सामग्री पर जाएँ

शब्दकल्पद्रुमः/उदर्दः

विकिस्रोतः तः
पृष्ठ १/२३७

उदर्दः, पुं, (उदर्दति पीडयतीति । उत् + अर्द्द + अच् ।)

रोगविशेषः । तस्य लक्षणम् । यथा, निदाने ॥
“वरटीदष्टसंस्थानः शोथः संजायते वहिः ।
सकण्डूस्तोदबहुलः छर्द्दिज्वरविदाहवान् ॥
उदर्द्दमिति तं विद्याच्छीतपित्तमथापरे ।
वाताधिकं शीतपित्तमुदर्द्दञ्च कफाधिकम्” ॥
(अस्य चिकित्सा यथा,
“अभ्यङ्गः कटुतैलेन सेकश्चोष्णाम्बुभिस्ततः ।
उदर्दे वमनं कार्य्यं पटोलारिष्टवारिणा” ॥
“सगुडं दीप्यकं यस्तु खादेत् पथ्यान्नभुङ्नरः ।
तस्य नश्यति सप्ताहादुदर्दः सर्व्वदेहजः” ॥
इति वैद्यकचक्रपाणिसंग्रहे ॥)

उदलावणिकः, त्रि, (उदलवणेन लवणाम्भसा सिद्धः ।

उदलवण + ठक् ।) लवणोदकसंसिद्धव्यञ्जनादिः ।
इति हलायुधः ॥

उदवसितं, क्ली, (उदूर्द्ध्वमवसीयते स्म । षो अन्त-

कर्म्मणि षिज् बन्धने वा । क्तः । द्यतिस्यतीतीत्वम् ।)
गृहम् । इत्यमरः ॥

उदश्वित्, क्ली, (उदकेन श्वयति वर्द्धते इति । उद +

श्वि + क्विप् + तुक् ।) अर्द्धजलयुक्तघोलम् । इत्य-
मरः ॥ अस्य गुणाः । लेपात् कुष्ठरोगनाशित्वम् ।
दाहतृष्णामुखशोषनाशित्वञ्च । इति राजवल्लभः ॥
(“अर्द्धोदकमुदश्वित्स्यात्” ॥
“उदश्विच्छेष्मलं बल्यं श्रमघ्नं परमं मतम्” ॥
इति हारीते प्रथमस्थानेऽष्टमोऽध्यायः ॥)

उदात्तं, त्रि, (उत् + आ + दा + क्त ।) दयात्यागादि-

सम्पन्नम् । इति मेदिनी ॥ हृद्यम् । दातृ । महत् ।
इति हेमचन्द्रः ॥ (यथा, रामायणे २ य काण्डे ।)
“उदात्तदन्तानाम् कुञ्जराणाम्” ।
नायकभेदः । यथा साहित्यदर्पणे ३ परिच्छेदे ॥
“अविकत्थनः क्षमावान् अतिगम्भोरो महासत्त्वः ।
स्थेयान् निगूढमानो धीरोदात्तोदृढव्रतः कथितः” ॥)

उदात्तः, पुं, (उच्चैरादीयते स्म । उत् + आ + दा +

क्त ।) स्वरभेदः । स तु वेदगाने उच्चैःस्वरः । इत्य-
मरः ॥ दानम् । वाद्यविशेषः । इति शब्दरत्ना-
वली ॥
काव्यालङ्कारभेदः । इति मेदिनी ॥ (यदुक्तं साहित्य-
दर्पणे । १० म परिच्छेदे । १११ ।
“लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते ।
यद्वापि प्रस्तुतस्याङ्गं महतां चरितं भवेत्” ॥)

उदानः, पुं, (उदूर्द्धेन आनिति अनेन । उत् + आङ् +

अन् + घञ् ।) कण्ठस्थवायुः । इत्यमरः ॥ तस्य
कर्म्म ऊर्द्ध्वनयनम् । इति श्रीधरस्वामी ॥
(यथा, सङ्गीतरत्नाकरे, १ । ६४ ।
“उदानः पादयोरास्ते हस्तयोरङ्गसन्धिषु ।
कर्म्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्त्तितम्” ॥)
“ऊर्द्ध्व गमनवान् कण्ठस्थानीयोत्क्रमणवायुः” ।
इति वेदान्तः ॥ (तथा चोक्तम् ।
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशे स्यात् व्यानः सर्व्वशरीरगः” ॥
“उदानो नाम यस्तूर्द्धमुपैति पवनोत्तमः” ।
इति महाभारते वनपर्ब्बणि ॥
प्रकुपितोदानस्य लक्षणं यथा ।
“हिक्का श्वासः परिश्वासः कासः शोषार्त्तिघण्टिकाः ।
हृल्लासो हृदि शूलञ्च यकृद्वातादिका वमिः ।
क्षवथुर्जृम्भणञ्चैव तथा वैस्वर्य्यपीनसौ ॥
अरुचिश्च प्रतिश्याय एते प्रोक्ता उदानतः ।
उदानः श्लेष्मसंयुक्तो दोषात् हृदि प्रकुप्यति” ॥
इति चिकित्सितस्थाने २१ अध्याये हारीते-
नोक्तम् ॥ * ॥
“उदानः क्षवथूद्गारच्छर्द्दिनिद्रावधारणैः ।
गुरुभारातिरुदितहास्याद्यैर्विकृतो गदान् ॥
कण्ठरोधमनोभ्रंशच्छर्द्द्यरोचकपीनसान् ।
कुर्य्याच्च गलगण्डादींस्तांस्तान् जत्रूर्द्ध्वसंश्रयान्” ।
इति निदानस्थाने षोडशेऽध्याये वाभटेनोक्तम् ॥ * ॥
अस्य स्थानं कार्य्यञ्च यथा ॥
“उदानस्य पुनः स्थानं नाभ्युरःकण्ठ एव च ।
वाक्प्रवृत्तिः प्रयत्नोर्ज्जो बलवर्णादि कर्म्म च” ॥
इति चिकित्सास्थाने २८ अध्याये चरकेणोक्तम् ॥
“उदानो नाम यस्तूर्द्ध्वमुपैति पवनोत्तमः ॥
तेन भाषितगीतादिविशोषोऽभिप्रवर्त्तते ।
ऊर्द्ध्वजत्रुगतान् रोगान् करोति च विंशेषतः” ॥
दोषान्तरगतस्यास्य लक्षणं यथा ॥
“उदाने पित्तसंयुक्ते मूर्च्छादाहभ्रमक्लमाः ।
अस्वेदहर्षौ मन्दाग्निः शीतस्तम्भौ कफावृते” ॥
इति निदानस्थाने प्रथमेऽध्याये सुश्रुतेनोक्तम् ॥
उदरावर्त्तः । नाभिः । सर्पविशेषः । इति मेदिनी ॥
पक्ष्म । इति शब्दरत्नावली ॥

उदारः, त्रि, (उत्कृष्टमासमन्तात् राति । रा + आत-

श्चेति कः । उदर्य्यते, ऋगतिप्रापणयोः कर्म्मणि घञ्
वा ।) दाता । महान् । (यथा गीतायां ७ । १८ ॥
“उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम्” ॥
“उदारा सहान्तः मौक्षभाज एव इत्यर्थः” ॥
इति श्रीधरस्वामी ।) ऋज्वाशयः । तत्पर्य्यायः ।
दक्षिणः २ सरलः ३ । इत्यमरः ॥
(“क उदारः समर्थश्च त्रैलोक्यस्यापि रक्षणे” ।
इति रामायणे आदिकाण्डे । गभीरः । सारवान् ।
रम्यः । न्याय्यः ।
“इत्यर्ध्यपात्रानुमितव्ययस्य
रघोरुदारामपि गां निशम्य” ।
इति रघुः ५ । १२ । असाधारणः । सरलाशयः ।
शिष्टः ।
“स तथेति विनेतुरुदारमतेः
प्रतिगृह्यवचो विससर्ज मुनिम्” । इति रघुः । ८ । ९१ ॥)

उदावत्सरः, पुं, संवत्सरादिपञ्चान्तर्गतवत्सरविशेषः ।

अस्मिन् वर्षे रौप्यदानं महाफलम् । इति विष्णु-
घर्म्मोत्तरम् ॥

उदावर्त्तः, पुं, (उत् + आङ् + वृत् + घञ् ।) रोग-

विशेषः । तत्पर्य्यायः । गुदग्रहः २ । इति हेम-
चन्द्रः ॥ मलमूत्रवायुरोधकरोगः तस्य निदानं
संप्राप्तिश्च । यथा निदाने ।
“वातविण्मूत्रजृम्भास्रुक्षवोद्गारवमीन्द्रियम् ।
क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्त्तसम्भवः” ॥
(अपरञ्चास्य सनिदानसंप्राप्तिक लक्षणं यथा, --
“कषायतिक्तोषणरूक्षभोज्यैः
सन्धारणाभोजनमैथुनैश्च ।
पक्वाशये कुप्यति चेदपानः
स्रोतांस्यधोगानि बली स रुद्ध्वा ॥
करोति विण्मूत्रसमीरसङ्गं
क्रमादुदावर्त्तमतः सुघोरम् ।
रुग्वस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णं
स पृष्ठपार्श्वेष्वतिदारुणा स्यात् ॥
आध्मानहृल्लासविकर्त्तिकाश्च
तोदोऽविपाकश्च सवस्तिशोथः ।
वर्च्चोऽप्रवृत्तिर्जठरे च गण्डा-
न्यूर्द्ध्वञ्च वायुर्व्विहितो गुदे स्यात् ॥
कृच्छ्रेण शुक्रस्य चिरात्प्रवृत्तिः
स्याद्वा तनुः स्यात् खररूक्षशीता ।
ततश्च रोगा ज्वरमूत्रकृच्छ्र-
प्रवाहिकाहृद्ग्रहणीप्रदोषाः ॥
वम्यान्ध्य-बाधिर्य्य-शिरोऽभिताप-
वातोदराष्ठीलमनोविकाराः ।
तृष्णास्रपित्तारुचिगुल्मकास-
श्वासप्रतिश्यार्द्दितपार्श्वरोगाः ।
अन्ये च रोगा बहवोऽनिलोत्थाः
भवन्त्युदावर्त्तकृताः सुघोराः” ॥
अस्य चिकित्सा यथा, --
“तं तैलशीतज्वरनाशनोक्तैः,
स्वेदैर्यथोक्तैः प्रविलीनदोषम् ।
उपाचरेद्वर्त्तिनिरूहवस्ति-
स्नेहैर्विरेकैरनुलोमनान्नैः ॥ * ॥
श्यामात्रिवृन्मागधिकाग्निचूर्णं
गोमूत्रपिष्टं दशभागमाषम् ।
सनीलिकां द्विर्लवणां गुडेन
वर्त्तिं कराङ्गुष्ठनिभां विदध्यात् ॥
पिण्याकसौवर्च्चलहिङ्गुभिर्व्वा
ससर्षपत्र्यूषणयावशूकैः ।
क्रिमिघ्नकम्पिल्लकशङ्खिनीभिः
सुधार्कजक्षीरगुडैर्युताभिः ।
स्यात् पिप्पलीसर्षपराठवेश्म-
धूमैः सगोमूत्रगुडैश्च वर्त्तिः ॥ * ॥
श्यामाफलेक्षु सपिप्पलीकं
नाड्याथवा तत् प्रधमेत्तु चूर्णम् ।
रक्षोघ्नतुम्बीकरहाटकृष्णा-
चूर्णं सजीमूतकसैन्धवं वा ॥ * ॥
स्निग्धे गुदे तान्यनुलोमयन्ति
नरस्य वर्च्चोऽनिलमूत्रसङ्गम् ।
तेषां विघाते तु भिषग्विदध्यात्
स्वभ्यक्तसुस्विन्नतनोर्निरूहम् ॥
ऊर्द्ध्वानुलोमौषधमूत्रतैल-
क्षाराम्ल-वातघ्नयुतं सुतीक्ष्णम् ॥ * ॥
वातेऽधिकेऽम्लं लवणं सतैलं
क्षीरेण पित्ते तु कफे समूत्रम् ।
समूत्रवर्च्चोऽनिलसङ्गमाशु
गुदं शिराश्च प्रगुणीकरोति ॥ * ॥
त्रिवृत्सुधापत्रतिलादिशाकं
ग्राम्यौदकानूपरसैर्यवान्नम् ।
अन्यैश्च सृष्टानिलमूत्रविड्भि-
पृष्ठ १/२३८
:रद्यात् प्रसन्नागुडसीधुपायी ॥ * ॥
भूयोऽनुबन्धे तु भवेद्विरेच्यो
मूत्रप्रसन्नादधिमण्डयुक्तैः” ॥ * ॥
द्विरुत्तरं हिङ्गुवचाग्निकुष्ठं
सुवर्च्चिका चैव विडड्गचूर्णम् ।
सुखाम्बुनानाहविसूचिकार्त्ति-
हृद्रोगगुल्मोर्द्ध्वसमीरणघ्नम् ॥ * ॥
वचाभयाचित्रकयावशूकान्
सपिप्पलीकातिविषान् सकुष्ठान् ।
उष्णाम्बुनानाहविमूढवातान्
पीत्वा जयेदाशु रसौदनाशी” ॥ * ॥
इति चिकित्सास्थाने षड्विंशेऽध्याये चरकेणोक्तम् ॥
सुश्रुतेनोत्तरतन्त्रे ५५ अध्यायेऽस्य सनिदानसम्प्रा-
प्तिकं लक्षणं चिकित्सा चेति यदुक्तं तद्यथा ।
“अधश्चोर्द्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः ।
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ॥
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः ।
व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते ॥
क्षुत्तृष्टा-श्वास-निद्राणामुदावर्त्तो विधारणात् ।
तस्याभिधास्ये व्यासेन लक्षणञ्च चिकित्सितम् ॥
त्रयोदशबिधश्चासौ भिन्न एतैस्तुकारणैः ।
अपथ्यभोजनाच्चापि वक्ष्यते च यथापरः ॥
आध्मानशूलौ हृदयोपरोधं
शिरोरुजं श्वासमतीवहिक्काम् ।
कास-प्रतिश्याय-गलग्रहांश्च
बलासपित्तप्रसरञ्च घोरम् ॥
कुर्य्यादपानाभिहतः खमार्गे
हन्यात् पुरीषं मुखतः क्षिपेद्वा ॥ १ ॥
आटोपशूलौ परिकर्त्तनञ्च
सङ्गः पुरीषस्य तथोर्द्ध्ववातः
पुरीषमास्यादथवा निरेति
पुरीषवेगेऽभिहते नरस्य ॥ २ ॥
मूत्रस्य वेगेऽभिहते नरस्तु
कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ।
मेढ्रे गुदे वङ्क्षणमुष्कयोश्च
नाभिप्रदेशेष्वथवापि मूर्द्ध्नि ॥
आनद्धवस्तिश्च भवन्ति तीव्राः
शूलाश्च शूलैरिव भिन्नमूर्त्तेः ॥ ३ ॥
मन्यागलस्तम्भशिरोविकारा
जृम्भोपघातात् पवनात्मकाः स्युः ।
श्रोत्राननघ्राणविलोचनोत्था
भवन्ति तीव्राश्च तथा विकाराः ॥ ४ ॥
आनन्दजं शोकसमुद्भवं वा
नेत्रोदकं प्राप्तममुञ्चतो हि ।
शिरोगुरुत्वं नयनामयाश्च
भवन्ति तीव्राः सह पीनसेन ॥ ५ ॥
भवन्ति गाढं क्षवथोर्विघाता-
च्छिरोऽक्षिनासाश्रवणेषु रोगाः ।
कण्ठास्यपूर्णत्वमतीवतोदः
कूजश्च वायोरथवा प्रवृत्तिः ॥ ६ ॥
उद्गारवेगेऽभिहते भवन्ति
जन्तोर्विकाराः पवनप्रसूताः ॥ ७ ॥
छर्द्देर्विघातेन भवेच्च कुष्ठं
येनैव दीषेण विदग्धमन्नम् ॥ ८ ॥
मूत्राशये वा गुदमुष्कयोश्च
शोफो रुजा मूत्रविनिग्रहश्च ।
शुक्राश्मरी तत्स्रवणं भवेद्वा
ते ते विकारा विहते तु शुक्रे ॥ ९ ॥
तन्त्राङ्गमर्द्दावरुचिः श्रमश्च
क्षुधोऽभिघातात् कृशता च दृष्टेः ॥ १० ॥
कण्ठास्यशोषः श्रवणावरोध-
स्तृष्णाभिघाताद्धृदये व्यथा च ॥ ११ ॥
श्रान्तस्य निश्वासविनिग्रहेण
हृद्रोगमोहावथवापि गुल्मः ॥ १२ ॥
जृम्भाङ्गमर्द्दोऽङ्गशिरोऽक्षिजाड्यं
निद्राभिघातादथवापि तन्द्रा” ॥ १३ ॥
अरिष्टलक्षणं यथा,
“तृष्णार्द्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् ।
शकृद्वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत् ॥
अस्य चिकित्सा यथा,
“सर्व्वेष्वेतेषु विधिवदुदावर्त्तेषु कृत्स्नशः ।
वायोः क्रिया विधातव्या स्वमार्गप्रतिपत्तये ॥
सामान्यतः पृथक्त्वेन स्त्रियां भूयो निबोध मे ।
आस्थापनं मारुतजे स्निग्धे स्विन्ने विशिष्यते ॥ १ ॥
पुरीषजे तु कर्त्तव्यो विधिरानाहिको भवेत् ॥ २ ॥
सौवर्च्चलाढ्यां मदिरां मूत्रेष्वभिहते पिबेत् ।
एलामप्यथ मद्येन क्षीरं वापि पिबेन्नरः” ॥ ३ ॥
“स्नेहस्वैदैरुदावर्त्तं ञृम्भाजं समुपाचरेत् ॥ ४ ॥
अश्रुमोक्षोऽश्रुजे कार्य्यः स्निग्धस्विन्नस्य देहिनः ॥ ५ ॥
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपसिंहनैः ।
वर्त्तिप्रयोगैरथवा क्षवशक्तिं प्रवर्त्तयेत् ॥
तीक्ष्णौषधप्रधमनैरथवादित्यरश्मिभिः ॥ ६ ॥
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ।
सुरां सौवर्चलवतीं वीजपूर्णरसान्विताम् ॥ ७ ॥
छर्द्याघातं यथा दोषं सम्यक् स्नेहादिभिर्जयेत् ।
सक्षारलवणोपेतमभ्यङ्गं वात्र दापयेत् ॥ ८ ॥
वस्तिशुद्धिकरावापञ्चतुर्गुणजलम्पयः ।
आवारिनाशात् क्वथितं पीतवर्णं प्रकामतः ।
रमयेयुः प्रिया नार्य्यः शुक्रोदावर्त्तिनं नरम् ॥ ९ ॥
क्षुद्विघाते हितं स्निग्धमुष्णमल्पञ्च भोजनम् ॥ १० ॥
तृष्णाघाते पिबेन्मन्थं यवागूं वापि शीतलां ॥ ११ ॥
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः ॥ १२ ॥
निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथारतः” ॥ १३ ॥
अपरञ्च सनिदानसम्प्राप्तिकं लक्षणं चिकित्सा च ॥
“वायः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः ।
भोजनैः कुपितः सद्य उदावर्त्तं करोति हि ॥
वातमूत्रपुरीषासृक्कफमेदोवहानि व ।
स्रोतांस्युदावर्त्तयति पुरीषञ्चातिवर्त्तयेत् ॥
ततोहृद्वस्तिशूलार्त्तो गौरवारुचिपीडितः ।
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ॥
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् ।
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ॥
लभते च बहूनन्यान् विकारान् वातकोपजान् ।
तत्तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ॥
दोषतो भिन्नवर्च्चस्कं भुक्तञ्चाप्यनुवासयेत् ।
नचेच्छान्तिं प्रयात्येवमुदावर्त्तः सुदारुणः ॥
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः ।
पाययेत त्रिवृत्पीलुयवानीरम्लपानकैः” ॥
“देवदार्व्वग्निकं कुष्ठं वचाम्पथ्यां पलङ्कषाम् ।
पौष्कराणि च मूलानि तोयस्यार्द्धाढकं पचेत् ॥
पादावशिष्टं तत्पीतमुदावर्त्तं व्यपोहति” ॥
घृतं यथा ।
“मूलकं शुष्कमाद्रञ्च वर्षाभूः पञ्चमूलकम् ॥
आरेवतफलञ्चाप्सु पक्त्वा तेन घृतम्पचेत् ।
तत्पीयमानं शमयेत् उदावर्त्तमशेषतः” ॥ * ॥
“चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ।
कृनवेधनमागध्यो लवनाणाञ्च साधयेत् ॥
गवां मूत्रेण ता वर्त्तीः कारयेत्तु गुदानुगाः” ।
वैद्यकरसेन्द्रसारसङ्ग्रहे यच्चिकित्सितं तद्यथा ॥
“त्रिकटुपारदं पथ्याकालकफलं द्विगुणं ।
थानकुलीनां स्वरसैर्गुडिका कार्य्याम्लरोल्यास्तु ॥
प्रबलजलोदरगुल्मज्वरपाण्डामयनाशिनी ।
प्रोक्ता तिमिराणिपटलविद्रधिप्रबलोदावर्त्तहरी ॥
क्रिमिकोष्ठगात्रकण्डूपिडकाश्च निहन्ति शूलचयं ।
शुद्धगुडिका कथिता भुवने श्रीवैद्यनाथाख्या” ॥
इति वैद्यनाथवटिका ॥ * ॥
अत्र अपथ्यानि यथा ।
“वमनं वेगरोधञ्च शमीधान्यानि कोद्रवम् ।
नालीतशाकं शालूकं जाम्बवं कर्कटीफलम् ॥
पिण्याकमालुकं सर्व्वं करीरं पिष्टवैकृतम् ।
विष्टम्भीनि विरुद्धानि कषायाणि गुरूणि च ॥
उदावर्त्ती प्रयत्नेन व्रर्जयेत् सततं नरः ।
इति वैद्यकपथ्यापथ्यविधिः ।)

उदासः, पुं, (उदस्यते इति । उत् + अस् + घञ् ।)

उत्क्षेपः । उद्भावः । औदास्ययुक्ते, त्रि ॥

उदासीनः, पुं, (उदास्ते इति । उत् + आस् + शानच्

+ ईदास इति ईत्वम् ।) परतरः । इत्यमरः ॥
विजिगीषोः शत्रुमित्रभूमितो व्यवहितः व्यव-
हितत्वादेव नोपकारी नाप्यपकारी केवलमूर्द्ध्व-
मासीन इव । इति भरतः ॥ (यथा, मनुः ७ । १५५ ।
“मध्यमस्य प्रचारञ्च विजिगिषोश्च चेष्टितम् ।
उदासीनप्रचारञ्च शत्रोश्चैव प्रयत्नतः” ॥
मण्डलभेदः । यथा, तत्रैव ७ । १५८ ।
“अनन्तरमरिं विद्यादरिसेविनमेव च ।
अरेरनन्तरं मित्रमुदासीनं तयोः परम्” ॥
उपेक्षकः । यथा, --
“उदासीनवदासीनमसक्तं तेषु कर्म्मसु” । इति
गीतायाम् ॥ ९ । ९ ॥)

