शब्दकल्पद्रुमः/उपनयनं

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ १/२५५
:

उपनयनं, क्ली, (अध्ययनार्थं आचार्य्यस्य उप समीपं

नीयते येन कर्म्मणा इति । उप + नी ल्युट् ।)
ब्राह्मणक्षत्रियवैश्यानां यज्ञसूत्रधारणादिरूपप्र-
धानसंस्कारः । अध्यापनार्थमाचार्य्यसमीपं नीयते
येन कर्म्मणा तदुपनयनम् । यथा स्मृतिः ।
“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः ।

बालो वेदाय तद्योगाद्बालस्योपनयं विदुः” ॥ * ॥

तत्पर्य्यायः । वटूकरणम् २ । इति त्रिकाण्डशेषः ॥
उपनायः ३ उपनयः ४ आनयः ५ । इति हेम-
चन्द्रः ॥ तस्य कालः ।
“गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम् ।
ब्रह्मवर्च्चसकामस्य कार्य्यं विप्रस्य पञ्चमे” ॥
ब्राह्मणस्य गर्भावधिषोडशवर्षपर्य्यन्तम् ॥ तत्र-
गर्भाष्टमवर्षो मुख्यः । क्षत्रियस्य द्वाविंशतिवर्ष-
पर्य्यन्तम् । तत्रैकादशवर्षो मुख्यः । वैश्यस्य चतु-
र्व्विंशतिवर्षपर्य्यन्तम् । तत्र द्वादशवर्षो मुख्यः ।
इति स्मृतिः ॥ सैके द्वादशे । तत्राशक्तौ प्रायश्चित्तं
कृत्वा तदुत्तरे कार्य्यम् ।
“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः ।
बालो वेदाय तद्योगाद्बालस्योपनयं विदुः ॥
रक्तस्रावे तथा शस्त्रक्षते पाठनिषेधनात् ।
उपनयनं न तत्र स्यात् इति मन्वादिसम्मतम्” ॥
कृत्यचिन्तामणौ ।
“जन्मोदये जन्मसु तारकासु
मासेऽथवा जन्मनि जन्मभे वा ।
व्रतेन विप्रो न बहुश्रुतोऽपि
विद्याविशेषैः प्रथितः पृथिव्यां ॥
अस्तं गते दैत्यगुरौ गुरौ वा
ऋक्षेऽपि वा पापयुतेऽप्यनुक्ते ।
व्रतोपनीतो दिवसे प्रणाशं
प्रयाति देवैरपि रक्षितो यः” ॥
उदये लग्ने । व्रतेन उपनयनेन । भुजबलभीमकृत्य-
चिन्तामण्योः ।
“स्वातीशक्रधनाश्विमित्रकरभे पौष्णेज्यचित्राहरि-
ष्विन्दौ तोयपतौ भगे दितिसुते भाद्रद्वये सागरे ।
केन्द्रस्थे भृगुजेऽङ्गिरःशशिसुते चन्द्रे च तारे शुभे
कर्त्तव्यं व्रतकर्म्म मङ्गलतिथौ वाराः सितार्केज्यकाः” ॥
तोयपतिः शतभिषा । अदितिसुतौत्तरफल्गुनी ।
सागरः पूर्ब्बाषाढा । दीपिकायाम् ।
जीवार्केन्दूडुशुद्धौ हरिशयनवहिर्भास्करे चोत्तरस्थे,
स्वाध्याये वेदवर्णाधिपैहशुभदे क्षौरिभे नादितौच ।
शुकार्केज्यर्क्षलग्ने रविमदनतिथिं प्रोह्य षष्ठाष्टमेन्दुं,
नो जीवास्तातिचारेऽर्कसितगुरुदिने कालशुद्धौ
व्रतं स्यात्” ॥
रविमदनतिथिं सप्तमीं त्रयोदशीम् ॥ * ॥
कृत्यचिन्तामणौ ।
“माघे द्रविणशीलाढ्यः फाल्गुने च दृढव्रतः ।
चैत्रे भवति मेधावी वैशाखे कोविदो भवेत् ॥
ज्यैष्ठे गहननीतिज्ञ आषाढे क्रतुभाजनः ।
शेषेष्वन्येषु रात्रिः स्यान्निषिद्धं निशि च व्रतम्” ॥
राजमार्त्तण्डे ।
“पुनर्व्वसौ कृतो विप्रः पुनःसंस्कारमर्हति” ।
वृद्धगर्गः ।
“स्मृतियुक्ताननध्यायान् सप्तमीञ्च त्रयोदशीम् ।
पक्षयोर्माघमासस्य द्वितीयां परिवर्जयेत्” ॥
चैत्रशुक्लतृतीया आशाढशुक्लदशमी मन्वन्तरा-
दित्वेन निषिद्धा वैशाखशुक्लतृतीया युगादित्वेन
निषिद्धेति । षष्ठ्यामशुचिरमार्य्यो रिक्तासु बहु-
दोषभाक् । शुक्लपक्ष एव विहितः प्रागुक्ताश्व-
लायनवचनात् ॥ * ॥ सामगानां कुजवारेऽप्युप-
नयनं श्रीपतिरत्नमालाकृत्यचिन्तामणिधृतवात्स्य-
वचनात् । यथा ।
“शाखाधिपे बलिनि केन्द्रगतेऽथ वास्मिन्
वारेऽस्य चोपनयनं कथितं द्विजानाम् ।
नीचस्थितेऽरिगृहगेऽथ पराजिते वा
जीवे भृगावुपनयः स्मृतिकर्म्महीनः” ॥
अस्य शाखाधिपस्य ॥ दीपिकायां ।
“ऋग्वेदाधिपतिर्जोवो यजुर्व्वेदाधिपः सितः
सामवेदाधिपो भौमः शशिजोऽथर्व्ववेदराट्” ॥
वेदाधिपकथनम् ॥ * ॥
“ब्राह्मणे शुक्रवागीशौ क्षत्रिये भौमभास्करौ ।
चन्द्रो वैश्ये बुधः शूद्रे पतिर्मन्दोऽन्त्यजे जने” ॥
वर्णाधिपकथनम् ॥ * ॥ पराजयलक्षणं वक्ष्ये
यात्रायाम् ।
अत्रापि विवाहवद्दशयोगभङ्गवर्ज्जनम् ।
विष्णुधर्म्मोत्तरे ।
“षोडशाब्दो हि विप्रस्य राजन्यस्य द्विविंशतिः ।
विंशतिः सचतुर्थी च वैश्यस्य परिकीर्त्तिता ॥
सावित्री नातिवर्त्तेत अत ऊर्द्ध्वं निवर्त्तते” ॥
अत्र षोडशवर्षस्य उपनयनाङ्गता प्रतीयते ॥
“पतिता यस्य सावित्री दशवर्षाणि पञ्च च ।
ब्राह्मणस्य विशेषेण तथा राजन्यवैश्ययोः ॥
प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः” ॥
इति यमवचने तदनङ्गता प्रतीयते । अनयोर्गर्भ-
जन्मप्रभृतिगणनाभ्यामविरुद्धार्थता । तथाच मा-
ण्डव्यः । “व्रतबन्धविवाहे च वत्सरपरिकल्पन-
माहुराचार्य्याः । आधानपूर्ब्बमेके प्रसूतिपूर्ब्बं
सदान्ये तु” ॥ * ॥ यत्तु द्विजानुपक्रम्य पैठिनसि-
वचनं द्वादशषोडशविंशतिश्चेदतीता अवरुद्ध-
काला भवन्ति इति द्वादशवर्षाद्युपरि ब्राह्मणा-
दीनां महाव्याहृतिहोमप्रायश्चित्तार्थम् । षोड-
शोपरि तु व्रात्यहोमादिगुरुप्रायश्चित्तार्थमिति ।
इत्युपनयनम् । इति ज्योतिस्तत्त्वम् ॥
अथ उपनयनस्यानुष्ठानक्रमः ।
तत्र प्रथमं प्रातः कृतस्नानः कृतवृद्धिश्राद्धः पिता
कृतवृद्धिश्राद्धेन पित्रान्यएवाचार्य्यो वृतस्तद-
सम्भवे माणवकवृतो वा समुद्भवनामानमग्निं सं-
स्थाप्य विरूपाक्षजपान्तां कुशण्डिकां समाप्य
माणवकं प्रातर्भोजयित्वा अग्न्युत्तरतो नीत्वा
शिखया सह मुण्डितं स्नापितं कुण्डलाद्यलङ्कृतं
क्षौमवस्त्रावृतं तदसम्भवे शुक्लाहतकार्पासैक-
वस्त्रावृतं माणवकं दक्षिणे पूर्ब्बाभिमुखं निधाय
प्रकृतकर्म्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधं
तूष्णीमग्नौ हुत्वा तत्तन्मन्त्रैर्व्यस्तसमस्तमहाव्याहृ-
तिहोमं कुर्य्यात् । तत आचार्य्यः पञ्चभिर्म्मन्त्रैः
पञ्चाहुतीर्जुहुयात् । तत आचार्य्यः उदगग्रेषु
कुशेषु कृताञ्जलिः प्राङ्मख ऊर्द्ध्वस्तिष्ठेत् । अग्न्या-
चार्य्ययोर्म्मध्ये माणवकोऽपि कृताञ्जलिराचार्य्या-
भिमुख उदगग्रेषु कुशेषु ऊर्द्ध्वस्तिष्ठेत् । माणव-
कस्य दक्षिणतः स्थितो मन्त्रवान् ब्राह्मणो माण-
वकस्य अञ्जलिमुदकेन पूरयति पश्चात् आ-
चार्य्यस्यापि । ततो गृहीतजलाञ्जलिराचार्य्यो
गृहीतजलाञ्जलिं माणवकं पश्यन् मन्त्रं
जपति । तत आचार्य्यो माणवकं मन्त्रं पाठ-
यति । ततो माणवकस्याभिवादनार्थं देवता-
श्रयं नक्षत्राश्रयं गोत्राश्रयं वा माणवकनाम
कल्पयित्वा आचार्य्यो माणवके कथयति । तत-
आचार्य्यो माणवकं मन्त्रेण नामधेयं पृच्छति ।
माणवकः पूर्ब्बाचार्य्यकल्पितं नाम मन्त्रेण कथ-
यति । तत आचार्य्यमाणवकौ पूर्ब्बगृहीतजला-
ञ्जली त्यजेताम् । आचार्य्यस्तु दक्षिणेन पाणिना
माणवकस्य साङ्गुष्ठं दक्षिणं पाणिं मन्त्रेण गृह्णाति ।
ततो गृहीतमाणवकहस्तो मन्त्रं जपत्याचार्य्यः ।
ततो माणवकमाचार्य्यो मन्त्रेण प्रदक्षिणेन भ्राम-
यित्वा प्राङ्मुखं करोति । ततो माणवकस्य दक्षिण-
स्कन्धं स्पृष्ट्वा अवतीर्णेन दक्षिणपाणिना अव्यव-
हितं नाभिदेशं आचार्य्यो मन्त्रेण स्पृशति । ततो
माणवकस्य नामेरुपरिदेशं मन्त्रेण आचार्य्यः
स्पृशति । ततो माणवकहृदयदेशं मन्त्रेणाचार्य्यः
स्पृशति । ततो दक्षिणे पाणिना आचार्य्यो
माणवकस्य दक्षिणस्कन्धं स्पृशन् मन्त्रं जपति ।
ततो वामेन पाणिना माणवकस्य वामस्कन्धं
स्पृशन्नाचार्य्यो मन्त्रं जपति । अथाचार्य्यो माण-
वकं मन्त्रेण सम्बोधयति । अथ सम्बोधितं माण-
वकं आचार्य्यो मन्त्रेण प्रेषयति । ब्रह्मचारी तु
सर्व्वत्र वाढमिति ब्रूयात् । ततोऽग्नेरुचरमागे
गत्वा आचार्य्य उदगग्रेषु कुशेषु प्राङ्मुख उप-
विशति । तत आचार्य्याभिमुखो भाणवकः पाति-
तदक्षिणजानुः उदगग्रेषु कशेषु उपविशति ।
ततः प्रवरसंख्यया पञ्च वा त्रयो वा मेखला-
यज्ञोपवीतरूपग्रन्थयः कर्त्तव्याः । अथैनं माण-
वकमाचार्य्यस्त्रिःप्रदक्षिणं कारयित्वा त्रिवृतां
मुञ्जमेखलां परिधापयन् मन्त्रद्वयं वाचयति ।
ततो यज्ञोपवीतं कृष्णसाराजिनान्वितं आचार्य्यो
माणवकं मन्त्रेण परिधापयेत् । ततो माणवक-
आचार्य्यस्य उपसन्नो भवति । ततस्तमुपसन्नमाण-
वकं आचार्य्यः प्रथमं पादं पादं ततोऽर्द्धमर्द्धं ततः
कृत्स्नां सावित्रीं अध्यापयेत् । तत आचार्य्यो
माणवकं महाव्याहृतीः पृथक् पृथक् कृत्वा
प्रणवपूर्ब्बिका अध्यापयेत् । ततो वैल्वं पालाशं
वा माणवकपरिमाणदण्डं माणवकाय प्रयच्छन्
आचार्य्यो माणवकं मन्त्रं वाचयति । अथ गृहीत-
दण्डो ब्रह्यचारी प्रथमं मातरं भिक्षां प्रार्थयति ।
ततो मातृबन्धून् ततः पितरं ततः पितृबन्धून्
ततोऽन्यांश्च प्रार्थयेत् । ततः सर्व्वंलब्धभैक्षं आचा-
र्य्याय निवेदयेत् । ततः पूर्ब्बवदाचार्य्यो व्यस्तसमस्त-
महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां
समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म्म समाप्य
उदीच्यं शाट्यायनहोमादिवामदेव्यगानान्तं कर्म्म
निर्व्वर्त्तयेत् । ततः यदि पितैवाचार्य्यस्तदा कर्म्म-
कारयितृब्राह्मणाय दक्षिणां दद्यात् । अथान्य-
पृष्ठ १/२५६
:एवाचार्य्यो वृतः तदा येन वृतः स तस्मै दक्षिणां
दद्यात् । ब्रक्ष्मचारी तु तत्रैव स्थाने दिनान्तं यावत्
वाग्यतस्तिष्ठेत् । ततः प्राप्तायां सन्ध्यायां सन्ध्या-
मुपास्य कुशण्डिकोक्तविधानेन समुद्भवनामान-
मग्निं संस्थाप्य मन्त्रं जप्त्वा दक्षिणं जानुं भूमौ
निधाय दक्षिणपश्चिमोत्तरक्रमेण उदकाञ्जलि-
सेकमग्निपर्य्युक्षणञ्च कृत्वा समिद्धोमं कुर्य्यात् ।
ततः प्रादेशप्रमाणघृताक्तसमित्त्रयं गृहीत्वा आद्य-
न्तयोस्तूष्णीं मध्ये समन्त्रकं अग्नौ जुहुयात् । ततः
कर्म्मशेषोक्तविधिना पुनरपि अग्निपर्य्युक्षणोप-
क्रमं दक्षिणपश्चिमोत्तरक्रमेण उदकाञ्जलिसेकं
कुर्य्यात् । ततः ब्रह्मचारी अग्निमभिवाद्य मन्त्रे-
णग्निं विसृज्य अतीतायां सन्ध्यायां भिक्षालब्ध-
मन्नं क्षारलवणवर्जितं सघृतमुदकेनाभ्युक्ष्य भक्षण-
प्रकरणोक्तविधिना भुञ्जीत । एतच्चाग्निकर्म्म
समावर्त्तनपर्य्यन्तं प्रत्यहं सायं प्रातः कर्त्तव्यम् ॥
इत्युपनयनकर्म्म समाप्तम् ॥ इति भवदेवभट्टः ॥
(ब्राह्मण-क्षत्त्रिय-वैश्यानामन्यतममन्वय-वयः शील-
शौर्य्य -- शौचाचार-विनय-शक्ति-बल-मेधा-धृति-
स्मृति-मति-प्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृ-
जुवक्त्राक्षिनासं प्रसन्नचित्त-वाक्चेष्टं क्लेशसहञ्च
भिषक् शिष्यमुपनयेत् । अतो विपरीतगुणं
नोपनयेत् ।
उपनयनीयस्तु ब्राह्मणः प्रशस्तेषु तिथिकरण-
मुहूर्त्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे
चतुर्हस्तं चतुरस्रं स्थण्डिलमुपलिप्य गोमयेन
दर्भैः संस्तीर्य्य पुष्पैर्लाजभक्तैः रत्नैश्च देवताः पूज-
यित्वा विप्रान् भिषजश्च तत्रोल्लिख्याभ्युक्ष्य च
दक्षिणतो ब्राह्मणं स्थापयित्वाग्निमुपसमाधाय
खदिर-पलाश-देवदारु-विल्वानां समिद्भिश्चतुर्णां
वा क्षीरवृक्षाणां न्यग्रोधोडुम्बराश्वत्थमधूकानां
दधि-मधु-घृताक्ताभिर्दार्व्वीहौमिकेन विधिना-
स्नुवेणाज्याहुतीर्जुहुयात् । सप्रणवाभिर्महाव्या-
हृतिभिस्ततः प्रतिदैवतमृषींश्च स्वाहाकारञ्च
कुर्य्यात् शिष्यमपि कारयेत् ॥ ब्राह्मणस्त्रयाणां
वर्णानामुपनयनं कर्त्तुमर्हति राजन्यो द्वयस्य वैश्यो
तैश्यस्यैवेति । शूद्रमपि कुलगुणसम्पन्नं मन्त्रवर्ज्ज-
मनुपनीतमध्यापयेदित्येके ॥ ततोऽग्निं त्रिः परि-
णीयाग्निसाक्षिकं शिष्यं ब्रूयात् । काम-क्रोध-लोभ-
मोह-मानाहङ्कारेर्ष्यापारुष्य--पैशुन्यानृतालस्याय-
शस्यानि हित्वा नीच-नख-रोम्ना शुचिना कषाय-
वाससा सत्यव्रतब्रह्मचर्य्याभिवादनतत्परेणावश्यं
भवितव्यं मदनुमतस्थान-गमन-शयनासन-भोज-
नाध्ययन-परेण भूत्वा मत्प्रियहितेषु वर्त्तितव्य-
मतोऽन्यथा ते वर्त्तमानस्याधर्म्मो भवत्यफला च
विद्या न च प्राकाश्यं प्राप्नोति । अहं वा त्वयि
सम्यग्वर्त्तमाने यद्यन्यथादर्शो स्यामेनोभाग् भवेय-
मफलविद्यश्च । द्विज-गुरु-दरिद्र-मित्र-प्रव्रजितो-
पनत-साध्वनाथाभ्युपगतानां चात्मबान्धवानामिव
स्वमेषजैः प्रतिकर्त्तव्यमेवं साधु भवति । ब्याधशाकु-
निक-पतित-पापकारिणां न च प्रतिकर्त्तव्यमेवं वि-
द्या प्रकाशते मित्रयशो धर्म्मार्थकामांश्च प्राप्नोति ॥
भवतश्चात्र ॥
“कृष्णेऽष्टमी तन्निधनेहनी द्वे
कृष्णेतरेऽप्येवमहर्द्विसन्ध्यम् ।
अकालविद्युत्-स्तनयिन्तुघोषे
स्वतन्त्रराष्ट्रक्षितिपव्यथासु ॥
श्मशानयानाद्यतनाहवेषु
महोत्सवौत्पातिकदर्शनेषु ।
नाध्येयमन्येषु च येषु विप्रा-
नाधीयते नाशुचिना च नित्यम्” ॥
इति सुश्रुते सूत्रस्थाने द्वितीयोऽध्यायः ॥)

उपनायः, पुं, (उपनीयते आचार्य्यसमीपमिति । उप

+ नी + घञ् ।) उपनयनम् । इति हेमचन्द्रः ॥

उपनायकः, पुं, (उपमितो नायकेन ।) नायकगुणो-

त्कर्षकथकः । यथा, --
“नायकस्य गुणोत्कर्षकथका उपनायकाः” ।
इति सङ्गीतदामोदरः ॥ * ॥ उपपतिश्च ॥ (उप-
नयतीति । उप + नी + ण्वुल् । प्रापके, त्रि ॥)

उपनाहः, पुं, (उपनह्यतेऽस्मिन् । उप + नह + घञ् ।)

वीणादितन्त्रबन्धनस्थानम् । तत्पर्य्यायः । निबन्धनम्
२ । इत्यमरः ॥ व्रणालेपपिण्डः । इति मेदिनी ॥
प्रलेप इति भाषा । (यथाह सुश्रुतः ।
“आदौ विम्लापनं कुर्य्यात् द्वितीयमवसेचनम् ।
तृतीयमुपनाहञ्च चतुर्थीं पाटनक्रियाम्” ॥)

उपनिधिः, पुं, (उपनिधीयते इति । उप + नि +

धा + कि ।) उपन्यस्तवस्तु । स्थाप्यद्रव्यम् । तत्प-
र्य्यायः । न्यासः । २ । इत्यमरः ॥
(“वासनस्थमनाख्याय हस्ते न्यस्य यदर्पितम् ।
द्रव्यमुपनिधिः प्रोक्तः स्मृतिषु स्मृतिवेदिभिः” ॥
वासुदेवपुत्त्रः । इति विष्णुपुराणम् ॥)

उपनिषत्, [द्] स्त्री, (उपनिषद्यते प्राप्यते ब्रह्म-

विद्या अनया इति । उप + नि + सद् + क्विप् ।)
धर्म्मः । वेदान्तशास्त्रम् । निर्जनस्थानम् । इति
मेदिनी ॥ (वेदशिरोभागः । तत्र चतुर्णां वेदानां
अशीतिसहितशताधिकसहस्रसंख्यका उपनि-
षदः । तथाहि । ऋच एकविंशतिः । यजुषो
नवाधिकशतम् । साम्नः सहस्रम् । पञ्चाशदुप-
निषदोऽथर्वणस्य ॥ ब्रह्मविद्या ।) समीपसदनम् ।
इति त्रिकाण्डशेषः ॥ तत्त्वम् । इत्यमरटीकायां
भरतः ॥ (द्विजातिकर्त्तव्यो व्रतभेदः । यथा, आ-
श्वलायनगृह्यकारिका ।
“प्रथमं स्यात् महानाम्नी द्वितीयञ्च महाव्रतम् ।
तृतीयं स्यादुपनिषद् गोदानञ्च ततः परम्” ॥)
(मुक्तिकोपनिषदि अष्टाधिकशतोपनिषद्भेदाः
प्रदर्शिताः । यथा, --
“ईश-केन-कट-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरिः ॥ ७ ॥
ऐतरेयञ्च छान्द्योग्यं वृहदारण्यकं तथा ॥ १० ॥
ब्रह्म कवल्य-जावाल-श्वेताश्वा हंस आरुणिः ॥ १६ ॥
१ २ ३ ४ ५
गर्मो नारायणो हंसो विन्दुर्नाद-शिरःशिखा ॥ २३ ॥
मत्रायनी कैषितकी वृहज्जावाल-तापनी ॥ २७ ॥
कालाग्निरुद्र-मैत्रेयी सुबाल-क्षरि-मन्त्रिकाः ॥ ३२ ॥
सर्व्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ॥ ३६ ॥
८ ९ १० ११
तेजोनाद-ध्यान-विद्या-योगतत्वात्मबोधकम् ॥ ४२ ॥
१३ १३ १४ १५
परिव्राट्-त्रिशिखी-सीता-चूडानिर्व्वाण-मण्डलम् ॥ ४८ ॥
१६ १७
दक्षिणाशरभं स्कन्दं महानारायणाऽद्वयम् ॥ ५३ ॥
१८
रहस्यं रामतपनं वासुदेवञ्च मुद्गलम् ॥ ५७ ॥
१९ २०
शाण्डिल्यं पौङ्गलं भिक्ष महत्शारीरकं शिखा ॥ ६३ ॥
२१
तुरीयातीत-संन्यास-परिव्राजाक्षमालिका ॥ ६७ ॥
२२
अव्यक्तैकाक्षरं पूर्णा सूर्य्याक्ष्यध्यात्म-कुण्डिका ॥ ७४ ॥
सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम् ॥ ७९ ॥
२३
त्रिपुरातापनं देवी त्रिपुरा कठ-भावना ॥ ८४ ॥
२४ २५ २६ २७
हृदयं कुण्डली भस्म रुद्राक्षगण-दर्शनम् ॥ ९० ॥
२८
तारसार-महावाक्य-पञ्चब्रह्माग्निहोत्रकम् ॥ ९४ ॥
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ॥ ९८ ॥
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुड्म् ॥ १०२ ॥
२९ ३०
कलि-जावालि-सौभाग्य-रहस्य-ऋच-मुक्तिकाः” ॥ १०८ ॥
अत्र स्थितानामेकदेशवाचिशब्दानां विवृतिः ।
१ हंसः परमहंसः । २ विन्दुरमृतविन्दुः ।
३ नादोऽमृतनादः । ४ शिरोऽथर्व्वशिरः । ५ शिखा-
थर्व्वशिखा । ६ तापनी नृसिंहतापनी । ७ रहस्यं
शुकरहस्यम् । ८ तेजः तेजोविन्दुः । ९ नादो नाद-
विन्दुः । १० ध्यानं ध्यानविन्दुः । ११ विद्या ब्रह्म-
विद्या । १२ परिव्राट् नारदपरिव्राट् । १३ त्रिशि-
खी त्रिशिखीब्राह्मणः । १४ चूडा योगचूडामणिः ।
१५ मण्डलं मण्डलब्राह्मणः । १६ दक्षिणा दक्षिणा-
मूर्त्तिः । १७ अद्वयं तारकः । १८ रहस्यं राम-
रहस्यम् । १९ महत् महोपनिषत् । २० शिखा
योगशिखा । २१ परिव्राजः परमहंसपरिव्राजकः ।
२२ पूर्णाऽन्नपूर्णा । २३ कटः कटरुद्रः । २४ कु-
ण्डली योगकुण्डली । २५ भस्मः भस्मजावालः । २६
गणः गणपतिः । २७ दर्शनं जावालदर्शनम् । २८
अग्निहोत्रकं प्राणाग्निहोत्रम् । २९ । कलिः कलि-
सन्तरणम् । ३० रहस्यं स्वरस्वतीरहस्यम् ॥
आसां मध्ये या यद्वेदान्तर्गतास्ता अपि तत्रैव
प्रदर्शिताः । यथा, --
सामवेदान्तर्गताः षोडशसंख्यका उपनिषदः ।
अव्यक्तम् १ आरुणिः २ कुण्डिका ३ केनः ४
छान्द्योग्यम् ५ (या)जावालदर्शनम् ६ जावाली ७
महत् ८ मैत्रायणी ९ मैत्रेयी १० योगचूडामणिः
११ रुद्राक्षम् १२ वज्रसूचिकम् १३ वासुदेवम्
१८ संन्यासम् १५ सावित्री १६ ॥ * ॥
शुक्लयजुर्व्वेदान्तर्गता ऊनविंशतिसंख्यकाः
उपनिषदः यथा, --
अतीताध्यात्मम् १ ईशावास्यम् २ (जा)यावालम् ३
पृष्ठ १/२५७
:तारसारः ४ तुरीयम् ५ त्रिशिखी ६ निरालम्बम् ७
परमहंसः ८ पैङ्गलम् ९ ब्राह्मणमण्डलम् १० ब्रा-
ह्मणद्वयतारकम् ११ भिक्षु १२ मन्त्रिका १३
मुक्तिका १४ याज्ञवल्क्यम् १५ वृहदारण्यकम् १६
शाष्ट्यायणी १७ सुबालः १८ हंसः १९ ॥ * ॥
कृष्णयजुर्व्वेदान्तर्गता द्वात्रिंशत्-सख्यकाः
उपनिषदः यथा, --
अक्षि १ अमृतनादः २ अमृतविन्दुः ३ अवधूतम् ४
एकाक्षरा ५ कठरुद्रः ६ कठवल्ली ७ कलिसन्तरणम् ८
कालाग्निरुद्रः ९ कैवल्यम् १० क्षुरिका ११ गर्भः १२
तेजोविन्दुः १३ तैत्तिरीयकम् १४ दक्षिणामूर्त्तिः १५
ध्यानविन्दुः १६ नारायणं १७ पञ्चब्रह्म १८ प्राणाग्नि-
होत्रम् १९ ब्रह्म २० ब्रह्मविद्या २१ योगकुण्डलिनी २२
योगतत्त्वम् २३ योगशिखा २४ वराहः २५ शारी-
रकम् २६ शुकरहस्यम् २७ श्वेताश्वतरः २८ सर्व्व-
सारः २९ स्कन्दः ३० स्वरस्वतीरहस्यम् ३१ हृद-
यम् ३२ ॥ * ॥
ऋग्वेदान्तर्गता दशसंख्यका उपनिषदः यथा, --
अक्षमालिका १ आत्मप्रबोधः २ ऐतरेयः ३ कौषि-
तकी ४ त्रिपुरा ५ नादविन्दुः ६ निर्वाणम् ७ मुद्गला ८
बह्वृचः ९ सौभाग्यम् १० ॥ * ॥
अथर्व्ववेदान्तर्गता एकत्रिंशत्संख्यका उपनिषदः,
अथर्व्वशिखा १ अथर्व्वशिरः २ कृष्णः ३ गणपतिः ४
गाडुरम् ५ गोपालतापनम् ६ जावालम् ७ त्रिपु-
रातपनम् ८ दत्तात्रेयः ९ देवी १० नारदपरि-
व्राजकः ११ नृसिंहतापनी १२ परब्रह्म १३ परि-
व्राजकान्नपूर्णा १४ परमहंसः १५ पाशुपतम् १६
प्रश्नम् १७ भस्म १८ भावना १९ महानारायणम् २०
महावाक्यम् २१ माण्डूक्यम् २२ मुण्डकम् २३ राम-
तापनी २४ रामरहस्यम् २५ वृहज्जाबालम् २६
शरभम् २७ शाण्डिल्यम् २८ सीता २९ सूर्य्यात्म ३०
हयग्रीवम् ३१ ॥ * ॥)

उपनिष्करं, क्ली, (उपनिष्किरन्ति सैन्यान्यत्र । उप

+ निस् + कॄ + घ । ऋदोरप् तु न । अपोबाध-
कस्य ल्युटोऽपि घस्यापवादत्वात् । यद्वा उपनिष्की-
र्य्यते सैन्यैर्हन्यते इति । कृ + कर्म्मणि अप् । इदु-
दुपधस्येति षः ।) पुरपथः । इत्यमरः ॥ राजपथः ।
इति हेमचन्द्रः ॥

उपनिष्क्रमणं क्ली, (उपष्क्रम्यतेऽनेन उप + निर्-

+ क्रम + ल्युट् ।) राजपथः । इति हेमचन्द्रः ॥
निष्क्रमणनामसंस्कारः ॥

उपनीतः, पुं, (उप + नी + क्त ।) कृतोपनयनः । इति

स्मृतिः ॥ (“अथोपनीतं विधिवद् विपश्चितः” ।
इति रघुः । ३ । २९ ।) निकटप्राप्ते त्रि ॥

उपन्यासः, पुं, (उप + नि + अस् क्षेपणे + घञ् ।)

वाक्योपक्रमः । तत्पर्य्यायः । वाङ्मुखम् २ । इत्य
मरः ॥ (“तस्मात् ब्रह्मजिज्ञासोपन्यासमुखेन” ।
इति शरीरकभाष्ये ॥ ९४ । ७ । विचारः । यथा,
मनुः ९ । ३१ ।
“विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत” ॥
“वक्ष्यमाणं सर्व्वजनहितं विचारं शृणुत” ।
इति तट्टीका ।
धनादीनामर्पणम् । गच्छित इति भाषा ॥)

उपपतिः, पुं, (उपमितः पत्या । अवादयः क्रुष्टाद्यर्थे

तृतीयया इति समासः ।) जारः । इत्यमरः ॥ नां
इति भाषा । तस्य लक्षणम् । आचारहानिहेतुः
पतिः । स चतुर्व्विधः । सार्व्वकालिकपराङ्गना-
पराङ्मुखत्वे सति सर्व्वकालमनुरक्तोऽनुकूलः १ ।
सकलनायिकाविषयसमसहजानुरागो दक्षिणः २ ।
भूयो निःशङ्कः कृतदोषोऽपि भूयो निवारितो-
ऽपि भूयः प्रश्रयपरायणो धृष्टः ३ । कामिनी-
विषयकपटपटुः शठः ४ । इति रसमञ्जरी ॥
(यथा, मनुः ३ । १५५ ।
“पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे” ॥)

उपपत्तिः, स्त्री, (उप + पद् + क्तिन् ।) सङ्गतिः ।

निर्वृतिः । समाधानम् । सिद्धान्तः । प्रकरणप्रति-
पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिः । इति
वेदान्तसारः ॥ (“उपपत्तिमदूर्ज्जिताश्रयम्” ।
इति भारविः । २ । १ ॥) हेतुः । यथा, --
“श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः” ।
इत्यत्र उपपत्तिभिर्बहुभिर्हेतुभिरिति पक्षता-
ग्रन्थमाथुरी ॥ सङ्गतिः । यथा, --
“लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः” ।
इति भाषापरिच्छेदः । ८२ ॥ (उपायः । यथा माघे ।
“अपेक्षितान्योन्यबलोपपत्तिभिः” । सिद्धिः ।
प्राप्तिः । “स्वार्थोपपत्तिं प्रति दुर्ब्बलाशः” । इति
रघुः ॥ ५ । १२ ॥)

उपपदं, क्ली, (उपोच्चारितं पदम् ।) लेशः । इति

त्रिकाण्डशेषः ॥ समीपोच्चारणीयपदम् । (यथा,
रघौ १६ । ४० । “तस्याः स राजोपपदं निशान्तम्” ॥)
यथा वा नामोत्तरे शर्म्मवर्म्मादि । समभिव्याहृ-
तस्वार्थपोषकपदम् । यथा प्रहारादौ प्रादि ।
इति व्याकरणम् ॥

उपपातकं, क्ली, (उपपातयति नरके यत् ।

उप + पत् + णिच् + ण्वुल् । यद्वा उपमितं
पातकेन ।) पापविशेषः । तत्तु ऊनपञ्चाश-
द्विधंयथा । गोबधः १ अयाज्ययाजनम् २ पर-
दारगमनम् ३ आत्मविक्रयः ४ गुरुत्यागः ५
मातृत्यागः ६ पितृत्यागः ७ एषां शुश्रूषाद्यकरणं
त्यागः । स्वाध्यायत्यागः ८ स तु सर्व्वदा ब्रह्मयज्ञ-
त्यागः । अधीतवेदविस्मरणञ्च । अग्नित्यागः ९ स
तु स्मार्त्ताग्निहोत्रत्यागः । सुतत्यागः १० स तु
तस्य संस्कारभरणाद्यकरणम् । परिवित्तिता ११
सा तु कनिष्ठेन आदौ विवाहे कृते ज्येष्ठस्य
परिवेदनं १२ तत्तु अकृतदारज्येष्ठसत्त्वे कनि-
ष्ठस्य । तयोः कन्यादानं १३ तयोर्याजनं १४ तत्तु
तयोरेव विवाहादौ पौरोहित्यम् । कन्याया दूषणं
१५ तत्तुं मैथुनवर्जमङ्गुलीप्रक्षेपादिना रूषणम् ।
अङ्गुल्या योनिविदारणमिति यावत् । वार्द्धुष्यं १६
तत्तु निषिद्धवृद्धिजीवनम् । व्रतलोपः १७ स तु
ब्रह्मचारिणो मैथुनम् । तडागविक्रयः १८ आराम-
विक्रयः १९ दारविक्रयः २० अपत्यविक्रयः २१
व्रात्यता २२ सा तु यथाकालमनुपनयनम् । बान्ध-
वत्यागः २३ भृताध्यापनम् २४ तत्तु प्रतिनियत-
वेतनग्रहणपूर्ब्बमध्यापनम् । भृताध्ययनम् २५
तत्तु वेतनप्रदानपूर्ब्बकाध्ययनम् । अपण्यानां
विक्रयः २६ स तु तिललाक्षागोरसादौनां ब्राह्म-
णेन विक्रयः । सर्व्वाकरेष्वधीकारः २७ स तु सु-
वर्णाद्युत्पत्तिस्थानेषु राजाज्ञया अधिकारः । महा-
यन्त्रप्रवर्त्तनं २८ तत्तु महतां उदकप्रवाहप्रतिबन्ध-
हेतूनां सेतुबन्धादीनाञ्च प्रवर्त्तनं अथवा तैलादि-
यन्त्रस्य शस्त्रतेजनादियन्त्रस्य च । ओषधिहिंसनं
२९ तत्तु धान्यादीनां यथाकथञ्चिन्नाशः । स्त्र्या-
जीवः ३० स तु भार्य्यादिस्त्रीणां वेश्यात्वं कृत्वा
तदुपजीवनम् । अभिचारकर्म्म ३१ तत्तु श्येना-
दिना यज्ञेन अनपराद्धस्य मारणम् । मूलकर्म्म
३२ तत्तुमन्त्रौषधादिना वशीकरणम् । इन्धनार्थ-
मशुष्कद्रुमाणां छेदनं ३३ आत्मार्थं क्रियारम्भः ३४
स तु अनातुरस्य देवपित्राद्युद्देशमन्तरेण पाका-
द्यनुष्ठानम् । निन्दितान्नस्य भक्षणम् ३५ तत्तु लशु-
नादेः सकृदनिच्छया अथवा गणकदेवलतस्करा-
द्यन्नभक्षणम् । अनाहिताग्निता ३६ सा तु सम-
र्थस्य श्रौतस्मार्त्ताग्न्यपरिग्रहः । स्तेयं ३७ तत्तु
सुवर्णद्रव्यादन्यसारद्रव्यापहरणम् । देवर्षिपितॄणां
ऋणाशोधनं ३८ असच्छास्त्राभिगमनम् ३९ तत्तु
श्रुतिस्मृतिविरुद्धशास्त्रशिक्षणम् पाषण्डशास्त्रा-
भ्यासो वा । कौशीलव्यक्रिया ४० सा तु तौर्य्य-
त्रिकस्य सततानुष्ठानम् । धान्यस्तेयं ४१ पशुस्तेयम्
४२ कुप्यस्तेयम् ४३ मद्यपस्त्रीनिषेवनम् ४४ स्त्रीबधः
४५ शूद्रबधः ४६ वैश्यबधः ४७ क्षत्रियबधः ४८
नास्तिक्यम् ४९ । तत्तु अदृष्टार्थकर्म्माभावबुद्धिः ।
नास्ति परलोक इति वा । इति मनुः शूलपाणिश्च ॥
(अस्य प्रायश्चित्तादिकं प्रायश्चित्तशब्दे द्रष्टव्यम् ॥)

