्तौ न्यस्यतया तदाख्ययाप्यभिधानम् ।
मातृकान्यासमन्त्रो यथा, --
“ॐ नम ऊर्द्ध्वदन्तपङ्क्तौ औं नमऽधोदन्तपङ्क्तौ” ॥)

, व्य, सम्बोधनम् । आह्वानम् । स्मरणम् । अनु-

कम्पा । इति मेदिनी ॥

, व्य, ओम् । प्रणवः । इति वेदागमौ ॥

ओः, पुं, व्रह्मा । इत्येकाक्षरकोषः ॥

ओकं, क्ली, (उचेरिगुपधलक्षणे के गुणः कुत्वञ्च

“ओक उचः के” । ७ । ३ । ६ । ४ । इति निपा-
त्यते ।) गृहम् । आश्रयः । इत्यमरटीकायां भर-
तादयः ॥ (पुं । पक्षी । वृषलः ॥)

ओकः, [स्] क्ली, (उच्यते समवैति अस्मिन् । उच +

असुन् । गुणः । न्यङ्क्वादित्वात् कुत्वम् ॥) आश्रयः ।
गृहम् । इत्यमरः ॥ (“जलौका अथ भल्लके” ।
इति अमरकोषः । तथा विष्णुपुराणम् १ । ६ । ३७ ।
“सप्तर्षीणान्तु यत स्थानं स्मृतं तद्वै वनौकसाम्” ॥)

ओकणः, पुं, केशकीटः । इति शब्दरत्नावली ॥

उकुण् इति भाषा ॥

ओकणिः, पुं, यूकः । इति शब्दरत्नावली ॥ उकुण्

इति भाषा ॥

ओकुलः, पुं, (उच् + उलच । निपातनात् सिद्धम् ।)

गोधूमकृततप्तापक्वः । अस्य गुणाः । गुरुत्वम् ।
वृष्यत्वम् । मधुरत्वम् । बलकारित्वम् । रक्तवा-
तापहत्वम् । स्निग्धत्वम् । हृद्यत्वम् । मदविव-
र्द्धनत्वञ्च । इति राजनिर्घण्टः ॥

ओकोदनी, स्त्री, (ओकः मस्तकरूपाश्रयस्थानमदनं

भक्ष्यं यस्याः ।) यूकः । इति शब्दरत्नावली ॥

ओक्कणी, स्त्री, (ओच् + कण् + अच् + ङीप् ।) ओ-

कणः । इति शब्दरत्नावली ॥ उकुण् इति भाषा ॥

ओख, ऋ, शोषणे । भूषणे । सामर्थ्ये । निवारणे ।

इति कविकल्पद्रुमः ॥ (भ्वादिं-अकं-सकं च परं-
सेट् ।) ऋ मा भवान् ओचिखत् । अत्र द्वित्वात्
प्राक् प्राप्तो ह्रस्व ऋदित्त्वान्न स्यात् । शोषः स्नेह-
रहितीभावः । ओखति पङ्क आतपात् । अल-
मर्थो भूषणं सामर्थ्यं वारणञ्च । इति दुर्गादासः ॥

ओघः, पुं, (उच् समवाये + घञ् । पृषोदरादित्वात्

साधुः ।) द्रुतनृत्यगीतवाद्यम् । समूहः । इत्यमरः ॥
जलवेगः । (यथा कुमारे ४ । ४४ ।
“रविपीतजला तपात्यये पुनरोघेन हि युज्यते
नदी” ॥) परम्परा । उपदेशः । इति मेदिनी ॥

ओङ्कारः, पुं, (ओम् + कारप्रत्ययः ।) प्रणवः ।

इत्यमरः ॥ (यथाह स्मृतिः ।
“ओङ्कारः पूर्ब्बमुच्चार्य्यस्ततो वेदमधीयते” ।
“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्ज्जातौ तस्मान्माङ्गलिकावुभौ” ।
इति व्याकरणटीकायां दुर्गादासः ।
“प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति” ॥
इति मनुः । २ । ७५ ॥ अत्राह आवस्तम्बः,
“ओङ्कारः स्वर्गद्वारं तद्ब्रह्म अध्येष्यमाण एत-
दापि प्रतिपद्येत विकथां चान्यां कृत्वा एवं लौ-
किक्या वाचा व्यावर्त्तते” । लौकिक्या वाचा व्याव-
र्त्तते तया मिश्रितं न भवतीत्यर्थः ॥)

ओङ्कारा, स्त्री, बुद्धशक्तिविशेषः । इति त्रिकाण्डशेषः ॥

ओज त्क, बले । तेजसि । इति कविकल्पद्रमः ॥

(अदन्तचुरां-परं-अकं-सेट् ।) मा भवान् ओजि-
जत् । इति दुर्गादासः ॥

ओजः, [स्] क्ली, (उब्जत्यनेन । उब्ज आर्जवे

उब्जेर्बले “बलोपञ्च” ४ । १९१ । उणादिः असुन् ।
बलोपश्च । गुणः ।) दीप्तिः । अवष्टम्भः । प्रकाशः ।
बलम् । इति मेदिनी ॥ (यथा रघौ २ । ५४ ।
“रुद्रौजसा तु प्रहृतं त्वयास्याम्” । यथा च मा-
नवे १ । १९ ।
“तेषामिदन्तु सप्तानां पुरुषाणां महौजसाम्” ॥)
प्रथमतृतीयपञ्चमसप्तमनवमैकादशराशयः । इति
ज्योविषम् ॥ गौडी रीतिः काव्यगुणः । तस्य
लक्षणम् । बहुसमाससंयुक्तवर्णपदाडम्बरः । यथा,
“ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः ।
गौडवैदर्भपञ्चालीरीतयः परिकीर्त्तिताः ॥
ओजः समासभूयस्त्वं मांसलं पदडम्बरम्” ।
तस्योदाहरणम् यथा, --
“गङ्गोत्तुङ्गतरङ्गसङ्गतजटाजूटाग्रजाग्रत्फणि-
स्फुर्जत्स्फुत्कृतिभीतिसम्भृतचमत्कारस्फुरत्सम्भ्रमा ।
आनन्दामृतवापिकां विदधती चित्तं गिरीशप्रभो-
स्त्वां पायान्नवसङ्गमे भगवती लज्जावती पार्ब्बती” ॥
इति काव्यचन्द्रिका ॥ * ॥ रसादिसप्तधातुसार-
भागजधातुविशेषः । तस्य गुणाः । सर्व्वशरीरस्थि-
तत्वम् । स्निग्धत्वम् । शीतलत्वम् । स्थिरत्वम् ।
शुक्लवर्णत्वम् । कफात्मकत्वम् । शरीरस्य बलपुष्टि-
कारित्वञ्च ॥
“हृदि तिष्ठति यच्छुद्धं रक्तमीषत् सपीतकम् ।
ओजः शरीरे संजातं तन्नाशान्नाशमृच्छति ॥
भ्रमरैः फलपुष्पेभ्यो यथा संभ्रियते मधु ।
तद्वदोजः शरीरेभ्यो धातुः संभ्रियते नृणाम्” ॥
इति वैद्यकम् ॥ ओजोऽदन्तोऽपि । इति भरतः ॥
“हृदयं चेतनास्थानमोजसश्चाश्रयं मतम्” ।
इति पूर्ब्बखण्डे । ५ अ । शार्ड्गधरेणोक्तम् ॥
“तत्परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः” ॥
“ओजोवहाः शरीरे वा विधम्यन्ते समन्ततः ।
येनौजसा वर्त्तयन्ति प्रीणिताः सर्व्वदेहिनः ॥
यदृते सर्व्वभूतानां जीवितं नावतिष्ठते ।
यत्सारमादौ गर्भस्य योऽसौ गर्भरसाद्रसः ॥
संवर्त्तमानं हृदयं समाविशति यत्पुरा ।
यस्य नाशान्न नाशोऽस्ति धारि यद्धदयाश्रितम् ॥
यच्छरीरबलं देहः प्राणा यत्र प्रतिष्ठिताः ।
तत्फला विविधा वाताः फलन्तीति महाफलाः ॥
ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात्सिराः ॥
तन्महत्ता महामूलास्तच्चौजः परिरक्षता ।
परिहार्य्या विशेषेण मनसा दुःखहेतवः ॥
हृद्यं यत्स्याद्यदौजस्यं स्रोतसां यत्प्रसादजम् ।
तत्तत्सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च” ॥
इति सूत्रस्थाने त्रिंशेऽध्याये चरकेणोक्तम् ॥
“गुरु शीतं मृदु श्लक्ष्णं बहुलं मधुरं स्थिरम् ।
प्रसन्नं पिच्छिलं स्निग्धं ओजो दशगुणं तथा” ॥
मद्यसेवनतोऽस्य ये गुणा नश्यन्ति तद्यथा ॥
“गुरुत्वं लाघवाच्छैत्यं चौष्ण्यमम्लस्वभावतः ।
माधुर्य्यं मार्द्दवं तैक्ष्ण्यात् प्रसादञ्चाशुभावनात् ॥
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि ।
विकासिभावात् पैच्छिल्यं वैशद्यं सान्द्रतान्तथा ॥
सौक्ष्म्यान्मद्यं विहन्त्येवमोजसः स्वगुणैर्गुणान्” ।
“रसधात्वादिमार्गाणां सत्त्ववद्ध्वीन्द्रियात्मनाम् ।
प्रधानस्यौजसश्चैव हृदयस्थानमुच्यते” ॥
“नैवं विघातं जनयेन्मद्यं पैष्टिकमोजसः ।
विकाश-रूक्ष-विशदा गुणास्तत्र हि नोल्वणाः” ॥
इति च चरके चिकित्सास्थाने । १२ अः ॥
“ओजः सोमात्मकं स्निग्धं शुक्लं शीतंस्थिरं सरम् ।
विविक्तं मृदु मृत्स्नञ्च प्राणायतनमुत्तमम् ॥
देहस्यावयवस्तेन व्याप्तो भवति देहिनाम् ।
तदभावाच्च शीर्य्यन्ते शरीराणि शरीरिणाम् ॥
अभिघातात् क्षयात्कोपाच्छोकाद्ध्यानाच्छ्रयात् क्षुधः ।
ओजः संक्षीयते ह्येभ्यो धातुग्रहणनिःसृतम् ।
तेजः समीरितं तस्माद्विभ्रंशयति देहिनः” ॥
इति सूत्रस्थाने । १५ अः । सुश्रुतेनोक्तम् ॥)

ओडवः, पुं, पञ्चस्वरयुक्तरागः । स तु ऋ-प-वर्ज्जितः ।

ष-ग-म-ध-नि-युक्तः । यथा मल्लारादयः । इति सं-
गीतदामोदरः ॥ (यदुक्तं संगीतरत्नाकरे स्वरा-
ध्याये जातिप्रकरणे ।
“वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः ।
पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ।
ओडवी सास्ति येषाञ्च स्वरास्तेत्वोडवा मताः” ॥
“औडवा मताः” इति क्वचित् पाठः ॥ “उडवः
नक्षत्राणि वान्ति यान्ति यस्मिन् इत्युडवं व्योम,
तच्च भूतेषु पञ्चमम् । तेन पञ्चसङ्ख्या लक्ष्यन्ते ।
औडवी सङ्ख्या विद्यते येषां स्वराणां ते औडवाः
पञ्चस्वराः” इत्यादिसिंहभूपालटीका ॥)
पृष्ठ १/३०३

ओडिका, स्त्री, धान्यविशेषः । उडि धान इति

भाषा । तत्पर्य्यायः । ओडी २ नीवारः ३ । इति
रत्नमाला ॥ अस्या गुणाः । शोषणत्वम् । रूक्षत्वम् ।
कफवायुवर्द्धकत्वम् । पित्तनाशित्वञ्च । इति राज-
वल्लभः ॥

ओडी, स्त्री, ओडिकाधान्यम् । इति रत्नमाला ॥

(नीवारशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

ओड्रः पुं, (आ ईषदुनत्ति । उन्दी + स्फायितञ्चीति

रक् । बाहुलकात् दस्य डत्वम् ।) जवापुष्पवृक्षः ।
देशविशेषः । उडिस्या इति ख्यातः । तत्र बहु-
वचनान्तः । इति मेदिनी ॥ (तद्देशवासिनि, त्रि ।
यथा, मनुः १० । ४४ ।
“पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः” ।
“पौण्ड्रादिदेशोद्भवाः क्षत्रियाः सन्तः क्रियालो-
पादिना शूद्रत्वमापन्नाः” ।
इति तट्टीकायां कुल्लुकभट्टः ॥)

ओड्रपुष्पं, क्ली, (ओड्रं पुष्पम् ।) जवा । इत्यमरः ॥

वृद्धास्तु “ओड्रपुष्पशब्देन तथा जवाशब्देन
ओड्रवृक्षः ओड्रस्य पुष्पञ्चोच्यते” इत्याहुः । वृक्षे
व्युत्पत्तिर्यथा । ओड्रं पुष्पमस्य इति ।
“ओड्रः स्यादोड्रपुष्पञ्च जवाथ हयमारकः” ।
इति रायमुकुटः ॥ “ओड्रपुष्पकुसुमप्रियेऽम्बिके” ।
इति हरानन्दः ॥ इत्यमरटीकायां भरतः ॥

ओड्राख्या, स्त्री, (ओड्रमाख्या यस्याः ।) जवापुष्प-

वृक्षः । इति राजनिर्घण्टः ॥

ओण, ऋ अपसारणे । दूरीकरणे ॥ इति कविकल्प-

द्रुमः ॥ (भ्वादिं-परं-सकं-सेट् ।) अपसारणमप-
नयनम् । मा भवान् ओणिनत् । ओणति धनम्
चौरः । इति दुर्गादासः ॥

ओतुः, पुं स्त्री, (अवति गृहमाखुभ्यः । अव रक्षणे +

“सितनिगमिमसिसच्यवीति” १ । ७० । उणादिः
तुन् । “ज्वरत्वरेति” ६ । ४ । २० । ऊट् ततो
गुणः ।) विडालः । इत्यमरः । (यथा मुग्ध-
बोधे । “स्थूलोतुः । स्थूलौतुः ॥)

ओदनः, पुं क्ली, (उन्द + “उन्देर्नलोपश्च” इति २ ।

७६ । उणादिः युच् + नलोपश्च ।) अन्नम् । भक्तम् ।
इत्यमरः ॥ भात इति भाषा ।
(यथा मनुः । ८ । ३२९ ।
“अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च” ॥
“ओदनः क्षालितः स्विन्नः प्रस्रुतो विशदो लघुः ।
भृष्टतण्डुलजोऽत्यर्थमन्यथा स्याद्गुरुश्च सः” ॥
इति वैद्यकचक्रपाणिकृतद्रव्यगुणे मद्यादिवर्गे ॥
“ओदनस्तैः शृतो द्विस्त्रिः प्रयोक्तव्यो यथायथम् ।
दोषदूष्यादिबलतो ज्वरघ्नः क्वाथसाधितः” ॥
इति बाभटे चिकित्सास्थाने । १ अध्याये ॥
अस्य पर्य्यायञ्चाह भावप्रकाशकारः ॥
“भक्तमन्नं तथान्धश्च क्वचिकूरञ्च कीर्त्तितम् ।
ओदनोऽस्त्री स्त्रियां भिस्मा दीदिविः पुंसि भा-
षितः” ॥
अस्य विवरणान्तरञ्चान्नशब्दे ज्ञेयम् ॥)

ओदनाह्वा, स्त्री, (ओदनस्याह्वा इव आह्वा यस्याः ।)

महासमङ्गा । इति राजनिर्घण्टः ॥

ओदनिका, स्त्री, महासमङ्गा । बला । इति राज-

निर्घण्टः ॥

ओदनी, स्त्री, (ओदन इवाचरति । ओदन + क्विप्

+ ङीष् ।) बला । इति मेदिनी ॥ वेलेडा इति
भाषा । (बलाशब्देऽस्या गुणादथो ज्ञातव्याः ॥)

ओम्, व्य, (अवति रक्षति इति । “अवतेष्टिलो-

पश्च” । १ । १४१ । उणादिः मन् टिलोपश्च । ज्वर-
त्वरेत्यूट् ६ । ४ । २० ॥ ततो गुणः ।) प्रणवः । स
तु अकारोकारमकारवर्णत्रयात्मकः । तथा च
उक्तम् ।
“अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः ।
मकारेणोच्यते ब्रह्मा प्रणवेन त्रयो मताः ॥
(“यथा पर्णं पलाशस्य शङ्कुनैकेन धार्य्यते ।
तथा जगदिदं सर्व्वमोङ्कारेणैव धार्य्यते” ॥
इति याज्ञवल्क्यः । तथा, मनुः । २ । ७६ ।
“अकारञ्चाप्युकारञ्च मकारञ्च प्रजापतिः ।
वेदत्रयात् निरदुहत् भूर्भुवस्वरिति त्रिधा” ॥
“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मात् माङ्गलिकावुभौ” ॥
इति दुर्गादासः । योगी याज्ञवल्क्यश्च ।
“सिद्धानाञ्चैव सर्व्वेषां वेदवेदान्तयोस्तथा ।
अन्येषामपि शास्त्राणां निष्ठाऽथोङ्कार उच्यते ॥
प्रणवाद्या यतो वेदा प्रणवे पर्य्यवस्थिताः ।
वाङ्मयं प्रणवः सर्व्वं तस्मात् प्रणवमभ्यसेत्” ॥)
अनुमतिः । इति विश्वः ॥ उपक्रमः । अङ्गीकारः ।
(यथा, भागवते ११ । ४ । १५ ।
“ओमित्यादेशमास्थाय नत्वा तं सुरवन्दिनः ।
उर्व्वशीमप्सरःश्रेष्ठां पुरःस्कृत्य दिवं ययुः” ॥)
अपाकृतिः । मङ्गलम् । इति मेदिनी ॥

ओम्, क्ली, ब्रह्मणो नामविशेषः । यथा, --

“ॐ तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणाश्चैव वेदाश्च यज्ञाश्च विहिताः पुरा ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्” ॥
इति श्रीभगवद्गीतायां १७ अध्यायः ॥

ओलं त्रि, (आङ् + उन्द + क । पृषोदरादित्वात्

साधु ।) आर्द्रम् । इति त्रिकाण्डशेषः ॥ भिजा
इति भाषा ॥

ओलः, पुं, स्वनामख्यातमूलविशेषः । शूरणः । इति

त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा ॥
“शूरणः कन्द ओलश्च कन्दलोऽर्शोघ्न इत्यपि” ।
गुणा अस्य शूरणशब्दे ज्ञेयाः ॥)

ओलज, इ, क्षेपणे । इति कविकल्पद्रुमः ॥ (भ्वादिं-

परं-सकं-सेट् ।) अन्तस्थतृतीययुक्तः । इ ओलञ्ज्यते
धूलिर्वायुना । इति दुर्गादासः ॥

ओलड, इ कि उत्क्षेपे । इति कविकल्पद्रुमः ॥ (वा

चुरां-उमं-सकं-सेट् ।) अन्तस्थतृतीयोपधः । इ
ओलण्ड्यते । कि ओलण्डयति ओलण्डति तण्डुलं
लोकः । कर्पूरमोलण्डयतीति दर्शनात् । इति
दुर्गादासः ॥

ओल्लः, पुं, ओलः । तत्पर्य्यायः । शूरणः २ कन्दः ३

अर्शोघ्नः ४ चित्रदण्डकः ५ । इति रत्नमाला ॥
अस्य गुणाः । अग्निदीपनत्वम् । रुचिकारित्वम् ।
कफनाशित्वम् । विशदत्वम् । लघुत्वम् । अर्शो-
रोगपथ्यत्वञ्च । ग्राम्यकन्दस्तु दोषलः ॥ इति राज-
वल्लभः ॥

ओषः, पुं, (उष + दाहे घञ् ।) दाहः । तत्पर्य्यायः ।

प्रोषः २ । इत्यमरः ॥ प्लोषः ३ । इति भरतः ॥
(पित्तविकाराश्चत्वारिंशदत ऊर्द्ध्वं व्याख्यास्यन्ते ।
यथा ओषश्च प्लोषश्च इत्यादि । चरके सूत्रे ।
२० अः ॥)

ओषणः, पुं, (उष + ल्युट् ।) कटुरसः । इति हेम-

चन्द्रः ॥ झाल इति भाषा ॥

ओषणी, स्त्री, (ओषण + ङीष् ।) शाकविशेषः ।

पुड्याति इति भाषा । अस्या गुणः । कफवायु-
नाशित्वम् । इति राजवल्लभः ॥

ओषधिः, स्त्री, (ओषो धीयतेऽत्र । ओष + धा +

कि ।) फलपाकान्तवृक्षादिः । कदली धान्यमि-
त्यादिः । इत्यमरः ॥ (यदाह मनुः । १ । ४६ ।
“उद्भिज्जाः स्थावरा ज्ञेया वीजकाण्डाप्ररोहिणः ।
ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः” ॥
तथा, कुमारे १ । १० । “भवन्ति यत्रौषधयो
रजन्याम्” । तथा ७ । १ “अथौषधीनामधिपस्य
वृद्धौ” । “ओषधयः प्रशुष्यन्ति गवादीनां पयां-
सिच । इति हारीते प्रथमस्थाने ॥ ४ अध्याये ॥
“ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने ।
अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः ॥
न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः ।
ओषधीनाम्पराम्प्राप्तिं कश्चिद्वेदितुमर्हति ॥
योगविन्नामरूपज्ञस्तासां तत्त्वविदुच्यते ।
किं पुनर्यो विजानीयादोषधीः सर्व्वथा भिषक् ॥
योगमासान्तु यो विद्याद्देशकालोपपादितम् ।
पुरुषं पुरुषं वीक्ष्य स विज्ञेयो भिषक्तमः” ॥
इति चरके सूत्रस्याने ॥ १ अध्याये ॥)

