सामग्री पर जाएँ

शब्दकल्पद्रुमः/ऊ

विकिस्रोतः तः
पृष्ठ १/२७८

, दीर्घोकारः । स च षष्ठस्वरवर्णः । अस्य उच्चा-

रणस्थानं ओष्ठः ॥ (“उपूपध्मानीयानामोष्ठौ” ।
स च (द्विमात्रत्वात्) दीर्घः (त्रिमात्रत्वात्)
प्लुतश्च भवति । (प्रत्येकं उदात्तानुदात्तसरितभेदात्
त्रिविधोऽपि अनुनासिकानुनासिकभेदात् षड्-
विधोऽपि भवति ॥
“स्वराणामूष्मणाञ्चैव विवृतं करणं स्मृतम्” ।
इति शिक्षावचनात् अस्योच्चारणे विचार आन-
न्तरप्रयत्नः । विवृतं जिह्वाग्रादेः स्पर्शनाभावः ।
यदुक्तं तत्रैव “अचोऽस्पृष्टायणस्त्वीषत् नेम-
स्पृष्टाः शलः स्मृताः” । इति ।)
“शङ्खकुन्दसमाकारं ऊकारं परमकुण्डली ।
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ॥
पञ्चप्राणयुतं वर्णं पीतविद्युल्लता तथा ।
धर्म्मार्थकाममोक्षञ्च सदा सुखप्रदायकम्” ॥
इति कामधेनुतन्त्रम् ॥ तस्य (वङ्गीयभाषायाम्)
लेखनप्रकारो यथा, --
“तद्रूपाधोगता रेखा कुब्जिता वामतः शुभा” ।
तद्रूपा पूर्ब्बोक्तोकाररूपा ।
“तिष्ठन्ति तासु रेखासु यमाग्निवरुणाः क्रमात् ॥
अधोर्द्ध्वगामिनी मात्रा लक्ष्मीर्वाणी च सा स्मृता” ।
इति वर्णोद्धारतन्त्रम् ॥ * ॥ तस्य नामानि यथा, --
“ऊः कण्ठको रतिः शान्तिः क्रोधनो मधुसूदनः ।
कामराजः कुजेशश्च महेशो वामकर्णकः ॥
अर्घीशो भैरवः सूक्ष्मो दीर्घघोणा सरस्वती ।
विलासिनी विघ्नकर्त्ता लक्ष्मणो रूपकर्षिणी ॥
महाविद्येश्वरी षष्ठा षण्डोभूः कान्यकुब्जकः” ।
इति तन्त्रम् ॥ (मातृकान्यासेऽस्य वामकर्णे
न्यस्यतया तदाख्ययाप्यभिधानम् । यथा, मातृका-
न्यासमन्त्रे “उं नमो दक्षिणकर्णे ऊं नमो वाम-
कर्णे” । अनुबन्धविशेषः । यथाह कविकल्पद्रुमे ।
“उः क्त्वावेभूस्तु वेटकः । तेन सिधू शास्त्रे इत्यस्य
लुङि कृते असेधीत् असैत्सीत् इति स्यात् ॥)

, व्य, (वेञ् + क्विप् ।) वाक्यारम्भः । रक्षा । अनु-

कम्पा । इति मेदिनी ॥ (सम्बोधनम् ॥)

ऊः, पुं, (अवति रक्षतीति । अव् + किप् । ज्वरत्त्वरे-

त्यूट् । ६ । ४ । २० ।) महेश्वरः । इति पुरुषोत्तमः ॥
चन्द्रः । इति शब्दरत्नावली ॥ (रक्षाकर्त्तरि, त्रि ॥)

ऊढः, त्रि, (उह्यते स्म । वह् + क्त ॥) विवाहितः ।

इति स्मृतिः ॥
(“भार्य्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ” ।
इति भट्टिः । ४ । १५ ॥) कृतवहनः ॥

ऊढकङ्कटः, त्रि, (उढो धृतः कङ्कटो येन ।) कवच-

धारी । तत्पर्य्यायः । सन्नद्धः २ वर्म्मितः ३ सज्जः ४
दंशितः ५ । इत्यमरः ॥

ऊढा, स्त्री, (वह + क्त + टाप् ।) भार्य्या । इति

हेमचन्द्रः ॥ (विवाहिता कन्या । यथा, --
“ऊढानूढासमवायेऽनूढैव प्रथमं धनहारिणी” ।
इति स्मृतिः ॥)

ऊतं, त्रि, (वे + क्त ।) तन्तुसन्ततम् । तत्पर्य्यायः ।

स्यूतम् २ उतम् ३ । इत्यमरः ॥ कापड वोना इति
भाषा ॥ (प्रथितम् । अव + क्त । ज्वरत्त्वरेत्यूट् ६ ।
४ । २० । रक्षितम् ॥)

ऊतिः, स्त्री, (अव् + क्तिन् । ज्वरत्त्वरेत्यूट् । ६ । ४ ।

२० ।) रक्षणम् । (वे + क्तिन् ।) स्यूतिः । इति
मेदिनी ॥ वोना सेलाइ इति भाषा । क्षारणम् ।
इति शब्दरत्नावली ॥ जवनम् । इत्यमरटीकायां
स्वामी ॥ लीला । इति श्रीभागवतम् ॥ (कर्त्तरि
क्तिचि । रक्षाकर्त्त्री । यथा, ऋग्वेदे । ४ । ४ । २ ॥
“उरुष्यन्तम् माध्वी दस्ना न ऊतीः” । कर्म्मणि
क्तिन् । पुराणस्य दशविधलक्षणमध्ये कर्म्मवासना-
रूपो लक्षणभेदः । यथा, भागवते । २ । २० -- १४ ।
श्रीशुक उवाच ।
“अत्र सर्गो विसर्गश्च स्थानं पोषणभूतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥
दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।
ब्रह्मणो गुणवैषम्यात् विषर्गः पौरुषः स्मृतः ॥
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः ।
मन्वन्तराणि सद्धर्म्म ऊतयः कर्म्मवासनाः” ॥
“कर्म्मवासना ऊतयः” । इति चूर्णिकाटीका ॥)

ऊधः, [स्] क्ली, (उन्द + असुन् । ऊधसो नङिति

निर्देशात् ऊधादेशः ।) आपीनम् । इत्यमरः ॥
गाइर पालान् इति भाषा । (यथा महा-
भारते । चैत्ररथपर्ब्बणि । १ । १७६ । १३ ॥
(“मण्डूकनेत्रां स्वाकारां पीनोधसमनिन्दिताम्” ।
“यदैव स्त्रियै स्तनावाप्यायेते ऊधः पशूनाम्” ।
इति शतपथब्राह्मणे । २ । ५ । १ । ५ ॥)

ऊधस्यं, क्ली, (ऊधसि भवम् । ऊधस् + यत् ।) दुग्धम् ।

इति हेमचन्द्रः ॥

ऊन, त् क परिहाने । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) दीर्घादिर्दन्त्योपधः । तथा
च । “क्षोभमाशु हृदयं न यदूनां रागवृद्धिमकरोन्न
यदूनाम्” । इति माघयमकम् । परिहानं न्यूनक्रिया ।
ऊनयति बणिक् स्वर्णं प्रथमपरिमाणात् । परि-
माणमात्रेऽयमिति केचित् । मा भवान् ऊनिनत् ।
ऊनधोर्ञिः अङ् द्वित्वे स्वस्थानमेव नास्ति अतो
नाग्लोपित्वमिति सन्देहनिरासार्थमाह । ओने-
रृदनुबन्धज्ञापकबलात् द्वित्वात् प्राक् प्राप्तो
ह्रस्वो अग्लोपित्वान्न स्यात् । इति दुर्गादासः ॥