उपपापं, क्ली, (उपमितं पापेन ।) उपपातकम् ।

इति स्मृतिः ॥

उपपुरं, क्ली, (उप समीपे पुरम् ।) शाखानगरम् ।

इति हेमचन्द्रः ॥

उपपुराणं, क्ली, (उपमितं पुराणैः ।) व्यासकृता-

ष्टादशपुराणसदृशनानामुन्यादिप्रणीताष्टाद्रशपुरा-
राणम् । यथा, --
“अन्यान्युपपुराणानि मुनिभिः कथितान्यपि ।
आद्यं सनत्कुमारोक्तं १ नारसिंहं २ ततः परम् ॥
तृतीयं वायवीयञ्च ३ कुमारेण च भाषितम् ।
चतुर्थं शिवधर्म्माख्यं ४ साक्षान्नन्दीशभाषितम् ॥
दुर्व्वाससोक्तमाश्चर्य्यं ५ नारदीयमतःपरम् ६ ।
नन्दिकेश्वरयुग्मञ्च ७ तथैवोशनसेरितम् ८ ॥
कापिलं ९ वारुणं १० शाम्बं ११ कालिकाह्वयमेव च १२ ।
माहेश्वरं १३ तथा कल्की १४ दैवं १५ सर्व्वार्थसिद्धिदम् ॥
पराशरोक्तमपरम् १६ मारीचम् १७ भास्कराह्वयम् १८ ।
अत्र दैवं देवीपुराणम् । इति मलमासतत्त्वधृत-
कूर्म्मपुराणम् ॥ (एषां विस्तुतिस्त तत्तच्छब्दे
द्रष्टव्या ॥)

उपपुष्पिका, स्त्री, (उपगता पुष्पमिव विकाश-

त्वम् । जृम्भणसमये मुखव्यादानात् तथात्वम् ।)
जृम्भा । हाइ इति भाषा । तत्पर्य्यायः । हा-
फिका २ । इति हारावली ॥
पृष्ठ १/२५८

उपप्रदानं, क्ली, (उप समीपे प्रदानम् ।) उत्कोचः ।

इति हेमचन्द्रः ॥ घुस इति भाषा । (यथा कथा-
सरित्सागरे २४ तरङ्गे ।
“उपप्रदानं लिप्सूनामेकं ह्याकर्षणौषधम्” ॥)

उपप्लवः, पुं, (उप + प्लु + अप् ।) राहुग्रहः । वि-

प्लवः । उत्पातः । इति मेदिनी ॥
(“उपप्लवाय लोकानां धूमकेतुरिवोत्थितः” ।)
इति कुमारे । २ । ३२ ।) ग्रहणम् । यथा “उप-
प्लवे चन्द्रमसो रवेश्च” । इति स्मृतिः ॥ (उत्पात-
सूचकोऽनिलादिः । यथा, “कच्चिन्न वाय्वादिरुप-
प्लवो वः” । इति रघः । ५ । ६ । भीतिः । “नृपा-
इवोपप्लविनः परेभ्यः” । इति रघुः । १३ । ७ ।
“उपप्लविनो भयवन्तः” । इति मल्लिनाथः ॥)

उपभूषणं, क्ली, (उपमितं भूषणेन ।)

घण्टाचामरादि । यथा, --
“घण्टाचामरकुम्भादिपात्रोपकरणादिकम् ।
तद्भूषणान्तरे दद्याद्यस्मात्तदुपभूषणम्” ॥ इति ।
“प्रावारः पानपात्रञ्च गेण्डुको गृहमेव च ।
पर्य्यङ्कादि यदन्यच्च सर्व्वं तदुपभूषणम्” ॥
इति च कालिकापुराणे ६८ अध्यायः ॥

उपभृत्, स्त्री, (उप + भृ + क्विप् ।) चक्राकारयज्ञ-

पात्रं । इत्यमरः ॥ (यथा, श्रौत्रसूत्रे । १ । १० । ९ ॥
“पाणिभ्यां जुहूं परिगृह्योपभृत्याधानम् ॥)

उपभोगः, पुं, (उप + भुज + घञ् ।) भोजनाति-

रिक्तभोगः । तत्पर्य्यायः । निर्व्वेशः २ । इत्यमरः ॥
(“प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्” ।
इति रघुः । १२ । २२ । तथा च स्मृतिः ।
“आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा” ।
“न जातु कामः कामानामुपभोगेन शाम्यति” ।
इति मनुः । २ । ९४ ॥)

उपमा, स्त्री, (उपमीयते इति । उप + मा + अङ्

+ टाप् ।) उपमानम् । सादृश्यम् । इत्यमरः ॥
(“स्फुटोपमंभूतिसितेन शम्भुना” । इति माघे १ । ४ ।
“अपि लङ्घितमध्वानं बुबुधे न बुधोपमः” ।
इति रघुः । १ । ४७ ।) तस्य वैदिकपर्य्यायः ।
इदमिव १ इदं यथा २ अग्निर्णये ३ चतुरश्चिद्दद-
मानात् ४ ब्राह्मणाव्रतचारिणः ५ वृक्षस्यनुते-
पुरहूतवयाः ६ जारआभगं ७ मेषोभूतोऽभीषन्नपः
८ तद्रूपः ९ तद्वर्णः १० तद्वत् ११ तथा १२ ।
इति द्वादशोपमाः । इति वेदनिर्घण्टौ ३ अ-
ध्यायः ॥ (अर्थालङ्कारभेदः । विस्तृतिस्तु उपमा-
लङ्कारशब्दे द्रष्टव्या ॥)

उपमाता, [ऋ] स्त्री, (उपमिता मात्रा ।) धात्री ।

इति जटाधरः ॥ मातुः सदृशी । सा षड्विधा
यथाह स्मृतिः ।
“मातुःष्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्ब्बजपत्नी च मातृतुल्याः प्रकीर्त्तितः” ॥
उपमानकर्त्तरि त्रि ॥

उपमानं, क्ली, (उपमीयते इति । उप + मा +

ल्युट् ।) उपमा । इत्यमरः ॥ (यथा, कुमारे । ४ । ५ ।
“उपमानमभूद्विलासिनां
करणं यत्तव कान्तिमत्तया” ।
सादृश्यज्ञानम् । उपमितिकरणम् । यथा गौर्गवय-
स्तथेतिवाक्ये । “प्रसिद्धसाधर्म्म्यात् साध्यसाधन-
मुपमानम्” । इति न्यायसूत्रम् । प्रसिद्धस्य
पूर्ब्बप्रमितस्य गवादेः साधर्म्म्यात् सादृश्यात् तज्-
ज्ञानात् साध्यस्य गवयादिपदवाच्यत्वस्य साधनं
सिद्धिरुपमानमुपमितिर्यत इत्यध्याहारेण च
करणलक्षणम् । अत्र च वैधर्म्मोपमितिमपि मन्यन्ते
टीकाकृतः । यथा च अतिदीर्घग्रीवत्वादिपश्व-
न्तरवैधर्म्म्यज्ञ नत् । उष्ट्रे करभपदवाच्यताग्रहः ।
एवमन्योऽपि उमानस्य विषय इति भाष्यं । तथा
मुद्गपर्णीसदृशी ओषधी विषं हन्तीत्यतिदेश-
वाक्यार्थे ज्ञाते मुद्गपर्णीसादृश्यज्ञाने जाते इय-
मोषधी विषहरणीत्युपमित्या विषयीक्रियते
इत्यादि ॥)

उपमालङ्कारः, पुं, (उपमैव अलङ्कारः ।) साम्या-

लङ्कारः । यथा । उपमामाह ।
“साम्यं वाच्यमवैधम्म्यं वाक्यैक्ये उपमा द्वयोः” ।
तद्भेदाः । सा द्विविधा । पूर्णा लुप्ता च । तल्ल-
क्षणम् । यथा, --
“सा पूर्णा यदि सामान्यधर्म्म औपम्यवाचि च” ।
इयं पुनः श्रौत्यार्थी च । तल्लक्षणन्तु ।
“श्रौती यथेववाशब्दा इवार्थो वा वतिर्यदि ।
आर्थी तुल्यसमानाद्यास्तुल्यार्थो यत्र वा वतिः” ॥
द्वे त्रिधा । तद्धिते समासेऽथ वाक्ये । उदाहरणम् ।
“सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ ।
हृदयं मदयति वदनं तव शरदिन्दुर्यथा बाले” ॥
अत्र क्रमेण त्रिविधा श्रौती ।
“मधुरः सुधावदधरः
पल्लवतुल्योऽतिपेलवः पाणिः ।
चकितमृगलोचनाभ्यां
सदृशी चपले च लोचने तस्याः” ॥
अत्र क्रमेण त्रिविधा आर्थी । पूर्णा षडेव तत् ।
“लुप्ता सामान्यधर्म्मादेरेकस्य यदि वा द्वयोः ॥
त्रयाणां वानुपादाने श्रौत्यार्थी सापि पूर्ब्बवत्” ॥
इयञ्च तद्धिते श्रौत्या असम्भवात् पूर्ब्बोक्तरीत्या
पञ्चप्रकाराः । उदाहरणम् ।
“मुखमिन्दुर्यथा पाणिः पल्लवेन समः प्रिये ।
वाचः सुधा इवौष्ठस्ते विम्बतुल्यो मनोऽश्मवत्” ॥
“सा लुप्ता पञ्चधा पुनः ।
आधारकर्म्मविहिते द्विविधे च क्यचि क्यङि ।
कर्म्मकर्त्रोर्णमुलि च स्यादेवं पञ्चधा पुनः” ॥
उदाहरणम् ।
“अन्तःपुरीयसि रणेषु सुतीयसि त्वं
पौरं जनं तव सदा रमणीयते श्रीः ।
दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र-
सञ्चारमत्र भुवि सञ्चरसि क्षितीश” ॥
तदेवं दशप्रकारा लुप्ता । सा पुनर्द्विधा । वाक्य-
गता समासगता च । यथा ।
“उपमानानुपादाने द्विधा वाक्यसमासयोः” ।
श्रौत्यार्थोत्वभेदेन चतुर्व्विधत्वसम्भवेऽपि प्राचीन-
रीत्या द्विप्रकारत्वमेवोक्तम् । पुनर्द्विधा ।
“औपम्यवाचिनो लोपे समासे क्विपि च द्विधा”
उदाहरणम् ।
“वदनं मृगशावाक्ष्याः सुधाकरमनोहरम्” ।
“गर्द्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः”
पुनर्धर्म्मोपमानयोर्लोपे द्विधा । तद्यथा ।
“द्विधा समासे वाक्ये च लोपे धर्म्मोपमानयोः” ।
उदाहरणम् ।
“तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम्” ।
पुनर्द्विधा ।
“क्विप्समासगता द्वेधा धर्म्मे वादिविलोपने” ।
उदाहरणम् । विधवति मुखाब्जमस्या इत्यादि ।
“उपमेयस्य लोपे तु स्यादेका प्रत्यये क्यचि” ।
उदाहरणम् ।
“अरातिविक्रमालोकविकश्वरविलोचनः ।
कृपाणोदग्रदोर्द्दण्डः स सहस्रायुधीयति” ॥
धर्म्मोपमेयलोपेऽन्या च । उदाहरणम् । “यशसि
प्रसरति भवतः क्षीरोदीयन्ति सागराः सर्व्वे” ।
त्रिलोपे च समासगा । यथा । राजते मृगलोच-
नेत्यादि ।
“तेनोपमाया भेदाः स्युः सप्तविंशतिसंख्यकाः” ।
पूर्णा षड्विधा । लुप्ता चैकविंशतिविधेति मि-
लित्वा सप्तविंशतिप्रकारोपमा” । इति साहित्य-
दर्पणस्य १० परिच्छेदात् संगृहीतः ॥

उपमितिः, स्त्री, (उप + मि + क्तिन् ।) उपमा । इति

शब्दरत्नावली ॥ न्यायमते सादृश्यज्ञानजन्यज्ञानम् ।
यथा “गोसदृशो गवयपदवाच्य इत्याकारशक्ति-
ज्ञानम् । अस्य करणं गवादिसादृश्यवत् पिण्डप्र-
त्यक्षम् । अस्य व्यापारः अतिदिष्टवाक्यार्थस्मर-
णम्” । इत्युपमानखण्डम् । अपि च । भाषा-
परिच्छेदे ॥ ७९-८० ॥
“ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् ।
सादृश्यधीर्गवादीनां या स्यात् सोपमितिः स्मृता ॥
वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार उच्यते ।
गवयादिपदानान्तु शक्तिधीरुपमाफलम् ॥
पदज्ञानन्तु करणं शक्तिधीरुपमाफलम्” ॥

उपमेतः, पुं, (उपमां इतः प्राप्तः ।) शालवृक्षः ।

इति शब्दचन्द्रिका ॥ (शालवृक्षोहि सर्व्वोन्नतत्वात्
उन्नतानामुपमास्थानम् । इत्यर्थः ॥)

उपयन्ता, [ऋ] पुं, (उप + यम + तृच् ।) पतिः

इति जटाधरः ॥ (“अथोपयन्तारमलं समा-
धिना” । इति कुमारे ५ । ४५ । “अथोपयन्त्रा
सदृशेन युक्ताम्” । इति रघुः ॥ ७ । १ ॥)

उपयमः, पुं, (उप + यम् + अप् ।) विवाहः ।

इत्यमरः ॥

उपयाचकः, त्रि, (उप समीपे याचते इति । उप +

याच + ण्वुल् ।) समीपे याच्ञाकर्त्ता ॥

उपयाचितं, त्रि, (उप + याच् + क्त ।) स्वेष्टसिद्धये

देवाय देयं वस्तु । तत्पर्य्यायः । दिव्यदोहदम् २ ।
इति त्रिकाण्डशेषः ॥ (प्रार्थितम् । यथा, कथा-
सरित्सागरे १३ तरङ्गे ।
“तस्योपयाचितान्येत्य तत्रत्याः कुर्व्वते जनाः ।
तत्तत्वाञ्छितसंसिद्धिहेतोस्तैस्तैरुपायनैः” ॥)

उपयाचितकं, त्रि, (उपयाचित + कन् ।) उपयाचि-

पृष्ठ १/२५९
:तम् । स्वेष्टलब्धये देवदेयम् । इति जटाधरः ॥
(यथा, कादम्बरी । “सिद्धायतनानि कृतविविध-
देवतोपयाचितकानि” ॥)

उपयामः, पुं, (उप + यम् + घञ् ।) विवाहः । इत्य-

मरः । (यज्ञाङ्गपात्रविशेषः । यथा यजुर्व्वदे ७ । ४ ।
११ । “उपयामगृहीतोऽसि” । उपयाम्यतेऽनेन ।
उप + यम + णिच् + अच् । इति व्युत्पत्त्या सि-
द्धम् ॥)

उपयुक्तः, त्रि, (उप + युज् + क्त ।) योग्यः । उचितः ॥

उपयोगः, पुं, (उपयुज्यते इति । उप + युज् + घञ् ।)

आचरणम् । इति विजयरक्षितः । इष्टसिद्ध्यर्थ-
व्यापारः । इति विष्णुमिश्रः ॥ (“अनङ्गलेखक्रिय-
योपयोगम्” । इति कुमारे । १ । ७ ॥ भोजनम् ।
“औषधान्नविहाराणामुपयोगं सुखावहम्” । इति
निदानस्थाने प्रथमेऽध्याये वाभटेनोक्तम् ॥)

उपयोगिता, स्त्री (उपयोगिन् + तल् ।) उपयोगिनो

भावः । फलसाधनता । प्रयोजनम् । आनुकूल्यम् ॥

उपयोगी, [न्] त्रि, (उपयोगोऽस्यास्तीति । उप-

योग + इनि ।) उपयुक्तद्रव्यादिः । क्रियासाधनम् ।
अनुकूलः ॥ (“तदुपयोगीनि शारीरकसूत्रा-
दीनि” । इति वेदान्तसारे । २ ॥ उपभोगद्रव्यम् ।
यथा कथासरित्सागरे । १५ तरङ्गे ।
“अस्ति कन्यारत्नं मे गृह्यतामुपयोगि चेत्” ॥)

उपयोषं, व्य, उपजोषम् । आनन्दः । इत्यमरटीकायां

भरतः ॥

उपरक्तः, पुं, (उप + रञ्ज + क्त ।) राहुग्रस्तः सूर्य्य-

श्चन्द्रश्च । इत्यमरः ॥ राहुः । इति हेमचन्द्रः ॥

उपरक्तः, त्रि, (उप + रञ्ज + क्त ।) व्यसनार्त्तः । दैव-

मानुषान्यतरपीडायुक्तः । इत्यमरः ॥

उपरक्षणं, क्ली (उपगतं रक्षणं यत्र ।) रक्षणार्थं सैन्य-

स्थापनम् । चौकी इति ख्यातम् । तत्पर्य्यायः ।
सज्जनम् २ । इत्यमरः ॥

उपरतः, त्रि, (उप + रम + क्त ।) मृतः । इति

स्मृतिः ॥ (यथाह नारदः ।
“पितुर्य्युपरते पुत्त्रा विभजेयुर्धनं पितुः” ॥)
विरतः ॥

उपरतस्पृहः, त्रि, (उपरतानष्टा स्पृहा धनाद्याकाङ्क्षा

यस्य ।) सत्यपि सत्त्वेस्वगतधनेच्छारहितः । स्वस-
मानाधिकरणस्वत्वसमानकालीनेच्छा प्रागभावा-
समानकालीनेच्छाध्वंसवान् । इति दायतत्त्वम् ॥
इच्छारहितः ॥ (“पितुर्य्युपरतस्पृहे” । इति
याज्ञवल्क्यः ॥)

उपरतिः, स्त्री, (उप + रम् + क्तिन् ।) विरतिः ।

इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये ९१ । ८ ।
“विश्वस्योपरतौ शक्तेनारायणि ! नमोऽस्तु ते” ॥)
“निगृहीतेन्द्रियाणां विषयेभ्य उपरमणम् ।
अथवा विहितकर्म्मणां विधिना परित्यागः” ।
इति वेदान्तः ॥

उपरमः, पुं, (उप + रम + घञ् । निपातनात् न

वृद्धिः ।) उपरतिः । इति हेमचन्द्रः ॥ (“फेनोपरमे
कल्कद्रव्यं नियोजयेत्” । इति वैद्यके ॥)

उपरसः, पुं, (उपमितं रसेन ।) उपधातुः । तद्यथा ।

खेचरम् । अञ्जनम् । कङ्कुष्टम् । गन्धारी । गैरिकम् ।
क्षितिनागः । शैलेयं । इति राजनिर्घण्टः ॥
“गन्धो हिङ्गुलमभ्रतालकशिलाः स्रोतोऽञ्जनण्ट-
ङ्गणम्, राजावर्त्तकचुम्बकौ स्फटिकया शङ्खः खटी
गैरिकम् । कासीसं रसकङ्कपर्द्दसिकता वोलाश्च
कङ्कुष्ठकम्, सौराष्ट्री च मता अमी उपरसा सूतस्य
किञ्चिद्गणैः” ॥ इति भावप्रकाशस्य पर्ब्बखण्डे
प्रथमभागे ॥)

उपरागः, पुं, (उप + रञ्ज + घञ् ।) राहुग्रस्तश्चन्द्रः ।

सूर्य्यश्च । इत्यमरः ॥ (“उपरागान्ते शशिनः समु-
पगता रोहिणीयोगम्” । इति शाकुन्तले । निकट-
स्थितित्वात् निजगुणादेरन्यत्रारोपणम् । यथा
स्फटिकस्तम्भे रक्तपुष्पाणां रक्तिमारोपः ।) राहुः ।
विगानम् । परीवादः । इति हेमचन्द्रः ॥ दुर्नयः ।
ग्रहकल्लोलः । व्यसनम् । इति मेदिनी ॥ (यथा
रघौ १६ । ७ । “बिभर्षि चाकारमनिर्वृतानां
मृणालिनी हैममिवोपरागम्” ॥)

उपरामः, पुं, (उप + रम् + घञ् ।) निवृत्तिः । तत्प-

र्य्यायः । आरतिः २ अवरतिः ३ विरतिः ४ इत्य-
मरः ॥ विरामः ५ उपरमः ६ इति भरतः ॥ आ-
रामः ७ उपरतिः ८ इति हेमचन्द्रः ॥

उपरि, व्य, (ऊर्द्ध्वे ऊर्द्ध्वायां ऊर्द्ध्वात् ऊर्द्ध्वायाः ऊर्द्ध्वं

ऊर्द्ध्वां वा वसत्यागतो रमणीयं वा । “उपर्य्युपरि-
ष्टात्” । ५ । ३ । ३१ । इति ऊर्द्ध्वस्योपादेशो रिल्
प्रत्ययश्च ॥) ऊर्द्ध्वम् । इति व्याकरणम् ॥ उपर
इति भाषा ।
(“त्वय्यासन्ने नयनमुपारस्पन्दि शङ्के मृगाक्ष्याः ।
मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति” ॥
इति मेघदूते उत्तरमेघे ३४ श्लोकः ।
“अवाङ्मुखस्योपरि पुष्पवृष्टिः
पपात विद्याधरहस्तमुक्ता” ।
इति रघुः । २ । ६० ॥)

उपरिष्टात्, व्य, (ऊर्द्ध्वे ऊर्द्ध्वायां ऊर्द्ध्वात् ऊर्द्ध्वायाः

ऊर्द्ध्वं ऊर्द्ध्वां वा वसति आगतो रमणीयं वा ।
“उपरि उपरिष्टात्” । ५ । ३ । ३१ । इत्यूर्द्ध्वस्य
उपादेशो रिष्टातिल् प्रत्ययश्च ।) उपरि । ऊर्द्ध्वम् ।
इति हेमचन्द्रः ॥ (यथा रामायणे ४ काण्डे ।
“नाधस्तान्नोपरिष्टाच्च गतिर्नाप्सु न चाम्बरे” ॥)

उपरीतकः, पुं, शृङ्गारबन्धविशेषः । आसन वाँधन

इत्यादि भाषा । तस्य लक्षणं यथा ।
“एकपादमुरौ कृत्वा द्वितीयं स्कन्धसंस्थितम् ।
नारीं कामयते कामी बन्धः स्यादुपरीतकः” ॥
इति रतिमञ्जरी ॥ अत्र विपरीतकोऽपि पाठः ॥

उपरूपकं, क्ली, (उपमितं रूपकेण ।) नाटकविशेषः ।

स तु अष्टादशविधः । यथा ।
“नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।
प्रस्थानोल्लाप्यकाव्यानि प्रेङ्क्षणं रासकन्तथा ॥
संलापकं श्रीगदितं शिल्पकञ्च विलासिका ।
दुर्म्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥
अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।
विना विशेषं सर्व्वेषां लक्ष्म नाटकवन्मतम्” ॥
इति साहित्यदर्पणे ६ परिच्छेदः ॥

उपरोधः, पुं, (उप + रुध् + घञ् ।) अनुरोधः ॥

(प्रतिबन्धः । “अन्येषामपि भैक्षोपजीविनां वृत्युप-
रोधं करोषि” । इति महाभारते आदिपर्ब्बणि ।
३ । ४५ । “तपोधननिवासिनामुपरोधो माभूत्” ।
इति शाकुन्तले प्रथमाङ्के ॥)

उपरोधकं, क्ली, (उप + रुध् + ण्वुल् ।) गभागारम् ।

वासगृहम् । इति शब्दरत्नावली ॥

उपर्य्युपरि, व्य, ऊर्द्ध्वोर्द्ध्वं । उपर उपरि इति भाषा ।

सामीप्यम् । यथा “उपर्य्युपरि ग्रामम्” । इति
व्याकरणम् ॥

उपलः, पुं, (उपलाति । उप + ला + क । यद्वा, उं

शम्भुं पलति यः । उ + पल + अच् ।) पाषाणः ।
(यथा, --
“रेवां द्रक्ष्यस्युपलावषमे विन्ध्यपादेविशीर्णाम्” ।
इति मेघदूते पूर्ब्बमेघे १९ श्लोकः ।) रत्नम् । इति
मेदिनी ॥ (यथा मनुः । ११ । १६७ ।
“मणिमुक्ताप्रबालानां ताम्रस्य रजतस्य च ।
अयःकांस्योपलानाञ्च द्वादशाहं कणान्नता” ॥
बालुका । यथा, “भिषगुपलाप्रक्षिणी नना” । इति
ऋग्वेदे । ९ । ११२ । ३ । “उपलेषु बालुकासु”
इति भाष्यम् ॥)

उपलक्षणं, क्ली, (उप + लक्ष् + ल्युट् ।) अजहत्-

स्वार्थलक्षणा ।
(“स्वसिद्धये पराक्षपः परार्थे स्वसमर्पणम् ।
उपादानं लक्षणञ्चेत्युक्ता शुद्धैव सा द्विधा ॥
यथा कुन्ताः प्रविशन्ति । इत्युपादानम् । गङ्गायां
घोषः । इत्युपलक्षणम्” । इति काव्यप्रकाशः ॥)
एकपदेन तदर्थान्यपदार्थकथनम् । यथा, शुद्धितत्त्वम् ।
“देशान्तरे मृते पत्यौ साध्वी तत्पादुकाद्वयम् ।
निधायोरसि संशुद्धा प्रविशेज्जातवेदसम्” ॥
अत्र पादुकाद्वयमित्युपलक्षणं द्रव्यान्तरमपि ॥

उपलक्ष्यः, पुं, (उप + लक्ष + ण्यत् ।) आश्रयः । अव-

लम्बनम् ॥

उपलधिप्रियः, पुं, (उपलधिः प्रियो यस्य ।) चमर-

नामवनजन्तुः । इति राजनिर्घण्टः ॥

उपलब्धार्था, स्त्री, (उपलब्धः अर्थो यस्याः ।) आख्या-

यिका । इत्यमरः ॥ हितोपदेशादिकथा ॥

उपलब्धिः, स्त्री, (उप + लभ + क्तिन् ।) मतिः ।

प्राप्तिः । (यथा, रघुः ५ । ५६ । “वृथा हि मे स्यात्
स्वपदोपलब्धिः” ।) ज्ञानम् । इति मेदिनी ॥ (यथा
महाभारते १४ । अनुगीतापर्ब्बणि । २२ । २९ ।
“कामन्तु नः स्वेषु गुणेषु सङ्गः
कामञ्च नान्योन्यगुणोपलब्धिः ।
अस्मान् विना नास्ति तवोपलब्धि-
स्तावदूते त्वां न भजेत् प्रहर्षः” ॥)

उपलभेदी, पुं, (उपलं भिनत्तीति । उपल + भिद् +

णिनि ।) पाषाणभेदी वृक्षः । इति राजनिर्घण्टः ॥
(अश्मभेदशब्देऽस्य गुणादयो ज्ञातव्याः ॥)

उपलम्भः, पुं, (उप + लभ + घञ् । उपसर्गात् खल-

घञोरिति नुम् ।) अनुभवः । इत्यमरः ॥
(यथा रघुः १४ । २ ।
“विस्पष्टमस्रान्धतया न दृष्टौ
पृष्ठ १/२६०
:ज्ञातौ सुतस्पर्शसुखोपलम्भात्” ॥)

उपलम्भ्यः, त्रि, (उप + लभ + ण्यत् । “उपात् प्रशं-

सायाम्” । ७ । १ । ६६ । इत्यनेन सिद्धम् ।) स्तव्यः ।
स्तवोपयुक्तः । यथा उपलम्भ्यः साधुः । इति मुग्ध-
बोधव्याकरणम् ॥

उपला, स्त्री, (उप + ला + क + टाप् ।) शर्क्करा ।

इति मेदिनी ॥ (“सितोपला तु गोक्षीरी” ।
इति तैद्यकचक्रपाणिसंग्रहे यक्ष्माधिकारे ॥)

उपलिङ्गं, क्ली, (उपमितं लिङ्गेन ।) उपद्रवः । अरि-

ष्टम् । इति हेमचन्द्रः ॥ (“केनचित् उपलिङ्गानि
गायता” । इति हर्षचरिते पच्छमोच्छ्वासे ॥)

उपलेपनं, क्ली, (उप + लिप् + ल्युट् ।) गोमयादि-

लेपनम् । इति त्रिकाण्डशेषः ॥ (यथा पञ्चतन्त्रे ।
“तत्रैव देवायतने संमार्जनोपलेपनमण्डनादिकं
कर्म्म समाज्ञापयति” ॥)

उपवटः, पुं, (उपमितो वटेन ।) प्रियालवृक्षः । इति

राजनिर्घण्टः ॥ (प्रियालशब्देऽस्य गुणादयो व्या-
ख्येयाः ॥)

उपवनं, क्ली, (उपमितं वनेन ।) कृत्रिमवनम् । वा-

गान इति भाषा । तत्पर्य्यायः । आरामः २ । इत्य-
मरः ॥ (यथा, मेघदूते पूर्ब्बमेघे २४ श्लोकः ।
“पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः” ।
“सा केतुमालोपवना वृहद्भि-
र्विहारशैलानुगतेव नागैः” ।
इति रघुः । १६ । २६ ॥)

उपवर्त्तनं, क्ली, (उपागत्य वर्त्तन्ते अत्र । उप + वृत्

+ ल्युट् ।) जनपदः । जनपदसमुदायः । जनपदैक-
देशः । सजलनिर्जलस्थानमात्रम् । इति भरतः ॥
तत्पर्य्यायः । देशः २ विषयः ३ । इत्यमरः ॥ (यथा
काशीखण्डे ।
“तस्योपवर्त्तनेऽप्येको न श्रुतो गोत्रभित् क्वचित्” ॥)

उपवर्षः, पुं, मुनिविशेषः । तत्पर्य्यायः । हलभृतिः २

कृतकोटिः ३ अयाचितः ४ । इति त्रिकाण्डशेषः ॥

उपवर्हः, पुं, (उप + वृह + घञ् ।) उपधानम् ।

इत्यमरः ॥ वालिश इति भाषा ॥

उपवल्लिका, स्त्री, अमृतस्रवालता । इति राजनि-

र्घण्टः ॥

उपवसथः, पुं, (उपागत्य वसन्ति अत्र । उप + वस् +

उपसर्गे वसेः इति अथप्रत्ययः ।)
ग्रामः । इति हेमचन्द्रः ॥ (यथा, -- शतपथ-
ब्राह्मणे । ११ । १ । ७ । “तेऽस्य विश्वे देवा गृहाना-
गछन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथः” ।
यागपूर्ब्बदिनम् ॥)

उपवस्तं, क्ली, (उप + वस + क्त ।) उपवासः । इत्य-

मरः ॥

उपवासः, पुं, (उप + वस + घञ् ।) अग्न्याधानम् ।

इति मलमासतत्त्वम् । अहोरात्रभोजनाभावः ।
तत्पर्य्यायः । उपवस्तम् २ । इत्यमरः ॥ उपोषितम् ३
उपोषणम् ४ औपवस्तम् ५ । इति तट्टीका ॥
अस्य प्रमाणम् ।
“उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्व्वभोगविवर्ज्जितः” ॥
अस्यार्थः । उपावृत्तस्य निवृत्तस्य । पापेभ्यः पाप-
कर्म्मभ्यः । गुणाः । सर्व्वभूतेषु दया क्षान्तिः अन-
सूया शौचं अनायासः मङ्गलं अकार्पण्यं अस्पृहा
च । सर्व्वभोगविवर्ज्जितः शास्त्राननुमतनृत्यगी-
तादिसुखरहितः । वैधोपवासे भोजनचतुष्टय-
निवृत्तिमाह महाभारते ।
“सायमाद्यन्तयोरह्नोः सायं प्रातश्च मध्यमे ।
उपवासफलं प्रेप्सोर्वर्ज्यं भक्तचतुष्टयम्” ॥
उपवासदिने वर्ज्जनीयानि । अञ्जनम् । रोचनम् ।
गन्धः । पुष्पम् । माल्यम् । अलङ्कारः । दन्तधाव-
नम् । गात्राभ्यङ्गः । शिरोभ्यङ्गः । ताम्बूलम् । यच्चा-
न्यत् बलरागकृत् । दिवास्वापः । अक्षक्रीडा ।
मैथुनम् । स्तीणां सरागसम्प्रेक्षणस्पर्शौ । व्रतादिषु
पुत्त्रोत्पत्तिपर्य्यन्तं ऋतौ सकृत् स्त्रीगमने न दोषः ॥
तत्पूर्ब्बापरदिने वर्ज्जनीयानि । कांस्यपात्रे भोज-
नम् । मांसभोजनम् । सुरापानम् । मधुपानम् ।
लोभः । वितथमाषणम् । व्यायामः । व्यवायः
दिवास्वापः । अञ्जनम् । शिलापिष्टभक्षणम् । म-
सूरभक्षणम् । पुनर्भोजनम् । अध्वगमनम् । यानम् ।
आयासः । द्यूतक्रीडा । अभ्यङ्गः । परान्नम् । तैलम् ।
चणकम् । कोरदूषकम् । शाकम् । अधिकधृतम् ।
अत्यम्बुपानम् । इति एकादशीतत्त्वम् ॥ उपवासा-
सामर्थ्ये प्रतिनिधिः । स्कन्दपुराणम् ॥
“पुत्त्रं वा विनयोपेतं भगिनीं भ्रातरं तथा ।
एषामभाव एवान्यं ब्राह्मणं विनियोजयेत्” । इति ।
“भार्य्या भर्तृव्रतं कुर्य्यात् भार्य्यायाश्च पतिस्तथा ।
असामर्थ्ये द्वयोस्ताभ्यां व्रतभङ्गो न जायते” ॥
इति गरुडपुराणम् ॥ तदनुकल्पः ।
“नक्तं हविष्यान्नमनोदनञ्च
फलं तिलाः क्षीरमथाम्बु चाज्यम् ।
यत्पञ्चगव्यं यदि वाथ वायुः
प्रशस्तमत्रोत्तरमुत्तरञ्च” ॥
इति वायुपुराणम् ॥
“उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत् ।
तावद्धनानि वा दद्याद्यद्भक्ताद्द्विगुणं भवेत् ॥
सहस्रसम्मितां देवीं जपेद्वा प्राणसंयमान् ।
कुर्य्याद्द्वादशसंख्याकान् यथाशक्ति व्रते नरः” ॥
इति ब्रह्मवैवर्त्तपुराणम् ॥
“अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम्” ॥
इति बौधायनः ॥