उदास्थितः, पुं, (उत् + आङ् + स्था + क्त ।) चरः ।

द्वारपालः । अध्यक्षः । इति हेमचन्द्रः ॥ प्रव्रज्या-
वसितः । नष्टसन्न्यासः । इति मेदिनी ॥

उदाहरणं, क्ली, (उत् + आङ् + हृ + ल्युट् ।)

दृष्टान्तः । तत्पर्य्यायः । उपोद्घातः २ उदाहारः ३
इति शब्दरत्नावली ॥ (यथा, माघे । २ । ३३ ।
“प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः” ।
कथाप्रसङ्गः । कथनम् । यथा, कुमारे । ६ । ६५ ॥
पृष्ठ १/२३९
:“अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु” ॥)
पञ्चन्यायावयवान्तर्गतमिदम् ॥ (नाट्यशास्त्रे सोत्क-
र्षवचनोपन्यासरूपो गर्भाङ्कभेदः । यदुक्तं साहि-
त्यदर्पणे ६ ष्ठ परिच्छेदे ।
“उदाहरणमुत्कर्षयुक्तं वचनमुच्यते” ।
यथा, वेणीसंहारे अश्वत्थामाङ्के ॥
“यो यः शस्त्रं बिभर्त्ति स्वभुजगुरुमदात्पाण्डवीनां
चमूनां, यो यः पाञ्चालगोत्रे शिशुरधिकवया
गर्भशय्यां गतो वा । यो यस्तत्कर्म्मसाक्षी चरति
मयि रणे यश्च यश्च प्रतीपः, क्रोधान्धस्तस्य
तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम्” ॥
षट्त्रिंशन्नाटकलक्षणान्तर्गतलक्षणभेदः । यथा,
साहित्यदर्षणे ६ ष्ठ परिच्छेदे ।
“यत्र तुल्यार्थयुक्तेव वाक्येनाभिप्रदर्शनात् ।
साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् ॥)

उदाहारः, पुं, (उत् + आ + हृ + घञ् ।) उदा-

हरणं । इत्यमरः ॥ प्रकृतोपपादकदृष्टान्तादिः ।
इति भरतः ॥ युक्तिप्राप्त्यर्थनिदर्शनं इति साञ्जः ॥
प्रकृतसिद्धार्था चिन्ता । इति रायमुकुटः ॥

उदितः, त्रि, (वद् + क्त । यद्वा । उत् + इण + क्त ।)

उक्तः । (यथा, किराते । १ । २८ ।
“भवादृशेषु प्रमदाजनोदितं
भवत्यधिक्षेपैवानुशासनम्” ॥)
बद्धः । इत्यमरः ॥ उद्गतः । प्राप्तोदयः । इति
मेदिनी ॥ (यथा, रामायणे ।
“उदयादुदितं दीप्तं ज्वालापिण्डसमप्रभम्” ॥
“उदितेऽनुदिते चैव समयाध्युषिते तथा” ।
इति मनुः । २ । १५ ॥ तथा, किराते । ५ । ५ ।
“दधतमुज्वशिलान्तरगोपुराः,
पुर इवोदितपुष्पवना भुवः” ॥)

उदितोदितः, त्रि, (उदिते कथिते शास्त्रे उदितः

अभ्यदितः ।) शास्त्रज्ञः । इति स्मृतिः ॥
(“पुरोहितञ्च कुर्व्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्याञ्च कुशलमथर्व्वाङ्गिरसे तथा” ॥
इति याज्ञवल्क्यः ॥)

उदीची, स्त्री, (उत् उत्तरं अञ्चत्यर्कं । उत्क्रान्तं

दृष्टिपथं अञ्चति सूर्य्यं वा । उद ईदित्यञ्चेरत
ईकारः । ऋत्विगादिना क्विन् । उगितश्चेति
ङीप् ।) उत्तरा दिक् । इत्यमरः ॥
(“यदोदीच्यां गतिर्भानोस्तदा सूर्य्यबलाधिकम्” ॥
इति हारीतोत्तरे प्रथमस्थाने चतुर्थेऽध्याये ॥)

उदीचीनं, त्रि, (उदीची + ख ।) उदीच्यां भवं । उत्तर-

दिग्जातवस्तु । इति हेमचन्द्रः ॥ (यथा, शतपथ-
ब्राह्मणे १३ । ८ । १ । ६ । “उदीचीनप्रवणे करोत्यु
दीची वै मनुष्याणां दिक्” ॥)

उदीच्यं, क्ली, (उदीच्यां भवम् । उदीची + यत् ।)

बालनामगन्धद्रव्यं । इत्यमरः ॥ बाला इति ख्यातम् ।
(बालकशब्देऽस्य गुणादयो बोद्धव्याः ॥)

उदीच्यः, पुं, (उदीच्यां भवः । उदीची + यत् ।)

शरावतिनद्याः पश्चिमोत्तरदेशः । इत्यमरः ॥
(तद्देशवासिनि त्रि, यथा, रघौ ४ । ६६ ।
“शरैरस्नैरिबोदीच्यानुद्धरिष्यन् रसानिव” ॥
तथा, महाभारते युधिष्ठिरप्रबोधने ८ । ७० । ३४ ॥
“हता उदीच्या निहताः प्रतीच्याः
प्राच्या निरस्ता दाक्षिणात्या विशस्ताः” ॥)

उदीरणं, क्ली, (उत् + ईर + ल्युट् ।) कथनम् । इति

हलायुधः ॥ (यथा, कुमारे २ । १२ ।
(“उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम्” ॥
प्रेरणम् । क्षेपणम् ।
“ब्रह्मास्त्रोदीरणात् शत्रोर्देवदानवकिन्नराः” ।
इति महाभारते ॥)

उदीर्णः, त्रि, (उत् + ऋ + क्त ।) उदारः । महान् ।

इति जटाधरः ॥
(“न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् ।
सख्यं भवति मन्दात्मन् ! श्रिया हीनैर्धनच्युतैः” ॥
इति महाभारते ॥ उत्तेजितः । उद्द्वीपितः ।
उद्धतः । यथा, कुमारे २ । ३२ ।
“भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः” ।
“ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।
उदीर्णेदहतः शत्रून् वनानीवाग्निमारुतौ” ॥
इति महाभारते । पुं, विष्णुः । यथा, महा-
भारते विष्णुसहस्ननामकथने १३ । १४९ । ८० ।
“उदीर्णः सर्व्वतश्चक्षुरनीशः शाश्वतः स्थिरः” ॥)

उदुम्बरं, क्ली, (उं शम्भुं वृणोतीति उम्बरम् । उ + वृ +

संज्ञायां खच् । अरुर्द्विषदिति मुम् । उत्कृष्टमु-
म्बरम् ।) ताम्रम् । इत्यमरः ॥ (ताम्रशब्देऽस्य
विशेषो ज्ञेयः ॥)

उदुम्बरः, पुं, उडम्बरवृक्षः । यज्ञडुमुर इति भाषा ।

तत्पर्य्यायः । क्षीरवृक्षः २ हेमदुग्धः ३ सदाफलः ४
कालस्कन्धः ५ यज्ञयोग्यः ६ यज्ञीयः ७ सुप्रति-
ष्ठितः ८ शीतवल्कः ९ जन्तुफलः १० पुष्पशून्यः
११ पवित्रकः १२ सौम्यः १३ शीतफलः १४ । अस्य
पक्वफलगुणाः । सधुरत्वम् । हिमत्वम् । कृमि-
कारित्वम् । रक्तपित्ततृष्णामूर्च्छादाहनाशित्वञ्च ।
अस्य सुपक्वफलगुणाः । अतिशयशीतलत्वम् । मधु-
रत्वम् । पित्तश्रमशोषहारित्वञ्च । अस्यामफल-
गुणाः । कषायत्वम् । अग्निदीपनत्वम् । रक्त-
विकारित्वञ्च ॥ अस्य त्वग्गुणाः । शीतत्वम् ।
कषायत्वम् । व्रणनाशित्वम् । गर्भिणीगर्भसंरक्षक-
त्वम् । स्तनदुग्धदातृत्व ञ्च । इति राजनिर्घण्टः ॥
(अस्य पर्य्यायगुणौ यथा ।
“उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ।
उदुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रजित् ॥
मधुरस्तुवरो वर्{??} व्रणशोधनरोपणः” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे वटादिवर्गे ॥
अस्य फलगुणांश्चाह चरकः सूत्रस्थाने सप्तविंशे-
ऽध्याये यथा, --
“अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च ।
कषायमधुराम्लानि वातलानि गुरूणि च ॥ * ॥)
कुष्ठविशेषः । देहली । गोवराटेर नीचेर काठ्
इति भाषा । पण्डकः । नपुंसकं । इति हेमचन्द्रः ॥

उदुम्बरदला, स्त्री, (उदुम्बरस्य दलमिव दलमस्याः ।)

दन्तीवृक्षः । इति राजनिर्घण्टः ॥ (अस्या गुणादयो
दन्तीशब्दे ज्ञेयाः ॥)

उदुम्बरपर्णी, स्त्री, (उदुम्बरस्य पर्णमिव पर्णमस्याः ।)

उडम्बरपर्णी । दन्तिकावृक्षः । इत्यमरः ॥ (अस्याः
पर्य्यायाश्चरकेण कल्पस्थाने १२ अध्याये उक्ताः ।
यथा, --
“दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः” ॥)

उदूखलं, क्ली, (उदूर्द्ध्वञ्च तत् खञ्च । तत् लाति ।

आतोनुपेति कः । पृषोदरादित्वात् साधुः ।)
गुग्गुलुः । इति मेदिनी ॥ तण्डुलकण्डनार्थकाष्ठनि-
र्म्मितपात्रम् । उखलि इति भाषा । तत्पर्य्यायः ।
उलूखलं २ । इत्यमरः ॥ (“संकुट्योदूखले विद्वान्”
इत्यादिप्रयोगो भावप्रकाशादौ द्रष्टव्यः ॥)

उदूढः, त्रि, (उत् + वह + क्तः ।) ऊढः । स्थूलः ।

इति मेदिनी ॥ (यथा, माघे । १ । ३६ ।)
“उदूढलोकत्रितयेन साम्प्रतम्
गुरुर्धरित्री क्रियतेतरां त्वया” ॥)

उद्गतं, त्रि, (उत् + गम + क्त ।) उद्वान्तम् । छर्द्दित-

वस्तु । इत्यमरः ॥ ऊर्द्ध्व गतम् । उदितम् ॥

उद्गमः, पुं, (उत् + गम + अप् ।) ऊर्द्ध्वगमनम् ।

उदयः ॥ (आविर्भावः । यथा, कुमारे । ७ । ७७ ॥
“रोमोद्गमः प्रादुरभूदुमायाः
स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत्” ।
“फलेन सहकारस्य पुष्पोद्गम इव प्रजाः” ॥
इति रघुवंशे । ४ । ९ ॥ प्रस्थानं वहिर्गमनम् ।
“तनयानां क्षुधार्त्तानां पश्यन् प्राणोद्गमव्यथाम्” ।
इति कथासरित्सागरे ४ तरङ्गे ॥)

उद्गमनीयं, क्ली, (उत् + गम + अनीयर् ।) धौत-

वस्त्रद्वयं । इत्यमरः ॥ धोया योड इति भाषा ।
(“सा मङ्गलस्नानविशुद्धगात्री
गृहीतपत्युद्गमनीयवस्त्रा” ।
इति कुमारे । ७ । ११ ॥)

उद्गाढं, क्ली, (उत् + गाह + क्त ।) अतिशयः । तद्-

युक्ते त्रि । इत्यमरः ॥ (“प्रेमार्द्राः प्रणयस्पृशः
परिचयादुद्गाढरागोदयाः” । इति साहित्य-
दर्पणे । ३ य परिच्छेदे ॥)

उद्गाता, [ऋ] पुं, (उद्गायति साम यः । उत् +

गै + तृच् ।) सामवेदज्ञः । सामवेदविद्ब्राह्मणः
इत्यमरः ॥
(“ब्रह्माणं परमं वक्त्रादुद्गातारञ्च सामगम् ।
होतारमथ चाध्वर्य्युं बाहुभ्यामसृजत्प्रभुः” ॥
इति हरिवंशे । तथा च मनुः । ८ । २०९ ।
“होता वापि हरेदश्वमुद्गाता चाप्यनःक्रये” ॥
“उद्गातृहोतृब्रह्माणो यथाध्वर्य्युं विनाध्वरे” ।
इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

उद्गारः, पुं, (उत् + गॄ + घञ् ।) उद्वमनम् । इत्य-

मरः ॥ (यथा, रघौ । ६ । ६० ।
“आभाति बालातपरक्तसामुः
सनिर्झरोद्गार इवाद्रिराजः” ॥)
शब्दः । इति भरतः ॥ (यथा महाभारते ३ ।
“तस्य लाङ्गूलनिनदं पर्ब्बतः स गुहामुखैः ।
उद्गारमिव गौर्नदन्नुत्ससर्ज समन्ततः” ॥)
कण्ठगर्ज्जनं । इति जटाधरः ॥ ढेकुर इति भाषा ।
तत्तु नागवायुकर्म्म । इति श्रीधरस्वामी ॥ (स्रावः ।
पृष्ठ १/२४०
:क्षरणम् । यथा, रघौ । ४ । ५३ ।
“खर्ज्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु ।
कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः” ।
“अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन च” ।
“करोत्युद्गारबाहुल्यम्” इति भावप्रकाशे मध्य-
खण्डे वातरोगाधिकारे ॥ वमनप्रकारादिकं वमन-
शब्दे द्रष्टव्यम् ॥ यथा, शारदातिलकटीकायां, --
“उद्गारे नागैत्युक्तो नीलजीमूतसन्निभः” ॥)
द्गीतं, त्रि, (उदुच्चैर्गीयते स्म । उत् + गै + क्त ।)
उच्चैर्गीतम् । इति देवीमाहात्म्यम् ॥ (यथा, --
मार्कण्डये ८४ । ९ ।
“शब्दात्मिकासुविमलर्ग्यजुषां निधान-
मुद्गीतरम्यपदपाठवताञ्च साम्नाम्” ॥)

उद्गीथः, पुं, (उत् + गै + थक् ।) सामवेदभेदः ।

प्रणवः । इत्यमरटीकायां भरतः ॥
(“अस्मिन्नगस्त्यप्रमुखाः प्रदेशे
भूयांस उद्गीथविदो वसन्ति” ॥
इति उत्तररामचरिते । २ याङ्के” ।)
सामवेदध्वनिः । इत्यरुणः ॥ सामगानम् । इति
सारसुन्दरी ॥ साम्नां द्वितीयोऽध्यायः । इति भगी-
रथः ॥ (भवपुत्त्रः । इति विष्णुपुराणम् ॥)

उद्गूर्णं, त्रि, (उत् + गूर + क्त ।) उद्यतम् । इत्य-

मरः ॥ उत्तोल्यधृतवस्त्रादि । इति भरतः ॥

उद्ग्राहः, पुं, (उत् + ग्रह + घञ् ।) उद्ग्रहणम् ।

ऊर्द्ध्वीकृत्य कस्यचित् ग्रहणम् । इत्यमरः ॥ विद्या-
विचारः । इति भरतः ॥

उद्ग्राहितः, त्रि, (उत् + ग्रह + णिच् + क्त ।)

उदीर्णः । बद्धः । ग्राहितः । इति मेदिनी ॥ उप-
न्यस्तः । इति हेमचन्द्रः ॥

उद्घः, पुं, (उद्धन्यते इति । उत् + हन् + कर्म्मणि

अप् । टिलोपात् घत्वं च निपातनात् । यद्वा
उद्धन्ति नीचताम् । उत् + हन् + ड ।) प्रशस्तः ।
प्रकाण्डः । इत्यमरः ॥ (हस्तपुटम् । अग्निः ।
शरीरस्थो वायुः ॥)

उद्घनः, पु, (ऊर्द्ध्यं हन्यतेऽस्मिन् । उत् + हन +

अप् । निपातनात् हस्य घः ।) यत्र काष्ठे काष्ठं
निधाय तक्ष्यते तत् । इत्यमरः ॥ परकाठ इति
भाषा ॥ (यथा, भट्टिः ७ । ६२ ।
“तस्मिन्नन्तर्घने पश्यन् प्रधाने सौधसद्मनः ।
लौहोंद्घनघनस्कन्धा ललितापयनां स्त्रियम्” ॥)

उद्घर्षणं, क्ली, (उत् + घृष + ल्युट् ।) गात्रादिघर्षणं ।

इष्टकया उद्घर्षणगुणाः । कण्डुकोठनाशित्वम् ।
त्वग्गताग्नितेजनत्वम् । शिरासुखकारकत्वञ्च । इति
राजवल्लभः ॥
(“उद्घर्षणन्तु विज्ञेयं कण्डुकोठानिलापहम्” ।
इति चिकित्सितस्थाने चतुर्विंशेऽध्याये सुश्रुते-
नोक्तम् ॥ समासकथनं । उद्देशः । यथा । शल्य-
मिति ॥ इति सुश्रुते उत्तरतन्त्रे ६५ अध्याये ॥)

उद्घसं, क्ली, (उत् + अद् + अप् । घसादेशः ।)

मांमम् । इति हारावली ॥

उद्घाटः, पुं, (उत् + घट् + घञ् ।) गृहभेदः । इति

त्रिकाण्डशेषः ॥ चौकिर घर थाना इत्यादि भाषा ।
(उद्घाटनम् ॥)

उद्घाटकं, क्ली, (उत् + घट् + णिच् + ण्वुल् ।) कूपा-

ज्जलोत्तोलनार्थयन्त्रविशेषः । तत्पर्य्यायः । घटी-
यन्त्रम् २ । इति हेमचन्द्रः ॥

उद्घाटनं, क्ली, (उत् + घट् + णिच् + ल्युट् ।) कूपात्

जलोत्तोलनार्थं रज्जुसहितघटः । तत्पर्य्यायः ।
घटीयन्त्रम् २ । इत्यमरः ॥ उत्तोलनम् । इति
भरतः ॥ (यथा, हितोपदेशे । मित्रप्राप्तौ ॥
“धर्म्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्-
घाटनम्” ॥)

उद्घाटितः, त्रि, (उत् + घट् + णिच् + क्त ।) कृतो-

द्घाटनम् । खोला इति भाषा ॥
(“मृहेऽनुद्घाटितद्वारि नाहूतः प्रविशेन्नरः ।
वारितार्थप्रवक्तापि पञ्चाहमशनं त्यजेत्” ॥
इति स्मृतिः ॥ तन्त्रशास्त्रम् ॥)

उद्घाटितज्ञः, त्रि, (जानाति इति ज्ञः । उद्घाटितस्य

ज्ञः । उद्घाटित + ज्ञा + क ।) प्राज्ञः । इति
त्रिकाण्डशेषः ॥

उद्घातः, पुं, (उत् + हन् + घञ् ।) आरम्भः । इत्य-

मरः ॥ (यथा, कुमारे २ । १२ ।
“उद्घातः प्रणवो यासां न्यायस्त्रिभिरुदीरणम्” ।
“आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः” ।
इति रघुवंशे । ४ । २० ॥) शस्त्रम् । ग्रन्थपरि-
च्छेदः । इति त्रिकाण्डशेषः ॥ पादस्खलनम् ।
(“ययावनुद्घातसुखेनमार्गम्” । इति रघुः । २ । ७२ ।
“रथेनानुद्घातस्तिमितगतिना” । इति शाकुन्तले ।
६ अङ्के ॥ समुपक्रमः । पवनाभ्यासयोगाय कुम्भ-
कादित्रयम् । उत्तुङ्गः । (यथा, रामायणे ४ काण्डे
“पृथुशृङ्गशिलोद्घातः” । इति ॥) मुद्गरम् ।
इति मेदिनी ॥

उद्झ, श त्यागे । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) ह्रस्वादिर्दन्त्यवर्गतृतीयोपधः । क्विपि
समुत्समुद्भ्याम् । स्यादौ नवद्र इति उज्जिझिषति
औज्जिझत् । श उज्झती उज्झन्ती । इति
दुर्गादासः ॥

उद्दंशः, पुं, (उत् + दन्श + अच् ।) कीटविशेषः ।

तत्पर्य्यायः । मत्कुणः २ कोणकुणः ३ किटिभिः ४
उत्कुणः ५ । इति हेमचन्द्रः ॥

उद्दण्डपालः, पुं, (उद्दण्ड इव पाल्यते इति । उद्दण्ड

+ पाल + + घञ् ।) सर्पविशेषः । मत्स्यभेदः । इति
मेदिनी ॥

उद्दन्तुरः, त्रि, (उत् अतिशयेन दन्तुरः ।) उत्तङ्गः ।

करालः । उत्कटदन्तः । इति मेदिनी ॥

उद्दानं, क्ली, (उत् + दो + ल्युट् ।) बन्धनम् । इत्य-

मरः ॥ (यथा, महाभारते । शान्तिपर्ब्बणि ।
“उद्दाने क्रियामाणे तु मत्स्यानां तत्र रज्जुभिः” ।)
उद्दमः । चुल्ली । वाडवाग्निः । मध्यः । लग्नः । इति
विश्वः ॥

उद्दामः, त्रि, (दाम्नः उद्गतः ।) बन्धनरहितः ।

स्वतन्त्रः । इति मेदिनी ॥ (यथा, रघुः । १ । ७८ ॥
“नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे” ॥
“अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्” ।
इति रामायणे ॥) महान् । यथा । “उद्दामदन्तुर-
विधुन्तुददन्तघातैः” । इति प्रव्रज्या ॥
(“उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि” ।
इति मेघदूते । २७ ॥ गम्भीरः । यथा भागवते
१ मस्कन्धे । “उद्दामभावपिशुनामलवद्ग्रहासु” ॥)

उद्दामः, पुं, (उद्दीप्तं दाम पाशो यस्य । समासे अच् ।)

वरुणः । इति मेदिनी ॥ (दण्डकभेदच्छन्दोविशेषः ।
यथा, वृत्तरत्नाकरे ।
“यदि नयुगलं ततः सप्तरेफा-
स्तदां दण्डवृद्धिप्रयातो भवेद्दण्डकः ।
प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव-
व्यालजीमूतलीलकरोद्दामशङ्खादयः” ॥)