ऊनं, त्रि, (अवतीति । अव + “इण्षिञ्जिदीडुष्य-

विभ्यो नक्” । ३ । २ । इति उणादिसूत्रेण नक् ।
“ज्वरत्वरेति” । ६ । ४ । २० ऊट् । सर्व्वस्वे तु ऊन-
यतेरूनमिति साधितम् ।) हीनम् । न्यूनम् ॥
(“ऊनं न साचेष्वधिको बबाधे” । इति रघुः । २ ।
१४ ॥ तत्रैव । ११ । १ ।
पृष्ठ १/२७९
:“किञ्चिदूनमनूनर्द्धेः शरदामयुतं ययौ” ।
“ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा वंहिः” ।
इति मनुः । ५ । ६८ ॥)

ऊनविंशः, त्रि, ऊनविंशतेः पूरणः । यथा, --

“तिथ्यङ्गवेदैकदशोनविंश-
भैकादशाष्टादशविंशसंख्याः ।
इष्टोडना सूर्य्ययुतोडुना च
योगादमूश्चेद्दशयोगभङ्गः” ॥
इति ज्योतिस्तत्त्वम् ॥

ऊनविंशतिः, स्त्री, (एकेन ऊना विंशतिः ।) एकोन-

विंशतिः । ऊनिश इति भाषा । यथा । “ऊनविं-
शतिदास्यमानपिण्डस्थानानि” । इति तिथ्यादि-
तत्त्वे आमावस्याप्रकरणे ॥

ऊम्, व्य (ऊय्यते । ऊय् + मुक् ।) रोषोक्तिः ।

पृच्छा । इति मेदिनी ॥ निन्दा । स्पर्द्धा । इति
शब्दरत्नावली ॥

ऊमं, क्ली, (अवतीति । अव + “अविसिविमिशु-

षिभ्यः कित्” । १ । १४३ । इति उनादिसूत्रेण
मन् । कित् ऊठ् च ।) देशविशेषः । इति
सिद्धान्तकौमुदी ॥

ऊय, ई ङ सेवने । तन्तुसन्ताने इति यावत् ।

इति कविकल्पद्रुमः (भ्वादिं-आत्मं-सकं-सेट् ।)
दीर्घादिः । सेवनमिह षिव्युतन्तुततावित्यस्य
रूपं ई ऊतः । ङ ऊयते पटं सौचिकः । इति
दुर्गादासः ॥

ऊररी, व्य (ऊय् + वाहुलकात् ररीक् ।) विस्तारः ।

अङ्गीकारः । इति भरतो द्विरूपकोषश्च ॥

ऊरव्यः, पुं, (ऊरोर्जातः । ऊरु + शरीरावयवात्

यदिति यत् । वैश्यस्य ब्रह्मणः ऊरोर्जातत्वात्
तथात्वम् ।) वैश्यः । इत्यमरः ॥ (यदुक्तं यजुषि
। ३१ । ११ ॥
“ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः ।
ऊरूतदस्य यत् वैश्यः पद्भ्यां शुद्रोऽजायत” ॥ इति ॥)

ऊरी, व्य (ऊर + बाहुलकात् रीक् ।) विस्तारः ।

अङ्गीकारः । इत्यमरः ॥ (यथा हितोपदेशे वि-
ग्रहे । “ऊरीकृत्य प्रस्थितः” ॥)

ऊरीकृतः, त्रि, (ऊरी + कृ + क्त ।) अङ्गीकृतः ।

विस्तृतः । इत्यमरः ॥

ऊरुः, पुं, (ऊर्णूयते आच्छाद्यते इति । ऊर्णू +

(ऊर्णोतेर्नुलोपः । १ । ३१ । इति उणादिसूत्रेण
कर्म्मणि कुः नुलोपश्च ।) जानूपरिभागः । उरत्
इति भाषा । तत्पर्य्यायः । सक्थि २ । इत्यमरः ॥
(यथा, साहित्यदर्पणे ।
“भुवनत्रितये न बिभर्त्ति तुलामिदमूरुयुगं न
चमूरुदृशः” ।
“भुजमूर्द्ध्वोरुबाहुल्यादेकोऽपि धनदानुजः” ।
इति रघुः । १२ । ८८ । तथा मनुः । १ । ३१ ।
“लोकानान्तु विवृद्ध्यर्थं मुखबाहूरुपादतः” ॥)

ऊरुजः पुं, (ऊरोर्जायते इति । ऊरु + जन् + ड ।)

बैश्यः । स तु ब्रह्मण ऊरुभ्यां जातः । इत्यमरः ॥
(यथा, विष्णुपुराणे । १ । ६ । ४ ।
रजसा तमसा चैव समुद्रिक्तास्तथोरुजाः” ।
भृगुवंशीय ऋषिभेदः । स च और्व्व इति नाम्ना
ख्यातः । तस्य जन्मकथा और्व्वशब्दे द्रष्टव्या ॥)