उपवासी, [न्] त्रि, (उपवासोऽस्यास्तीति । उप-

वास + इनि ।) उपवासयुक्तः । अहोरात्रभोजना-
भावविशिष्टः ॥
(“विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः” ।
इति महाभारते ३ । मार्कण्डेयसमस्यापर्ब्बणि
दानकथने । १९९ । ५१ ॥
“दिवोपवासी तु निशामिषाशी
जटाधारः सन् कुलटाभिलाषी ।
अयं कषायारुणचारुदण्डः
शठाग्रणीः सर्पति विश्वभण्डः” ॥
इति हास्यार्णवः ॥)

उपवाह्यः, पुं, (उत्कृष्टो वाह्यः ।) राजवाहकहस्ती ।

तत्पर्य्यायः । राजवाह्यः २ । इति हेमचन्द्रः ॥
(गजारोहणादिसम्मानयोग्यः । यथा, रामायणे ।
२ । ४५ । १६ ।
“धर्म्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः ।
उपवाह्यस्तु वो भर्त्ता नापवाह्यः पुराद्वनम्” ॥)

उपविषं, क्ली, (उपमितं विषेण ।) कृत्रिमविषम् ।

तत्पर्य्यायः । चारं २ । गरः ३ । इति हेमचन्द्रः ॥
(पुं, पारिभाषिकविषः । यथा, --
“अर्कक्षीरं स्नुहीक्षीरं तथैव कलिहारिका ।
करवीरोऽथ धुस्तूरः पञ्च चोपविषाः स्मृताः” ॥
केषाञ्चिन्मते सप्त उपविषाः । यथा, --
“अर्कसेहुण्डधुस्तूरा लाङ्गली करवीरकः ।
गुञ्जाहिफेनमित्येताः सप्तोपविषजातयः” ॥
इति शार्ङ्गधरे मध्यखण्डे द्वादशाध्याये ॥)

उपविषा, स्त्री, (विषमुपगता ।) अतिविषा । इत्य-

मरः ॥ आतैष इति भाषा । (अतिविषाशब्देऽस्या
गुणादयोऽवगन्तव्याः ॥)

उपविष्टः, त्रि, (उप + विश + क्त ।) आसीनः । इति

हेमचन्द्रः ॥ वसा इति भाषा । (यथा, मार्कण्डेये
देवीमाहात्म्ये । ८१ । २८ । “उपविष्टौ कथाः
काश्चित् चक्रतुर्वैश्यपार्थिवौ” ॥)

उपवीतं, क्ली, (उप + वि + इ + क्त ।) वामस्कन्धा-

र्पितं यज्ञसूत्रम् । यज्ञसूत्रमात्रम् । इत्यमरः ॥
पैता इति भाषा । (यदुक्तमुपनिषदि ।
“ऊर्द्ध्वन्तु त्रिवृतं कार्य्यं तन्तुत्रयमधोवृतम् ।
त्रिवृतञ्चोपवीतं स्यात् तस्यैको ग्रन्थिरिष्यते” ॥
देवलश्चाह ।
“यज्ञोपवीतकं कुर्य्यात् सूत्राणि नवतन्तवः” ।
तद्द्वयमेव सर्व्वदा धारणीयं उत्तरीयवस्त्राभावे तु
तत्त्रितयं धारणीयम् । यदुक्तम् ।
“यज्ञोपवीते द्वे धार्य्ये श्रौते स्मार्त्ते च कर्म्मणि ।
तृतीयमुत्तरीयार्थं वस्त्रालाभेऽतिदिश्यते” ॥
तत्सूत्रभेदश्च मनुना वर्णभेदेन उक्तः । २ । ४४ । यथा,
“कार्पासमुपवीतं स्यात् विप्रस्योर्द्धवृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम्” ॥
यथा, माघे । १ । ७ ।
“कृतोपवीतं हिमशुभ्रमुच्चकैः” ।
“मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः” ।
इति कुमारे । ६ । ६ ॥)

उपवेदः, पुं, (उपमितो वेदेन ।) प्रधानवेदातिरिक्त-

वेदः । स चतुर्विधः । आयुर्व्वेदः १ धनुर्व्वेदः २
गान्धर्व्ववेदः ३ स्थापत्यवेदः ४ । इति श्रीभागवतम् ॥

उपवेशनं, क्ली, (उप + विश + ल्युट् ।) स्थितिः ।

वैसन इति भाषा । अस्य गुणाः । मेदोदीप्तिश्लेष्म-
सौकुमार्य्यसुखकारित्वम् । इति राजवल्लभः ॥

उपव्याघ्रः, पुं, (उपमितो व्याघ्रेण ।) चित्रकः । इति

राजनिर्घण्टः ॥ चितावाघ इति भाषा । (क्ली,
व्याघ्रस्य समीपे इति । शार्दूलसमीपम् ॥)

उपशमः, पुं, (उप + शम् + घञ् ।) शमता । तत्प-

र्य्यायः । शमः २ शान्तिः ३ शमथः ४ तृष्णाक्षयः
५ । इति हेमचन्द्रः ॥ (यथा, महाभारते १ ।
पृष्ठ १/२६१
:पौष्योपास्याने । ३ । १२० । “न हि मे मन्युरद्यापि
उपशमं गच्छति” । तथा प्रबोधचन्द्रोदये । ५ ।
१५ । “तथायमपि कृतकर्त्तव्यः संप्रति परमा-
मुपशमनिष्ठां प्राप्तः” ॥)

उपशयः, पुं, (उप + शी + अच् ।) निदानपञ्चकान्त-

र्गतरोगज्ञानजनकः । तस्य लक्षणम् ।
“हेतुव्याधिविपर्य्यस्तविपर्य्यस्तार्थकारिणाम् ।
औषधान्नविहाराणामुपयोगं सुखावहम् ॥
विद्यादुपशयं व्याधेः स हि सात्म्यमिति स्मृतः” ।
इति निदानम् ॥ (“अस्मिन्नर्थे उपशयः पुनर्हेतु-
व्याधिविपरीतानां विपरीतार्थकारिणाञ्चौषधा-
हारविहाराणां उपयोगः सुखानुबन्धः” । इति
चरके निदानस्थाने प्रथमोऽध्यायः ॥)

उपशल्यं, क्ली, (उपगतं शल्यम् ।) ग्रामप्रान्तभागः ।

तत्पर्य्यायः । ग्रामान्तम् २ । इत्यमरः ॥
(यथा रघौ १५ । ६० ।
“उपशल्यनिविष्टैस्तैश्चतुर्द्दारमुखी बभौ” ॥
“भ्रमंश्च विशालोपशल्ये कमप्याक्रीडमासाद्य” ।
इति दशकुमारे ॥)

उपशायः, पुं, (उप + शी + घञ् ।) पर्य्यायशयनार्थकः ।

प्रहरिकादीनां क्रमेण शयनम् । तत्पर्य्यायः । वि-
शायः २ । इत्यमरः ॥

उपश्रुतं, त्रि, (उप + श्रु + क्त ।) प्रतिश्रुतम् । अङ्गी-

कृतम् । इत्यमरः ॥

उपश्रुतिः, स्त्री, (उपश्रूयते । उप + श्रु + क्तिन् ।)

दैवप्रश्नः । यथाह हारावली ॥
“नक्तं निर्गत्य यत् किञ्चिच्छुभाशुभकरं वचः ।
श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम्” ॥
(उप समीपे श्रुतिः श्रवणम् । समीपश्रवणम् ।
उपमिता श्रुत्या । वेदसदृशी श्रुतिसदृशत्वात्
तथात्वम् ॥)

उपष्टम्भकः, पुं, (उप + स्तन्भ + ण्वुल् ।) आधि-

क्यम् । यथा । उअच्चैःश्रवादीन् तेजोभागोपष्टम्भ-
कतया प्रत्यक्षयोग्यत्वात् । इति बौद्धाधिकारचि-
न्तामणिः ॥

उपसंग्रहः, पुं, (उपसंगृह्यते इति । उप + सम् +

ग्रह् + अप् ।) पादस्पर्शपूर्ब्बकनमस्कारः । तत्प-
र्य्यायः । पादग्रहणम् २ अभिवादनम् ३ । इति
हेमचन्द्रः ॥ (उपकरणम् । यथा, महाभारते ४ ।
कीचकबधपर्ब्बणि । १६ । १५ ।
“उपातिष्ठन्महाबाहुः पर्य्यङ्के सोपसंग्रहे” ॥)

उपसंग्राह्यं, त्रि, (उपसंगृह्यते इति । उप + सम् +

ग्रह् + ण्यत् ।) उपसंग्रहणीयम् । अभिवाद्यम् ।
पादे ग्रहीतव्यम् । इति हलायुधः ॥
(यथा मनुः । २ । १३२ ।
“भ्रातुर्भार्य्योपसंग्राह्या सवर्णाऽहन्यहन्यपि” ॥)

उपसंव्यानं, क्ली, (उपसंवीयतेऽनेन । उप + सम् +

व्ये + कृत्यल्युट् इति ल्युट् ।) परिधानवस्त्रम् ।
इत्यमरः ॥ (यथा मुग्धबोधे शब्दसंज्ञायाम् ।
“वर्हिर्य्योगोपसंव्याने” ॥)

उपसंहारः, पुं, (उपसंहरणम् । उप + सम् + हृ +

घञ् ।) अन्तः । शेषः । यथा ।
“उपक्रमोपसंहारयोः शुक्लत्वकीर्त्तनाच्च” ।
इति सप्तमीप्रकरणे तिथ्यादितत्त्वलिखनम् ॥
(एकत्रीकरणम् । सम्यगाहरणम् ॥)

उपसत्तिः, स्त्री, (उप + सद् + क्तिन् ।) सङ्गमात्रम् ।

प्रतिपादनम् । सेवा । इति हेमचन्द्रः ॥

उपसद्, पुं, (उप + सद् + क्विप् ।) अग्निविशेषः ।

यथा । वह्निपुराणे गणभेदनामांध्यायः ॥
“गार्हपत्यो दक्षिणाग्निस्तथैवाहवनीयकः ।
एतेऽग्नयस्त्रयो मुख्या शेषाश्चोपसदस्त्रयः” ॥
(स्त्री, यज्ञभेदः । आश्वलायने ४ । ८ । १ “अथोपसद्भिः
प्रचरति” । इति । सभीपस्थिते व्याचलिङ्गः ॥)

उपसदनं, क्ली, (सदनस्य गृहस्य समीपे । यद्वा, उप

+ सद + ल्युट् ।) गृहसमीपम् ॥ (यथा रामायणे
१ । ५० । १६ ।
“धन्योस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव ।
यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह” ॥
उपसेवनम् । प्राप्तिः । यथा, महाभारते वनपर्ब्बणि ।
“तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्म्मणि” ॥)

उपसन्नः, त्रि, (उप + सद् + क्त ।) उपनतः । उप-

स्थितः । इति हेमचन्द्रः ॥ (यथा, महाभारते १२ ।
मोक्षधर्म्मपर्ब्बणि । २८७ । ११ ।
“ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः” ॥)

उपसम्पन्नः, त्रि, (उप + सम् + पद् + क्त ।) यज्ञार्थ-

हतपशुः । तत्पर्य्यायः । प्रमीतः २ प्रोक्षितः ३ ।
पाकेन रूपरसादिसम्पन्नव्यञ्जनादिः । तत्पर्य्यायः ।
प्रणीतः २ । इत्यमरः । पर्य्याप्तः । संस्कृतः । प्राप्तः ।
मृतः । इति हेमचन्द्रः ॥ (यथा, मनुः । ५ । ८१ ।
“श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत्” ॥)

उपसरः, पुं, (उप + सृ + अप् ।) स्त्रीगव्यादिषु पुङ्ग-

वादीनां प्रथमगर्भाधानाय मैथुनाभियोगः । तत्प-
र्य्यायः । प्रजनः २ । इत्यमरः ॥ (यथा, पाणिनिः
३ । ३ । ७१ । “प्रजननं प्रथमगर्भग्रहणम् गवामुप-
सरः” । निरवच्छेदगमनम् । यथा, भट्टिः । “वी-
नामुपसरं दृष्ट्वा” । अत्र जयमङ्गलस्त्वाह । “वीनां
उपसरं नैरन्तर्य्येण निर्गमनम्” ॥)

उपसर्गः, पुं, (उप + सृज् + घञ् ।) रोगभेदः । (यथा,

सुश्रुते । “क्षीणं हन्युश्चोपसर्गाः प्रभूताः” ।) उप-
प्लवः । इति मेदिनी ॥ (यथा, मार्कण्डेये ९२ । ७ ।
“उपसर्गानशेषांस्तु महामारीसमुद्भवान्” ।)
धातोः पूर्ब्बवर्त्तिविंशतिसंख्यकप्राद्यव्ययम् । यथा ।
प्र । परा । अप । सम् । नि । अव । अनु । निर् ।
दुर् । वि । अधि । सु । उत् । परि । प्रति ।
अभि । अति । अपि । उप । आङ् । अस्य
प्रमाणम् ।
“निपाताश्चादयो ज्ञेयाः उपसर्गास्तु प्रादयः ।
द्योतकत्वात् क्रियायोगे लोकादवगता इमे” ॥
स त्रिधा । “धात्वर्थं बाधते कश्चित्” । यथा
आदत्ते । “कश्चित्तमनुवर्त्तते” । यथा प्रसूते ।
“तमेव विशिनष्ट्यन्यः” । यथा प्रणमति । “उप-
सर्गगतिस्त्रिधा” । अपि च ।
“उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
नीहाराहारसंहारप्रतीहारप्रहारवत्” ॥
इति मुग्धबोधटीकायां दुर्गादासः ॥

उपसर्ज्जनं, क्ली, (उप + सृज् + ल्युट् ।) प्रधानभिन्नम् ।

तत्पर्य्यायः । अप्रधानम् २ अप्राग्र्यम् ३ । इत्यमरः ॥
(यथा, मनुः ९ । २११ ।
“उपसर्ज्जनं प्रधानस्य धर्म्मतो नोपपद्यते” ॥
(विशेषणम् । त्यागः । उपद्रवः । यथा अनध्याय-
प्रकरणे मनुः, --
“निर्घाते भूमिचलने ज्योतिषामुपसर्ज्जने” ॥)

उपसर्पकः, त्रि, (उप + सृप् + ण्वुल् ।) उपसर्पण-

कर्त्ता । उपासकः ॥

उपसर्य्या, स्त्री, (उप + सृ + उपसर्य्या काल्या प्रजने

इति साधुः ।) प्राप्तगर्भग्रहणकाला गौः । ऋतु-
मती गौः । तत्पर्य्यायः । काल्या २ । इत्यमरः ॥
कालप्राप्ता ३ वृषरता ४ । इति शब्दरत्नावली ॥

उपसार्य्यः, त्रि, (उप + सृ + ण्यत् ।) समीपगमनीयः ।

(यथा, पाणिनिः ३ । १ । १०४ । “प्रजने काल्येति किम्
उपासार्य्या काशीप्राप्तव्या इत्यर्थः” ॥)

उपसूर्य्यकं, क्ली, सूर्य्यसुपगत उपसूर्य्यं स्वार्थे कन् ।

चन्द्रपक्षे उपसूर्य्यमिव उपसूर्य्यकं इवार्थे कन् ॥
चन्द्रसूर्य्यमण्डलम् । इत्यमरः ॥

उपसृष्टं, क्ली, (उपसृज्यते स्म इति । उप + सृज् +

क्त ।) मैथुनम् । इति त्रिकाण्डशेषः । उपसर्गग्रस्ते
त्रि । तथा च याज्ञवल्क्यः ।
“तेनोपसृष्टो लभते न राज्यं राजनन्दनः” ॥
(ग्रहोपग्रस्तश्चन्द्रादिः । यथा मनुः,
“नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसोगतम्” ॥
व्याप्तम् । यथा, रघुः “रोगोपसृष्टतनुदुर्वसतिं
मुमुक्षुः” ॥)

उपस्करः, पुं, (उप + कृ + अप् समवाये चेति सुट् ।)

व्यञ्जनादिसंस्कारार्थधन्याकसर्षपपिष्टादिः । वेसार
वाटना इत्यादि भाषा । तत्पर्य्यायः । वेसवारः २ ।
इत्यमरः ॥ (यथा रामायणे । २ । ६५ । ९ ।
“मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान् ।
उपानिन्युस्तथा पुण्याः कुमारीबहुलाः स्त्रियः” ॥)
गृहवासोपकरणम् । तच्च दृषदुपलसूर्पादि ।
कनककुण्डलहारादि । इति श्रीकृष्णतर्क्कालङ्कारः ॥
तथा च याज्ञवल्क्यः ।
“गृहोपस्करवाह्यानां दोह्याभरणकर्म्मिणाम् ।
मूल्यंलब्धन्तु यत्किञ्चित् शुल्कं तत्परिकीर्त्तितम्” ॥
(तथा च मनुः । ३ । ६८ ।
“पञ्चसूना गृहस्थस्य चूल्लीपेषण्युपस्करः” ॥
“सज्जोपस्करभेषजः” । इति सुश्रुते सूत्रस्थाने
चतुस्त्रिंशोऽध्यायः ॥)

उपस्त्री, स्त्री, (उपमिता स्त्रिया ।) उपपत्नी । ढेमिनी

इति भाषा ॥

उपस्थः, पुं, (उप + स्था + क ।) लिङ्गम् । भगः ।

क्रोडः । इति मेदिनी ॥ (“रथोपस्थौपाविशत्” ।
इति गीतायां १ । ४६ ।) गुह्यद्वारम् । इति हेम-
चन्द्रः ॥ (यथा, मनः । ८ । १२५ ।
“उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चकम्” ॥)
निकटे त्रि । इति शब्दरत्नावली ॥
पृष्ठ १/२६२

उपस्थाता, [ऋ] त्रि, (उप समीपे तिष्ठतीति । उप

+ स्था + तृच् ।) भृत्यः । “प्रेष्यो भृत्य उपस्थाता
सेवकोऽभिसरोऽनुगः” । इति शब्दमाला ॥ (ऋ-
त्विग्भेदे, पुं ॥
“भिषगद्रव्याण्यपस्थाता रोगी पादचतुष्टयम् ।
गुणवत् कारणं ज्ञेयं विकारस्योपशान्तये” ॥
इति चरके सूत्रस्थाने नवमोऽध्यायः ॥)

उपस्थितः, त्रि, (उप समीपे तिष्ठति स्म । उप +

स्था + क्त ।) समीपस्थितः । तत्पर्य्यायः । उपनतः २
उपसन्नः ३ । इति हेमचन्द्रः ॥ (यथा, रघुवंशे १ । ८७ ।
“उपस्थितेयं कल्याणी नाम्नि कीर्त्तित एव यत्” ।
“हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान्” ।
इति च रघुः १ । ४५ ।) मृष्टः । शोधितः । इति
जटाधरः ॥ (अनार्षः । यथा पाणिनिः । ६ । १ । १२९ ।
“अप्लुतवदुपस्थिते” अत्र सिद्धान्तकौमुदी । उप-
स्थितोऽनार्षः” । इति ॥)

उपस्पर्शः, पुं, (उप + स्पृश् + घञ् ।) स्पर्शमात्रम् ।

स्नानम् । आचमनम् । इति मेदिनी ॥

उपस्पर्शनं, क्ली, (उप + स्पृश् + ल्युट् ।) उपस्पर्शः ।

इति धरणिः ॥ (यथा रामायणे २ । २५ । २४ ।
“उपस्पर्शनकाले तु त्वां रक्षन्तु रघूत्तम !” ॥)

उपस्वत्वं, क्ली, (उपगतं स्वत्वम् ।) उत्पन्नम् । लभ्यम् ।

स्वत्वास्पदीभूतभूम्यादिलब्धधनादि ॥

उपहतः, त्रि, (उप + हन् + क्त ।) नष्टः । उत्पा-

तग्रस्तः । अशुद्धद्रव्यम् ॥ (“करत्यवज्ञोपहतं पृथक्-
जनम्” । इति किराते । “किमेभिराशोपहता-
त्मवृत्तिभिः” । इति कुमारे । ५ । ७६ ॥)

उपहसितं, क्ली, (उप + हस् + क्त ।) हास्यभेदः इति ।

जटाधरः ॥ (यथा साहित्यदर्पणे ३ य-परिच्छेदे २२८ ।
“ज्येष्ठानां स्मितहसिते मध्यानां विहसिताव-
हसिते च । नोचानामपहसितं तथातिहसितं च
षड्भेदाः ॥ मधुरस्वरं विहसितं सांसशिरःकम्प-
मवहसितं । अपहसितं सास्राक्षं विक्षिप्ताङ्गं
भवत्यतिहसितम्” ।) अपहसितमत्र उपहसितम्
इत्यपि पाठः ॥

उपहारः, पुं, (उप + हृ + घञ् ।) उपढौकनद्रव्यम् ।

तत्पर्य्यायः । प्राभृतम् २ प्रदेशनम् ३ उपायनम्
४ उपग्राह्यः ५ उपदा ६ । इत्यमरः ॥ (यथा, --
रघौ ४ । ८४ ।
“रत्नपुष्पोपहारेण च्छायामानर्च्च पादयोः” ।
“बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः” ।
इति मेघदूते पूर्ब्बमेघे ३३ श्लोकः । यथा, --
कुमारे । ६ । ४२ ।
“ज्योतिषां प्रतिविम्बानि प्राप्नुवन्त्युपहारताम्” ॥
उपगतो हारं इति वाक्ये हारनिकटस्थद्रव्यम् ।
यथा, -- नैषधे । १ । ४८ ॥
“उरोमुवा कुम्भयुगेन जृम्भितं
नवोपहारेण वयस्कृतेन किम्” ॥)

उपहालकः, पुं, कुन्तलदेशः । इति हेमचन्द्रः ॥

उपहासः, पुं, (उप + हम + घञ् ।) परीहासः ।

निन्दार्थवाक्यादिः । विद्रूप ठाट्टा इत्यादि भाषा ।
“उपहासाय किं न स्यांत असत्सङ्गो मनीषिणाम्” ।
इति मलमासतत्त्वम् ॥ (तथा, रघुः । १२ । ३७ ।
“फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम्” ॥)

उपह्वरं, क्ली, (उपह्वरन्त्यत्र । उप + ह्वृ + घ ।) नि-

र्जनस्थानम् । (यथा ऋग्वेदे ८ । ६ । २८ । “उपह्वरे
गिरीणाम्” ।) निकटम् । इत्यमरः ॥
(“ऊर्म्मीप्रवाहैर्जाह्नव्याः समानीतमुपह्वरम्” ।
इति महाभारते । ३ । कुण्डलाहरणपर्ब्बणि ३०८ । ४ ॥
“सर्व्वानाहूय उपह्वरें वैद्यान्” । इति हर्षचरिते
पञ्चमोच्छ्वासे ॥)

उपह्वरः, पुं, (उप + ह्वृ + घ ।) रथः । इत्युणादि-

कोषः ॥ (प्रान्तभागः । यथा ऋग्वेदे । १ । ८७ । २ ।
“उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन-
चित्पथा” ॥)

उपांशुः, पुं, (उपगता अंशवो यत्र ।) जपभेदः । इति

मेदिनी ॥
“जिह्वौष्ठौ चालयेत् किञ्चिद्देवतागतमानसः ।
निजश्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः” ॥
इत्यागमः ॥ (निगूढे वाच्यलिङ्गः । यथा, महा-
भारते । १ । ३ । १९ । “अस्य त्वेकमुपांशुव्रतं यदेनं
कश्चित् ब्राह्मणः कञ्चिदर्थं अभियाचेत्तं तस्मै
दद्यादयम्” ॥)

उपांशु, व्य, विजनम् । रहः । इत्यमरो मेदिनी च ॥

(यथा, रघुः ८ । १८ । “परिचेतुमुपांशु धारणां कुश-
पूतं प्रवयास्तु विष्टरम्” ॥)

उपाकरणं, क्ली, (उपाक्रियतेऽनेन । उप + आ + कृ

ल्युट् ।) संस्कारपूर्ब्बकश्रुतिग्रहणम् । इत्यमरः ॥
पशूनां संस्कारपूर्ब्बकहननम् । इति स्मृतिः ॥
(यथा, आश्वलायने १० । ४ । “उपाकरणकालेऽश्व-
मानीय” ॥)

उपाकर्म्म, [न्] (क्ली, उपाक्रियतेऽनेन । उप + आ +

कृ + मनिन् ।) उपाकरणम् । इत्यमरटीकायां
रायमुकुटः ॥ (यथा मनुः । ४ । ११९ ।
“उपाकर्म्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम्” ॥)

उपाकृतं, त्रि, (उप + आ + कृ + क्त ।) उपद्रुतम् ।

इति मेदिनी ॥

उपाकृतः, पुं, (उ + आ + कृ + क्त ।) यज्ञे अभि-

मन्त्र्य हतः पशुः । इत्यमरः ॥
(“अनुपाकृतमांसानि देवान्नानि हवींषि च” ।
इति मनुः ।) उपद्रवः । इति हेमचन्द्रः ॥

उपाख्यानं, क्ली, (उप + आ + ख्या + ल्यट् ।) पूर्ब्ब-

वृत्तान्तकथनम् । आख्यानम् । वर्णनम् । विशेष-
कथनम् । यथा, --
“सर्व्वाख्यानं श्रुतं ब्रह्मन् अतीवपरमाद्भुतम् ।
अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४४ अध्यायः ॥
“शृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम्” ।
इति च तत्रैव ३८ अध्यायः ॥
(“चतुर्विंशतिसाहस्रीं चक्रे भारतसांहिताम् ।
उपाख्यानर्विना तावत् भारतं प्रोच्यते बुधैः” ॥
इति महाभारते १ । १ । १०१ ॥)

उपागमः, पुं, (उप + आ + गम् + अप् ।) स्वीकारः ।

निकटगमनम् । इत्यजयः ॥

उपाग्रहणं, क्ली, (उप + आ + ग्रह् + ल्युट् ।) उपा-

करणम् । संस्कारपूर्ब्बकवेदग्रहणम् । इत्यमर-
टीकायां रायमुकुटः ॥

उपाङ्गः, पुं, (उपमितं अङ्गेन ।) तिलकम् । तत्प-

र्य्यायः । पत्रावली २ पत्रलेखा ३ पत्राङ्गुलिः ४
पुण्ड्रः ५ तमालपत्रकम् ६ चित्रकम् ७ । इति जटा-
धरः ॥ (पुराण-न्याय-मीमांसा-धर्म्मशास्त्राणि वेदस्य
उपाङ्गानि ॥)

उपात्तं, त्रि, (उप + आ + दा + क्त ।) प्राप्तम् । यथा, --

“क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते ।
अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्यते ॥
नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुतिम्” ॥
इति प्रायश्चित्ततत्त्वीयजावालभविष्यपुराणवचनम् ॥

उपात्तः, पुं, (उप समीपे आत्तः ।) निर्म्मदहस्ती ।

इति हलायुधः ॥

उपात्ययः, पुं, (उप + अति + इ + अच् । उपगतस्य

अत्ययः अतिक्रम्य गमनं वा ।) शास्त्रतो लोक-
व्यवहाराच्च व्यतिक्रमः । अतिक्रमः । क्रमोल्लङ्घ-
नम् । द्वयोः पर्य्यायः । पर्य्यायः २ अतिपातः ३ ।
इत्यमरः ॥ (यथा पाणिनिः ३ । ३ । ३८ । “परा-
वनुपात्यय इणः” ॥)

उपादानं, क्ली, (उप + आङ् + दा + ल्युट् ।) स्वस्व-

विषयेभ्य इन्द्रियाकर्षणम् । तत्पर्य्यायः । प्रत्याहारः
२ । इत्यमरः ॥ (ग्रहणम् । “स्यादात्मणोप्युपादा-
नात् एषोपादानलक्षणा” । इति साहित्यदर्पणे
१० परिच्छेदः ।) हेतुः । इति त्रिकाण्डशेषः ॥ न्याय-
मते ॥ समवायिकारणम् । प्रवृत्तिजनकज्ञानञ्च ॥

उपादेयः, त्रि, (उप + आ + दा + यत् ।) ग्राह्यः ।

उत्तमः । उत्कृष्टः । इति वेदान्तः ॥
(“भवे सौख्यं हित्वा शमसुखमुपादेयमनघम्” ।
इति शान्तिशतके । १ । २१ ।) विधेयकर्म्म । इति
तिथितत्त्वम् ॥

उपाधिः, पुं, (उप + आ + धा + कि ।) धर्म्मचिन्ता ।

कुटुम्बव्यापृतः । इत्यमरः ॥ छलम् । (यथा रामा-
यणे २ । १११ । २९ ।
“उपाधिर्न मया कार्य्यो वनवासे जुगुप्सितः” ।)
विशेषणम् । इति मेदिनी ॥ (“पदार्थविभाजको-
पाधिमतम्” । इति मुक्तावली । ८ ।) नामचिह्नम् ।
इति शब्दरत्नावली ॥ न्यायमते साध्यव्यापकत्वे
सति हेतोरव्यापकः । यथा धूमवान् वह्निरित्यत्र
आर्द्रकाष्ठं उपाधिः । अस्य प्रयोजनम् । व्यभि-
चारस्यानुमानम् । अलङ्कारमते जातिगणक्रिया-
यदृच्छास्वरूपः ॥

उपाध्यायः, पुं, (उपेत्य अधोयतेऽस्मात् । उप +

अधि + इ + घञ् ।) अध्यापकः । इत्यमरः ॥ वेदैक-
देशाध्यापकः । यथा, --
“एकदेशन्तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते” ॥
इति भविष्ये २ अध्यायः ॥ मानवे २ । १४५
श्लोके च ॥

उपाध्याया, स्त्री, (उपेत्याधीयतेऽस्याः । इङश्चेति-

सूत्रे अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा
पृष्ठ १/२६३
:ङीषिति घञ् । टाप् ।) अध्यापिका । विद्योप-
देशिनी । इत्यमरः ॥

उपाध्यायानी, स्त्री, (उपाध्यायस्य पत्नी ॥ “मातुलोपा-

ध्याययोरानुक् वा” इत्यानुक् ।) उपाध्यायपत्नी ।
इत्यमरः ॥ (यथा महाभारते १ । ३ । ९६ । “स एव-
मुक्त उपाध्यायेनोपाध्यायानीमपृच्छत्” ॥)

उपाध्यायी, स्त्री, (उपाध्यायस्य पत्नी । आनुगभाव-

पक्षे सिद्धम् ।) अध्यापकभार्य्या । इत्यमरः ॥

उपानत्, [ह्] स्त्री, (उपनह्येते पादावनया । उप +

नह + क्विप् । “नहिवृतिवृषीति” । ७३ । ११६ ।
पूर्ब्बपदस्य दीर्घः ।) चर्म्मादिनिर्म्मितपादकोषः ।
जुता इति भाषा । तत्पर्य्यायः । पादुका २ पादूः
३ । इत्यमरः ॥ पादव्यतिरेकेणात्मोपानद्वहन-
निषेधो यथा, --
“नाक्षैः क्रीडेत् कदाचित्तु स्वयं नोपानहौ वहेत् ।
शयनस्थो न भुञ्जीत न पाणिस्थं न चासने” ॥
इति मानवे ४ । ७४ । “ग्लहं विना कदाचिदपि
परिहासेनापि नाक्षादिभिः क्रीडेत् । स्वयमि-
त्यभिधानात् आत्मोपानहौ पादव्यतिरिक्तेन
हस्तादिना देशान्तरं न नयेत् । शय्यावस्थितश्च
न भुञ्जीत हस्ते च प्रभूतमन्नं कृत्वा क्रमेण न
खादेत् । आसने भोजनपात्रं निधाय न भुञ्जीत ।
इति तट्टीकायां कुल्लूकभट्टः ॥ (यथा नैषघे । १ । १२३ ।
“कृतावहोरस्य हयादुपानहौ” ।
“अनारोग्यमनायुष्यं चक्षुषोरुपघातकृत् ।
पादाभ्यामनुपानद्भ्यां सदा चंक्रमणं नृणाम्” ॥
इति सुश्रुते चिकित्सितस्थाने २४ अध्यायः ॥)

उपान्तः, त्रि, (उपगतोऽन्तात् ।) निकटम् । इति

हेमचन्द्रः ॥ (“दिशामुपान्तेषु ससर्ज दृष्टिम्” ।
इति कुमारे ३ । ६९ । “उपान्तवानीरगृहाणि
दृष्ट्वा” । इति रघुः १६ । २१ । “शय्योपान्तनिविष्ट-
सस्मितमुखी” । इति साहित्यदर्पणे ३ य परि-
च्छेदे ॥)

उपायः, पुं, (उपाय्यतेऽनेन । उप + अय + घञ् ।)

राजादीनां शत्रुवशीकरणहेतुचतुष्टयम् । यथा ।
साम १ दानम् २ भेदः ३ दण्डः । इत्यमरः ॥ उप-
गतिः । इति मेदिनी ॥ स्वार्थसम्पादकः । साध-
नम् । यथा, --
“उपायतः समारम्भाः सर्व्वे सिद्ध्यन्त्युपक्रमाः ।
उपायं पश्य येन त्वं धारयेथाः प्रजा नृप” ॥
इति वह्निपुराणे पृथूपाख्याननामाध्यायः ॥
(“उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः” ।
इति हितोपदेशे । तथा, माघः २ । ५४ ।
“चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया” ।
“सर्व्वोपायैस्तथा कुर्य्यात् नीतिज्ञः पृथिवीपतिः” ।
इति मनुः ७ । १७७ । चेष्टा । यन्त्नः ।
“यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः” ।
इति मनुः ८ । ४८ ।
“अध्ययनमध्यापनं तद्विद्यासम्भाषेत्युपायाः” ।
“उपायः पुनः कारणादीनां सौष्ठवमभिधानं च
सम्यक् कार्य्याकार्य्यफलानुबन्धवर्ज्ज्यानां कार्य्या-
णामभिनिर्वर्त्तकः इत्यतोऽभ्युपायः कृतेनोपायार्थो-
ऽस्ति न च विद्यते तदात्वे कृताच्चोत्तरकालं फलं
फलञ्चानुबन्ध इति जातं दशविधम्” ।
इति चरके विमानस्थाने ८ अध्यायः ॥)

उपायनं क्ली, (उपेयते उपाय्यते वा । उप + इण वा

अय + ल्युट् ।) उपहारः । उपढौकनद्रव्यम् । इत्य-
मरः ॥ (यथा, कुमारे । २ । ३७ ।
“तस्योपायनयोग्यानि रत्नानि सरितां पतिः” ।)
व्रतादिप्रतिष्ठा । इति स्मृतिः ॥ समीपगमनम् ॥
(यथा ऋग्वेदे २ । २८ । २ ।
“उपायन उषसां गोमतीनाम्” ॥)

उपार्ज्जनं, क्ली, (उप + अर्ज्ज + ल्युट् ।) अर्ज्जनम् ।

धनाद्याहरणम् । (यथा, रामायणे । ५ काण्डे ।
“शस्त्राणां सरथानाञ्च कृत्वा सम्यगुपार्जनम्” ।)
“सत्वहेतुभूतव्यापारः” । इति स्मृतिः ॥

उपालम्भः, पुं, (उप + आ + लम् + घञ् । “उपसर्गात्

खलघञोः” इति नुम् ।) दुर्व्वाक्यम् । इति हला-
युधः ॥ स च गुणाविष्करणेन स्तुतिपूर्ब्बकः । यथा,
महाकुलस्य भवतः किमिदमुचितमिति । निन्दा-
पूर्ब्बकश्च । यथा बन्धकीसुतस्य भवतस्तदिदमुचित-
मिति भागुरिः । इत्यमरटीकासारसुन्दरी ॥
(“उपालम्भो नाम हेतोर्दोषवचनं यथापूर्ब्बमहे-
तवो हेत्वाभासा व्याख्याताः” । इति चरके वि-
मानस्थाने ८ अध्यायः ॥)

उपावृत्तः, त्रि, (उप + आ + वृत् + क्त ।) श्रमशा-

न्त्यर्थं पुनःपुनर्भूमौ लुठिताश्वः । इत्यमरः । नि-
वृत्तः । तथाचैकादशीतत्त्वे ।
“उपावृत्तस्य पापेम्यो यस्तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्व्वभोगविवर्ज्जितः” ॥