ओषधिप्रस्थः, पुं, (ओषधिबहुलं प्रस्थं यत्र । ओषधी-

नामाकरत्वात् हिमालयस्य तथात्वम् ।) हिमाल-
यस्य नगरम् । (यथा, कुमारे ६ । ३३ ।
“तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम्” ।
तत्रैव ६ । ३६ । “आसेदुरोषधिप्रस्थम्” इति ।)
तथा, -- कालिकापुराणे ४१ अंध्यायः ।
“एतस्मिन्नन्तरे शम्भुः शिप्रं त्यक्त्वा तदा सरः ।
गङ्गावतारमगमद्धिमवत्प्रस्थमुत्तमम् ॥
यत्र गङ्गा निपतिता पुरा ब्रह्मपुरात् सृता ।
ओषधिप्रस्थनगरस्यादूरे सानुरुत्तमः ॥
तत्र भर्गः स्वमात्मानमक्षरं परमात्परम् ।
एकाग्रं चिन्तयामास भगवान् वृषभध्वजः” ॥

ओषधी, स्त्री, (ओषधि + ङीप् ।) ओषधिः । इति

भरतः ॥ (फलपाकान्तवृक्षः । स च कदली-
धान्यादिः । यथाह मनुः । १ । ४६ ।
“उद्भिज्जाः स्थावराः सर्व्वे वीजकाण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः” ॥
ओषधिशब्देऽस्या विवृतिर्ज्ञेया ॥)

ओषधीपतिः, पुं, (ओषधीनां पतिः ।) चन्द्रः । इति

हेमचन्द्रः ॥ (कर्पूरं । चन्द्रसंज्ञत्वादस्य तथात्वम् ॥)
पृष्ठ १/३०४

ओषधीशः, पुं, (ओषधीनामीशः) चन्द्रः । कर्पूरम् ।

इत्यमरः ॥ (यथा, हरिवंशे ४६ । ८ ।
“ओषधीशः क्रियायोनिरम्भोयोनिरनुष्णभाक्” ॥)

ओष्ठः, पुं, (उष्यते दह्यते उष्णाहारेणेति । उष दाहे

+ “उषिकुषीति” । २ । ४ । थन् ॥)
दन्ताच्छादकावयवः । उपर ठोँट इति भाषा ।
तत्पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्य-
मरः ॥ दन्तवासः ४ दन्तवस्त्रम् ५ रदच्छदः ६
इति राजनिर्घण्टः ॥ तस्य द्विवचने ओष्ठौ ओष्ठा-
धराविति यावत् ॥ (यथा, ऋग्वेदे । २ । ३९ । ६ ।
“ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं
जीवसे नः” । तथा मनुः । ८ । २८२ ।
“अवनिष्ठीवतो दर्पाद्द्वारोष्ठौ च्छेदयेन्नृपः” ॥
तथा, कुमारे ३ । ६७ ।
“उमामुखे विम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि” ॥)

ओष्ठपुष्पः, पुं, (ओष्ठ इव पुष्पं यस्य ।) बन्धूकपुष्प-

वृक्षः । इति राजनिर्घण्टः ॥

ओष्ठरोगः, पुं, (ओष्ठस्य रोगः ।) आस्यरोगान्त-

र्गतोष्ठभवव्याधिः । स च वातपित्तकफसन्निपात-
रक्तमांसमेदोऽभिघातजत्वेनाष्टविधः । तेषां यथा-
क्रमं लक्षणानि यथा, --
“कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ ।
दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ॥
चीयेते पिडकाभिश्च सरुजाभिः समन्ततः ।
सदाहपाकपिडकौ पीताभासौ च पित्ततः ॥
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ ।
भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ॥
सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव च ।
सन्निपातेन विज्ञेयावनेकपिडकाचितौ ॥
खर्ज्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ ।
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥
गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुन्नतौ ।
जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ॥
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू ।
स्वच्छं स्फटिकसङ्काशमास्रावं स्रवतो भृशम् ॥
तयोर्व्रणो न संरोहेन्मृदुत्वञ्च न गच्छति ।
ओष्ठौ पर्य्यवदीर्य्येते पाट्येते चाभिघाततः” ॥
इति निदानम् ॥
(“ओष्ठौ च स्फुटितौ यस्य वातिवाहेन वातिकात् ।
तस्य सर्पिर्म्रक्षणञ्च ओष्ठदारणवारणे ॥
सदाहञ्च भवेत्सौख्यं पैत्तिकं तं विनिर्द्दिशेत् ।
मधुना नवनीतेन ओष्ठयोर्म्रक्षणं मतम् ।
लेपनञ्चौष्ठरोगेषु शर्करासहितं दधि ।
सरक्तमोष्ठरोगञ्च दृष्ट्वा रक्तावसेचनम् ॥
धवार्ज्जुनकदम्बानां प्रलेपः स्यात् सुखावहः” ॥
इति हारीते चिकित्सिते । २५ अध्याये ॥
चिकित्सा यथा ॥
“तत्र खण्डौष्ठ इत्युक्तो वातेनोष्ठो द्विधा कृतः ॥
ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ ।
दाल्येते परिपाट्येते परुषासितकर्क्कशौ ॥
पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ ।
पिटिकाभिर्महाक्लेदावाशुपाकौ कफात्पुनः ॥
शीतासहौ गुरू शूनौ सवर्णपिटिकाचितौ ।
सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छलौ ॥
अकस्मात् म्लानसंशूनरुजौ विषमपाकिनौ ।
रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ॥
खर्ज्जूरसदृशञ्चात्र क्षीणे रक्तेऽर्व्वुदं भवेत् ।
मांसपिण्डोपमौ मांसात्स्यातां मूच्छत्क्रमीक्रमात् ॥
तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदु ।
क्षतजाववदीर्य्येते पाट्येते चासकृत्पुनः ॥
ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ ।
जलवुद्वुदवद्वातकफादोष्ठे जलार्व्वुदम्” ॥
इति वाभटे उत्तरस्थाने । २१ अध्याये ॥
“खण्डोष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत् ।
यष्टी-ज्योतिष्मती-रोध्र-श्रावणी-सारिवोत्पलैः ॥
पटोल्या काकमाच्या च तैलमभ्यञ्जनं पचेत् ।
नस्यञ्च तैलं वातघ्नमधुरस्कन्धसाधितम् ॥
महास्नेहेन वातौष्ठे सिद्धे नाक्तः पिचुर्हितः ।
देवधूपमधूच्छिष्टगुग्गुल्वमरदारुभिः ॥
यट्याह्वचूर्णयुक्तेन तेनैव प्रतिसारणम् ।
नाड्योष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः ॥
खण्डोष्ठंविहितं नस्यं तस्य मूर्द्ध्नि च तर्पणम् ।
पित्ताभिघातजावोष्टौ जलौकोभिरुपाचरेत् ॥
रोध्रसर्जरसक्षौद्रमधुकैः प्रतिसारणम् ।
गुडूची यष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम् ॥
पित्तविद्रधिवच्चात्र क्रियाशोणितजेऽपि च ।
इदमेव भवेत्कार्य्यं कर्म्मौष्ठे तु कफोत्तरे ॥
पाठाक्षारमधुव्योषैर्हतास्रे प्रतिसारणम् ।
धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः ॥
खिन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना ।
प्रियङ्गुरोध्रत्रिफलामाक्षिकैः प्रतिसारयेत् ॥
सक्षौद्राघर्षणम् तीक्ष्णा भिन्नशुद्धे जलार्व्वुदे ।
अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया” ॥
इति च वाभटे उत्तरस्थाने ॥ २२ अध्याये ॥
चिकित्सादिविवृतिस्तुमुखरोगशब्दे द्रष्टव्या ॥)

ओष्ठी, स्त्री, (ओष्ठ इवाचरति पक्वावस्थायाम् ।

ओष्ठ + क्विप् । ततोऽच् + ङीप् च ।) विम्बफलम् ।
इति रत्नमाला ॥ तेलाकुचा इति भाषा ॥

ओष्ठोपमफला, स्त्री, (ओष्ठोपमानि ओष्टसदृशानि

फलानि यस्याः ।) विम्बिका । इति जटाधरः ॥
(तेलाकुचा इति भाषा ॥)

, औकारः । स तु चतुर्द्दशस्वरवर्णः । अस्योच्चारण-

स्थानं ओष्ठः कण्ठश्च । (ओदौतोः कण्ठौष्ठम्” ।
इत्युक्तेः । तथा च शिक्षायाम् ।
“एऐ तु कण्ठ-तालव्यावोऔ कण्ठौष्ठजौ स्मृतौ” ।)
स दीर्घः प्लुतश्च भवति न ह्रस्वः ॥ (प्रत्येकमुदा-
त्तानुदात्तस्वरितभेदात् त्रिविधोऽपि पुनरनु-
नासिकाननुनासिकभेदात् षड्विध एतेन द्वादश-
विध एव ।)
“रक्तविद्युल्लताकारं औकारं कुण्डली स्वयम् ।
अत्र ब्रह्मादयः सर्व्वे तिष्ठन्ति सततं प्रिये ॥
पञ्चप्राणमयं वर्णं सदाशिवमयं सदा ।
सदा ईश्वरसंयुक्तं चतुर्व्वर्गप्रदायकम्” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गभाषायां) तस्य
लेखनप्रकारो यथा, --
“ओकारमध्यदक्षेतु गता तूर्द्ध्वगतायता ।
किञ्चित् सा वामतो वक्रा तासु ब्रह्मेशविष्णवः ॥
शक्तिमध्यगता रेखा ध्यानमस्य प्रचक्ष्यते” ।
इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा,
“औकारः शक्तिको नादस्तेजसो वामजङ्घकः ।
मनुरर्द्धग्रहेशश्च शङ्कुकणः सदाशिवः ॥
अधोदन्तञ्च कण्ठौष्ठौ सङ्कर्षणः सरस्वती ।
आज्ञा चोर्द्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥
अनन्ता ज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः ।
नेत्रमात्मकर्षिणो च ज्वालामालिनिका भृगुः” ॥
इति तन्त्रशास्त्रम् ॥ शेषदशनः । सत्यान्तः ।
इति वीजवर्णाभिधानम् ॥ (मातृकान्यासेऽधो-
दन्तपङ्क्तौ न्यस्यतया तच्छब्देनाप्यभिधानम् ।
मातृकान्यासमन्त्रो यथा, --
ओं नम ऊर्द्ध्वदन्तपङ्क्तौ औं नमोऽधोदन्तपङ्क्तौ” ॥
अनुबन्धविशेषः । यदुक्तं कविकल्पद्रुमे । “ओर्नि-
ष्ठातन औरनिट्” । तेन दृशि रौ प्रेक्षणे इत्यस्य
ऌटि कृते द्रक्ष्यति इति स्यात् ॥)

, व्य, आह्वानम् । सम्बोधनम् । इति मेदिनी ॥

विरोधः । निर्णयः । इति शब्दरत्नावली ॥ (गण-
भेदः । स च चादिः । इति पाणिनिः । १ । ४ । ५७ ॥)

औँ, व्य, शूद्राणां प्रणवः । यथा, --

“चतुर्द्दशस्वरो योऽसौ सेतुरौकारसंज्ञितः ।
स चानुस्वारनादाभ्यां शुद्राणां सेतुरुच्यते” ॥
इति तन्त्रसारधृतकालिकापुराणम् ॥

औः, पुं, अनन्तः । इत्येकाक्षरकोषः ॥ निस्वनः । इति

मेदिनी ॥

औः, स्त्री, विश्वम्भरा । इति मेदिनी ॥

औक्षकं, क्ली, उक्ष्णां समूहः । (“गोत्रोक्षोष्ट्रो-

रभ्रेति” । ४ । २ । ३९ ॥ वुञ् ।) वृषसमूहः । इत्य-
मरः ॥ एँडे गरुर पाल इति भाषा ॥

औख्यं, त्रि, (उखायां निष्पन्नं, उखा + यत् + स्वार्थे

+ ष्यञ् ।) स्थालीपक्वान्नादि ॥ उखायां निष्पन्नम्
इत्यर्थे ष्ण्यप्रत्ययः ॥

औचिती, स्त्री, (उचितस्य भावः । ब्राह्मणादित्वात्

व्यञ् + ङीष् । “हलस्तद्धितस्य” । ६ । ४ । १५० ।
इति यलोपः ॥) औचित्यम् । इति लिङ्गादिसंग्रहे
अमरः ॥
(“सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः” ।
इति साहित्यदर्पणम् ॥)

औचित्यं क्ली, (उचित + ष्यञ् ।) उचितस्य भावः ।

उपयुक्तता । योग्यत्वम् । इत्यमरः ॥
(यथा साहित्यदर्पणे ३ य परिच्छेदे ।
“एता अपि यथौचित्यादुत्तमाधममध्यमाः” ॥)

औडवः, पुं, (औड्वी संख्या विद्यते यस्य स औडवः ।

यद्वा ओडव एव + स्वार्थे अण् ।) ओडवस्वरः ।
स च रागस्य जातिविशेषः । पञ्चस्वरमिश्रित-
पृष्ठ १/३०५
:रागरागिण्य इति यावत् । यथा, --
“औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः ।
सम्पूर्णा सप्तभिः प्रोक्ता रागजातिस्त्रिधा मता” ॥
इति सङ्गीतरत्नाकरः ॥ अपि च । सम्पूर्णस्वराः
ष ऋ ग म प ध नि ॥ षाडवस्वराः निषादो-
ञ्झिताः ष ऋ ग म प ध ॥ ओडवस्वराः ऋ-प-
वर्जिताः ष ग म ध नि ॥ सम्पूर्णरागाः सप्तभिः
स्वरैर्यथा । नटवसन्तादयः । षाडवरागाः षड्भिः
स्वरैर्यथा । सैरिन्ध्रीप्रभृतयः । ओडवरागाः
पञ्चभिः स्वरैर्यथा मल्लारादयः । इति सङ्गीत-
दामोदरः ॥ (तथा च संङ्गीतरत्नाकरे स्वराध्याये
जातिप्रकरणे । ५३ -- ५४ ॥
“वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः ।
पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ॥
ओडवी सास्ति येषाञ्च स्वरास्ते त्वोडवा मताः ।
ते संजाता यत्र गीते तदौडवितमुच्यते ॥
तत्सम्बन्धादौडवञ्च पञ्चस्वरमिद विदुः” ।
“क्रमादल्पाल्पतरते षाडवौडवकारिणोः” ॥)

औडुम्बरं, क्ली, कुष्ठरोगविशेषः । इति मेदिनी ॥

तस्य लक्षणम् ।
“रुग्दाहरागकण्डूभिः परीतं रोमपिञ्जरम् ।
उडुम्बरफलाभासं कुष्ठमौडुम्बरं वदेत्” ॥
इति निदानम् ॥ ताम्रम् । इति जटाधरः ॥
ताम्रपात्रादौ त्रि ॥ (उडुम्बरस्य विकारः । उडुम्बर
+ अण् । उडुम्बरपात्रम् । यज्ञाङ्गवृक्षविकारः ।
यथाह देवलः ।
“गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मखः” ॥)

औडुम्बरः, पुं, चतुर्द्दशयमान्तर्गतयमविशेषः । इति

मेदिनी ॥ मुनिविशेषः । यथा, --
“वैखानसा बालिखिल्यौडुम्बराः फेनपा वने ।
न्यासे कुटीचकः पूर्ब्बं बह्वोदो हंसनिष्क्रियौ” ॥
इति श्रीभागवते ३ । १२ । ४३ । “औडुम्बराः
प्रातरुत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः
फलादिभिर्जीवन्तः” । इति तट्टीकायां स्वामी ॥

औत्कर्ष्यं, क्ली, (उत्कर्षस्य भावः । उत्कर्ष + ष्यञ् ।)

उत्कर्षता ॥

औत्तानपादिः, पुं, (उत्तानपादस्यापत्यम् पुमान् ।

उत्तानपाद + इञ् ।) ध्रुवः । इत्यमरः ॥ स तु
उत्तानपादराजपुत्त्रः । स्वायम्भुवमनुपौत्त्रः ।
(यथा भागवते । ४ । १० । ३० ।
“औत्तानपादे भगवांस्तव शार्ङ्गधन्वा
देवः क्षिणोत्ववनतार्त्तिहरो विपक्षान् ॥
उत्तानपादात् सुरुच्यां जात उत्तमः । इति महा-
भारतम् ॥) ग्रहाणामुपरिस्थितनिश्चलतारा च ॥

औत्सर्गिकः, त्रि, (सामान्यविधिरुत्सर्गस्तस्य भावः ।

उत्सर्ग + ठञ् ।) सामान्यत्वम् । इति स्मार्त्ताः ॥

औत्सुक्यं, क्ली, (उत्सुकस्य भावः । उत्सुक + ष्यञ् ।)

उत्कण्ठा । इति हेमचन्द्रः ॥ (यथा रत्नावली ।
“औत्सुक्त्येन कृतत्वरा सहभुवा व्यावर्त्तमाना
ह्रिया” ॥ “रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना” ।
इति माघे ११ । २६ । तथा मेघदूते पूर्ब्बमेघे ॥ ५ ॥
“इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे” ।
व्यभिचारिभावभेदः ।
यथा साहित्यदर्पणे ३ । १३७ । “औत्सुक्योन्माद-
शङ्काः स्मृतिमतिसहिता व्याधिसन्त्रासलज्जाः” ॥
तल्लक्षणं तत्रैव ३ । १५६ ।
“इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
चित्तताप-त्वरा-स्वेद-दीर्घनिश्वसितादिकृत्” ॥
उदाहरणं यथा तत्रैव ।
“यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपां-
स्तेचोन्मीलितभालतीसुरभयः प्रौढाःकदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते” ॥
इच्छा । यथा, तत्त्वकौमुद्याम् ।
“औत्सुक्यमिच्छा सा च इष्यमाणप्राप्तौ निवर्त्तते
इष्यमाणश्च स्वार्थ इष्टलक्षणत्वात् फलस्य” ॥)

औदनिकः, त्रि, (ओदनं शिल्पमस्य । ओदन + ठञ् ।)

सूपकारः । इत्यमरः ॥

औदरिकः, त्रि, (उदरे प्रसितः । उदर + ठक् ।)

विजिगीषाविवर्ज्जितः । उदरमात्रपूरकः । पेटुक
इति भाषा । तत्पर्य्यायः । आद्यूनः २ । इत्यमरः ॥
(यथा किराते । ११ । ५ श्लोकस्य टीकायां
मल्लिनाथः । “अतएवाद्यून औदरिकः । आद्यूनः
स्यादौदरिके विदिगोषाविवर्ज्जिते । इत्यमरः” ॥)
“विजिगीषाव्यवहारः कश्चित् प्रकर्षो वा आल-
स्यात् तेन विहीनो यः केवलमुदराधीनः” । इति
भरतः ॥ “स्वोदरपूरणाशक्तिनिमित्तकनिन्दात्या-
गेच्छा विजिगीषा तया रहितः” ।
इति रमानाथः ॥

औदश्वितं, क्ली, (उदश्वित् + “उदश्वितोऽन्यत्तर-

स्याम्” । ४ । २ । १९ । इति पक्षे अण् ।) अर्द्ध-
जलयुक्तघोलं । इति हेमचन्द्रः ॥ (उदश्विच्छब्दे
ऽस्य विशेषो ज्ञातव्यः ॥)

औदश्वित्कं, क्ली, (उदश्विति संस्कृतम् । “उदश्वितो-

ऽन्यतरस्याम् ४ । २ । १९ इति ठक् । “इसुसुक्ता-
न्तात् कः” । ७ । ३ । ५१ । इति ठस्य कः ।) अर्द्ध-
जलमिश्रितघोलम् । इति हेमचन्द्रः ॥

औदार्य्यं, क्ली, (उदारस्य भावः । उदार + ष्यञ् ।)

उदारता । इति हेमचन्द्रः ॥ (वाग्गुणभेदः । यथा
किराते १ । ३ ॥ “स सौष्ठवौदार्य्यविशेषशा-
लिनोम्” इति “औदार्य्यं अर्थसम्पत्तिः” इति
मल्लिनाथः ॥ सात्त्विको नायकगुणभेदः । यथा
साहित्यदर्पणे ३ । ५८ ।
“शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी ।
ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः” ॥
तल्लक्षणं यथा तत्रैव ३ । ६३ ।
“दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता” ॥
नायिकालङ्कारभेदः । यथा, तत्रैव ३ । ९४ ।
“यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।
अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः” ॥
शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता ।
औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः” ॥
तल्लक्षणं यथा तत्रैव ३ । १०३ । “औदार्य्यं विनयः
सदा” ॥ अस्य उदाहरणं यथा तत्रैव ।
“न ब्रूते परुषां गिरं वितनुते न भ्रूयुगं भङ्गुरं
नोत्तंसंक्षिपति क्षितौ श्रवणतः सा मेस्फुटेऽप्यागसि
कान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या वहिः
सख्या वक्त्रमभिप्रयच्छति परं पर्य्यश्रुणी लोचने” ॥
मनसो वृत्तिभेदः । यथा पञ्चदशी । १५ । ३ ।
“शान्ता धोरास्तथा मूढा मनसो वृत्तयस्त्रिधा ।
वैराग्यं क्षान्तिरौदार्य्यमित्याद्या घोरवृत्तयः” ॥)

औदास्यं क्ली, (उदास + ष्यञ् ।) उदासस्य भावः ।

वैराग्यम् । अनुरागादिशून्यता । यथा ।
“औदास्यसंविदवलम्बितशून्यमुद्रा-
मस्मिन् दृशोः पतिततामवलोक्य भैम्याः” ।
इत्यादि नैषधम् ॥ “क्षौणीविलिखनहेतोर्वयमपि
कुब्जाः किमौदास्यम्” । इति पद्यावली ॥