उद्दालः, पुं, (उत् + दल + घञ् ।) बहुवारकवृक्षः ।

इत्यमरः ॥ वनकोद्रवः । इति रत्नमाला ॥

उद्दालकः, पुं, (उद्दाल एव । स्वार्थे कन् ।) बहुवा-

रकवृक्षः । इति शब्दरत्नावली ॥ (भुनिभेदः ।
स तु आयोदधौम्यस्य शिष्यः । तस्य नामोत्पत्ति-
रुक्ता महाभारते १ । पौष्योपाख्याने ३ अध्याये ।
“एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदस्तस्य
शिष्यास्त्रयो बभूवुःउपमन्युरारुणिर्वेदश्चेति । २३ ॥
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास गच्छ
केदारखण्डं बधानेति । २४ ॥ स उपाध्यायेन
संदिष्ट आरुणिः पञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं
बन्धुं नाशकत् ॥ २५ ॥ स क्लिश्यमानोऽपश्य-
दुपायं भवत्वेवं करिष्यामीति ॥ २६ ॥ स तत्र
संविवेश केदारखण्डे शयाने च तथा तस्मिंस्तदु-
दकं तस्थौ ॥ २७ ॥ ततः कदाचिदुपाध्यायः
आयोदो धौम्यः शिष्यानपृच्छत् क्व आरुणिः पा-
ञ्चाल्यो गत इति ॥ २८ ॥ ते तं प्रोचुः भगवंस्त्वयैव
प्रेषितो गच्छ केदारखण्डं बधानेति । स एवमुक्त-
स्तान् शिष्यान् प्रत्युवाच तस्मात् तत्र सर्व्वे
गच्छामः यत्र स गत इति ॥ २९ ॥ स तत्र गत्वा
तस्याह्वानाय शब्दं चकार भो आरुणे पाञ्चाल्य
क्वासि वत्स एहीति ॥ ३० ॥ स तत् श्रुत्वारुणि-
रुपाध्यायवाक्यं तस्मात् केदारखण्डात् सहसो-
त्थाय तमुपाध्यायं उपतस्थे ॥ ३१ ॥ प्रोवाच
चैनमुपाध्यायं अयमस्म्यत्र केदारखण्डे निःसर-
माणमुदकमवारणीयं संरोद्धुं संविष्टो भगवत्-
शब्दं श्रुत्वैव सहसा विदार्य्य केदारखण्डं भगवन्त-
मुपस्थितः ॥ ३२ ॥ तदभिवादये भगवन्तमाज्ञापयतु
भवान् किमर्थं करवाणीति ॥ ३३ ॥ स एवमुक्त-
उपाध्यायः प्रत्युवाच यस्मात् भवान् केदारखण्डं
विदार्य्य उत्थितस्तस्मात् उद्दालकएव नाम्ना भवि-
ष्यतीत्युपाध्यायेनानुगृहीतः” । २४ ॥
अपरः स्वनामख्यात ऋषिभेदः । स तु श्वेतकेतु-
पिता । यथा तत्रव कुन्तीपुत्त्रोत्पत्त्युनुज्ञाने १२२ ॥
“बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् ।
श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन् मुनिः” ॥ ९ ॥)

उद्दितः, त्रि, (उत् + दो + क्त ।) बद्धः । इत्यमर-

टीकायां भरतः ॥

उद्दीपकः, त्रि, (उत् + दीप् + ण्वुल् ।) उद्दीपनकर्त्ता ॥

उद्दीपनं, क्ली, (उत् + दीप् + ल्युट् ।) प्रकाशनम् ॥

पृष्ठ १/२४१
:विभावविशेषः । यथा, --
“आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ।
उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये” ॥ ते च ।
“आलम्बनस्य चेष्टाद्या देशकालादयस्तथा” ॥
चेष्टादीत्यादिशब्दात् रूपभूषणादयः । कालादि
इत्यादिशब्दात् चन्द्रचन्दनकोकिलालापभ्रमर-
झङ्कारादयः । इति साहित्यदर्पणे ॥ ३ य परि-
च्छेदः ॥)

उद्दीप्तः, त्रि, (उत् + दीप + क्त ।) प्रकाशितः ॥

उद्दीप्रं, क्ली, (उत् + दीप् + रक् ।) गुग्गुलुः । इत्य-

मरटीकायां भरतधृतवाचस्पतिः ॥

उद्देशः, पुं, (उत् + दिश् + घञ् ।) अनुसन्धानम् ।

अन्वेषणम् ॥ (न्यायमते नाम्ना निर्द्देशः । अभि-
धानं यथा, -- “पदार्थोद्देशः” । समासकथनम् ।
यथा, “समासकथनमुद्देशः । यथा, शल्यमिति” ॥
पर्ब्बतस्य गण्डकूपः । निर्द्देशः । विवरणम् ।
“इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्त्तितः” ।
इति महाभारते । स्थानम् । प्रदेशः ।
“सपर्ब्बतवनोद्देशा दक्षिणार्थे स्वयम्भुवा” ।
इति महाभारते ॥)

उद्देशकः, त्रि, (उत् + दिश + ण्वुल् ।) उद्देशकर्त्ता ।

उदाहरणम् । इति लीलावती ॥

उद्देश्यः, त्रि, (उत् + दिश् + ण्यत् ।) उद्देष्टव्यः ।

उद्देशनीयः । प्रयोजनम् ॥ (यत् उद्दिश्य विधेयस्य
प्रवृत्तिः भवति तत् । अनुवाद्यम् ॥)

उद्देहिका, स्त्री, (उद्गतो देहो यस्याः ।) कीटविशेषः ।

तत्पर्य्यायः । उपजिह्विका २ उत्पादिका ३ वटिः
४ दिवी ५ । इति हारावली ॥

उद्द्रावः, पुं, (उद्द्रवणम् । द्रु + उदिश्रयतियौतिपूद्रव-

इति घञ् ।) पलायनम् । इत्यमरः ॥

उद्धतः, पुं, (उत् + हन् + क्त ।) राजमल्लः । इति

त्रिकाण्डशेषः ॥

उद्धतं, त्रि, (उत् + हन् + क्त ।) अविनीतम् । इति

हेमचन्द्रः ॥ (यथा, उत्तरचरिते षष्ठाङ्के ।
“धीरोद्धता नमयतीव गतिर्धरित्रीम्” ।
“मदमानसमुद्धतंनृपं न वियुङ्क्ते नियमेन मूढता” ।
इति किराते । २ । ४९ ॥ उत्थितः । उत्क्षिप्तः ।
आहतः । चालितः । यथा, -- शाकुन्तले १ म अङ्के ॥
“आत्मोद्धतैरपि रजोभिरलङ्घनीयाः” ।
निविडः । घोरः । यथा, पञ्चतन्त्रम् ॥ “तुषार-
वर्षोद्धतप्रवर्षघनधारानिपातसमाहतम्” ॥)

उद्धतमनस्कत्वं, क्ली, (उद्धतं गर्ब्बितं मनो यस्य तस्य

भावः ।) गर्ब्बः । अभिमानः । इति शब्दरत्नावली ॥

उद्धरणं, क्ली, (उत् + हृ + ल्युट् ।) उद्धारः । वान्ता-

न्नम् । उन्मूलनम् । इति मेदिनी ॥ मुक्तिः । इति
शब्दरत्नावली ॥ (कण्टकादीनां ऋणादेर्व्वा शो-
धनम् । निराकरणम् । उत्तोलनम् । यथा, --
“यत्नवानपि तु श्रीमाल्लाङ्गूलोद्धरणोद्धरः” ।
इति महाभारते ।
“कण्टकोद्धरणैर्नित्यमातिष्ठेत् यत्नमुत्तमम्” ॥
इति मनुः ॥ ९ । २५२ । व्यसनादिभ्यो विमोचनम् ।
“सप्त व्यतीयुस्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य” ॥
इति रघुः । २ । २५ ॥)

उद्धर्षः, पुं, (उद्गतो हर्षो यस्मिन् ।) उत्सवः । इत्य-

मरः ॥ (यथा, रामायणे । ४ काण्डे ।
“अशक्तोऽस्मि रणोद्धर्षे तपस्विशरणं गृहम्” ॥)

उद्धर्षणं, क्ली, (उत् + हृष् + ल्युट् ।) रोमाञ्चः । इति

हेमचन्द्रः ॥ (त्रि, आनन्दकरम् । रोमाञ्चकरम् ।)
(यथा रामायणे २ । २ । १ ॥
“ततः परिषदं सर्व्वामामन्त्र्य वसुधाधिपः ।
हितमुद्ध्वर्षणं चैवमुवाच प्रथितं वचः” ॥)

उद्धवः, पुं, (उद्धुनोति दुःखमिति । उत् + धूङ् + अच् ।)

उत्सवः । इत्यमरः ॥ यज्ञाग्निः । यादवविशेषः ।
इति मेदिनी ॥ यथा, श्रीभागवतम् ॥
“वृष्णीनां सम्मतो मन्त्री कृष्णस्य दयितः सखा ।
शिष्यो वृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः” ॥

उद्धानं, क्ली, (उद्धीयतेऽस्मिन् । उत् + धा + ल्युट् ।)

चुल्ली । इत्यमरः ॥

उद्धानः, त्रि, (उत् + धा + ल्युट् ।) उद्गतः । वमितः ।

इति मेदिनी ॥

उद्धान्तः, पुं, (उद्धान्यते इति उत् + धन् + णिच् +

क्त ।) निर्मदहस्ती । इत्यमरः ॥ उद्वान्तः । इति
रमानाथः ॥

उद्धारः, पुं, (उत् + हृ + घञ् ।) ऋणम् । इत्यमरः ॥

उद्धृतिः । इति मेदिनी ॥ (“निमग्नस्य पुनरुद्धार-
एव दुर्लभः” । इति वृहदारण्यकोपनिषत् । मोच-
नम् । यथा, शतपथब्राह्मणे १३ । ३ । ४ । २ ।
“अश्वस्य वयमुद्धारमुद्धरामहै” । मोक्षः । निर्व्वा-
णम् ॥ * ॥ उद्ध्रियते साधारणधनात् इत्युद्धारः ।
यद्वा, साधारणद्रव्यात् यत् गरिष्ठं तदुद्धारः ।
इति श्रीनाथः । उद्ध्रियते साधारणधनात्
निष्कृष्य विशेषनिष्ठतया एव बोध्यते इत्युद्धार-
इति अच्युतानन्दः । साधारणत्वेन उद्ध्रियते इति
उद्धार इति रघुनन्दनः । उद्ध्रियते साधारणधनात्
वहिर्भाव्यते इत्युद्धार इति श्रीकृष्णः । यथाह
मनुः ९ । ११२ ॥
“ज्येष्ठस्य विंश उद्धारः सर्व्वद्रव्याच्च यद्वरम् ।
ततोऽर्द्धं मध्यमस्य स्यात् तुरीयस्तु यवीयसः” ॥
ज्येष्ठस्य विंश उद्धारः उद्ध्रियते इत्युद्धारः ज्येष्ठस्या-
विभक्तसाधारणधनात् उद्धृत्य विंशतितमो भाग-
इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ जयानन्तरं श-
त्रुभ्यो लब्धं धनादिकम् । यदुक्तं मनुना ७ । ९७ ।
“राज्ञश्च दद्युरुद्धारमित्येषा तैदिकी श्रुतिः ।
राज्ञा च सर्व्वयोधेभ्यो दातव्यमपृथक् जितम्” ॥
“उद्धारं योद्धारः राज्ञे दद्युः । उद्ध्रियते इत्युद्धारः
जितधनाद्युत् उत्कृष्टधनं सुवर्णरजतभूम्यादि राज्ञे
समर्पणीयम्” । इति तट्टीका ॥)

उद्धारं, क्ली, (उत् + धृ + घञ् ।) उद्धानम् । इत्यम-

रटीकायां स्वामी ॥ उनन् आका इत्यादि भाषा ।

उद्धारणं, क्ली, (उत् + हृ + णिच् + ल्युट् ।) उद्धार-

करणम् । उत्तोलनम् ॥

उद्धारा, स्त्री, गुडूची । इति शब्दचन्द्रिका ॥

उद्धूननं, क्ली, (उत् + धूञ् + णिच् + ल्युट् ।) एक-

त्रितैलालवङ्गकर्पूरकस्तूरोमरिचत्वचचूर्णम् । इति
पाकराजेश्वरः ॥

उद्धूषणं, क्ली, (उत् + धूष + ल्युट् ।) रोमाञ्चः । इति

हलायुधः ॥

उद्धृतः, त्रि, (उत् + हृ + क्त ।) कृतोद्धरणम् । तोला

इति भाषा । तत्पर्य्यायः । समुदक्तः २ । इत्यमरः ॥
उत्क्षिप्तः । परिभुक्तोज्झितः । इति मेदिनी ॥
(“उद्धर्तुमैच्छत् प्रसभोद्धृतारिः” । इति रघुः ।
२ । ३० तथा नैषधे । १ । ६९ ।
“इतीव वाहैर्निजवेगदर्पितैः
पयोधिरोधक्षममुद्धृतं रजः” ॥)

उद्ध्मानं, क्ली, (उत् ध्मायते अग्निरत्र । ध्मा शब्दाग्नि-

संयोगयोः उत्पूर्ब्बात् तस्मात् ल्युट् ।) चुल्ली । इत्य-
मरटीकायां भरतः ॥

उद्ध्यः, पुं, (उज्झति कूलमिति । उज्झ + क्यप् । निपा-

तनात् सिद्धम् ।) नदः । इति व्याकरणम् ॥
(“तोयदागमैवोद्ध्यभिद्ययोः” । इति रघुः ११ । ८ ।
“कूलं भिद्योद्ध्यसन्निभौ” ॥ इति भट्टिः । ५ । २२ ॥)

उद्बुद्धः, त्रि, (उत् + बुध + क्त ।) विकसितः । इति

हलायुधः ॥ (प्रबुद्धः । यथा तिथितत्त्वे, --
“उद्बुद्धां च जगद्धात्त्रीं पूजयेत् दीपमालया” ॥
यथा, साहित्यदर्पणे ३ । १६२ ।
“उद्बुद्धं कारणैः स्वैः स्वैर्वहिर्भावं प्रकाशयन् ।
लोके यः कार्य्यरूपः सोऽनुभावः काव्यनाव्ययोः” ॥)

उद्बोधः, पुं, (उत् + बुध् + घञ् ।) किञ्चित् ज्ञानम् ॥

(यथा साहित्यदर्पणे तृतीयपरिच्छेदे ४१ ।
“उत्साहादिसमुद्बोधः साधारण्याभिमानतः ।
नृणामपि समुद्रादिलङ्घनादौ न दुष्यति” ॥)

उद्भटः, पुं, (उत् + भट् + अप् ।) कच्छपः । सूर्य्यः ।

इति मेदिनी ॥ (सूर्प इति केचित् ॥)

उद्भटः, त्रि, (उत् + भट् + अप् ।) प्रवरः । (“पदे

पदे सन्ति भटा रणोद्भटाः” ।) इति नैषधः ॥
श्रेष्ठाशयः । तत्पर्य्यायः । महेच्छः २ उदारः
३ उदात्तः ४ उदीर्णः ५ महाशयः ६ महामनाः
७ महात्मा ८ । इति हेमचन्द्रः ॥

उद्भवः, पुं, (उद्भवनं उद्भवत्यस्मादिति वा । उत् + भू

+ अप् ।) जन्म । उत्पत्तिः । इत्यमरः ॥ (“दिलीप-
सूनुर्मणिराकरोद्भवः” । इति रघुः । ३ । १८ । “वि-
ष्णुपादोद्भवा गङ्गा” । इति पुराणम् । विष्णुः ।
प्रपञ्चं प्रत्युपादानकारणत्वात् ॥)

उद्भिजः, त्रि, उद्भिज्जः । इत्यमरटीकायां रमानाथः ॥

उद्भिज्जं, त्रि, (उद्भेदनमिति उद्भित् सम्पदादित्वात्

क्विप् । तस्मात् जायते यत् । उद्भित् + जन् + ड ।)
उद्भिद्यजातमात्रम् । तच्च तरुगुल्मादि । इत्यमरः ॥
(यथा, मनुः । १ । ४६ । “उद्भिज्जाः स्थावराः सर्व्वे
वीजकाण्डप्ररोहिणः” । “इन्द्रगोपमण्डूकप्रभृतय-
उद्भिज्जाः” ॥ इति सूत्रस्थाने प्रथमेऽध्याये सुश्रुते-
नोक्तम् ॥)

उद्भित्, [द्] त्रि, (उद्भिनत्ति भूमिमिति । उत् +

भिद् + क्विप् ।) उद्भिज्जम् । इत्यमरः ॥ तच्च प-
ञ्चधा । वृक्षः १ गुल्मः २ लता ३ वल्ली ४ तृणम् ५ ॥
(यथा, महामारते आदिपर्ब्बणि । “संस्वेदजा
पृष्ठ १/२४२
:अण्डजा उद्भिदश्च” । उद्भिद्यते पशुफलमनेन इति
निरुक्तेः यागभेदः ॥)

उद्भिदं, त्रि, (उद्भिनत्तीति । उत् + भिद् + इगुप-

धेति कः ।) तरुगुल्मादि । तत्पर्य्यायः । उद्भित् २
उद्भिज्जम् ३ । इत्यमरः ॥ उद्भिजम् ४ । इति
रमानाथः ॥ (यथा महाभारते १४ पर्ब्बणि ।
“जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च” ॥)

उद्भिदं, क्ली, (उद्भिनत्तीति । उद् + भिद् + क ।)

पांशुलवणम् । इति रत्नमाला ॥ पाङालुण इति
भाषा । (“उद्भिदानि पलालेक्षुकरीषवेणुक्षिति-
जानि” । इति सुश्रुते सूत्रस्थाने षट्चत्वारिं-
शत्तमेऽध्याये ॥)

उद्भूतः, त्रि, (उद्भवति स्म । उत् + भू + क्त ।) उत्पन्नः ।

जातः । यथा । ईशानसंहितायाम् ।
“माघे कृष्णचतुर्द्दश्यामादिदेवो महानिशि ।
शिवलिङ्गतयीद्भूतः कोटिसूर्य्यसमप्रभः” ॥
इति तिथ्यादितत्त्वम् ॥ (तथा, भाषापरिच्छेदे ५६ ।
“उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः” ।)

उद्भूतरूपं, क्ली, (उद्भूतं प्रत्यक्षयोग्यं रूपम् ।) नयन-

गोचररूपम् । यथा, -- भाषापरिच्छेदे ॥
“उद्भूतरूपं नयनस्य गोचरं
द्रव्याणि तद्वन्ति पृथक्त्वसंख्ये ।
विभागसंयोगपरापरत्व-
स्नेहद्रवत्वं परिमाणयुक्तम् ॥ ५४ ॥
क्रियाजाती योग्यवृत्ती समवायञ्च तादृशम् ।
गृह्णाति चक्षुः सम्बन्धादालोकोद्भूतरूपयोः” ॥ ५५ ॥

उद्भ्रमः, पुं, (उद्भ्रमणमिति । उत् + भ्रम + घञ् ।

नोदात्तोपदेशेति न वृद्धिः ।) उद्वेगः । इत्यमरः ॥

उद्भ्रान्तं, क्ली, (उत् + भ्रम + क्त ।) बाहुमुद्यम्य मण्ड-

लाकारखड्गभ्रामणं । इति महाभारतम् ॥ (परि-
भ्रान्ते, त्रि । यथा, रघौ ४ । ४६ ॥
“मारीचोद्म्रान्तहारीता मलयाद्रेरुपत्यकाः” ॥
विकले । विह्वले । यथा, रामायणे, --
“उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्” ॥)

उद्यः, पुं, नदः । इति हेमचन्द्रः ॥ (उद्यते यत् । वद +

क्यप् । कथनीये, त्रि । यथा, मृषीद्यम् वाक्यम् ।)

उद्यतं, त्रि, (उत् + यम + क्त ।) उत्तोल्यधृतवस्त्रादि ।

उद्यतशस्त्रादि । तत्पर्य्यायः । उद्गूर्णं २ ॥ इत्यमरः ॥
(यथा, रघुवंशे । ४ । १६ ।
“प्रजार्थसाधने तौ हि पर्य्यायोद्यतकार्म्मुकौ” ॥)

उद्यतः, पुं, (उत् + यम + क्त ।) ग्रन्थपरिच्छेदः । इति

जटाधरः ॥

उद्यमः, पुं, (उत् + यम + घञ् । संज्ञापूर्ब्बकत्वात्

वृद्ध्यभावः ।) उद्योगः । तत्पर्य्यायः । गुरणम् २ ।
इत्यमरः ॥ गूरणम् ३ गोरणम् ४ । इति तट्टीका ॥
उत्साहः ५ अध्यवसायः ६ उद्योगः ७ । इति
जटाधरः ॥ (यथा, कुमारे ५ । ३ ।
(“निशम्य चैनां तपसे कृतोद्यमाम्” ।
“शशाक मेना न नियन्तुमुद्यमात्” ।
इति च कुमारे ५ । ५ ॥)

उद्यानं, क्ली, (उद्याति क्रीडार्थमस्मिन् । उत् + या

+ ल्युट् ।) राज्ञः साधारणं वनम् । तत्पर्य्यायः ।
आक्रीडः २ ।
(“वाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्म्या” ।
इति मेघदूते ७ ।) निःसरणम् । प्रयोजनम् । इत्य-
मरः ॥

उद्यानपालः, त्रि, (उद्यानं पालयतीति । उद्यान +

पालि + अण् ।) उद्यानरक्षकः । माली इति भाषा ॥
(“उद्यानपालसामान्यमृतवस्तमुपासते” ॥
इति कुमारे । २ । ३६ ॥)

उद्युक्तः, त्रि, (उत् + युज् + क्त ।) उद्यमयुक्तः ।

उद्योगविशिष्टः । इत्यमरटीकायां भरतः ॥ (यथा,
अमरकोषः । “इष्टार्थोद्युक्तौत्सुकः” ।)

उद्योगः, पुं, (उत् + युज + घञ् ।) यत्नः । चेष्टा ।

तत्पर्य्यायः । उत्साहः २ अध्यवसायः ३ उद्यमः ४ ।
इति जटाधरः ॥ (यथा, मार्कण्डेये ८८ । २ ।
“उद्योगः सर्व्वसैन्यानां दैत्यानामादिदेश ह” ।
“उद्योगादनिवृत्तस्य सुसहायस्य धीमतः” ।
छायेवानुगता तस्य नित्यं श्रीः सहचारिणी” ॥
इति नीतिवाक्यम् ।
महाभारतस्य उद्योगपर्ब्ब । यथा, महाभारते
१ । १ । ६३ ।
“उद्योगः सैन्यनिर्य्याणं श्वेतोपाख्यानमेवच” ॥)

उद्योगी, [न्] त्रि, (उद्योगोऽस्यास्तीति । उद्योग +

इन् ।) उद्योगविशिष्टः । उद्यमी । तथा च ।
“उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः” ॥
इति नीतिसारे १३ ॥

उद्योतः, पुं, (उत् + द्युत + घञ्) आलोकः । ज्योतिः ।

इति हलायुधः ॥

उद्रः, पुं, (उनत्तीति । उन्द + रक् ।) जलजन्तुविशेषः ।

इत्यमरः ॥ उद्विडाल इति भाषा ।

उद्रङ्कः, पुं, पुरविशेषः । “व्योमचारि पुरं शौभमुद्रङ्कः

प्रतिमार्गकः” । इति जटाधरः ॥

उद्रङ्गः, पुं, व्योमचारि पुरम् । तत्पर्य्यायः । खपुरं २

ऊर्द्ध्वगं पुरं ३ हरिश्चन्द्रपुरं ४ शौभं ५ प्रतिमा-
र्गकः ६ त्रङ्गा ७ त्रङ्गः ८ । इति त्रिकाण्डशेषः ॥