उपासकः, पुं, स्त्री, (उपास्ते सेवते यः । उप +

आस् + ण्वुल् । द्विजातिसेवकत्वादस्य तथात्वम् ।)
शूद्रः । इति राजनिर्घण्टः ॥

उपासकः, त्रि, (उपासते इति । उप + आस् +

ण्वुल् ।) उपासनाकर्त्ता । (यथा, वेदान्ते ।
“चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः ।
उपासकानां सिद्ध्यर्थं ब्रह्मणो रूपकल्पना” ॥)
स च पञ्चविधः । वैष्णवः १ शाक्तः २ शैवः ३
सौरः ४ गाणपत्यः ५ । त्रिविधश्च यथा । दिव्यः १
वीरः २ पशुः ३ । इत्यागमः ॥ अपि च ।
सात्त्विकः १ राजसिकः २ तामसिकश्च ३ ॥

उपासङ्गः, पुं, (उपासज्यन्ते शरा अत्र । उप + आङ्

सञ्ज + घञ् ।) तूणीरः । इत्यमरः ॥ (यथा,
महाभारते ४ । उत्तरस्य अस्त्रदर्शने ४० । ६ ।
“इमे च कस्य नाराचा सहस्रं लोमवादिनः ।
समन्तात् कलधौताग्रा उपासङ्गे हिरण्मये” ॥)

उपासनं, क्ली, (उपास्यन्ते क्षिप्यन्ते शरा अत्र । उप

+ असु क्षेपे + अधिकरणे ल्युट् । शुश्रूषादिपक्षे
आस भावे + ल्युट् ।) शराभ्यासः । (यथा
रामायणे । २ । ६७ । २१ ।
“श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने” ।)
शुश्रूषा । इत्यमरः ॥ (“नित्यनैमित्तिकप्रायश्चित्तो-
पासनेन” । “उपासनानि शाण्डिल्यविद्यादीनि” ।
इति च वेदान्तसारे ।) विहिंसनम् । इति विश्वः ॥
आसनम् । इति मेदिनी ॥
(“मङ्गल्योपासनं शस्तं वृद्धिदं व्यसनापहम्” ।
इति चक्रपाणिकृतद्रव्यगुणे गुणानां क्रियाभि-
धानादिवर्गे ॥)