औद्दालकं, क्ली, (उद्दालेन कीटेन सञ्चितम् । उद्दाल-

+ अण् + संज्ञायां कन् ।) वल्मीककारिकीट-
निर्म्मितमधु ।
तस्य गुणाः । कषायत्वम् । उष्णत्वम् । कटुत्वम् ।
कुष्ठविषरोगनाशित्वञ्च । इति राजवल्लभः ॥
(अथौद्दालकस्य लक्षणं गुणाश्च यथा ।
“प्रायो वल्मीकमध्यस्थाः कपिलाः स्वल्पकीटकाः ।
कुर्व्वन्ति कपिलं स्वल्पं तत् स्यादौद्दालकं मधु ॥
औद्दालकं रुचिकरं स्वर्य्यं कुष्ठविषापहम् ।
कषायमुष्णमम्लञ्च कटुपाकञ्च पित्तकृत्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
तीर्थविशेषः । यदुक्तं महाभारते ३ । ८४ । १५१ ।
“औद्द्वालकं महाराज तीर्थं मुनिनिषेवितम् ।
तत्राभिषेकं कृत्वा वै सर्व्वपापैः प्रमुच्यते” ॥

औद्धत्यं, क्ली, (उद्धत + ष्यञ् ।) उद्धतस्य भावः ।

यथा । “असूयान्यगुणर्द्धीनामौद्धत्यादराहिष्णुता ।
भ्रूभङ्गदोषसंघोषरक्ताक्षिवैकृतादिकृत्” ॥ इति
साहित्यदर्पणे ३ परिच्छेदः ॥

औद्भिज्जं, क्ली, (उद्भिद् + जन + ड + स्वार्थे अण् ।)

पांशवलवणं । इति राजनिर्घण्टः ॥

औद्भिदं, क्ली, (उद्भिद + स्वार्थेऽण् ।) साम्भरि-

लवणम् । अस्य गुणाः । (यथा सुश्रुते । सूत्रस्थाने
४६ अः ॥
“लघु तीक्ष्णोष्णमुत्क्लेदि सूष्णं वातानुलोमनम् ।
सुतिक्तं कटुसंस्कारं विद्याल्लवणमौद्भिदम्” ॥)
तीक्ष्णत्वम् । उत्क्लेदकारित्वम् । क्षारयुक्तत्वम् ।
कटुत्वम् । तिक्तत्वम् । कोष्ठबद्धतानाहशूलनाशि-
त्वञ्च । इति राजवल्लभः ॥ (अस्य पर्य्यायो गुणाश्च
यथा --
“औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयंः
क्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे । १ भागे ॥
“सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्” ।
इति वाभटे सूत्रस्थाने । ६ अ ॥)
उद्भिदो जातं जलम् । तस्य गुणाः । मधुरत्वम् ।
पित्तशमनत्वम् । अविदाहित्वम् । इति राज-
वल्लभः ॥
(“औद्भिदं पित्तशमनं मधुरं न विदाहि च” ॥
इति वैद्यकचकपाणिकृतहव्यगुणे पाणीयवर्गे ॥
पृष्ठ १/३०६
:अस्य व्याख्यायां शिवदासेनोक्तं यथा ।
“औद्भिदं निम्नप्रदेशादूर्द्ध्वमुत्तिष्ठज्जलम्” ॥
उद्भिदो जातं द्रव्यादि । यथा ॥
“तत् नस्त्रिविधं ज्ञेयं जाङ्गलौद्भिदपार्थिवम्” ।
“भौममौषधमुद्दिष्टमौद्भिदन्तु चतुर्व्विधम् ।
वनस्पतिर्वीरुधश्च वानस्पत्यस्तथौषधिः” ॥
“मूलत्मक्सारनिर्यासनाडस्वरसपल्लवाः ।
क्षाराः क्षीरं फलं पुष्पं भस्मतैलानि कण्टकाः ॥
पत्राणि शुद्धाः कन्दाश्च प्ररोहश्चौद्भिदो गणः” ।
इति चरके सूत्रस्थाने । १ अः ॥)

औद्वाहिकं, क्ली, (उद्वाहसमये लब्धम् । उद्वाह +

ठञ् ।) भार्य्याप्राप्तिकाले लब्धं भार्य्याधनम् । इति
दायभागः ॥ तत् भ्रातृभिरविभाज्यम् । यथा ।
“पितृद्रव्याविनाशेन यदन्यत् स्वयमर्ज्जयेत् ।
मैत्रमौद्वाहिकञ्चैव दायादानां न तद्भवेत् ॥
इति याज्ञवल्क्यः ॥ (यथा च मनुः । ९ । २०६ ।
“विद्याधनन्तु यद्यस्य तत्तस्यैव धनं भवेत् ।
मैत्रमौद्वाहिकञ्चैव माधुपर्किकमेव च” ॥)

औपगवः, पुं, उपगोरपत्यम् । इति भरतः ॥ उप

समीपे गौर्य्यस्य इति उपगुर्गोपः । लक्षणया
तत्पुरोहिते उपगुशब्दः । यथा हारीतः ।
“यं वर्णं याजयेद् यस्तु स तद्वर्णत्वमाप्नुयात्
सद्योवर्षेण वर्षैश्चेत्वेवमेवाब्रवीद्भृगुः” ॥ * ॥ तथाच
लक्षणया ब्राह्मण उपगुपदवाच्यः । तस्यापत्य-
भौपगवः । इति श्रीभागवतटीकायां स्वामी ।
(उपगोरिदमिति व्युत्पत्त्या उपगुसम्बन्धिनि, त्रि-
उपगु + “तस्येदम्” । ४ । ३ । १२० । इत्यण् ॥)

औपगवकं, क्ली, (औपगवानां समूहः । “गोत्रोक्षो-

ष्ट्रेति” । ४ । २ । ३९ । वुञ् ।) औपगवसमूहः ।
इत्यमरः ॥

औपग्रस्तिकः, पुं, (उपग्रस्तं ग्रासकालं भूतः । उप-

ग्रस्त + “तमधीष्टो भृतो भूतो भावी” । ५ । १ ।
इति ठञ् ।) राहुग्रस्तश्चन्द्रः सूर्य्यश्च । इति शब्द-
रत्नावली ॥

औपनिधिकं, क्ली, (उपनिधि + स्वार्थ ठञ् ।)

उपनिधिः । प्रीत्या भोगार्थमथितद्रव्यम् । इति
स्मृतिः ॥

औपम्यं, क्ली, (उपमैव । चतुर्वर्णादित्वात् स्वार्थे ष्यञ् ।)

सादृश्यम् । तत्पर्य्यायः । अनुकारः २ अनुंहारः ३ ।
साम्यम् ४ तुला ५ उपमा ६ कक्षः ७ उपमानम् ८ ।
इति हेमचन्द्रः ॥ (यथा, हितोपदेशे १ । ७३ ॥
“प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ।
आत्मौपम्येन भूतानां दयां कुर्व्वन्ति साधवः” ॥
“औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य
प्रकाशनम् । यथा दण्डेन दण्डकस्य धनुषा धानु-
ष्कस्येष्वासेनारोग्यदस्येति” । इति विमानस्थाने ।
८ अध्याये ॥ चरकेणोक्तम् ॥)

औपयिकः, त्रि, (उपायेन सञ्जातः । उपाय + ठक्

+ ह्रस्वश्च ।) न्याय्यः । उपयुक्तः । इत्यमरः ॥ (यथा,
महाभारते विदुरागमनपर्ब्बणि १ । २०५ । १२ ।
“एतत्तव महाराज तेषु पुत्त्रेषु चैव ह ।
वृत्तमौपयिकं मन्ये भीष्मेण सह मारत” ! ॥
तथा रामायणे २ । ५४ । ३९ ।
“वासमौपयिकं मन्ये तव राम महाबल” ।
स्त्रियां तु ङीप् । यथा महाभारते वैवाहिक-
पर्ब्बणि १ । १९४ । ११ ।
“न वैश्यशूद्रौपयिकीः कथास्ता
न च द्विजानां कथयन्ति वीराः” ॥
स्वार्थे विनयादिभ्यष्ठक्प्रत्यये कृते उपायएव औप-
यिंकम् । यथा भारविः, ३५ ।
“शिवमौपयिकं गरीयसीम्” इति ॥

औपरोधिकः, पुं, (उपरोधः प्रयोजनभस्य । उपरोध

+ ठक् ।) पीलुदण्डः । तत्पर्य्यायः । पैलवः २ ।
इति हेमचन्द्रः ॥ उपरोधसम्बन्धिनि त्रि ॥

औपवस्तं, क्ली, (उपवस्त + प्रज्ञाद्यण् ।) उपवासः ।

इति हेमचन्द्रः ॥

औपसर्गिकः, पुं, (उपसर्ग + ठक् ।) सन्निपातरोग-

विशेषः । तस्य लक्षणम् । यथा, --
“कफोऽनुलोमवातेन यदि पित्तानुगो भवेत् ।
स्वेदशैत्यादिभिर्जुष्टस्तदा भवति मानवः ॥
प्रतिलोमः पुनस्तेन स्वास्थ्यमायाति तत्क्षणात् ।
औपसर्गिक एवान्यः सन्निपात उदाहृतः” ॥
इति वैद्यकम् ॥ उपसर्गसम्बन्धिनि त्रि ॥
(“तत्रौपसर्गिको यः पूर्ब्बोत्पन्नंव्याधिं जघन्यकाल-
जातो व्याधिरुपसृजति स तन्मूलएवोपद्रव-
संज्ञः” । इति सुश्रुते सूत्रस्थाने । ३५ अध्याये ॥
“प्रसङ्गात् गात्रसंस्पर्शान्निश्वासात् सहभोजनात् ।
सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात् ॥
कुष्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव च ।
औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्” ॥
इति च सुश्रुते निदानस्थाने । ५ अध्याये ॥
माधवसंग्रहस्य व्याख्यायां कुष्ठाधिकारे यथा ।
“औपसर्गिकरोगा इति औपसर्गिकाः पापरोगा-
दयो भूतोपसर्गजाः संक्रामन्ति आविशन्ति” ॥)

औपस्थ्यं, क्ली, (उपस्थाद्भवम् । उपस्थ + ष्यञ् ।) उप-

स्थेन्द्रियसुखम् । इति श्रीभागवतम् ॥ (यथा,
तत्रैव ७ । ६ । १३ ।
“औपस्थ्यजैह्व्यं बहु मन्यमानः
कथं विरज्येत दुरन्तमोहः” ॥)

औमीनं, त्रि, (उमानां भवनं क्षेत्रं वा । “विभाषा-

तिलमाषोमेति” । ५ । २ । ४ । पक्षे खञ् ।)
उम्यम् । उमाक्षेत्रम् । इत्यमरटीकायां भरतः ॥
मसिनार क्षेत इति भाषा ॥

औरगं, क्ली, (उरगस्य इदम् । उरग + अण् ।) अश्ले-

षानक्षत्रम् । इति जटाधरः । सर्पसम्बन्धिनि त्रि ॥

औरभ्रः, पुं, (उरभ्रस्य मेषस्य इदम् । उरभ्र + अण् ।)

कम्बलः । तत्पर्य्यायः । उर्णायुः २ आविकः ३
रल्लकः ४ । इति हेमचन्द्रः ॥ (मेषमांसम् । यथा
मनुः । ३ । २६८ ।
“द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै” ॥
मेषदुग्धम् । यथा, --
“औरभ्रं मधुरं रूक्षमुष्णं वातकफापहम् ।
न शस्तं रक्तपित्तानां वातिकानां हितं भवेत्” ॥
इति हारीते प्रथमस्थाने । ८ अध्याये ॥
धन्वन्तरिं प्रति प्रश्नकारकः ऋषिभेदः । यथा
सुश्रुते सूत्रस्थाने १ । “अथ खलु भगवन्तममर-
बरमृषिगणपरिवृतमाश्रमस्थं काशीराजं दिवो-
दासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावत-
करवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” ॥)

औरभ्रकं, क्ली, (उरभ्राणां समूहः । उरभ्र + “गो-

त्रोक्षोष्ट्रोरभ्रेति” । ४ । २ । ३९ । वुञ् ।) मेष-
समूहः । इत्यमरः ॥ भेडार पाल इति भाषा ॥

औरसः, पुं स्त्री, (उरसा निर्म्मितः । उरस् अण् ।)

स्वजातपुत्त्रः । तत्पर्य्यायः । औरस्यः २ । इत्य-
मरः ॥ उरस्यः ३ । इति तट्टीका ॥ द्वादशविध-
पुत्त्रान्तर्गतश्रेष्ठपुत्त्रोऽयम् । स तु सवर्णायां भा-
र्य्यायां म्वयं जनितः । यथा । “सवर्णायां संस्कृतायां
स्वयमुत्पादितमौरसं विद्यात्” । इति बौधायनः ॥
(तथा मनुः । ९ । १६६ ।
“स्वे क्षेत्रे संस्कृतायान्तु स्वयमुत्पादयेद्धि यम् ।
तमौरसं विजानीयात् पुत्त्रं प्रथमकल्पितम्” ॥)
“औरसो धर्म्मपत्नीजः” इत्यादि याज्ञवल्क्यः ॥
२ । १३१ ॥

औरस्यः, पुं स्त्री, (उरसो भवः । उरस् + यत् ।

ततः स्वार्थेऽण् ।) औरसपुत्त्रः । इत्यमरः ॥ (क्ली,
उरसो वक्षस उत्पन्नम् । वक्षोभवम् । यथा शि-
क्षायाम् । १६ ।
“हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम्” ।
औरस्यं तं विजानीयात् कण्ठ्यमाहुरसंयुतम्” ॥)

और्द्ध्वदेहिकं, त्रि, (ऊर्द्ध्वदेहाय भवम् । ऊर्द्ध्वदेह +

ठञ् ।) मृतार्थं तदहर्दानम् । इत्यमरः ॥ यदह्नि
मृतस्तदहःप्रभृति सपिण्डीकरणात् पूर्ब्बं प्रेत-
तृप्तिहेतुकं यत् पिण्डादिदानं तत् । इति भरतः ॥
(पुत्त्रदाराद्यवश्यभर्त्तव्यपीडनेन यत्पारलौकिक-
धर्म्मबुद्ध्या दानादि करोति तस्य दातुर्जीवतो
मृतस्य च तद्दानं दुःखफलं भवति ।
यथा मनुः ११ । १० ।
“वृत्यानामुपरोधेन यत्करोत्यौर्द्ध्वदेहिकम् ।
तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च” ॥
तथा रामायणे २ । ७७ । ३ ।
“दासीर्दासांश्च यानानि वेश्मानि सुमहान्ति च ।
ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्द्ध्वदेहिकम्” ॥
(और्द्ध्वदैहिकम् इत्यपि स्यात् ॥)

और्द्ध्वश्रोतसिकः, त्रिं, (ऊर्द्ध्वश्रोतस् + ठञ् ।) शैवः ।

इति त्रिकाण्डशेषः ॥ (और्द्ध्वस्रोतसिकः । इत्यपि
स्यात् ॥)

और्व्वं, क्ली, (उर्व्व्यां भवम् । उर्व्वी + अण् ।) पांश-

वलवणम् । इति राजनिर्घण्टः ॥

और्व्वः, पुं, (और्व्वात् भृगुवंशीयात् ऋषेर्जातः । और्व्व

+ अण् । और्व्वर्षिक्रोधजत्वात्तथात्वम् ।) वाड-
वानलः । इत्यमरः ॥ स तु भूगोलस्य दक्षिण-
सीमा । तत्र सर्व्वे नरकाः दैत्याश्च वसन्ति । इति
सिद्धान्तशिरोमणिः ॥ स्वनामख्यातो भृगुवंशीय-
ऋषिभेदः । तज्जन्मादिकथा, महाभारते चैत्ररथ-
पर्ब्बणि १७९ अध्याये । उक्ता । यथा, --
पृष्ठ १/३०७
:“ततो भहीतलं तात क्षत्रियेण यदृच्छया ।
खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि ॥
तद्वित्तं ददृशुः सर्व्वे समेताः क्षत्रियर्षभाः ।
अवमन्य ततः क्रोधाद्भृगंस्ताश्छरणागतान् ॥
निजर्घ्नः परमेष्वासाः सर्व्वांस्तान्निशितैः शरैः ।
आगर्भादवकृन्तन्तश्चेरुः सर्व्वां वन्धसुराम् ॥
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा ।
भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे ॥
तासामन्यतमा गर्भं भयाद्दध्रे महौजसम् ।
ऊरुणैकेन वामोरुर्भर्त्तुः कुलविवृद्धये ॥
तद्गर्भमुपलभ्याशु ब्राह्मणी या भयार्द्दिता ।
गत्वैका कथयामास क्षत्रियाणामुपह्वरे ॥
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः ।
ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा” ॥
“अथ गर्भः स भित्त्वोरु ब्राह्मण्या निर्जगाम ह ।
मुष्णन् दृष्टीः क्षत्रियानां मध्याह्नैव भास्करः ॥
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः” ॥
अयमौर्व्वस्तु पितृबधामषात् क्षत्रियबधे कृत-
प्रतिज्ञ उग्रे तपसि वर्त्तमानः पितृभिर्निवारितः ।
ततो वृथाप्रतिज्ञो नाहं भवितुमुत्सहे इति
जातशङ्कः अमोघत्वाच्च क्रोधवह्वेः पितॄनुक्तवान् ।
यथा तत्रैव १८१ अध्याये ।
“यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।
दहेदेष च मामेव निगृहीतः स्वतेजसा ॥
भबताञ्च विजानामि सर्व्वलोकहितेप्सुताम् ।
तस्माद्विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥
पितर ऊचुः ।
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।
अप्सु तं मुञ्च भद्रन्ते लोका ह्यप्सु प्रतिष्ठिताः ॥
आपोमयाः सर्व्वरसाः सर्व्वमापोमयं जगत् ।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥
अयं तिष्ठतु ते विप्र यदिच्छसि महोदधौ ॥
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति ।
नचैवं समरा लोका गमिष्यन्ति पराभवम् ॥
वशिष्ठ उवाच ।
ततश्च क्रोधजं तात और्व्वोऽग्निं वरुणालये ।
उत्ससर्ज्ज स चैवाप उपयुङ्क्ते महोदधौ ॥
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः” ॥)
(उर्व्वस्यापत्यम् ।) पञ्चप्रवरान्तर्गतमुनिविशेषः ।
इति पुराणम् ॥

और्व्वशेयः, पु, (उर्व्वश्याः अपत्यम् । उर्व्वशी + ढक् ।)

अगस्त्यमुनिः । इति हेमचन्द्रः ॥
(अस्य जन्मकथा पुराणेषूक्ता यथा,
“तयोरादित्ययोः सत्रे दृष्ट्वापसरसमुर्व्वशीम् ।
रेतश्चस्कन्द तत् कुम्भे न्यपतद्वाशतीवरे ॥
तेनैव तु मुहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ ।
अगस्त्यश्च वशिष्ठश्च द्वावृषी संबभूवतुः” ॥
उर्व्वशीगर्भजाताः पुरूरवसः सप्त पुत्राः ।
तत्कथा हरिवंशे २५ अध्याये द्रष्टव्या ॥)

औलूकं, क्ली, (उलूकानां समूहः । अञ् ।) उलूक-

समूहः । इति जटाधरः ॥ पेचार झाँक् इति भाषा ॥

औलूक्यः, पुं, (उलूकस्य मुनेरपत्यं पुमान् । उलूक +

गर्गादित्वात् यञ् ।) वैशेषिकः । वैशेषिकदर्शन-
वेत्ता । इति हेमचन्द्रः ॥ (अयं खलु कणाद-
इत्याख्यया प्रसिद्धः ॥)

औशीरं, क्ली, (उश्यते । वश् + ईरन् । प्रज्ञाद्यण् ।

५ । ४३९ । यद्वा उशीरस्येदं “तस्येदम्” । ४ ।
३ । १२० । इत्यण् ।) शयनासनम् । इत्यमरः ॥
शयनं स्वापः शय्या वा आसनं पीठादि । शय-
नासनं समुदिवमिति स्वामी । पृथगिति सुभूतिः ।
इत्यमरटीकायां भरतः ॥ (यथा, महाभारते राज-
धर्म्मानुशासनपर्ब्बणि १२ । ६० । ३१ ।
“छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च ।
यातयामानि देयानि शूद्राय परिचारिणे” ॥)
उशीरजम् । चामरम् । दण्डः । इति हेमचन्द्रः ॥

औशीरः, पुं, (उशीरस्यायम् । उशीर + अण् ।)