उद्रथः, पुं, (उद्गतो रथो यस्मात् ।) रथकीलम् ।

ताम्रचूडपक्षी । इति मेदिनी ॥

उद्रिक्तं, त्रि, (उद्रिच्यते स्म । उत् + रिच + क्त ।)

स्फुटम् । स्पष्टम् । इति जटाधरः ॥

उद्रेकः, पुं, (उत् + रिच + घञ् ।) उपक्रमः । वृद्धिः ॥

“अधुनैव कुरङ्गाक्षि जहार जगतां मनः ।
न जाने यौवनोद्रेके जीवनस्यापि का गतिः” ॥
इत्युद्भटः ॥
“हरिस्ते साहस्र्यं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन्निजमुदहरन्नेत्रकमलम् ।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रघपुषा
त्रयाणां रक्षायै त्रिपुरहर जागर्त्ति जगताम्” ॥
इति महिम्नःस्तोत्रम् ॥
(“तमःप्रवेशः संरम्भो दोषोद्रेकहतस्मृतेः” ।
इति वैद्यकरुग्विनिश्चयेऽपस्माराधिकारे ॥)

उद्रेका, स्त्री, (उद्रेक + टाप् ।) महानिम्बः । इति

राजनिर्घण्टः ॥

उद्वत्सरः, पुं, (उत्क्रान्तो वत्सरः ।) वत्सरः । इति

हेमचन्द्रः ॥

उद्वन्धनं, क्ली, (उत् + वन्ध + ल्युट्) ऊर्द्धबन्धनम् ।

इति स्मृतिः ॥ गलाय दडि देओन फाँसी देओन
टाङ्गान इत्यादि भाषा ॥

उद्वमनं, क्ली, (उत् + वम + ल्युट् ।) उद्गीरणम् ।

तुलिया फेलन वाँति करण इत्यादि भाषा ॥

उद्वर्त्तः, त्रि, (उत् + वृत् + घञ् ।) अतिरिक्तः ।

उवरण वाडा इत्यादि भाषा । यथा । “उद्वर्त्तो
हि ग्रन्थः समधिकफलमाचष्टे” । इति व्याकरण-
टीका ॥

उद्वर्त्तनं, क्ली, (उत् + वृत् + णिच् + भावे करणे वा

ल्युट् ।) उत्पतनम् । (यथा, मेघदूते ४२ ।
मोघीकर्त्तुं चटुलशफरोद्वर्त्तनप्रेक्षितानि” ।)
विलेपनम् । घर्षणम् । इति मेदिनी ॥
(यथा, मनुः ४ । १३२ ।
“उद्वर्त्तनमपस्नानं विण्मूत्रे रक्तमेव च ।
श्लेष्मनिष्ठूतवान्तानि नाधितिष्ठेत्तु कामतः” ॥)
शरीरनिर्म्मलीकरणगन्धद्रव्यादि । तत्पर्य्यायः ।
उत्सादनम् २ । इत्यमरः ॥ हरिद्रा सेवन आवटन
इत्यादि भाषा । सामान्योद्वर्त्तनगुणाः । कफवा-
युमेदोवातरोगनाशित्वम् । अङ्गस्थैर्य्य-चर्म्मनिर्म्मल-
कारित्वञ्च ॥ हरिद्राद्युद्वर्त्तनगुणाः । कण्डूवैवर्ण्य-
रूक्षताहारित्वम् ॥ तिलोद्वर्त्तनगुणाः । कण्डूरूक्ष-
तात्वग्दोषनाशित्वम् । इति राजवल्लभः ॥
(“उद्वर्त्तनं वातहरं कफमेदोविलापनम् ।
स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ॥
शिरासुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥
इति चिकित्सितस्थाने २४ । अध्याये सुश्रुते-
नोक्तम् ॥)

उद्वर्द्धनं, क्ली, (उत् + वृध् + ल्युट् ।) अन्तर्हासः ।

इति त्रिकाण्डशेषः ॥

उद्वर्हितः, त्रि, (उत् + वर्ह + क्त ।) उद्धृतः । इति

भूरिप्रयोगः ॥ उद्वाहितो वा इति पाठः ॥

उद्वहः, पुं, (उदूर्द्ध्वं वहति प्रापयतीति । उत् + वह

+ अच् ।) पुत्रः । इति हेमचन्द्रः ॥ (यथा, --
रघुः । ९ । ९ ।
(“उदयमस्तमयञ्च रघूद्वहात्” ॥)
सप्तवाष्वन्तर्गतवायुविशेषः । स तु प्रवहवायोरूर्द्ध्व-
स्थितः । इति सिद्धान्तशिरोमणिः ॥
(“आवहः प्रवहश्चैव विवहश्च समीरणः ।
परावहः संवहश्च उद्वहश्च महाबलः ॥
तथा परिवहः श्रीमानुत्पातभयशंसिनः ।
इत्येते क्षुभिताः सप्त मारुता गगनेचराः” ॥
इति हरिवंशे । २३६ अध्याये । विवाहः ॥)

उद्वहा, स्त्री, (उद्वह + टाप् ।) कन्या । पुत्त्री ।

इति हेमचन्द्रः ॥

उद्वानः, त्रि, (उत् + वन + घञ् ।) उद्वमितः ।

उद्वान्तः । इत्यमरटीकायां रायमुकुटः ॥

उद्वान्तं, त्रि, (उत् + वम् + क्त ।) वमितवस्त । तत्-

पृष्ठ १/२४३
:पार्य्यायः । उद्गतं २ । इत्यमरः ॥

उद्वान्तः, पुं, (उद्गतं वान्तं मदो यस्मात् ।) निर्म्मदहस्ती ।

इति मेदिनीकरजटाधरौ ॥

उद्वासनं, क्ली, (उत् + वस् + णिच् + ल्युट् ।)

मारणम् । बधः । इत्यमरः ॥ (संस्कारभेदः ।
यथा, कात्यायने ९ । १ । २ ॥
“अप उपस्पृश्य शालाद्धार्य्ये परिस्तरणपात्रसं-
सादनप्रोक्षणाज्यनिर्वपणाधिश्रयणस्रुक्संमार्जनो-
द्वासनावेक्षणानि कृत्वाग्नीघ्र उत्पूय पश्चात् आ-
ज्यग्रहणम्” ॥)

उद्वाहः, पुं, (उत् + वह + घञ् ।) विवाहः । इत्यमरः ।

तस्य लक्षणं भार्य्यात्वसम्पादकग्रहणम् । तस्य स्वी-
काररूपज्ञानविशेषस्य समवायविषयतयोर्भेदात्
वरकन्ययोर्विवाहकर्तृत्वकर्म्मत्वे । स तु अष्ट-
विधः । वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र
दीयते स ब्राह्मः १ । यत्र यज्ञस्थायर्त्विजे कन्या-
दानं स दैवः २ । यत्र वरात् गोद्वयं गृहीत्वा
तेनैव सह कन्यादानं स आर्षः ३ । यत्र अनया
सह धर्म्मं चरतां इति नियमं कृत्वा कन्यादानं
स कायः ४ । यत्र धनं गृहीत्वा कन्यादानं स
आसुरः ५ । यत्र कन्यावरयोरन्योन्यानुरागात्
त्वं मे भार्य्या त्वं मे पतिरिति निश्चयः स गान्धर्व्वः
६ । यत्र बलात्कारेण कन्याहरणं स राक्षसः
७ । यत्र सुप्तायां मत्तायां प्रमत्तायां वा कन्यायां
निर्जने गमनं स पैशाचः ८ । तस्य निर्णयः ।
सगोत्रामनवरवयस्कां समानप्रवरां पित्रपेक्ष-
योर्द्ध्वतनषण्णां पुरुषाणां पुत्रकन्यासन्ततिपरम्प-
रया प्रत्येकसप्तमीपर्य्यन्तां अधस्तने तदपेक्षया
सप्तमीपर्य्यन्तां पितृबन्ध्वपेक्षयोर्द्ध्वतनषण्णां प्रत्येका-
पेक्षया सप्तमोपर्य्यन्तां अधस्तने तदपेक्षया सप्तमी
पर्य्यन्तां मातामहसमानोदकां मातामहापेक्ष-
योर्द्ध्वतनचतुर्णां पुरुषाणां पुत्त्रकन्यासन्तति-
परम्परया प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने
तदपेक्षया पञ्चमीपर्य्यन्तां मातृबग्ध्वपेक्षयोर्द्ध्वतन-
चतुर्णां प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने त-
दपेक्षया पञ्चमीपर्य्यन्ताञ्च कन्यां परित्यज्य उद्वाहः
कर्त्तव्यः ॥ पितृबन्धुमातृबन्धुविरहेऽपि तयोर्योग्य-
तामवलम्ब्य सप्तमीपर्य्यन्तायाः पञ्चमीपर्य्यन्तायाश्च
कन्यायाः परिहारः । वर्ज्जनीयानां कन्यानां
मध्येऽपि या त्रिगोत्रान्तरिता सा विवाह्या अत्र
सप्तमगणनप्रतियोगिपितृपितृबन्धुपञ्चमगणनप्र-
तियोगिमातामहमातृबन्धुगोत्रमादायैव त्रिगोत्र-
गणनम् । शूद्रस्य सगोत्राविवाहे दोषाभावः ।
मातृसपत्नीभ्रातृकन्यां तद्दौहित्रीं अध्यापयितृ-
कन्यां शिष्यकन्यां ब्रह्मदगुरुकन्याञ्च परित्यज्य
विवाहः कर्त्तव्यः ॥ अथ कन्यादानाधिकारिणः ।
आदौ पिता । तदभावे पितामहः । तदभावेभ्राता ।
तदभावे पितृज्ञातिः । तदभावे मातामहः । तद-
भावे मातुलः । तदभावे माता । तदभावे माता-
महज्ञातिः । एतेषामप्यभावे कन्या स्वयं वरं
कुर्य्यात् ॥ अथ विवाहपूर्ब्बकर्त्तव्यकर्म्म । अवश्यं-
भावि शुभाशुभग्रहादिदोषशान्त्यर्थं होमो हि-
रण्यगोवस्त्रदानम् । ततो नान्दीश्राद्धम् । लग्न-
समये वरे उपस्थिते स्वस्तिवाचनादिकं विधाय
वरणम् । स्त्य्राचारादि । ततः कन्यादानं यथाशक्ति
धनदानञ्च । ततः स्वगृह्योक्तविधिनाग्निं संस्थाप्य
कुशण्डिकां समाप्य पाणिग्रहणं सप्तपदीगमनञ्च
कर्त्तव्यम् ॥ * ॥ ज्येष्ठेऽकृतविवाहे विवाहकर्त्ता
कनिष्ठः परिवेदनदोषविशिष्टो भवति । ज्येष्ठः
परिविन्नः । सा कन्या परिवेदनीया । कन्यादाता
परिदायी । तत्पुरोहितः परिकर्त्ता । ते सर्व्वे
पतिताः । किन्तु देशान्तरस्थक्लीवैकाण्डवैमात्रेय-
वेश्यासक्तशूद्रतुल्यातिरोगिजडमूकान्धवधिरकु-
ब्जवामनकुण्ठातिवृद्धनैष्ठिकब्रह्मचारिवानप्रस्थभि-
क्षुकृषिसक्तनृपसक्तधनवृद्धिप्रसक्तकामकारिदत्त-
कोन्मत्तचौरेषु ज्येष्ठेष्वनूढेष्वपि कनिष्ठविवाहे न
दोषः । एवं विकृतरूपानूढा ज्येष्ठा कनिष्ठायाः
सोदराया ऊढायाः परिवेदनाय न भवति । इत्यु-
द्वाहतत्त्वम् ॥

उद्वाहनं, क्ली, (उत् + वह + णिच् + ल्युट् ।) वि-

वाहः । तत्पर्य्यायः । रणरणं २ । इति त्रिकाण्ड-
शेषः ॥ द्विसीत्यम् । द्विवारकृष्टक्षेत्रम् । इति हेम-
चन्द्रः ॥

उद्वाहनी, स्त्री, (उद्वाहन + ङीप् ।) वराटकः । इति

हेमचन्द्रः ॥ कडि इति भाषा ॥

उद्वाहिकः, त्रि, (उद्वाहस्यायम् । उद्वाह + ठक् ।)

उद्वाहसम्बन्धी ॥ (यथा, मनुः । ९ । ६४ ।)
“नोद्वाहिकेषु मन्त्रेषु विधवावेदनं क्वचित्” ॥)

उद्वाहितः, त्रि, (उत् + वह + णिच् + क्त ।) उद्व-

र्हितः । उद्धृतः । विवाहितः । यथा । राजमार्त्तण्डे
देवलः ।
“बाले वृद्धे तथैवास्ते कुरुते दैत्यमन्त्रिणि ।
उद्वाहितायां कन्यायां दम्पत्योरेकनाशनम्” ॥
इति ज्योतिषतत्त्वम् ॥ (कलिकाले आगमोक्ता-
न्यमार्गेण विवाहिता गर्हिता भवति । यथा, --
“उद्वाहितापि या नारी जानीयात् सातु गर्हिता”
इत्यागमसिद्धान्तः ॥)

उद्वाहिनी, स्त्री, (उद्वहति उद्धरतीति । उत् + वह

+ णिनि + ङीप् ।) रज्जुः । इति मेदिनी ॥

उद्वाहुः, त्रि, (उदूर्द्धेवाहुर्यस्य ।) ऊर्द्ध्वबाहुः । उद्वेग-

शब्दार्थे हेमचन्द्रेण लिखितः ॥ (यथा, रघु । १ । ३ ।
(“प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः” ॥)

उद्वाहुलकं, क्ली, ऊर्द्धीकृतबाहुः । उद्वेगशब्दार्थे

मेदिनीकरेण लिखितम् ॥

उद्विग्नः, त्रि, (उत् + विज + क्त । ओदितश्चेति तस्य

नः । श्वीदित इति नेट् ।) उद्वेगयुक्तः । यथा, --
“तैर्वृक्नरुग्नसंभुग्नक्षुण्णभिन्नविपन्नकैः ।
निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी” ॥
इति भट्टिकाव्ये ४ । ४२ ॥ (तथा च भारते, --
“नोद्विग्नश्चरते धर्म्मं नोद्विग्नश्चरते क्रियाम्” ॥)

उद्विवर्हणं, क्ली, (उत् + वि + वृह + ल्युट् ।) उद्धा-

रकरणम् । यथा, --
“कः श्रद्धधीतान्यतमस्तव प्रभो
रसाङ्गताया भुव उद्विवर्हणम्” ।
इति श्रीभागते १३ । ४३ ॥ उद्विवर्हणं उद्धरणम् ।
इति तट्टीकायां श्रीधरस्वामी ॥

उद्वृत्तः, त्रि, (उत् + वृत् + क्त । वृत्ताच्चरित्रात्

उत्क्रान्तो वा ।) उत्तोलितः । उत्क्षिप्तः । परि-
मुक्तोज्झितः । उद्वान्तः । इति हेमचन्द्रो मेदिनी
च ॥ दुर्वृत्तः ॥ (यथा, महाभारते, --
“उद्वृत्तान् सततंलोकान् राजा धर्म्मण शास्ति वै” ॥)

उद्वेगं, क्ली, (उद्विज्यतेऽनेन इति । उत् + विज् +

घञ् ।) गुवाकफलम् । इत्यमरः ॥

उद्वेगः, पुं, (उत् + विज् + भावे घञ् ।) उद्वेजनम् ।

तत्पर्य्यायः । उद्भ्रमः २ । इत्यमरः ॥ चमत्कारः ।
इति भरतः ॥ विरहजन्यदुःखम् । इति रसमञ्जरी ॥
भयं । इति हेमचन्द्रः । उद्वाहुलकम् । उद्गमनम् ।
इति मेदिनी ॥
(“नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम् ।
शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या” ॥
इति मेघटूते पूर्ब्बमेधे ३७ श्लोकः ॥
“सदयं बुभुजे महाभुजः
सहसोद्वेगमियं व्रजेदिति” ।
रघुः ८ । ७ ।
“संक्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम्” ।
इति साहित्यदर्पणे ॥ ३ य परिच्छेदः ॥)

उद्वेगः, त्रि, (उद्गतो वेगो यस्मात् ।) स्तिमितः ।

शीघ्रगामी । ऊर्द्ध्वबाहुः । इति हेमचन्द्रः ॥

उद्वेजनं, क्ली, (उत् + विज + ल्युट् ।) उद्वेगः ॥

(“परदाराभिमर्षेषु प्रवृत्तान्नृन् महोपतिः ।
उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत्” ॥
इति मनुः ॥ ८ । ३५२ ॥)

उधः, [स्] क्ली, (वहति उनत्ति वा । वह प्रापणे

उन्द क्लेदने वा + असुन् ।) ऊधः । इत्यमरटीकायां
रमानाथः ॥ गरुर पालान् इति भाषा ॥

उध्रस ग उञ्छे । इति कविकल्पद्रुमः ॥ (क्रादिं-परं-

सकं-सेट् ।) एतस्यादौ पञ्चमस्वरः । मध्ये केवल-
धकारस्याधो रेफः । क्र्यादावुध्रस उञ्छ इत्यय-
मुदिच्चौरादिकः पट्यते तस्य ध्रासयतीति रूपं
अपरं ध्रस्नाति । येषां ध्रसेः उत्पूर्ब्बस्य गणद्वयेऽपि
पठनं तेषां मते श्नाविधावुध्रस्नाति निगद्यते णिचि
कृतेऽप्युध्रासयत्यन्यतः । अत्र उत्पूर्ब्बस्येति तु उत्
उकारः नतूपसर्गः । ग उध्रस्नाति शस्यं दीनः ।
इति दुर्गादासः ॥

उध्रस क उत्क्षेपे । उञ्छे । इति कविकल्पद्रुमः ॥

(चुरां-परं-सकं-सेट् ।) क उध्रासयति धूलिं वायुः ।
इति दुर्गादासः ॥

उन्द, ई ध क्लेदे । इति कविकल्पवुमः ॥ (रुधां-परं-

सकं-सेट् ।) ह्रस्वादिः । क्लेद आर्द्रभावः । ध
उनत्ति वस्त्रं पयसा । ई उन्नः उत्तः । उन्दिदिषति ।
इति दुर्गादासः ॥

उन्दरुः, पुं, उन्दुरुः इति द्विरूपकोषः ॥

उन्दुरः, पुं, (उन्द + उर ।) मूषिकः । इति भरतो

द्विरूपकोषश्च ॥ इदुँर इति भाषा ॥

उन्दूरः, पुं, (उन्द + ऊर ।) जन्तुविशेषः । इदुँर इति

भाषा । तत्पर्य्यायः । मूषिकः २ आखुः ३ । क्षद्र-
पृष्ठ १/२४४
:श्चेत् । गिरिका ४ बालमूषिका ५ । नेङ्टे इदुँर
इति भाषा । इत्यमरः ॥ मूषकः ६ मूषः ७ मूषीकः
८ उन्दूरुः ९ खनकः १० वभ्रुः ११ वृषः १२ आ-
खनिकः १३ वृशः १४ दीना १५ मुषीका १६ ।
मूषा १७ मूषीका १८ मूषिका १९ । इति
शब्दरत्नावली ॥ विलेशयः २० शुषिरः २१
इन्दूरः २२ । इति जटाधरः ॥ क्षुद्रस्य तस्य पर्य्यायः ।
चिक्कः २३ वेश्मनकुलः २४ चिक्का २५ । इति च
शब्दरत्नावली ॥ हालाहला २६ अञ्जनिका २७ ।
इति जटाधरः ॥

उन्दूरुः, पुं, (उन्द + बाहुलकात् ऊरुः ।) मूषिकः ।

इति हेमचन्द्रः ॥
(“उन्दूरुञ्चान्त्ररहितं तेन वातघ्नकल्कवत्” ॥
इति वाभटे चिकित्सास्थाने नवमेऽध्याये ॥)

उन्दूरुकर्णी, स्त्री, (उन्दूरोः मूषिकस्य कर्णैव पर्ण-

मस्याः । उन्दूरकर्ण + ङीष् ।) आखुकर्णोलता ।
इति राजनिर्घण्टः ॥

उन्नः, त्रि, (उन्द + क्त । नुदविदेति पक्षे नत्वम् ।)

क्लिन्नः । दयापरः । इति हेमचन्द्रः ॥

उन्नतः, त्रि, (उत् + नम + क्त ।) वर्द्धितः । तत्पर्य्यायः ।

उच्चः २ प्रांशुः ३ उदग्रः ४ उच्छ्रितः ५ उत्तुङ्गः ६ ।
इत्यमरः ॥ उच्चैः ७ । इति शब्दरत्नावली ॥ तुङ्गः ८ ।
इति जटाधरः ॥ (यथा, रघुः । १ । १५ । “स्थितः
सर्व्वोन्नतेनोर्व्वीं क्रान्त्वा मेरुरिवात्मना” ॥ क्ली,
दिनपरिमाणज्ञानसाधनं उपायः । यथा सिद्धा-
न्तशिरोमणौ । “दिवसस्य यद्गतं यच्च शेषं तयोर्य-
दल्पं तदुन्नतसंज्ञं ज्ञेयम्” । (पुं, चाक्षुषमन्वन्तरे
ऋषिभेदः । यथा, मार्कण्डेये ७६ । ५४ ।
“सुमेधा विरजाश्चैव हविष्मानुन्नतो मधः ।
अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः” ॥)

उन्नतनाभिः, त्रि, (उन्नतो नाभिः यस्य ।) उच्चनाभि-

युक्तः । तत्पर्य्यायः । तुन्दिः २ । इति हलायुधः ॥

उन्नतानतं, त्रि, (उन्नतञ्च तत् आनतञ्चेति ।) उच्च-

नीचस्थानादि । तत्पर्य्यायः । बन्धुरम् २ । इत्यमरः ॥

उन्नतिः, स्त्री, (उत् + नम + क्तिन् ।) गरुडभार्य्या ।

समृद्धिः । (“वक्षोजौ करिकुम्भविभ्रमकरीमत्यु-
न्नतिं गच्छतः” । इति साहित्यदर्पणे ॥ ३ य
परिच्छेदे ।) उदयः । इति हेमचन्द्रः ॥ (यथा,
सिद्धान्तशिरोमणौ ।
“मासान्तपादे प्रथमेऽथवेन्दोः
शृङ्गोन्नतिर्यद्दिवसेऽवगभ्या ।
तदोदयस्ते निशि वा प्रसाध्यः
शङ्कुर्विधोः स्वोदितनाडिकाद्यैः” ॥)