उपासना, स्त्री, (उपासनमिति । उप + आस् +

युच् + टाप् ।) सेवा । तत्पर्य्यायः । वरिवस्या २
शुश्रूषा ३ परिचर्य्या ४ उपासनम् ५ । इत्यमरः ॥
(“न विष्णूपासना नित्या वेदेनोक्ता तु कुत्रचित् ।
न विष्णुदीक्षा नित्यास्ति शिवस्यापि तथैव च ॥
गायत्र्युपासना नित्या सर्व्ववेदैः समीरिता ।
यया विना त्वधःपातो ब्राह्मणस्यास्ति सर्व्वथा ॥
तावता कृतकृत्यत्वं नान्यापेक्षा द्विजस्य हि ।
गायत्रीमात्रनिष्णातो द्विजो मोक्षमवाप्नुयात् ॥
कुर्य्यादन्यन्न वा कुर्य्यात् इति प्राह मनुः स्वयम् ।
विहाय तान्तु गायत्रीं रिष्णूपास्तिपरायणः ॥
शिवोपास्तिरतो विप्रो नरकं याति सर्व्वथा ।
तस्मादाद्ययुगे राजन् गायत्रीजपतत्पराः ॥
देवीपादाम्बुजरता आसन् सव्व द्विजोत्तमाः” ॥
इति श्रीदेवीभागवतम् ॥
सत्यपि ईश्वरे न हि तस्य सर्व्वैश्वर्य्यवत्त्वात्
सर्व्वतः पूर्णकामत्वाच्च उपासनयालमिति वाच्यम् ।
यतः सर्व्वेषामपि भूतजातानामविदितात्मतत्त्वा-
नामपि स्वस्वोत्पत्त्यादिकारणे अलक्षितत्वेनापि
प्रीतिरिति नैसर्गिकी वृत्तिरेव । परं यदि च
रजस्तमोभ्यामन्धीभूतानांसुतरामात्मानात्मविवेक-
विहीनानामज्ञमनुष्याणामविद्याकामकर्म्मकलुषी-
कृते चित्ते नित्यमुक्तशुद्धबुद्धस्वभावः प्रशान्तविमल-
ज्योतिःस्वरूपः स सर्व्वभूतान्तरात्मा न सम्यक्
प्रतिभाति । तथा च आत्मस्वरूपमजानन्नपि
सर्व्वोऽपि जनः स्वभावगत्यैव परमप्रीत्यात्मानं
भजते नोचेत् कथमात्मज्ञानविमूढोऽपि अनेनैव
मे श्रेयो भविता अस्मिन् कृतेऽहं सुखी भवेयम्
इत्याकारेण सर्व्वथा आत्मसुखोत्पादनाय प्रयतते?
तस्य सर्व्वान्तरात्मत्वात् सर्व्वैरपि जीवैः सह
नित्यसम्बन्धवत्त्वाच्च । यद्यपि तस्मिन् नित्यानन्द-
स्वरूपे भगवति परमेश्वरे एकान्तप्रीतिकरणमेव
तदुपासनं तथापि सर्व्वलोकमोहप्रदायिन्यां ज्ञा-
नावरणकारिण्यामविद्यायां सत्यां कुतः सा सर्व्व-
सुखप्रदा तापत्रयच्छेत्री परमा प्रीतिरनुभवनीया?
अतस्तस्या आत्मज्ञानविलोपिन्या मलिनसत्व-
गुणाया रजस्तमःप्रधानाया अविद्यायाः प्रणाश-
नार्थमेवावश्यमुपासना करणीयेति सर्व्वेषामपि
शास्त्राणां सारमतमिति बोध्यम् । परन्तु सबल-
दुर्ब्बलाद्यधिकारिभेदेन उपासनाया अपि प्रभेद-
उपदिष्टस्तत्वदर्शिभिः । यदि च मनुष्याणां निः-
श्रेयसार्थं बहवः पन्थानः स्वमतानुसारेण शा-
स्त्रकृद्भिरुपदिष्टास्तत्रापि आत्मज्ञानमेवाविद्या-
नाशनायालमिति वेदान्त-भगवद्गीता-पातञ्जल-
साङ्ख्यादिज्ञानशास्त्रोपदेष्टॄणां प्रशस्तमतमित्येव
दृश्यते । वस्तुतस्तु तज्ज्ञानमेव मुक्तेः साक्षा-
त्कारणमित्यत्र नैव केषाञ्चिदपि संशयावसरः ।
किन्तु नैव योगाभ्यासादृते प्रायेण तत्वज्ञान-
पृष्ठ १/२६४
:स्योत्पत्तिः । विशेषतः शोकमोहनिमग्नायार्ज्जुनाय
स्वयं भगवता वासुदेवेनाप्युपदिष्टम् । यथा, भग-
वद्गीतायाम् । ६ । ४५-४७ ।
“प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपिमतोऽधिकः ।
कर्म्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्ज्जुन ! ॥
योगिनामपि सर्व्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः” ॥
तथा च श्रीमद्भागवते । ३ । २५ । १३ ।
“स्वमातरं देवभूतिं प्रति कपिलोक्तिः । यथा,
“योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च” ॥
योगाअपि क्रियाभक्तिज्ञानादिभेदेन बहुधा
सन्ति तत्र प्रथमतः क्रियायोग एव तत्वज्ञानप्रेप्सु-
नाप्यविदुषा संसारासक्तमनसा समाचरणीयः ॥
ननु “ज्ञानादृते मुक्तिर्नास्ति” । “तमेव विदित्वाति-
मृत्युमेति नान्यः पन्था विद्यतेऽयनाय” । “विद्य-
यामृतमश्नुते” । इत्यादौ सति कथं क्रियायोग-
एवारम्भणीय इत्युपदिश्यते ? इति चेत् सत्यम् ।
किन्तु लोके हि श्रद्धाभक्तितपस्यादिषु सात्त्विक-
राजस तामसादिप्रकृतिभेदात् तेषामविद्याविमो-
हितानां स्वस्वगुणानुसारिणीं प्रवृत्तिं विचार्य्य
शोच्यांस्तान् प्रत्यनुकम्प्याविद्योत्थाभिमानमोहरा-
गद्वेषादिपरिहरणेन शनैः शनैः सत्त्वशोधनार्थं
महात्मभिः शास्त्रकृद्भिरादौ क्रियायोगएव वि-
हितः । कीदृश्यस्तेषां गुणानुसारिण्यः प्रवृत्तय-
स्तादृशीभिः प्रवृत्तिभिः समन्वितानां कार्य्यं वा
किमिति चेत् अवधार्य्यताम् । यथा, भगवद्गीता-
याम् । १७ । ३ -- १३ ॥
“सत्त्वानुरूपा सर्व्वस्य श्रद्धा भवति भारत ! ।
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः ।
माञ्चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥
आहारस्त्वपि सर्व्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्द्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥
कट्वम्लवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥
यातयामं गतरसं पूतिपर्य्युसितञ्च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदिष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥
अभिमन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥
विधिहीनममृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्राविरहितं यज्ञं तामसं परिचक्षते” ॥
“कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः” ।
इत्यत्र “अतिशब्दः कट्वादिषु सप्तस्वपि सम्बध्यते ।
तेन अतिकटुर्निम्बादिः अत्यम्लोऽतिलवणोऽत्यु-
ष्णश्च प्रसिद्धः अतितीक्ष्णो मरिचादिः अतिरूक्षः
कङ्गुकोद्रवादिः अतिविदाही सर्षपादिः” ॥ इति
स्वामी । अमेध्यम् अपवित्रम् ॥ यष्टव्यं यजनीय-
मर्च्चनीयमिति यावत् ॥ फलमभिसन्घाय उद्दिश्य
इज्यते यज्ञः क्रियते इत्यर्थः ॥ ब्राह्मणादिभ्यो न
सृष्टं दत्तमन्नं यद्वा न निष्पादितमन्नं भक्ष्यभोज्या-
दिकं यस्मिन् यज्ञे तम् । विधिहीनं शास्त्रोक्तवि-
धिशून्यम् । अदक्षिणं दक्षिणाविरहितमिति ॥
नन्वेवं चेत् तर्हि कीदृशोऽयमविदुषानुष्ठेयः
क्रियायोगस्तस्य सत्त्वशोधनार्थं इति जिज्ञासायां
ब्रूमः ॥ यथा, पातञ्जले ।
“तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” ॥
तपः शास्त्रान्तरोपदिष्टं चान्द्रायणादि, स्वा-
ध्यायः प्रणवपूर्ब्बाणां मन्त्राणां जपः । ईश्वरप्रणि-
धानं सर्व्वक्रियाणां तस्मिन् परमगुरौ फलनिरपे-
क्षतया समर्पणम् । एतानि क्रियायोग उच्यते ।
इति राजमार्त्तण्डवृत्तिः ।
यद्यप्यत्र चान्द्रयणादीति तपसोऽर्थो व्याख्यातः
किन्तु शास्त्रान्तरे मतान्तरमपि दृश्यते तच्च
कायिकादिभेदेन त्रिविधम् । यथा, भगवद्गीता-
याम् । १७ । १४ -- १६ ।
“देवद्विजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् ।
ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत् ।
स्वाध्यायाभ्यासनञ्चैव वाङ्मयं तप उच्यते ॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते” ॥
एतेषां तपसामपि त्रिगुणानुसारिप्रकृत्यादिभेदेन
तपःकर्म्माण्यपि त्रिविधानि परिकीर्त्तितानि ।
तत्रैव । १७ । १७ -- १९ ॥
“श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्” ॥
अपि च अशेषतः कर्म्मणां त्यागः कर्त्तव्यः नित्या-
दिकं कर्त्तव्यं वेति जातसंशयमर्ज्जुनं प्रति भगवत-
उपदेशः । यथा, तत्रैव । १८ । ३ -- १० ॥
“त्याज्यं दोषवदित्येके कर्म्म प्राहुर्मनीषिणः ।
यज्ञदानतपःकर्म्म न त्याज्यमिति चाप्ररे ॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ! ।
त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्त्तितः ॥
यज्ञदानतपःकर्म्म न त्याज्यं कार्य्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥
एतान्यपि तु कर्म्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्त्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम् ॥
नियतस्य तु सन्न्यासः कर्म्मणो नोपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः ॥
दुःखमित्येव यत्कर्म्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥
कार्य्यमित्येव यत्कर्म्म नियतं क्रियतेऽर्ज्जुन ! ।
सङ्गं त्यक्त्वा फलञ्चैव स त्यागः सात्त्विको मतः ॥
न द्वेष्ट्यकुशलं कर्म्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः” ॥
कार्य्यमिति । कार्य्यं कर्त्तव्यं नियतं नित्यमित्यर्थः ॥
फलतः न हि देहधारिणामशेषतः कर्म्मणस्त्यागः
सम्भवेत् यथा, तत्रैव । १८ । ११ ॥
“न हि देहभृता शक्यं त्यक्तुं कर्म्माण्यशेषतः ।
यस्तु कर्म्मफलत्यागी स त्यागीत्यभिधीयते” ॥
परं अनिष्टादिफलमत्यागिनामेव न हि सन्न्या-
सिनां कदाचित् फलसम्बन्धः । तत्रैव । १८ । १२ ॥
“अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्म्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित्” ॥
अतः काम्यानां कर्म्मणां परित्यागस्तथा सर्व्वतः
फलाभिसन्धानत्यागपूर्ब्बस्य ईश्वरार्पणपरस्य वा
नित्यादेः कर्म्मणः करणमेव सत्त्वशोधनार्थं प्रश-
स्यते । यतः सर्व्वत्र सात्त्विकज्ञानस्यैव संसार-
बन्धनच्छेत्तृत्वं राजसतामसयोऽस्तु भेदज्ञानत्वात्
संकीर्णज्ञानत्वाच्च बन्धमोहकारित्वमेव दृश्यते
यथा, तत्रैव । १८ । २०-२२ ॥
“सर्व्वभूतेषु येनैकं भावमव्ययमीक्ष्यते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
पृथक्त्वेन तु यजज्ञानं नानाभावान् पृथग्विधान् ।
वेत्ति सर्व्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
यत् तु कृत्स्नवदेकस्मिन् कार्य्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पञ्च तत्तामसमुदाहृतम्” ॥
सुतरां तेषां गुणभेदेन कर्म्माण्यपि पृथक्त्वेनो-
क्तानि । यथा, तत्रैव । १८ । २३-२५ ॥
“नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म्म यत्तत्सात्त्विकमुच्यते ॥
यत्तु कामेप्सुना कर्म्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म्म यत्तत् तामसमुच्यते” ॥
कर्त्तारोऽपि त्रिविधाः । तत्रैव । १८ । २६-२८ ॥
“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्धोर्निर्व्विकारः कर्त्ता सात्त्विक उच्यते ॥
रागी कर्म्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्त्ता राजसः परिकीर्त्तितः ॥
अयुक्तः प्राकृतस्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्त्ता तामस उच्यते” ॥
एवं सति सर्व्वत्र हि विशुद्धसत्त्वगुणस्यैव ब्रह्म-
सिद्धये कारणत्वं बोध्यते । विशुद्धसत्त्वाश्रयी
साधको हि शनैः शनैः भक्त्यात्मकस्य क्रियात्म-
कादेर्वा योगादेर्निरन्तराभ्यासबलात् आदिपदे-
नात्र केवलं विद्याबलाद् वेति सूच्यते । निष्कामः
सन् सत्त्वोद्रेकेणान्तःकरणस्थानि सर्व्वाणि पापानि
सन्दह्य तत्त्वज्ञानं प्राप्नुयात् । ततस्तज्ज्ञानेनात्म-
साक्षात्कारं लब्ध्वा जीवन्मुक्तो भवेत् । ततः कैवल्यं
प्राप्य नित्यानन्दमयो भवेत् ।
पृष्ठ १/२६५
::अतएव सर्व्वमङ्गलोपायीभूतस्य सत्त्वगुणस्यो-
द्रेकाय दुर्ब्बलाधिकारिभिः प्रथमं निष्कामेणान्तः-
करणेन क्रियायोगादिरूपेश्वरोपासना कार्य्येति
लक्ष्यते न हि सत्त्वभावेन परमेश्वरोपासनामृते
रजस्तमोभावाः केनापि विलापयितुं शक्येरन् ।
तदभावे नितरां विशुद्धसत्त्वगुणोद्रेकाशा सुदूर-
पराहतैव । प्रबलरजस्तमोभ्यामस्याभिभूतत्वात् ।
एवं सति सर्व्वतः सात्त्विकाहारः सात्त्विकानुष्ठानं
सात्त्विकाचरणमित्यादिसत्त्वभावाश्रयेण क्रमशः
रजस्तमोभावं विलापयन् कैवल्याकाङ्क्षी परामात्म-
साक्षात्काराभिलाषी वा साधकः कालेन परम-
सिद्धिं ध्रुवमाप्नुयादेव । परन्तु दुर्ब्बलाधिकारिणा
प्रथमतश्चित्तस्य स्थिरत्वापादनाय काञ्चित् स्वा-
भीष्टां भागवतीं मूर्त्तिमालम्ब्यैवोपासना कर्त्तव्या
अन्यथा तेषां सर्व्वरूपाद्युपाधिपरिवर्जिते निर्व्वि-
कारे निरञ्जने गुणातीतेऽवाङ्मनसगोचरे पर-
ब्रह्मणि चित्तधारणा विडम्बनैव । परन्त्वित्यत्र न
हि ईश्वरोपासनामुपलक्षीकृत्य कथं पौत्तलिका-
डम्बरं प्रतिपादयितुं प्रयतसे इति वाच्यम्
महात्मभिर्ब्रह्मविद्भिः पूर्ब्बाचार्य्यैर्हि कलुषित-
चित्तानां दुर्ब्बलाधिकारिणाम् चित्तशुद्ध्यै प्रथ-
मतश्चित्तस्थैर्य्यसम्पादनाय धारणाध्यानावलम्बन-
रूपायां प्रतिमायामुपासनायाः कर्त्तव्यतयोपदिष्ट-
त्वात् । अयमर्थः यावत् न सत्त्वोद्रेकेण चित्तशुद्धि-
र्भवेत् यावन्न स्वहृदये निर्गुणपरमात्मधारणया
समाधिशक्तिर्भवेत् यावन्न तत्कथादिषु दृढाभक्तिः
रतिश्च भवेत् तावदर्च्चादौ आदिपदेनात्र सूर्य्ये
वह्नौ जले अभीष्टमूर्त्तौ वा उपासना कर्त्तव्ये-
त्यर्थः । परमेवं मा मन्यध्वं यत् केवलं मृच्छिलादि-
निर्म्मितप्रतिमूर्त्तिमाश्रित्यैव यावज्जीवं स्थूलो-
पासना कर्त्तव्येति ॥ “आसत्वशोधनात् क्रमेण
स्वहृदये दृढतरधारणाध्यानप्रभावेन आचित्त-
समाधानाच्च” । इति कालनिर्द्देशात् । फलतः
आदौ नित्याद्यवश्यकर्म्म करणीयमेव । पुरा कर्म्म-
णैव हि बहवः सिद्धिं गताः तथा हि भगवद्-
गीतायाम् । ३ । १९-२० ॥
“तस्मादसक्तः सततं कार्य्यं कर्म्म समाचर ।
असक्तौ ह्याचरन् कर्म्म परमाप्नोति पूरुषः ॥
कर्म्मणैव हि संसिद्धिमास्थिता जनकादयः” ॥
यदा तु रजस्तमोभावानां निवृत्तौ सत्यां बहु-
जन्मार्ज्जितसौभाग्यवशात् तस्मिन्नेव ऐकान्तिकी
रतिरुत्पद्यते तादृशस्यात्मरतेरात्मतृप्तस्य यो
गिनः न तदा किञ्चिदपि कर्म्मणा प्रयोजनमस्ति
यथा तत्रैव । ३ । १७-१८ ॥
“यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्य्यं न विद्यते ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्व्वभूतेषु कश्चिदर्थव्यपाश्रयः” ॥
एवं प्राप्तविद्योऽपि साधारणवत् कर्म्माचरेत्
चेत् तत्तु केवलं लोकशिक्षार्थमेव न तु तस्य स्वा-
भीष्टसिद्धये अविद्याकामकर्म्माद्यभावात् सुखदुः-
खादिद्वन्द्वनिर्म्मुक्तत्वाच्च ।
यथा तत्रैव ३ । २१, २५ श्लोके ।
“यद् यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस्तदनुवर्त्तते ॥
सक्ताः कर्म्माण्यविद्वांसो यथा कुर्व्वन्ति भारत ! ।
कुर्य्याद् विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसंग्रहम्” ॥
किन्तु यावदस्मिन् त्रिधातुके शोणितशुक्रप-
रिणामपिण्डे शरीरे कर्त्तृत्वाद्यभिमानवान् तावत्
“ब्रह्मज्ञोऽस्मि अलं मे कर्म्मणा” इत्येवं मौढ्यात्
संसारासक्तोऽतत्त्वज्ञपुरुषः कर्त्तव्यं कर्म्म परि-
त्यजति चेत् उभयतो भ्रश्यत् एव । तथाहि योग-
वाशिष्ठे मोक्षप्रकरणे ७४ । ४१ ।
“संसारविषयासक्तो ब्रह्मज्ञोऽस्मीति वादिनः ।
कर्म्मब्रह्मोभयभ्रष्टस्तं त्यजेदन्त्यजं यथा” ॥
अतएव कर्म्मत्यागे प्रायशो दोषएव न तु
क्वचित् विधिर्लक्ष्यते यतो विद्योदये तत्त्वज्ञानी
विधिनिषेधसापेक्षो भवितुं नार्हति सर्व्ववासना-
कामकर्म्ममय्यविद्याभावात् न हि विधिनिषेधाभ्यां
सह विदुषः कोऽपि सम्बन्धः । किन्तु अदूरद-
र्शिनो भन्दस्य तत्त्वज्ञानोपदेशेन कर्म्मानुष्ठानाद्
बुद्धिभेदो न कर्त्तव्य इत्यादिशतिभगवान् वासुदेवः ।
यथा भगवद्गीतायां ३ । २६, २९ ॥
“न बुद्धिभेदं जनयेदज्ञानां कर्म्मसङ्गिनाम् ।
योजयेत् सर्व्वकर्म्माणि विद्वान् युक्तः समाचरन्” ॥
“प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्म्मसु ।
तानकृतस्नविदो मन्दान् कृत्स्नविन्न विचालयेत्” ॥
भवतु अलं बहुना वाग्जालेन । योऽस्य विश्वस्य
आकाशवत् सर्व्वदा सर्व्वत्र ओतप्रोतरूपेण अन्त-
र्वहिर्विराजते तस्य सर्व्वव्यापिनः सर्व्वान्तर्यामिनः
परमपुरुषस्य स्वरूपभावे यावन्न साधकस्य स्वहृ-
दये धारणाध्यानादिभिः स्थैर्य्यमापद्यते तावद-
र्च्चादावेवोपासना कार्य्या दुर्ब्बलाधिकारिणेत्येव
निष्कर्षः ॥ तथा हि कुलार्णवतन्त्रे ६ उल्लासे ।
“चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः ।
साधकानां हितार्थाय ब्रह्मणो रूपकल्पना ॥
अरूपं रूपिणं कृत्वा कर्म्मकाण्डरता नराः ।
ब्रह्मज्ञानामृतानन्दपराः सुकृतिनो नराः” ॥
किञ्च तत्रैव ९ उल्लासे ।
“निर्व्विशेषं परं ब्रह्म साक्षात् कर्त्तुमनीश्वराः ।
ये मन्दास्तेऽनुकल्प्यन्ते सविशेषनिरूपणैः” ॥
अधिकारिभेदेनालम्बनीयोपास्यदेवस्यापि भेदः
प्रदर्शितः । यथा । तत्रैव ९ म उल्लासे ।
“अग्नौ तिष्ठति विप्राणां हृदि देवो मनीषिणाम् ।
प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनाम्” ॥
अपि च कति दिनानि यावत् कर्म्माणि कर्त्त
व्यानि अर्च्चाद्यधिष्ठानेऽर्च्चनं वा कर्त्तव्यमिति विवि-
त्सायां मूढान् प्रत्यनुकम्प्य तदप्युपदिदिशुः पूर्ब्बा-
चार्य्याः । यथा भागवते ११ । २० । ९ ॥
“तावत्कर्म्माणि कुर्व्वीत न निर्व्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते” ॥
तथा, तत्रैव ३ । २९ । २५ ॥
“अर्च्चादावर्च्चयेत्तावदीश्वरं मां स्वकर्म्मकृत् ।
यावन्न वेद स्वहृदि सर्व्वभूतेष्ववस्थितम्” ॥
ननु निःश्रेयसार्थिनां साधकानां यदि प्रथमतः
क्रियायोगएव कर्त्तव्यः तर्हि अलं प्रमाणशत-
विस्तारेण तत्र परम्पराकर्त्तव्यमेव विधीयतामिति
चेत् अवधेहि यत्पथावलम्बनेन सत्त्वे शोधिते
सति दुर्ब्बलाधिकार्य्यपि सत्वरं सबलाधिकारित्वं
याति । यथा, भागवते ३ । २८ । १-५ ।
श्रीभगवानुवाच । (कपिलदेवः ।)
“योगस्य लक्षणं वक्ष्ये सवीजस्य नृपात्मजे ।
मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥
स्वधर्म्माचरणं शक्त्या विधर्म्माच्च निवर्त्तनम् ।
दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्च्चनम् ॥
ग्राम्यधर्म्मनिवृत्तिश्च मीक्षधर्म्मरतिस्तथा ।
मितमेध्यादनं शश्वद् विविक्तक्षेमसेवनम् ॥
अहिंसा सत्यमस्तेयं यावदथपरिग्रहः ।
ब्रह्मचर्य्यं तपः शौचं स्वाध्यायः पुरुषार्च्चनम् ॥
मौनं सदासनजयः स्थैर्य्यं प्राणजयः शनैः ।
प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि” ॥
सवीजस्य सकारणस्य योगस्य इत्यर्थः ॥ विधर्म्मा-
ल्लोकानिष्टकारित्वादिविरुद्धधर्म्भात् ॥ दैवाल्लब्धेन
प्रारब्धलब्धेन ॥ आत्मविदिति । आत्मतत्त्वज्ञानिनां
चरणसेवनम् ॥ ग्राम्यधर्म्मेति मोक्षपथं विहाय
धर्म्मार्थकामादयः ग्राम्यधर्म्मत्वेनोच्यन्ते अतएव
ग्राम्यधर्म्मस्त्रेवर्गिकधर्म्मस्तस्मान्निवृत्तिः ॥ मित-
मिति मितं स्वल्पं मेध्यादनं पवित्रद्रव्यभोजनम्
विविक्ते निर्जने क्षेमस्य मङ्गलस्य सेवनम् ॥ अस्तेय-
मचौर्य्यम् ॥ यावदर्थपरिग्रह इति । यावतार्थेन
जीवेत तावन्मात्रस्य परिग्रहः ॥ ब्रह्मचर्य्यं योषित्-
सङ्गराहित्यम् ॥ स्वाध्याय इति स्वाध्यायः जपा-
ध्ययनादिः ॥ पुरुषार्च्चनं परमपुरुषस्य उपासनम् ॥
मौनमिति मौनं मुनेर्व्रताचरणं मननशीलत्वंवाचां
संयमत्वं वा ॥ आसनानां स्वस्तिकादीनां विजयः ॥
स्थैर्य्यं दीर्घकालमवस्थातुं शक्तिः ॥ प्राणजयः प्राणा-
यामैः प्राणनिरोधकरणसामर्थ्यम् ॥ प्रत्याहारेति ॥
मनसा सह इन्द्रियाणां शब्दस्पर्शादिविषयात्
हृदि हृदये प्रत्याहारः प्रत्याकर्षणम् ॥
तत्रैव । ३ । २८ । ६ -- ९ ॥
“स्वाधिष्ठानामेकदेशे मनसा प्राणधारणम् ।
वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः ॥
एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ।
बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः ॥
शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।
तस्मिन् स्वस्तिसमासीनः ऋजुकायः समभ्यसेत् ॥
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकः ।
प्रतिकूलेन वा चित्तं यथास्थिरमचञ्चलम्” ॥
स्वाधिष्ठानामिति । मूलाधारादिचक्राणामे-
कस्मिन् स्थाने मनसा सह प्राणानां धारणम् ॥
वैकुण्ठेति तैकुण्ठस्याकुण्ठितस्य सुखदुःखादि-
भिरपरामृष्टस्य परमपुरुषस्य लीलाभिध्यानं
सृष्ट्यादिव्यापारसमालोचनम् । आत्मनो मनसः
समाधानमैकाग्र्यसाधनम् ॥ जितप्राणो निरुद्ध-
प्राणवृत्तिः । अतन्द्रितः निरलसः ॥ विजितासनः
वशीकृतकरचरणादिसंस्थानविशेषः ॥ प्राणस्येति ।
पृष्ठ १/२६६
:प्रतिकूलेन विपर्य्ययक्रमेण वा चित्तं यथा येन
प्रकारेण स्थिरमचञ्चलं चाञ्चल्यरहितं स्यात् तथा
प्राणमार्गं शोधयेदित्यर्थः ॥ तेन किं स्यादित्यत
आह । तत्रैव ३ । २ । १० ॥
“मनोऽचिरात् स्याद्विरजं जितश्वासस्य योगिनः ।
वाष्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम्” ॥
निरुद्धप्राणवृत्तेर्योगिनः मनोऽचिरात् वह्निता-
पितलोहवत् अविद्याकामकर्म्मजनितमलं विषय-
सङ्गजनितपापनिचयमित्यर्थः विहाय विरजं नि-
र्म्मलं स्यात् । इदानीं पूर्ब्बोपदिष्टप्राणायामादिना
केन कार्य्येण किं फलं स्यात् तत्सर्व्वं क्रमेण सुव्यक्तं
बोधयति । तत्रैव ३ । २८ । ११-१२ ॥
“प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्विषान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥
यदा मनः स्वं विरजं योगेन सुसमाहितम् ।
काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः” ॥
प्राणायामद्वारा वातपित्तश्लेष्मादिदोषान् धार-
णया पापानि प्रत्याहारेण इन्द्रियाकर्षणेन विषय-
संसर्गान् ध्यानेन अनीश्वरान् शोकमोहाभि-
मानदम्भक्रोधमात्सर्य्यादिदोषान् दहेदित्यन्वयः ।
अनेन विधिना यदा मनः स्थिरतां याति तदा यु-
ञ्जानो योगी प्रथमे धारणालम्बनस्वरूपां भगवतः
काञ्चित् स्वाभीष्ठां मूर्त्तिं ध्यायेदित्युपदिदेश भग-
वान् कपिलदेवः ॥ इदानीं ध्येयमूर्त्तिं विवृणोति ।
यथा, तत्रैव ३ । २८ । १३ -- १९ ॥
“प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।
नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥
लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् ।
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥
मत्तद्विरेफकलया परीतं वनमालया ।
परार्ध्यहारबलयकिरीटाङ्गदनूपुरम् ॥
काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम् ।
दर्शनीयतमं शान्तम् मनोनयनवर्द्धनम् ॥
अपीव्यदर्शनं शश्वत् सर्व्वलोकनमस्कृतम् ।
सन्तं वयसि केशोरे भृत्यानुग्रहकातरम् ॥
कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।
ध्यायेद्देवं समग्राङ्गं यावन्न च्यवते मनः ॥
स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।
प्रेक्षणीये हि तं ध्यायेत् शुद्धभावेन चेतसा” ॥
ध्येयमूर्त्तेः सकाशात् मनो यावत् विषयान्तरं
न याति तावद्ध्यायेदितिभावः । गुहाशयं बुद्धितत्त्वे
विराजमानं एवं निरन्तरध्यानेन साधकस्य चित्तं
यदा भगवद्रूपे लब्धपदं भवेत् तदा चित्तस्य शनैः
शनैः सौक्ष्मकरणाय मूर्त्तिं हापयित्वा भगवतश्च-
रणारविन्दादीन्येकैकाङ्गानि ततः साभरणान्य-
स्त्राणि ततो विलासहासादीनि च क्रमेण यथा-
विधि ध्यातुमुपदिष्टवान् कपिलः ॥ ततः किमि-
त्याह । एवं चिरं ध्यात्वा योगी बहुजन्मार्जित-
सौभाग्यवशात् यदि हरौ प्राप्तभावो भक्त्या द्रव-
द्धृदय आनन्दार्णवे भासमानो भवेत् तर्हि तस्मिन्
स्थूले भगवद्रूपे वडिशवत् संलग्नं चित्तं निर्गुणस्य
परब्रह्मणः स्वरूपलाभार्थं तस्मादङ्गादिस्थूलरूपाद्
वियोज्य निरालम्बनं निर्व्विषयं कृत्वा उपरत-
गुणप्रवाहः सन् धातृध्येयादिज्ञानाभावात् सर्व्वो-
पाधिपरिवर्ज्जितमेकमेवाद्वितीयमात्मानं पश्यत्येव ॥
यथा तत्रैव ३ । २८ । ३४-३५ ॥
“एवं हरौ भगवति प्रतिलब्धभावो
भक्त्या द्रवद्धृदय उत्पुलकः प्रमोदात् ।
औत्कण्ठ्यवाष्पकलया मुहुरर्द्यमान-
स्तच्चापि चित्तवडिशं शनकैर्वियुङ्क्ते ॥
मुक्ताश्रयं यदि हि निर्व्विषयं विरक्तं
निर्व्वाणमृच्छति मनः सहसा यथार्च्चिः ।
आत्मानमत्र पुरुषोऽव्यवधानमेक-
मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः” ॥
ननु सुचिरं साधनेन लब्धेऽप्यात्मनि किमायातं ।
किन्तु श्रम एवेति चेत् न यतोऽनेकजन्मसाधन-
बलात् यदाऽखण्डमात्मानं ईक्षते स योगी सुख-
दुःखादिकं सर्व्वमहङ्कारनिष्ठं पश्यति तदादेहा-
द्युपाधिनिर्म्मुक्तो जीवन्मुक्तो भवेत् ।
यथा तत्रैव ३ । २८ । ३६ -- ३७ ॥
“सोऽप्येतया चरमया मनसो निवृत्त्या
तस्मिन् महिम्न्यवसितः सुखदुःखवाह्ये ।
हेतुत्वमसति कर्त्तरि दुःखयोर्यत्
स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥
देहञ्च तं न चरमः स्थितमुत्थितं वा
सिद्धो विपश्यति यतोऽध्यगमत् स्वरूपम् ।
दैवादुपेतमथ दैववशादपेतं
वासो यथा परिकृतं मदिरामदान्धः” ॥
जीवन्मुक्तस्य देहाद्युपाधिवर्गस्य निवृत्तौ तत्र मनः-
संयोगाभावात् कथं देहादेर्वर्त्तनमिति शङ्कयन्
स्वारम्भकं प्रारब्धवीजमेवेत्यर्थः देहादेः स्थिति-
कारणमित्याह । तत्रैव ३ । २८ । ३८ ॥
“देहोऽपि दैववशगः खलु कर्म्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
तं सप्रपञ्चमधिरूढसमाधियोगः
स्वप्नं पुनर्न भजते प्रतिबुद्धवस्त” ॥
ननु यदि परब्रह्मलामायात्मसाक्षात्कारात्तमेव
चरमं देहं मन्यसे तर्हि विद्यैव सुगमोपायः श्रूयते
तस्मिन् सति कथं वृथा कर्म्माडम्बरे प्रवर्त्तयसे
इति चेत् न कर्म्मविद्ययोरधिकारिभेदात् आदा-
वीश्वरार्पितकर्म्मणा निष्कामकर्म्मणा वा चित्त-
शुद्धिं विना कुतोविद्यायामधिकारः । इत्यत्राधि-
कारिभेदमुद्दिश्य ज्ञानकर्म्मणोः पृथक्त्वं प्रदर्श्यापि
तत्त्वज्ञानमुपदिशन्तं भगवन्तं वासुदेवं पृष्टवान्
जातसंशयोऽर्जुनः । यथा गीतायां ३ । १-२ ।
“ज्यायसी चेत् कर्म्मणस्ते मता बुद्धिर्जनार्द्दन ।
तत्किं कर्म्मणि घोरे मां नियोजयसि केशव ॥
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्” ॥
हे जनार्द्दन ! चेद्यदि ते कर्म्मणः सकाशात्
बुद्धिर्बोधः ज्ञानमिति यावत् ज्यायसी गरीयसी
मता तर्हि कथं मां घोरे कर्म्मणि नियोजयसी-
त्यन्वयः । व्यामिश्रेण ज्ञानकर्म्मणोर्मिश्रीभूतेन
वाक्येन कथं मे बुद्धिं मोहयसीव । इत्येवं विवि-
त्सोरर्ज्जुनस्य संशयं निराकुर्व्वन्नाह भगवान् वासु-
देवः । तत्रैव ३ । ३-४ ॥
“लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ! ।
ज्ञानयोगेन साङ्ख्यानां कर्म्मयोगेन योगिनाम् ॥
न कर्म्मणामनारम्भान्नैष्कर्म्म्यं पुरुषोऽश्नुते ।
नच सन्न्यसनादेव सिद्धिं समधिगच्छति” ॥
“अतः सम्यक्चित्तशुद्ध्यर्थं ज्ञानोत्पत्तिपर्य्यन्तं
वर्णाश्रमोचितानि कर्म्माणि कर्त्तव्यानि अन्यथा
चित्तशुद्ध्यभावेन ज्ञानानुत्पत्तेरित्याह न कर्म्मणा-
मिति । कर्म्मणां अनारम्भात् अननुष्ठानात् नै-
ष्कर्म्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु “चैतमेव
प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति” इति श्रुत्या
संन्यासस्य मोक्षाङ्गत्वं तर्हि संन्यासादेव मोक्षो
भविष्यति किं कर्म्मभिरित्याशङ्क्योक्तं न चेति । नच
चित्तशुद्धिं विना कृतात्संन्यसनादेव ज्ञानशून्यात्
सिद्धिं मोक्षं समधिगच्छति प्राप्नोति इति तट्टी-
काकृत् पूज्यपादश्रीधरस्वामी ।
ननु कामं ईश्वरार्पितेन निष्कामकर्म्मणा चित्त-
शुद्धिः प्रजायते ततो ज्ञानं लब्ब्धा मोक्षमाप्नुयात्
किन्तु भक्तिबलेनापि सत्त्वं संशोध्याचिरादेवा-
विद्याबन्धनात् मुक्तो भवेदित्यपि बहुषु शास्त्रेषु
दृश्यते । सर्व्वेभ्यो हि भक्तिमाहात्म्यस्याधिक्यं प्रद-
र्शितं महात्मभिरतो बहुप्रयाससाध्यं कर्म्माडम्बरं
विहाय भक्तिपथाश्रयएव गरीयान्निश्रेयसार्थ-
मिति चेन्न तदप्यधिकारिभेदेनोक्तत्वात् अर्च्चा-
दावर्च्चनादिक्रियायोगसाध्यत्वाच्च । किञ्च पुरुषाणां
निश्रेयसाय शास्त्रविहितमार्गत्रयं मुक्त्वा नह्यपरः
पन्थाः क्वापि दृश्यते श्रूयते वा । तथाहि श्रीमद्भा-
गवते ११ । २० । ६-८ । तत्त्वजिज्ञासुमुद्धवं प्रति-
यथोक्तवान् भगवान् वासुदेवः ।
“योगास्त्रयो मया प्रोक्ता नृणां श्रेयोविधित्सया ।
ज्ञानंकर्म्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥
निर्व्विण्णानां ज्ञानयोगो न्यासिनामिह कर्म्मसु ।
तेष्वनिर्व्विण्णचित्तानां कर्म्मयोगस्तु कामिनाम् ॥
यदृच्छया मत्कथादौ जातश्रद्धस्तु यः पुमान् ।
न निर्व्विण्णो नातिसक्तो भक्तियोगोऽस्य सिद्धिदः” ॥
यदृच्छया दैवगत्या । न निर्व्विण्णो न प्राप्तनिर्व्वेदः ।
अतः सर्व्वत्रैव भिन्नभिन्नाधिकारमपेक्ष्य ज्ञान-
कर्म्मभक्तियोगादयो विहिताः । यथा तत्रैव ११ ।
२० अध्याये २६ ॥
“स्वे स्वेऽधिकारे या निष्ठा सगुणः परिकीर्त्तितः ।
कर्म्मणां जात्वशुद्धानां अनेन नियमः कृतः” ॥
यथा तत्त्वज्ञानार्थी निकृष्टसात्त्विककर्त्ता प्रथ-
मतः केवलं अविद्याकर्म्मनिर्हारादीनुद्दिश्य निष्का-
मकर्म्मानुष्ठानमाचरति न जातूद्रिक्तविशुद्धसत्त्वो-
ऽधिरूढयोगो योगीव सहसा भेदबुद्ध्यादिकं परि-
हातुमर्हति तथा प्रथमं सगुणभक्तियोगाश्रयिणो-
ऽपि न हि युगपत् भगवत्स्वरूपतत्त्वज्ञा निर्गुण-
भक्ता इव भगवत्प्रतिमाद्यर्च्चनादिक्रियायोगं परि-
त्यक्तुं समर्था भवेयुः किन्तु तादृशेन सगुणभक्ति-
योगावलम्बिना दुर्ब्बलाधिकारिणा भगवत्प्रतिमा-
पूजादिकर्म्मयोगएव कर्त्तव्यः इत्येतद्विहितं
पृष्ठ १/२६७
:शास्त्रकृद्भिः ।
अथ यथाशास्त्रं निकृष्टसात्त्विककर्त्तुर्भेदबुद्धिं
प्रदर्श्य दुर्ब्बलाधिकारिणो भक्तियोगावलम्बिनः
कर्त्तव्यमपिप्रदर्शयामः । यथा भागवते ३ । २९ । १० ।
“कर्म्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः” ॥
दुर्ब्बलभक्तियोगाधिकारिकर्त्तव्यता च तत्रैव ।
११ । ११ । ३४-४२ ।
“मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्च्चनम् ।
परिचर्य्या स्तुतिः प्रह्वगुणकर्म्मानुकीर्त्तनम् ॥
मत्कथाश्रवणे श्रद्धा मदनुध्यानमुद्धव ।
सर्व्वलोभोपहरणं दास्येनात्मनिवेदनम् ॥
मज्जन्मकर्म्मकथनं मम पर्ब्बानुमोदनम् ।
गीत-ताण्डव-वादित्र-गोष्ठीभिर्मद्गृहोत्सवः ॥
यात्रा बलिर्विधानञ्च सर्व्ववार्षिकपर्ब्बसु ।
वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥
ममार्च्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः ।
उद्यानोपवनाक्रीडपुरमन्दिरकर्म्मणि ॥
संमार्ज्जनोपलेपाभ्यां सेकमण्डलवर्त्तनैः ।
गृहशुश्रूषणं मह्यं दासवद्यदमायया ॥
अमानित्वमदम्भित्वं कृतस्यापरिकीर्त्तनम् ।
अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदितम् ॥
यद्यदिष्टतमं लोके यच्चातिप्रियमात्मनः ।
तत्तन्निवेदितं मह्यं तदानन्त्याय कल्पते ॥
सूर्य्योऽग्निर्ब्राह्मणो गावो वैष्णवः खं मरुज्जलम् ।
भूरात्मा सर्व्वभूतानि भद्र पूजापदानि च” ॥
हे भद्र ! एतानि मम पूजास्थानानि । अधुना
कस्मिन् स्थले केन यजेत इत्याह तत्रव ११ । ११ ।
४३-४५ ।
“सूर्य्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् ।
आतिथ्येन तु विप्राग्रे गोष्वङ्ग यवसादिना ॥
वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया ।
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः ॥
स्थण्डिले मन्त्रहृदयैर्भोगैरात्मानमात्मनि ।
क्षेत्रज्ञं सर्व्वभूतेषु समत्वेन यजेत माम्” ॥
हृदि खे हृदयाकाशे ॥ मुख्यधिया प्राणदृष्ट्या ॥
जले जलाञ्जलिप्रदानरूपतर्पणपूर्ब्बकैर्द्रव्यैः ॥ स्थ-
ण्डिले भूमौ मन्त्रन्यासैः ॥ भोगैरिति । देहे भोगै-
रात्मानं एतैरन्नादिभिर्देहस्थपरमात्मानं यजेऽहं
नत्वविद्याकर्म्मजनितं देहं बिभर्म्मीति चिन्तयेत् ॥
क्षेत्रज्ञमिति । सर्व्वभूतेषु क्षेत्रज्ञरूपेणावस्थितं
कूटस्थब्रह्मचैतन्यस्वरूपं मां समत्वेन यजेत ॥ * ॥
एतेषु स्थानेषु तव कीदृग्रूपं ध्येयमित्यपेक्षयाह
तत्रैव ११ । ११ । ४६-४७ ।
“धिष्णेष्वेष्विति मद्रूपं शङ्खचक्रगदाम्बुजैः ।
युक्तं चतुर्भुजं शान्तं ध्यायन्नर्च्चेत् समाहितः ॥
इष्टापूर्त्तेन मामेवं यो यजेत समाहितः ।
लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया” ॥
यदा “मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्च्चनम्” इत्या-
रभ्य “लभते मयि सद्भक्तिम्” इत्यन्तैरेतैश्चतुर्द्दश-
श्लोकैर्धारणाध्यानायनभूतप्रतिमाद्याश्रयिण्या भक्ति-
योगोपयोगिक्रिययैव सद्भक्तिलाभः प्रदर्शयामास
स्वयं भगवान् । सुतरां तदा दुर्ब्बलाधिकारिणा
भक्तियोगाश्रयिणापि प्रथमे क्रियायोगएव कर्त्तव्यः
इति बोध्यतेऽन्यथाचित्तशुद्ध्यभावात् ज्ञानं न लभेत
इति तात्पर्य्यार्थः ॥
ननु मा भूत्तत्वज्ञानं किन्तु शास्त्रविहितक्रिया-
योगशून्यया भक्त्या क्रमेण निर्गुणाया भक्तेरुदयेनैव
चरितार्थतेति चेन्न तयोस्तत्वज्ञाननिर्गुणभक्तियो-
गयोर्लक्षणे नैक्यदर्शनात् उभयोरेवात्मसाक्षात्का-
ररूपचरमफलत्वेनोक्तत्वाच्च । यथा श्रीमद्भागवते
३ । २९ । ११-१२ ।
“मद्गुणश्रुतिमात्रेण मयि सर्व्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्यदाहृतम् ।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे” ॥
ईदृग्भक्तिर्यदि बहुजन्मार्जितसुकृतिवशात् कस्या-
पि क्वचिदुत्पद्येत तर्हि सालोक्यादिमुक्तिं साध-
कान्तरैः प्रार्थनीयां भगवता स्वयं दीयमानामपि
तादृग्भक्तो नेच्छतीति तन्निस्पृहतां दर्शयन्नाह ।
तत्रैव ३ । २९ । १३ ।
“सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः” ॥
अपि च तत्त्वज्ञानिनो निर्गुणभक्तस्य च तयोः
शब्दतएव भेदः न तु लक्षणतः यत उभावेव
लक्षणादिना सर्व्वत्र एकाचारौ एकनिष्ठावेक-
भावापन्नौ लक्ष्येते । यथा भागवते ११ । ११ ।
२९-३३ । भगवद्भक्ततमस्य लक्षणमुपदिष्टवानुद्धवं
प्रति भगवान् ।
“कृपालुरकृतद्रोहस्तितिक्षुः सर्व्वदेहिनाम् ।
सत्यसारोऽनवद्यात्मा समः सर्व्वोपकारकः ॥
कामैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः ।
अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥
अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः ।
अमानी मानदः कल्पो मैत्रः कारुणिकः कविः” ॥
कविः क्रान्तदर्शी सर्व्वज्ञ इत्यर्थः ।
“आज्ञायैवं गुणान् दोषान् मया दिष्टानपि स्वकान् ।
धर्म्मान् सन्त्यज्य यः सर्व्वान् मां भजेत स सत्तमः ॥
ज्ञात्वा ज्ञात्वाथ ये वै मां यावान् यश्चास्मि यादृशः ।
भजन्त्यनन्यभावेन ते मे भक्ततमा मताः” ॥
तथा, ज्ञानिनोऽपि लक्षणं प्रदर्शयामास । यथा,
तत्रैव ११ । ११ । १२-१७ ।
“न तथा बध्यते विद्वांस्तत्र तत्रादयन् गुणान् ।
प्रकृतिस्थोऽप्यसंसक्तो यथा खं सविताऽनिलः ॥
वैशारद्येक्षयाऽसंगशितया छिन्नसंशयः ।
प्रतिबुद्ध इव स्वप्नान् नानात्वद् विनिवर्त्तते” ॥
यस्य स्युर्वीतसङ्कल्पाः प्राणेन्द्रियमनोधियाम् ।
वृत्तयः स विनिर्मुक्तो देहस्थोऽपि हि तद्गुणैः ॥
यस्यात्मा हिंस्यते हिंस्रैर्येन किञ्चिद् यदृच्छया ।
अर्च्च्यते वा क्वचित्तत्र न व्यतिक्रियते बुधः ॥
न स्तवीत न निन्देत कुर्व्वतः साध्वसाधु वा ।
वदतो गुणदोषाभ्यां वर्ज्जितः समदृङ्मुनिः ॥
न कुर्य्यान्न वदेत् किञ्चिन्न ध्यायेत् साध्वसाधु वा ।
आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः” ॥
ननु भक्तिज्ञानयोश्चरमफलैकत्वेपि भक्तेः समधिक-
प्रसंशादर्शनात् भक्तिरेवगरीयसीति चेत् न भक्ति-
वत् ज्ञानस्यापि प्रसंशादर्शनात् आत्मसाक्षात्-
कृतौ साक्षात्कारणत्वाच्च । यथा श्रीमद्भागवते
११ । १९ । १ -- ५ ॥
श्रीभगवानुवाच ।
“यो विद्याश्रुतसम्पन्न आत्मवानानुमानिकः ।
मायामात्रमिदं ज्ञात्वा ज्ञानं च मयि संन्यसेत् ॥
ज्ञानिनस्त्वहमेवेष्टः स्वार्थो हेतुश्च सम्मतः ।
स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियः ॥
ज्ञानविज्ञानससिद्धाः पदं श्रेष्ठं विदुर्मम ।
ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्त्ति माम् ॥
तपस्तीर्थं जपो दानं पवित्रानीतराणि च ।
नालं कुर्व्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥
तस्माजज्ञानेन सहितं ज्ञात्वा स्वात्मानमुद्धव ।
ज्ञानविज्ञानसम्पन्नो भज भां भक्तिभावितः” ॥
किञ्च भगवद्गीतायां ४ । ३३-३९ ।
“श्रेयान् द्रव्यमयाद् यज्ञाञ्ज्ञानयज्ञः परन्तप ! ।
सर्व्वं कर्म्माखिलं पार्थ ! ज्ञाने परिसमाप्यते ॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ! ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥
अपिचेदसि सर्व्वेभ्यः पापिभ्यः पापकृत्तमः ।
सर्व्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्ज्जुन ! ।
ज्ञानाग्निः सर्व्वकर्म्माणि भस्मसात् कुरुते तथा ॥
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥
श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति” ॥
अतएव निर्गुणभक्तिज्ञानयोर्न कियदप्यन्तरं
मन्यन्ते तत्त्वदृशः स्वरूपतस्तयोरेकात्मत्वात् अत-
त्त्वदर्शिनोऽज्ञा एवाविद्यामोहितत्वात् भिन्नदृशो
भवन्ति ॥ वरं भक्तियोगमुपदिशन्नुपसंहारे ज्ञान-
विज्ञानसम्पन्ना भक्तिरेव ब्रह्मलब्धये सम्यक् हित-
साधनीति प्रदर्शितवानुद्धवाय भगवान् ॥ यथा
भागवते ११ । १८ । ४५-४६ ।
“भक्त्योद्धवानपायिन्या सर्व्वलोकमहेश्वरम् ।
सर्व्वोत्पत्त्यव्ययं ब्रह्म कारणं मोपयाति सः ॥
इति स्वधर्म्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः ।
ज्ञानविज्ञानसम्पन्नो न चिरात् समुपैति मां” ।
निष्कामेनानुष्ठितभक्तिरेव शनैः शनैः सान्द्रत्वेन
निर्गुणतां गच्छन्ती सती परमप्रेमानन्दरूपेण
परिणमते सुतरां तदा स्वयं सान्द्रानन्दमयं तज्-
ज्ञानं प्रकाशते । तयोर्हि तत्स्वरूपत्वात् न क्वापि
निर्गुणभक्तिज्ञानयोगयोर्भेदः श्रूयते । यथा छा-
न्दोग्ये “सत्यं ज्ञानमनन्तं ब्रह्म । आनन्दरूपममृतं
यद् विभाति शान्तं शिवमद्वैतम” । इति ज्ञाना-
नन्दयोर्ब्रह्मस्वरूपत्वात् अतएव क्वचित् केनापि न
पूर्णानन्दत्वेन परिणताया निर्गुणस्वरूपाया भक्ते-
र्ज्ञानेन सह कियानपि भेदो दर्शयितुं शक्यते
पृष्ठ १/२६८
:स्वरूपतस्तयोरेकात्मत्वात् । परन्तु तत्त्वज्ञानो-
त्पादनक्षमा भक्तिरेवानुष्ठेया न तु संसारबन्धन-
कारिणी नश्वरफलदात्री अन्धभक्तिवत् सकामा
भक्तिरेवानुमोदनीया तत्त्वदर्शिभिरिति बोध्यम् ॥
यथा भागवते १ । २ । ७ ।
“वासुदेवे भगवति भक्तियोगः प्रयोजितः ।
जनयत्याशु वैराग्यं ज्ञानञ्च यदहैतुकम्” ॥
विशेषतः प्रह्लादध्रुवयोरिव नित्यानित्यवस्त्ववाप्ति-
दर्शनात् । असुरकुलजातोऽपि प्रह्लादः निष्काम-
भक्तियोगमाचरन् तत्प्रभावेन शतशः पितृप्रयुक्तां
बाधामतिक्रम्यात्मप्रसादलब्धं विमलानन्दस्वरूपं
जीवन्मुक्तत्वं ततो निर्व्वाणमप्यवाप्तवान् । ध्रुवः
पुनः स्वायम्भुवमनुवंशजातोऽपि विमातृवचना-
दीर्ष्यापरवशः सन् परमतत्वज्ञाद्देवर्षिनारदादप्यु-
पदेशं लब्ब्धा अन्तःकामवीजं परिपुष्णन् कठोर-
तपसापि सकामभक्तियोगमनुष्ठाय कल्पस्थायिन
ध्रुवाख्यलोकं लब्धवान् ततः गृहप्रत्यागमनकाले
सहसा जातनिर्व्वेद आत्मधिक्कारेण मुहुरन्वशो-
चत् ॥ इदानीं प्रदर्शयामो यथाक्रमं तयोः राज-
पुत्रयोः सकामनिष्कामभक्तियोगानुष्ठाननित्या-
नित्यफलम् ॥
यथा, श्रीमद्गागवते । ४ । ९ । २७-३५ ॥
“सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् ।
प्राप्य सङ्कल्पनिर्व्वाणंनातिप्रीतोऽभ्यगात् पुरम् ॥
विदुर उवाच ।
सुदुर्ल्लभं यः परमं पदं हरेः
मायाविनस्तच्चरणार्च्चनार्ज्जितम् ।
लब्ध्वाऽप्यसिद्धार्थमिवैकजन्मना
कथं स्वमात्मानममन्यतार्थवित् ॥
मैत्रेय उवाच ।
मातुः सपत्न्या वाग्बाणैर्हृदि विद्धस्तु तान् स्मरन् ।
नैच्छन् मुक्तिपतेर्मुक्तिं तस्मात् तापमुपेयिवान् ॥
ध्रव उवाच ।
समाधिना नैकभवेन यत् पदं
विदुः सनन्दादय ऊर्द्ध्वरेतसः ।
मासैरहं षड्भिरमुष्य पादयो-
श्छायामुपेत्यापगतः पृथङ्मतिः ॥
अहोवत ममानात्म्यं मन्दभाग्यस्य पश्यत ।
भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥
मतिर्विदूषिता देवैः पतद्भिरसहिष्णुभिः ।
यो नारदवचस्तथ्यं नाग्राहीषमसत्तमः ॥
दैवीं मायामुपाश्रित्य प्रसुप्तैव भिन्नदृक् ।
तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥
मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।
प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ॥
भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ।
स्वाराज्यं यच्छतो मौढ्यान्मानो मे भिक्षितो वत ॥
ईश्वरात् क्षीणपुण्येण फलीकारानिवाधनः” ।
भगवता नृसिंहदेवेन प्रलोभ्यमानोऽपि प्रह्लादः
निष्कामभक्तिज्ञानप्रभावेन किमपि नैच्छदिति
धर्म्मनन्दनमजातशत्रुं युधिष्ठिरं श्रावयामास दे-
वर्षिर्नारदः । यथा, भागवते । ७ । ९ । ५१-५५ ॥
“एता वद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥
श्रीभगवानुवाच ।
प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥
मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥
प्रीणन्ति ह्यथ मां धीराः सर्व्वभावेन साधवः ।
श्रेयस्कामा महाभागाः सर्व्वासामाशिषां पतिम् ॥
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।
एकान्तित्वाद् भगवति नैच्छत्तानसुरोत्तमः” ॥
तत्रैव ७ । १० । १ -- ५ ।
नारद उवाच ॥
“भक्तियोगस्य तत् सर्व्वमन्तरायतयार्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥
मा मां प्रलोभयोत्पत्त्या सक्तं कामेषु तैर्वरैः ।
तत्संगभीतो निर्व्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ।
भगवन् संसारवीजेषु हृदयग्रन्थिषु प्रभो ! ।
नान्यथा तेऽखिलगुरो ! घटेत करुणात्मनः ॥
यस्तु आशिष आशास्ते न स भृत्यः स वै बणिक् ।
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ॥
अहं त्वकामस्तद्भक्तस्त्वं च स्वाम्यनपाश्रयः ।
नान्यथेहावयोरर्थो राजसेवकयोरिव” ॥
अस्तु तस्य निस्पृहत्वादि किन्तु तत्त्वज्ञानं नासी-
दिति चेत् न यतः उपरिष्टादेव तत्त्वज्ञानमूलाया
निर्गुणाया भक्तेर्लक्षणं प्रदर्शितं । यथा, भागवते
७ । ५ । १३ ॥ हिरण्यकशिपुं प्रति प्रह्लादोक्तिः ।
“स एष आत्मा स्वपरेत्य बुद्धिभि-
र्दुरत्ययानुक्रमणो निरूप्यते ।
मुह्यन्ति यद्वर्त्मनि वेदवादिनो
ब्रह्मादयो ह्येष भिनत्ति मे मतिम्” ॥
किञ्च तत्रैव ३१ ।
“न ते विदुः स्वार्थगतिं हि विष्णुं
दुराशया ये वहिरर्थमानिनः ।
अन्धा यथान्धैरुपनीयमाना
वागीशतन्त्यामुरुदाम्नि बद्धाः” ॥
स्वार्थगतिमिति । स्वस्मिन् एवार्थो येषां ते स्वा-
र्थास्तत्वज्ञानिनस्तेषां गतिर्ज्ञानस्वरूपस्तं । वहि-
रर्थमानिनः इति । वहिर्वाह्यवस्तुषु अर्थो येषां
तान् गुरून् इति मन्यन्ते ये इति ॥ ननु क्वचि
दर्च्चादेर्निन्दापि लक्ष्यते यदा तदुपासनं
निष्फलमिति चेन्न । यतः सर्व्वतः साधुसङ्गलाभ
स्योत्कर्षः इति प्रदर्शयन् विशेषतः सर्व्वाभ्य
उपासाभ्यः हृद्देशे आत्मध्यानमेव गरीय इत्येवोप
दिदिशुः महान्तः शास्त्रकृतः । अन्यथा “मदर्च्चा-
स्थापने श्रद्धा” “अर्ञ्चायामर्च्चयेत्तावत्” “यावन्न
मे कथारतिः” इत्यादि वचनानां निष्फलत्वं
स्यात् । दर्शितञ्च यथासम्भवमुपासनायां दुर्ब्बला-
धिकारिणां यत् यत् कर्त्तव्यं इदानीं सबलाधि-
कारिणां करणीयं यत्प्रकृतपथं तदेव दर्शयामः
समासेनेति । यथा, वृहदारण्यकश्रतौ ॥
“आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि
ध्यासितव्यश्च” । अर्थात् आत्मैव साक्षात् कर्त्तव्यः
साक्षात्कारे उपायमाह श्रवणं मननं निदिध्या-
सनञ्च किन्तत् श्रवणादि इति जिज्ञासायां ब्रूमः ।
यथा । “श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्ता-
नामद्वितीये वस्तुनि तात्पर्य्यावधारणम् । लिङ्गानि
तु । उपक्रमोपसंहाराभ्यासाऽपूर्ब्बताफलार्थवा-
दोपपत्त्याख्यानि । तत्र प्रकरणप्रतिपाद्यस्यार्थस्य
तदाद्यन्तयोरुपादानं उपक्रमोपसंहारौ । यथा,
छान्दोग्ये षष्ठप्रपाठके प्रकरणप्रतिपाद्यस्याद्विती-
यवस्तुनः एकमेवाद्वितीयमित्यादौ “ऐतदात्म्यमिदं
सर्व्वम्” । इत्यन्ते च प्रतिपादनम् ॥
प्रकरणप्रतिपाद्यस्य वस्तुनः तन्मध्ये पौनःपुन्येन
प्रतिपादनं अभ्यासः । यथा, तत्रैवाद्वितीयवस्तु-
नो मध्ये “तत्त्वमसीति” नवकृत्वः प्रतिपादनम् ॥
प्रकरणप्रतिपाद्यस्य वस्तुनः प्रमाणान्तरेणा-
विषयीकरणं अपूर्ब्बत्वम् । यथा तत्रैवाद्वितीय-
वस्तुनः तन्त्वौपनिषदं पुरुषं पृच्छामीत्यादिना
उपनिषन्मात्रवेद्यत्वप्रतिपादनात् । मानान्तरा-
विषयीकरणं फलन्तु प्रकरणप्रतिपाद्यस्यात्म-
ज्ञानस्य तदनुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्रयो-
जनं यथा तत्रैव “आचार्य्यवान् पुरुषो वेद तस्य
तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” ।
इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते ।
प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनं अर्थवादः ।
यथा, तत्रैव उततमादेशमप्राक्षो येनाश्रुतं श्रुतं
भवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीयवस्तु
प्रशसनम् ।
प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा
युक्तिः उपपत्तिः” । यथा, तत्र “सौम्यैकेन मृत्-
पिण्डेन सर्व्वं मृण्मयं विज्ञातं स्यात् वाचारम्भण-
विकारो नामध्येयं मृत्तिकेत्येव सत्यम्” । इत्यादा-
वद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे
युक्तिः श्रूयते” । मननन्तु । “श्रुतस्याद्वितीयवस्तुनो
वेदान्तार्थानुगुणयुक्तिभिरनवरतमनुचिन्तनम्” ।
“विजातीयदेहादिप्रत्ययरहिताऽद्वितीयवस्तुसजा-
तीयप्रत्ययप्रवाहः निदिध्यासनम्” ॥ इति वेदा-
न्तशास्त्रेषु ॥
समाधिस्तु द्विविधः । सविकल्पको निर्व्विकल्पक-
श्चेति । तत्र सविकल्पको नाम ज्ञातृज्ञानादि-
विकल्पलयानपेक्षयाऽद्वितीयवस्तुनि तदाकारा-
कारितायाश्चित्तवृत्तेरवस्थानम् । तदा मृण्मय-
गजादिभानेऽपि मृद्भानवत् द्वैतभानेऽप्यद्वैतं वस्तु
भासते ॥
निर्व्विकल्पकस्तु ज्ञातृज्ञानादिभेदलयापेक्षयाऽद्वि-
तीयवस्तुनि तदाकाराकारिताया बुद्धिवृत्तेरति-
तरामेकीभावेनावस्थानम् । तदा तु जलाकारा-
कारितलवणानवभासेनाद्वितीयवस्तुमात्रमेवावभा-
सते ॥ इति वेदान्ते उपदिष्टं पूर्ब्बर्षिभिः ॥
अतो ज्ञानलक्षणानि भगवद्गीतायां । १३ । ७-११ ॥
“अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्य्योपासनं शौचं स्थैर्य्यमात्मविनिग्रहः ॥
पृष्ठ १/२६९
:इन्द्रियार्थेषु वैराग्यमनहङ्कारएव च ।
जन्म मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनम् ॥
असक्तिरनभिष्वङ्गः पुत्त्रदारगृहादिषु ।
नित्यञ्च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा” ॥
अतो ज्ञेयं वस्तु तत्रैवाध्याये । १२-१७ ॥
“ज्ञेयं यत्तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादिमत् परं ब्रह्म न सत्तन्नासदुच्यते ॥
सर्व्वतः पाणिपादन्तत् सर्व्वतोऽक्षिशिरोमुखम् ।
सर्व्वतःश्रुतिमल्लोके सर्व्वमावृत्य तिष्ठति ॥
सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् ।
असक्तं सर्व्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥
वहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥
अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्व्वस्य विष्ठितम्” ॥
तथा च श्वेताश्वतरश्रुतौ आत्मज्ञानेनैव मुक्ति-
रिति स्फुटं दर्शयामास । यथा, --
“सर्व्वेन्द्रियगुणाभासं सर्व्वेन्द्रियविवर्ज्जितम् ।
सर्व्वस्य प्रभुमीशानं सर्व्वस्य शरणं वृहत्” ॥
“आत्मा गुहायां निहितोऽस्य जन्तो-
रणोरणीयान् महतो महीयान् ।
तमक्रतुं पश्यति वीतशोको
धातुः प्रसादान्महिमानमीशम्” ॥
महानिव्वाणतन्त्रे च । ५ । ११ ॥
“परे ब्रह्मणि विज्ञाते समस्तैर्नियमैरलम् ।
तालवृन्तेन किं कार्य्यं लब्धे मलयमारुते” ॥
ननु किमिदानीं वाग्भङ्ग्याऽद्वैतवादं संस्थाप-
यितुं प्रयतते इति चेत् दर्शयामः ।
तथा च श्रीविष्णुधर्म्मे, --
“परात्मनो मनुष्येन्द्र विभागो हि न कल्पितः ।
क्षये तस्यात्मपरयोर्विभागाभावएव हि ॥
आत्मा क्षेत्रज्ञसंज्ञोऽयं संयुक्तः प्राकृतैर्गुणैः ।
तैरेव विगतः शुद्धः परमात्मा निगद्यते ॥
अनादिसम्बन्धवत्या क्षेत्रज्ञोऽहमविद्यया ।
युक्तः पश्यति भेदेन ब्रह्मत्वात्मनि संस्थितम्” ॥
तथाहि श्वेताश्वतरश्रुतिभाष्यधृतवशिष्टवचनं
प्रश्नपूर्ब्बकं दर्शितम् । यथा, --
“यद्यात्मा निर्गुणः शुद्धः सदानन्दोऽजरोऽमरः ।
संसृतिः कस्य तात ! स्यात् मोक्षो वाऽविद्यया विभो ॥
क्षेत्रनाशे कथं तस्य ज्ञायते भगवान् यतः ।
यथावत् सर्व्वमेतं मे वक्तुमर्हसि साम्प्रतम् ॥
तस्यैव नित्यशुद्धस्य सदानन्दमयात्मनः ।
अवच्छिन्नस्य जीवस्य संसृतिः कीर्त्त्यते बुधैः ॥
एकएव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥
मान्त्यारूढः सएवात्मा जीवसंज्ञः सदा भवेत् ॥”
तथा च शुकशिष्यो गौडपादाचार्य्यः ॥
“यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते ।
न सर्व्वे सम्प्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः” ॥
तस्मादद्वितीये परमात्मन्युपाधितो जीवेश्वरयो-
र्जीवानाञ्च परस्परं भेदव्यवस्थायाः सिद्धत्वान्न
विशुद्धसत्वोपाधेरीश्वरस्याविशुद्धोपाधिजीवगताः
सुखदुःखमोहाज्ञानादयः ॥ तथा च भगवान्
पराशरः ।
ज्ञानात्मकस्यामलसत्त्वराशे-
रपेतदोषस्य सदा स्फुटस्य ।
किं वा जगत्यस्ति समस्तपुंसा-
मज्ञातमस्यास्ति हृदि स्थितस्य” ॥
कथं तर्ह्यौपाधिकभेदेन बन्धमुक्त्यादिव्यवस्था सोपा-
धिकानां तेषां वा सोपाधिकैश्वरस्य वा स्वरूप-
स्येति इत्याशङ्क्य दृष्टान्तपूर्ब्बकं व्यवस्थां दर्शयति ॥
“एकस्तु सूर्य्यो बहुधा जलाधारेषु दृश्यते ।
आभाति परमात्मा च सर्व्वोपाधिषु संस्थितः” ॥
“ब्रह्य सर्व्वशरीरेषु वाह्ये चाभ्यन्तरे स्थितम् ।
आकाशमिव भूतेषु बुद्धावात्मा म चान्यथा” ॥
एवं सति यया बुद्ध्या देहोऽहमिति मन्यते ।
‘अनात्मन्यात्मता भ्रान्त्या सा स्यात्संसारबन्धिनी’ ॥
सर्व्वैर्विकल्पैर्हीनस्तु शुद्धो बुद्धोऽजरोऽमरः ।
प्रशान्तो व्योमवद्व्यापी चैतन्यात्मा सकृत्प्रभुः ॥
धूमाभ्रधूलिभिर्व्योम यथा न मलिनीयते ।
प्राकृतैरपरामृष्टो विकारैः पुरुषस्तथा ॥
यथैकस्मिन् घटाकाशे जलैर्धूमादिभिर्युते ।
नान्ये मलिनतां यान्ति दूरस्थाः कुत्रचित् क्वचित् ॥
यथा द्वन्द्वैरनेकैस्तु जीवे च मलिनीकृते ।
एतस्मिन्नापरे जीवा मलिनाः सन्ति कुत्रचित्” ॥
परं नतु केवलं प्रकृतेः पृथग्रूपचैतन्यज्ञान-
मात्रेण ब्रह्मज्ञानं सम्भवितुमर्हति । यदि चैके
पण्डिताः पृथग्ज्ञानेनैव सिद्धिः स्यादिति मन्यन्ते
किन्तु नैव श्रुतय एवं परिचक्षते । यथा, श्वेताश्व-
तरोपनिषदि “ज्ञाज्ञौ द्वावजावीशानीशावजा
ह्येका भोक्तृभोग्यार्थयुक्ता अनन्तश्चात्मा विश्व-
रूपो ह्यकर्त्ता त्रयं यदा विन्दते ब्रह्ममेतत्” ॥
अतएव ब्रह्मजिज्ञासोर्योगिनः श्रत्यपदिष्टब्रह्म-
तत्त्वविज्ञानेनैव मुक्तिः स्यात् अन्यथा श्रमएव ॥
यथा, तत्रैव “क्षरं प्रधानममृताक्षरं हरः
क्षरात्मानावीशते देवएकः । तस्याभिधानात्
योजनात् तत्त्वभावात् भूयश्चान्ते विश्वमाया-
निवृत्तिः ॥ ज्ञात्वा देवं सर्व्वपाशापहानिः क्षीणैः
क्लेशैर्जन्ममृत्यप्रहाणिः । तस्याभिध्यानात्तृतीयं देह-
भेदे विश्वैश्वय्य केवल आप्तकामः” ॥ परं योगा-
भ्यासादृते नैव कदाचित् तत्त्वज्ञानास्योत्पत्ति-
रिति श्रुतिस्मृत्यादीनां ज्ञानप्रतिपादकशास्त्रा-
णामुपदेशो दृश्यते यदि च पूर्ब्बपूर्ब्बप्रकरणे पुराण-
प्रभृतिविहितयोगादिमतं प्रदर्शितं तत्रापि तत्-
व्रढीकरणाय वैदिक्मतमिदानीं प्रदर्शयामः । यथा
यजुर्व्वेदोक्तश्वेताश्वतरीययोगप्रकरणम् । ॐ “युञ्जा-
नः प्रथमम् मनस्तत्त्वाय सविता धियः ॥ अग्निं
ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ १ ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे सुवर्गेयाय
शक्त्यै ॥ २ ॥
यक्ताय मनसा देवान् सुवर्य्यतो धिया दिवं ।
वृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३ ॥
युञ्जते मन उत युञ्जते धियो
विप्रा विप्रस्य वृहतो विपश्चितः ॥
विहोत्रा दधे वयुना विदेक इन् ।
महो देवस्य सवितुः परिष्टुतिः ॥ ४ ॥
युजे वां ब्रह्म पूर्व्यं नमोभिः
विश्लोका यन्ति पथ्येव सूराः” ॥ ५ ॥
परन्तु आत्मज्ञादविशदीकरणाय दक्षसंहितैव
श्रेयसी जीवानामिति प्रदर्शयितुं भूयोऽप्यनुस-
रामः । यथा,
“ऊरुस्थोत्तानचरणः सव्ये नस्येतरं करम् ।
उत्तानं किञ्चिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥
निमीलिताक्षः सत्त्वस्थो दन्तेर्दन्तानसंस्पृशन् ।
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ।
संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत्” ॥
किन्तुएवं मा मन्यध्वं यत् गृहान्निःसृत्य अरण्यवा-
सादौ योगाभ्यासतत्त्वज्ञानादेः सुगमो भवेत्
इत्यत्र यथाह दक्षः सप्तमाध्याये ।
“लोको वशीकृतो येन येन चात्मा वशीकृतः ।
इन्द्रियार्थो जितो येन तं योगं प्रब्रवीम्यहं ॥
प्राणायामास्तथा ध्यानं प्रत्याहारस्तु धारणा ।
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥
नारण्यसेवनाद्योगो नानेकग्रन्थचिन्तनात् ।
व्रतैर्यज्ञैस्तपोभिश्च न योगः कस्यचित् भवेत् ॥
न च पथ्याशनात् योगो न नासाग्रनिरीक्षणात् ।
न च शास्त्रातिरिक्तेन शौचेन स भवेत् क्वचित् ॥
न मौनमन्त्रकुहकैरनेकैः सुकृतैस्तथा ।
लोकयात्रावियुक्तस्य योगो भवति कस्यचित् ॥
अभियोगात् तथाभ्यासात् तस्मिन्नेव तु निश्चयात् ।
पुनः पुनश्च निर्व्वेदाद् योगः सिध्यति नान्यथा” ॥
अतएव निर्व्वेदादृते केवलं तपःस्वाध्यायादिभिर्न
योगसिद्ध्विः शास्त्रकृद्भिरनुमोदनीया । किन्तु
आदरनैरन्तर्य्येण आत्मचिन्तादयएव ब्रह्मलब्ध्यै
सदुपाया इति बोध्यम् यथा तत्रैव ।
“आत्मचिन्ताविनोदेन शौचक्रीडनकेन च ।
सर्व्वभूतसमत्वेन योगः सिध्यति नान्यथा ॥
यश्चात्मनि रतो नित्यमात्मक्रीडस्तथैव च ।
आत्मनिष्ठश्च सततमात्मन्येव स्वभावतः ॥
रतश्चैव स्वयं तुष्टः सन्तुष्टो नान्यमानसः ।
आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिध्यति ॥
सुप्तोऽपि योगयुक्तः स्याज्जाग्रच्चापि विशेषतः ।
ईदृक्चेष्टः स्मृतः श्रेष्ठो गरिष्ठो ब्रह्मवादिनाम्” ॥
परन्तु विषयासक्तिवर्ज्जनं विना क्वापि कस्य-
चिदपि आत्मसिद्धिर्न प्रजायते । यथा तत्रैव, --
“य आत्मव्यतिरेकेण द्वितीयं नैव पश्यति ।
ब्रह्मीभूय स एवं हि दक्षपक्ष उदाहृतः ॥
विषयासक्तचित्तो हि यतिर्मोक्षं न षिन्दति ।
यत्नेन विषयासक्तिं तस्माद् योगी विवर्ज्जयेत्” ॥
पृष्ठ १/२७०
:यदि च केचित् विषयेन्द्रियसंयोगैः सिद्धिर्भवेत्
इति वदन्ति तत्र तेषां भ्रान्तिरेव सा यथा तत्रैव,
“विषयेन्द्रियसयोगं केचित् योगं वदन्ति हि ।
अधर्म्मो धर्म्मरूपेण गृहीतस्तैरपण्डितैः” ॥ इति ॥
यदि चाद्वैततत्त्वज्ञानमेव सर्व्वतो निश्रेयसकरं
जीवानाभित्यशेषवः प्रदर्शितम् किन्तु दुर्ब्बलमब-
लाद्यधिकारिभेदेन यथाकमं क्रियाभंक्तिज्ञान-
वोगादयः सन्निवेशिता इत्यलमतिपल्लवितेन ॥ * ॥)