ऊरुपर्ब्बा, [न्] पुं, क्ली, (ऊरोः पर्ब्बेव ।) जानु ।

इत्यमरः ॥ हाँटु इति भाषा ।

ऊरुरी, ब्य, (ऊर + रुरीक् ।) विस्तारः । अङ्गी-

कारः । इति भरतो द्विरूपकोषश्च ॥

ऊरुस्तम्भः, पुं, (ऊरू स्तभ्नाति इति ऊरु + स्तन्भ +

अण् ।) ऊरुरोगविशेषः । यथा । अथोरुस्तम्भा
धिकारः । तत्रोरुस्तम्भस्य विप्रकृष्टसन्निकृष्टनिदान-
सम्प्रात्पिपूर्ब्बकं लक्षणमाह ।
“शीतोष्णद्रवसंशुष्कगुरुस्निग्धैर्न्निषेवितैः ।
जीर्णाजीर्णे तथायाससंक्षोभस्वप्नजागरैः ॥
सश्लेष्ममेदः पवनः साममत्यर्थस्रञ्चितम् ।
अभिभूयेतरं दोषमूरू चेत् प्रतिपद्यते ॥
सक्थ्यस्थिनी प्रपूर्य्यान्तःश्लेष्मणा स्तिमितेन सः ।
तदा स्तभ्नाति तेनोरू स्तब्धौ शीतावचेतनौ ॥
परकीयाविव गुरू स्यातामतिशयव्यथौ ।
ध्यानाङ्गमर्द्दस्तैमित्यतन्द्राच्छर्द्द्यरुचिज्वरैः ॥
संयुतौ पादसदनकृच्छ्रोद्धरणसुप्तिभिः ।
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे” ॥
जीर्णाजीर्णे किञ्चिज्जीर्णं किञ्चिदजीर्णं तस्मिन्
भोजनमित्यर्थः । अतएव दृढबलेन जीर्णाजीर्णे
समश्नत इति पठितम् । तत्र शीतादिभिर्निषे-
वितैर्भुक्तैः । संक्षोभेण सञ्चलनेन । स्वप्नेन दिवा ।
जागरणेन रात्रौ । अभिभूय दूषयित्वा । इतरं
दोषं पित्तम् । स्तिमितेन आर्द्रेण द्रुतेनेति यावत् ।
न तु घनेन । एवंविधेन श्लेष्मणा । सः पवनः ।
तदा ऊरू स्तभ्नाति तेन स्तम्भेन । अचेतनौ शून्यौ ।
परकीयाविव अक्रियावित्यर्थः । ध्यानं संमूढता ।
पादसम्बन्धिनीभिः सदनकृच्छ्रोद्धरणसुप्तिभिश्च
संयुक्तौ । अयंसुश्रुतेन महावातव्याधिषु पठितः ॥ *
प्राग्रूपमाह ।
“प्राग्रूपं तस्य निद्रातिध्यानं स्तिमितता ज्वरः ।
रोमहर्षोऽरुचिश्छर्द्दिर्जङ्घोर्व्वोः सदनं तथा” ॥ * ॥
तस्योपशयमाह ।
“वातशङ्किभिरज्ञानात्तत्र स्यात् स्नेहनात् पुनः ।
पादयोः सदनं सुप्तिः कृच्छ्रादुद्धरणं तथा ॥
जङ्घोरुग्लानिरत्यर्थं शश्वदादाहवेदना ।
पदञ्च व्यथते न्यस्तं शीतस्पर्शं न वेत्ति च ॥
संस्थाने पीडने गत्यां चालने चाप्यनीश्वरः ।
अन्यनेयौ हि संभग्नावूरू पादौ च मन्यते” ॥
अन्यनेयौ अन्यपुरुषचाल्यौ भवत इत्यर्थः । अज्ञा-
नात् अनिश्चयात् स्तम्भ-सुप्ति-कम्पादि-दर्शनेन ।
वातशङ्किभिः वातव्याधिशङ्किभिः । तत्र ऊरुस्तम्भे ।
स्नेहनात् स्नेहादिना स्नेहन्या चिकित्सया । पाद-
सदनादय ऊरुभग्नोपमत्वात् ते विकाराः स्युः ।
जङ्घोरुग्लानिः जङ्घोर्व्वोर्गमनादावशक्तिः । आदा-
हवेदना ईषद्दाहेन सह वेदना ॥ * ॥
ऊरुस्तम्भस्यारिष्टं लक्षणमाह ।
“यदा दाहार्त्तितोदार्त्तो वेपनः पुरुषो भवेत् ।
ऊरुस्तम्भस्तदा हन्यात् साधयेदन्यथा नवम्” ॥
अन्यथा दाहाद्युक्तोपद्रवरहितं तमपि नवमुत्पन्न-
मात्रं साधयेत् ॥ * ॥ * ॥
अथोरुस्तम्भस्य चिकित्सा ।
“स्नेहासृक्स्राववमनं वस्तिकर्म्मविरेचनम् ।
वर्जयेदाढ्यवाते तु यतस्तैस्तस्य कोपनम् ॥
तस्मादत्र सदा कार्य्यं स्वेदनं घनरूक्षणम् ।
आममेदःकफाधिक्यान्मारुतं नयता समम् ॥
यत् स्यात् कफप्रशमनं न तु मारुतकोपनम् ।
तत्सर्व्वं सर्व्वदा कार्य्यमूरुस्तम्भस्य भेषजम् ॥
सर्व्वो रूक्षक्रमः कार्य्यस्तत्रादौ कफनाशनः ।
पश्चाद्वातविनाशाय विधातव्याखिला क्रि ॥
भोज्याः पुराणाः श्यामाककोद्रवोद्दालशालयः ।
जाङ्गलैरघृतैर्म्मांसैः शाकैश्चालवणैर्हितैः” ॥
उद्दालो वनकोद्रवः ।
“दद्याद्वास्तूकशाकेन हीनेन लवणेन तु ।
जीर्णशाल्योदनं रूक्षमूरुस्तम्भवते भिषक् ॥
रूक्षणाद्वातकोपश्चेन्निद्रानाशादिसम्भवः ।
स्नेहस्वेदक्रमस्तत्र कार्य्यो वातामयापहः ॥
प्रतारयेत् प्रतिस्रोतः सरितं शीतलोदकाम् ।
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥
मूलैर्व्वा वाजिगन्धायाः अथवार्कस्य कारयेत् ।
गाढमुत्सादनं वैद्य ऊरुस्तम्भे सवेदने ॥
त्रिफलाग्रन्थिकव्योषचूर्णं लिह्यात् समाक्षिकम् ।
ऊरुस्तम्भविनाशाय पुरं मूत्रेण वा पिबेत् ॥
नागरं पिप्पलीञ्चापि गुग्गुलुं वा शिलाजतु ।
ऊरुस्तम्भी पिबेण्मूत्रैर्द्दशमूलीरसेन वा” ॥
इत्यूरुस्तम्भाधिकारः । इति भावप्रकाशः ॥
अपि च ।
“त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी ।
ऊरुस्तम्भहरो ह्येष उत्तमन्तु विरेचनम् ॥
हरीतकीं शृङ्गवेरं देवदारु च चन्दनम् ।
क्वाथयेच्छागदुग्धेन अपामार्गस्य मूलकम् ॥
जङ्घाशूलमूरुस्तम्भं सप्तरात्रे तु नाशयेत्” ॥ * ॥
इति गारुडे १८७ अध्यायः ॥
(“एक ऊरुस्तम्भ इति आमत्रिदोषसमुत्थानः” ।
इति चरके सूत्रे ऊनविंशोऽध्यायः ॥
अस्य सकारणलक्षणसम्प्राप्तिचिकित्सितानि यथा,
“श्रिया परमया ब्राह्म्या परया च तपःश्रिया ।
अहीनं चन्द्रसूर्य्याभ्यां सुमेरुमिव पब्बतम् ॥
धीर्धृतिस्मृतिविज्ञानज्ञानकीर्त्तिक्षमालयम् ।
अग्निवेशो गुरुं काले संशयं परिपृष्टवान् ॥
भगवन् ! पञ्च कर्म्मांणि समस्तानि पृथक्तथा ।
निर्द्दिष्टान्यामयानान्तु सर्व्वेषामेव भेषजम् ॥
दोषजोऽस्त्यामयः कश्चिद्यस्यैतानि भिषग्वर ! ।
न स्युः शक्ता निशमने साध्यस्य क्रियया ततः ॥
अस्त्यूरुस्तम्भ इत्युक्ते गुरुणा तस्य कारणम् ।