उन्नतीशः, पुं, (उन्नत्यास्तदाख्यया प्रसिद्धाया गरुड-

पत्न्याः ईशः स्वामी ।) गरुडपक्षी । इति त्रि-
काण्डशेषः ॥

उन्नमितः, त्रि, (उत् + नम् + णिच् + क्त ।) उत्तो-

लितः । उर्द्ध्वीकृतः । इति श्रीधरस्वामी ॥
(“अथ प्रयत्नोन्नमितानमत्फणै-
र्घृते कथञ्चित् फणिनां गणैरधः” ॥
इति माघे । १ । १४ ॥)

उन्नयः, पुं, (उन्नयनम् । उत् + नी + क्वचिदपवाद

विषयेऽप्युत्सर्गोऽभिनिविशते इति एरच् ।) ऊर्द्ध्व-
नयनम् । इत्यमरः ॥

उन्नयनं, क्ली, (उत् + नी + ल्युट् ।) वितर्कः । इति

हेमचन्द्रः ॥ ऊर्द्ध्वप्रापणम् । उत्तोलनम् । तोलन
उठान इत्यादि भाषा ॥
(यथा, कात्यायने । २२ । १० । ५ ॥
“तेष्वेवोन्नयनमभ्यभि सोमानुन्नयन्तीति श्रुतेः,” ।
उदूर्द्ध्वे नयनं यस्येति वाक्ये वाच्यलिङ्गः” ॥)

उन्नायः पुं, (उन्नयनं इति । उत् + नी + घञ् ।)

उन्नयनम् । इत्यमरः ॥ (यथा भट्टिः । ७ । ३७ ।
“उन्नायानधिगच्छन्तः प्रद्रावैर्वसुधाभृताम्” ॥)

उन्नाहं, क्ली, (उत् + नह + घञ् ।) काञ्जिकम् ।

इति हेमचन्द्रः ॥

उन्निद्रः, त्रि, (उद्गता निद्रा स्वप्नो दुःखादिकं वा

यस्मात् ।) प्रफुल्लः । विकसितः । इति हेमचन्द्रः ॥
(“उन्निद्रपुष्पचनचम्पकपुष्पभासाः” ।
इति माघः । प्रबुद्धः । शयनादुत्थितः ।
“तामुन्निद्रामवनिशयनां सौधवातायनस्थः” ।
इति मेघतूते । ८८ । तथा, शाकुन्तले षष्ठाङ्के ।
“शय्याप्रान्तविवर्त्तनैर्विगमयत्यु न्निद्रएव क्षपाः” ॥)

उन्भ प श पूर्त्तौ । (तुदां + परं + सकं + सेट् ।)

ह्रस्वादिः । प श उम्भति कुम्भं जलेन लोकः ।
उम्भामास । इति दुर्गादासः ॥

उन्मत्तः, त्रि, (उत् + मद् + क्त ।) उन्मादयुक्तः ।

वायुकृतचित्तविभ्रमविशिष्टः । पागल इति भाषा ।
तत्पर्य्यायः । उन्मादवान् २ । इत्यमरः ॥ तस्यौ-
षधम्, यथा, -- गारुडे १९९ अध्यायः ॥ * ॥
“कूर्म्ममत्स्याखुमहिषगोशृगालाश्च वानराः ।
विडालवर्हिकाकाश्च वराहोलूककुक्कुटाः ॥
हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम् ।
धूमं दद्याज्ज्वरार्त्तस्य उन्मत्तेभ्यश्च शान्तये ॥
एतान्यौषधजातानि धूपितानि महेश्वर ।
निहन्ति ज्वरमुन्मादं वृक्षमिन्द्राशनिर्यथा” ॥
(“तमात्मनो हतमुपघ्नन्तो देवादयः कुर्व्वन्त्यु-
न्मत्तम्” । इति निदानस्थाने सप्तमेऽध्याये ।
“देवर्षिपितृगन्धर्व्वैरुन्मत्तस्य च बुद्धिमान् ।
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म्म च ॥
सर्पिष्पानादि तस्येह मृदुभैषज्यमाचरेत्” ॥
इति च चिकित्सास्थाने १४ अध्याये चरकेणोक्तम् ॥
अन्यद्विवरणमस्योन्मादशब्दे ज्ञेयम् ॥)
तद्वाक्यप्रामाण्यं यथा, -- मलमासतत्त्वे ॥
“उन्मत्तानाञ्च या गाथा शिशूनां चेष्टितं च यत् ।
स्त्रियो यच्च प्रभाषन्ते नास्ति तत्र व्यतिक्रमः ॥
आदौ गच्छति देवेषु पश्चात् गच्छति मानुषान् ।
नादेशिता वाग्वदति सत्या ह्येषा सरस्वती” ॥

उन्मत्तः, पुं, (उन्मत्तयति । उन्मत्त + तत्करोतीति

णिच् + पचाद्यच् ।) धुस्तूरः । यथा, --
(“श्वेतोन्मत्तस्योत्तरदिङ्मूलसिद्धस्तु पायसः ।
गुडाज्यसंयुतो हन्ति सर्व्वोन्मादांश्च दोषजान्” ॥
इति तैद्यकचक्रपाणिसंग्रहे उन्मादाधिकारे ॥)
मुचुकुन्दवृक्षः । इति मेदिनी ॥

उन्मदः, त्रि, (उद्गतो मदो यस्य ।) उन्माद-

युक्तः । उद्गतमदः । तत्पर्य्यायः । उन्मदिष्णुः २ ।
इत्यमरः ॥ (“उदीरयामासुरिवोन्मदानाम्” ॥
इति रघुः । २ । ९ । तथा, माघे ६ । २९ ॥
“मधुकराङ्गनया मुहुरुन्मद-
ध्वनिभृता निभृताक्षरमुज्जगे” ॥)

उन्मदिष्णुः, त्रि, (उत् + मद् + इष्णुच् ।) उन्मदः ।

उन्मादशीलः । इत्यमरः ॥

उन्मनाः, [स्] त्रि, (उद्गतं उत्कण्ठितं मनो यस्य ।)

उत्कण्ठितचित्तः । तत्पर्य्यायः । उत्कः २ । इत्यमरः ॥
(“उन्मनाः प्रथमजन्मचेष्टिता-
न्यस्मरन्नपि बभूव राघवः” ।
इति रघुः । ११ । २२ । “पयोधरेणोरसि काचि-
दुन्मनाः” ॥ इति किराते । ८ । १९ ॥)

उन्मन्थः, पुं, (उत् + मथि + घञ् ।) मारणम् ।

बधः । इति हेमचन्द्रः ॥

उन्माथः, पुं, (उन्मथ्यतेऽनेनेति । उत् + मथ + घञ् ।

मारणादिपक्षे भावे घञ् ।) कूटयन्त्रम् । मृग-
बधोपयुक्तयन्त्रम् । आमिषं दत्त्वा मृगपक्षिबन्ध-
नार्थं यत् सन्धानयन्त्रं निवेश्यते सः । इत्यमरः ॥
मारणम् । घातकः । इति मेदिनी ॥
(यथा, प्रबोधचन्द्रोदये ।
“प्रभो मद्वाणानां क इव भुवनोन्माथविधिषु” ॥)