उपासितः, त्रि, (उप + आस् + क्त ।) कृतोपासनः ।

तत्पर्य्यायः । वरिवसितः २ वरिवस्यितः ३ उप-
चरितः ४ । इत्यमरः ॥

उपास्तिः, स्त्री, (उप + आस् + क्तिन् ।) सेवा । इति

हेमचन्द्रः ॥ (यथा, मुग्धबोधे कारकप्रकरणे ७ ।
“मुक्तिर्नर्त्तेऽच्युतोपास्तिं भूतं भूतमभि प्रभुः” ॥)

उपाहितः, पुं, (उप आसन्नं आहितं फलं यस्य ।)

अग्न्युत्पातः । स तु उल्कापातादिः । इत्यमरः ॥

उपाहितः, त्रि, (उप + आ + धा + क्त ।) संयो-

जितः । इत्यमरः ॥ आरोपितः । इति मेदिनी ॥

उपेक्षणं, क्ली, (उप + ईक्ष् + भावेल्युट् ।) वर्ज्जनम् ।

त्यजनम् ॥ (यथा, महाभारते ३ । हनूमद्भीमसं-
वादे १५० । ४२ ।
“साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च ।
साधनीयानि कर्म्माणिं समासव्यासयोगतः” ॥)

उपेक्षा, स्त्री, (उप + ईक्ष् + अ + टाप् ।) अस्वी-

कारः । त्यागः । (औदासीन्यम् । यथा, रघुः
१४ । ६५ । “कुर्य्यामुपेक्षां हतजीवितेऽस्मिन्” ।)
युद्धविषये तु क्षुद्रोपायः । “मायोपेक्षन्द्रजालानि
क्षुद्रोपाया इमे त्रयः” । इति हेमचन्द्रः ॥

उपेन्द्रः, पुं, (इन्द्रमुपगतः । कश्यपादृषेः अदितौ

वामनावतारे इन्द्रस्यानन्तरं जातत्वात् तथात्वम् ।)
विष्णुः । इत्यमरः ॥ (उपेन्द्रस्यापरां व्युत्पत्तिमाह
हरिवंशे ७५ । ४६ ।
“ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः” ॥
तथा च भागवते ८ । २३ । २१, २२, २३ ।
“कश्यपस्यादितेः प्रीत्यै सर्व्वभूतभवाय च ।
लोकानां लोकपालानामकरोत् वामनं पतिम् ॥
वेदानां सर्व्वदेवानां धर्म्मस्य यशसः श्रियः ।
मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥
उपेन्द्रं कल्पवाञ्चक्रे पतिं सर्व्वविभूतये ।
तदा सर्व्वाणि भूतानि भृशं मुमुदिरे नृप !” ॥)

उपोढः, त्रि, (उप समीपे उह्यते स्म । उप + वह +

क्त ।) निकटः । (यथा, किराते १३ । २३ “तदुपोढैश्च
नमश्चरः पृषत्कः” ।) विवाहितः । इति मेदिनी ॥
(धृतः । विहितः । यथा शाकुन्तले ७ म अङ्के, --
“उपोढशब्दा न रथाङ्गनेमयः
प्रवर्त्तमानं न च दृश्यते रजः” ॥)

उपोढः, पुं, (उप + वह + क्त ।) व्यूहः । इति धरणी ॥

उपोती, स्त्री, (उपते स्म या । उप + वे + क्त + ङीष् ।

पत्रादिषु वयनसादृश्यादस्य तथात्वम् ।) पूतिका ।
इति शब्दरत्नावली ॥ (“द्वादश्यामुपोतीं त्यक्त्वा
पारणं कुर्य्यात्” । इति स्मृतिः ॥)

उपोदकी, स्त्री, (उपगता उदकम् । रसप्राधान्यात् ।

गौरादित्वात् ङीष् ।) पूतिका । पूँइशाक इति
भाषा । तत्पर्य्यायः । कलम्बी २ पिच्छिला ३ पि-
च्छिलच्छदा ४ मोहनी ५ मदशाकः ६ विशाला
७ बलिपोदकी ८ । अस्या गुणाः । कषायत्वम् ।
उष्णत्वम् । कटुत्वम् । मधुरत्वम् । निद्रालस्यरुचि-
विष्टम्भश्लेष्मकारित्वञ्च । इति राजनिर्घण्टः ॥ (यथा,
एकादशीतत्त्वे द्वादशीनियमे कूर्म्मपूराणधृत-
वचनम् ।
“द्वादश्यां पारणं कुर्य्यात् वर्जयित्वाप्युपोदकीम्” ॥)

उपोदिका, स्त्री, (उपाधिकमुदकमस्याम् । उत्तर-

पदस्य चेत्युत्तरपदस्योदादेशः । कप् । टाप् ।)
पूतिका । इत्यमरः ॥ अस्या गुणाः । सारकत्वम् ।
स्निग्धत्वम् । बलश्लेष्मकारित्वम् । हिमत्वञ्च । इति
राजवल्लभः ॥ (यथा, वैद्यके ।
“तण्डुलैरानतव्याजैर्हसत्येषा उपोदिका” ।
“मदघ्नी चाप्युपोदिका” ।
इति सूत्रस्थाने ६ अध्याये वाभटेनोक्तम् ॥
“उपोदिकादधिभ्यान्तु सिद्धा मदविनाशिनी” ।
इति चरके सूत्रस्थाने २ अध्याये ॥
“स्वादुपाकरसा वृष्या वातपित्तमदापहा ।
उपोदिका सरा स्निग्धा बल्या श्लेष्मकरी हिमा” ॥
इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

उपोदीका, स्त्री, पूतिका । इति भरतः द्विरूप-

कोषश्च ॥

उपोद्घातः, पुं, (उप समीपे उद्धननम् । उप + उत्

+ हन् + घञ् ।) उदाहरणम् । इत्यमरः ॥ आ-
रम्भः । इति भरतः ॥ सङ्गतिविशेषः । यथा, --
“सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा ।
निर्व्वाहकैककार्य्यत्वे षोढा सङ्गतिरिष्यते” ॥
तल्लक्षणं यथा, --
“चिन्तां प्रकृतसिद्धार्थामुपोद्घातं विदुर्ब्बुधाः” ।
इत्यनुमितौ जगदीशतर्कालङ्कारः ॥

उपोषणं, क्ली, (उप + उष् दाहे + ल्युट् ।) उपवासः ।

इति त्रिकाण्डशेषः ॥ (यथा, तिथितत्त्वे ।
“उपोषणं नवम्याञ्च दशम्याञ्चैव पारणम्” ।
विस्तृतिस्तु उपवासशब्दे द्रष्टव्या ॥)

उपोषितं, क्ली, (उप + वस् + भावे क्त ।) उपवासः ।

इत्यमरटीकायां भरतः ॥ (यथा, मनुः । ५ । १५५ ।
“नास्ति स्त्रीणां पृथक्यज्ञः न व्रतं नाप्युपोषितम्” ॥

उपोषितः, त्रि, (उपोष्यते स्म । उप + वस + कर्त्तरि

+ क्त ।) कृतोपवासः । यथा, --
“उपोषितो द्वितीयेऽह्नि पूजयेत् पुनरेव ताम्” ।
इति दुर्गोत्सवप्रकरणे तिथ्यादितत्त्वम् ॥
(यथा रघौ २१९ ।
“पपौ निमेषालसपक्ष्मपङ्क्ति-
रुपोसिताभ्यामिव लोचनाभ्याम्” ॥)

उप्तः, त्रि, (उप्यते स्म यः क्षेत्रादिषु । वप् + क्ता ।)

कृतवपनः । वोना इति भाषा । यथा, --
“तद्वै धनुस्त इषवः स रथो हयास्ते
सोटहं रथी नृपतयो यत आनमन्ति ।
सर्व्वं क्षणेन तदभूदसदीशरिक्तं
भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम्” ॥
इति श्रीभागवते १ स्कन्धे १५ । २१ ॥
श्रीकृष्णवियोग एवात्र हेतुः नान्य इत्याह तद्वै इति
यतो येभ्य ईशेन रिक्तं शून्यं असत् कार्य्याक्षमं
सन्मन्त्रविधानैरपि भस्मनि हुतमिव भस्मन्निति
लुप्तसप्तम्यन्तं पदम् । अतिप्रीतादपि कुहकान्मा-
याविनः सकाशाद्राद्धं लब्धं यथा । सम्यक्कर्षणा-
दिनापि उषरभूमौ उप्तं वीजमिव” । इति तट्टी-
कायां श्रीधरस्वामी ॥ * ॥ कृतमुण्डनम् । यथा --
“सशिखं वपनं कार्य्यमास्नानाद्ब्रह्मचारिणा” ।
इति कात्यायनकृतच्छन्दोगपरिशिष्टेऽप्येवम् । तदे-
कश्रुतिमूलकत्वात् । तद्धृतपारस्करीये । पर्य्युप्त-
शिरसमिति सूत्रेऽपि तथैवार्थः तद्भाष्यकृता
हरिशर्म्मणापि परि सर्व्वतोभावेनोप्तशिरसं
मुण्डितशिरसमिति व्याख्यातम्” । इति प्राय-
श्चित्ततत्त्वम् ॥

उप्तकृष्टं, त्रि, (आदौ उप्तं पश्चात् कृष्टम् । पूर्ब्ब-

कालेति समासः ।) वीजवपनानन्तरकर्षितक्षेत्रम् ।
तत्पर्य्यायः । वीजाकृतम् २ । इत्यमरः ॥

उब्ज, श आर्ज्जवे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

अकं-सेट् ।) ह्रस्वादिः । ओष्ठ्यबकारोपधः ।
तेन र्व्यनच्तयीति दीर्घो न स्यात् । स्यादौ नवद्र
इति उब्जिजिषति । ऊर्णौर्ज्जोर्दीर्घपाठसामर्थ्यात्
स्वरादेर्न दीर्घ इति केचित् । दन्त्यवकारत्वान्न
उब्जतीत्यत्र दीर्घ इत्यप्येके । श उब्जती उब्जन्ती ।
आर्ज्जवमवक्रीभावः । उब्जति साधुरवक्रः स्यादि-
त्यर्थः । इति दुर्गादासः ॥ (यथा, ऋग्वेदे । ६ । ५
२ । १ ॥ “उब्जन्तु तं सुभ्वः पर्व्वतासो निहियता
मतियाजस्य यष्ट” ॥)

उभ, श पूर्त्तौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) ह्रस्वादिः । श उभति कुम्भं जलेन
लोकः । उवोभ । इति दुर्गादासः ॥

उभयः, त्रि, (उभौ अवयवौ अस्य । उभ + तयप् ।

उभादुदात्तो नित्यमिति । ५ । २ । ४४ । तयपो-
ऽयजादेशः । कथमुभये देवमनुष्या इति यतो
बहूनामुभावयवौ न घटतः । नैष दोषः । अत्र हि
द्वौ राशी समुदायस्यावयवौ । एको देवानां अपरो
मनुष्याणामिति । उभादुदात्तो नित्यमिति नित्य-
ग्रहणस्येदं प्रयोजनं वृत्तिविषये उभशब्दप्रयोगो
माभूत् उभयशब्दस्यैव यथा स्यादिति ।) युगलम् ।
इति शब्दचन्द्रिका ॥ दुइ इति भाषा । (यथा,
मनुः । २ । ५५ ॥
“पूजितं ह्यशनं नित्यं बलमूर्जञ्च यच्छति ।
अपूजितन्तु तद्भक्तमुभयं नाशयेदिदम्” ॥)

उभयतः, [स्] व्य (उभयस्मात् । उभय + तसिल् ।)

पार्श्वद्वये । उभयपार्श्वे । इति व्याकरणम् ॥
(यथा, मनुः । ८ । ३१५ ।
“शक्तिञ्चोभयतस्तीक्ष्णामायसं दण्डमेव वा” ॥)

उभयद्युः, [स्] व्य, (उभयोरह्नोः । द्युश्चोभया-

द्वक्तव्य इति साधुः ।) उभयदिनम् । दिनद्वयम् ।
इत्यमरः ॥ (यथा, अथर्व्ववेदे । १ । २५ । ४ ।
“योऽन्येद्युरुमयद्युरभ्येति” ॥)
पृष्ठ १/२७१

उभयेद्युः, [स्] व्य (उभयोरह्नोः । सद्यःपरुदिति

उभयादेद्युस् निपातितः ।) उभयदिनम् । इत्य-
मरः ॥ (यथा, ऐतरेयब्राह्मणे । ५ । २९ ॥
“अग्निहोत्रमुभयेद्युरहूयत” ॥)

उम्, व्य, (उङ् शब्दे + डुम् ।) रोषः । अङ्गीकारः ।

प्रश्नः । इति मेदिनी ॥ क्रोधवर्जितः । इति शब्द-
रत्नावली ॥

उमा, क्ली, (उ भो मा तपस्यां कुर्व्विति । यथा,

“उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां
सुमुखी जगाम” । इति कुमारोक्तेः । यद्वा ओर्ह-
रस्य मा लक्ष्मीरिव । उं शिवं माति मिमीते वा ।
आतोऽनुपसर्गेति कः । अजादित्वात् टाप् । अवति
ऊयते वा उङ् शब्दे “विभाषा तिलमाषो मेति” ।
५ । २ । ४ । निपातनात् मक् ॥) दुर्गा । (यथा,
कुमारे । ३ । ६७ ।
“उमामुखे विम्बफलाधरोष्ठे
व्यापारयामास विलोचनानि” ॥)
अतसी । कीर्त्तिः । हरिद्रा । कान्तिः । इति
मेदिनी ॥ शान्तिः । इति शब्दरत्नावली ॥ तन्नाम-
व्युत्पत्तिर्यथा ।
“यतो हि तपसे पुत्त्रि वनम् गन्तुञ्च मेनका ।
उमेति तेन सोमेति नाम प्राप तदा सती” ॥
इति कालिकापुराणे ४२ अध्यायः ॥

उमाकटः, पुं, (उमाया रजः । उमा “अलावूति-

लोमाभङ्गाभ्यो रजस्युपसंख्यानम्” इति कटच् ।)
उमाधूलिः । इति व्याकरणम् ॥ मसिनार धूला
इति भाषा ।

उमागुरुः, पुं, (उमाया गुरुः पिता । सती दक्ष-

यज्ञे शिवनिन्दाश्रवणात् योगविमुक्तदेहा हिमा-
लयात्मेनकागर्भे सम्भूतेति पौराणिकी कथात्रानु-
सन्धेया ।) हिमालयपर्ब्बतः । इति त्रिकाण्डशेषः ॥

उमाचतुर्थी, स्त्री, (उमायाश्चतुर्थी । उमाजन्मतिथि-

त्वादस्याः तथात्वम् । ज्यैष्ठशुक्लचतुर्थी । यथा,
“ज्यैष्ठशुक्लचतुर्थ्यान्तु जाता पूर्ब्बमुमा सती ।
तस्मात् सा तत्र संपूज्या स्त्रीभिः सौभाग्यवृद्धये” ॥
इति संवत्सरकौमुदीधृतब्रह्मपुराणवचनम् ॥

उमापतिः, पुं, (उमायाः पतिः ।) शिवः । इत्यमरः ॥

(यथा, महाभारते १४ । संवर्त्तमरुत्तीये । ८ । १
“तप्यते तत्र भगवान् तपो नित्यमुमापतिः” ॥)

उमावनं, क्ली, (उमायाः प्रीतये वनमिव ।) पुर-

विशेषः । तत्पर्य्यायः । देवीकोटः २ कोटीवर्षम् ३
बाणपुरं ४ शोणितपुरं ५ । इति हेमचन्द्रः ॥

उमासुतः, पुं, (उमायाः सुतः पुत्त्रः ।) कार्त्तिकेयः ।

इति हेमचन्द्रः ॥

उमेशः, पुं, (उमाया ईशः पतिः ।) महादेवः । इति

हेमचन्द्रः ॥

उम्बरः, पुं, (उम् इत्यव्यक्तशब्दं वृणातीति । उम्

+ बृ + अच् ।) द्वारोर्द्ध्वकाष्ठम् । तत्पर्य्यायः ।
गृहावग्रहणी २ देहली ३ अम्बरः ४ उदुम्बरः ५ ।
इति हेमचन्द्रः ॥ (गन्धर्ब्बविशेषः । यथा, हरि-
वंशे पारिजातहरणे । १२६ । १४ ।
“उम्बरस्तुम्बुरुश्चैव जग्मुरन्ये च षड्गणान्” ॥)

उम्बी, स्त्री, (उम् क्रोधवर्ज्जितं स्वभावं वाति प्राप्नो-

तीति । उम + वा + क । पृषोदरादित्वात् वस्य बः ।)
अर्द्धपक्वतृणानलसंभृष्टयवगोधूममञ्जरी । अस्या
गुणाः । कफप्रदत्वम् । बलकारित्वम् । लघुत्वम् ।
पित्तानिलापहत्वञ्च । इति भावप्रकाशा ॥

उम्भ, प श पूर्णौ इति कविकल्पद्रुमः । (तुदां-परं-

सकं-सेट् ।) उन्भ इति च पाठः ॥

उम्यं, क्ली, (उमाया अतस्या हरिद्राया वा क्षेत्रम् ।

उमा + “विभाषा तिलमाषोमाभङ्गाणुभ्यः” ।
५ । २ । ४ । इति यत् ।) औमीनम् । अतसीक्षेत्रम् ।
हरिद्राक्षेत्रञ्च । इति भरतो द्विरूपकोषश्च ॥

उर, गतौ । सौत्रधातुरयम् । इति कविकल्पद्रुमः ।

(परं-सकं-सेट् ।) पञ्चमस्वरादिः । उरसः । इति
दुर्गादासः ॥

उरः, [स्] क्ली, (इयर्त्ति । ऋ गतौ । “अर्त्तेरुच्च”

। ४ । १९४ इति उणादिसूत्रेण असुन् उरादेशः
किच्च ।) वक्षःस्थलम् । इत्यमरः ॥
(यथा, रघुः १० । १० ।
“कौस्तुभाख्यमपां सारं बिभ्राणं वृहतोरसा” ।
तथा, माघे ७ । २२ ।
“उरसि सरसपादलेखा
प्रतिमतयानुययावसंशयानः” ॥)
तत्पर्य्यायः । वक्षः २ वत्सम् ३ क्रोडम् ४ हृत् ५
भुजान्तरम् ६ । इति राजनिर्घण्टः ॥

उरः [स्] त्रि, (ऋ + असुन् + उरादेशः किच्च ।)

उत्तमः । श्रेष्ठः । इति मेदिनी ॥

उरःसूत्रिका, स्त्री, (उरसः सूत्रमिव । इवे प्रति-

कृताविति कन् ।) मुक्तारचितहारः । इत्यमरः ॥

उरगः, पुं, । (उरसा गच्छतीति । उरसो लोपश्चेति

डप्रत्ययः सकारलोपश्च ।) सर्पः इत्यमरः ॥
(अङ्गुलीवोरगक्षता” । इति रघुः १ । २८ ।)
सीसकम् । इति राजनिर्घण्टः ॥

उरगस्थानं, क्ली, (उरगाणां सर्पाणां स्थानम् ।)

पातालम् । इति शब्दरत्नावली ॥

उरगाशनः, पुं, (उरगान् सर्पान् अश्नातीति । उरग

+ अश + ल्यु ।) गरुडपक्षी । इति जटाधरः ॥
(“स्वावासभागमुरागाशनकेतुयष्ट्या” ।
इति माघः । ५ । १३ ॥)

उरङ्गः, पुं, (उरसा गच्छतीति । उरस् + गम् + ड ।

निपातनात् सिद्धम् ।) उरङ्गमः । इत्यमरटीकायां
रायमुकुटः ॥

उरङ्गमः, पुं, स्त्री, (उरसा गच्छतीति । उरस् + गम्

+ खच् ।) सर्पः । इति व्याकरणम् ॥

उरणः, पुं, स्त्री, (ऋ + “अर्त्तेः क्युजुच्च” । ५ । १७ ।

इति उणादिसूत्रेण क्युच् उत्वं रपरत्वञ्च ।) मेषः ।
इत्यमरः ॥ (यथा, ऋग्वेदे २ । १४ । ४ । “यः
उरणं जघान नवचख्वांसं नवतिञ्च बाहून्” ।
तथा हरिवंशे २६ । २९ ।
“उत्सृष्टावरणौ दृष्ट्वा राजा गृह्यागतो गृहम् ॥)
मेघः । इति उणादिकोषः ॥

उरणाक्षः, पुं, (उरणस्य मेषस्याक्षीवाक्षि यस्य ।

तत्तुल्यपुष्पत्वात् तथात्वम् । अक्ष्णोदर्शनादित्यच् ॥)
वृक्षविशेषः । एडाँचि इति भाषा । चाकुन्दा इति
केचित् । तत्पर्य्यायः । प्रपुन्नाडः २ एडगजः ३
दद्रुघ्न ४ चक्रमर्द्दकः ५ पद्माटः ६ । इत्यमरः ॥ उर-
णाख्यः ७ प्रपुन्नडः ८ प्रपुनाडः ९ । इति तट्टीका ॥
(अस्य गुणादय एडगजशब्दे ज्ञातव्याः ॥)

उरणाक्षकः, पुं, (उरणाक्ष + स्वार्थे कन् ।) उरणाक्ष-

वृक्षः । इति शब्दरत्नावली ॥

उरणाख्यः, पुं, (उरणस्य मेषम्य आख्या इव आख्या

यस्य ।) दद्रुघ्नवृक्षः । इत्यमरटीकायां स्वामी ॥

उरणाख्यकः, पुं, (उरणाख्य + स्वार्थे कन् ।) दद्रुघ्न-

वृक्षः । इति शब्दरत्नावली ॥

उरभ्रः, पुं, स्त्री, (उरु कठोरं भ्रमति । भ्रमु चलने ।

अन्येभ्योऽपीति डः । पृषोदरादित्वात् साधुः ।)
मेषः । इत्यमरः ॥ (मेषशब्देऽस्य गुणादिकंज्ञेयम् ॥)

उररी, व्य, (व्ये + बाहुलकात्ररीक् । सम्प्रसारणञ्च ।)

स्वीकारः । विस्तारः । इत्यमरः । (यथा, साहित्य-
दर्पणे २ य परिच्छेदे । “इति काल्पनिकं भेद-
मुररीकृत्य” ॥)

उररीकारः, पुं, (उररीकरणम् । उररी + कृ +

घञ् ।) अङ्गीकारः । इति जटाधरः ॥

उररीकृतः, त्रि, (उररी + कृ + क्त ।) अङ्गीकृतः ।

विस्तृतः । इत्यमरः ॥

उरश्छदः पुं, (उरो वक्षःस्थलं छाद्यतेऽनेनेति । उरस

+ छद + घ ।) कवचः । इत्यमरः ॥ (रामायणे
३ काण्डे । “काञ्चनोरश्छदाश्चेमे पिशाचवदनाः
खराः ॥)

उरसिजः, पुं, (उरसि वक्षःस्थले जायते । उरस् +

जन् + ड । सप्तम्या अलुक ।) स्त्रीस्तनः । इति
हलायुधः ॥ (यथा रामायणे ।)
“परिपस्पृशिरे चनं पीनैरुरसिजैर्मुहुः” ॥)

उरसिलः, त्रि, (प्रशस्तं अतिशयितं वा उरो वक्षो

यस्य । उरस् + इलच् ।) प्रशस्तवक्षोयुक्तः । इत्य-
मरः ॥

उरस्कटः, पुं, (उरः कट्यतेऽनेन । उरस् + कट् + क ।)

बालयज्ञोपवीतकम् । वुकवाछाड इति ख्यातम् ।
पञ्चवटश्च तत्पर्य्यायः । इति त्रिकाण्डशेषः ॥

उरस्त्राणं, क्ली, (उरसस्त्राणं भवत्यस्मात् ।) बक्ष-

स्त्राणकवचम् । तत्पर्य्यायः । नागोदरम् २ । इति
हारावली ॥

उरस्यः, त्रि, (उरसा निर्म्मितः । उरस् + यत् ।)

औरसजातः । इत्यमरः ॥

उरस्वान्, [त्] त्रि, (प्रशस्तमतिशयितं वा उरो

वक्षःस्यलं यस्य । उरस् + मतुप् + मस्य वः ।)
प्रशस्तवक्षोयुक्तः । तत्पर्य्यायः । उरसिलः २ ।
इत्यमरः ॥

उरी, व्य, (वयतेरीक् बाहुलकात् सम्प्रसारणञ्च ।)

स्वीकारः । विस्तारः । इत्यमरः ॥
(यथा रघौ १५ ॥ ७० ।
“उरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत्” ॥)

उरीकृतः, त्रि, (उरी + कृ + क्त ।) अङ्गीकृतः । वि-

स्तृतः । इत्यमरः ॥

उरुः, त्रि, (उर्णौति । ऊर्णू + “महति ह्रस्वश्च”

पृष्ठ १/२७२
:४ । १ । ३२ । इति उणादिसूत्रेण कुः नुलोपो
ह्रस्वश्च ।) महान् । वड इति भाषा । तत्पर्य्यायः ।
वड्रम् २ विपुलम् ३ विशङ्कटम् ४ पृथु ५ वृहत् ६
विशालम् ७ पृथुलम् ८ महत् ९ । इत्यमरः ॥
विस्तीर्णम् १० विकटम् ११ । इति जटाधरः ॥
(यथा, महाभारते १ । सौपर्णे । २१ । १८ ।
“विलीर्णं ददृशतुरम्बरप्रकाशं
तेऽगाधं निधिमुरुमम्भसामनन्तम्” ।
बहुलम् । यथा, ऋग्वेदे १ । २९ “तुविजिता
उरुक्षयां” । “उरुक्षयो बहुनिवासौ” इति
भाष्यम् ॥)

उरुकालः, पुं, (उरुर्महान् कालः कृष्णवर्णः परिणामे

यस्य । पाकवशादस्याभ्यन्तरं कृष्णवर्णं जायते
अतस्तथात्वम् ।) महाकाललता । इति रत्नमाला ॥
माकाल फलेर गाछ इति भाषा । (अस्य पर्य्या-
यो यथा, --
“उरुकालो महाकालः किम्पाकः काकमर्द्दकः” ।
इति च तत्रैव । अस्य गुणाश्च महाकालशब्दे-
ज्ञेयाः ॥)

उरुकालकः, पुं, (उरुकाल + स्वार्थे कन् ।) महाकाल-

लता । इति त्रिकाण्डशेषः ॥

उरुगायः, पुं, (उरुभिर्महद्भिर्गीयते यः । उरु + गै +

घञ् ।) श्रीकृष्णः । (यथा, श्रीभागवते २ । ३ । २० ।
“जिह्वा सती दार्द्दुरिकेव सूत
न चोपगायत्युरुगायगाथाः” ।
विस्तीर्णा गतिः । यथा, कटोपनिषादे । २ । ११ ।
“स्तोममहदुरुगायं प्रतिष्ठान् दृष्ट्वा धृत्वा धीरो
नचिकेतोऽत्यप्राक्षीः” । उरुगायं विस्तीर्णां गतिं ।
इति भाष्यम् ।)

उरुरी, व्य, उररी । इति भरतः द्विरूपकोषश्च ॥

उरुवुकः, पुं, एरण्डवृक्षः । इत्यमरटीकायां राय-

मुकुटः ॥

उरुवूकः, पुं, (उरुं महान्तं वायतीति । उरु + वै +

उलकादयश्चेति ऊकः ।) एरण्डवृक्षः । इत्यमरः ॥
रक्तैरण्डः । इति राजनिर्घण्टः ॥
(“लघु भिन्नशकृत्तिक्तं लाङ्गुलक्युरुवूकयोः” ।
इति चरके सूत्रस्थाने २७ अध्यायः ॥)

उरुव्यचाः, [स्] पुं, (उरं महान्तं विचतीति ।

इरु + व्यच् + अस् ।) राक्षसः । इत्युणादिकोषः ॥
(अतिव्यापके, त्रि, यथा ऋग्वेदे ३ । ५० । १ ओ-
रुव्यचाः पृणतामेभिरन्नः ॥)

उरोजः, पुं, (उरसि वक्षःस्थले जायते । उरस् ।

जन् + ड ।) स्तनः । इति हेमचन्द्रः ॥

उर्ज्जितं, त्रि, (उर्ज्ज + क्त ।) वर्द्धितम् । इति श्री-

भागवतम् ॥ (प्रख्यातम् । यथा, ग्घुः ७ । ३८ ।
“बाणाक्षरैरेव पुरस्परम्य
नामोर्ज्जितं चापभृतः शशंसुः” ।
उर्ज्जितं प्रख्यातम् इति तट्टीका ॥)

उर्णनाभः, पुं, (उर्णेव सूत्रं नामौ गर्मे यस्य । समामे

ह्रस्वः ।) मर्क्वटकः । इति शब्दरत्नावली ॥ माक-
डसा इति भाषा ॥

उर्णा, स्त्री, मेषादिलोम । भ्रद्वयमध्यावर्त्तः । इत्य-

मरटीकायां रमानाथः ॥ (“ललाटपट्टे नवनलिन-
नालभङ्गतन्वीयमुर्णा परिस्फुरति” । इति का-
दम्बरी ॥)

उर्द, ङ परिमाणे । क्रीडायाम् । स्वादे । इति कविक-

ल्पद्रमः ॥ (भ्वादिं-आत्मं-सकं-क्रीडायां, अकं-सेट् ।)
ह्रस्वादीरेफमध्यः । दीर्घस्य नित्यत्वात् दीर्घादि-
रिति कश्चित् । ङ उर्द्दते कनकं वणिक् । इति
दुर्गादासः ॥

उर्द्रः, पुं, (उर्द् + र ।) जलाखुः । इति शब्दरत्ना-

वली ॥ उद्विडाल इतिभाषा ।

उर्व्व, ई, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वादिं-

परं-सकं-सेट् ।) ह्रस्वादिः । र्व्यनच्तयीति दीर्घे
ऊर्व्वति । क्विपि राच्छ्वोर्लेप इति वलीपे ऊः उरौ
उरः । एवं सर्व्वत्र । ई ऊर्णः । इति दुर्गादासः ॥

उर्व्वटः, पुं, (उरुर्महान् अटोऽटनं यस्य ।) वत्सरः ।

इति त्रिकाण्डशेषः ॥

उर्व्वरा, स्त्री, (ऋच्छतीति । ऋ + अच् + टाप् ।

यद्वा उर्व्यते उर्व्व + घ । यद्वा उर्व्वं राति । उर्व
+ रा + क्विप् ।) सर्व्वशस्याठ्या भूमिः । (यथा
अथर्व्ववेदे १० । ६ । ३३ । “यथा वीजमुर्व्वरायां
कृष्टे कालेन रोहति” ।) भूमीमात्रम् । इति हेम-
चन्द्रः ॥ (अप्सरोमेदः । यथा काशीखण्डे ।
“कलानिधिर्गुणनिधिः कर्पूरतिलकोर्व्वरा” ॥)