चामरदण्डः । इत्यमरः ॥

औषणं, क्ली, (उषण + भावार्थे अण् ।) कटुरसः ।

उषणं मरीचं तस्य भावः ॥

औषधं, क्ली, (ओषधेरिदम् । ओषधिरेव वा “ओ-

षधेरजातौ” ५ । ४ । ३७ । इत्यण् ।) रोगनाशकद्रव्यं ।
ओषधिभवं भवार्थे ष्णप्रत्ययः । तत्पर्य्यायः । भेष-
जम् २ भैषज्यम् ३ अगदः ४ जायुः ५ । इत्यमरः ॥
जैत्रम् ६ आयुर्योगः ७ गदारातिः ८ अमृतम् ९
आयुर्द्रव्यम् १० । इति वैद्यकम् ॥
(“शोधनं शमनञ्चेति समासादौषधं द्विधा ।
शरीरजानां दोषाणां क्रमेण परमौषधम् ॥
वस्तिर्विरेको वमनं तथा तैलं घृतं मधु ।
धीर्धैर्य्यात्मादिविज्ञानं मनोदोषौषधम्परम्” ॥
इति वाभटे सूत्रस्थाने । १ अध्याये ॥
“धन्वसाधारणे देशे समे सन्मृत्तिके शुचौ ।
श्मशानचैत्यायतनश्वभ्रबल्मीकवर्ज्जिते ॥
मृदौ प्रदक्षिणजले कुशरोहिषसंस्मृते ।
अफालकृष्टेऽनाक्रान्ते पादपैर्बलवत्तरैः ॥
शस्यते भेषजं जातं युक्तवर्णरसादिभिः ।
जन्त्वदग्धं दवादग्धमविदग्धञ्च वैकृतैः ॥
भूतैश्छायातपाम्राद्यैर्यथाकालञ्च सेवितम् ।
अवगाढमहामूलमुदीचीं दिशमाश्रितम् ॥
अथ कल्याणचरितः श्राद्धः शुचिरुपोषितः ।
गृह्णीयादौषधं सुस्थं स्थितं काले च कल्पयेत् ॥
सक्षीरं तदसम्पत्तावनतिक्रान्तवत्सरम् ।
ऋते गुडघृतक्षौद्रधान्यकृष्णाविडङ्गतः” ॥
इति तत्रैव कल्पस्थाने । ६ अध्याये ॥
“यथाविधं यथाशस्त्रं यथाग्निरशनिर्यथा ।
तथौषधमविज्ञातं विज्ञातममृतं यथा ॥
औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः ।
विज्ञातमपि दुर्य्युक्तमनर्थायोपपद्यते ॥
योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत् ।
भेषजं वापि दुर्य्युक्तं तीक्ष्णं सम्पद्यते विषम् ॥
तस्मान्न भिषजा युक्तं युक्तिवाह्येन भेषजम् ।
धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा ॥
कुर्य्यान्निपतितो मूर्द्ध्नि सशेषं वासवाशनिः ।
सशेषमातुरं कुर्य्यान्नत्वज्ञमतमौषधम् ॥
तदेव युक्तं भैषज्यं यदारोग्याय कल्पते ।
स एव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्” ॥
इति चरके सूत्रस्थाने । १ अध्याये ॥
“करणं पुनर्भेषजम् । भेषजं नाम तद्यदुपकर-
णायोपकल्पते भिषजो धातुसाम्याभिनिर्वृर्त्तौ
प्रयतमानस्य विशेषतश्चोपायात्तेभ्यः तद्द्विविधं
व्यापाश्रयभेदात् । दैवव्यपाश्रयं युक्तिव्यपाश्रयञ्च ।
तत्र दैवव्यपाश्रयं मन्त्रौषधमणिमङ्गलबल्युपहार-
होमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातग-
मनादि । युक्तिव्यपाश्रयं संशोधनोपशमने चेष्टाश्च
दृष्टफलाः एतच्चैव भेषजमङ्गभेदादपि द्विविधं ।
द्रव्यभूतमद्रव्यभूतञ्च । तत्र यद्द्रव्यभूतं तदुपायाभि-
प्लुतम् । उपायो नाम भयदर्शन-विस्मापन-क्षोभ-
ण-हर्षण-भर्त्सन-बध-बन्ध-स्वप्न-संवाहनादिरमूर्त्तो
भावः यथोक्ताः सिद्ध्युपायाश्च । यत्तु द्रव्यभूतं
तद्वमनादिषु योगमुपैति ।
तस्यापीयं परीक्षा इदमेवं प्रकृत्या एवंगुणमेवं
प्रभावमस्मिन् देशे जातमस्मिन्नृतौ एवं गृहीत-
मेवं निहितमेवमुपस्कृतमनया मात्रया युक्तमस्मिन्
ऋतौ एवंविधस्य पुरुषस्यैतावन्तन्दोषमपकर्षयति
उपशमयति वा अन्यदपि चैवंविधं भेषजमभूच्चा-
नेनानेन वा विशेषेण युक्तमिति” । इति च तत्रव
विमानस्थाने ८ अध्याये ॥
पर्य्यायानाह चरकश्चिकित्सास्थाने । १ अः ।
“चिकित्सितं व्याधिहरं पथ्यं साधनमौषधम् ।
प्रायश्चित्तं प्रशमनं प्रकृतिस्थापनं हितम् ॥
विद्याद्भेषजनामानि भेषजं द्विविधञ्च तत् ।
स्वस्थस्यौजस्करं किञ्चित्किञ्चिदार्त्तस्य रोगनुत् ॥
अभेषजञ्च द्विविधं बाधनं सानुबाधनम्” ।
तथा, सुश्रुते सूत्रस्थाने ३७ अध्याये यथा, --
“श्वतभ्रशर्कराश्मविषमवल्मीकश्मशानाद्यतनदे-
वतायतनसिकताभिरनुपहतामनूषरामभङ्गुराम-
दूरादेकां स्निग्धां प्ररोहवतीं मृद्वीं स्थिरां समां
कृष्णां गौरीं लोहितां वा भूमिमौषधार्थं परी-
क्षेत तस्यां जातमपि कृमि-विष-शस्त्रातप-पवन-
दहन-तोयसम्बाध-मार्गैरनुपहतमेकरसं पुष्टं पृथ्व-
वगाढमूलमुदीच्यां चौषधमाददीतेत्यौषधभूमिप-
रीक्षाविशेषसामान्यं ॥
विशेषस्तु । तत्राश्मवती स्थिरा गुर्व्वी श्यामा
कृष्णा वा स्थूलवृक्षशस्यप्राया स्वगुणभूयिष्ठा ॥
स्निग्धा शीतला सन्नोदकास्निग्धशस्यतृणकोमलवृ-
क्षप्राया शुक्लाम्बुगुणभूयिष्ठा ॥ नानावर्णा लघ्वश्म-
वती प्रविरलाल्पपाण्डुवृक्षप्ररोहाग्निगुणभूयिष्ठा ॥
रूक्षा भस्मरासभवर्णा तनुरूक्षकोटराल्परसवृक्ष-
प्रायाऽनिलगुणभूयिष्ठा ॥ मृद्वी समा श्वभ्रवत्यव्यक्त-
रसजला सर्व्वतोऽसारवृक्षा महापर्ब्बतवृक्ष-
प्राया श्यामा चाकाशगुणभूयिष्ठा ॥
तत्र केचिदाहुराचार्य्याः । प्रावृट्-वर्षा-शर-
द्धेमन्त-वसन्त-ग्रीष्मेषु यथासङ्ख्यं मूल-पत्र-त्वक्-
क्षीरसार-फलान्यांददीतेति तत्तु न सम्यक् कस्मात्
सौम्याग्नेयत्वाज्जगतः । सौम्यान्यौषधानि सौम्येषु
ऋतुषु आददीताग्नेयान्याग्नेयेष्वेवमव्यापन्नगुणानि
पृष्ठ १/३०८
:भवन्ति ॥ सौम्यान्यौषधानि सौम्येषु ऋतुषु मृही-
तानि सोमगुणभूयिष्ठायां भूमौ जातान्यति-
मधुरखिग्वशीतानि जायन्ते । एतेन शेषं व्या-
ख्यातम् ॥
तत्र पृथिव्यम्बुगुणभूयिष्ठायां भूमौ जातानि
विरेचनद्रव्याण्याददीताग्न्याकाशमारुतगुणभूयि-
ष्ठायां वमनद्रव्याणि । उभयगुणभूयिष्ठायामुभयतो
भागानि । आकाशगुणभूयिष्ठायां संशमनान्येवं
बलवत्तराणि भवन्ति । सर्व्वाण्येव चाभिनवान्यन्यत्र
मधु-घृत-गुड-पिप्पली-विडङ्गेभ्यः । सर्व्वाण्येव स-
क्षीराणि वीर्य्यवन्ति तेषामसम्पत्तावनतिक्रान्त-
संवत्सराण्याददीतेति” ॥)
नानारोगहरौषधादिर्यथा । रुद्र उवाच ।
“एवं धन्वन्तरिर्विष्णुः सुश्रुतादीनुवाच ह ।
हरिः पुनर्हरायाह नानारोगान् रुगर्द्दनान्” ॥
हरिरुवाच ।
सर्व्वज्वरेषु प्रथमं कार्य्यं शङ्कर ! लङ्घनम् ।
क्वथितोदकपानञ्च तथा निर्व्वातसेवनम् ॥
अग्निस्वेदो ज्वरास्त्वेवं नाशमायान्ति हीश्वर ! ।
वातज्वरहरः क्वाथो गुडूच्या मुस्तकेन च ॥
दुरालभयैव कृतं पित्तज्वरहरं शृणु ।
शुण्ठीपर्पटमुस्तैश्च बालकोशीरचन्दनैः ॥
साज्यः क्वाथः श्लेष्मजन्तु सशुण्ठिः सदुरालभः ।
सबालकः सर्व्वज्वरं सशुण्ठिः सहपर्पटः ॥
किराततिक्तकैर्वापि गुडूचीशुण्ठितिक्तकैः ।
पित्तज्वरहरः स्याच्च शृण्वन्यं योगमुत्तमम् ॥
वालकोशीरपाठाभिः कण्टकारिकमुस्तकैः ।
ज्वरनुच्च कृतक्वाथस्तथा वै सुरदारुणा ॥
धन्याकनिम्बमुस्तानां समधुः स च शङ्कर ! ।
पटोलपत्रयुक्तश्च गुडूचीत्रिफलायुतः ॥
पीतोऽखिलज्वरहरः क्षुधाकृद्वातनुत्त्विदम् ।
हरीतकीपिप्पलीनामामलीचित्रकोद्भवम् ॥
चूर्णं जलञ्च क्वथितं धन्याकोशीरपर्पटैः ।
आमलक्या गुडूच्या च मधुयुक्तं सचन्दनम् ॥
समस्तज्वरनुत् स्याच्च सन्निपातहरं शृणु ।
हरिद्रानिम्बत्रिफलामुस्तकैर्देवदारुणा ॥
कषायं कटुरोहिण्या सपटोलं सपत्रकम् ।
त्रिदोषज्वरनुत् स्याच्च पीतन्तु क्वथितं जलम् ॥
कण्टकारिनागरेण गुडूच्या पुष्करेण च ।
जग्ध्वा नागबलाचूर्णं श्वासकासादिनुद्भवेत् ॥
कफवातज्वरे देयं जलमुष्णं पिपासिने ।
मण्डो वा मुद्गयूषं वा शाल्यन्नं वाथ यूषवत् ॥
ज्वरार्त्तमानुषे देयं ज्वरहानिस्तदा भवेत् ।
विश्वपर्पटकोशीरघनचन्दनसाधितम् ॥
दद्यात् सुशीतलं वारि तृट्छर्दिज्वरदाहनुत् ।
विल्वादिपञ्चमूलस्य क्वाथः स्याद्वातिके ज्वरे ॥
पाचनं पिप्पलीमूलं गुडूचीविश्वभेषजम् ।
वातज्वरे त्वयं क्वाथो दत्तः शान्तिकरः परः ॥
पित्तज्वरनुत् समधुः क्वाथः पर्पटनिम्बयोः ।
विधाने क्रियमाणेऽपि यस्य संज्ञा न जायते ॥
पादयोस्तु ललाटे वा दहेल्लोहशलाकया ।
तिक्ता पाठा पटोलश्च विशाला त्रिफला त्रिवृत् ॥
सक्षीरो भेदनः क्वाथः सर्व्वज्वरविशोधनः” ॥
इति गारुडे १७९ अध्यायः ॥ * ॥
भगवानुवाच ।
“सप्तरात्रात् प्रजायन्ते खल्वीटस्य कचाः शुभाः ।
दग्धहस्तिदन्तलेपात् साजाक्षीररसाञ्जनात् ॥
भृङ्गराजरसेनैव चतुर्भागेण साधितम् ।
केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च ॥
एला मांसी कुष्ठमुरायुक्तमभ्यङ्गतः शिव ! ।
गुञ्जाफलं ममाप्यैव लेपनं चेन्द्रलुप्तनुत् ॥
आम्रास्थिचूर्णलेपाद्धि केशाः सूक्ष्मा भवन्ति वै ।
बद्धमूला घना दीर्घाः स्निग्धाः स्युर्नोत्पतन्ति च ॥
विडङ्गगन्धपाषाणसाधितं तैलमुत्तमम् ।
सचतुर्गुणगोमूत्रं समनःशिलमेव च ॥
शिरोऽभ्यङ्गाच्छिरोजन्मयूकालिख्याक्षयं नयेत् ।
नवदग्धशङ्खचूर्णघृष्टसीसकलेपिताः ॥
कचाः श्लक्ष्णा महाकृष्णा भवन्ति वृषभध्वज ! ।
भृङ्गराजं लोहचूर्णं त्रिफला वीजपूरकम् ॥
नीली च करवीरञ्च गुडमेतैः समैः शृतम् ।
पलितानीह कृष्णानि कुर्य्याल्लेपान्महौषधम् ॥
आम्रास्थिमज्जा त्रिफला नीली च भृङ्गराजकम् ॥
जीर्णं पक्वलौहचूर्णं काञ्जिकं कृष्णकेशकृत् ॥
चक्रमर्दकवीजानि कुष्ठमेरण्डमूलकम् ।
अत्युष्णकांञ्जिकं पिष्ट्वा लेपान्मस्तकरोगनुत् ॥
सैन्धवञ्च वचा हिङ्गु कुष्ठं नागेश्वरं तथा ।
शतपुष्पा देवदारु एभिस्तैलन्तु साधितम् ॥
गोपुरीषरसेनैव चतुर्भागेण संयुतम् ।
तत्कर्णभरणाद्रुद्र ! कर्णशूलं क्षयं नयेत् ॥
मेषमूत्रसैन्धवाभ्यां कर्णयोर्भरणात् शिव ! ।
कर्णयोः पूतिनाशः स्यात् कृमिस्रावादिकस्य च ॥
मालतीपुष्पदलयो रसेन भरणात् तथा ।
गोजलेनैव पूरेण कर्णस्रावो विनश्यति ॥
कुष्ठमाषमरीचानि तगरं मधु पिप्पली ।
अपामार्गोऽश्वगन्धा च वृहती सितसर्षपाः ॥
यवास्तिलाः सैन्धवञ्च पादिकोद्वर्त्तनं शुभम् ।
लिङ्गबाहुस्तनानाञ्च कर्णयोरृद्धिकृद्भवेत् ॥
कटुतैलं भल्लातकं वृहतीफलदाडिमम् ।
वल्कलैः साधितं लिप्तं लिङ्गं तेन विवर्द्धते” ॥
इति गारुडे १८० अध्यायः ॥ * ॥
हरिरुवाच ।
“शोभाञ्जनपत्ररसं मधुयुक्तं हि चक्षुषोः ।
भरणाद्रोगहरणं भवेन्नास्त्यत्र संशयः ॥
अशीतितिलपुष्पाणि जात्याश्च कुसुमानि च ।
भया निम्बामला शुण्ठी पिप्पली तण्डुलीयकम् ॥
छायाशुष्कां वटिं कुर्य्यात् पिष्ट्वा तण्डुलवारिणा ।
मधुना सह सा चाक्ष्णोरञ्जनात्तिमिरादिनुत् ॥
विभीतकास्थिमज्जा तु शङ्खनाभिर्मनःशिला ।
निम्बपत्रमरीचानि अजामूत्रेण पेषयेत् ॥
पुष्पं रात्र्यन्धतां हन्ति तिमिरं पटलं तथा ।
चतुर्भांगाणि शङ्खस्य तदर्द्धेन मनःशिला ॥
सैन्धवञ्च तदर्द्धेन एतत् पिष्टोदकेन तु ।
छायाशुष्कान्तु वटिकां कृत्वा नयनमञ्जयेत् ॥
तिमिरं पटलं हन्ति पिटकस्य महौषधम् ।
त्रिकटु त्रिफला चैव करञ्जस्य फलानि च ॥
सैन्धवं रजनी द्वे च भृङ्गराजरसेन हि ।
पिष्ट्वा तदञ्जनादेव तिमिरादिविनाशनम् ॥
अटरूषकमूलन्तु काञ्जिकापिष्टमेव च ।
तेनाक्षिभूरिलेपाच्च चक्षुःशूलं विनश्यति ॥
सतक्रं वदरीमूलं पीतमक्षिव्यथां हरेत् ।
सैन्धवं कटुतैलञ्च अपामार्गस्य मूलकम् ॥
क्षीरकाञ्जिकसंघृष्टं ताम्रपात्रे च तेन च ।
अञ्जनात् पिटकस्यैव नाशो भवति शङ्कर ! ॥
विल्वनीलीकारमूलं पिष्टमश्वजलेन च ।
अनेनाञ्जितमात्रेण नश्यन्ति तिमिराणि हि ।
पिप्पलीकतकञ्चैव हरिद्रामलकं वचा ।
खदिरपिष्टवर्त्तिश्च अञ्जनं नेत्ररोगनुत् ॥
नीरपूर्णमुखो धौति वृहद्घातेन योऽक्षिणी ।
प्रभाते नेत्ररोगैश्च नित्यं सर्व्वैः प्रमुच्यते ॥
शुक्लैरण्डस्य मूलेन पत्रेणापि प्रसाधितम् ।
छागदुग्धं सेकयुक्तं चक्षुषोर्वातरोगनुत् ॥
चन्दनं सैन्धवं वृद्धपलाशश्च हरीतकी ।
पटोलकुसुमं नीली चक्रिका हरतेऽञ्जनात् ॥
गञ्जामूलं छागमूत्रघृष्टं तिमिरनुच्च तत् ।
रौप्यताम्रसुवर्णानां हस्तघृष्टं शलाकया ॥
घृतं तद्वमनं रुद्र ! कामलाव्याधिनाशनम् ।
घोषाफलमथाघ्रातं पीतं कामलनाशनम् ॥
दूर्व्वादाडिमपुष्पन्तु अलक्तकहरीतकी ।
नासाशिंरारक्तनुत् स्यान्नस्याद्वै स्वरसेन हि ॥
सुपिष्टं जिङ्गिनीमूलं तद्रसेन वृषध्वज ! ।
नस्यदानाद्विनश्येत नासार्शो नीललोहित ! ॥
गव्यं घृतं सर्ज्जरसं रुद्र ! धन्याकसैन्धवम् ।
धुस्तूरकं गैरिकञ्च एतैः साधितसिक्थकम् ॥
सतैलं व्रणनुत् स्याच्च स्फुटितोच्चटितोधरे ।
जातीपत्रञ्च चर्व्वित्वा विधृतं मुखरोगनुत् ॥
भक्ष्यात् केशरवीजस्य दन्ताः स्युश्चलिताः स्थिराः
मुस्तकं कुष्ठमेला च यष्टीमधुकबालुकम् ॥
धन्याकमेतददनान्मुखदुर्गन्धनुत् हर ! ।
कषायं कटुकं वापि तिक्तं वै तस्य भक्षणात् ॥
तैलयुक्तस्य नित्यं स्यात् मुखदुर्गन्धताक्षयः ।
दन्तव्रणानि सर्व्वाणि क्षयं गच्छन्त्यनेन तु ॥
काञ्जिकस्य सतैलस्य गण्डूषकवलास्थितिः ।
ताम्बूलचूर्णदग्धस्य मुखस्य व्याधिनुच्छिव ! ॥
परित्यक्तः श्लेष्मगणः शुण्ठीचर्वणतो यथा ।
मातुलुङ्गदलान्येला यष्टीमधु च पिप्पली ॥
जातीपत्रमथैषाञ्च चूर्णं लीढं तथा कृतम् ।
शेफालिकाजटायाश्च चर्वणं गलगुण्ठिनुत् ॥
नासाशिरारक्तकर्षान्नश्येत् शङ्कर ! जिह्विका ।
रसः शिरीषवीजानां हलदस्य चतुर्गुणः ॥
तेन पक्वेन भूतेश ! नस्यं मस्तकरोगनुत् ।
गलरोगा विनश्यन्ति नस्यमात्रेण तत्क्षणात् ॥
दन्तकीटविनाशः स्यात् गुञ्जामूलस्य चर्व्वणात् ।
काकजङ्घा स्नुही नीली कषायाम्रकमूलकम् ॥
दन्ताक्रान्तं दन्तजांश्च क्रिमीन्नाशयते शिव ! ।
घृतं कर्कटपादेन दुग्धोन्मिश्रेण साधितम् ॥
तेन चाभ्यङ्गिता दन्ताः कुर्य्युः कटकटान्नहि ।
पृष्ठ १/३०९
:लिप्ताः कर्कटपादेन केवलेनाथ वा द्विजाः ॥
त्रिसप्ताहं वारिपिष्टा ज्योतिष्मत्याः फलस्य हि ।
मज्जाभया च शुक्रस्य लेपादङ्गकलङ्कनुत् ॥
लोध्रकुङ्कुममञ्जिष्ठा लोहकालीयकानि च ।
यवतण्डु लमेतैश्च यष्टीमधुसमन्वितैः ॥
वारिपिष्टैर्वक्त्रलेपः स्त्रीणां शोभनवक्त्रकृत् ।
द्विभागच्छागदुग्धेन तैलप्रस्तन्तु साधितम् ॥
रक्तचन्दनमञ्जिष्ठालाक्षाणां कर्षकेण वा ।
यष्टीमधुकुङ्कुमाभ्यां सप्ताहान्मुखकान्तिकृंत् ॥
शुण्ठी च पिप्पलीचूर्णं गुडूची कण्ठकारिका ।
एभिश्च क्वथितं वारि पीतञ्चाग्निं करोति वै ॥
वातशूलक्षयञ्चैव सुरयक्षमखेश्वर ! ।
करञ्जपर्पटोशीरं वृंहती कटुरोहिणी ॥
गोक्षुरं क्वथितं त्वेभिर्वारि पीतं श्रमापहम् ।
दाहपित्तज्वरं शोषं मूर्च्छाञ्चैव क्षयं नयेत् ॥
मध्वाज्यपिप्पलीचूर्णं क्वथितं क्षीरसंयुतम् ।
पीतं हृद्रोगकासस्य विषमज्वरनुद्भवेत् ॥
क्वाथौषधीनां सर्व्वासां कर्षार्द्धं ग्राह्यमेव च ।
क्योऽनुरूपतो ज्ञेयो विशेषो वृषभध्वज ! ॥
दुग्धं पीतन्तु संयुक्तं गोपुरीषरसेन च ।
विषमज्वरनुत् स्याच्च काकजंघारसस्तथा ॥
सशुण्ठीक्वथितं क्षीरमजाया ज्वरनुद्भवेत् ।
यष्टीमधु मुस्तकञ्च सैन्धवं वृहतीफलम् ॥
एतैर्नस्यप्रदानाच्च निद्रा स्यात् पुरुषस्य च ।
मरीचमधुशुण्ठीनां नस्यान्निद्रा भवेच्छिव ! ॥
मूलन्तु काकजङ्घाया निद्राकृत् स्यात् शिरःस्थितम् ।
सिद्धं तैलं काञ्जिकेन तथा सर्ज्जरसेन च ॥
शीतोदकसमायुक्तं लेपात् सन्तापनाशनम् ।
शोणितज्वरदाहेभ्यो जातसन्तापनुत्तथा ॥
शूकशैवालमन्थाश्च शुण्ठीपाषाणभेदकम् ।
शोभाञ्जनं गोक्षुरं वा वरुणच्छदमेव च ॥
शोभाञ्जनस्य मूलञ्च एतैः क्वथितवारि च ।
दत्त्वा हिङ्गु यवक्षारं पीतं वातविनाशनम् ॥
पिप्पली पिप्पलीमूलं तथा भल्लातकं शिव ! ।
वार्य्येतैः क्वथितं पीतं वरशूलापसारकृत् ॥
अश्वगन्धामूलकाभ्यां सिद्धा वल्मीकमृत्तिका ।
एतया मर्द्दनात् रुद्र ! उरुस्तम्भः प्रशाम्यति ॥
वृहतीकस्य वै मूलं संपिष्टमुदकेन च ।
पीतं झिज्झिनिवातस्य विपाटनकृदेव च ॥
पीतं तक्रेण मूलं च आर्द्रस्य तगरस्य च ।
हरेत् झिज्झिनिवातं वै वृक्षमिन्द्राशनिर्यथा ॥
अस्थिसंहारमेकेन भक्तेन सह खादितम् ।
पीतं मांसरसेनापि वातनुच्चास्थिभङ्गहृत् ॥
घृतलिप्तं शक्तुकञ्च छागक्षीरेण संयुतम् ।
तल्लेपात् पादयोर्न्नश्येत् सन्तापो नात्र संशयः ॥
मध्वाज्यं सैन्धवं सिक्थं गुडगैरिकगुग्गुलैः ।
ससर्ज्जरसः स्फुटितः कोमलोऽङिघ्रश्च लेपनात् ॥
कटुतैलेन लिप्तो व विध्रमाग्नौ प्रतापितः ।
मृत्तिकाखादितः पादः समः स्याद्वृषभध्वज ! ॥
सर्ज्जरसः सिक्थकञ्च जीरकञ्च हरीतकी ।
तत्साधितघृताभ्यङ्गो ह्यग्निदग्धव्यथापनुत् ॥
तिलतैलञ्चाग्निदग्धयवभस्मसमन्वितम् ।
अग्निदग्धं व्रणं नश्येद्बहुशः कृतलेपतः ॥
नवनीतं माहिषञ्च दुग्धपिष्टतिलानि च ।
भल्लातकव्रणं नश्येत् हृच्छल्यं तस्य लेपतः ॥
शरपुङ्खा लज्जालुका पाठा चैषान्तु मूलकम् ।
जलपिष्टं तस्य लेपात् शस्त्राघातः प्रशाम्यति ॥
मूलञ्च काकजङ्घायास्त्रिरात्रेणैव शेषतः ।
पाकपूतिवेदनाञ्च हन्ति वै रोहिते व्रणे ॥
सजलं तिलतैलञ्च अपामार्गस्य मूलकम् ।
तत्सेकदानान्नश्येत प्रहारोद्भववेदना ॥
अभया सैन्धवं शुण्ठिरेतत् पिष्ट्वोदकेन तु ।
भक्षयित्वा ह्यजीर्णस्य नाशो भवति शङ्कर ! ॥
कटिबद्धं निम्बमूलमक्षिशूलहरं भवेत् ।
शणमूलं सताम्बूलं पीतमिन्द्रियकम्पहृत् ॥
अन्नसिद्धं हरिद्रा च श्वेतसर्षपमूलकम् ।
वीजानि मङ्गलदिने एषामुद्वर्त्तनं समम् ॥
सप्तरात्रप्रयोगेण शुभदेहकरं भवेत् ।
श्वेतापराजितापत्रं निम्बपत्ररसेन तु ॥
नस्यदानात् डाकिनीनां मातॄणां ब्रह्मरक्षसाम् ।
मोक्षः स्यान्मधुसारेण नस्याच्च वृषभध्वज ! ॥