उन्मादः, पुं, (उत् + मद् + घञ् । (महादेवः ।

यथा महाभारते । महादेवसहस्रनामकथने १३
१७ । ६९ ॥ “उन्मादो मदनः कामो ह्यश्वत्थोऽर्थ-
करी यशः” ।) वातिकरोगविशेषः । तत्पर्य्यायः ।
चित्तविभ्रमः २ । इत्यमरः ॥ मतिभ्रंशः ३ उन्मनाः
४ । इति राजनिर्घण्टः ॥ (चित्तविप्लवः ५२ । २३४ ।
इति हेमचन्द्रः ॥) मानसरोगविशेषः ।
तस्यौषधं यथा, --
“वचा त्रिकटुकञ्चैव करञ्जं देवदारु च ।
मञ्चिष्ठा त्रिफला श्वेता शिरीषो रजनीद्वयम् ॥
प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् ।
नस्यमालेपनञ्चैव स्नानमुद्वर्त्तनम् तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।
भूतेभ्यश्च भयं हन्ति राजद्वारे च शासनम्” ॥
इति गारुडे १९९ अध्यायः ॥ * ॥ अथ उन्मादा-
धिकारः ॥ तत्र उन्मादस्य निरुक्तिमाह ।
“मदयन्त्युद्धता दोषा यस्मादुन्मार्गमास्थिताः ।
मानसोऽयमतो व्याधिरुन्माद इति कीर्त्तितः” ॥
अयमर्यः । यस्माद्धेतोरुद्धताः प्रवृद्धा दोषाः
उन्मार्गमास्थिताः मदयन्ति चित्तं विक्षिपन्त्य-
स्मिन् । अतोऽयमुन्माद इति कीर्त्तितः । सः
उन्मादः मानसो व्याधिः मनोवैकृत्यकरणात् ॥ * ॥
तस्यैवावस्थाभेदेन नामान्तरमाह । स चाप्रवृद्ध-
स्तरुणो मदसंज्ञां बिभर्त्ति च । स उन्मादस्तरुणो
नवीनः ॥ * ॥ उन्मादस्य विप्रकृष्टनिदानमाह ।
“विरुद्धदुष्टाशुचिभोजनानि
प्रधर्षणं देवगुरुद्विजानाम् ।
उन्मादहेतुर्भयहर्षपूर्ब्बो
मनोऽभिघातो विषमाश्च चेष्टाः ॥”
दुष्टं धत्तरवीजादिसहितम् । अशुचि रजस्वलादि-
पृष्ठ १/२४५
:स्पृष्टम् । प्रधर्षणमभिभवः । विषमाश्च चेष्टाः
बलवद्विग्रहादयः ॥ * ॥ सन्निकृष्टं निदानमाह ।
“एकैकशः सर्व्वशश्च दोषैरत्यर्थमुच्छ्रितैः ।
मानसेन च दुःखेन स पञ्चविध उच्यते ॥
विषाद्भवति षष्ठश्च यथास्वं तत्र भषजम्” ॥ * ॥
तस्य सम्प्राप्तिमाह ।
“तैरल्पसत्त्वस्य मलाः प्रदुष्टाः
बुद्धेर्निवासं हृदयं प्रदूष्य ।
स्रोतांस्यधिष्ठाय मनोवहानि
प्रमोहयन्त्याशु नरस्य चेतः” ॥
अल्पसत्त्वस्य अल्पसत्त्वगुणस्य । मला वातादयः ।
बुद्धेर्निवासं हृदयं प्रदूष्येति । एतेनाश्रयस्य दुष्ट्या
तदाश्रिताया बुद्धेरपि दुष्टिरुक्ता । मनोवहानि
स्रोतांसि हृदयाश्रितानि दश । एतानि विशे-
षतो बोद्धव्यानि । यतश्चरकेण सकलशरीर-
स्रोतांस्येव मनोऽधिष्ठानत्वेनोक्तानि । प्रमोहयन्ति
विकृतं कुर्व्वन्ति ॥ * ॥
उन्मादस्य सामान्यं रूपमाह ।
“धीविभ्रमः सत्त्वपरिप्लवश्च
पर्य्याकुला दृष्टिरधीरता च ।
अबद्धवाक्त्वं हृदयञ्च शून्यं
सामान्यमुन्मादगदस्य लिङ्गम्” ॥
धीविभ्रमः शुक्तिकायां रजतज्ञानम् । सत्त्वपरिप्लवः
सत्त्वं मनस्तस्य चाञ्चल्यम् । अबद्धवाक्त्वं असम्ब-
द्धभाषित्वम् । शून्यं स्मृतिशून्यम् ॥ * ॥
वातिकोन्मादस्य निदानपूर्ब्बिकां सम्प्राप्तिमाह ।
रूक्षाल्पशीतान्नविरेकधातु-
क्षयोपवासैरनिलोऽतिवृद्धः ।
चिन्तातिदुष्टं हृदयं प्रदूष्य
बुद्धिं स्मृतिं वाप्युपहन्ति शीघ्रम्” ॥
प्रदूष्य प्रकर्षेण दूषयित्वा ॥ * ॥
तस्यैव रूपमाह ।
“अस्थानहास्यस्मृतिनृत्यगीत-
वागङ्गविक्षेपणरोदनानि ।
पारुष्यकार्श्यारुणवर्णताश्च
जीर्णे बलञ्चानिलजस्य रूपम्” ॥
अस्थाने अनवसरे । हास्यादीनि रोदनान्तानि ।
जीर्णे आहारे । बलं व्याधेः ॥ * ॥
पैत्तिकस्य निदानपूर्ब्बिकां सम्प्राप्तिमाह ।
“अजीर्णकट्वम्लविदाह्यशीतै-
र्भाज्यैश्चितं पित्तमुदीर्णवेगम् ।
उन्मादमत्युग्रमनात्मकस्य
हृदि स्थितं पूर्ब्बवदाशु कुर्य्यात्” ॥
हृदि स्थितं पित्तं चितं सञ्चितम् । पुनः अजीर्ण-
कट्वम्लविदाह्यशीतैर्भोज्यैरुदीर्णवेगं सत् उन्मादं
कुर्य्यात् पूर्ब्बवत् हृदयं प्रदूष्य इत्यर्थः ॥ * ॥
तस्य रूपमाह ।
“अमर्षसंरम्भविनग्नभावाः
सन्तर्जनाभिद्रवणौष्ण्यचोषाः ।
प्रच्छायशीतान्नजलाभिलाषः
पोतावभाः पित्तकृतस्य लिङ्गम्” ॥
अमर्षोऽसहिष्णुता । संरम्भः आरभटी आडम्बर-
इति यावत् । सन्तर्जनं परत्रासनम् । अभिद्रवणं
पलायनम् । औष्ण्यं गात्रे । चोषो दाहविशेषः ।
प्रच्छाय इत्यादि छायायां शीतयोरन्नजलयोरभि-
लाषः ॥ * ॥
श्लैष्मिकस्य निदानपूर्ब्बिकां सम्प्राप्तिमाह ।
“सम्पूरणैर्मन्दविचेष्टितस्य
सोष्मा कफो मर्म्मणि संप्रवृद्धः ।
बुद्धिं स्मृतिं वाप्युपहन्ति चित्तं
प्रमोहयन् संजनयेद्विकारम्” ॥
संपूरणैर्भोजनादिभिः । मन्दविचेष्टितस्य व्यायाम-
रहितस्य । सोष्मा कफ इति कफोऽप्युन्मादं करि-
ष्यन् पित्तं सहायमपेक्षते व्याधिस्वभावात् ।
मर्म्मणि अत्र मर्म्मशब्देन हृदयमुच्यते । विकार-
मुन्मादरूपम् ॥ * ॥
तस्य रूपमाह ।
“वाक्चेष्टितं मन्दमरोचकश्च
नारीविविक्तप्रियता च निद्रा ।
छर्दिश्च लाला च बलञ्च भुक्ते
नखादिशौक्ल्यञ्च कफात्मके स्यात्” ॥
वाक्चेष्टितं मन्दं वचनमल्पम् । नारीविविक्त-
प्रियता नारीप्रियता विजनप्रियता च । भुक्ते सति
बलं व्याधेः ॥ * ॥
सान्निपातिकस्य निदानपूर्ब्बकं लक्षणमाह ।
“यः सन्निपातप्रभवोऽतिघोरः
सर्व्वैः समस्तैः स तु हेतुभिः स्यात् ।
सर्व्वाणि रूपाणि बिभर्त्ति तादृ-
ग्विरुद्धभैषज्यविधिर्व्विवर्ज्यः” ॥
स सान्निपातिक उन्मादः । सन्निपातग्रहणेनैव
सर्व्वात्मकत्वं लब्धम् । पुनः सर्व्वैरिति यत्कृतं तद्र-
जस्तमःप्रापणार्थम् । तेन रजस्तमोमिलितैरि-
त्यर्थः । तेन वातादयो रजस्तमोभिर्मनोदोषैर्म्मि-
लिताः । समस्तैश्च निदानैः कुपिता उन्मादं जन-
यन्ति । सर्व्वैर्हेतुभिः समस्तैर्म्मिलितैः स्यात् । यतो-
ऽन्यो व्याधिः सर्व्वैर्हेतुभिर्मिलितैरेव भवतीति
नियमो नास्ति । अयन्तु व्याधिप्रभावात् सर्व्वैर्हेतु-
भिर्म्मिलितैः स्यात् । तादृगुन्मादः विरुद्धभैष-
ज्यविधिः । विरुद्धभैषज्यविधिरिति कोऽर्थः । त्रि-
दोषजे प्रत्येकं वातादिप्रत्यनीका कार्य्या । सा च
परस्पराविरोधिनी त्रिदोषं हन्ति किञ्चिदेव
द्रव्यमामलकादि तच्चात्रायौगिकम् । अतएव वि-
वर्ज्यः न चिकित्स्य इत्यर्थः ॥ * ॥
मनोदुःखजस्य विप्रकृष्टं निदानमाह ।
“चौरैर्नरेन्द्रपुरुषैररिभिस्तथान्यै-
र्वित्रासितस्य धनबान्धवसंक्षयाद्वा ।
गाढं क्षते मनसि च प्रियया रिरंसो-
र्जायेत चोत्कटतरो मनसो विकारः” ॥
अन्यैर्हिंस्रादिभिः । गाढमतिशयेन । क्षते अभि-
हते । प्रियया प्राप्तुमशक्यया रिरंसोः पुरुषस्य
विकारः उन्मादरूपः ॥ * ॥
तस्य रूपमाह ।
“चित्रं ब्रवीति च मनोऽनुगतं विसंज्ञो
गायत्यथो हसति रोदिति चातिमूढः” ।
चित्रमाश्चर्य्यं । मनोऽनुगतं गोप्यमपि । विसंज्ञो
विरुद्धज्ञानः । अतीवमूढः अतीवज्ञानशून्यः । अत्र
विकल्पो बोद्धव्यः ॥ * ॥
विषजस्य रूपमाह ।
“रक्तेक्षणो हतबलेन्द्रियभाः सुदीनः
श्यावाननो विषकृते तु भवेत् परासुः” ।
परासुः मृतः ॥ * ॥
अरिष्टमाह ।
“अवाङ्मुखस्तून्मुखो वा क्षीणमांसबलो नरः ।
जागरूको ह्यसन्देहमुन्मादेन विनश्यति” ॥ * ॥
अथ देवादिकृतस्योन्मादस्य सामान्यं लक्षणमाह।
“अमर्यवाग्विक्रमवीर्य्यचेष्टो
ज्ञानादिविज्ञानबलादियुक्तः ।
प्रकोपकालो नियतश्च यस्य
देवादिजन्मा स मनोविकारः” ॥
अमर्त्यवाग्विक्रमवीर्य्यचेष्टः न मर्त्यस्येव मनुष्यस्येव
वागादयो यत्र सः । विक्रमः पराक्रमः । वीर्य्यं
शौर्य्यम् । ज्ञानादिविज्ञानबलादियुक्तः । ज्ञानं
बुद्धिः । आदिषदेन तद्भेदा मेधा-विचारणा-स्मृत्या-
दयो गृह्यन्ते । विज्ञानं शिल्पादिविषयकं ज्ञानम् ।
चेष्टा पाटवम् । आदिपदेनाभिमानादि गृह्यते ।
नियतः वक्ष्यमाणतिथ्यादिभिः । मनोविकार उ-
न्मादः ॥ * ॥
तत्र देवाविष्टस्य लक्षणमाह ।
“सन्तुष्टः शुचिरतिदिव्यमाल्यगन्धो
निस्तन्द्रोऽवितथसंस्कृतप्रभाषी ।
तेजस्वी स्थिरनयनो वरप्रदाता
ब्रह्मण्यो भवति नरः स देवजुष्टः” ॥
अतिदिव्यमाल्यगन्धः अतिशयो दिव्यमाल्यस्येव
गन्धो यस्य सः । निस्तन्द्रः निद्रारहितः । अवितथं
सत्यम् । ब्रह्मण्यः ब्राह्मणभक्तः ॥ * ॥
दैत्याविष्टमाह ।
“संस्वेदी द्विजगुरुदेवदोषवक्ता
जिह्माक्षो विगतभयो विमार्गदृष्टिः ।
सन्तुष्टो भवति न चान्नपानजातै-
र्दुष्टात्मा भवति स देवशत्रुजुष्टः” ॥
विमार्गट्टष्टिः कुमार्गरतः । दुष्टात्मा दुष्टस्वभावः ।
गन्धर्व्वाविष्टमाह ।
“हृष्टात्मा पुलिनवनान्तरोपसेवी
स्वाचारः प्रियपरिगीतगन्धमाल्यः ।
नृत्यन् वै प्रहसति चारु चाल्पशब्दं
गन्धर्व्वग्रहपरिपीडितो मनुष्यः” ॥
हृष्टात्मा हृष्टजीवात्मा । पुलिनंतोयोत्थितं तटम् ।
वनान्तरं वनमध्यम् । तयोः सेवी । स्वाचारः
अनिन्दिताचारः । प्रियाणि परि समन्ततो भावेन
गीतगन्धमाल्यानि यस्य स तथा । चारुचाल्प-
शब्दमिति हसनक्रियाया विशेषणम् ॥ * ॥
यक्षाविष्टमाह ।
“ताम्राक्षः प्रियतनुरक्तवस्त्रधारी
गम्भीरोऽद्भुतगतिरल्पवाक् सहिष्णुः ।
तेजस्वी वदति च किं ददामि कस्मै
यो यक्षग्रहपरिपीडितो मनुष्यः” ॥ * ॥
पृष्ठ १/२४६
:पित्राविष्टमाह ।
“प्रेतानां स दिशति संस्तरेषु पिण्डान्
शान्तात्मा जलमपि वापसव्यवस्त्रः ।
मांसेक्षुतिलगुडपायसाभिकाम-
स्तद्भक्तो भवति पितृग्रहाभिजुष्टः” ॥
प्रेतानां मृतानां पितणाम् । दिशति ददाति ।
अपसव्यवस्त्रः दक्षिणस्कन्धधृतोत्तरीयः ॥ * ॥
नागाविष्टमाह ।
“यस्तूर्व्व्यां प्रसरति सर्पवत् कदाचित्
सृक्वण्यौ मुहुरपि जिह्वयावलेढि ।
क्रोधालुर्घृतमधुदुग्धपायसेप्सु-
र्विज्ञेयः स खलु भुजङ्गमेन जुष्टः” ॥
प्रसरति सर्पवत् उरसा चलति । सृक्वण्यौ ओष्ठ-
प्रान्तौ ॥ * ॥
राक्षसाविष्टमाह ।
“मांसासृग्विविधसुराविकारलिप्सु-
र्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः ।
क्रोधालुर्विपुलबलो निशाविचारी
शौचद्विट् भवति स राक्षसैर्गृहीतः” ॥
अतिनिष्ठुरोऽतिनिर्दयः ॥ * ॥
ब्रह्मराक्षसाविष्टमाह ।
“देवविप्रगुरुद्वेषी वेदवेदाङ्गविच्छुचिः ।
आत्मपीडाकरोऽहिंस्रो ब्रह्यराक्षससेवितः” ॥
अहिंस्रः अहिंसाशीलः ॥ * ॥
पिशाचाविष्टमाह ।
“उद्वस्त्रः कृशपरुषो विरुद्धभाषी
दुर्गन्धो भृशमशुचिस्तथातिलोलः ।
बह्वाशी विजनवनान्तरोपसेवी
व्याचेष्टन् भ्रमति रुदन् पिशाचजुष्टः” ॥
उद्वस्त्रः नग्नः । दिगम्बर इति विदेहवचनात् ।
कृशो निर्मांसः । परुषो रूक्षः । अतिलोलः सर्व्व-
स्मिन् अन्नपाने लोलुपः । व्याचेष्टन् विरुद्धमाचे-
ष्टन् । ग्रहा हिंसा क्रीडा पूजार्थं गृड्णन्ति । अत-
एवोक्तम् ।
“अशुचिं भिन्नमर्य्यादं क्षतं वा यदि वाक्षतम् ।
हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा” ॥ * ॥
तत्र हिंसार्थं गृहीतस्य लक्षणमाह ।
“स्थूलाक्षो द्रुतमटनः सफेनवामी
निद्रालुः पतति च कम्पते च योऽति ।
यश्चाद्रिद्विरदनगादिविच्युतः स्यात्
सोऽसाध्यो भवति तथा त्रयोदशेऽब्दे ॥”
यश्चाद्रीत्यादि यः पर्ब्बतादिपतितः सन् ग्रहैर्गृह्यत-
इत्यर्थः । आदिर्शब्देन भित्तिप्रासादादयो गृह्यन्ते ।
त्रयोदशेऽब्दे सर्व्व एव देवादिगृहीतोऽसाध्यः ॥ * ॥
देवादीनामावेशसमयमाह ।
“देवग्रहाः पौर्णमाम्यामसुराः सन्ध्ययोरपि ।
गन्धर्व्वाः प्रायशोऽष्टम्यां यक्षश्च प्रतिपद्यपि ॥
पितरः कृष्णपक्षे च पञ्चम्यामपि चोरगाः ।
रक्षःपिशाचा रात्रौ च चतुर्द्दश्यां विशन्ति हि” ॥
कृष्णपक्षे अमायाम् । प्रायशःपदादन्यत्रापि ।
तिथ्यमिधानप्रयोजनं लक्षणार्थं तत्र तिथौ बलि-
दानार्थञ्च ॥ * ॥ ननु यदि देवादयो विशन्ति तदा
विशन्तस्ते दृश्यन्ते कथं नेत्यत आह ।
“दर्पणादीन् यथा छाया शीतोष्णं प्राणिनो यथा ।
स्वमणिं भास्करार्च्चिश्च यथा देहञ्च देहधृक् ॥
विशन्ति न च दृश्यन्ते ग्रहास्तद्वच्छरीरिणाम्” ।
दर्पणादीत्यादिशब्देनान्यदपि निर्म्मलद्रवद्रव्यं गृ-
ह्यते । छाया प्रतिविम्बम् । स्वमणिं सूर्य्यमणिम् ।
देहधृक् जीवात्मा ॥ * ॥ * ॥
अथोन्मादस्य चिकित्सा ।
“वातिके स्नेहपानं प्राक् विरेकः पित्तसम्भवे ।
कफजे वमनं कार्य्यं परो वस्त्यादिकक्रमः
यच्चोपदेक्ष्यते किञ्चिदपस्मारे चिकित्सितम् ।
उन्मादे तच्च कर्त्तव्यं सामान्याद्दोषदूष्ययोः ॥
जलादिद्रुमशैलेभ्यो विषमेभ्यश्च तं सदा ।
रक्षेदुन्मादिनं यत्नात् सद्यः प्राणहरा हि ते” ॥
ते जलादयः ॥ * ॥
“ब्राह्मीकुष्माण्डीफलषड्ग्रन्थाः शङ्खपुष्पिकास्वरसाः ।
दृष्टा उन्मादहृतः पृथगेते कुष्ठमधुमिश्राः” ॥
अत्र ब्राह्मीति पदं ब्राह्मीस्वरसपरम् । कुष्माण्डी-
फलं तद्वीजपरम् । षड्ग्रन्थे तु यथाश्रुतार्थमेव ।
तेनायमर्थः । वरभीकरसतोरा ४ कूटकचूर्ण-
मासा २ मधुमासा ८ पेयः । इत्येको योगः ॥
कोहण्डके वीजकचूर्णमासा २ कूटकचूर्णमासा २
मधुना संनीयावलेह्यम् । द्वितीयो योगः । महा-
भरीवचकचूर्णमासा २ कूटकचूर्णमासा २ मधु
नावलेह्यम् । तृतीयो योगः ॥ शङ्खपुष्पीस्वरस-
तोरा ४ कूटकचूर्णमासा २ मधुमासा ८ पेयः ।
चतुर्थयोगः ॥ * ॥
“सिद्धार्थको हिङ्गु वचाकरञ्जौ देवदारु च ।
मञ्जिष्ठा त्रिफला श्वेता कटभीत्वक् कटुत्रिकम् ॥
समांशानि प्रियङ्गुश्च शिरीषो रजनीद्वयम् ।
वस्तमूत्रेण पिष्टोऽयमगदः पानमञ्जनम् ॥
नस्यमालेपनञ्चैव स्नानमुद्वर्तनं तथा ।
अपस्मारविषोन्मादकृत्यालक्ष्मीज्वरापहम् ॥
भूतेभ्यश्च भयं हन्ति राजद्वारे च शस्यते ।
सर्पिरेतेन संसिद्धं सगोमूत्रं तथार्थकृत्” ॥
सिद्धार्थकादि ॥ * ॥
“ब्रूयादिष्टविनाशञ्च दर्शयेदद्मुतानि च ।
बद्धं सर्षपतैलाक्तं रक्षेदुत्तानमातपे ॥
कपिकच्छूथवा तप्तैर्लोहतैलजलैः स्पृशेत् ।
कशाभिस्ताडयेत्तं वा सुबद्धं विजने गृहे ॥
सर्पेणोद्धतदत्तेन दंशैः सिंहैर्गजैश्च तं ।
त्रासयेच्छस्त्रहस्तैश्च शत्रुभिस्तस्करैस्तथा ॥
अथवा राजपुरुषा वहिर्नीत्वा सुसंयतम् ।
त्रासयेयुर्ब्बधैरेनं तर्ज्जयन्तो नृपाज्ञया ॥
देहदुःखभयेभ्यो हि यतः प्राणभयं महत् ।
ततस्तस्य शमं याति सर्व्वतो विप्लुतं मनः ॥
इष्टद्रव्यविनाशेन मनो यस्याभिहन्यते ।
तस्य तत्सदृशप्राप्त्या सान्त्वाश्वासैः शमं नयेत् ॥ * ॥
त्र्युषणं हिङ्गु लवणं वचा कदुकरोहिणी ।
शिरीषस्य करञ्जस्य वीजं गौराश्च सर्षपाः ॥
गोमूत्रपिष्टैरेभिस्तु वर्त्तिर्नेत्राञ्जने हिता ।
हन्त्युन्मादमपस्मारं तथा चातुर्थकं ज्वरम्” ॥
त्र्युषणाद्यञ्जनम् ॥ * ॥
“कुष्ठाश्वगन्धे लवणाजमोदे
द्वे जीरके त्रीणि कदूनि पाठा ।
मङ्गल्यपुष्पी च समान्यमूनि
सर्व्वैः समानाञ्च वचां विचूर्ण्य ॥
ब्राह्मीरसेनाखिलमेव भाव्यं
वारत्रयं शुष्कमिदं हि चूर्णम् ।
अक्षप्रमाणं मधुना घृतेन
लिह्यान्नरः सप्त दिनानि यावत् ॥
सारस्वतमिदं चूर्णं ब्रह्मणा निर्म्मितं पुरा ।
हिताय सर्व्वलोकानां दुर्म्मेधानां विचेतसाम् ॥
एतस्याभ्यासतः पुंसां बुद्धिर्म्मेधा घृतिः स्मृतिः ।
सम्पत्तिः कविताशक्तिः प्रवर्द्धेतोत्तरोत्तरम्” ॥
मङ्गल्यपुष्पी शङ्खदूली इति लोके । सारस्वतं
चूर्णम् ॥ * ॥
“विश्वाजमोदरजनीद्वयसैन्धवोग्रा-
षष्ट्याह्वकुष्ठमगधोद्भवजीरकाणाम् ।
चूर्णं प्रभातसमये लिहतः ससर्पि-
र्वाग्देवता निवसति स्वयमेव वक्त्रे” ॥
विश्वाद्यं चूर्णम् ॥ * ॥
“क्वाथ्ये विचूर्णिते क्षिप्त्वा तत्षोडशगुणं जलम् ।
पादशेषं प्रकर्त्तष्यमेष क्वाथविधिः स्मृतः ॥
दशमूली तथा रास्ना वातारिस्त्रिवृता बला ।
मूर्व्वा शतावरी चेति क्वाथ्यैस्तु कुडवैः पृथक् ॥
कृते क्वाथे घृतं प्रस्थद्वयं मृद्वग्निना पचेत् ।
कल्कीकृतैर्वक्ष्यमाणद्रव्यैः मम्यक् पुनः पचेत् ॥
विशाला त्रिफला कौन्ती देवदार्व्वेलवालुकम् ।
स्थिरानन्ता रजन्यौ द्वे प्रियङ्गुः सारिवाद्वयम् ॥
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम् ।
विडङ्गं ह्यग्निपत्री च कुष्ठं चन्दनपद्मके ॥
तालीसपत्रं वृहती मालतीकुसुमं नवम् ।
अष्टाविंशतिभिः कल्कैरेतैः कर्षमितैः पृथक् ॥
चतुर्गुणं जलं दत्त्वा पिष्टैस्तद्विपचेद्घृतम् ।
महाचैतसनामेदं सर्व्वचेतोविकारहृत् ॥
अपस्मारे महोन्मादे मन्देऽग्नौ ज्वरकासयोः ।
वातरक्ते प्रतिश्याये शोषे कार्श्ये तृतीयके ॥
मूत्रकृच्छ्रे कटीशूले विसर्पाभिहतेषु च ।
पाण्ड्वामये तथा कण्ड्वां विषे मेहे गरेऽपि च ॥
देवादिहतचित्तानां गद्गदानामचेतसाम् ।
शस्तं स्त्रीणाञ्च बन्ध्यानां धन्यमायुर्बलप्रदम् ॥
अलक्ष्मीपापरक्षोघ्नं सर्व्वग्रहनिवारणम् ।
हन्ति भ्रमं मदं मूर्च्छां मेधास्मृतिमतिप्रदम्” ॥
अग्निपत्री अग्निवतीति लोके अगिया इति च ।
महाचैतसं घृतम् ॥ * ॥
अथ देवाद्याविष्टानां चिकित्सा ।
“पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः ।
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक् ॥
कृष्णामरिचसिन्धूत्थमधुगोरोचनाकृतम् ।
अञ्जनं सर्व्वदेवादिकृतोन्मादहरं परम्” ॥
कृष्णाद्यञ्जनम् ॥ * ॥
“ऋक्षजम्बुकलोमानि शल्लकी लसुनं तथा ।
हिङ्गु मूत्रञ्च वस्तस्य धूपमस्य प्रयोजयेत् ॥
पृष्ठ १/२४७
:एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः” ।
ऋक्षलोमादिधूपः ॥ * ॥
“कल्याणकञ्च युञ्जीत महद्वा चैतसं घृतम् ।
तैलं नारायणं चाथ महानारायणं तथा ॥
ऋते पिशाचादन्येषु प्रतिकूलं न चाचरेत् ।
रोगिणं भिषजं यत्ते क्रुद्धा हन्युर्म्महौजसः” ॥
इत्युन्मादाधिकारः । इति भावप्रकाशः ॥
(आत्रेय उवाच ॥
“अयं मानसको व्याधिरुन्माद इति कीर्त्तितः ।
प्रमत्ता ऊर्द्ध्वगा दोषा ऊर्द्ध्वं गच्छन्त्यमार्गताम् ॥
उन्मादो नाम दोषोऽयं कष्टसाध्यो भिषग्वरैः ।
सोऽपि पृथग्विधैर्दोषैर्द्वन्द्वजोऽन्यः प्रकीर्त्तितः ।
अथान्यः सन्निपातेन विषाद्भवति चापरः ॥
अशुचिविपथशून्यागारकेऽरण्यमध्ये
सभयगहनवीथीदेवतागारके च ।
अथ कथमपि भीत्या शङ्कया खिन्नचेतः-
क्षुभितमनसमार्गत्याज्यमुन्मार्गयेति ॥
चिन्ताव्यथासुभयहर्षविमर्षलोभात्
देवातिथिद्विजनरेन्द्रगुरोर्विमानात् ।
प्रेमाधिकाद्युवजनादपि विप्रयोगात्
उन्मादहेतु च नृणां कथितं वरिष्ठैः ॥
तन गायति वा रौति विरूपं पठते यदा ।
लोलयेच्छर्द्दते वापि कम्पते हसते तथा ॥
धावते हनने चैव तथा जिह्वा विनश्यति ।
नरो वा भ्रमतेऽत्यर्थं पश्येद्घनमथातुरः ॥
तस्यापस्मारकं कर्म्म कर्त्तव्यं भिषजांवरैः ।
विशेषेण भूतविद्यां मध्ये वक्ष्यामि चाग्रतः” ॥
इति महर्ष्यात्रेयभाषिते हारीतोत्तरे तृयीय-
स्थाने उन्मादनिदाननामा विंशोऽध्यायः ॥
अस्य सम्प्राप्तिसहित-निदानलक्षण-चिकित्सिता-
न्याह वाभटः ॥
“उन्मादाः षट् पृथग्दोषनिचयाधिविषोद्भवाः ।
उन्मादोनाम मनसो दोषैरुन्मार्गगैर्मदः ॥
शारीरमानसैर्दुष्टैरहितादत्र पानतः ।
विकृतासात्म्यसमलाद्विषमादुपयोगतः ॥
विषमस्याल्पसत्त्वस्य व्याधिवेगसमुद्गमात् ।
क्षीणस्य चेष्टावैषम्यात् पूज्यपूजाव्यतिक्रमात् ॥
आधिभिश्चिचविभ्रंशाद्विषेणोपविषेण च ।
एभिर्विहीनसत्त्वस्य हृदि दोषाः प्रदूषिताः ॥
धियो विधाय कालुष्यं हत्वा मार्गान् मनीवहान्
उन्मादं कुर्व्वते तेन धीविज्ञानस्मृतिभ्रमात् ॥
देहो दुःखसुखभ्रष्टो, भ्रष्टसारथिवद्रथः ।
भ्रमत्यचिन्तितारम्भम्” --
वातादिभेदेन लक्षणं यथा ॥
“तत्र वातात् कृशाङ्गता ॥
अस्थाने रोदनाक्रोशहसितस्मितनर्त्तनम् ।
गीतवादित्रवागङ्गविक्षेपास्फोटनानि च ॥
असाम्ना वेणुवीणादिशब्दानुकरणं मुहुः ।
आस्यात् फेनागमोऽजस्वमटनं बहुभाषिता ॥
अलङ्कारोऽनलङ्कारैरयानैर्गमनोद्यमः ।
गृद्धिरभ्यवहार्य्येषु तल्लाभे वावमानता ॥
उत्पिण्डितारुणाक्षित्वं जीर्णे चान्ने गदोद्भवः ॥ १ ॥
पित्तात् सन्तर्ज्जनं क्रोधो मुष्टिलोष्ट्राद्यभिद्रवः ।
शीतच्छायोदकाकाङ्क्षा नग्नत्वं पीतवर्णता ।
असत्यज्वलनज्वालातारकादीपदर्शनम् ॥ २ ॥
कफादरोचकश्छर्द्दिरल्पेहाहारवाक्यता ।
स्त्रीकामता रहः प्रीतिर्लालासिङ्घाणकश्रुतिः ॥
बैभत्स्यं शौचविद्वेषो निद्राश्वयथुरानने ।
उन्मादो बलवान् रात्रौ भुक्तमात्रे च जायते ॥ ३ ॥
सर्व्वायतनसंस्थानसन्निपाते तदात्मकम् ।
उन्मादं दारुणं विद्यात् तं भिषक् परिवर्ज्जयेत् ॥ ४ ॥
धनकान्तादिनाशेन दुःसहेनाभिषङ्गवान् ।
पाण्डुर्दीनो मुहुर्मुह्यन् हाहेति परिदेवते ॥
रोदित्यकस्मान् म्रियते तद्गुणान् बहु मन्यते ।
शोकक्लिष्टमना ध्यायन् जागरूको विचेष्टते ॥ ५ ॥
विषेण श्याववदनो नष्ठच्छायाबलेन्द्रियः ।
वेगान्तरेऽपि संभ्रान्तो रक्षाक्षस्तं विवर्जयेत्” ॥ ६ ॥
चिकित्सा यथा ॥
“अथानिलज उन्मादे स्नेहपानं प्रयोजयेत् ।
पूर्ब्बमावृतमार्गे तु सस्नेहं मृदुशोधनम् ॥
कफपित्तभवेऽप्यादौ वमनं सविरेचनम् ।
तथास्य शुद्धदेहस्य प्रसादं लभते मनः ॥
इत्थमप्यनुवृत्तौ तु तीक्ष्णं लावणमञ्जनम् ।
हर्षणाश्वासनोत्त्रासभयताडनतर्ज्जनम् ॥
अभ्यङ्गोद्वर्त्तनालेपधूमान् पानञ्च सर्पिषः ।
युञ्ज्यात्तानि हि शुद्धस्य नयन्ति प्रकृतिं मनः” ॥ * ॥
“द्वौ प्रस्थौ स्वरसाद्ब्रह्म्या घृतप्रस्थञ्च साधितम् ॥
व्योषश्यामात्रिवृद्दन्तीशङ्खपुष्पीनृपद्रुमैः ।
ससप्तलाक्रिमिहरैः कल्कितैरक्षसम्मितैः ॥
पलवृद्ध्या प्रयुञ्जीत परं मात्राचतुष्पलम् ।
उन्मादकुष्ठापस्मारहरं बन्ध्यासुतप्रदम् ॥
वाक्स्वरस्मृतिमेधाकृद्धन्यं ब्राह्मीघृतं स्मृतम्” ॥
इति ब्राह्मीघृतम् ॥ * ॥
“वरा विशाला भद्रैला देवदार्व्वेलबालुकैः ।
द्विसारिवा द्विरजनी द्विस्थिरा फलिनी नतैः ॥
वृहतीकुष्ठमञ्जिष्ठानागकेशरदाडिमैः ।
वेल्लतालीशपत्रैलामालतीमुकुलोत्पलैः ॥
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत् ।
प्रस्थं भूतग्रहोन्मादकासापस्मारपाप्मसु ॥
पाण्डुकण्डुविषे शोफे मोहे मेहे गरे ज्वरे ।
अरेतस्यप्रजसि वा दैवोपहतचेतसि ॥
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके ।
बल्यं मङ्गल्यमायुष्यं कान्तिसौभाग्यपुष्टिदम् ॥
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च” ॥
इति कल्याणघृतम् ॥ * ॥
“एभ्यो द्विसारिवादीनि जले पक्त्वैकविंशतिम् ।
रसे तस्मिन् पचेत्सर्पिर्गृष्टिक्षीरं चतुर्गुणम् ॥
वीराद्विमेदाकाकोलीकपिकच्छूविषाणिभिः ।
सूर्पपर्णोयुतैरेतन्महाकल्याणकं परम् ॥
वृंहणं सन्निपातघ्नं पूर्ब्बस्मादधिकं गुणैः” ॥
इति महाकल्याणं घृतम् ॥ * ॥
“जटिला पूतना केशी चारटी मर्कटी वचा ॥
त्रायमाणा जया वीरा चोरकः कटुरोहिणी ।
कायस्था शूकरीच्छत्रा अतिच्छत्रा पलङ्कषा ॥
महापुरुषदन्ता च वनस्था नाकुलीद्वयम् ।
कटम्भरा वृश्चिकाली शालिपर्णो च तैर्घृतम् ॥
सिद्धं चातुर्थिकोन्मादग्रहापस्मारनाशनम् ।
महापैशाचकं नाम घृतमेतद्यथामृतम् ॥
बुद्धिमेधास्मृतिकरं बालानाञ्चाङ्गवर्द्धनम्” ॥
इति महापैशाचकं घृतम् ॥ * ॥
“अवपीडाश्च विविधाः सर्षपाः स्नेहसंयुताः ।
कटुतैलेन चाभ्यङ्गो ध्मापयेच्चास्य तद्रजः ॥
सहिङ्गुस्तीक्ष्णधूमश्च सूत्रस्थानोदितो हितः ॥ * ॥
शृगालशल्यकोलूकजलूकावृषवस्तजैः ॥
मूत्रपित्तशकृल्लोमनखचर्म्मभिराचरेत् ।