सलिङ्गं भेषजं भूयः पृष्टस्तेनाब्रवीद्गुरुः” ॥ * ॥
निदानं सम्प्राप्तिलक्षणे च यथा ॥
“स्निग्धोष्णलघुशीतानि जीर्णाजीर्णे समश्नतः ।
द्रव्यशुष्कदधिक्षीरात्युग्रानूपौदकामिषैः ॥
पिष्टव्यापन्नमद्यातिदिवास्वप्नप्रजागरैः ।
लङ्घनाध्यशनायासभयवेगविधारणैः ॥
स्नेहाच्चामञ्चितङ्कोष्ठे वातादीन् मेदसा सह ।
पृष्ठ १/२८०
:रुद्ध्वाशु गौरवादूरू यात्यधोगैः शिरादिभिः ॥
पूरयन् सक्थिजङ्घोरुदोषो मेदोबलोत्कटः ।
अविधेयं परिस्पन्दं जनयत्यल्पविक्रमम् ॥
महासरसि गम्भीरे पूर्णेऽम्बु स्तिमितं यथा ।
तिष्ठति स्थिरमक्षोभ्यं तद्वदूरुगतः कफः ॥
गौरवायाससङ्कोचदाहरुक्सुप्तिकम्पनैः ।
भेदस्फुरणतोदैश्च युक्तो देहं निहन्त्यसून् ॥
गुरुः श्लेष्मा समेदस्को वातपित्तेऽभिभूय तु ।
स्तम्भयेत् स्थैर्य्यशैत्याभ्यामूरुस्तम्भस्ततो मतः” ॥
पूर्ब्बरूपाणि यथा ॥
“प्राग्रूपं ध्याननिद्रातिस्तैमित्यानोचकज्वराः ।
रोमहर्षश्च छर्द्दिश्च जङ्घोर्व्वोः सदनन्तथा” ॥
अन्यदत्रैव प्रागुक्तम् ॥ * ॥
चिकित्सा-यथा ॥
“तस्य न स्नेहनं कार्य्यं न वस्तिर्न विरेचनम् ।
न चैव वमनं यस्मात्तन्निबोधत कारणम् ॥
वृद्धये श्लेष्मणो नित्यं स्नेहनं वस्तिकर्म्म च ।
तत्स्थस्योद्धरणे चैव न समर्थं विशोधनम् ॥
श्लेष्मस्थानगतः श्लेष्मा पित्तञ्च वमनात्सुखम् ।
हर्त्तुमामाशयस्थौ च स्रंसनात्तावुभावपि ॥
पक्वाशयस्थाः सर्व्वेऽपि वस्तिभिर्मूलनिर्जयात् ॥
शक्या न त्वाममेदोभ्यां स्तब्धा जङ्घोरुसंस्थिताः ॥
वातस्थाने हितं शैत्यात्तयोस्तम्भाच्च तद्गताः ।
न शक्याः सुखमुद्धर्त्तुं जलं निम्नादिव स्थलात् ॥
तस्य संशमनं कुर्य्यात् क्षपणं शोधनन्तथा ।
आधिक्यादामकफवोर्युक्त्यपेक्षः सदा भिषक् ॥
सदा रूक्षोपचाराय यवश्यामाककोद्रवान् ।
शाकैरलवणैर्दद्याज्जलतैलोपसाधितैः ॥
सुनिषण्णकनिम्बार्कवेत्रारम्बधपल्लवैः ।
वायसीवास्तुकैरन्यैस्तिक्तैश्च कुलकादिभिः ॥
क्षारारिष्टप्रयोगैश्च हरीतक्यास्तथैव च ।
मधूदकस्य पिप्पल्या ऊरुस्तम्भविनाशनाः ॥
समङ्गा शाल्मली विल्वं मधुना सह नापिबेत् ।
तथा ग्रीवेष्टकोदीच्यदेवदारुनतान्यपि ॥
चन्दनं धातकीकुष्ठं तालीशं नलदन्तथा ।
मुस्तं हरीतकी लोध्रं पद्मकं तिक्तराहिणी ॥
देवदारु हरिद्रे द्वे वचा कटुकरोहिणी ।
पिप्पली पिप्पलीमूलं सरलं देवदारु च ॥
चव्यं चित्रकमूलानि देवदारु हरीतकी ।
भल्लातकं समृला च पिप्पली पञ्च तान् पिबेत् ॥
सक्षौद्रानर्द्धश्लोकोक्तान् कल्कानूरुग्रहापहान्” ॥
“मूर्व्वामतिविषां कुष्ठं चित्रकं कटुरोहिणीम् ।
पूर्व्ववद्वा पिबेत्तोये रात्रिस्थितमथापि वा ॥
स्वर्णक्षीरीमतिविषां मुस्तं तेजोवतीं वचाम् ।
सुराह्वं चित्रकं कुष्ठं पाठां कटुकरोहिणीम् ।
लेहयेन्मधुना चूर्णं मक्षौद्रं वा जलप्लुतम्” ॥
“अपतर्पणजश्च स्याद्दोषः सन्तर्पयेत्तु तम् ।
युक्त्या जाङ्गलर्जर्मासैः पुराणैश्चैव शालिभिः ॥
रूक्षणाद्वातकोपश्चेन्निद्रानाशार्त्तिपूर्ब्बकः ।
स्नेहस्वेदक्रमस्तत्र कार्य्यो वातामयापहः” ॥
“कुष्टं श्रीवंष्टकोदीच्यं सरलं दारुकेशरम् ।
अजगन्धाश्वगन्धा च तैलन्तैः सार्षपं पचेत् ।
सक्षौद्रं मात्रया तच्चाप्यूरुस्तम्भार्द्दितः पिबेत्” ॥
इति कुष्ठाद्यं तैलम् ॥ * ॥
“पलाभ्यां पिप्पलीमूलनागरादष्टकट्वरः ।
तैलप्रस्थः समो दध्ना गृध्रस्यूरुग्रहापहः” ॥
इति अष्टकट्वरं तैलम् ॥ * ॥
“इत्यभ्यन्तरमुद्दिष्टमूरुस्तम्भस्य भेषजम् ।
श्लेष्मणः क्षपणन्त्वन्यद्वाह्यं शृणु चिकित्सितम् ॥
वल्मीकमृत्तिकामूलं करञ्जात् सफलत्वचम् ।
इष्टकानां ततश्चूर्णैः कुर्य्यादुत्सादनं भृशम् ॥
मूलैर्वाप्यश्वगन्धाया मूलैरर्कस्य वा भिषक् ।
पिचुमर्द्दस्य वा मूलैरथवा देवदारुणः ॥
क्षौद्रसर्षपवल्मीकमृत्तिकासंयुतैर्भिषक् ।
गाढमुत्सादनं कुर्य्यादूरुस्तम्भे प्रलेपनम्” ॥
“श्योनाकं खदिरं विल्वं वृहत्यौ सरलासनौ ।
अग्निमन्थाढकीशिग्रुश्वदंष्ट्रासुरसार्जकान् ॥
तर्कारीं नक्तमालञ्च जलेनोत्क्वाथ्य सेचयेत् ।
प्रलेपो मूत्रपिष्टैर्वाप्यूरुस्तम्भनिवारणः ॥
कफक्षयार्थं व्यायामेष्वेनं शक्येषु चोत्सृजेत् ।
स्थलान्याक्रामयेत् कल्यं शर्कराः सिकतास्तथा ॥
प्रतारयेत् प्रतिस्रोतो नदीं शीतजलां शिवाम् ।
सरश्च विमलं शीतं स्थिरतोयं पुनः पुनः ॥
तथा विशुष्केऽस्य कफे शान्तिमूरुग्रहो व्रजेत् ।
श्लेष्मणः क्षपणं यत्स्यान्न च मारुतकोपनम् ॥
तत् सर्व्वं सर्व्वदा कार्य्यमूरुस्तम्भस्य भेषजम् ।
शरीरं बलमग्निञ्च कार्य्यैषा रक्षता क्रिया” ॥
इति चरके चिकित्सास्थाने २७ अध्यायः ॥ * ॥
“निष्कत्रयं शुद्धसूतं निष्कद्वादशगन्धकम् ।
गुञ्जावीजञ्च षण्णिष्कं निम्ववीजं जया तथा ॥
प्रत्येकं निष्कमात्रन्तु निष्कं जैपालवीजकम् ।
जया जम्बीरधुस्तूरकाकमाचीद्रवैर्दिनम् ॥
भावयित्वा वटीं कृत्वा दद्याद्गुञ्जाचतुष्टयम् ।
गुञ्जाभद्ररसो नाम हिङ्गुसैन्धवसंयुतः ॥
शमयत्यूर्द्ध्वगं दुःखमूरुस्तम्भं सुदारुणम्” ॥
इति गुञ्जाभद्रो रसः ॥ इति वैद्यकरसेन्द्रसार-
संग्रहे ऊरुस्तम्भाधिकारः ॥ * ॥)