मूलं श्वेतजयन्त्याश्च पुष्यर्क्षे तु समाहृतम् ।
श्वेतापराजितार्कस्य तथा चित्रस्य मूलकम् ॥
कृत्वा तु वटिकां नारी तिलकेन वशी भवेत् ॥
पिप्पली लोहचूर्णन्तु शुण्ठिश्चामलकानि च ।
समानि रुद्र ! जानीयात् सैन्धवं मधु शर्करा ॥
उदुम्बरप्रमाणेन सप्ताहं भक्षणात् समम् ।
पुमांश्च बलवान् स्याच्च जीवेद्वर्षशतद्वयम् ॥
ॐ ठ ठ ठ इति ।
सर्व्ववश्यप्रयोगेषु प्रयुक्तः सर्व्वकामकृत् ॥
संगृह्य वृक्षात् काकस्य निलयं प्रदहेच्च तत् ।
चिताग्नौ भस्म तच्छत्रोर्दत्तं शिरसि शङ्कर ! ॥
तमुच्चाटयते रुद्र ! शृणु तं योगमुत्तमम् ।
निक्षिप्तञ्च पुरीषं वै वनमूषिकचर्म्मणि ॥
कट्यां तन्तु निबद्धं वै कुर्य्यान्मलनिरोधनम् ।
कृष्णकाकस्य रक्तेन यस्य नाम प्रलिख्यते ॥
चूतदलेऽमेध्यमध्ये ततो निक्षिप्यते हर ! ।
स खाद्यते काकवृन्दैर्नारी पुरुष एव वा ॥
शर्क्करा मध्वजाक्षीरं तिलगोक्षुरकं समम् ।
पाण्डुत्वं नाशयेद्रुद्र ! आस्वादितमिदं हर ! ॥
उलूककृष्णकाकस्य चिल्लस्याथ समिच्छतस् ।
रुधिरेण समायुक्तं ययोर्नाम्ना च हूयते ॥
तयोर्द्वयोर्महावैरं भवेन्नास्त्यत्र संशयः ।
भावितं ऋक्षदुग्धेन रोहितस्य शशस्य च ॥
मांसं तत्साधितं तैलं तदभ्यङ्गश्च रोगनुत् ।
चन्दनोदकनस्यात्तु रोमोत्थानं भवेत् पुनः ॥
हस्ते लाङ्गलिकाकन्दं गृहीतं तेन लेपितम् ।
शरीरं येन स पुमान् बुद्धेर्दर्पं व्यपोहति ॥
पराक्रमेण युक्तस्य शूरस्य पुरुषस्य हि ।
वर्त्तिर्य्यस्य पुरीषेण कृतगर्भा तु भाविता ॥
मयूररुधिरेणैव जीवमाहरते शिव ! ।
ज्वरितानां भुजङ्गानां विलस्थानामपीश्वर ! ॥
देहश्चिताग्नौ दग्धस्तु सर्पस्याजगरस्य हि ।
तद्भस्म सम्मखे क्षिप्तं शत्रूणां भङ्गकृद्भवेत् ॥
मन्त्रेणानेन तत् क्षिप्तं महाभङ्गकरं रिपोः ।
ॐ ठ ठ ठ ठाही ठाही ठाही स्वाहा ।
ॐ उदरः पाही पाही स्वाहा ॥
सुदर्शनाया मूलन्तु पुष्यर्क्षे तु समाहृतम् ।
निःक्षिप्तं गृहमध्ये तु भुजङ्गा वर्जयन्ति तम् ॥
मार्ज्जारपललं विष्ठा हरितालञ्च भावितम् ।
छागमूत्रेण तल्लिप्तो मूषिको मूषिकान् हरेत् ॥
युक्तो हि मन्दिरे रुद्र ! नात्र कार्य्या विचारणा ।
त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् ॥
लाक्षा सर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः ।
एतैर्धूपो मक्षिकाणां मशकानां विनाशनः” ॥
इति गारुडे १८१ अध्यायः ॥ * ॥
हरिरुवाच ।
“ब्रह्मदण्डी वचा कुष्ठं प्रियङ्गुर्नागकेशरम् ।
दद्यात्ताम्बूलसंयुक्तं स्त्रीणां मन्त्रेण तद्वशम् ॥
ॐ नारायणायेति स्वाहा ।
ताम्बूलं यस्य दीयेत स वशी स्यात् समन्त्रतः ।
ॐ हरि हरि स्वाहा ॥
गोदन्तहरितालञ्च संयुक्तं काकजिह्वया ।
चूर्णं कृत्वा यस्य शिरे दीयते स वशी भवेत् ॥
श्वेतसर्षपनिर्म्माल्यं यद्गृहे तद्विचालकृत् ।
वैभीतकं शाखोटकं मूलं पत्रञ्च संयुतम् ॥
स्थाप्यते यद्गृहद्वारे तत्र वै कलहो भवेत् ॥
खञ्जरीटस्य मांसन्तु मधुना सह पेषयेत् ।
ऋतुकाले योनिलेपात् पुरुषो दासतामियात् ॥
अगुरु गुग्गुलुञ्चैव नीलोत्पलसमन्वितम् ।
गुडेन धूपयित्वा तु राजद्वारे प्रियो भवेत् ॥
श्वेतापराजितामूलं पिष्टं रोचनया युतम् ।
यं पश्येत्तिलकेनैव वशी कुर्य्यान्नृपालये ॥
काकजिह्वा वचा कुष्ठं निम्बपत्रं सकुङ्कुमम् ।
आत्मरक्तं सभावेयं वशी भवति मानवः ॥
आरण्यस्य विडालस्य गृहीत्वा रुधिरं शुभम् ।
करञ्जतैले तद्भाव्य रुद्राग्नेः कञ्ज्वलं ततः ॥
पातयेत् पद्मसूत्रेण अदृश्यः स्यात् तदञ्जनात् ॥
ॐ नमः खड्गवज्रपाणये महायक्षसेनापतये
स्वाहा । ॐ वक्र ह्रीं ह्रीं वरसंयुक्ता त्वरिता
विद्या ॐ मातश्चौरं स्तम्भय स्वाहा ।
सहस्रं परिजप्या तु विद्येयं चौरवारिणी ।
महासुगन्धिकामूलं शुक्रं स्तम्भेत् क्रटौ स्थितम् ॥
ॐ नमः सर्व्वसत्त्वेभ्यो नमः सिद्धिं कुरु कुरु
स्वाहा ।
सप्ताभिमन्त्रितं कृत्वा करवीरस्य पुष्पकम् ।
स्त्रीणामग्रे भ्रामयेच्च क्षणाद्वै सा वशा भवेत् ॥
ब्रह्मदण्डी वचा पत्रं मधुना सह पेषयेत् ।
अङ्गलेपाच्च वनिता नान्यं भर्त्तारमिच्छति ॥
पुत्त्रदण्डीशिफा वक्त्रे क्षिप्ता शुक्रस्य स्तम्भनम् ।
मूलं जयन्त्या वक्त्रस्थं व्यवहारे जयप्रदम् ॥
अपराजिताशिफां दद्यान्नीलोत्पलसमन्विताम् ।
ताम्बूलेन प्रदानाच्च वशीकरणमुत्तमम् ॥
रोचनानागपुष्पाणि विल्वपुष्पं प्रियङ्गवः ।
कुङ्कुमं चन्दनञ्चैव तिलकेन जगद्वशेत् ॥
ॐ ह्राँ गौरि देवि सौभाग्यं पुत्त्रवश्यादि देहि मे ।
पृष्ठ १/३१०
:ॐ ह्रीँ लक्ष्मि ! देहि सौभाग्यं सर्व्वत्रैलोक्यमोहनम् ॥
दुरालभा वचा कुष्ठं कुङ्कुमञ्च शतावरी ।
तिलतैलेन संयुक्तं योनिलेपाद्वशो नरः ॥
निम्बकाष्ठस्य धूपेन धूपयित्वा भगं स्त्रियाः ।
मुभगा स्यात् सा च रुद्र ! पतिर्दासो भविष्यति ॥
माहिषं नवनीतञ्च कुष्ठञ्च मधुयष्टिका ।
सौभाग्यं भगलेपाच्च पतिर्दासो भवेत्तदा ॥
मधुयष्टिञ्च तैर्दद्याद्गोक्षीरं कण्टकारिका ।
एतानि समभागानि पिबेदुष्णेन वारिणा ॥
चतुर्भागावशेषेण गर्भसम्भवमुत्तमम् ॥
मातुलुङ्गस्य वीजानि क्षीरेण सह भावयेत् ॥
तत्पीत्वा लभते गर्भं नात्र कार्य्या विचारणा ।
मातुलुङ्गस्य वीजानि मूलान्येरण्डकस्य च ॥
घृतेन सह संयोज्य पाययेत् पुत्त्रकाङ्क्षिणीम् ।
अश्वगन्धाघृतं दुग्धं क्वथितं पुत्त्रकारकम् ॥
पलाशस्य तु वीजानि क्षौद्रेण सह पेषयेत् ।
रजस्वला तु पीत्वा स्यात् पुष्पगर्भविवर्ज्जिता” ॥
इति गारुडे १८२ अध्यायः ॥ * ॥
हरिरुवाच ।
“हरितालं यवक्षारं पत्राङ्गं रक्तचन्दनम् ।
जाती हिङ्गुलकं लाक्षा पक्वतैलेन पेषयेत् ॥
हरीतकीकषायेन घृष्ट्वा दन्तान् प्रलेपयेत् ।
दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र ! न संशयः ॥
मूलकं स्वेदमग्नौ तु रसं तस्य प्रपेषयेत् ।
कर्णयोः पूरणात्तेन कर्णस्रावो विनश्यति ॥
अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः ।
निष्पीड्य पूरयेत् कर्णौ कर्णशूलं विनश्यति ॥
प्रियड्गुमधुकाम्बष्ठाधातक्युत्पलपक्तिभिः ।
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन च ॥
पचेत्तैलं तथा शुष्कक्षारो हिङ्गु महौषधम् ।
शतपुष्पा वचा कुष्ठं दारु शिग्रु रसायनम् ॥
सौवच्चलं यवक्षारं तथा सर्ज्जिकसैन्धवम् ।
भुजग्रान्थ विडं मुस्तं मधुयुक्तं चतुर्गुणम् ॥
मातुलुङ्गरसस्तद्वत् कदल्याश्च रसो हि तैः ।
पक्वतैलं हरेदाशु स्रावादींश्च न संशयः ॥
कर्णयोः कृमिनाशः स्यात् कटुतैलस्य पूरणात् ।
हरिद्रा निम्वपत्राणि पिप्पल्यो मरिचानि च ॥
विडङ्गं भद्रमुस्तञ्च सप्तमं विश्वभेषजम् ।
गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर ! ॥
अजीणहृद्भवेच्चैका द्वयं विष्टम्भिकापहम् ।
पटलं मधुना हन्ति गोमूत्रेण तथार्व्वुदम् ॥
एषा च शङ्करी वर्त्तिः सर्व्वनेत्रामयापहा” ।
इति गारुडे १८३ अध्यायः ॥ * ॥
हरिरुवाच ।
“वचा मांसी च विल्वञ्च तगरं पद्मकेशरम् ।
नागपुष्पं प्रियङ्गुञ्च समभागानि चूर्णयेत् ॥
अनेनाधूपितो मर्त्त्यः कामवद्विचरेन्महीम् ।
कर्पूरं देवदारुञ्च मधुना सह योजयेत् ॥
लिङ्कलेपाच्च तेनैव वशीकुर्य्यात् स्त्रियं किल ।
मैथुनं पुरुषो गच्छत् गृह्णीयात् स्वकमिन्द्रियम् ॥
वामहस्तन वामञ्च हस्तं यस्याः स्त्रिया लिपेत् ।
आलिप्ता स्त्री वशं याति नान्यं पुरुषमिच्छति ॥
ओम् रक्तचासुण्डे अमुकं मे वशमानय वशमानय
ह्रीँ ह्रौँ ह्रः फट् ।
इमं जप्त्वायुतं मन्त्रं तिलकेन च शङ्कर ! ।
गोरचनासंयुतेन स्वरक्तेन वशीभवेत् ॥
सैन्धवं कृष्णलवणं सौवीरं मत्स्यपित्तकम् ।
मधु सर्पिः सितायुक्तं स्त्रीणां तद्भगलेपनम् ॥
यः पुमान् मैथुनं गच्छेत् नान्यां नारीं गमिष्यति ॥
शङ्खपुष्पी वचा मांसी सोमराजी च फल्गुकम् ॥
माहिषं नवनीतञ्च गाढीकरणमुत्तमम् ।
सनालानि च पद्मानि क्षीरेणाज्येन पेषयेत् ॥
गुटिकां शोषितां कृत्वा नारी योन्यां प्रवेशयेत् ।
दशवारं प्रसूतापि पुनः कन्या भविष्यति ॥
सर्षपाश्च वचा चैव मदनस्य फलानि च ।
मार्जारविष्ठाधुस्तूरःस्त्रीकेशेन समन्वितः ॥
चातुर्थकहरो धूपो डाकिनीञ्वरनाशनः ।
अर्ज्जुनस्य तु पुष्पाणि भल्लातकविडङ्गके ॥
ह्रीवेरकं सर्जरसं सौवीरं सर्षपास्तथा ।
सर्पयूकामक्षिकाणां धूपो मशकनाशनः ॥
भूलतायाश्च चूर्णेन स्तम्भः स्यात् योनिपूरणात् ।
तेन लेपयतो योनौ भगस्तम्भश्च जायते” ॥
इति गारुडे १८४ अध्यायः ॥ * ॥
हरिरुवाच ।
“साञ्जनञ्च घृतं क्षौद्रं लवणं ताम्रभाजने ।
घृष्टं पयःसमायुक्तं चक्षुःशूलहरं परम् ॥
हरितकी वचा कुष्ठं पिप्पल्यो मरिचानि च ।
विभीलकस्य वीजानि हरितालं मनःशिला ॥
सर्व्वाक्षिरोगान्नश्येयुरजाक्षीरसमन्विताः ।
तत्क्षणात् पुष्पनाशः स्यात् मालतीकुमुमाञ्जनात् ॥
विडङ्गं सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिला ।
कासे श्वासे च हिक्कायां लिह्यात् क्षौद्रं घृतप्लुतम् ॥
पिप्पलीत्रिफलाचूर्णं मधुना लेहयेन्नरः ।
नश्यते पीनसः कासः श्वासश्च बलवत्तरः ॥
समूलचित्रकं भस्म पिप्पलीचूर्णकं हरेत् ।
कासं श्वासञ्च हिक्काञ्च मधुमिश्रं वृषध्वज ! ॥
नीलोत्पलं शर्करा च मधुकं पद्मकं समम् ।
तण्डुलोदकसंमिश्रं प्रशमेद्रक्त्वविक्रियाम् ॥
शुण्ठी च शर्करा चैव तथा क्षौद्रेण संयुता ।
कोकिलस्वरएव स्यात् गुलिकाभक्षमात्रतः ॥
हरितालं शङ्खचूर्णं कदलीदलभस्मना ।
एतद्द्रव्येण चोद्वर्त्त्य लोमशातनमुत्तमम् ॥
लवणं हरितालञ्च तण्डुल्याश्च फलानि च ।
लाक्षारससमायुक्तं लोमशातनमुत्तमम् ॥
सुधा च हरितालञ्च शङ्खश्चैव मनःशिला ।
सैन्धवेन सहैकत्र छागमूत्रेण पेषयेत् ॥
तत्क्षणोद्वर्त्तनादेव लोमशातनमुत्तमम् ।
शङ्खमामलकीपत्रं धातक्याः कुसुमानि च ॥
पिष्ट्वा तत् पयसा सार्द्धं सप्ताहं धारयेन्मुखे ।
स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः” ॥
इति गारुडे १८५ अध्यायः ॥ * ॥
हरिरुवाच ।
“शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ।
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥
भुक्ते त शर्करा पीता नवनीतेन बुद्धिकृत् ।
गुडस्य तु पुराणस्य पलमेकन्तु भक्षयेत् ॥
प्रत्यहं वर्षमेकन्तु निरन्तरमथो हर ! ।
स्त्रीसहस्रञ्च गच्छेच्च पुमान् बलयुतो हर ! ॥
कुष्ठं सुचूर्णितं कृत्वा घृतमाक्षिकसंयुतम् ।
भक्षणात् स्वप्नवेलायां बलीपलितनाशनम् ॥
अतसीमाषगोधूमं चूर्णं कृत्वा च पिप्पलीम् ।
घृतेन लेपयेद्गात्रमेभिः सार्द्धं विचक्षणः ॥
कन्दर्पसदृशो मर्त्त्यो भवते नित्यभक्षणात् ।
यवास्तिला अश्वगन्धा मुषला शरला गुडम् ॥
एभिश्च वटिकां जग्ध्वा तरुणो बलवान् भवेत् ।
हिङ्गु सौवर्च्चलं शुण्ठीं पीत्वा तु क्वथितोदकैः ॥
परिणामाख्यशूलञ्च अजीर्णञ्चैव नश्यति ॥
धातकीं सोमराजीञ्च मधुना सह पेषयेत् ।
दुर्ब्बलश्च भवेत् स्थूलो नात्र कार्य्या विचारणा ।
शर्करामधुसंयुक्तं नवनीतं बली लिहेत् ॥
क्षीराशी च क्षयी पुष्टिमेवाज्यैरतुलां लभेत् ॥
कुलीरचूर्णं सक्षीरं पीतञ्च क्षयरोगनुत् ।
भल्लातकं विडङ्गञ्च यवक्षारञ्च सैन्धवम् ।
मनःशिला शङ्खचूर्णं तैलपक्वं तथैव च ॥
लोमानि शातयत्येव नात्र कार्य्या विचारणा ॥
मालूरस्य रसं गृह्य जलौकां तत्र पेषयेत् ।
हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमम् ॥
शाल्मलीरसमादाय खरमूत्रे निधाय तम् ।
अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमम् ॥
वायसी-उदरं गृह्य मण्डूकवसया सह ।
गुटिकां कारयेत्तेन ततोऽग्नौ प्रक्षिपेद्वशी ।
एवमेतत् प्रयोगेण अग्निस्तम्भनमुत्तमम् ॥
मुण्डीतकवचायुक्तं मरीचं नागरं तथा ।
चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् ॥
गोरोचनाभृङ्गराजं चूर्णीकृत्य घृतं समम् ।
दिव्याम्भसस्तु स्तम्भः स्यात् मन्त्रेणानेन वै तथा ॥
ॐ ह्यं अग्निस्तम्भनं कुरु । ॐ नमो भगवते जलं
स्तम्भय स्तम्भय संस संस केक केक चर चर ।
जलस्तम्भनमन्त्रोऽयं जलं स्तम्भयते शिव ! ॥
गृध्रास्थि च गवास्थि च मृतनिर्माल्यमेव च ।
अरेर्यो निखनेत् द्वारे पञ्चत्वमुपयाति सः ॥
ब्रह्मदण्डी तु पुष्पेण खाने पाने वशीकरा ॥
यष्टीमधुपलैकेन पक्वमुष्णोदकं पिबेत् ।
विष्टम्भिकाञ्च हृच्छूलं हरत्येव महेश्वर ! ॥
ॐ ह्रः जः ।
मन्त्रोऽयं हरते रुद्र ! सर्पवृश्चिकजं विषम् ।
पिप्पली नवनीतञ्च शृङ्गवेरञ्च सैन्धवम् ॥
मरीचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत् ।
त्रिफलार्द्रककुष्ठञ्च चन्दनं घृतसंयुतम् ॥
एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव ! ।
पारावतस्य चाक्षीणि हरितालं मनःशिला ॥
एष योगो विषं हन्ति वैनतेय इवोरगान् ॥
सैन्धवं त्र्युषणं चूर्णं दधिमध्वाज्यसंयुतम् ।
वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज ! ।
ब्रह्मदण्डीतिलान् क्वाथ्य चूर्णं त्रिकटुकं पिबेत् ।
नाशयेद्रुद्र ! गुल्मानि निरोधं रक्तमेव च ॥
पृष्ठ १/३११
:पीत्वा क्षीरं क्षौद्रयुतं नाशयेधृदसृग्रुजम् ॥
अटरूषकमूलेन भगं नाभिञ्च लेपयेत् ।
सुखं प्रसूयते नारी नात्र कार्य्या विचारणा ॥
शर्करा मधुसंयुक्ता पीता तण्डु लवारिणा ।
रक्तातिसारशमनं भवतीति वृषध्वज ! ” ॥
इति गारुडे १८६ अध्यायः ॥ * ॥
हरिरुवाच ।
“मरीचं शृङ्गवेरञ्च कुटजत्वचमेव च ।
पानाच्च ग्रहणी नश्येत् शशाङ्ककृतशेखर ! ॥
पिप्पलीं पिप्पलीमूलं मरीचं तगरं वचाम् ।
देवदारुरसं पाठां क्षीरेण सह पेषयेत् ॥
अनेनैव प्रयोगेण अतीसारो विनश्यति ॥
मरीचतिलपुष्पाभ्यामञ्जनं कामलापहम् ।
हरीतकीसमगुडा मधुना सह योजिता ।
विरेचनकरी रुद्र ! मवतीति न संशयः ॥
त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी
ऊरुस्तम्भहरो ह्येष उत्तमन्तु विरेचनम् ॥
हरीतकीं शृङ्गवेरं देवदारु च चन्दनम् ।
क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ॥
जङ्घाशूलमूरुस्तम्भं सप्तरात्रेण नाशयेत् ॥
नाटाञ्च शृङ्गवेरञ्च सूक्ष्मचूर्णानि कारयेत् ॥
गुग्गुलं गुडतुल्यञ्च गुलिकामुपयुज्य तु ।
वायुं स्नायुगतञ्चैव अग्निमान्द्यञ्च नाशयेत् ॥
शङ्खपुष्पी तु पुष्येण समुद्धृत्य सपत्रिकाम् ।
समूलीं छागदुग्धेन अपस्मारहरां पिबेत् ॥
अश्वगन्धाभये चैव उदकेन समं पिबेत् ।
रक्तपित्तं विनश्येत नात्र कार्य्या विचारणा ॥
हरीतकीकुष्ठचूर्णं कृत्वा आस्यञ्च पूरयेत् ।
शीतं पीत्वाथ पानीयं सर्व्वच्छर्द्दिनिवारणम् ॥
गुड्ची पद्मकारिष्टं धन्याकं रक्तचन्दनम् ।
पित्तश्लेष्मज्वरच्छर्द्दिदाहतृष्णाघ्नमग्निकृत् ॥
ॐ ह्रूँ नम इति ।
श्रोत्रे बद्ध्वा शङ्खपुष्पीं ज्वरं मन्त्रेण वै हरेत् ।
ॐ जम्भनि स्तम्भनि विमोहय सर्व्वव्याधीन् मे
वज्रेण ठ ठ सर्व्वव्याधीन् मे वज्रेण फट् । इति ॥
पुष्पमष्टशतं जप्त्वा हस्ते दत्त्वाथ न स्पृशेत् ।
चातुर्थको ज्वरो रुद्र ! अन्ये चैव ज्वरास्तथा ॥
जम्बूफलं हरिद्रा च सर्पस्यैव च कञ्चुकम् ।
स्वर्व्वज्वराणां धूपोऽयं हर ! चातुर्थकस्य च ॥
करवीरं भृङ्गपत्रं लवणं कुष्ठकर्कटम् ।
चतुर्गुणेन मूत्रेण पचेत्तैलं हरेच्च तत् ॥
पामां विचर्च्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥
पिप्पलीमधुपानाच्च तथा मधुरभोजनात् ॥
प्लीहा विनश्यते रुद्र ! तथा शूरणसेवनात् ॥
पिप्पलीञ्च हरिद्राञ्च गोमूत्रेण समन्विताम् ॥
प्रक्षिपेच्च गुदद्वारे अर्शांसि विनिवारयेत् ।
अजादुग्धमार्द्रकञ्च पीतं प्लीहापहं भवेत् ॥
सैन्धवञ्च विडङ्गानि सोमराजी तु सर्षपाः ।
रजनी द्वे विषाञ्चैव गोमूत्रेण च पेषयेत् ॥
कुष्ठनाशश्च तत्क्षेपान्निम्बपत्रादनात्तथा” ॥
इति गारुडे १८७ अध्यायः ॥ * ॥
हरिरुवाच ।
“रजनीकदलीक्षारलेपः सिध्मविनाशनः ।
कुष्ठस्य भागमेकन्तु पथ्याभागद्वयं तथा ॥
उष्णोदकेन संपीत्वा कटिशूलविनाशनम् ।
अभया नवनीतञ्च शर्करा पिप्पलीयुतम् ॥
पानादर्शोहरं स्याच्च नात्र कार्य्या विचारणा ।
अटरूषकपत्रेण घृतं मृद्वग्निना पचेत् ॥
चूर्णं कृत्वा तु लेपोऽयं अर्शोरोगहरः परः ।
गुग्गुलुं त्रिफलायुक्तं पीत्वा नश्येत् भगन्दरम् ॥
अजाजीं शृङ्गवेरञ्च दधिमण्डेन पाययेत् ।
लवणेन तु संयुक्तं मूत्रकृच्छ्रविनाशनम् ॥
यवक्षारः शर्करा च मूत्रकृच्छ्रविनाशनम् ॥
चिताग्निः खञ्जरीटस्य विष्ठा फेनो हयस्य च ।
शोभाञ्जनं चासनेत्रं नर एतैस्तु धूपितः ।
अदृश्यस्त्रिदशैः सव्वैः किं पुनर्मानवैः शिव ! ॥
तिलतैलं यवान्दग्ध्वा मसिं कृत्वा तु लेपयेत् ।
तेनैव सह तैलेन अग्निदग्धः सुखी भवेत् ॥
लज्जालुः शरपुंखा च लेपः साज्यो हराग्निहा ।
पञ्चाङ्गं कनकं गृह्य श्लक्ष्णचूर्णन्तु कारयेत् ॥
दुग्धं धूपं तत्र दत्त्वा तत्क्षणात् पतते ध्रुवम् ।
ॐ नमो भगवते छिन्द छिन्द ज्वरस्य शिरः
प्रज्वलितपरशुपाणिपुरुषाय फट् ।
करे बद्ध्वा तु निर्गुण्ड्या मूलं ज्वरहरं ततः ।
मूलञ्च श्वेतगुञ्जायाः कृत्वा तत् सप्तखण्डकम् ॥