धूपधूमाञ्जनाभ्यङ्गप्रदेहपरिषेचनम् ॥
धूपयेत् सततञ्चैनं श्वगोमत्स्यैस्तु पूतिभिः ।
वातश्लेष्मात्मके प्रायः पैत्तिके तु प्रशस्यते ॥
तिक्तकं जीवनीयञ्च सर्पिः स्नेहश्च मिश्रकः ।
शिशिराण्यन्नपानानि मधुराणि लघूनि च ॥
विध्येच्छिरां यथोक्तां वा तृप्तं मेद्यामिषस्य वा ।
निवाते शाययेदेवं मुच्यते मतिविभ्रभात्” ॥
“भूतानुबन्धमीक्षेत प्रोक्ताल्लिङ्गाधिकाकृतिम् ॥
यद्युन्मादे ततः कुर्य्याद्भूतनिर्द्दिष्टमौषधम् ।
बलिञ्च दद्यात् पललं यावकं सक्तुपिण्डिकाम् ॥
स्निग्धं मधुरमाहारं तण्डुलान् रुधिरोक्षितान् ।
पक्वामकानि मांसानि सुरामैरेयमासवम् ॥
अतिमुक्तस्य पुष्पाणि जात्या सहचरस्य च ।
चतुष्पथे गवां तीर्थे नदीनां सङ्गमेषु च ॥
निवृत्तामिषमद्यो यो हिताशी प्रयतः शुचिः ।
निजागन्तुभिरुन्मादैः सत्त्ववान्न स युज्यते ॥
प्रसाद इन्द्रियार्थानां बुद्ध्यात्ममनसान्तथा ।
धातूनां प्रकृतिस्थत्वं विगतोन्मादलक्षणम्” ॥ * ॥
इति वाभटे उत्तरस्थाने सप्तमोऽध्यायः ॥
अस्य सनिदानसंप्राप्तिर्यथा ।
“इह खलु पञ्चोन्मादा भवन्ति । तद्यथा, --
वातपित्तकफसन्निपातागन्तुनिमित्तास्तत्र दोष-
निमित्ताश्चत्वारः ।
पुरुषाणामेवंविधानां क्षिप्रमभिनिर्वर्त्तन्ते तद्यथा,
भीरूणामुपक्लिष्टसत्त्वानामुत्सन्नदोषाणाञ्च
मलविकृतोपहितानि अनुचितान्याहारजातानि
वैषम्ययुक्तेनोपयोगविधिनोपयुञ्जानानां तन्त्रप्रयोग
वा विषममाचरतामन्यां वा चेष्टां विषमां समा-
चरतामत्युपक्षीणदेहानाञ्च व्याधिवेगसमुद्भ्रमि-
तानामुपहतमनसां वा काम-क्रोध-लोभ-हर्ष-भय-
शोक-चिन्तोद्वेगादिभिः पुनरभिघाताभ्याहतानां
वा मनस्युपहते बुद्धौ च प्रचलितायामभ्युदीर्णाः
दोषाः प्रकुपिता हृदयमुपसृत्य मनोवहानि
स्रोतांस्यावृत्य जनयन्त्युन्मादम् । उन्मादं पुनर्मनो-
बुद्धि-संज्ञा-ज्ञान-स्मृति-भक्ति-शील-चेष्टाहार-
विभ्रमं विद्यात्” ॥
तस्येमानि पूर्ब्बरूपाणि । तद्यथा, --
“शिरसः शून्यभावः चक्षुषोः व्याकुलता स्वनःकर्ण-
यीरुच्छ्वासस्याधिक्यमास्यसंस्रवणमनन्नाभिलाषो-
ऽरोचकाविपाकौ हृदयग्रहो ध्यानायास-सम्मो-
होद्वेगाश्चास्थाने सततं लोमहर्षो ज्वरश्चाभीक्ष्ण-
पृष्ठ १/२४८
:मुन्मत्तचित्तत्वमुदर्द्दितत्वमर्द्दिताकृतिकरणञ्चव्याधेः
स्वप्ने च दर्शनमभीक्ष्णं भ्रान्तचलितानवस्थिता-
नवस्थितानाञ्च रूपाणामप्रशस्तानाञ्च तिलपी-
डकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं
निमज्जनं कलुषाणामम्भसामावर्त्तेषु चक्षुषोश्चा-
पसर्पणमिति दोषनिमित्तानामुन्मादानां पूर्ब्ब-
रूपाणि” ॥
अत्र वातादिभेदेनास्य लक्षणानि यथा, --
“ततोऽनन्तरमुन्मादाभिनिर्वृत्तिस्तत्रेदमुन्माद-
विज्ञानं भवति । तद्यथा, -- परिसर्पणमक्षिभ्रुवा-
मोष्ठांस-हनु-हस्त-पादविक्षेपणमकस्मादनियता-
नाञ्च सततङ्गिरामुत्सर्गः फेनागमनमात्स्यात् स्मित-
हसित-नृत्य-गीत-वादित्र-प्रयोगाश्चास्थाने वीणा-
वंश-शङ्ख-शस्यातालशब्दानुकरणमसाम्ना । यान-
मयानैरलङ्करणमनलङ्कारिकैर्द्रव्यैर्लोभोऽभ्यवहार्य्ये-
ष्वलब्धेषु । लब्धषु चावमानस्तीव्रं मात्सर्य्यं कार्श्यं
पारुष्यमुत्पिण्डितारुणाक्षता वातोपशय-विपर्य्या-
सानुपशयिता चेति वातोन्मादलिङ्गानि भवन्ति ॥
अमर्षः क्रोध-संरम्भश्चास्थाने शस्त्रलोष्टकाष्ठ-
मुष्टिभिरभिद्रवणं स्वेषां परेषां प्रच्छाय-शीतोद-
कान्नाभिलाषः । सन्तापोऽतिवेलम् । ताम्रहरित-
हारिद्रसंरब्धाक्षिता पित्तोपशयविपर्य्यासादनु-
पशयिता चेति पित्तोन्मादलिङ्गानि भवन्ति ॥
स्थानमेकदेशे तूष्णीम्भावोऽल्पशश्चंक्रमणं ला-
लाशिङ्घाणकाप्रस्रवणमनन्नाभिलाषो रहस्कामता
बीभत्सत्वं शौचद्वेषः स्वप्न-निद्रताश्वयथुरानने शुक्ल-
स्तिमितमलोपदिग्धाक्षता श्लेष्मोपशयविपर्य्या-
सादनुपशयिता चेति श्लेष्मोन्मादलिङ्गानि भवन्ति ।
त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात् ।
तमसाध्यमित्याचक्षते कुशलाः” ॥
साधारणसाधनविधिर्यथा ।
“साध्यानान्तु त्रयाणां साधनानि भवन्ति ।
तद्यथा, -- स्नेह-स्वेद-वमन-विरेचनास्थापनानुवास-
नोपशमननस्तः कर्म्म-धूप-धूम-पानाञ्जनावपीड-
प्रधमनाभ्यङ्ग-प्रदेह-परिषेकानुलेपन-बध-बन्धना-
वरोधन-वित्रासन-विस्मापन-विस्मारणापतर्पण-
शिराव्यधनानि ॥
भोजनविधानञ्च यथास्वं युक्त्या यच्चान्यदपि
किञ्चिन्निदानविपरीतमौषधं कार्य्यन्तत्स्यादिति ।
उन्मादान् दोषजान् साध्यान् साधयेद्भिषगुत्तमः ।
अनेन विधियुक्तेन कर्म्मणा यत्प्रकीर्त्तितम्” ॥ इति ॥
आगन्तुरुन्मादो यथा ।
“यस्तु दोषनिमित्तेभ्य उन्मादेभ्यः समुत्थान-
पूर्ब्बरूपलिङ्गविशेषसमन्वितो भवत्युन्मादस्तमा-
गन्तुमाचक्षते ॥
केचित् पुनः पूर्ब्बकृतं कर्म्माप्रशस्तमिच्छन्ति ।
तम्य निमित्तं प्रज्ञापराध एवेति भगवान् पुनर्व्व-
सुरात्रेय उवाच ॥
प्रज्ञापराधाद्ध्ययं देवर्षि-पितृ-गन्धर्व्व-यक्ष-रा-
क्षम-पिशाच-गरु-वृद्ध-मिद्धाचार्य्य-पूज्यानवमत्या-
हितान्याचरति अन्यद्वा किञ्चित् कर्म्माप्रशस्त-
सारमते ।
तमात्मनोहतमुपघ्नन्तो देवादयः कुर्व्वन्त्युन्मत्तम्” ॥
आगन्तून्मादस्य पूर्ब्बरूपाणि यथा ।
“तत्र देवादिप्रकोपनिमित्तेनागन्तून्मादेन पुर-
स्कृतस्येमानि पूर्ब्बरूपाणि । तद्यथा -- देव-गो-
ब्राह्मण-तपस्विनां हिंसारुचित्वं कोपनत्वं नृशं
साभिप्रायता अरतिरोजो-वर्णच्छाया-बल-वपुषा-
ञ्चोपतप्तिः स्वप्ने च देवादिभिरभिभर्त्सनं प्रवर्त्त-
नञ्चेति ततोऽन्तरमुन्मादाभिनिर्वृत्तिः ॥
तत्रायमुन्मादकराणां भूतानामुन्मादयिष्यता-
मारम्भविशेषो भवति । तद्यथा । अवलोकयन्तो
देवा जनयन्त्युन्मादं गुरुवृद्धसिद्धर्षयोऽभिशपन्तः
पितरो धर्षयन्तः स्पृशन्तो गन्धर्व्वाः समाविशन्तो
यक्षराक्षसास्त्वामगन्धमाघ्रापयन्तः पिशाचाः पुन-
रारुह्य वाहयन्तः ॥
तस्येमानि रूपाणि भवन्ति । तद्यथा । अमर्त्त्यबल-
वीर्य्य-पौरुष-पराक्रम-ग्रहण-धारण-स्मरण-वचन-
ज्ञान-विज्ञानान्यनियतश्चोन्मादकालः ।
उन्मादयिष्यतामपि खलु देवर्षि-पितृ-गन्धर्व्व-
यक्ष-राक्षस-पिशाचानां गुरुवृद्धसिद्धानां वा एष्व-
न्तरेष्वभिगमनीयाः पुरुषा भवन्ति । तद्यथा --
पापस्य कर्म्मणः समारम्भे पूर्ब्बकृतस्य वा कर्म्मणः
परिणामकाले एकस्य वा शून्यगृहवासे चतु-
ष्पथाधिष्ठाने वा सन्ध्यावेलायामप्रयतभावे वा
पर्ब्बसन्धिषु वा मिथुनीभावे रजस्वलाभिगमने
वा विगुणे वाऽध्ययन-बलि-मङ्गल-होम-प्रयोगे
नियमव्रतब्रह्मचर्य्ये वा महाहवे वा देव-कुल-पुर-
विनाशे वा महाग्रहोपगमने वा स्त्रिया प्रव्रजन-
काले विविधभूताशुचिसंस्पर्शने वा वमनरुधिर-
स्रावाशुचेरप्रयतस्य चैत्य-देवायतनाभिगमने वा
मांस-मधु तिल-गुड-मद्योच्छिष्टे वा दिग्वाससि
वा निशि नगर-निगम-चतुष्पथे पवनश्मशानाभि-
गमने वा द्विज-गुरु-सुर-यति-पूज्याभिधर्षणे वा
धर्म्माख्यातव्यतिक्रमे वा न्यस्यकर्म्मणोऽप्रशस्तस्या-
रम्मे वा इत्याघातकालाः व्याख्याता भवन्ति ॥
त्रिविधन्तु खलून्मादकराणां भूतानामुन्मादने
प्रयोजनम्भवति । तद्यथा । हिंसारतिरभ्यर्च्चन-
ञ्चेति । तेषां तत्प्रयोजनविशेषमुन्मत्ताचारविशेष-
लक्षणैर्विद्यात् । तत्र हिंसार्थमुन्माद्यमानोऽग्निं
प्रविशत्यप्सु वा निमज्जति स्थलात् श्वभ्रे निपतति
शस्त्र-कषा-काष्ठ-लोष्ट-मुष्टिभिर्हन्त्यात्मानमन्यच्च
प्राणबधार्थमारभते । तमसाध्यं विद्यात् । साध्यौ
पुनर्द्वावितरौ । तयोः साधनानि । मन्त्रौषधि-मणि-
मङ्गल-बल्युपहार-होम-नियम-प्रायश्चित्तोपवास-
स्वस्त्ययन-प्रणिपात-गमनादीन्येवमेते पञ्चोन्मादाः
व्याख्याता भवन्ति” ॥
“नैव देवा न गन्धर्व्वा न पिशाचा न राक्षसाः ।
न चान्ये स्वयमक्लिष्टमुपक्लिश्यन्ति मानवम् ॥
ये त्वेनमनुवर्त्तन्ते क्लिश्यमानं स्वकर्मणा ।
न तन्निमित्तः क्लेशोऽसौ न ह्यस्ति कृतकृत्यता” ॥
इति चरके निदानस्थाने सप्तमोऽध्यायः ॥ * ॥
चिकित्साविशेष आगन्तून्मादकारणलक्षणविशेषश्च ।
“समूडचेता न सुखं न दुःख
नाचारधर्म्मः कुतएव शान्तिम् ।
विन्दत्यपास्तस्मृतिबुद्धिसंज्ञो
भ्रमत्ययञ्चेतैतस्ततश्च ॥
समुद्भ्रमं बुद्धिमनःस्मृतीना-
मुन्मादमागन्तुनिजोत्थमाहुः” ॥
“देवर्षि-गन्धर्व्व-पिशाच-यक्ष-
रक्षःपितॄणामभिधर्षणानि ।
आगन्तुहेतुर्नियमव्रतादि-
मिथ्याकृतं कर्म्म च पूर्ब्बदेहे” ॥
“अदूषयन्तः पुरुषस्य देहं
देवादयः स्वैस्तु गुणप्रभावैः ।
विशन्त्यदृश्यास्तरसा यथैव
च्छायातपौ दपर्णसूर्य्यकान्तौ ॥
आघातकालास्तु सपर्ब्बरूपाः
प्रोक्ता निदानेऽथ सुरासुराद्यः ।
उन्मादरूपाणि पृथक् निबोध
कालञ्च गम्यान् पुरुषांश्च तेषाम्” ॥
तद्यथा, -- सौम्यदृष्टिं गम्भीरमप्रधृष्यमकोपन-
मस्वप्नमभोजनाभिलाषिणमल्पस्वेदमूत्रपुरीषवाचं
शुभगन्धं फुल्लपद्मवदनमिति देवोन्मत्तं विद्यात् ॥
गुरुवृद्धसिद्धर्षीणामभिशापाभिचाराभिध्याना-
नुरूपचेष्टाहारव्याहारं तैरुन्मत्तं विद्यात् ॥
अप्रसन्नदृष्टिमपश्यन्तं निद्रालुं प्रतिहतवाच-
मनन्नाभिलाषारोचकाविपाकपरीतं पितृभिरुन्मत्तं
विद्यात् ॥
चण्डं साहसिकं तीक्ष्णं गम्भीरमप्रधृष्यं मुख-
वाद्य-नृत्य-गीतान्नपान-स्नान-माल्य-धूप-गन्ध-रक्त-
वस्त्र-बलिकर्म्म-हास्य-कथायोगप्रिपं शुभगन्ध-
मिति गन्धर्व्वोन्मत्तं विद्यात् ॥
असकृत् स्वप्नरोदनहास्यं नृत्य-गीत-वाद्य-
कथान्नपान-स्नान-माल्य-धूप-गन्धरतिं रक्तविप्लु-
ताक्षं द्विजातिवैद्यपरिवादिनं रहस्यभाषिणमिति
यक्षोन्मत्तं विद्यात् ॥
नष्टनिद्रमन्नपानद्वेषिणमनाहारमप्रतिबलिनं
शस्त्रशोणितमांसरक्तमाल्याभिलाषिणं सन्तर्ज्ज-
कमिति राक्षसोन्मत्तं विद्यात् ॥
प्रहासनृत्यप्रधानं देवविप्रवैद्यद्वेषावज्ञाभिः
स्तुतिवेदमन्त्रशास्त्रोदाहरणैः काष्ठादिभिरात्म-
पीडनेन च ब्रह्मराक्षसोन्मत्तं विद्यात् ॥
अस्वस्थचित्तस्थानमनभिमानं नृत्यगीतहासिनं
बद्धाबद्धप्रभाषिणं सङ्करकूटमलिनरथ्याचेलतृणे-
ष्वारोहणरतिं भिन्नरूक्षवर्णस्वरं नग्नं विधावन्तं
नैकत्र तिष्ठन्तं दुःखान्यावेदयन्तं नष्टस्मृतिं पि-
शाचोन्मत्तं विद्यात् ॥
भूतादीनामावेशकालो यथा ।
“तत्र शौचाचारं तपःस्वाध्यायकोविद नरं
प्रायः शुक्लप्रतिपदि त्रयोदश्याञ्च देवाः, पानशुचि-
विविक्तसेविनं धर्म्मशास्त्रश्रुतिकाव्यकुशलं प्रायः
षष्ठीनवम्योरृषयः, मातृ-पितृ-गुरु-वृद्ध-सिद्धाचा-
र्य्योपसेविनं प्रायो दशम्याममावस्यायाञ्च पि-
तरः, गन्धर्व्वास्तु स्तुतिगीतवादित्ररतिं परदार-
गन्ध-माल्य-प्रिय-शौचाचार द्वादश्याञ्चतुर्द्दश्याञ्च,
पृष्ठ १/२४९
:सत्त्व-बल-रूप-गर्व्व-शौर्य्य-युक्तं माल्यानुलेपनं हा-
स्यप्रियमतिवाक्करणं प्रायः शुक्लैकादश्यां सप्त-
म्याञ्च यक्षाः, स्वाध्याय-तपोनियमोपवासव्रतचर्य्या-
देव-यति-गुरु-पूजारतिं भ्रष्टशौचं ब्राह्मणमब्राह्मणं
वा ब्रह्मवादिनं शूरमानिनं देवतागार-सलिल-
क्रीडनरतिं प्रायः शुक्लपञ्चम्यां पूर्णचन्द्रदर्शने च
ब्रह्मराक्षसाः, रक्षःपिशाचास्तु हीनसत्त्व-पिशुन-
स्तेन-लुब्धं प्रायो द्वितीयातृतीयाष्टमीषु पुरुषं छि-
द्रमवेक्ष्याभिधर्षयन्तीत्यपरिसंख्येयानां ग्रहाणा-
माविस्कृततमा ह्यष्टावेते व्याख्याताः” ॥
अत्र ये असाध्यास्तेषां लक्षणानि यथा ।
“सर्व्वेष्वपि तु खल्वेष यो हस्तावुद्दम्य रोष-सं-
रम्भो निःसंज्ञमन्येष्वात्मनि वा पातयेत् सह्यसाध्यो
ज्ञेयस्तथा साश्रुनेत्रो मेढ्रप्रवृत्तरक्तः क्षतजिह्वः
प्रस्रुतनासिकश्च्छिद्यमानमर्म्मा प्रतिहन्यमानपाणिः
सततं विकूजन् दुर्व्वर्णस्तृषार्त्तः पूतिगन्धिश्च हिं-
सार्थी उन्मत्तो ज्ञेयस्तं परिवर्जयेत् । रत्यर्च्चना-
कामोन्मादिनौ तु भिषगभिप्रायाचाराभ्यां बुद्ध्वा
तदङ्गोपहारबलिश्रमेण मन्त्रभैषज्यविधिनोप
क्रमेत्” ॥
अस्य चिकित्सा यथा ।
“लशुनानां शतं त्रिंशदभयात्र्यूषणात्पलम् ।
गवां चर्म्ममसी प्रस्थो द्व्याढकं क्षीरमूत्रयोः ॥
पुराणसर्पिषः प्रस्थमेभिः सिद्धं प्रयोजयेत् ।
हिङ्गुचूर्णं पलं शीते दत्त्वा च मधुमालिकाम् ॥
तद्दोषागन्तुसम्भूतानुन्मादान् विषमज्वरान् ।
अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः” ॥
लशुनाद्यं घृतम् ॥ * ॥
“विशेषतः पुराणञ्च घृतं तं पाययेद्भिषक् ।
त्रिदोषघ्नं पवित्रत्वाद्विशेषाद्ग्रहमोक्षणम् ॥
गुणकर्म्माधिकं स्थानादास्वादात् कटुतिक्तकम् ।
उग्रगन्धं पुराणं स्याद्दशवर्षस्थितं घृतम् ॥
लाक्षारसनिभं शीतं तद्धि सर्व्वग्रहापहम् ।
मेध्यं विरेचेव्वग्र्यं प्रपुराणमतः परम् ॥
नासाध्यं नाम तस्यास्ति यत्स्यात् वर्षशतं स्थितम् ।
दृष्टं स्पृष्टमथाघ्रातं तद्धि सर्व्वग्रहापहम् ॥
अपस्मारग्रहोन्मादवतां शस्तं विशेषतः” ॥
“एतैरौषधवर्गैर्व्वा विधेयत्वं स गच्छति ।
अञ्जनोन्मादनालेपान्नावनादींश्च योजयेत् ॥
शिरीषो मधुकं हिङ्गु लशुनं तगरं वचाम् ।
कुष्ठञ्च वस्तमूत्रेण पिष्टं स्यान्नावनाञ्जनम्” ॥
इति नस्याञ्जनम् ॥ * ॥
“प्रसेके पीनसे गन्धैर्धूमवर्त्तिं कृताम्पिबेत् ।
वैरेचनिकधूमोक्तैः श्वेताद्यैर्व्वासहिङ्गुभिः” ॥
इति धूमपानम् ॥ * ॥
“शङ्खके शान्तसन्धौ वा मोक्षयेज्ज्ञो भिषक् शिराम् ।
उन्मादे विषमे चैव ज्वरेऽपस्मारएव च” ॥
“कामशोकभयक्रोधहर्षेर्ष्यालोभसम्भवान् ।
परस्परप्रतिद्वन्द्वैरेभिरेव शमं नयेत्” ॥
“देवर्षिपितृगन्धर्व्वैरुन्मत्तस्य तु बुद्धिमान् ।
वर्ज्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म्म च ॥
सर्पिःपानादि तस्येह मृदुभैषज्यमाचरेत् ।
पूजां बल्युपहारांश्च मन्त्राञ्जनविधींस्तथा ॥
शान्तिकर्म्मेष्टिहोमांश्च जपस्वस्त्ययनानि च ।
वेदोक्तान् नियमांश्चापि प्रायश्चित्तानि चाचरेत् ॥
भूतानामधिपं देवमीश्वरं जगतः प्रभुम् ।
पूजयन् प्रयतो नित्यं जयत्युन्मादजं भयम् ॥
रुद्रस्य प्रमथा नाम गणा लोके चरन्ति ये ।
तेषां पूजाञ्च कुर्व्वाण उन्मादेभ्यो विमुच्यते” ॥
इति च चरके चिकित्सास्थाने चतुर्द्दशोऽध्यायः ॥
अस्य विशिष्टपूर्ब्बरूपं यथा ।
“मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्
अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ॥
वायुनोन्मथनञ्चापि भ्रमश्च क्रमतस्तथा ।
यस्य स्यादचिरेणैवमुन्मादं सोऽधिगच्छति” ॥
वातजादिभेदेन रूपाणि यथा ॥
“रूक्षच्छविःपरुषवाक् धमनीततो वा
श्वासातुरः कृशतनुः स्फुरिताङ्गसन्धिः ।
आस्फोटयन् पठति गायति नृत्यशीलो
विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ॥ १ ॥
तृट्स्वेददाहबहुलो बहुभुग्विनिद्र-
श्च्छायाहिमानिलजलान्तविहारसेवी ।
तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की
पित्ताद्दिवा नभसि पश्यति तारकाश्च ॥ २ ॥
च्छर्द्यग्निसादसदनारुचिकासयुक्तो
योषिद्विविक्तरतिरल्पमतिप्रकारः ।
निद्रापरोऽल्पकथनोऽल्पभुगुष्णसेवी
रात्रौ भृशं भवति चापि कफप्रकोपात् ॥ ३ ॥
सर्व्वात्मके त्रिभिरपि व्यतिमिश्रितानि
रूपाणि वातकफपित्तकृतानि विद्यात् ।
सम्पूर्णलक्षणमसाध्यमुदाहरन्ति
सर्व्वात्मकं क्वचिदपि प्रवदन्ति साध्यम्” ॥ ४ ॥
अपरयोर्लक्षणानि प्रथमतोऽस्योक्तानि ।
अस्य चिकित्सा यथा ।
“स्निग्धं स्विन्नन्तु मनुजमुन्मादार्त्तं विशोधयेत् ।
तीक्ष्णैरुभयतो भागैः शिरसश्च विरेचनः ॥
विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः ।
योजयित्वा च तच्चूर्णं ध्राणे नस्यन्तु योजयेत् ॥
सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः ।
सर्षपाणाञ्च तैलेन नस्याभ्यङ्गौ हितौ सदा ॥
दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य च ।
भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः ॥
भीषयेत् सततं पाशैः कशाभिर्वाथ ताडयेत् ।
यन्त्रयित्वा सुषुप्तं वा त्रासयेत्तं तृणाग्निना ॥
प्रतुदैर्दारयेच्चैनं मर्म्माघातं विवर्ज्जयेत् ।
सापिधाने जरत्कूपे सततं वा निवासयेत्” ॥
“वर्हिष्ठकुष्ठमञ्जिष्ठाकटुकैलानिशाह्वयैः ।
तेनेदं त्रिफलाहिङ्गुवाजिगन्धामरद्रुमैः ॥
वचाजमोदाकाकोलीमेदामधुकपद्मकैः ।
सशर्करं हितं सर्पिः पक्वं क्षीरचतुर्गुणम् ॥
बालानां ग्रहजुष्टानां पुंसां दुष्टाल्पमेधसाम् ।
ख्यातं फलघृतं स्त्रीणां बन्ध्यानाञ्चाशु गर्भदम्” ॥
इति फलघृतम् ॥ * ॥
“उरोऽपाङ्गललाटेषु शिराश्चास्य विमोक्षयेत् ।
अपस्मारक्रियाञ्चापि ग्रहोद्दिष्टाञ्च कारयेत् ।
शान्तदोषं विशुद्धञ्च स्नेहवस्तिभिराचरेत् ॥
शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक् ।
उन्मादेषु च सर्व्वेषु कुर्य्याञ्चित्तप्रसादनम् ॥
मृदुपूर्ब्बं मदेऽप्येवं क्रियां विद्वान् प्रयोजयेत् ।
विषजे मृदुपूर्ब्बाञ्च विषघ्नीं कारयेत् क्रियाम्” ॥
इति सुश्रुते उत्तरतन्त्रे द्विषष्टितमोऽध्यायः ॥ * ॥
“तपांसि तीव्राणि तथैव दानं
व्रतानि धर्म्मो नियमश्च सत्यम् ।
गुणास्तथाष्टावपि तेषु नित्याः
व्यस्ताः समस्ताश्च यथाप्रभावम् ॥
न ते मनुष्यैः सह संविशन्ति
न वा मनुष्यान् क्वचिदाविशन्ति ।
ये वा विशन्तीति वदन्ति मोहात्
ते भूतविद्याविषयादपोह्याः ॥
तेषां ग्रहाणां परिचारका ये
कोटीसहस्रायुतपद्मसङ्ख्याः ।
असृग्वसामांसभुजः सुभीमाः
निशाविहाराश्च तमाविशन्ति” ॥
“निशाचराणां तेषां हि ये देवगणसंसृताः ।
ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः ॥
देवग्रहा इति पुनः प्रोच्यन्ते शुचयश्च ये ।
देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् ॥
स्वामिशीलक्रियाचाराः क्रमएव सुरादिषु ।
नैरृतेया दुहितरस्तासां स प्रसवः स्मृतः ॥
सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृताः ।
हिंसाविहारा ये केचिद्दिव्यं भावमुपाश्रिताः ॥
भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः ।
ग्रहसंज्ञाभिभूतानि यस्माद्वेत्त्यनया भिषक् ॥
विद्यया भूतविद्यात्वमतएव निरुच्यते ।
तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः ॥
जप्यैः सनियमैर्होमैरारभेत चिकित्सितम् ।
रक्तानि गन्धमाल्यानि वीजानि मधुसर्पिषाम् ॥
भक्ष्याश्च सर्व्वे सर्व्वेषां सामान्यो विधिरुच्यते ।
वस्त्राणि मद्यमांसानि क्षीराणि रुधिराणि च ॥
यानि तेषां यथेष्टानि तानि तेभ्यः प्रदापयेत् ।
हिनस्ति मनुजान् येषु प्रायशो दिवसेषु च ॥
दिनेषु तेषु देयानि तद्भूतविनिवृत्तये ।
देवग्रहे देवगृहे हुत्वाग्निं प्राशयेद्बलिम् ॥
कुशस्वस्तिकपूपाज्यच्छत्रपायससम्भृतम् ।
असुराय यथाकालं विदध्याच्चत्वरादिषु ॥
च्रतुष्पथे राक्षसस्य भोमेषु गहनेषु वा ।
शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत् ॥
पूर्ब्बमाचरितैर्मन्त्रैर्भूतविद्यादिदर्शितैः ।
न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्” ॥
“नक्तमालफलं व्योषं मूलं श्योनाकविल्वयोः ।
हरिद्रे च कृतावर्त्तिः पूर्ब्बवन्नयनाञ्जनम्” ॥
“न चायक्तं प्रयुञ्जीत प्रयोगं देवताग्रहे ।
ऋते पिशाचादन्येषु प्रतिकूलं न चाचरेत् ॥
वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्ध्वा महौजसः ।
हिताहितविधानञ्च नित्यमेव समाचरेत् ॥
ततः प्राप्स्यति सिद्धिञ्च यशश्च विपुलं भिषक्” ॥
पृष्ठ १/२५०
:इति च सुश्रुते उत्तरतन्त्रे षष्टितमोऽध्यायः ॥ * ॥
“सूतायस्तारमभ्रञ्च मुक्ता चापि समं समम् ।
सूतपादोत्तमं वज्रं तालं गन्धं मनःशिला ॥
तुत्थं रसाञ्जनं शुद्धमब्धिफेनं शिलाञ्जनम् ।
पञ्चानां लवणानाञ्च प्रतिभागं वसोन्मितम् ॥
भृड्गराजचित्रवज्रीदुग्धेनापि विमर्द्दयेत् ।
दिनान्ते पिण्डितं कृत्वा रुद्ध्वा गजपुटे पचेत् ॥
भूताङ्कुशो रसो नाम नित्यं गुञ्जाद्वयं लिहन् ।
आर्द्रकस्य रसेनापि भूतोन्मादसवातजित् ॥
पिप्पल्याक्तं पिबेच्चानु दशमूलकषायकम् ।
स्वेदयेत् कटुतुम्ब्या च तीक्ष्णमुष्णञ्च वर्ज्जयेत् ॥
माहिषञ्च घृतं क्षीरं गुर्व्वन्नमपि भक्षयेत् ।
अभ्यङ्गं कटुतैलेन हितो भूताङ्कुशो रसः” ॥
इति भूताङ्कुशोरसः ॥ * ॥ उन्मादभञ्जिनीवटीयथा ।
“शुद्धं मनःशिलाचूर्णं सैन्ववं कटुरोहिणी ।
वचा शिरीषवीजञ्च हिङ्गुञ्च श्वेतसर्षपम् ॥
करञ्जवीजं त्रिकटु मलं पारावतस्य च ।
एतानि समभागानि गोमूत्रैर्वटिकां कुरु ॥
गिरिमल्लीवीजसमां छायाशुष्काञ्च कारयेत् ।
प्रातःसन्ध्यानिशाकाले चक्षुषोरञ्जनं हितम् ॥
मधुना दिवसे चाज्ज्यं रात्रौ चैव जलेन च ।
वटिकैषा समाख्याता नाम्ना चोन्मादभञ्जिनी ।
चातुर्थकापस्मारहा सर्व्वोन्मादविनाशिनी” ॥
इति वैद्यकरसेन्द्रसारसंग्रहे उन्मादाधिकारे ॥
अत्र पथ्यानि यथा ।
“स्नेहो विरेको वमनञ्च पूर्ब्बं
क्रमान्मरुत्पित्तकफोद्भवेषु ।
ततः परं वस्तिविधिश्च नस्यम्
सन्तर्ज्जनं ताडनमञ्जनञ्च ॥ १ ॥
आश्वासनत्रासनबन्धनानि
भयानि दानानि च हर्षणानि ।
धूपो दमो विस्मरणं प्रदेहः
शिराव्यधः संशमनञ्च सेकः ॥ २ ॥
आश्चर्य्यकर्म्माणि च धूमपानं
धीधैर्य्यसत्त्वात्मनिवेदनानि ।
अभ्यञ्जनं स्नापनमासनञ्च
निद्रासुशीतान्यनुलेपनानि ॥ ३ ॥
गोधूममुद्गारुणशालयश्च
धारोष्णदुग्धं शतधौतसर्पिः ।
घृतं नवीनञ्च पुरातनञ्च
कूर्म्मामिषं धन्वरसा रसालम् ॥ ४ ॥
पुराणकुष्माण्डफलं पटोलं
ब्रह्मीदलं वास्तुकतण्डुलीयम् ।
खराश्वमूत्रं गगनाम्बुपथ्या
सुवर्णचूर्णानि च नारिकेलम् ॥ ५ ॥
द्राक्षाकपित्थं पनसञ्च वैद्यै-
र्विधेयमुन्मादगदेष पथ्यम्” ॥ ६ ॥
“पूजाबल्युपहारशान्तिविधयो होमेष्टिमन्त्रक्रियाः
दानं स्वस्त्ययनं व्रतानि नियमः सत्यञ्जपो मङ्गलम् ॥
प्रायश्चित्तविधानमञ्जनविधीरत्नौषधीधारणं
भूतानामनुरूपमिष्टचरणं गौरीपतेरच्चनम् ॥ ७ ॥
ये च स्युर्भुवि गुह्मकाश्च प्रमथास्तेषां समाराधनं
देवब्राह्मणपूजनञ्च शमयेदुन्मादमागन्तुकम्” ॥ ८ ॥
अपथ्यानि यथा ॥
“मद्यं विरुद्धाशनमुष्णभोजनं
निद्राक्षुधातृट्कृतवेगधारणम् ।
व्यवायमाषाढफलं कठिन्नकं
शाकानि पत्रप्रभवानि सर्व्वशः ॥
तिक्तानि विम्बी च भिषक् समादिशे-
दुन्मादरोगोपहतेषुगर्हितम्” ॥
इति वैद्यकपथ्यापथ्यविधौ उन्मादाधिकारः ॥ * ॥)
औत्सुक्यसन्तापादिकारितमनोविपर्य्याससमुत्थ-
प्रियाश्रितवृथाव्यापारः । इति रसमञ्जरी ॥
(व्यभिचारिभावभेदः । यथा, साहित्यदर्पणे
३ । १३६ ।
“औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्या-
धिसंत्रासलज्जाः” । इति ॥ अस्य लक्षणं सोदा-
हरणमाह तत्रैव ३ । १५५ ।
“चित्तसम्मोह उन्मादः कामशोकभयादिभिः ।
अस्थानहासरुदितगीतप्रलपनादिकृत्” ॥
उदाहरणम् ।
“भ्रातर्द्विरेफ । भवता भ्रमता समन्तात्
प्राणाधिका प्रियतमा मम वीक्षिता किम् ?
भृङ्गझङ्कारमनुभूय सानन्दम् --
“ब्रूषे किमोमिति सखे ! कथयाशु तन्मे
किंकिं व्यवस्यति कुतोऽस्ति च कीदृशीयम्” ॥)