ऊरुस्तम्भा, स्त्री, (ऊरुस्तम्भ इव आकृतिर्यस्याः ।)

कदलीवृक्षः । इति राजनिघण्टः ॥ (कदलीशब्दे-
ऽस्या गुणादयो व्याख्येयाः ॥)

ऊर्ज्ज, क जीवने । बले । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सेट् ।) दीर्घादिः । क ऊर्जयति
जनो जीवति बली स्याद्वेत्यर्थः । इति दुर्गादासः ॥

ऊर्ज्जं, क्ली, (उर्ज्ज्यते जीव्यतेऽनेत । ऊर्ज्ज + घञ् ।)

ञलम् । इति शब्दरत्नावली ॥ (यथा, भागवते ।
४ । २४ । ३८ ॥
“नम ऊर्ज इषे एय्याः पतये यज्ञरेतसे ।
तृप्तिदाय च जीवानां नमः सर्व्वरसात्मने” ॥)

ऊर्ज्जः, पुं, (ऊर्ज्जयति उत्साहयति जिगीषून् इति ।

ऊर्ज्ज + णिच् + अच् ।) कार्त्तिकमासः । उत्-
साहः । बलम् । (यथा, ऋग्वेदे । १ । २६ । १ ।
“वसिष्ठा हि मिहेध्य वस्त्राण्यूर्जां पते” । “ऊर्जां
बलपराक्रमादीनाम्” । इति भाष्यम् ।) प्राणनम् ।
इति मेदिनी ॥ (वीर्य्यम् । यथा, मनुः । २ । ५५ ।
“पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति” ॥
“यस्मात् पूजितमन्नं सामर्थ्यं वीर्य्यं च ददाति” ॥)
इति कुल्लुकभट्टः ॥) कान्तिकनामसंवत्सरः ॥
(स्वारोचिषस्य मनोः पुत्त्रभेदः । यथा हरिवंशे
७ । १४ ।
“प्रथितश्च नभस्यश्च नभ ऊर्ज्जस्तथैव च ।
स्वारोचिषस्य पुत्त्रास्ते मनोस्तात महात्मनः” ॥
स्त्री, हिरण्यगर्भकन्या । यथा, हरिवंशे ७ । १७ ।
“हिरण्यगर्भस्य सुता ऊर्ज्जा नाम सुतेजसः” ॥)

ऊर्ज्जस्वलः, त्रि, (अतिशयितः ऊर्जो बलं अस्या-

स्तीति । ऊर्जस् + ज्योस्नातमिस्रेति वलच् ।)
अतिशयबलवान् । इत्यमरः ॥ (“ऊर्जस्वलं हस्ति-
तुरङ्गमेतत्” । इति भट्टिः । ३ । ५५ । “भोक्तार-
मूर्जस्वलमात्मदेहम्” । इति रघुः । २ । ५० ॥)

ऊर्ज्जस्वि, [न्] क्ली, (ऊर्जस् + विनि ।) अलङ्कार-

विशेषः । तस्य लक्षणम् । साहङ्कारवस्त्वभिधा-
नम् । तथा चोक्तम् । ऊर्जस्वि रूढाहङ्कारम् ।
तस्योदाहरणं यथा । “प्रचपलमगुरुं भरास-
हिष्णुं जनमसमानमनूर्जितम् विवर्ज्य । कृतवस-
तिमिवार्णवोपकण्ठे स्थिरमतुलोन्नतिमूढतुङ्गमे-
घम्” ॥ इति भट्टिः ॥

ऊर्ज्जस्वी, [न्] त्रि, (अतिशयितं उर्जो बलमस्या-

स्तीति + ऊर्जस् + विनि ।) अतिशयबलवान् ।
इत्यमरः ॥ (यथा, भारते ।)
“अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः” ॥)

ऊर्णनाभः, पुं, (ऊर्णेव तन्तुर्नाभौ यस्य । यद्वा मृदु-

त्वादूर्णेव नाभिर्यस्य । नाभेरुपसङ्ख्यानमित्यच् ।
ङयापोरिति ६ । ३ । ६३ । ह्रस्वः ।) कीटविशेषः ।
माकड्सा इति भाषा । तत्पर्य्यायः । लूता २
तन्तुवायः ३ मर्कटकः ४ । इत्यमरः ।
(यथाह उज्वलदत्तः । ५ । ४७ ।
“नाचारेण विना सृष्टिरूर्णनाभेरपीष्यते ।
नच निःसाधनः कर्त्ता कश्चित् सृजति किञ्चन” ॥
अत्र ऊर्णनाभिरिति चिन्त्यम् ।) (स्वनामख्यातो
धृतराष्ट्रपुत्त्रभेदः । यथा, महाभारते । १ । ६७ । ९७ ।
“ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ” ।
स्यनामख्यातो दैत्यभेदः । यथा, हरिवंशे । ३ । ८६ ।
“सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः” ॥)

ऊर्णनाभिः, पुं, (ऊर्णावत् नाभौ यस्य ।) मर्कटकः ।

इति शब्दरत्नावली ।
(यथा, भागवते । २ । ५ । ५ ।
“आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः” ॥)

ऊर्णा, स्त्री, (ऊर्णोति । ऊर्णु + “ऊर्णोते डः” । ५ । ४७ ।

इति उणादिसूत्रेण डः । डित्वात् टिलोपः ।)
मेषादिलोम । पसम् इति भाषाभ्रु । वोरन्तरावर्त्तः ।
इत्यमरः ॥ स तु भ्रूद्वयमध्ये मृणालतन्तुसूक्ष्मः
शुभायत एकः प्रशस्तावर्त्तो महापुरुषलक्षणम्
चक्रवर्त्त्यादीनां महायोगिनाञ्च भवति । इति
भरतः ॥ (चित्ररथपत्नी । यथा, भागवते । ५ ।
१५ । १२ । “चित्ररथादूर्णायां सम्राडजनिष्ट” ॥)

ऊर्णायुः, पुं, (ऊर्णा अस्यास्तीति । ऊर्णा युस् ।)

मेषलोमकम्बलः । मेषः । इत्यमरः ॥ ऊर्णनाभः ।
पृष्ठ १/२८१
:इति हेमचन्द्रः ॥ क्षणभङ्गः । इति मेदिनी ॥
(गन्धर्व्वविशेषः । यथा, हरिवंशे ।
“ऊर्णायुश्चित्रसेनश्च हाहा हुहुश्च भारत ! ॥)

ऊर्णु, ञ ल आच्छादने । इति कविकल्पद्रुमः ॥

(अदां-उभं-सकं-सेट् ।) दीर्घादिर्दन्त्योपधः । रेफ-
योगान्मूर्द्धन्यः । तेन ऊर्णुनाव इत्यादौ निमित्ता-
भावान्मूलधातोर्णत्वाभावः । लञ ऊर्णोति ऊर्णौति
ऊर्णुते दिशं मेघः । इति दुर्गादासः ॥
(यथा, भट्टिः । १४ । १०३ ।
“ऊर्णुनाव स शस्त्रौघैर्वानराणामनीकिनीम्” ॥)

ऊर्द्दरः, पुं, (ऊर्जेन बलेन दृणाति विदारयति ।

ऊर्ज + दॄ + “ऊर्जिदृणातेरलचौ पूर्ब्बपदान्त्यलो-
पश्च” । ५ । ४० । उणादिसूत्रेण अल् अत् बा ।
स्वरभेदार्थं प्रत्ययद्वयम् ।) शूरः । राक्षसः । इत्यु-
णादिकोषः ॥ (कुसूलम् । धान्याद्याधारः ।
यथा, ऋग्वेदे । ३ । १४ । ११ ॥ “ऊर्द्दरं पृणता
यवेनेद्धम्” । “ऊर्द्दरं कुसूलम्” इति भाष्यम् ॥)

ऊर्द्धः, त्रि, उपरि । उच्छ्रितः । तुङ्गः । इति अन्त्यस्थ-

वकारान्तोर्द्ध्वशब्दार्थे मेदिनी ॥
अत्र ऊर्द्धशब्दो निर्व्वकारः । तदुक्तं वर्णदेश-
नायां । उज्जिहीते उद्गच्छति उदो हाङो डप्र-
त्ययः आदिवर्णस्य ऊरादेशः । इति मधुमाधवा-
दयः ॥ इति मृदङ्गभेदोर्द्धकशब्दस्य टीकायां
भरतः ॥ (यथा, महाभारते । मुद्गलज्ञानप्राप्तौ ।
३ । २६० । २ ।
“ऊर्द्धगः सत्पथः शश्वद्देवयानचरो मुने” ॥)

ऊर्द्धकः, पुं, (ऊर्द्धः सन् कायतीति । ऊर्द्ध + कै शब्दे

+ क ।) ऊर्द्ध्वकः । मृदङ्गविशेषः । इत्यमरटीकायां
भरतमुकुटौ । (यथा शब्दार्णवे ।
“ऊर्द्धको गोपुच्छवत् सत्रितालोऽष्टाङ्गुलो मुखे ।
धृत्वोर्द्ध्वं वाद्यते तेषां वादनं दुर्जनं न वा” ॥
तथाच चिन्तामणौ ।
“हरीतक्याकृतिस्त्वङ्क्यस्तथालिङ्ग्यो यवाकृतिः ।
ऊर्द्धको दण्डतुल्यः स्यात् मुरजा भेदतो मताः” ॥)