हस्ते बद्धं नाशयेच्च अर्शांस्येव न संशयः ॥
विष्णुक्रान्ताजमूत्रेण चौरव्याघ्रादिरक्षणम् ।
ब्रह्मदण्ड्यास्तु मूलेन सर्व्वकर्म्माणि कारयेत् ॥
त्रिफलायास्तु चूर्णन्तु साज्यं कुष्ठं विनाशयेत् ॥
आज्यं पुनर्णवाविल्वैः पिप्पलीभिश्च साधितम् ।
हरेत् हिक्काश्वासकासं पीतं स्त्रीणाञ्च गर्भकृत् ॥
भक्षयेच्चैवमादीनि पयसाज्येन पाचितम् ।
घृतशर्करया युक्तं शुक्रं स्यादक्षयं ततः ॥
विडङ्गं मधुकं पाठां मांसीं सर्ज्जरसन्तथा ।
हरिद्रां त्रिफलाञ्चैव अपामार्गं मनःशिलाम् ॥
उडुम्बरं धातकीपुष्पं तिलतैलेन पेषयेत् ।
योनिं लिङ्गञ्च मृक्षेत स्त्रीपुंसोः स्यात् प्रियं मिथः ॥
पुनर्णवामृता दूर्व्वा कनकं चेन्द्रवारुणी ।
वीजेनैषां जातिकाया रसेन रसमर्दनम् ॥
कृत्वा धमेच्च मूषायां रसमारणमीरितम् ॥
मध्वाज्यसहितं दुग्धं बलीपलितनाशनम् ॥
मध्वाज्यं गुडताम्रञ्च करेणामाक्षिकं रसम् ।
धमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥
पीतं धुस्तूरपुष्पञ्च सीसकस्य पलं मतम् ।
पाठा लाङ्गलशाखा च मूलमावर्त्तनाद्भवेत् ॥
तैलं धुस्तूरवृक्षस्य तेन दीपं प्रदापयेत् ।
समाधावुपविष्टन्तु गगनस्थो न पश्यति ॥
रात्रौ च सार्षपं तैलं कर्णं खद्योतसम्भवम् ।
तद्दीपः प्रज्वलेत् सम्यक् अग्निज्वालाकलापवत् ॥
कुञ्जरस्य मदार्त्तस्य स्वयं नेत्रे शिवाञ्जयेत् ।
संग्रामं जयते सोऽपि महाशूरश्च जायते ॥
दन्तं दुण्डुभसर्पस्य मुखे संगृह्य वै क्षिपेत् ।
तिष्ठते जलमध्ये तु निर्विकल्पं स्थले यथा ॥
कुम्भीरनेत्रदंष्ट्राणि सास्थीनि रुधिरं तथा ।
वशातैलसमायुक्तमेकत्र तन्नियोजयेत् ॥
आत्मानं म्रक्षयेत्तेन जले तिष्ठेद्दिनत्रयम् ।
कुम्भीरकस्य नेत्राणि हृदयं कच्छपस्य च ॥
मूषकस्य वशास्थीनि शिशुमारवशा तथा ।
एतान्येकत्र संस्थानि जले तिष्ठेत् यथा गृहे ॥
लोहचूर्णं तक्रपीतं पाण्डुरोगहरं भवेत् ।
तण्डुलीयकगोक्षुरमूलं पीतं पयोऽन्वितम् ॥
कामलादिहरं प्रोक्तं मुखरोगहरं तथा ।
जातीमूलं तक्रपीतं कोलिमूलन्तु जीर्णकृत् ॥
सतक्रकाशमूलं वा वाकुचीमूलमेव वा ।
काञ्जिकेन च वाकुच्या मूलं वै दन्तरोगनुत् ॥
अथेन्द्रवारुणीमूलं वारिपीतं विषादिहृत् ।
बला चातिबला यष्टी शर्करा मधुसंयुता ॥
बन्ध्यागभकरं पीतं नात्र कार्य्या विचारणा ॥
श्वेतापराजितामूलं पिप्पलीशुण्ठिसंयुतम् ।
परिपिष्टं शिरोलेपात् शिरःशूलविनाशनम् ।
शिरोरोगहरं लेपात् गुञ्जामूलं सकाञ्जिकम् ॥
निर्गुण्डिकाशिफां पीत्वा गण्डमालाविनाशनम् ।
केतकीपत्रजं क्षारं गुडेन सह भक्षयेत् ॥
तक्रेण शरपुङ्खां वा पीत्वा प्लीहां विनाशयेत् ॥
मातुलुङ्गस्य निर्यासं गुडाज्येन समन्वितम् ।
वातपित्तजशूलानि हन्ति वै पानयोगतः ।
शुण्ठीं सौवर्च्चलं हिङ्गु पीत्वा हृदयरोगनुत्” ॥
इति गारुडे १८८ अध्यायः ॥ * ॥
हरिरुवाच ।
ॐ गं गणपतये स्वाहेति ।
“अयं गणपतेर्मन्त्रो धनविद्याप्रदायकः ।
इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखान्ततः ॥
व्यवहारे जयः स्याच्च शतं जाप्यान्नृणां प्रियः ।
तिलानान्तु घृताक्तानां कृष्णानां रुद्र ! होमयेत् ॥
अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ।
अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट् ॥
तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम् ।
अपराजितः स्याद्युद्धे च अथ चेदुद्यमे शिव ! ॥
जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन ह ।
शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥
ह्रीकारं सविसर्गञ्च प्रातःसूर्य्यससद्युतिम् ।
स्त्रीणां ललाटे विन्यस्य वश्यतां नयते ध्रुवम् ॥
तथैव नासामुरसि ध्यातश्चैवोपकारकृत् ।
सुसमाहितचित्तेन न्यस्तन्तु प्रमदालये ॥
सकामां कामिनीं कुर्य्यात् स्खलन्मदजलाकुलाम् ।
यस्तु जुहुयादयुतं शुचिः प्रयतमानसः ॥
दृष्टिमात्रे सदा तस्य वशमायान्ति योषितः ॥
मनःशिला पत्रकञ्च सगोरोचनकुङ्कुमम् ॥
एभिः कृते च तिलके सदा स्त्री वशतामियात् ॥
सहदेवो भृङ्गराजः सितापराजिता वचा ।
तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ।
गोरोचना मीनपित्तमाभ्याञ्च कृतवर्त्तिकाम् ॥
यः पुमांस्तिलकं कुर्य्याद्वामहस्तकनिष्ठया ।
स करोति वशं सर्व्वं त्रैलोक्यं नात्र संशयः ॥
गोरोचना महादेव ! ऋतुशोणितभाविता ।
ततो या कृततिलका सा नारी यं निरीक्षते ॥
पृष्ठ १/३१२
:तञ्च शर्व्व ! वशं कुर्य्यान्नात्र कार्य्या विचारणा ।
नागेश्वरञ्च शैलेयं त्वक्पत्रञ्च हरीतकी ॥
चन्दनं कुष्ठसूक्ष्मैला रक्तशालिसमन्विता ।
एतैर्धूपो वशकरः स्मरबाण इवेश्वर ! ॥
रतिकाले महादेव ! पार्ब्बतीप्रिय ! शङ्कर ! ।
निजशुक्रं गृहीत्वा तु वामहस्तेन यः पुमान् ॥
कामिनीचरणं वामं लिम्पेत् स स्यात् स्त्रियाः प्रियः ।
सैन्धवञ्च महादेव । पारावतमलं मधु ॥
एभिर्लिप्तन्तु लिङ्ग वै कामिनीवशकृद्भवेत् ।
पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च ॥
तण्डुलञ्च प्रियङ्गञ्च पेषयेदेकयोगतः ।
अनेन लिप्तलिङ्गस्य कामिनीवशतामियात् ॥
हयलाला च मञ्जिष्ठा मालतीकुसुमानि च ।
श्वेतसर्षपाण्येतैश्च लिप्तलिङ्गः स्त्रियाः प्रियः ॥
मूलन्तु काकजङ्घाया दुग्धपीतन्तु शोषनुत् ।
अश्वगन्धानागबलागुडमांसनिषेविणाम् ॥
रूपं भवेत् यथा तद्वन्नवयौवनचारिणाम् ॥
लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा ।
मधुना खादितं रुद्र ! परिणामाख्यशूलनुत् ॥
क्वथितोदकपानन्तु शम्बूकाक्षारकं तथा ।
मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् ।
पीतं हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ! ॥
हिङ्गु सौवर्च्चलं रुद्र ! वृषध्वज ! महौषधम् ।
एभिस्तु क्वथितं वारि पीतं वै सर्व्वशूलनुत् ॥
अपामार्गस्य वै मूलं सामुद्रलवणान्वितम् ।
आस्वादितमजीर्णस्य शूलस्य स्याद्विमर्द्दकम् ॥
वटरोहाङ्कुरो रुद्र ! तण्डलोदकघर्षितः ।
पीतः सतक्रोऽतीसारं क्षयं नयति शङ्कर ! ॥
अङ्कोठमूलं कर्षार्द्धं पिष्टं तण्डुलवारिणा ।
सर्व्वातिसारग्रहणीं पीतं हरति भूतप ! ॥
मरीचशुण्ठिकुटजत्वक्चूर्णन्तु गुडान्वितम् ।
क्रमात्तद्द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥
श्वेनापराजितामूलं हरिद्रासिक्थतण्डुलम् ।
अपामार्गत्रिकटुकमेषान्तु वटिकां शिव ! ।
विसूचिकामहाव्याधिं हरत्येव न संशयः ॥
त्रिफला त्रिकटुश्चव शिलाजतु हरीतकी ।
एकैकमेषां चूर्णन्तु मधुना च विमिश्रितम् ।
पीतं सर्व्वप्रमेहन्तु क्षयं नयति शङ्कर ! ॥
अर्कक्षीरं प्रस्थमेकं तिलतैलं तथैव च ।
मनःशिला मरीचानां सिन्दूरस्य पलं पलम् ॥
चूर्णं कृत्वा ताम्रपात्रे त्वातपे शोषयेत्ततः ।
पीतं स्नुहीगतं दुग्धं सैन्धवं शूलनुद्भवेत् ॥
त्रिकटुत्रिफलायुक्तं पलाशाष्टकसैन्धवम् ।
मनःशिला निम्बपत्रं जातीपुष्पमजापयः ॥
तन्मूत्रं शङ्खनाभिञ्च चन्दनं घर्षयेत्ततः ।
एभिश्च वटिकां कृत्वा अक्षिणी चाञ्जयेत्ततः ॥
नश्यते पटलं काचं पुष्पञ्च तिमिरादिकम् ॥
विभीतकस्य वै चूर्णं समधु श्वासनाशनम् ॥
पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् ।
सर्व्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥
देवदारोश्च वै चृर्णं अजामूत्रेण भावयेत् ।
एकविंशति वै वारमक्षिणी तेन चाञ्जयेत् ॥
रात्र्यन्धता पटलता नश्येदिति विनिश्चयः ।
पिप्पली केतकं रुद्र ! हरिद्रामलकं वचा ॥
सर्व्वाक्षिरोगा नश्येयुः सक्षीरादञ्जनात्ततः ॥
काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ! ।
चर्व्वित्वा दन्तरोगाणां विनाशो हि भवेद्धर” ! ॥
इति गारुडे १८९ अध्यायः ॥ * ॥
हरिरुवाच ।
“पीतं सारं गुडूच्याश्च मधुना च प्रमेहनुत् ।
पीतं गोहालियामूलं तिलदध्याज्यसंयुतम् ॥
निरुद्धमूत्रं क्वथितं प्रवर्त्तयति शङ्कर ! ।
तथा हिक्कां हरेत् पीता सौवर्च्चलयुता मुरा ॥
गोरक्षकर्क्कटीमूलं पिष्टं वास्योदकेन च ।
पीतं दिनत्रयेणैव नाशयेत् दन्तशर्क्कराम् ॥
पिष्टं वै मालतीमूलं ग्रीष्मकाले समाहृतम् ।
साधितं छागदुग्धेन पीतं शर्क्करयान्वितम् ॥
हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्क्कराम् ॥
द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा ।
गण्डमालां हरेल्लेपात् कुरुण्डगलगण्डकम् ॥
रसाञ्जनहरीतक्याश्चूर्णं तेनैव गुण्डनात् ।
नश्येद्वै पुरुषव्याधिं नात्र कार्य्या विचारणा ॥
करवीरमूललेपात् लेपात् पूगफलस्य च ।
पुंव्याधिर्नश्यते रुद्र ! योगमन्यं वदाम्यहम् ॥
दन्तीमूलं हरिद्रा च चित्रकं तस्य लेपनात् ।
भगन्दरविनाशः स्यादन्ययोगं वदाम्यहम् ॥
जलौकाजग्धरक्तन्तु भगन्दरमुमापते ! ॥
त्रिफलाजलघृष्टञ्च मार्जारास्थिविलेपितम् ।
ततो न प्रसवेत् रुद्र ! नात्र कार्य्या विचारणा ॥
हरिद्रा त्वेकवारन्तु स्नुहीक्षीरेण भाविता ।
झटित्यर्शो निपतति तल्लेपात् वृषभध्वज ! ॥
घोषाफलं सैन्धवञ्च तल्लिप्तार्शः पतेत्तथा ।
गव्याज्यं साधितं पीतं पलाशक्षारवारिणा ॥
त्रिगुणेन त्रिकटुकमर्शांसि क्षययेच्छिव ! ।
विल्वस्य च फलं दग्धं रक्तार्शसो विनाशनम् ॥
जग्ध्वा कृष्णतिलान्येव नवनीतयुतानि च ।
यवक्षारं शुण्ठिचूर्णं युक्तं तुल्यघृतान्वितम् ॥
लीढमग्निं करोत्येष प्रत्युषे वृषभध्वज ! ।
शुण्ठ्या च क्वथितं वारि पीतञ्चाग्निं करोति वै ॥
हरीतकी सैन्धवञ्च चित्रकं रुद्र ! पिप्पली ।
चूर्णमुष्णोदकेनैषां पीतञ्चातिक्षुधाकरम् ॥
साज्यं शूकरभांसं वै पीतं चातिक्षुधाकरम्” ॥
इति गारुडे १९० अध्यायः ॥ * ॥
हरिरुवाच ।
“हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर ! ।
सर्व्वरोगविनिर्मुक्तं चूर्णं पलशतं शिव ! ॥
सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज ! ।
नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम् ॥
पद्मगौरप्रतीकाशं युक्तं दशशतायुषा ।
षोडशाब्दाकृतिं रुद्र ! सततं दुग्धभोजनम् ॥
मधुसर्पिःसमायुक्तं जग्धमायुस्करं भवेत् ।
तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम् ॥
कुर्य्यान्नरं श्रुतिधरं प्रमद्राजनवल्लभम् ।
दध्रा नित्यं भक्षितन्तु वज्रदेहकरं शिव ! ॥
कृष्णकेशसमायुक्तं नरं वर्षसहस्रिणम् ।
तच्च काञ्जिकसंयुक्तं नरं कुर्य्याच्च भक्षितम् ॥
शतशर्षं दिव्यदेहं बलीपलितवर्जितम् ।
जग्धं त्रिफलया युक्तं चक्षुष्मन्तं करोति वै ॥
अन्धः पश्येत्तु चूर्णस्य साज्यस्यैव तु भक्षणात् ।
महिषक्षीरसंयुक्तं तल्लेपः कृष्णकेशकृत् ॥
खल्लीटस्य च वै केशा भवन्ति वृषभध्वज ! ।
तैलयुक्तेन चूर्णेन बलीपलितवर्जितम् ॥
तदुद्वर्त्तनमात्रेण सर्व्वरोगैः प्रमुच्यते ।
सच्छागक्षीरचूर्णेन दृष्टिः षण्मासतोऽञ्जनात् ॥
पलाशस्य तु वीजानि श्रावणे वितुषाणि च ।
गृहीत्वा नवनीतेन तेषां चूर्णन्तु भक्षयेत् ॥
कर्षार्द्धमेव कुल्माषं नत्वा नित्यं हरिं प्रभुम् ।
यष्टिं पुराणधान्यं स्यादम्बुवर्ज्जं वृषध्वज ! ॥
जीवेद्वर्षसहस्राणि बलीपलितवर्जितः ॥
भृङ्गराजस्य वै चूर्णं पुष्यर्क्षे तु समाहृतम् ।
विडालपदमात्रन्तु ससौवीरञ्च भक्षयेत् ।
मासमात्रप्रयोगेण बलीपलितवर्जितः ॥
शतानि पञ्च जीवेच्च नवनागबलो भवेत् ।
भवेत् श्रुतिधरो रुद्र ! पुष्यर्क्षेचैव भक्षयेत्” ॥
इति गारुडे १९१ अध्यायः ॥ * ॥
हरिरुवाच ।
“निर्व्रणः स्यात् पूयहीनः प्रहारो घृतपूरितः ।
अपामार्गस्य वै मूलं हस्ताभ्याञ्च विमर्द्दयेत् ॥
तद्रसेन प्रहारस्य रक्तस्रावो न पूरणात् ।
रुद्र ! लाङ्गलिकामूलं हिज्जलस्य तथैव च ॥
तेन व्रणमुखं लिप्तं शल्यो निःसरति व्रणात् ।
चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ! ॥
दध्ना माहिषेण युक्तं जग्धं कोद्रवभक्तकम् ।
कङ्गुमूलस्य वै चूर्णं दत्तं नाडीव्रणापहम् ॥
ब्रह्मयष्टिफलं पिष्टं वारिणा तेन लेपतः ।
तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥
यवभस्म विडङ्गञ्च गन्धपाषाणमेव च ।
शुण्ठिरेषाञ्चैव चूर्णं भावितं रुधिरेण वै ।
कृकलाशस्य तल्लिप्तं अर्व्वुदं विद्रवेच्छिव ! ॥
शोभाञ्जनस्य वीजानि अतसीमसिना सह ।
गोरसन्तु प्रपिष्ट्वान्यत् ग्रन्थिकं नाशयेद्धि वै ॥
श्वेतापराजितामूलं पिष्ट तण्डुलवारिणा ।
तेन नस्यप्रदानात् स्याद्भूतवृन्दस्य विद्रवः ॥
अगस्त्यपुष्पनस्यो वै समरीचश्च भूतहृत् ॥
भुजङ्गवर्म्म वै हिङ्गु निम्बपत्राणि वै यवाः ।
गौरसर्षप एभिः स्याल्लेपो भूतहरः कृतः ॥
गौरोचना मरीचानि पिप्पली सैन्धवं मधु ।
अञ्जनं कृतमेभिः स्यात् ग्रहभूतहरं शिव ! ॥
गुग्गुलूलूकपुच्छाभ्यां धूपो ग्रहहरः कृतः ।
चातुर्थिकज्वरैर्मुक्तः कृष्णवस्त्राबगुण्ठितः” ॥
इति गारुडे १९२ अध्यायः ॥ * ॥
हरिरुवाच ।
“श्वेतापराजितापुष्परसेनाक्ष्णोश्च पूरणे ।
पटलं नाशमायाति ह्येतदुत्तममौषधम् ॥
मूलं गोक्षुरकस्यैव चर्व्वित्वा नीललोहित ! ।
दन्तकीटव्यथां नश्येदन्धासुरविमर्द्दन ! ॥
पृष्ठ १/३१३
::नारी पुष्पदिने पीत्वा गोक्षीरेणोपवासतः ॥
श्वेतार्कस्य तु वै मूलं तस्यास्तद्गुल्मशूलनुत् ॥
श्वेतार्कमूलं विधिना गृहीतं पूर्ब्बसंस्थितम् ।
ऋतुशुद्धा च ललना कटौ बद्ध्वा नरोऽथ वा ।
नारी पुत्त्रंहि लभते सुरते वृषभध्वज ! ।
हस्तबद्धं पलाशस्य अपामार्गस्य वा हर ! ।
मूलं सर्व्वज्वरहरं भूतप्रेतादिनुद्भवेत् ॥
पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।
सार्द्धं विनाशयेद्दाहज्वरञ्च परमेश्वर ! ।
शिखायाञ्चैव तद्बद्धं भवेदेकाहिकादिनुत् ॥
एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत् ।
वास्योदकेन पीतं तद्वृहद्विषहरं भवेत् ॥
यस्य लज्जालुकामूलं दीयते बहुवेतसा ।
सार्द्धं स वै वशं याति पुमान् स्त्री वा न संशयः ॥
पिष्ट्वा गव्यघृतेनैव पाठामूलं पिबेत्तु यः ।
गरं विषं तस्य नश्येन्नात्र कार्य्या विचारणा ॥
वास्योदकयुतं मूलं शिरीषस्य यथा तथा ।
रक्तचित्रकमूलस्य शमनं भरणाद्धर ! ॥
कर्णयोः कामलाव्याधिविनाशः स्यान्न संशयः ॥
श्वेतकोकिलाक्षमूलं छागीक्षीरेण संयुतम् ।
त्रिसप्ताहेन वै पीतं क्षयरोगं क्षयं नयेत् ।
नारिकेलस्य वै पुष्पं छागीक्षीरेण संयुतम् ।
पिबेच्च त्रिविधस्तस्य रक्तवातो विनश्यति ॥
कुर्य्यात् सुदर्शनामूलं आदित्ये तु समाहृतम् ।
कण्ठबद्धं त्र्याहिकादिग्रहभूतविनाशनम् ॥
पुष्ये धवलगुञ्जाया गृहीतं मूलमुत्तमम् ।
मुखे तु निहितं रुद्र ! हरेत् गरविषं बहु ॥
हस्ते बद्धं काण्डनुच्च कण्ठबद्धं ग्रहादिनुत्” ॥
इति गारुडे १९३ अध्यायः ॥ * ॥
हरिरुवाच ।
“अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।
पीतञ्चापि हरत्येव गण्डमालां न संशयः ॥
तथेन्द्रवारुणीमूलं विधिना पीतमीश्वर ! ।
जिङ्गिन्येरण्डकं रुद्र ! शूकशिम्बीसमन्वितम् ॥
शीतोदकञ्च तन्नस्यो बाहुग्रीवाव्यथां हरेत् ॥
माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली ।
वचा कुष्ठं त्वयं लेपो लिङ्गश्रोत्रस्तनर्द्धिकृत् ॥
कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् ।
तल्लेपो युवतीनाञ्च कुर्य्यान्मनोहरं स्तनम् ॥
विटपेन्द्रवारुणीमूलं यस्य नाम्ना सुदूरतः ।
निक्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति ॥
पुनर्णवायाः शुक्लाया मूलं तण्डुलवारिणा ।
पीतं विद्रधि नश्येच्च नात्र कार्य्या विचारणा ॥
कदली यवक्षारन्तु पानीयेन प्रसाधितम् ।
तदास्वादनान्नश्यन्ति उदरव्याधयोऽखिलाः ॥
वदरीकारवीमूलं गुडाज्येन समन्वितम् ।
अग्निना साधितं जग्ध्वा कृमीन् सर्व्वान् हरेत् शिव ! ।
नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च ।
प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥
हरीतकी विडङ्गञ्च हरिद्रा सितसर्षपाः ।
सोमराजस्य वीजानि करञ्जस्य च सैन्धवम् ।
गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि च ॥
एकश्च त्रिफलाभागस्तथा भागद्वयं शिव ! ।
सोमराजस्य वीजानां जग्धं पथ्या च दद्रुनुत् ॥
अम्बुतक्रं सगोमूत्रं क्वथितं लवणान्वितम् ।
कांस्यघृष्टं खरं लेपात् कुष्ठदद्रुविनाशनम् ॥
हरिद्रा हरितालञ्च दूर्व्वागोमूत्रसैन्धवम् ।
अयं लेपो हन्ति दद्रु पामानं वै गरं तथा ॥
सोमराजस्य वीजानि नवनीतयुतानि च ।
मधुनास्वादितानि स्युः शुक्लकुष्ठहराणि वै ।
तक्रानुपानतो रुद्र ! नात्र कार्य्या विचारणा ॥
सितापराजितामूलं वर्त्तितं वास्यवारिणा ।
तल्लेपो रुद्र ! मासेन शुक्लकुष्ठविनाशनः ॥
माहिषं नवनीतञ्च सिन्दूरञ्च मरीचकम् ।
पामा विलेपिता नश्येद्बहुलापि वृषध्वज ! ॥
विशुष्कगम्भारिमूलं पक्वक्षीरेण संयुतम् ।
भक्षितं शुक्लपित्तस्य विनाशकरमीश्वर ! ॥
मूलकस्य च वीजानि अपमार्गरसेन वै ।
पिष्टानि तेन लेपेन सिह्लिका रुद्र ! नश्यति ॥