उर्व्वशी, स्त्री, (उरून् महतोऽपि अश्नुते व्याप्नोति

वशीकरोतीति यावत् । यद्वा ऊरुं नारायणस्य
महर्षेरूरुप्रदेशं अनुते योनित्वेन व्याप्नोतीति ।
उरु + अश् + क । गौरादित्वात् ङीष् ।) स्वना-
मख्यातस्वर्गवेश्या । इत्यमरः ॥ तस्या उत्पत्तिर्ह
रिवंशे । नारायणोरुं निर्मिद्य सम्भूता वरवर्णिनी ।
मनीषादित्वात् ह्रस्वादिः ॥
(अस्या उत्पत्तिकथा उक्ता भागवते ११ । ४ । ६-१६ ।
यथा, --
“धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यां
नारायणो नर ऋषिप्रवरः प्रशान्तः ।
नैष्कर्म्म्यलक्षणमुवाच चचार कर्म्म
योऽद्यापि चास्त ऋषिवर्य्यनिषेविताङ्घ्रिः ॥
इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति
कामं न्ययुङ्क्त सगणं स वदर्य्युपाख्यम् ।
गत्वाप्सरोगणवसन्तसुमन्दवातैः
स्त्रीप्रेक्षणेषुभिरविध्यदतन्मतिज्ञः ॥
विज्ञाय शक्रकृतमक्रममादिदेवः
प्राह प्रहस्य गतविस्मय एजमानान् ।
मा भैष्ट भो मदनमारुतदेवबध्वो
गृह्णीत नो बलिमशून्यमिमं कुरुध्वम् ॥
इत्थं ब्रुवत्यभयदे नरदेव ! देवाः
सव्रीडनम्रशिरसः सघृणं तमूचुः ।
नैतत् विभो त्वयि परे विकृते विचित्रं
स्वारामधीरनिकंरानतपादपद्मे ॥
त्वां सेवतां सुरकृता बहवोऽन्तरायाः
स्वौको विलङ्घ्य परमं व्रजतां पदं ते ।
नान्यम्य वर्हिषि बलीन् ददतः स्वभागान् ।
धत्ते पदं त्वमविता यदि विघ्नमूर्द्ध्नि ॥
क्षुत्त्रिट्त्रिकालगुणमारुतजैह्व्यशैश्न्या-
नस्मानपारजलधीनतितीर्य्य केचित् ॥
क्रोधस्य यान्ति विफलस्य वशं पदे गो-
र्मज्जन्ति दुञ्चरपथश्च वृथोत्सृजन्ति ।
इति प्रगृणतां तेषां स्त्रियोऽत्यद्भुतदर्शनाः ।
दर्शयामास शुश्रूषां स्वर्चिताः कुर्व्वतीर्विभुः ॥
ते देवानुचरा दृष्ट्वा स्त्रियः श्रीरिव रूपिणीः ।
गन्धेन मुमुहुस्तासां रूपौदार्य्यहतश्रियः ॥
तानह देवदेवेशः प्रणतान् प्रहसन्निव ।
आसामेकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥
ओमित्यादेशमादाय नत्वा तं सुरवन्दिनः ।
उर्व्वशीमप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥
इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् ।
ऊचुर्नारायणबलं शक्रस्तत्रास विस्मितः” ॥
पुराणान्तरेषु ऋषिप्रवरोऽयं नारायणो निजो-
रुदेशं निर्भिद्य अप्सरःश्रेष्ठाभेनामुर्व्वशीं देवगणेभ्यो
ददौ इति दृश्यते ॥
इयं हि चन्द्रवंशावतंसे बुधपुत्त्रे पुरूरवसि
राजनि बद्धप्रणया बहुकालं तेन सह रेमे । एत-
त्कथा उक्ता हरिवंशे २६ अध्याये ॥ यथा,
जनमेजय उवाच ।
“गन्धर्व्वी उर्व्वशी देवी राजानं मानुषं कथम् ॥
देवानुत्सृज्य सम्प्राप्ता तन्मे ब्रूहि बहुश्रुत ॥
वशम्पायन उवाच ।
ब्रह्मशापाभिभूता सा मानुषं समपद्यत ।
ऐलन्तु सा वरारोहा समयात्समुपस्थिता ॥
आत्मनः शापमोक्षार्थं समयं सा चकार ह ।
अनग्नदर्शनञ्चैव सकामायाश्च मैथुनम् ॥
द्वौ मेषौ शयनाभ्यासे सदा बद्धौ च तिष्ठतः ।
घृतमात्रा तथाहारः कालमेकन्तु पार्थिव ॥
यद्येष समयो राजन् यावत्कालञ्च ते दृढः ।
तावत्कालन्तु वत्स्यामि कृतः समय एष नः ॥
तस्यास्तं समयं सर्व्वं स राजा समपालयत् ।
एवं सा वसते तत्र पुरूरवसि भाविनौ ॥
वर्षाण्येकोनषष्टिन्तु तद्भक्ता शापमोहिता ।
उर्व्वश्यां मानुषस्थायां गन्धर्व्वाश्चिन्तयान्विताः ॥
गन्धर्व्वा ऊचुः ।
चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ।
समागच्छेत् पुनर्द्देवानुर्व्वशी स्वर्गभूषणम् ॥
ततो विश्वावसुर्नाम तत्राह वदतां वरः ।
मया तु समयस्ताभ्यां क्रियमाणः श्रुतः पुरा ॥
व्युत्क्रान्तसमयं सा वै राजानं त्यक्ष्यते यथा ।
तदहं वेद्म्यशेषेण यथा भेत्स्यत्यसौ नृपः ॥
ससहायो गमिष्यामि युष्माकं कार्य्यसिद्धये ।
एवमुक्त्वा गतस्तत्र प्रतिष्ठानं महायशाः ॥
निशायामथ चागम्य मेषमेकं जहार सः ।
मातृवत् वर्त्तते सा तु मेषयोश्चारुहासिनी ॥
गन्धर्व्वागमनं ज्ञात्वा शापान्तञ्च यशस्विनी ।
राजानमब्रवीत्तत्र पुत्त्रो मे ह्रियतेति सा ॥
एवमुक्तो विनिश्चित्य नग्नो नैवोदतिष्ठत ।
नग्नं मां द्रक्ष्यते देवी समयो वितथो भवेत् ॥
तवो भूयस्तु गन्धर्व्वा द्वितीयं मेषमाददः ।
पृष्ठ १/२७३
:द्वितीये तु गते मेषे ऐलं देव्यब्रवीदिदम् ॥
पुत्त्रो मे ह्रियते राजन्ननाथाया इव प्रभो ।
एवमुक्तस्तदोत्थाय नग्नो राजा प्रधावितः ॥
मेषयोः पदमन्विच्छन् गन्धर्व्वैर्विद्युदप्यथ ।
उत्पादिता सुमहती ययौ तद्भवनं महत् ॥
प्रकाशितं वै सहसा ततो नग्नमवैक्षत ।
नग्नं दृष्ट्वा तिरोभूता साप्सराः कामचारिणी ॥
तिरोभूतान्तु तां दृष्ट्वा गन्धर्व्वा ह्यगमन्दिवम् ॥
उत्सृष्टावुरणौ दृष्ट्वा राजा गृह्यागतो गृहम् ।
अपश्यन्नुर्व्वशीं तत्र विललाप सुदुःखितः ॥
चचार पृथिवीञ्चापि मार्गमाण इतस्ततः ।
अथापश्यत् स तां राजा कुरुक्षेत्रे महाबलः ॥
प्लक्षतीर्थे पुष्करिण्यां हैमवत्यां समाप्लुताम् ।
क्रीडन्तीमप्सरोभिश्च पञ्चभिः सह शोभनाम् ॥
तां क्रीडन्तीं ततो दृष्ट्वा विललाप सुदुःखितः ।
सा चापि तत्र तं दृष्ट्वा राजानमविदूरतः ॥
उर्व्वशी ताः सखीः प्राह स एष पुरुषोत्तमः ।
यस्मिन्नहमवात्सं वै दर्शयामास तं नृपम् ॥
समाविग्नास्तु ताः सर्व्वाः पुनरेव नराधिप ।
जायेहो तिष्ठ मनसा घोरे वचसि तिष्ठ ह ॥
एवमादीनि सूक्तानि परस्परमभाषताम् ।
उर्व्वशी चाब्रवीदैलं सगर्भाहं त्वया विभो ॥
संवत्सरात् कुमारास्ते भविष्यन्ति न संशयः ।
निशामेकाञ्च नृपते निर्व्वत्स्यसि मया सह ॥
हृष्टो जगाम राजाथ स्वपुरं सुमहायशाः ।
गते संवत्सरे भूय उर्व्वशी पुनरागमत् ॥
उषितश्च तया सार्द्धमेकरात्रं महायशाः” ॥ * ॥)
(नदीभेदः । उर्व्वशीतीर्थः । यथा, महाभारते १३ ।
आङ्गिरसतीर्थयात्रायां २५ । ४४ ।
“उर्व्वशीं कृत्तिकायोगे गत्वा चैव समाहितः ।
लौहित्ये विधिवत् स्नात्वा पुण्डरीकफलं लभेत्” ॥)

उर्व्वशीरमणः, पुं, (उर्व्वश्याः स्वर्व्वेश्याया रमणः प्रियः ।)

उर्व्वशीपतिः । स तु चन्द्रवंशीयराजविशेषः ।
तत्पर्य्यायः । पुरूरवाः २ बौधः ३ ऐलः ४ । इति
हेमचन्द्रः ॥ (अस्य विवरणन्तु उर्व्वशीशब्दे-
द्रष्टव्यम् ॥)

उर्व्वशीवल्लभः पुं, (उर्व्वश्याः वल्लभः पतिः ।) ऐल-

नृपतिः । इति त्रिकाण्डशेषः ॥

उर्व्वारुः, पुं, (उरु + ऋ + उण् ।) इर्व्वारुः । इति

भरतो द्विरूपकोषश्च ॥ काँकुड इति भाषा ।
(कर्कटीशब्देऽस्य गुणादयो ज्ञातव्याः ॥)

उर्व्वी, स्त्री, (उर्णौति इति । ऊर्णूञ् + “महति ह्रस्व-

श्च” । १ । ३२ । उणादिसूत्रेण कुः नुलोपो ह्रस्वश्च ।
बोतो गुणवचनादिति ङीष् ।) पृथिवी । इत्य-
मरः ॥ (“हिरण्मयोर्व्वीरुहवल्लितन्तुभिः” ।
इति माघे १ । ७ । तथा, रघुः । १ । ३० ।
“अनन्यशासनामुर्व्वीं शशासैकपुरीमिव” ॥)

उल दाहे । सौत्रधातुरयम् । इति कविकल्पद्रुमः ॥

(परं-सकं-सेट् ।) उल्का । उलपम् । इति दुर्गा-
दासः ॥

उलपः, पुं, (वलतीति । वल + “विटपपिष्टप-

विशिपोलपाः” । ३ । १०५ । इति उणादिसूत्रेण
कपः सम्प्रसारणञ्च ।) विस्तीर्णा लता । सा तु
त्रपुषीद्राक्षाताम्बूल्यादिः । तत्पर्य्यायः । वीरुत् २
गुल्मिनी ३ । इत्यमरः ॥ प्रताना ४ । इति जटा-
धरः ॥ प्रतानिनी ५ वीरुधा ६ वरुत् ७ । इति शब्द-
रत्नावली ॥ मेदिनीमते क्लीवमपि । तृणविशेषः ।
इति विश्वमेदिन्यौ ॥ उलुखड इति भाषा ॥

उलिन्दः, पुं, (वल + किन्दः सम्प्रसारणञ्च ।) देश-

विशेषः । इत्युणादिकोषः ॥

उलुपः, पुं, क्ली, गुल्मिनी । शाखापत्रप्रचययुक्तलता ।

इत्यमरटीकासारसुन्दरी काचिन्मेदिनी च ॥

उलुपः, पुं, तृणविशेषः । इति केचिद्विश्वमेदिन्यौ ॥

उलुखड इति भाषा ।

उलुपी, [न्] पुं, (उलुपैवाकृतिर्विद्यते यस्य ।

उलुप + इनि ।) शिशुकः । इत्यमरः ॥ तदाकृ-
तिमत्स्यः । इति शब्दरत्नावली ॥

उलूकं, क्ली, (वल + “उलूकादयश्च” । ४ । ४१ । इति

उणादिसूत्रेण निपातनात् ऊकः सम्प्रसारणञ्च ।)
तृणविशेषः । उलुखड इति भाषा । तत्पर्य्यायः ।
सूच्यग्रः २ स्थूलकः ३ दर्ष्मः ४ जूर्णाख्यः ५ खरच्छदः ६
उलपः ७ उलुपः ८ । इति रत्नमालादयः ॥

उलूकः, पुं, (उचतीति, उच समवाये, उलूकादय-

इति साधु, यद्वा वलते, उलूकादित्वात् वलेः सम्प्र-
सारणम् ऊकश्च ।) पेचकपक्षी । इत्यमरः ॥ तत्-
पर्य्यायः । तामसः २ घूकः ३ दिवान्धः ४ कौ-
शिकः ५ कुशिः ६ नक्तञ्चरः ७ निशाटः ८ का-
कारिः ९ घोरदर्शनः १० । इति राजनिर्घण्टः ॥
(“त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः” ।
इति माघे ११ । ६४ । तथा, मनुः ११ । १३१ ।
“श्वगोधोलूककाकांश्च शूद्रहत्याव्रतञ्चरेत्” ॥)
इन्द्रः । (“उलूकाविन्द्रपेचकौ” । इत्युणादिवृत्तिः ।
४ । ४१ ।) भारतयोधी । सच शकुनिपुत्त्रः । इति
हेमचन्द्रः ॥ (यथा, महाभारते ।
“आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ।
उलूक गच्छ कैतव्य ! पाण्डवान् सहसोमकान्” ॥
विश्वामित्रपुत्त्रः । यथा, भारते १३ । ४ । ५१ ।
“उलूकोऽथ मुद्गलश्च तथर्षिः सैन्धवायनः” ।)
उलूकदेशवासिनि त्रि । यथा, महाभारते २ ।
२७ । ११ ।
“उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत्” ॥)

उलूकी, स्त्री, ताम्रायाः सुता शुकी तस्याः कन्या ।

यथा, -- विष्णुपुराणे १ अंशे २१ । १४ -- १६ ।
“षट्सुतास्तु महासत्त्वास्ताम्रायाः परिकीर्त्तिताः ।
शुकी श्येनी च भासी च सुग्रीवी-शुचि-गृध्रिकाः ॥
शुकी शुकानजनयत् उलूकी प्रत्युलूककान् ।
श्येनी श्येनांस्तथा भासी भासान् गृध्रांश्च गृध्यपि ॥
शुच्यौदकान् पक्षिगणान् सुग्रीवी तु व्यजायत ।
अश्वान् उष्ट्रान् गर्द्दभांश्च ताम्रावंशः प्रकीर्त्तितः ॥
“ताम्राया वंशमाह षडिति त्रिभिः । सुताः कन्याः
ता एवाह शुकीति । सुग्रीवी च शुचिश्च गृध्रिका च
ताः । उलूकं प्रत्युलूककान् तत्प्रतिपक्षान् काकांश्च ।
उलूकीति पाठेऽपि उलूकीं प्रत्युलूककांश्च सैवा-
जनयदित्यर्थः न पुनरुलूकीसंज्ञा अन्या अनि-
र्दिष्टत्वात् । शुकी शुकानजनयत् उलूकप्रत्युलूक-
कानिति मात्स्योक्तेः । शुच्यौदकान् शुचिरेव शुची
सा औदकान् जलजान् पक्षिगणान् व्यजायत ।
सुग्रीवी तु अश्वादीन् व्यजायत इत्यन्वयः । ता-
म्राया दंशः परिकीर्त्तित इत्युपसंहारः” । इति
तट्टीकायां श्रीधरस्वामी ॥

उलूखलं, क्ली, (ऊर्द्ध्वं खमुलूखम् । पृषोदरादित्वात्

साधुः । उलूखं लाति गृह्णातीति । आतोनुपेति
कः ।) उदूखलम् । इत्यमरः ॥ (यथा, मनुः
३ । ८८ ।
“वनस्पतिभ्य इत्येवं मुषलोलूखले हरेत्” ।
(“श्टते पयसि मृद्गीयादापोथ्योलूखले ततः” ।
इति चरके चिकित्सास्थाने दशमेऽध्याये ॥) गुग्-
गुलुः । इति भरतो द्विरूपकोषश्च ॥

उलूखलकं, क्ली, (उलूखल + स्वार्थेकः ।) गुग्गलुः ।

इत्यमरः ॥ (उलूखलं कायति शब्दयति यः इति
व्युत्पत्त्या वाच्यलिङ्गः । विद्वान् । यथा, ऋग्वेदे
१ । २८ । ५ ।
“यच्चिद्धि त्वं गृहे गृह उलूखलक युज्यसे” ।
“हे उलूखलक हे विद्वन्” इति भाष्यम् ।)

उलूतः, पुं, (उलतिं हिनस्ति यः । उल् + बाहुलकात् ।

ऊतच् ।) अजगरसर्पः । इति त्रिकाण्डशेषः ॥

उलूपी, [न्] पुं, (उ विस्मयजनकं रूपमस्यास्तीति ।

इनिः । रलयोरैक्यम् ।) शिशुकः । इत्यमरः ॥
उपलैति ख्यातः अतिचञ्चलमत्स्यः । शिशु-
माराकृतिर्मत्स्यभेदः । इति कलिङ्गादयः ॥ शोशु
इति ख्यातः मत्स्यविशेषः । इत्यन्ये ॥ भाँगाल
इति ख्यातः । इत्येके ॥ शिशुमारएव उच्यते ।
इति सर्व्वस्वम् ॥ तथा च रत्नकोषादौ ॥ “चुलुपी
शिशुमारः स्यादुलूपी शिशुकस्तथा” । इत्यमर-
टीकायां भरतः ॥

उलूपी, स्त्री, कौरव्यनामनाग-कन्या सा तु अर्ज्जुन-

पत्नी । (तत्कथा महाभारते आदिपर्ब्बणि । २१५
अध्याये उक्ता । यथा, --
उलूप्युवाच ।
“ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तस्यास्मि दुहिता राजन् उलूपी नाम पन्नगी ॥
साहं त्वामभिसेकार्थमवतीर्णा समुद्रगां ।
दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता ॥
तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन ! ।
अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ” ! ॥
अर्ज्जुन उवाच ।
ब्रह्मचर्य्यमिदं भद्रे ! मम द्वादशवार्षिकम् ।
धर्म्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ॥
तव चापि प्रियं कर्त्तुमिच्छामि जलचारिणि ! ।
अनृतं नोक्तपूर्ब्बञ्च मया किञ्चन कर्हिचित् ।
कथञ्च नानृतं मे स्यात् तव परिप्रियं मवेत् ॥
न च पीड्येत मे धर्म्मस्तथा कुर्य्यां भुजङ्गमि ! ॥
उलूप्युवाच ।
जानाम्यहं पाण्डवेय ! यथा चरसि भेदिनीम् ।
यथा च ते ब्रह्मचर्य्यं इदमादिष्टवान् गुरुः ॥
परस्परं वर्त्तमानां द्रपदास्यात्मजां प्रति ।
पृष्ठ १/२७४
:यो नोऽनुप्रविशेन्मोहात् स वै द्वादशवार्षिकम् ॥
वने चरेत् ब्रह्मचर्य्यमिति वः समयः कृतः ।
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् ॥
कृतवांस्तत्र धर्म्मार्थमत्र धर्म्मो न दुष्यति ।
परित्राणञ्च कर्त्तव्यमार्त्तानां पृथुलोचन ! ॥
कृत्वा मम परित्राणं तव धर्म्मो न लुप्यते ।
यदि वाप्यस्य धर्म्मस्य सूक्ष्मोऽपि स्यात् व्यतिक्रमः ॥
स च ते धर्म्म एव स्यात् दत्त्वा प्राणान् ममार्ज्जुन ! ।
भक्ताञ्च भज मां पार्थ ! सतामेतन्मतं प्रभो ! ॥
न करिष्यसि चेदेवं मृतां मामुपधारय ।
प्राणदानान्महाबाहो चर धर्म्ममनुत्तमम् ॥
शरणञ्च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ! ।
दोनाननाथान् कौन्तेय ! परिरक्षसि नित्यशः ॥
साहं शरणमभ्येमि रोरवीमि च दुःखिता ।
याचे त्वाञ्चाभिकामाहं तस्मात्कुरु मम प्रियम् ॥
स त्वमात्मप्रदानेन सकामां कर्त्तुमर्हसि ॥
वैशम्पायन उवाच ।
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।
कृतवांस्तत्तथा सर्व्वं धर्म्ममुद्दिश्य कारणम् ॥
स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।
उदितेऽभ्युत्थितः सूर्य्ये कौरव्यस्य निवेशनात् ॥
आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह ।
परित्यज्य गता साध्वी उलूपी निजमन्दिरम् ॥
दत्त्वा वरमजेयत्वं जले सर्व्वत्र भारत ! ।
साध्या जलचराः सर्व्वे भविष्यन्ति न संशयः” ॥ * ॥)

उल्का, स्त्री, (ओषतीति । उष दाहे “शुकवल्कोल्का”

३ । ४२ । इति उणादिसूत्रेण क-प्रत्ययात् साधुः ।)
तेजःपुञ्जः । इत्यमरटीकायां भरतः ॥ अग्निशिखा ॥
अग्निः । इत्युणादिकोषः ॥ (यथा,
“तुलाराशिं गते भानौ अमावस्यां नराधिपः ।
स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च ॥
कृत्वा तु पार्ब्बणश्राद्धं दधिक्षीरगुडादिभिः ।
ततोऽपराह्णसमये घोषयेन्नगरे नृपः ॥
लक्ष्मीः संपूज्यतां लोकाउल्काभिश्चापि वेष्ट्यताम्” ।
इति तिथितत्त्वे अमावस्याप्रकरणे ।) आकाशात्
पतिताग्निः । इति रायमुकुटादयः ॥
(“तञ्चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा
बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः” ।
इति मेघदूते पूर्ब्बमेघे ५४ श्लोकः ।
“उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च”
इति मनुः । १ । ३८ ।) अस्या लक्षणम् ।
“वृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला ।
पौरुषीयप्रमाणेन उल्का नानाविधा स्मृता” ॥
इति काश्यपः ॥
(अस्याः कारणमाह गर्गसंहितायाम् ।
“अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः ।
नरापचारात् नियतमुपसर्गः प्रवर्त्तते ॥
ततोऽपराधात् नियतमपवर्जन्ति देवताः ।
ताः सृजन्त्यद्भुतांस्तांस्तु दिव्यनाभसभूमिजान् ॥
तएव त्रिविधा लोके उत्पाता देवनिर्म्मिताः ।
विचरन्ति विनाशाय रूपैः संबोधयन्ति च” ॥
अस्या लक्षणादिकञ्चोक्तं वृहत्संहितायां ३३ अ-
ध्याये । तद्यथा, --
“दिविभुक्तशुभफलानांपततांरूपाणिवानितान्युल्काः ।
धिष्णोल्काशनिविद्युत्ताराइतिपञ्चधा भिन्नाः ॥ १ ॥
उल्का पक्षेण फलं तद्वद्धिष्णाशनिस्त्रिभिः पक्षैः ।
विद्युदहोभिः षड्भिस्तद्वत्तारा विपाचयति ॥ २ ॥
तारा फलपादकरी फलार्द्धदात्री प्रकीर्त्तिता धिष्णा ।
तिस्रः सम्पूर्णफला विद्युदथोल्काशनिश्चेति ॥ ३ ॥
अशनिःस्वनेनमहतानृगजाश्वमृगाश्मवेश्मतरुपशुषु ।
निपतति विदारयति धरातलं ॥ चक्रसंस्थाना ॥ ४ ॥
विद्युत्सत्त्वत्रासं जनयन्ती तटतटस्वना सहसा ।
कुटिलविशालानिपततिजीवेन्धनराशिषुज्वलिता ५
धिष्णाकृशाल्पपुच्छाधनूंषिदशदृश्यतेऽन्तराभ्यधिकं ।
ज्वलिताङ्गारनिकाशा द्वौहस्तौ सा प्रमाणेन ॥ ६ ॥
तारा हस्थं दीर्घा शुक्ला ताम्राब्जतन्तुरूपा वा ।
तिर्य्यगधश्चोर्द्ध्वंवा याति वियत्युह्यमानेव ॥ ७ ॥
उल्काशिरसिविशालानिपतन्ती वर्द्धतेप्रतनुपुच्छा ।
दीर्घा भवति च पुरुषं भेदा बहवो भवन्त्यस्याः ॥ ८ ॥
प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः ।
गोधाहिधूमरूपाः पापा या चोभयशिरस्काः ॥ ९ ॥
ध्वजझषकरिगिरिकमलेन्दुतुरगसन्तप्तरजतहंसा-
भाः । श्रीवत्सवज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः
॥ १० ॥
अम्बरमध्याद्बह्व्यो निपतन्त्यो राजराष्ट्रनाशाय ।
सम्भमतिगगनोपरिविभ्रममाख्याति लोकस्य ॥ ११ ॥
संस्पृशती चन्द्रार्कौ तद्विसृता वा सभूप्रकम्पा च ।
परचक्रागमनृपबधदुर्भिक्षावृष्टिभयजननी ॥ १२ ॥
पौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिंमाश्वोः ।
उल्का शुभदापुरतो दिवाकरविनिःसृता यातुः ॥ १३ ॥
शुक्ला रक्ता पीता कृष्णा चोल्का द्विजादिवर्णघ्नी ।
क्रमशश्चैतान् हन्युमूर्द्ध्वोँरःपार्श्वपुच्छस्थाः ॥ १४ ॥
उत्तरदिगादिपतिता विप्रादीनामनिष्टदा रूक्षा ।
ऋज्वी स्निग्धा खण्डा नीचोपगता च तद्वृद्ध्यै ॥ १५ ॥
श्यामा वारुणनीलासृग्दहना सितभस्मनिभारूक्षा ।
सन्ध्या दिनजा वक्रा दलिता च परागमभयाय ॥ १६ ॥
नक्षत्रग्रहघाते तद्भक्तीनां क्षयाय निर्दिष्टा ।
उदये घ्नती रवीन्दू पौरेतरमृत्यवेऽस्ते वा ॥ १७ ॥
भाग्यादित्यधनिष्ठामूलेषूल्काहतेषु युवतीनाम् ।
विप्रक्षत्त्रिपीडा पुष्पानिलविष्णुदेवेषु ॥ १८ ॥
ध्रवसौम्येषु नृपाणां उग्रेषु सदारुणेषौचराणां ।
क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥ १९ ॥
कुर्व्वन्त्येताः पतिता देवप्रतिमासु राजराष्ट्रभयम् ।
शक्रोपरि नृपतीनां गृहेषुतत्स्वामिनां पीडाम् ॥ २० ॥
आशाग्रहोपघाते तद्देश्यानां खले कृषिरतानाम् ।
चैत्यतरौ सम्पतिता सत्कृतपीडां करोत्युल्का ॥ २१ ॥
द्वारिपुरस्यपुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः ।
ब्रह्मायतने, विप्रान् विनिहन्याद्गोमिनोगोष्ठे ॥ २२ ॥
क्ष्वेडास्फोटितवादितगीतोत्क्रुष्टस्वनाभवन्तियदा ।
उल्कानिपातसमये भयाय राष्ट्रस्य सनृपस्य ॥ २३ ॥
यस्याश्चिरं तिष्ठति स्वेऽनुषङ्गो दण्डाकृतिः सा नृप-
तेर्भयाय । या चोह्यते तन्तुधृतेव स्वस्था या वा
महेन्द्रध्वजतुल्यरूपा ॥ २४ ॥
श्रेष्ठिनः प्रतीपगा तिर्य्यगा नृपाङ्गनाः ।
हन्त्यधोमुखी नृपान् ब्राह्मणानथोर्द्ध्वगा ॥ २५ ॥
वर्हिपुच्छरूपिणी लोकसंक्षयावहा ।
सर्पवत् प्रसर्पिणी योषितामनिष्टदा ॥ २६ ॥
हन्ति मण्डलापुरं छत्रवत्पुरोहितम् ।
वंशगुल्मवत् स्थिता राष्ट्रदोषकारिणी ॥ २७ ॥
व्यालसूकरोपमा विस्फुलिङ्गमालिनी ।
खण्डशोऽथ वा गता सस्वना च पापदा ॥ २८ ॥
सुरपतिचापप्रतिमा राज्यं नभसि विलीना जल-
दान् हन्ति । पवनविलोमा कुटिलं याता न भवति
शस्ता विनिवृत्ता वां ॥ २९ ॥
अभिभवति यतः पुरं बलं वा भवति भयं तत-
एव पार्थिवस्य । निपतति च यया दिशा प्रदीप्ता
जयति रिपूनचिरात् तया प्रयातः” ॥ ३० ॥)

उल्कामुखी, स्त्री, (उल्का अग्निशिखावत् तेजः

मुखे यस्याः ।) जन्तुविशेषः । खेँकश्यालि इति
भाषा । तत्पर्य्यायः । शृगालिका २ लोमालिका ३
दीप्तजिह्वा ४ किखिः ५ । इति त्रिकाण्ड्शेषः ॥

उल्मुकं, क्ली, (ओषतीति । उष दाहे + उल्मुकदर्वीति

निपातनात् धातोः षस्य लः मुकप्रत्ययश्च ।) अ-
ङ्गारः । इत्यमरः ॥ (यथा, शतपथब्राह्मणे ६ । २ । ७
“अन्वाहार्य्यपचनादुल्मुकमादाय” । वृष्णिवंशीय-
राजा । यथा, महाभारते २ । निमन्त्रितराजा-
गमने ३४ । १६ ।
“उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा ।
वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः” ॥)

उल्लङ्घनं, क्ली, (उत् + लघि + ल्युट् ।) अतिक्रमणम् ।

इति पुराणम् ॥ डिङ्गान इति भाषा । (यथा,
कुमारे ३ सर्गे २५ श्लोकस्य टीकायां मल्लिनाथः ।
“समयोल्लङ्घनेन पराङ्गनासङ्गतिं प्रवृत्ते सति” ॥)

उल्ललः, त्रि, (उत् + लल् + अच् ।) बहुरोमयुक्तः ।

तत्पर्य्यायः । रोमशः २ । इति हारावली ॥

उल्ललितः, त्रि, (उत् + लल् + क्त ।) तरलितः ।

आन्दोलितः । इति जटाधरः ॥

उल्लसनकं, क्ली, (उल्लसन + स्वार्थ कन् ।) रोमाञ्चः ।

इति हेमचन्द्रः ॥

उल्लाघः, त्रि, (उत् + लाघ् + गत्यर्थेति क्त । निपात-

नात् सिद्धम् ।) गदान्निर्गतः । नीरोगः । इत्यमरः ॥
शुचिः । दक्षः । कृष्णम् । मरीचमितियावत् ।
इति विश्वमेदिन्यौ ॥ कृष्णमित्यत्र हृष्टभिति
कस्याञ्चिन्मेदिन्यां पाठः ॥

उल्लापः, पुं, (उत् + लप् + घञ् ।) शोकरोगादिना

ध्वनिविकारः । तत्पर्य्यायः । काकुवाक् २ । इति
हेमचन्द्रः ॥ (यथाह, भर्तृहरिः । ३ । ६ ।
“खलोल्लापाः सोढाः कथमपि तदाराधनपरैः ॥”)

उल्लासः, पुं, (उत् + लस् + घञ् ।) ग्रन्थपरिच्छेदः ।

इति भूरिप्रयोगः ॥ यथा काव्यप्रकाशे प्रथम-
उल्लास इति प्रयोगः । वृद्धिः । इति श्रीभाग-
वतम् ॥ आह्लादः । प्रकाशः ॥
(“निपतन्ति कन्दलदलोल्लासाः पयोविन्दवः” ।
इति अमरुशतके । ४८ ।)

उल्लिखितः, त्रि, (उत् + लिख + क्त ।) उत्कीर्णः ।

तनूकृतः । इति मेदिनी ॥ चित्रितः । इति शब्द-
पृष्ठ १/२७५
:रत्नावली ॥ ऊर्द्ध्वे लिखितः ॥ (यथा, रघुः । ६३२ ।)
“त्वष्ट्रेव यन्त्रोल्लिखितो विभाति” ॥)

उल्लेखः, पुं, (उत् + लिख् + घञ् ।) उच्चारणम् । कथ-

नम् । इति स्मार्त्ताः ॥ (अलङ्कारभेदः ॥ तल्लक्षणं
यथा, साहित्यदर्पणे १० परिच्छेदे ।
“क्वचिद्भेदाद्गृहीतॄणां विषयाणां तथा क्वचित् ।
एकस्यानेकधोल्लेखो यः स उल्लेख उच्यते” ॥
उदाहरणम् । “प्रियैति गोपबधूभिः शिशुरिति
वृद्धैरधीशैति देवैः । नारायणैति भक्तैर्ब्रह्मे-
त्यग्राहि योगिभिर्देवः” ॥)

उल्लेखनं, क्ली, (उत् + लिख् + ल्युट् ।) वमनम् ।

इति रत्नमाला ॥ खननम् । यथा “भूमेरुल्लेखनं
कुर्य्यात्” । उति स्मृतिः ॥ (यथा, मनुः ५ । १२४ ।
“सन्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन च” ।)
उच्चारणम् । यथा, --
“मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्व्वशः ।
उल्लेखनमकुर्व्वाणो न तस्य फलभाग्मवेत्” ॥
इति तिथ्यादितत्त्वम् ॥

उल्लोचः, पुं, (ऊर्द्ध्वं लोचति । उत् + लोच् + अञ् । यद्वा

ऊर्द्ध्वं लोच्यते । लोच् + घञ् । कुत्त्वन्तु न निष्ठा-
यामनिट इति वचनात् । अस्य तु तन्न सेट्त्वात् ।)
चन्द्रातपः । चाँदोया इति भाषा । तत्पर्य्यायः ।
वितानम् २ । इत्यमरः ॥

उल्लोलः, पुं, (उल्लोडयतीति । लोडृ उन्मादे + णिच्

+ पचाद्यच् । डलयोरैक्यात् डस्य लः ।) महा-
तरङ्गः । वड ढेउ इति भाषा । तत्पर्य्यायः । क-
ल्लोलः २ । इत्यमरः ॥

उल्वं, क्ली, (उल्लीयते इति । उत् + लीङ् श्लेषणे

उल्वादयश्च ४ । ९५ । इति उणादिसूत्रेण साधुः ।)
जरायुः । इत्यमरः ॥ (यथा, गीतायां ३ । ३८ ।
“यथोल्वेनावृतो गर्भस्तथा तेनेदमावृतम्” ।
“जातमात्रं विशोध्योल्वाद्बालं सैन्धवसर्पिषा ।
प्रसूतिक्लेशितञ्चानु बलातैलेन सेचयेत्” ॥
इति वाभटः उत्तरस्थाने १ अध्याये उक्तवान् ॥
“अथ जातस्योल्वं मुखञ्च सैन्धवसर्पिषा विशोध्य
घृताक्तं मूर्द्ध्नि पिचुं दद्यात् ततो नाभिनाडीमष्टा-
ङ्गुलमायम्य सूत्रेण बद्ध्वा च्छेदयेत्तत्सूत्रैकदेशञ्च
कुमारस्य ग्रीवायां सम्यग् बध्रीयात् । इति सुश्रुते
शारीरस्थाने १० अध्याये ॥)

उल्वणं, त्री, (उत् + वण + अच् । पृषोदरादित्वात्

साधुः ।) व्यक्तम् । स्पष्टम् । इत्यमरः ॥
(“श्लेष्मोल्वणा महामूला घना मन्दरुजः सिताः” ॥
इति वाभटे निदानस्थाने ७ अध्याये ॥
“हेतुलक्षणसंसर्गाद्विद्याद्द्वन्द्वोल्वणानि च” ।
इति रुग्विनिश्चयग्रन्थे अर्शोधिकारे ॥
प्रकाशः । निर्बाधः । यथा, रघुः । ४ । ३३ ।
“तस्यासीदुल्वणो मार्गः पादपैरिव दन्तिनः” ॥)

उशती, त्रि, (वश + शतृ + डीप् । सम्प्रसारणम् ।)

अकल्याणवाक् । इति शब्दरत्नावली ॥ (यथा,
अघमर्षणमन्त्रे । “आपो हिष्ठा मयोभुवः स्नान
ऊर्जे दधातन महेरणाय चक्षसे । ॐ यो वः
शिवतमोरसस्तस्य भाजयतेह नः । उशतीरिव-
मातरः” ॥)

उशनाः, [स्] पुं, (वश कान्तौ + “वशेः कनसिः”

। ४ । २३८ । इति उणादिसूत्रेण कनसिः । ग्रह्यादि-
त्वात् सम्प्रसारणम् ।) शुक्राचार्य्यः । इत्यमरः ॥
(यथा, कुमारे ३ । ६ ।
“अध्यापितस्योशनसापि नीतिं
प्रयुक्तरागप्रणिधिर्द्विषस्ते” ॥
स च दैत्यगुरुः । तथा च महाभारते ययाति-
संवादे १ । ७६ । ६ ।
“पौरोहित्येन याज्यत्वे काव्यन्तूशनसं परे” ॥)

उशीक्, [ज्] पुं, (वष्टि उश्यते वा । वश कान्तौ +

“वशः कित्” । २ । ७१ । इति उणादिसूत्रेण इजिः ।
सम्प्रसारणम् ।) अग्निः । घृतं । इति सिद्धान्तकौ-
मुद्यामुणादिवृत्तिः ॥

उशिक्, त्रि, (वश कान्तौ + इजि + सम्प्रसारणम् ।)