ऊर्द्ध्वः, पुं, दण्डवत्स्थिंतः । यथा, --

“आसीन ऊर्द्ध्वः प्रह्वो वा नियमो यत्र नेदृशः ।
तदासीनेन कर्त्तव्यं न प्रह्वेन न तिष्ठता” ॥
इत्यादि छन्दोगपरिशिष्टात् ॥ आसीनः उपविष्टः ।
“ऊर्द्ध्वो दण्डवत् स्थितः प्रह्वोऽवनतपूर्ब्बकायः” ।
इति श्राद्धतत्त्वम् ॥

ऊर्द्ध्वः, त्रि, (उत् + हा + ड । आदिवर्गस्य ऊरा-

देशः ।) उच्छ्रितः । तुङ्गः । उपरिष्टात् । इति
मेदिनी ॥ ऊर्द्ध्वशब्दो दीर्घादिः सवकारो निर्व्व-
कारश्च । तथाच उपरि ध्वन्यते इति कृतनिरुक्ति-
रुर्द्ध्वशब्दो वकारवानिति सुभूत्यादयः ॥
“कुर्व्वतीरुपलैस्तुङ्गैर्भुवनं नीचमूर्द्ध्वजैः ।
तस्या चलालीवान्वेति चित्रानागचमूर्द्ध्वजैः” ॥
इति कीचकबधयमकम् ॥ (यथा, कुमारे १ । १६ ।)
“पद्मानि यस्याग्रसरोरुहाणि
प्रवोधयत्यूर्द्ध्वमुखैर्मयूखैः” ।
ऊर्द्ध्वं शब्दो मकारान्तोऽव्ययो दीर्घादिर्वकारवान्
तथा अदन्तोऽनव्ययोऽपीति जयादित्यादयः ॥

ऊर्द्ध्वकः, पुं, (उर्द्ध्वः सन् कायति शब्दायते इति ।

ऊर्द्ध्व + कै + क ।) मृदङ्गविशेषः । यथा, --
“ऊर्द्ध्वको गोपुच्छवत् स त्रितालोऽष्टाङ्गुलो मुखे ।
धृत्वोर्द्ध्वं वाद्यते तेषां वादनं दुर्ज्जनं नना” ॥
इति भरतधृतशब्दार्णवः ॥ अपिच । “हरीतक्या-
कृतिस्त्यङ्क्यस्तथालिङ्ग्यो यवाकृतिः । ऊर्द्ध्वको दण्ड-
तुल्यः स्यान्मुरजा भेदतो मताः” ॥ अन्यटीका-
यान्तु । “यवमध्यस्तथोर्द्ध्वकः” । इत्यमरटीका-
सारसुन्दरी ॥

ऊर्द्ध्वकण्टी, स्त्री, (ऊर्द्ध्वे कण्टः कण्टको यस्याः ।)

महाशतावरी । इति राजनिर्घण्टः ॥
(“महाशतावरी चान्या शतमूल्यूर्द्ध्वकण्टिका” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

ऊर्द्ध्वजानुः, त्रि, (ऊर्द्ध्वे स्थूले जानुनी यस्य ।) उपरि-

भागे स्थूलजानुकः । तत्पर्य्यायः । ऊर्द्ध्वज्ञुः २ ।
इत्यमरः ॥ (यथा, सांख्यायनश्रौतसूत्रम् १ । ५ । ८ ।
“उपविश्योर्द्ध्वजानुः” । इति ॥)

ऊर्द्ध्वज्ञः, त्रि, (ऊर्द्ध्वे जानुनी यस्य । पृषोदरादित्वात्

साधुः ।) ऊर्द्ध्वजानुः । इति भरतो द्विरूपकोषश्च ॥

ऊर्द्ध्वज्ञुः, त्रि, (ऊर्द्ध्वे जानुनी यस्य । “ऊर्द्ध्वात् विभा-

षा” । ५ । ४ । १३० । इति पक्षे ज्ञुः ।) ऊर्द्ध्वजानुः ।
इत्यमरः ॥ (यथा, सांख्यायनश्रौतसूत्रम् । “ऊर्द्ध्व-
ज्ञुरनवानं यजति” ॥
तथाच माघे ११ । २१ ।
“क्षणमयमनुभूय स्वप्नमूर्द्धज्ञुरेव” ॥)

ऊर्द्ध्वदेवः, पुं, (ऊर्द्ध्वः तुङ्गः श्रेष्ठो देवः ।) विष्णुः । इति

शब्दरत्नावली ॥

ऊर्द्ध्वन्दमः, त्रि, (ऊर्द्ध्वम् + दम् + अच् ।) ऊर्द्ध्वस्थः ॥

इति त्रिकाण्डशेषः ॥ ऊर्द्ध्वङ्गम इति युक्तिसिद्ध-
पाठः ॥

ऊर्द्ध्वपादः, पुं, (ऊर्द्ध्वाः पादा यस्य ।) शरभः । इति

शब्दरत्नावली ॥ (ऊर्द्ध्वपदे, त्रि ॥)

ऊर्द्ध्वपुण्ड्रः, पुं, (ऊर्द्ध्वः पुण्ड्रः इव ।) तिलकविशेषः ।

स तु ब्राह्मणललाटे पुण्ड्रेक्षुवत् चन्दनादिना
कृतोर्द्ध्वरेखात्रयः । यथा । “ऊर्द्ध्वपुण्ड्रे त्रिपुण्ड्रं
स्यात् त्रिपुण्ड्रे नोर्द्ध्वपुण्ड्रकमिति” ।
“ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्याद्वारिमृद्भस्मचन्दनैः” ।
इत्यादि च बहवः ॥
“ऊर्द्ध्वपुण्ड्रं मृदा कुर्य्यात् त्रिपुण्ड्रं भस्मना सदा ।
तिलकं वै द्विजः कुर्य्याच्चन्दनेन यदृच्छया ॥
ऊर्द्ध्वपुण्ड्रं द्विजः कुर्य्यात् क्षत्रियस्तु त्रिपुण्ड्रकम् ।
अर्द्ध्वचन्द्रन्तु वैश्यश्च वर्त्तुलं शूद्रयोनिजः” ॥
इति आह्निकतत्त्वधृतब्रह्माण्डपुराणम् ॥ (ऊर्द्ध्व-
पुण्ड्रधारिप्रशंसा यथा, ब्रह्मपुराणे ।
“अशुचिर्वाप्यनाचारो मनसा पापमाचरेत् ।
शुचिरेव भवेन्नित्यमूर्द्ध्वपुण्ड्राङ्कितो नरः ॥
ऊर्द्ध्वपुण्ड्रधरो मर्त्त्यो म्रियते यत्र कुत्रचित् ।
श्वपाकोटपि विमानस्थो मम लोके महीयते” ॥
अस्य धारणे वैदिकद्विजभिन्न एवाधिकारी यदुक्तं
देवीभागवते नारायणेन ॥
“ऊर्द्ध्वपुण्ड्रं त्रिशूलं च वर्त्तुलं चतुरस्रकम् ।
अर्द्ध्वचन्द्रादिकं लिङ्गं वेदनिष्ठो न धारयेत् ॥
जन्मना लब्धजातिस्तु वेदपन्थानमाश्रितः ।
पुण्ड्रान्तरं भ्रमाद्वापि ललाटेनैव धारयेत् ॥
ख्यातिकान्त्यादिसिद्ध्यर्थं चापि विष्ण्वगमादिषु
स्थितं पुण्ड्रान्तरं नैव धारयेत् वैदिको नरः” ॥
श्राद्धे ऊर्द्ध्वपुण्ड्रादिविधिनिषेधव्यवस्था ।
यथा, निर्णयसिन्धौ हेमाद्रिः ।
“जपे होमे तथा दाने खाध्याये पितृकर्म्मणि ।
तत्सर्व्वं नश्यति क्षिप्रमूर्द्ध्वपुण्ड्रं विना कृतम्” ॥
तथा च नारदः ।
“यज्ञो दानं जपो होमः स्वाध्यायः पितृकर्म्म च ।
वृथा भवति विप्रेन्द्राः ! ऊर्द्ध्वपुण्ड्रं विना कृतम्” ॥
इत्यादिवचनात् पैत्रे कर्म्मणि ऊर्द्धपुण्ड्रधारणं
विहितम् । केचित्तु ।
“ऊर्द्ध्वपुण्ड्रो द्विजातीनामग्निहोत्रसमो विधिः ।
शाद्धकाले च संप्राप्ते कर्त्ता भोक्ता च वर्जयेत्” ॥
तथा, --
“वामहस्ते च ये दर्भा गृहे रङ्गबलिन्तथा ।
ललाटे तिलकं दृष्ट्वा निराशाः पितरो गताः” ॥
इति संग्रहोक्तवचनात् तथा, --
“ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा चन्द्राकारमथापि वा ।
श्राद्धकर्त्ता न कुर्व्वीत यावत् पिण्डान्न निर्वपेत्” ।
इति विश्वप्रकाशवचनाच्च श्राद्धकाले ऊर्द्ध्वपुण्ड्रा-
दिकं न धार्य्यमित्याहुः । तन्न, यतः कुलाचारा-
देव व्यवस्था । यत्तु, --
“ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे माल्यं तथैव च ।
निराशाः पितरो यान्ति दृष्ट्वा च वृषलीपतिम्” ॥
इति हेमाद्रिधृतवचनम् तत् गन्धत्रिपुण्ड्रक-
विषयम् । अतः श्राद्धकाले गन्धत्रिपुण्ड्रकएव न
धार्य्यः । अन्यरूपस्तु धार्य्य एव । तथा च व्यासः ।
“वर्जयेत्तिलकं भाले श्राद्धकाले च सर्व्वदा ।
ऊर्द्ध्वपुण्ड्रं त्रिपुण्ड्रं वा धारयेत्तु प्रयत्नतः” ॥)