कदलीक्षारसंयुक्ता हरिद्रा सिह्लिकापहा ।
रम्भापामार्गयोः क्षार एकस्तैलविमिश्रितः ॥
तदभ्यङ्गान्महादेव ! सद्यः सिध्म विनश्यति ।
कुष्माण्डनालक्षारस्तु सगोमूत्रश्च तत्त्वचः ॥
जलपिष्टा हरिद्रा च सिद्धा मन्दानलेन हि ।
माहिषेण पुरीषेण वेष्टिता वृषभध्वज ! ॥
अस्या उद्वर्त्तनं कुर्य्यादङ्गगौरत्वमीश्वर ! ।
तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम् ॥
तेनोद्वर्त्तितदेहः स्यादुज्ज्वलः सुरभिः पुमान् ।
मनोहरश्चानुदिनं दूर्व्वाणां काकजङ्घया ॥
अर्ज्जुनस्य तु पुष्पाणि जम्बुपत्रयुतानि च ।
सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥
मन्दोष्णलोध्रनीरं वै चूर्णन्तु कनकस्य च ।
तेनोद्वर्त्तितदेहस्य हरेद्ग्रीष्मप्रसारिकाम् ॥
त्वग्दोषश्चैव देवेन्द्र ! घर्म्मदोषश्च नश्यति ।
काकजङ्घोद्वर्त्तनञ्च अङ्गरागकरं भवेत् ॥
यष्टीमधु शर्करा च वासकस्य रसो मधु ।
एतत् पीतं रक्तपित्तकामलापाण्डुरोगनुत् ॥
रक्तपित्तं हरेत् पीतो वासकस्य रसो मधु ।
स्वापकाले तोयपानात् पीनसं प्रहितं हरेत् ॥
विभीतकस्य वै चूर्णं पिप्पलीसैन्धवस्य च ।
पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर ! ॥
चूर्णमामलकस्यैव पीतं शूलहरं परम् ॥
मनःशिला बलामूलं काकपर्णञ्च गुग्गुलुम् ।
जातीपत्रं कोलिपत्रं तथा चैव मनःशिला ।
एभिश्चैव कृता वर्त्तिर्वदराग्नौ महेश्वर ! ॥
धूमपानं काशहरं नात्र कार्य्या विचारणा ॥
त्रिफलापिप्पलीचूर्णं भक्षितं मधुना युतम् ॥
भोजनादौ हि समधु पिपासां त्वरितं हरेत् ।
विल्वमूलञ्च समधु गुडूचीक्वथितं जलम् ॥
पीतं हरेच्च त्रिविधं छर्दि वै नात्र संशयः ।
पीतादूर्व्वा छर्दिनुत् स्यात् पिष्टा तण्डुलवारिणा” ॥
इति गारुडे १९४ अध्यायः ॥ * ॥
हरिरुवाच ।
“पुनर्णवाया मूलञ्च श्वेतं पुष्ये समाहृतम् ।
वारिपीतं तस्य पार्श्वे भवनेषु न पन्नगाः ॥
तार्क्षं मूर्त्तिं वहेद्यो वै भल्लूकदन्तनिर्मिताम् ।
स पन्नगैर्न दश्येत यावज्जीवं वृषध्वज ! ॥
पिबेद्गरुडमूलं यः पुष्यर्क्षे रुद्र ! वारिणा ।
तस्मिन्नपास्तदशना नागाः स्युर्नात्र संशयः ॥
पुष्ये लज्जालुकामूले हस्तबद्धे तु पन्नगान् ।
गृह्णीयाल्लेपतो वापि नात्र कार्य्या विचारणा ॥
पुष्ये श्वेतार्कमूलञ्च पीतं शीतेन वारिणा ।
नश्येत दन्तकविषं करवीरादिजं विषम् ॥
महाकालस्य वै मूलं पिष्टं तत् काञ्जिकेन वै ।
वोड्रमण्डलिकानाञ्चतल्लेपो हरते विषम् ॥
तण्डुलीयकमूलञ्च पिष्टं तण्डलवारिणा ।
घृतेन सह पीतन्तु हरेत् सर्पविषाणि च ॥
नीली लज्जालुकामूलं पिष्टं तण्डुलवारिणा ।
पीत्वा दद्दष्टकविषं नश्येदेकेन चोभयोः ॥
कुष्माण्डकफलरसः सगुडः सहशर्करः ।
पीतः सदुग्धो मोहन्तु तद्दष्टस्य विषस्य वै ॥
तथा काद्रवभूतस्य मोहस्य हर एव च ।
यष्टीमधुसमायुक्ता पीता च सितशर्करा ॥
सदुग्धा च त्रिरात्रेण मूषाविषहरा भवेत् ॥
चुम्बुकत्रयपानाच्च वांरिणः शीतलस्य वै ।
ताम्बूलजग्धरोमाञ्च मुखलाला विनश्यति ॥
घृतं सशर्करं पीत्वा मद्यपानमदो न वै ।
कृष्णाङ्कोठस्य मूलेन पीतम्त्क्वथितं जलम् ।
ततो नश्येद्दारुविषं त्रिरात्रेण महेश्वर ! ॥
उष्णं गव्यघृतं पीतं सैन्धवेन समन्वितम् ।
नाशयेत्तन्महादेव ! वेदनां वृश्चिकोद्भवाम् ॥
कुसुम्भं कुङ्कुमञ्चैव हरितालं मनःशिला ।
करञ्जपिशितञ्चैव अर्ककीटञ्च शाल्मली ॥
विषं नॄणां विनश्येत एतेषां भक्षणाच्छिव ! ।
दीपतैलप्रदानाच्च दंशे वृश्चिकजे शिव ! ॥
खर्ज्जुरकविषं नश्येत्तदा वै नात्र संशयः ।
दंशस्थानं वृश्चिकस्य रुद्र ! गुग्गुलुधूपितम् ॥
विषं नश्येत्ततो रुद्र ! तात्र कार्य्या विचारणा ॥
अङ्कोठपत्रधूपेन नश्येन्मषिकजं विषम् ॥
नागेश्वरमरीचानि शुण्ठी तगरपादिका ।
नश्येन्मधुमक्षिकाया एतेषां लेपतो विषम् ॥
शतपुष्पा सैन्धवञ्च साज्यं वा तेन लेपतः ।
शिरीषस्य च वीजं वै सितक्षीरेण घर्षितम् ॥
तल्लेपेन महादेव ! नश्येदुन्दुरुजं विषम् ॥
ज्वलिताग्निना विसेकी तथा दर्द्दुरजं विषम् ॥
धुस्तूरकरसोन्मिश्रं क्षीराज्यगुडपानतः ।
शूनां विषं विनश्येत शशाङ्ककृतशेखर ! ॥
वटनिम्बशमीनाञ्चवल्कलैः क्वथितं जलम् ।
तत्सेकान्नखदन्तानां नश्येद्व विषवेदनाम् ॥
देवदारु हरिद्रा च गैरिकस्य च लेपनात् ।
नागेश्वरं हरिद्रे द्वे मञ्जिष्ठा देवदारुकम् ।
एभिर्लेपाद्विनश्येत लूताविषमुमापते” ! ॥
इति गारुडे १९५ अध्यायः ॥ * ॥
हरिरुवाच ।
“एकं पुनर्णवामूलं अपामार्गस्य वा शिव ! ।
सरसं योनिविक्षिप्तं बराङ्गस्य व्यथां हरेत् ॥
पृष्ठ १/३१४
:प्रसूतिवेदनाञ्चैव तरुणीनां व्यथा हरेत् ॥
मूमिकुष्माण्डमूलं वै शालितण्डुलवारिणा ।
सप्ताहं दुग्धपीतं स्यात् स्त्रीणां बहुपयस्करम् ॥
रुद्रेन्द्रवारुणीमूललेपात् स्त्रीस्तनवेदना ।
नश्येत् घृतविपक्वा च कार्य्यावश्यं तु पालिका ।
मक्षिता सा महेशान ! योनिशूलं विनाशयेत् ॥
प्रलेपिता कारवेल्लमूलेनैव विनिर्गता ।
योनिः प्रवेशमायाति नात्र कार्य्या विचारणा ॥
नीलीपटोलमूलानि साज्यानि तिलवारिणा ॥
पिष्टान्येषां प्रलेपो वै ज्वालागर्द्दभरोगनुत् ॥
पाठामूलं रुद्र ! पीतं पिष्टं तण्डुलवारिणा ।
पापरोगहरं स्याच्च कुष्ठपानन्तथैव च ॥
वास्योदकञ्च समधु पीतमन्तर्गतस्य वै ।
पापरोगस्य सन्तापनिवृत्तिं कुरुते शिव ! ॥
कदलीमेकुचं पीतं पिष्ट्वा तण्डुलवारिणा ।
स्त्रीणाञ्चैव महादेव ! रक्तस्रावं हि वारयेत् ॥
घृततुल्या रुद्र ! लाक्षा पीता क्षीरेण वै सह ।
प्रदरं हरते रोगं नात्र कार्य्या विचारणा ॥
द्विजयष्टीत्रिकटुकं चूर्णं पीतं हरेच्छिव ! ।
तिलक्वाथेन संयुक्तं रक्तगुल्मं स्त्रिया हर ! ॥
कुसुमस्य निबद्धञ्च तरुणीनां महेश्वर ! ।
रक्तोत्पलस्य वै कन्दं शर्करातिलसंयुतम् ॥
पीतं सशर्करं स्त्रीणां धारयेत् गर्भपातनम् ।
रक्तस्रावस्य नाशः स्यात् शीतोदकनिषेवनात् ॥
पीतन्तु काञ्जिकं रुद्र ! क्वथितं शरपुंखया ।
हिङ्गुसैन्धवसंयुक्तं शीघ्रं स्त्रीणां प्रसूतिकृत् ॥
मातुलुङ्गस्य वै मूलं कटिबद्धं प्रसूतिकृत् ।
अपामार्गस्य वै मूलं योनिस्थञ्च प्रसूतिकृत् ॥
अपामार्गस्य वै मूले गर्भवत्यास्तु नामतः ।
उत्पाट्यमाने सकले पुत्त्रः स्यादन्यथा सुता ॥
अपामार्गस्य वै मूले नारीणां शिरसि स्थिते ।
गर्भशूलं विनश्येत नात्र कार्य्या विचारणा ॥
कर्पूरमदनफलमधुकैः पूरितः शिव ! ।
योनिः शुभा स्याद्वृद्धाया युवत्याः किं पुनर्हर ! ॥
यस्य बालस्य तिलकः कृतो गोरोचनाख्यया ।
शर्कराकुष्ठपानञ्च दत्तं स स्याच्च निर्भयः ॥
विषभूतग्रहादिभ्यो व्याधिभ्यो बालकः शिव ! ।
शङ्खनाभिवचाकुष्ठलोहानां धारणं सदा ॥
बालानामुपसर्गेभ्यो रुद्र ! रक्षाकरं भवेत् ।
पलाशचूर्णं समधु गव्याज्यामलकान्वितम् ॥
सविडङ्गं पीतमात्रं नरं कुर्य्यान्महामतिम् ।
मासैकेन महादेव ! जरामरणवर्ज्जितम् ॥
पलाशवीजं सघृतं तिलमध्वन्वितं समम् ।
सप्ताहं भक्षितं रुद्र ! जरां नयति संक्षयम् ॥
रुद्रामलकचूर्णं वै मधुतैलघृतान्वितम् ।
जग्ध्वा मांसं युवा स्याच्च नरो वागीश्वरो भवेत् ॥
शिवामलकचूर्णं वै मधुना उदकेन वा ।
वलानि कुर्य्यान्नासायाः प्रत्यूषे भक्षितं शिव ! ॥
कुष्ठचूर्णं साठ्यमधु प्रातर्जग्ध्वा मवेन्नरः ।
साक्षात् सुरभिदेहो वै जीवेद्वर्षसहस्रकम् ॥
माषस्य बिदलान्येव वितुषाणि महेश्वर ! ।
घृतमावितशुष्काणि मयसा साधितानि वै ॥
शर्कराज्यपयोभिश्च भक्षयित्वा च कामयेत् ।
स्त्रीणां शतं महादेव ! तत्क्षणान्नात्र संशयः ॥
रसश्चैरण्डतैलेन गन्धकेन शुभो भवेत् ।
त्रिफलोदकसंघृष्टो बलकृद्भक्षणाद्भवेत् ॥
दुग्धं वितुषमार्षञ्च शिम्बीवीजैश्च साधितम् ।
अपामार्गस्य तैलेन पीतं स्त्रीशतकामकृत्” ॥
इति गारुडे १९६ अध्यायः ॥ * ॥
हरिरुवाच ।
“या गौर्द्वेष्टि स्वकं वत्सं तस्या देयं स्वकं पयः ।
लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत् ॥
शुनोऽस्थि कण्ठबद्धं हि महिषीणां गवान्तथा ।
कृमिजालं पातयति सकलं नात्र संशयः ॥
गोजङ्गलाभिपातः स्यात् गुञ्जामूलस्य भक्षणात् ।
वरुणफलस्य रसं करेण मथितं शिव ! ॥
चतुष्पादद्विपदयोः कृमिजालं निपातयेत् ।
व्रणञ्च शमयेद्रुद्र ! यवानां पूरणात्तथा ॥
गजमूत्रस्य वै पानं गोमहिष्युपसर्गनुत् ।
समसूरं शालिवीजं पीतं तक्रेण घर्षितम् ॥
क्षीरं गोमहिषस्यैव गोः पुंसश्च हितं भवेत् ।
पत्रञ्च शरपुंङ्खाया दत्तं सलवणं शिव ! ॥
वारिस्फोटं हयानाञ्च वेशराणां विनाशयेत् ।
अश्वाश्च सुन्दरच्छाया भवन्ति च न संशयः ॥
गृहकुमारीपत्रं वै दत्तं सलवणं हर ! ।
तुरङ्गमवेशराणां कण्डुनुत् स्याद्दशाहतः” ॥
इति गारुडे १९७ अध्यायः ॥ * ॥
हरिरुवाच ।
“चित्रकस्याष्टभागानि शूरणस्य च षोडश ।
शुण्ठ्याश्चत्वारि भागानि मरीचानां द्वयं तथा ॥
पिप्पली पिप्पलीमूलं विडङ्गानां चतुष्टयम् ।
अष्टौ मुषलीभागाश्च त्रिफलायाश्चतुष्टयम् ॥
द्विगुणेन गुडेनैषां मोदकानि हि कारयेत् ।
तद्भक्षणमजीर्णं हि पाण्डुरोगञ्च कामलाम् ॥
अतिश्रोणि च मन्दाग्निं प्लीहाद्यञ्च निवारयेत् ।
विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् ॥
प्रसारण्यश्वगन्धा च वृहती कण्टकारिका ।
बला चातिबला रास्ना श्वदंष्ट्रा च पुनर्णवा ॥
एरण्डशारिवा पर्णी गुडूची कपिकच्छरा ।
एषां दशपलान् भागान् क्वाथयेत् सलिलेऽमले ॥
तेन पादावशेषेण तैलपात्रे विपाचयेत् ।
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ॥
शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् ।
द्रव्याणि यानि पेष्याणि तानि वक्ष्यामि तच्छणु ॥
शतपुष्पा देवदारु बला पर्णी वचागुरु ।
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्णवा ॥
पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ।
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ॥
अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ।
गर्ठ्भमश्वतरी विन्द्यात् किं पुनर्मानुषी शिव ! ॥
अश्वानां वातभग्नानां कुञ्जराणां नृणां तथा ।
तैलमेतत् प्रयोक्तव्यं सर्व्ववातविकारिणाम् ॥
हिङ्गु तुम्बुरु शुण्ठ्या च साध्यं तैलन्तु सार्षपम् ।
एतद्धि पूरणं श्रेष्ठं कर्णशूलापहं परम् ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्विपाचयेत् ॥
वाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः ।
क्रमयश्च विनश्यन्ति तैलस्यास्य प्रपूरणात् ॥
शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥
सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।
भुजग्रन्थि विडं मुस्तं मधु शुक्लं चतुर्गुणम् ॥
मातुलुङ्गरसञ्चैव कदलीरसमेव च ।
तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ॥
व्याधिजः कर्णनादश्च पूयस्रावश्च दारुणः ।
पूरणादस्य तैलस्य क्रमयः कर्णयोः खिलाः ॥
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥
चन्दनं कुङ्कुमं मांसी कर्पूरो जातिपत्रिका ।
जातीकक्कोलपूगानां लवङ्गस्य फलानि च ॥
अगुरूशीरकस्तुर्य्यः कुष्ठं तगरनालिका ।
गोरोचना प्रियङ्गुश्च चोलो दमनकं नखम् ॥
सरलः सप्तपर्णश्च लाक्षा चामलकी तथा ।
कर्पूरकः पद्मकञ्च एतैस्तैलं प्रसाधितम् ॥
प्रस्वेदमलदौर्गन्ध्यकण्डुकुष्ठहरं परम् ।
पुमान्युवा स्यात्शुक्राढ्यः स्त्रीणां चात्यन्तदुर्ल्लभः ।
स्त्रीशतं गच्छते रुद्र ! बन्ध्यापि लभते सुतम् ॥
यमानी चित्रकं धान्यं त्र्युषणं जीरकं तथा ।
सौवर्च्चलं विडं वच्यं पिप्पलीमूलराजिकम् ।
एभिः पचेत् घृतप्रस्थं जलप्रस्थाष्टसंयुतम् ॥
मर्म्मार्शोगुल्मश्वयथुं हन्ति वह्निं करोति वै ॥
मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला ।
देवदारुहरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ।
विशाला करवीरञ्च अर्कक्षीरं शकृद्रसम् ॥
एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ।
प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ॥
मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ।
पामा विचर्च्चिका चैव दद्रुविष्फोटकानि च ॥
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ।
प्रसूतान्यपि श्वित्राणि तैलनानेन म्रक्षयेत् ॥
चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणाद्भवेत् ।
पटोलपत्रं कटुका मञ्जिष्ठा शारिवा निशा ॥
जाती शमी निम्बपत्रं मधुकं क्वथितं घृतम् ।
एभिर्लेपात् स्युररुजो व्रणा वै स्राविणः शिव ! ॥
शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला ।
अभया च गुडूची च अटरूषकवाकुची ॥
एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत् ॥
कण्टकार्य्या रसं प्रस्थं क्षीरप्रस्थसमन्वितम् ।
एतद्ब्राह्मीघृतं नाम स्मृतिमेधाकरं परम् ॥
अग्निजिह्वा वचा वासा पिप्पली मधु सैन्धवम् ।
सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥
अपामार्गो गुडूची च कुष्ठं शतावरी वचा ।
शङ्खपुष्प्यभया साज्यं विडङ्गं भक्षितं समम् ।
त्रिभिर्दिनैर्नरं कुर्य्याद्ग्रन्थाष्टशतधारिणम् ॥
अद्भिर्वा पयसाज्येन मासमेकन्तु सेविता ।
वचा कुर्य्यान्नरं प्राज्ञं श्रुतिधारणसंयुतम् ॥
पृष्ठ १/३१५
:चन्द्रसूर्य्यग्रहे पीतं पलमेकं पयोऽन्वितम् ।
वचायास्तत्क्षणं कुर्य्यात् महाप्रज्ञान्वितं नरम् ॥
भूनिम्बनिम्बत्रिफलापर्पटैञ्च शृतं जलम् ।
पटोलीमुस्तकाभ्याञ्च वासकेन च नाशयेत् ।
विस्फोटकानि व्यक्तानि नात्र कार्य्या विचारणा ।
कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा ॥
फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ।
एषां वर्त्तिर्हन्ति काचं तिमिरं पटलं तथा ॥
प्रस्थे द्वे गण्डमालानां क्वाथयेद्द्रोणम्रम्भसाम् ।
चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।
पुनर्णवा गोक्षुरकं सैन्धवं युषणं वचा ॥
सरलं सुरदारुश्च मञ्जिष्ठा कण्ठकारिका ।
नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् ॥
वाधिर्य्यं सर्व्वरोगांश्च अभ्यङ्गाच्च महेश्वर ! ॥
पलद्वयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ।
पञ्चप्रस्थं त्वारनालं तैलप्रस्थं पचेत्ततः ।
ग्रहगृह्यस्वरप्लीहसर्व्ववातविकारनुत् ॥
उदुम्बरं वटप्लक्षं जम्बुद्वयमथार्ज्जुनम् ।
पिप्पलञ्च कदम्बञ्च पलाशं लोध्रतिन्दुकम् ॥
मधुकमाम्रसर्जञ्च वदरं पद्मकेशरम् ।
शिरीषवीजं कतकमेतत्क्वाथेन साधितम् ।
तैलं हन्ति व्रणाल्लेपाच्चिरकालभवानपि” ॥
इति गारुडे १९८ अध्यायः ॥ * ॥
हरिरुवाच ।
“पाठा द्वे रजनी कुष्ठमश्वगन्धाजमोदकम् ।
वचा त्रिकटुकञ्चैव लवणं चूर्णमुत्तमम् ॥
ब्राह्मीरसे भावितञ्च सर्पिर्मधुसमन्वितम् ।
सप्ताहं भक्षितं कुर्य्यान्मदैश्वर्य्यं मतिं पराम् ॥
सिद्धार्थकवचाहिङ्गुकरञ्जं देवदारु च ।
मञ्जिष्ठा त्रिफला श्वेता शिंरीषो रजनीद्वयम् ॥
प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् ।
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्च भयं हन्ति राजद्वारे च शासनम् ॥
निम्बकुष्ठे हरिद्रे द्वे शिग्रु सर्षपजस्तरुः ।
देवदारु पटोलञ्च धान्यं तक्रेण घर्षितम् ॥
देहं तलाक्तगात्रं वै अनेनोद्वर्त्तयेत्ततः ।
पामाः कुष्ठानि नश्येयुः कण्डुं पिटकसक्थिकीम् ॥
सामुद्रं सैन्धवं क्षारो राजिका लवणं विडम् ।
कटुलोहरजः कीटं त्रिवृत् शूरणकं समम् ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।
एतच्चाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥
जीर्णे जीर्णे च भुञ्जीत मासादिघृतभोजनम् ।
नाभिशूलं मूत्रशूलं गुल्मप्लीहभवञ्च यत् ।
सर्व्वशूलहरं चूर्णं जठरानलदीपनम् ।
परिणामसमुत्थस्य शूलस्य च हितं परम् ॥
अभयामलकं द्राक्षा पिप्पली कण्टकारिका ।
शृङ्गं पुनर्णवा शुण्ठी जग्ध्वा काशं निहन्ति वै ॥
अभयामलकं द्राक्षा पाठा चैव विभीतकम् ।
शर्क्करा च समञ्चैव जग्धं ज्वरहरं भवेत् ॥
त्रिफला वदरं द्राक्षा पिप्पली च विरेचकृत् ।
हरीतकी सोष्णनीरा लवणञ्च विरेचकृत् ॥
कूर्म्ममत्स्याखुमहिषगोशृगालाश्च वानराः ।
विडालवर्हिकाकाश्च वराहोलूककुक्कुटाः ॥
हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम् ।
धूपं दद्यात् ज्वरार्त्तेभ्य उन्मत्तेभ्यश्च शान्तये ॥
अपस्माराभिभूतेभ्यो ग्रहार्त्तेभ्यश्च शान्तये ।
एतान्यौषधजातानि कथितानि महेश्वर ! ॥
निहन्ति यानि रोगाणि वृक्षमिन्द्राशनिर्यथा ।
औषधे भगवान् विष्णुः स्मृतोऽसौ रोगनुद्भवेत् ॥
ध्यातोऽर्च्चितः स्तुतो वापि नात्र कार्य्याविचारणा” ॥
इति गारुडे १९९ अध्यायः ॥
(विष्णुः । यथा महाभारते । विष्णोः सहस्रनाम-
कीर्त्तने । १३ । १४९ । ४४ ।
“अमृतांशूद्भवो भानुः शशविन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्यधर्म्मः पराक्रमः” ॥)