कमनीयम् ॥
“न यद्वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद्वायसं तीर्थमुशन्ति मानसाः
न यत्र हंसा निरमन्त्युशिक्क्षयाः” ॥
इति श्रीभागवते १ स्कन्धे ५ अध्यायः । “चित्रपद-
मपि यद्वचो हरेर्यशो न प्रगृणीत तद्वायसं तीर्थं
काकतुल्यानां कामिनां रतिस्थानं उशन्ति मन्यन्ते
कुतः मानसाः सत्त्वप्रधाने मनसि वर्त्तमाना हंसाः
यतयो यत्र न निरमन्ति कर्हिचिदपि नितरां न
रमन्ते । उशिक्क्षयाः उशिक् कमनीयं ब्रह्म
क्षयो निवासो येषां ते यथा प्रसिद्धा हंसाः
मानससरसि चरन्तः कमनीयपद्मषण्डनिवासा-
स्त्यक्तविचित्रान्नादियुक्ते उच्छिष्टगर्त्ते काकक्रीडा-
स्थाने न रमन्ते इति शेषः” । इति तट्टीकायां
श्रीधरस्वामी ॥ (कामयमानम् । यथा ऋग्वेदे
१ । १३१ । ५ “आदित्ते अस्य वीर्य्यस्य चर्किर-
न्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदा-
विथ” । “उशिजो धर्म्मं कामयमानाः जनाः” ।
इति भाष्यम् ॥)

उशी, स्त्री, (वश + ई । सम्प्रसारणम् ।) वाञ्छा ।

इत्युणादिकोषः ॥

उशीनरः, पुं, (उशीप्रदो वाञ्छाप्रदो नरो यत्र ।)

देशभेदः । तत्पर्य्यायः । गान्धारः २ । इति जटा-
धरः ॥ चन्द्रवंशोद्भवराजविशेषः । स तु शिवि-
राजपिता । इति श्रीभागवतम् ॥ (पुरुवंशीयो
नृपभेदः । यथा महाभारते । श्येनकपोतीये । ३ ।
१३० । २१-२३ ।
“उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥
तां देवसमितिं तस्य वासवश्च विशाम्पते ।
अभ्यगच्छन्नृपवरं ज्ञातुमग्निश्च भारत ॥
जिज्ञासमानौ वरदौ महात्मानमुशीनरं ।
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः” ॥
तस्य चारित्रं तत्रैव १३१ अध्याये द्रष्टव्यम् ॥)

उशीरः, पुं, क्ली, (वश कान्तौ + “वशः कित्” । ४ । ३१

इति उणादिसूत्रण ईरन् । सम्प्रसारणम् ।)
वीरणमूलम् । वेनार मूल् खस् इत्यादि भाषा ।
तत्पर्य्यायः । अभयम् २ नलदम् ३ सेव्यम् ४ अमृ-
णालम् ५ जलाशयम् ६ लामज्जकम् ७ लघुलयम् ८
अवदाहम् ९ इष्टकापथम् १० । इत्यमरः ॥ उषीरम्
११ मृणालम् १२ लघु १३ लयम् १४ अवदानम्
१५ इष्टम् १६ कापथम् १७ अवदाहेष्टकापथम्
१८ इन्द्रगुप्तम् १९ । इति तट्टीकायां भरतादयः ॥
जलवासम् २० हरिप्रियम् २१ वीरम् २२ वीरणम्
२३ समगन्धिकम् २४ रणप्रियम् २५ वीरतरु २६
शिशिरम् २७ शीतमूलकम् २८ वितानमूलकम्
२९ जलमेदम् ३० सुगन्धिकम् ३१ सुगन्धिमूलकम्
३२ कम्भु ३३ । इति राजनिर्घण्टः ॥ अस्य गुणाः ।
घर्म्मदार्गन्ध्यदाहपित्तरक्तरोगनाशित्वम् ।
इति राजवल्लभः ॥ अपिच । शीतलत्वम् । तिक्तत्वम् ।
मोहभ्रमापहत्वम् । ज्वरार्त्तिपित्तशमनकारित्वम् ।
जलसौगन्ध्यदायकत्वञ्च । इति राजनिर्घण्टः ॥
(यथा, शाकुन्तले ३ अङ्के । “प्रियंवदे ! कस्येद-
मुशीरानुलेपनं मृणालवन्ति च नलिनीदलानि
नीयन्ते” । अस्य पर्य्यायगुणाः यथा,
“वीरणस्य तु मूलं स्यादुशीरं नलदञ्च तत् ।
अमृणालञ्च सेव्यञ्च समगन्धिकमित्यपि ॥
उशीरम्पाचनं शीतं स्तम्भनं लघु तिक्तकम् ।
मधुरं ज्वरहृद्वान्तिमदनुत्कफपित्तहृत् ॥
तृष्णास्रविषवीसर्पदाहकृच्छ्रव्रणापहम्” ।
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

उशीरकं, क्ली, (उशीर + स्वार्थे कन् ।) वीरणमूलं ।

इति रत्नमाला ॥ (उशीरशब्देऽस्य विशेषो ज्ञेयः ।)

उशीरी, स्त्री, लघुकाशः । छोट काश्या इति भाषा ।

तत्पर्य्यायः । मिषिः २ गुडा ३ अश्वालः ४
नीरजः ५ शरः ६ । अस्य गुणाः । मधुरत्वम् ।
शीतत्वम् । पित्तदाहक्षयरोगनाशित्वञ्च । इति
राजनिर्घण्टः ॥

उष उ बधे, दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं-

परं-सकं-सेट् ।) ह्रस्वादिः । उ ओषित्वा उष्ट्वा ।
ओषति । क्त्वावेट्त्वान्नेमडीश्वीत्यादिना इमो
निषेधे निष्ठायां उष्टः । दहि भस्मीकरणे । इति
द्बुर्गादासः ॥

उष बधे । दहि । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं-

सकं-सेट् ।) ओषति । उषितः । दहि भस्मी-
करणे । इति दुर्गादासः ॥ (यथा, मनुः । ९ । २७३ ।
“यश्चापि धर्म्मसमयात् प्रच्युती धर्म्मजीवनः ।
दण्डेनैव तमप्योषेत् स्वकाद्धर्म्माद्धि विच्युतम्” ॥)

उषं, क्ली, (उष + क ।) पांशुजलवणम् । इति रत्न-

माला ॥

उषः, पुं, (उष + क ।) कामी । गुग्गुलुः । रात्रि-

शेषः । दिनम् । इति मेदिनी ॥ (दहनबधकर्त्तरि,
त्रि ।) क्षारमृत्तिका । इति शब्दरत्नावली ॥

उषः, [स्] क्ली, (ओषति नाशयत्यन्धकारम् ।

उष + “उषः किदिति” ४ । २३३ । उणादिसूत्रेण
असिः ।) प्रत्यूषः । इत्यमरः ।
(“आसीदासन्ननिर्व्वाणः प्रदीपार्च्चिरिवोषसि” ।
इति रघुः । १२ । १ । तथा, माधे । ११ । १७ ।
“पुनरुषसि विविक्तैर्मातरिश्वावचूर्ण्य” ॥)
पृष्ठ १/२७६

उषणं, क्ली, (उष् + बाहुलकात् क्युन् । ल्युट् वा ।)

मरिचम् । इत्यमरः । पिप्पलीमूलम् । इति
राजनिर्घण्टः ॥

उषणा, स्त्री, (उषण + टाप् ।) पिप्पली । इत्यमरः ॥

शुण्ठी । इति राजनिर्घण्टः ॥ चविकम् । इति
रत्नमाला ॥ (“उपकुल्योषणा शौण्डी” इति भाव-
प्रकाशस्य पूर्ब्बखण्डे प्रथमभागे पर्य्याय उक्तः ।)

उषती, स्त्री, (उष् + शतृ । आगमशासनस्यानित्य-

त्वात् नुमभावः ।) अकाल्याणवाक् । इत्यमरः ॥
(यथा, महाभारते १ । ८७ । ८ ।
“ययास्य वाचा पर उद्विजेत
न तां वदेदुषतीं पापलोक्याम्” ॥)

उषपः, पुं, (ओषतीति । उष् + “उषिकुटिदलि-

कचिखजिभ्यः कपन्” । ३ । १४२ । इति कपन् ।)
सूर्य्यः । अग्निः । इत्युणादिकोषः ॥

उषर्बुधः, पुं, (उषसि प्रातर्बुध्यते प्रकाशते । उषस्

+ बुध् + क ।) अग्निः । इत्यमरः ॥
रक्तचित्रकः । रांचिता इति भाषा ॥

उषसी, स्त्री, (उषं दिवसं स्यति दूरीकरोतीति ।

उष + सो + क + ङीप् ।) सन्ध्याकातः । इति मे-
दिनी ॥

उषा, स्त्री, (उष + क + टाप् ।) बाणराजसुता । सा

तु अनिरुद्धभार्य्या । (यथा, हरिवंशे १७४ ।
बाणयुद्धे १२ ।
“बाणस्य दुहिता कन्या तत्रोषा नाम भाविनी” ।
विस्तृतिस्तु बाणयुद्धशब्दे द्रष्टव्या ।) रात्रिः । इति
मेदिनी ॥ स्त्रीगवी । इति हेमचन्द्रः ॥ उखा । स्था-
लीति यावत् । इत्यमरटीकायां रमानाथः ॥
(रात्रिशेषः । यथा ज्योतिषे ।
“उषां गोधूलियोगं वा स्वीकृत्य गमनं चरेत्” ॥)

उषा, व्य, (ओषतीति । उष + क + टाप् ।) रात्रि-

शेषः । रात्र्यवसानम् । इत्यमरमेदिन्यौ ॥ सा तु
नक्षत्रतेजःपरिहानिमारभ्य भानोरर्द्धोदयं यावत्
भवति । यथा, --
“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारका या-
वत् । तेजःपरिहानिरुषा भानोरर्द्धोदयं यावत्” ॥
इति तिथितत्त्वे वराहवचनम् ॥

उषाकलः, पुं, (उषायां कलो यस्य ।) कुक्कुटः । इति

त्रिकाण्डशेषः ॥

उषापतिः, पुं, (उषायाः पतिः ।) अनिरुद्धः । स तु

कामदेवपुत्त्रः । इत्यमरः ॥ (एतत्कथाबाणयुद्धशब्दे
द्रष्टव्या ॥)

उषारमणः, पुं, (उषाया रमणः ।) अनिरुद्धः । इति

हलायुधः ॥

उषितः, त्रि, (उष वा वस + क्त ।) व्युषितः । दग्धः ।

इति मेदिनी ॥ त्वरितम् । इति धरणिः ॥ स्थितः ।
इति त्रिकाण्डशेषः ॥

उषितङ्गवीनः, त्रि, (उषिताः स्थिता गावो यत्र ।)

आशितङ्गवीनः । यत्र पुरा गावो भोजिताः ।
इत्यमरटीकायां रमानाथः ॥

उषीरः, पुं, क्ली, (उष् + कीरच् ।) उशीरः । वीरण-

मूलम् । इत्यमरटीकायां रायमुकुटः ॥

उषेशः, पुं, (उषायाः बाणकन्यायाः ईशः ।) अनिरुद्धः ।

इति हेमचन्द्रः ॥

उष्ट्रः, पुं, (उष + “उषिखनिभ्यां कित्” । ४ । १६१ ।

इत्युणादिसूत्रेण ष्ट्रन् किच्च ।) वाह्यरथः । इति
धरणी ॥ पशुविशेषः । उट् इति भाषा । तत्प-
र्य्यायः । क्रमेलकः २ मयः ३ महाङ्गः ४ । इत्य-
मरः ॥ दीर्घगतिः ५ बली ६ करभः ७ दासेरकः
८ धूसरः ९ लम्बोष्ठः १० रवणः ११ महाजङ्घः १२
जवी १३ जाङ्घिकः १४ दीर्घः १५ शृङ्खलकः १६
महान् १७ महाग्रीवः १८ महानादः १९ महा-
ध्वगः २० महापृष्ठः २१ बलिष्ठः २२ । इति राज-
निर्घण्टः ॥ दीर्घजङ्घः २३ ग्रीवी २४ धूम्रकः २५
शरभः २६ । इति जटाधरः ॥ क्रमेलः २७ कण्ट-
काशनः २८ भोलिः २९ बहुकरः ३० अध्वगः ३१
मरुद्विपः ३२ वक्रग्रीवः ३३ । इति शब्दरत्नावली ॥
वासन्तः ३४ कुलनाशः ३५ । इति त्रिकाण्डशेषः ॥
कुशनामा ३६ मरुप्रियः ३७ द्विककुत् ३८ दुर्ग-
लङ्घनः ३९ भूतघ्नः ४० दासेरः ४१ दीर्घग्रीवः ४२
केलिकीर्णः ४३ । इति हेमचन्द्रः ॥ (यथा मनुः
४ । १२० ।
“नाधीयिताश्वमारूढो न रथं न च हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः” ॥
“उष्ट्रयानं समारुह्य खरयानं तु कामतः” ।
इति च मनुः । ११ । २९ ॥)

उष्ट्रकाण्डी, स्त्री, (उष्ट्रैव काण्डोऽस्य । जातित्वात्

ङीष् ।) पुष्पजातिभेदः । उँटाटी इति ख्याता ।
तत्पर्य्यायः । रक्तपुष्पी २ करभकाण्डिका ३ रक्ता ४
लोहितपुष्पी ५ कर्णपुष्पी ६ । अस्या गुणाः ।
तिक्तत्वम् । उष्णत्वम् । रुचिकारित्वम् । हृद्रो-
गहारित्वञ्च । अस्या वीजगुणाः । मधुरत्वम् ।
शीतत्वम् । ग्रीष्मत्वम् । वृष्यत्वम् । सन्तर्पणत्वञ्च ।
इति राजनिर्घण्टः ॥

उष्ट्रधूसरपुच्छिका, स्त्री, (उष्ट्रस्य धूसरः पुच्छैव

पुच्छो मञ्जरी यस्याः ।) वृक्षविशेषः । इति रत्न-
माला ॥ विचिटीइति भाषा ॥

उष्ट्रपादिका स्त्री, (उष्ट्रस्य पाद इव पादो यस्याः ।)

वृक्षविशेषः । मदनमालीति ख्याता । तत्पर्य्यायः ।
शातभीरुः २ भद्रवल्ली ३ भूमिमत्ता ४ । इति
रत्नमाला ॥

उष्ट्रशिरोधरं, क्ली, (उष्ट्रस्य शिरोधरः ग्रीवा इव आ-

कृतिर्यस्य ।) भगन्दररोगविशेषः । तस्य लक्षणम् ।
“प्रकोपनैः पित्तमतिप्रकोपितं
करोति रक्तां पिडकाङ्गदागताम् ।
तदाशुपाका हिमपूतवाहिनी
भगन्दरन्तूष्ट्रशिरोधरं वदेत्” ॥
इति निदानम् । (अस्य लक्षणं चिकित्साञ्चोक्तवान्
वाभटे उत्तरस्थाने २८ अध्याये । अस्य नामान्तर-
मुष्ट्रग्रीवः । यथा ।
“पित्तादुष्ट्रग्रीवावदुच्छ्रिता ॥
रागिणी तनुरुष्माढ्या ज्वरधूमायनान्विता” ।
“उष्ट्रग्रीवस्तु पित्तजः” ।
“अग्निना वा भिषक् साधुक्षारेणैवोष्ट्रकन्धरम्” ।
सुश्रुतेन निदानस्थाने ४ अध्याये यत् सम्प्राप्ति-
पूर्ब्बकं लक्षणमस्योक्तं तद्यथा ॥ पित्तन्तु प्रकुपित-
मनिलेनाधः प्रेरितं पूर्ब्बवदवस्थितं रक्तां तन्वी-
मुच्छ्रितामुष्ट्रग्रीवाकारां पिडकां जनयति । सास्य-
चोषादीन् वेदनाविशेषान् जनयत्यप्रतिक्रियमाणा
च पाकमुपैति व्रणश्चाग्निक्षाराभ्यामिव दह्यते
दुर्गन्धमुष्णमास्रावं स्रवत्युपेक्षितश्च वात्मूत्र-
पुरीष-रेतांसि विसृजति तं भगन्दरमुष्ट्रग्रीव-
मित्याचक्षते” ॥ इति । * ॥ सुश्रुते चिकित्सितस्थाने
८ अध्याये चिकित्सा यथा, --
“उष्ट्रग्रीवे क्रियां शृणु ।
अथोष्ट्रग्रीवमेषित्वा च्छित्त्वा क्षारं निपातयेत् ।
पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः ।
अथैनं घृतससृष्टैस्तिलैः पिष्टैः प्रलेपयेत् ॥
बन्धं ततोऽनुकुर्व्वीत परिषेकन्तु सर्पिषा ।
तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् ॥
ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमं ।
उत्कृत्यास्रावमार्गन्तु परिस्राविणि बुद्धिमान् ॥
क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा ।
सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम् ॥
उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः ।
वामनीयौषधैः कार्य्याः परिषेकाश्च मात्रया” ॥)

उष्ट्रिका, स्त्री, (उष्ट्रस्याकृतिरिवावयवो यस्याः । उष्ट्रस्य

स्त्री वा ॥) मृत्तिकाभाण्डभेदः । (यथा माघे १२ । १६ ।
“धूर्भङ्गविक्षेपविदारितोष्ट्रिका” ।) उष्ट्रभार्य्या ।
इति मेदिनी ॥ वृश्चिकालीवृक्षः । इति राज-
निर्घण्टः ॥

उष्ट्री, स्त्री, (उष + ष्ट्रन् + ङीष् ।) मृत्तिकाभाण्डः ।

उष्ट्रस्त्री । इति हेमचन्द्रः ॥ तस्याः क्षीरगुणाः ।
कुष्ठशोथपित्तार्शःकफाटोपानाहोदरस्थजन्तुगुल्म-
श्वासोल्लासनाशित्वम् । तद्दधिगुणाः । अर्शःकुष्ठ-
कृमिशूलोदररोगनाशित्वम् । कटुत्वम् । स्वादु-
त्वञ्च । तन्नवनीतगुणाः । विपाके शीतलत्वम् ।
लघुत्वम् । व्रणकृभिकफास्नवातविषनाशित्वञ्च ।
तद्घृतगुणाः । मधुरत्वम् । विपाके कटुत्वम् ।
शीतलत्वम् । कुष्ठकृमिविषवातकफगुल्मोदरना-
शित्वञ्च । तन्मांसगुणाः ॥ शिशिरत्वम् । त्रिदोष-
शमनत्वम् । लघुत्वम् । बलपुष्टिंप्रदत्वम् । रुचि-
कारित्वम् । मधुरत्वम् । वीर्य्यवर्द्धनत्वञ्च । इति
राजनिर्घण्टः ॥ (अस्या दुग्धगुणा यथा, --
“ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु ।
शस्तं वातकफानाहक्रिमिशोथोदरार्शसाम्” ॥
इति वैद्यकचक्रपाणिकृतद्रव्यगुणे पानीयवर्गे ।
“औष्ट्रं दुग्धं लघु स्वादु लवणं दीपनन्तथा ।
क्रिमिकुष्ठकफानाहशोथोदरहरं सरम्” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥
“रूक्षं तथोष्णं लवणं कफस्य
निवारणं वातविकारहारि ।
लघुप्रशस्तं कटुकं कृमीणां
शोफार्शिनामौष्ट्रपयोऽनुकूलम्” ॥
इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥
“रूक्षोष्णं क्षीरमुष्ट्रीणामीषत् सलवणं लघु ।
पृष्ठ १/२७७
:शस्तं वातकफानाहक्रिमिशोथोदरार्शसाम्” ॥
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥
“रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ।
शोफगुल्मोदरार्शाघ्नं कृमि-कुष्ठ-विषापहम्” ॥
इति सुश्रुते सूत्रस्थाने ४५ अध्यायः ॥)

उष्णः, पुं, (उष दाहे + “इण्षिञ्जिदीङुष्यविभ्योनक्’

। ३ । २ । इति उणादिसूत्रेण नक् ।) ग्रीष्मऋतुः ।
तत्पर्य्यायः । ग्रीष्मः २ उष्मकः ३ निदाघः ४ उष्णो-
पगमः ५ उष्णागमः ६ तपः ७ । इत्यमरः ॥ आ-
तपः । इति हेमचन्द्रः ॥ (यथा, सुश्रुते चिकित्-
सितस्थाने २४ अध्यायः ।
“उष्णे हैमे वसन्तेच कामं ग्रीष्मे तु शीतलम्” ।
क्वचित् क्लीवलिङ्गान्तोऽपि दृश्यते ।
यथा महाभारते संवर्त्तमरुत्तीये । १४ । ८ । ९ ।
“नोष्णं न शिशिरस्तत्र न वायुर्न च भास्करः” ।
अग्निः । सूर्य्यः । यथा, मनुः ११ । ११३ ।
“उष्णे वर्षति शीते वा मारुते वाति वा भृशम्” ।
(“उष्णे आदित्ये मेघे च वर्षति” इति तट्टीकायां
कुल्लुकभट्टः ॥) पलाण्डुः । इति राजनिर्घण्टः ॥
उष्णवीर्य्यद्रव्यगुणाः । पित्तबलकारित्वम् । लघु-
त्वम् । वातश्लेष्मनाशित्वच्च । इति राजवल्लभः ॥

उष्णः, त्रि, (उष् + नक् ।) निरालस्यव्यक्तिः । तत्प-

र्य्यायः । दक्षः २ चतुरः ३ पेशलः ४ पटुः ५ सूत्थानः
६ । इत्यमरः । अशीतः । इति मेदिनी ॥ (यथा
मनुः । ३ । २३७ ।
“यावदुष्णं भवत्यन्नं यावदश्नाति वाग्यतः” ॥)

उष्णकः, पुं, (उष्णं करोतीति । उष्ण + शीतोष्णाभ्यां

कारिणीति कन् ।) ग्रीष्मकालः । चंक्रमादिः ।
इति धरणी ॥ (ज्वरः । इति पाणिनिः ५ ।
२ । ८१ ॥)

उष्णकः, त्रि, (उष्णं कार्य्यमस्य । उष्ण + कन् ।)

क्षिप्रकारी । आतुरः । इदि मेदिनी ॥ प्रणतः ।
इति धरणी ॥ क्रोधोद्दीप्तः इति पाणिनिः
५ । २ । ७२ ॥)

उष्णनदी, स्त्री, (उष्णा नदी ।) वैतरणी नदी ॥

उष्णरश्मिः, पुं, (उष्णा रश्मयो यस्य ।) सूर्य्यः । अर्क-

वृक्षः । इत्यमरः ॥ (यथा, कुमारे ३ । २५ ।
“कुवेरगप्तां दिशमुष्णरश्मौ
गन्तुं प्रवृत्ते समयं विलङ्घ्य” ॥)

उष्णवारणः, पुं, क्ली, (उष्णमातपं वारयति । उष्ण +

वृ + णिच् + ल्युट् ।) छत्रम् । इति हारावली ॥
(यथा, कुमारे ५ । ५२ ।
“यदर्थमम्भोजमिवोष्णवारणं
कृतं तपःसाधनमेतया वपुः” ।
छत्रशब्देऽस्य गुणादिकं ज्ञेयम् ॥)

उष्णवीर्य्यः पुं, (उष्णमुग्रं वीर्य्यं यस्य ।) शिशुमारः ।

इति हेमचन्द्रः ॥ तीक्ष्णतेजोयुक्तद्रव्यादिः ॥ (प्रच-
ण्डवीर्य्ययुक्ते, त्रि ॥)

उष्णा, स्त्री, (उष्यते बध्यते यया । उष बधे + नक् +

टाप् ।) क्षयव्याधिः । सन्तापः । पित्तम् । इति
राजनिर्घण्टः ॥ [हेमचन्द्रः ॥

उष्णांशुः, पुं, (उष्णा अंशवो यस्य ।) सूर्य्यः । इति

उष्णागमः, पुं, (उष्णस्यागमो यस्मिन् ।) ग्रीष्मकालः ।

इत्यमरः ॥

उष्णाभिगमः पुं, (उष्णस्यातपस्याभिगमो यत्र ।)

ग्रीष्मऋतुः । इति शब्दरत्नावली ॥

उष्णासहः पुं, (उष्ण आतप आसह्यते यत्र । उष्ण +

आ + सह + अच् ।) हेमन्तऋतुः । इति राज-
निर्घण्टः ॥ (उष्णासह्यकारिणि, त्रि ॥)

उष्णिक्, [ह्] स्त्री, (उत् + स्निह् + क्विन् । निपा-

तनात् उपसर्गान्तलोपः षत्वं च ।) सप्ताक्षर-
च्छन्दः । (यथा छन्दोमञ्जर्य्यां, --
“उक्थात्युक्था तथा मध्या प्रतिष्ठान्या सुपूर्ब्बिका ।
गायत्र्युष्णिगनष्टुप् च वृहती पङ्क्तिरेव च” ॥
उष्णिक्सप्ताक्षरा वृत्तिः । सा च त्रिधा मधुमती-
कुमारललिता-मदलेखाभेदात् । उदाहरणपूर्ब्बकं
तल्लक्षणं यथा तत्रैव । “ननगि मधुमती” ।
“रविदुहितृतटे वनकुसुमनतिः ।
व्यधित मधुमती मधुमथनमुदम्” ॥ १ ॥
“कुमारललिता जस्गाः” ॥
“मुरारितनुवल्ली कुमारललिता सा ।
व्रजैणनयनानां ततान मुदमुच्चैः” ॥ २ ॥
“मस्गौ स्यान्मदलेखा” ॥) “रङ्गे बाहुविरुग्नात्
कुम्भीन्द्रान्मदलेखा । लग्नाभून्मुरशत्रोः कस्तूरी-
रसचर्च्चा” ॥

उष्णिका, स्त्री, (अल्पमन्नमस्याम् । ब्राह्मणकोष्णिके

संज्ञायामिति कन् । निपातनादन्नशब्दस्योष्णा-
देशः ।) यवागुः । इत्यमरः ॥ याउ इति भाषा ।

उष्णीषः, पुं, क्ली, (उष्णमीषते हिनस्तीति । ईष गति-

हिंसादर्शनेषु । इगुपधेति कः । शकन्ध्वादिः ।)
शिरोवेष्टः । इत्यमरः ॥ पाग इति भाषा । अस्य
गुणाः । केशचक्षुरायुर्वद्धकत्वम् । धूलिशीतोष्ण-
निवारकत्वञ्च । इति राजवल्लभः ॥ यथा ।
“उष्णीषं कान्तिकृत् केश्यं रजोवातकफापहम् ।
लघु चेच्छस्यते यस्मात् गुरुपित्ताक्षिरोगकृत्” ॥
इति भावप्रकाशः ॥ किरीटः । (यथा, महाभारते
सौभबधोपाख्याने ३ । २१ । २४ ।
“विशीर्णमलिनोष्णीषः प्रकीर्णाम्बरमूर्द्धजः” ।
रजोऽवश्यायसूर्य्यांशुहिमानिलनिवारणं ।
प्रतिश्यायशिरःशूल-हरञ्चोष्णीषधारणम् ।
इति वैद्यकचक्रपाणिकृतद्रव्यगुणे गुणानां क्रिया-
भिधानादिवर्गे ॥
“बाणवारं मृजावर्णतेजोबलविवर्द्धनम् ।
पवित्रं केश्यमुष्णीषं वातातपरजापहम्” ॥
इति सुश्रुते चिकित्सितस्थाने २४ अध्याये ॥)
चिह्नान्तरम् । इति मेदिनी ॥

उष्णोदकं, क्ली, (उष्णञ्च तत् उदकञ्चेति ।) तप्तजलम् ।

क्वाथ्यमानपादावशेषार्द्धावशेषपादहीनं जलम् ।
तद्विधिर्यथा ।
“अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन बा ।
अथवा क्वथनेनैव सिद्धमुष्णोदकं बदेत्” ॥
अस्य गुणाः । सदा पथ्यत्वम् । कासज्वरविबन्ध-
कफवाताममेदोनाशित्वम् । दीपनत्वम् । वस्ति-
शोधनत्वञ्च ।
“श्लेष्मामवातमेदोघ्नं वस्तिशोधनदीपनम् ।
कासश्वासज्वरान् हन्ति पीतमुष्णोदकं निशि” ॥
इति भावप्रकाशे प्रथमखण्डम् ॥ * ॥ अथोष्णो-
दकस्य लक्षणं गुणाश्च ।
“क्वाथ्यमानन्तु निर्व्वेगं निष्फेनं निर्म्मलन्तथा ।
अर्द्धावशिष्टं यत्तोयं तदुष्णोदकमुच्यते ॥
ज्वर-कास-कफ-श्वास-वात-पित्ताम-मेदसाम् ।
नाशनं वस्तिसंशोधि पथ्यमुष्णोदकं सदा ॥ * ॥
अथर्त्तुभेदे जलस्य पाकभेदः । यदाह,
त्रिपादशेषं सलिलं ग्रीष्मे शरदि शस्यते ।
“हिमेऽर्द्धशेषं शिशिरे तथा वर्षावसन्तयोः” ॥
अन्ये तु ।
“निदाघे त्वर्द्धपादोनं पादहीनन्तु शारदम् ।
शिशिरे च वसन्ते च हिमे चार्द्धावशेषितम् ॥
अष्टमांशावशेषन्तु वारि वर्षासु शस्यते ।
इति केचिद्बुधाः प्राहुर्जेज्जटागमदर्शनात्” ॥
केचित्त ।
“वसुष्वङ्गेषु बाणेषु वेदेषु त्रिषु पक्षयोः ।
एकभागावशेषं स्यादम्बु वर्षादिषु क्रमात्” ॥
अत्र दोषाणां यथोल्वणता हीनता वा तथा
व्यवस्था कल्पनीया ॥
“तत्पादहीनं पित्तघ्नमर्द्धहीनन्तु वातनुत् ।
त्रिपादहीनं श्लेष्मघ्नं संग्राह्यग्निप्रदं लघु” ॥ * ॥
त्रिपादहीनस्य तन्त्रान्तरे आरोग्याम्बुसंज्ञा ।
तस्य लक्षणगुणाः ।
“पादशेषन्तु यत्तोयमारोग्याम्बु तदुच्यते ।
आरोग्याम्बु सदा पथ्यं कास-श्वास-कफापहम् ॥
सद्यो ज्वरहरं ग्राहि दीपनं पाचनं लघु ।
आनाहपाण्डुशूलार्शोगुल्मशोथोदरापहम्” ॥
इति भावप्रकाशे मध्यमखण्डम् ॥ रात्रौ उष्णो-
दकपानगुणाः । श्लेष्मसङ्घातभेदकत्वम् । मारुताप-
कर्षित्वम् । आशु अजीर्णजारकत्वञ्च ।
“तत्पादहीनं वातघ्नं मध्यहीनं तु पित्तनुत् ।
कफघ्नं पादशेषस्थं पानीयं लघु दीपनम्” ॥
इति राजनिर्घण्टः ॥
(“शरदीह तथा ग्रीष्मे क्वाथे पादावशेषितम् ।
शिशिरे च वसन्ते च कुर्य्यादर्द्धावशेषितम्” ॥
विपरीतमृतुं दृष्ट्वा प्रावृषं वार्द्धभागिकम् ।
क्वाथ्यमानञ्च निर्व्वेगं निष्फेनं निर्म्मलञ्च यत् ॥
अर्द्धावशिष्टं भवति तदुष्णोदकमुच्यते ।
तत्पादहीनं वातघ्नञ्चार्द्धं पित्तविकारजित् ॥
कफघ्नं पादशेषन्तु पानीयं लघु पाचनम्” ।
“दिवसे क्वथितं तोयं रात्रौ तद्गुरुतां व्रजेत् ।
रात्रौ शृतन्तु दिवसे गुरुत्वमधिगच्छति” ॥
इति हारीते प्रथमस्थाने ७ अध्याये ।
“दीपनं पाचनं कण्ठ्यं लघूष्णं वस्तिशोधनम् ॥
हिक्काध्मानानिलश्लेष्म सद्यःशुद्धे नवज्वरे ।
कासामपीनसश्वासपार्श्वरुक्षुच शस्यते” ॥
“अनभिस्यन्दि लघु च तोयं क्वथितशीतलम् ।
पित्तयुक्ते हितं दोषे व्युषितं तन्त्रिदोषकृत् ॥
इति वाभटे सूत्रस्थाने ५ अध्याये ॥
“कफमेदोऽनिलामघ्नं दीपनं वस्तिशोधनम् ॥
पृष्ठ १/२७८
:श्वास-कास-ज्वर-हरं पथ्यमुष्णोदकं सदा ।
यत् क्वाथ्यमानं निर्व्वेगं निःफेनं निर्म्मलं लघु ॥
चतुर्भागावशेषन्तु तत्तोयं गुणवत् स्मृतम् ।
न च पर्य्युषितं देयं कदाचिद्वारि जानता ॥
अम्लीभूतं कफोत्क्लेशि न हितं तत् पिपासवे ।
मद्यपानात् समुद्भूते रोगे पित्तोत्थिते तथा ॥
सन्निपातसमुत्थे च शृतशीतं प्रशस्यते” ।
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)
तमुवाच भगवानात्रेयो ज्वरितस्य कायसमुत्थान-
देश-कालानभिसमीक्ष्य पाचनार्थं पानीयमुष्णं
प्रयच्छन्ति भिषजः । ज्वरो ह्यामाशयसमुत्थः प्रायो
भेषजानि चामाशयसमुत्थानां विकाराणां पाचन-
वमनापतर्पणानि शमनानि भवन्ति पाचनार्थञ्च
पानीयमुष्णं तस्मादेतज्ज्वरितेभ्यः प्रयच्छन्ति भि-
षजो भूयिष्ठम् । तद्ध्येषां पीतं वातमनुलोमयति
अग्निमुदर्य्यमुदीरयति । क्षिप्रं जरां गच्छति
श्लेष्माणञ्च परिशोषयति स्वल्पमपि च पीतं तृष्णा-
प्रशमनायोपपद्यते तथा युक्तमपि चैतन्नात्यर्थोत्-
सन्नपित्ते ज्वरे सदाहभ्रमप्रलापातिसारे वा
प्रदेयमुष्णेन हि दाह-भ्रम-प्रलापातिसारा भूयो-
ऽभिवर्द्धन्ते शीतेनोपशाम्यन्तीति” ।
इति चरके विमानस्थाने ३ अध्यायः ॥)

उष्णोपगमः, पुं, (उष्णः उपगमो यत्र ।) ग्रीष्मकालः ।

इत्यमरः ॥

उष्मः, पुं, (उष + मक् ।) ग्रीष्मकालः । वसन्तकालः ।

इत्युणादिकोषः ॥ उष्णः । क्रोधः ॥

उष्मकः, पुं, (उष्म + कन् ।) ग्रीष्मऋतुः । इत्यमरः ॥

उष्मा, [न्] पुं, (उष् + मनिन् ।) ग्रीष्मकालः ।

उत्तापः । इत्यमरटीकायां नीलकण्ठः ॥
(यथा कुमारे । ५ । २३ ॥
“तपात्यये वारिभिरुक्षिता नवै-
र्भुवा सहोष्माणममुञ्चदूर्द्धगम्” ।
“उष्मा पित्तादृते नास्ति ज्वरो नास्त्युष्मणा विना ।
तस्मात्पित्तविरुद्धानि त्यजेत्त्पित्ताधिकेऽधिकम्” ॥
इति वाभटे चिकित्सास्थाने १ म अध्याये ॥)

उष्मागमः, पुं, (ओषतीति उष्मा । आगछतीति आ-

गमः । उष्मा आगमो यत्र ।) ग्रीष्मकालः । इत्य-
मरटीकायां रायमुकुटः ॥

उस्रः, पुं, (वस + “स्फायितञ्चिवञ्चिशकिक्षिपीति” ।

२ । १३ । उणादिसूत्रेण रक् ।) वृषः । (यथा,
ऋग्वेदे । ६ । १२ । ४ ॥ “वन्वन्क्रत्वानार्वोस्रः पि-
तेव” । “उस्रः वृषभः” । इति भाष्यम् ॥) रश्मिः ।
इति मेदिनी ॥ (यथा रघुः । ४ । ६६ ।
“शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव” ।
लताभेदः । सूर्य्यः । यथा, ऋग्वेदे । ३ । ५८ । ४ ।
“प्र मित्रासो न ददुरुस्रो अग्रे” । “वसति नभ-
सीत्युस्रः सूर्य्यः” । इति भाष्यम् । अश्विनीपुत्त्रौ ।
यथा तत्रैव । ४ । ४५ । ५ ॥
“अग्रय उस्रा जरन्ते प्रतिवस्तोरश्विनौ” ॥)

उस्रा, स्त्री, (उस्र + टाप् ।) अर्ज्जुनी । गाइ इति

भाषा । उपचित्रा । इन्दुरकाणीति भाषा । इति
मेदिनी ॥ (सुरभी गौः । इत्युणादिकोषः ॥)

उह इर् अर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं

सकं-सेट् ।) ह्रस्वादिः । इर् औहत् औहीत् ।
अर्द इह बधः । इति दुर्गादासः ॥

उहानः, पुं, देशविशेषः । इति भूरिप्रयोगः ॥