ऊर्द्ध्वरेताः, [स्] पुं, (ऊर्द्ध्वं रेतो यस्य न पतति वीय्यं

यस्यत्यर्थः ॥) महादेवः । इति त्रिकाण्डशेषः ।
(अष्टोत्तरसहस्रनामान्तर्गतो महादेवस्य नाम-
भेदः । यथा महाभारते १३ । १७ । ४५ ।
“ऊर्द्ध्वरेता ऊर्द्ध्वलिङ्ग ऊर्द्ध्वशायी नभस्थलः” ॥)
भीष्मः । (कृतसमावर्त्तनोऽपि भीष्मदेवः पितुः
काम्यविवाहार्थं वैवाहिकधर्म्मं त्यक्तवान् अतस्तस्य
ऊर्द्ध्वरेतस्त्वं जातम् । एतद्विवरणन्तु महाभारते १ ।
सत्यवतीलाभोपाख्याने १०० अध्याये द्रष्टव्यम् ॥)
मुनिविशेषः । तद्यथा । सनक-सनन्द-सनातन-
सनत्कुमारादयः । (यथा, महाभारते २ । ब्रह्म-
सभावर्णने । ११ । ४९ ॥
“अष्टाशीतिसहस्राणि मुनीनामूर्द्धरेतसाम्” ॥
त्रि, विषयासङ्गरहितः । सन्न्यासी । यथा भा-
रते शकुन्तलोपाख्याने, --
“ऊर्द्ध्वरेता महाभागो भगवान् लोकपूजितः ।
चलेद्धि वृत्ताधर्म्मोऽपि न चलेत् संशितवतः” ॥)

ऊर्द्ध्वलिङ्गः, पुं, (ऊर्द्ध्वं लिङ्गं यस्य । महादेवः । इति

हेमचन्द्रः ॥ (यथा, महाभारते १३ । १७ । ४५ ।
“ऊर्द्धरेता उर्द्धलिङ्ग ऊर्द्ध्वशायी नभःस्थलः” ॥)

ऊर्द्ध्वलोकः, पुं, (ऊर्द्ध्वः उपरिस्थो लोकः ।) स्वर्गः । इति

पृष्ठ १/२८२
:हेमचन्द्रः ॥ (यथा, मुग्धबोधे कारकप्रकरणे ।
५ सूत्रम् ।
“रक्षांस्यखादयदनाययदूर्द्ध्वलोक-
माक्रन्दयत्कपिभिराययदाशु रामः” ॥)

ऊर्द्ध्वस्थः, त्रि, (ऊर्द्ध्व तिष्टति यः । ऊर्द्ध + स्था + क ।)

उपरिस्थितः । तत्पर्य्यायः । ऊर्द्ध्वन्दमः २ । इति
त्रिकाण्डशेषः ॥

ऊर्द्ध्वस्थितिः, स्त्री, (ऊर्द्ध्वा स्थितिर्यत्र ।) ऊर्द्ध्वावत्तः ।

स तु अश्वस्य पृष्ठस्थानम् । तत्पर्य्यायः । पुरुषकम्
२ । इति त्रिकाण्डशेषः ॥ उपरिस्थितिः । उपरि-
स्थानम् ॥

ऊर्द्ध्वासितः, पुं, (ऊर्द्ध्वं आसितः ।) कारवेल्लः । इति

त्रिकाण्डशेषः ॥ करला इति भाषा ॥

ऊर्म्मिः, स्त्री, पुं, (ऋच्छतीति । ऋ गतौ । “अर्त्ते

रूच्च” । ४ । ४४ । इति उणादिसूत्रेण मिः । अर्त्ते-
रूरादेशश्च ॥) तरङ्गः । (यथा, रघुः । १२ । ८५ ।
“तमाधूतध्वजपटं व्योमगङ्गोर्म्मिवायुभिः” ॥)
प्रकाशः । वेगः । भङ्गः । वस्त्रसङ्कोचरेखा । वे-
दना । पीडा । इति मेदिनी ॥ उत्कण्ठा । इति
हेमचन्द्रः ॥ “शोकमोहौ जरामृत्यू क्षुत्पिपासे
षडूर्म्मयः” । इति श्रीभागवतटीका ॥
(बुभुक्षादयः षट्, यथा; --
“बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ ।
शोकमोहौ शरीरस्य जरामृत्यू षडूर्म्मयः” ॥
(अश्वगतिभेदः । तल्लक्षणं यथा वैजयन्त्याम् ।
“पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः ।
अतिवेगसमायुक्ता गतिरूर्म्मिरुदाहृता” ॥
तथा च माघे ५ । ४ ।
“तूर्णं पयोधर इवोर्म्मिभिरापतन्तः” ॥)

ऊर्म्मिका, स्त्री, (ऊर्म्मिरिव । इवे प्रतिकृताविति-

कन् । ऊर्म्मिं प्रकाशं कायतीति वा । आतोनु-
पेति कः ।) उत्कण्ठा । भृङ्गनादः । वस्त्रभङ्गः ।
अङ्गुलीयकम् । वीचिः । इति हेमचन्द्रः ॥

ऊर्म्मिमान्, [त्] त्रि, (ऊर्म्मिरस्यास्तीति । ऊर्म्मि +

मतुप् ।) वक्रः । इत्यमरः ॥ ढेउखेलानिया इति
भाषा । तरङ्गयुक्तः ॥ (यथा, महाभारते २ ।
द्रौपदीप्रश्ने ६३ । २८ ।
“दीर्घेषु नीलेष्वथ चोर्म्मिमत्सु
जग्राह केशेषु नरेन्द्रपत्नीम्” ॥)