औषरं, क्ली, (उषरे भवं । उषर + अण् ।) पांशव-

लवणम् । अयस्कान्तभेदः । इति राजनिर्घण्टः ॥
(पांशवलवणशब्देऽस्य गुणादिकं ज्ञेयम् ॥)

औषरकं, क्ली, (औषर + स्वार्थे कन् ।) मृत्तिका-

लवणम् । खारी लूण इति भाषा । तत्पर्य्यायः ।
सार्व्वगुणम् २ सर्व्वसंसर्गलवणम् ३ उषरकम् ४
साम्बरम् ५ बहुलवणम् ६ मेलकलवणम् ७
मिश्रम् ८ । अस्य गुणाः । कटुत्वम् । क्षारत्वम् ।
तिक्तत्वम् । वातकफनाशित्वम् । विदाहित्वम् ।
पित्तमलबन्धमूत्रसंशोषकारित्वञ्च । इति राज-
निर्घण्टः ॥

औष्ट्रकं, क्ली, (उष्ट्राणां समूहः । उष्ट्रस्य विकारः

अवयवो वा । उष्ट्र + “गोत्रोक्षोष्ट्रोरभ्रेति” ।
४ । २ । ३९ । वुञ् ।) उष्ट्रसमूहः । इत्यमरः ॥
उटेर पाल इति भाषा । (उष्ट्रदुग्धार्थे यथा ॥
वाभटे सूत्रस्थाने । ५ अ ॥
“ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु ।
शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम्” ॥)

औष्म्यं, क्ली, (उष्मन् + ष्यञ् ।) उष्मणो भावः ।

उष्णता ॥ (यथा रघुः । १७ । ३३ ।
“पूर्ब्बराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतम्” ॥)
अं

अं अंकारः । स तु अनुस्वारः । तन्त्रमते पञ्चदश-

स्वरवर्णः । (स तु पाणिन्यादिमते अयोगवाह एव
“अयोगवाहा विज्ञेया आश्रयस्थानभागिनः” ।
इत्यक्तेः । नस्ति योगः अक्षरसमाम्नायसूत्रेषु येषां
ते अयोगास्तथापि वाहयन्ति णत्वषत्वकार्य्यं नि-
र्व्वाहयन्तीति वाहाः अयोगाश्च ते वाहाश्चेति
अयोगवाहा अनुस्वारविसर्गजिह्वामूलीयोपाध्मा-
नीया इत्यर्थः ।)
विन्दुमात्रानुनासिकवर्णोऽयं अकार उच्चारणार्थः ।
वोपदेवेनास्य नुरिति संज्ञा कृता । स तु नकार-
मकारस्थानेऽपि भवति ॥ * ॥
“नुवीपूर्ब्बेण संबद्धौ मून्यौ तु परगामिनौ ।
चत्वारोऽयोगवाहाख्या णत्वकर्म्मण्यचो मताः” ॥
इति दुर्गादासः ॥ * ॥
“अंकारं विन्दुसंयुक्तं पीतविद्युत्समप्रभम् ।
पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम् ॥
सर्व्वज्ञानमयं वर्णं विन्दुत्रयसमन्वितम्” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायाम् ।) तस्य
लेखनप्रकारो यथा ।
“अकाररूपशीर्षे तु दक्षिणे विन्दुरूपिणी ।
ब्रक्ष्मा विष्णुश्च रुद्रश्च क्रमशस्तासु तिष्ठति ॥
या तु विन्दुमयी रेखा सैवाद्या शक्तिरीरिता” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा ।
“अंकारश्चक्षुषो दन्तो घटिका समगुह्यकः ।
प्रद्युम्नः श्रीमुखी प्रीतिर्वीजयोनिर्वृषध्वजः ॥
परं शशी प्रमाणीशः सोमविन्दुः कलानिधिः ।
अक्रूरश्चेतना नादपूर्णा दुःखहरः शिवः ॥
शिवः शम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः ।
पूर्णिमा रेवती शुद्धः कन्याचरवियद्रविः ॥
अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी ।
केदारो रात्रिनाशश्च कुब्जिका चैव वुद्वुदः” ॥
इति तन्त्रशास्त्रम् ॥

अं, क्ली, परं ब्रह्म । इत्येकाक्षरकोषः ॥ (महेश्वरः ।

यदुक्तम् महाभारते १३ । १७ । १२६ ।
“विन्दुर्विसर्गः सुमुखः शरः सर्व्वायुधः सहः” ॥)
अः

अः अःकारः स च विसर्गः । द्विविन्दुमात्रकण्ठ्यवणा-

ऽयं अकार उच्चारणार्थः । तन्त्रमते स च षोडश-
स्वरवर्णः । (पाणिन्यादिमते अयं अयोगवाहएव ।
अयोगवाहस्य व्युत्पत्तिस्तु अनुस्वारशब्दे द्रष्टव्या ।)
वोपदेवेनास्य विरिति संज्ञा कृता । स तु सका-
ररकारयोः स्थानेऽपि भवति ॥ * ॥
“अःकारं परमेशानि ! विसर्गसहितं सदा ।
अःकारं परमेशानि ! रक्तविद्युत्प्रभामयम् ॥
पञ्चदेवमयो वर्णः पञ्चप्राणमयः सदा ।
सर्व्वज्ञानमयो वर्ण आत्मादितत्त्वसंयुतः ॥
विन्दुत्रयमयो वर्णः शक्तित्रयमयः सदा ।
किशोरवयसाः सर्व्वे गीतवाद्यादितत्पराः ॥
शिवस्य युवती एताः स्वयं कुण्डली मूर्त्तिमान्” ॥
इति कामधेनुतन्त्रम् ॥ (वङ्गीयभाषायां) तस्य
लेखनप्रकारो यथा ।
“अकाररूपदक्षे तु द्विविन्दुरध ऊर्द्ध्वतः ।
ब्रह्मेशविष्णवस्तासु मात्रा शक्तिः समीरिता ॥
विन्दुद्वयान्विता रेखा सैवाद्या शक्तिरीरिता” ॥
इति वर्णोद्धारतन्त्रम् ॥ * ॥ अस्य नामानि यथा ।
“अः कण्ठको महासेनः कालापूर्णामृता हरिः ।
इच्छा भद्रा गणेशश्च रतिर्विद्यामुखी सुखम् ॥
द्विविन्दुरसना सोमोऽनिरुद्धो दुःखसूचकः ।
द्विजिह्वः कुण्डलं वक्त्रं सर्गः शक्तिर्निशाकरः
सुन्दरी सुयशानन्ता गणनाथो महेश्वरः” ॥
इति तन्त्रशास्त्रम् ॥

अः, पुं, महेश्वरः । इत्येकाक्षरकोषः ॥ (यदुक्तम्, --

महाभारते १३ । १७ । १२६ ।
“विन्दुर्विसर्गः सुमुखः शरः सर्व्वायुधः सहः” ॥)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ए&oldid=43919" इत्यस्माद् पुनः प्राप्तिः