ऊर्म्मिमाली, [न्] पुं, (ऊर्म्मीणां माला विद्यतेऽस्य ।

इनिः ।) समुद्रः । इति त्रिकाण्डशेषः ॥ (“चन्द्रं
प्रवृद्धोर्म्मिरिवोर्म्मिमाली” । इति रघुः ५ । ६१ ॥)

ऊर्व्वरा, स्त्री, उर्व्वरा । सर्व्वशस्याढ्या भूमी । इति

शब्दरत्नावली । (व्युत्पत्तिस्तु ह्रस्वादौ उर्व्वराशब्दे
द्रष्टव्या ॥)

ऊर्व्वशी, स्त्री, (ऊरुमश्नुते स्वकारणत्वेन व्याप्नोति

या । ऊरु + अश् + अच् + ङीप् । नारायणोरु-
सम्भवत्वात् तथात्वम् ।) उर्व्वशी । स्वर्गवेश्या-
विशेषः । इत्यमरटीकायां रायमुकुटः ॥ (विस्तृतिस्तु
ह्रस्वादौ उर्व्वशीशब्दे द्रष्टव्या ॥)

ऊर्व्वसी, स्त्री, (ऊरौ उषिता इति । पृषोदरादित्वात्

साधुः ।) उर्व्वशी । इत्यमरटीकासारमुन्दरी ॥

ऊर्व्यङ्गं, क्ली, (ऊर्व्याः पृथिव्या अङ्गमिव ।) गोमयच्छ-

त्रिका । तत्पर्य्यायः । दिलीरम् २ शिलीन्ध्रकम् ३
वशारोहम् ४ गोलासम् ५ । इति हारावली ॥

ऊर्षा, स्त्री, देवताडकतृणम् । इति शब्दचन्द्रिका ॥

ऊलुपी, [न्] पुं, उलूपी । शिशुमारः । इत्यमरटीका-

सारसुन्दरी ॥ (जलजन्तुविशेषः ॥)

ऊलूकः, पुं, (उलुकशब्देऽस्य व्युत्पत्तिर्द्रष्टव्या ।) उलुकः

पेचकः । इत्यमरटीकायां रायमुकुटः ॥
(यथा, पञ्चतन्त्रे ३ । ७७ ।
“ऊलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति” ॥)

ऊष रोगे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं सकं-

सेट् ।) दीर्घादिः । “ऊषति सन्तं खलः” । इति
दुर्गादासः ॥

ऊषं, क्ली, (ऊष् + क ।) प्रभातम् । इति शब्दरत्नावली ॥

ऊषः, पुं, क्षारमृत्तिका । इत्यमरः ॥

(यथा मनुः ५ । १२० ।
“कौषेयाविकयोरूषैः कुतपानामरिष्टकैः” ।
“ऊषैः क्षारमृत्तिकाभिः” इति कुल्लुभट्टः ।
कर्णविलम् । चन्दनाद्रिः ॥)

ऊषकं, क्ली, (ऊष + स्वार्थे कन् ।) प्रत्यूषम् । इति

शब्दरत्नावली ।

ऊषणं, क्ली, (ऊष् + ल्युट् ।) मरिचम् । इति हेम-

चन्द्रः ॥ (मरिचार्थे पर्य्यायो यथा, --
“मरिचं वेल्लजं कृष्णमूषणं धर्म्मपत्तनम्” ॥
गुणाश्चास्य मरिचशब्दे ज्ञेयाः ॥ शुण्ठी च । एत-
दर्थे पर्य्यायो यथा, --
“शुण्ठी विश्वा च विश्वञ्च नागरं विश्वभेषजम् ।
ऊषणं कटुभद्रञ्च शृङ्गवेरं महौषधम्” ॥
गुणाश्च शुण्ठीशब्दे ज्ञातव्याः ॥ पिप्पलीमूलञ्च ।
एतदर्थे पर्य्यायो यथा, --
“ग्रन्थिकं पिप्पलीमूलमूषणं चटकाशिरः” ।
अस्य गुणाश्च पिप्पलीमूलशब्दे बोद्धव्याः । इति
भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

ऊषणा, स्त्री, उषणा । पिप्पली । इति शब्दरत्ना-

वली ॥ (चविका । अस्याः पर्य्यायो यथा, --
“भवेच्चव्यन्तु चविका कथिता सा तथोषणा” ।
गुणाश्चास्याश्चविकाशब्दे बोध्याः । इति भाव-
प्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

ऊषरः, त्रि, (ऊष् + र ।) क्षारभूमी । लोणा जायगा

इति भाषा । तत्पर्य्यायः । ऊषवान् २ । इत्यमरः ॥
(“तत्र विद्या न वप्तव्या शुभं वीजमिवोषरे” ।
इति मनुः । २ । ११२ । ऊषरा मृत्पित्तं कोपयेत् ।
प्रमाणं यथा ॥ “पित्तमूषरा” इति वैद्यकमाधव-
कृतरोगनिश्चये पाण्ड्वधिकारे ॥)

ऊषरजं, क्ली, (ऊषर + जन् + ड ।) पांशवलवणम् ।

रोमकनामायस्कान्तभेदः । इति राजनिर्घण्टः ॥

ऊषवान्, [त्] त्रि, (उषो विद्यतेऽस्य । उष् + मतुप् ।

मस्य वः ।) ऊषरभूमी । इत्यमरः ॥

ऊषा, स्त्री, (उष् + क + टाप् ।) उषा । अनिरुद्ध-

भार्य्या । इति शब्दरत्नावली ॥ (तत्कथा च भाग-
वते १० स्कन्धे ६२ अध्याये तथा हरिवंशे १७४
अध्याये बाणयुद्धे द्रष्टव्या ॥)

ऊह ङ वितर्के । सन्देहाद्विचारे । इति कविकल्प-

द्रुमः ॥ (भ्वादिं-आत्मं-सकं-सेट् ।) दीर्घादिः ।
सन्देहाद्विचारस्तर्कः । ङ ऊहन्ते धर्म्मं धीरः ।
यशः समूहन्निव दिग्विकीर्णमिति गेर्व्वास्योर्होढे
चेति परस्मैपदविधानाच्छत्रन्तम् । “अनुक्तमप्यू-
हति पण्डितो जनः” । इति गणकृतानित्यत्वादिति
रमानाथः । वस्तुतस्तु पचादित्वादनि ऊह इवा-
चरतीति क्वौ साध्यम् । इति दुर्गादासः ॥

ऊहः, त्रि, (ऊह् + घञ् ।) पूर्ब्बाप्राप्तस्य उत्क्षेपणम् ।

तत्पर्य्यायः । अध्याहारः २ तर्कः ३ । इत्यमरः ॥
वितर्कः ४ । वूहः ५ व्यूहः ६ वितर्कणम् ७ अध्या-
हरणम् ८ ऊहनम् ९ प्रतर्कणम् १० । इति शब्द-
रत्नावली ॥ अपूर्ब्बोत्प्रेक्षणम् । इति जैमिनिः ॥
असमवेतार्थकपदत्यागपूर्ब्बकसमवेतार्थकपदस-
मभिव्याहारकरणम् । इति श्राद्धतत्त्वटीका ॥
साकाङ्क्षवाक्यस्य पदान्तरेण आकाङ्क्षापूरणम् ॥
(ऊहनम् । आरोपः । यथा, महाभारते १३ ।
उमामहेश्वरसंवादे १४५ । ४३ ॥
“इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः ।
ज्ञानविज्ञानसम्पन्नाः प्रजावन्तोऽथ कोविदाः” ॥
परीक्षणम् । सिद्धिभेदः ॥)

ऊहनी, स्त्री, (ऊह् + ल्युट् + ङीप् ।) सम्मार्जनी ।

इति शब्दरत्नावली ॥ झाँटा इति भाषा ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/ऊ&oldid=43914" इत्यस्माद् प्रतिप्राप्तम्