उन्मादः, त्रि, (उत् + मद् + घञ् ।) उन्मादरोग-

युक्तः । क्षिप्तः । उन्मत्तः । इत्यमरटीकायां नील-
कण्ठः ॥ पागल इति भाषा ॥

उन्मादनः, पुं, (उन्मादयत्यनेन इति । उत् + मद् +

णिच + ल्यु) कामदेवस्य पञ्चबाणान्तर्गतबाणवि-
शेषः । इति त्रिकाण्डशेषः ॥

उन्मादवान्, त्रि, (उन्मादो विद्यते अस्य । उन्माद

+ मतुप् । मस्य वः ।) उन्मादरोगविशिष्टः ।
उन्मत्तः । इत्यमरः ॥

उन्मानः, पुं, (उत् + मा + ल्युट् ।) द्रोणपरिमाणम् ।

इति वैद्यकपरिभाषा ॥
(“उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः” ।
इति पूर्ब्बखण्डे प्रथमेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“स एव कलशः ख्यातो घटस्तून्मानमेव च” ॥
इति कल्पस्थाने द्वादशेऽध्याये चरकेणोक्तम् ॥)

उन्मिषितः, त्रि, (उत् + मिष + क्त ।) प्रफुल्लः ।

विकसितः । इति हेमचन्द्रः ॥ यथा कुमारे ।
“व्यलोकयन्नुमिषितैस्तडिन्मयै-
र्महातपःसाक्ष्यैव स्थिताः क्षपाः” । ५ । २५ ॥

उन्मीलनं, क्ली, (उत् + मील + ल्युट् ।) उन्मेषः ।

इति हेमचन्द्रः ॥ चक्षुमेला इति भाषा । विकाशः ॥
(“अज्ञानतिमिरान्धस्य लोकस्य तु विचेष्टतः ।
ज्ञानाञ्जनशलाकाभिर्नेत्रोन्मीलनकारकः” ।
इति महाभारते । १ । १ । ८४ ॥)

उन्मीलितः, त्रि, (उत् + मील् + क्त ।) विकसितः ।

प्रस्फुटितः । इति हलायुधः ॥ (“उन्मीलितं
तूलिकयेव चित्रम्” । इति कुमारे । १ । ३२ ॥
“ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बा-
निलाः” । इति साहित्यदर्पणे १ म परिच्छेदे ॥)

उन्मुखः, त्रि, (उदूर्द्ध्वं मुखं यस्य ।) ऊर्द्ध्वमुखः । तत्-

पर्य्यायः । उत्पश्यः २ । इति हेमचन्द्रः ॥
(“मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” ।
इति रघुः । १ । ३९ ।) उत्सुकः । यथा कुभारे । ६ । ३४ ॥
“तस्मिन् संयमिनामाद्ये जाते परिणयोन्मुखे” ।
“पतिः प्रतीतः प्रसवोन्मुखीं प्रियाम्” । इति
रघुः । ३ । १२ ॥
“अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिः” ।
इति मेघदूते । पूर्ब्बमेघे १४ ।
“इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा” ।
इति च मेघदूते उत्तरमेघे ३९ श्लोकः ॥)

उन्मुद्रः, त्रि, (उद्गता मुद्रा यस्मात् ।) प्रफुल्लः ।

विकसितः । इति त्रिकाण्डशेषः ॥

उन्मूलितं, त्रि, (उत् + मूल् + क्त ।) उत्पाटितम् ।

इति हेमचन्द्रः ॥ (यथा रामायणे । ५ । ६ ।
“लङ्कामुग्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः” ॥)

उन्मेषं, क्ली, (उत् + मिष् + घञ् ।) चक्षुरुन्मीलनम् ।

इति हेमचन्द्रः ॥ चक्षु मेला इति भाषा ।
(“खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्” ।
इति मेघदूते उत्तरमेघे २० । स्फुरणम् ॥ यथा,
“स्वकिरणपरिवेशोन्मेषशून्याः प्रदीपाः” ॥
इति रघुः । ५ । ७४ ॥ विकाशः २ । प्रस्फोटनम् ।
यथा, --
“दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते” ।
इति कुमारे । २ । ३३ ॥)

उप व्य प्रादिविंशत्युपसर्गान्तर्गतौपसर्गविशेषः ।

अस्यार्थः । अनुगतिः । पश्चाद्भावः । अनुकम्पा ।
आधिक्यम् । (यथा पाणिनिः २ । ३ । ९ । “उप परार्द्धे
हरेर्गुणाः । परार्द्धादधिकाइत्यर्थः ।) हीनः । (यथा
मुग्धबोधे कारके ७ । “विष्णुमन्वर्च्च्यते भर्गः शक्रा-
दय उपाच्युतम्” ।) सामीप्यम् । (यथा, मुग्धबोधे
समासप्रकरणे ६७ । “उपसमिधं उपसमित् ।
उपनदं । उपनदि” ॥) प्राथम्यम् । इति दुर्गा-
दासः ॥ दाक्षिण्यम् । सामर्थ्यम् । अत्ययः ।
भूषणम् । दीषाख्यानम् । निदर्शनम् । आश्चर्य्य-
करणम् । दानम् । मारणम् । व्याप्तिः । लिप्सा ।
उपालम्भनम् । पूजा । उद्योगः । इति शब्द-
रत्नावली ॥

उपकण्ठं, क्ली, (उपगतः कण्ठम् । अत्यादय इति

समासः । उपगतः कण्ठः सामीप्यमस्येति वा ॥)
ग्रामान्तम् । तत्पर्य्यायः । उपशल्यम् २ । इति त्रि-
काण्डशेषः ॥ आस्कन्दितम् । अश्वपञ्चमगतिः ।
इति हेमचन्द्रः ॥ कण्ठसमीपम् ॥ (यथा, माघे ।
“प्रेम्नोपकण्टं मुहुरङ्कभाजो-
रत्नावलीरम्बुधिराबबन्ध” ।)

उपकण्ठः, त्रि, (उपगतः कण्ठः सामीप्यमस्य ।)

निकटः । इत्यमरः ॥ (यथा, कुमारे । ७ । ५१ ॥
“तस्योपकण्ठे घननीलकण्ठः
कुतूहलादुन्मुखपौरदृष्टः” ॥)

उपकरणं, क्ली, (उप + कृ + ल्युट् ।) प्रधानाङ्गी-

भूतोपकारकद्रव्यम् । नृपादीनां छत्रचामरादि ।
पृष्ठ १/२५१
:तत्पर्य्यायः । परिच्छदः २ परिवर्हः ३ तन्त्रम् ४ ।
इति हेमचन्द्रः ॥ भोजनादौ व्यञ्जनादि ॥ यथा ।
“तस्मादन्नं प्रधानं पूपादिकन्तु उपकरणत्वेन
शक्तानामावश्यकम्” । इति श्राद्धतत्त्वम् ॥ पूजादौ
नैवेद्यादि । मृगबन्धनादौ जालादि ॥

उपकारः, पुं, (उप + कृ + घञ् ।) उपकृतिः ।

(“उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः” ।
इति माघः । २ । ३७ ॥ “कृतोपकारेव रतिर्बभूव” ।
इति कुमारे । ३ । ७३ ॥) विकीर्णपुष्पादिः । इति
हेमचन्द्रो मेदिनी च ॥

उपकारिका, स्त्री, (उपकरोतीति । उप + कृ +

ण्वुल् + टाप् + इत्वम् ।) उपकारकर्त्री । पिष्ट-
भेदः । इति मेदिनी ॥ राजगृहम् । इत्यमरः ॥
कुशूलः । मरायि इति भाषा । इति केचिदाहु-
रिति भरतः ॥

उपकारी, स्त्री, (उपकारयतीति । उप + कृ + णिच्

+ अण् + ङीष् ।) राजगृहम् । इति भरतधृत-
द्विरूपकोषः ॥

उपकारी, [न्] त्रि, (उपकरोतीति । उप + कृ +

णिनि ।) उपकारविशिष्टः । उपकारकर्त्ता । (“उप-
कारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्”
इति हितोपदेशे मित्रलाभे ॥)
तत्र दानादानविधिर्यथा । हारीतः । अथासद्-
द्रव्यदानमस्वर्ग्यं यच्च दत्त्वा परितप्यते तर्ह्यदान-
मफलं यच्चोपकारिणे ददाति ॥ उपकारिणे व्यस-
नोपकारिणे । तदितरोपकारिणे तु दक्षः ।
“मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणे ।
दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत्” ॥
इति शुद्धितत्त्वम् ॥ किञ्च ।
“उपकारिषु यः साधुः स साधुः सद्भिरुच्यते ।
समदृष्टिर्भवाशु त्वं सर्व्वभूतेषु केशव” ॥
इति जैमिनीये आश्वमेधिके पर्ब्बणि ११ अध्यायः ॥

उपकार्य्यः, त्रि, (उप + कृ + ण्यत् ।) उपकारोचितः ।

इति मेदिनी ॥

उपकार्य्या, स्त्री, (उपक्रियते इति । उप + कृ +

ण्यत् + टाप् ।) राजगृहम् । इत्यमरः ॥ (पट-
मवनम् । यथा, रघौ ५ । ४१ ।
“तस्योपकार्य्यारचितोपचारा
वन्येतरा जानपदोपदाभिः” ॥
“शत्रुघ्नप्रतिविहितोपकार्य्यमार्य्यः,
साकेतोपवनमुदारमध्युवास” । इति च १३ । ७९ ।)
कुशूलः । मरायि इति भाषा । इति केचिदाहु-
रिति भरतः ॥

उपकुञ्चिः, स्त्री, (उप + कुञ्च + कि ।) सूक्ष्मकृष्णजी-

रकः । इति रत्नमाला ॥ (कृष्णजीरकशब्देऽस्य
गुणादयो बोध्याः ॥)

उपकुञ्चिका, स्त्री, (उप + कुञ्च + ण्वुल् + टाप् ।)

कृष्णजीरकः । सूक्ष्मैला । इत्यमरः ॥
(“कारवी करवी तद्वद्विज्ञेया सोपकुञ्चिका ।
भक्ष्यव्यञ्जनभोज्येषु विविधेष्ववचारिता” ॥
इति सूत्रस्थाने ४६ अध्याये सुश्रुतेनोक्तम् ॥)

उपकुम्भं, क्ली, (कुम्भस्य समीपे ।) कुम्भसमीपम् ।

इति व्याकरणम् ॥

उपकुर्व्वाणः, पुं, (उप + कृ + शानच् ।) ब्रह्मचर्य्या-

नन्तरं यो गृहस्थो भवति सः । इति पुराणम् ॥
(कृतोपकारः । यथा हितोपदेशे सुहृद्भेदे, --
“यतोऽनुपकुर्व्वाणो न कस्यापि उपायनं गृह्णीयात्” ॥)

उपकुल्या, स्त्री, (उपकोलति । कुल संख्याने बन्धुषु

च । अघ्न्यादिः ।) पिप्पली । इत्यमरः ॥ पिपुल
इति भाषा । (“कृष्णोपकुल्या मगधी” इति वैद्यक-
रत्नमाला ॥ “उपकुल्योषणा शौण्डी” इति भाव-
प्रकाशे पूर्ब्बखण्डे प्रथमभागे ॥ गुणादिकमस्य
पिप्पलीशब्दे ज्ञातव्यम् ॥) (उपगता कुल्यामिति
वाक्ये वाच्यलिङ्गः । कृत्रिमसरःसमीपम् ॥)

उपकूपजलाशयः, पुं, (उपकूपं कूपसमीपे यो जला-

शयः ।) कूपसमीपे शिलादिनिबद्धपशुपानार्थ-
कृतकूपोद्धृताम्बुस्थानम् । इत्यमरः ॥

उपक्रन्ता, [ऋ] त्रि, (उप + क्रम + तृच् ।) उप-

क्रमकर्त्ता । आरम्भकर्त्ता । इति व्याकरणम् ॥

उपक्रमः, पुं, (उप + क्रम + घञ् । नोदात्तोपदेशस्य

इति न वृद्धिः ।) ज्ञात्वारम्भः । अयमस्योपायः
अनेनैतत् सिध्यतीति ज्ञात्वा प्रथमारम्भः ॥ उपधा ।
राज्ञा धर्म्मकामार्थभयैः अमात्यादेर्यत् परीक्षणं
भावतत्त्वनिरूपणम् ॥ प्रक्रमः । प्रथमारम्भः ।
इत्यमरः ॥ विक्रमः । चिकित्सा । इति मेदिनी ॥
पलायनम् । इति हेमचन्द्रः ॥ (उपायः । यथा, --
“सामादिभिरुपक्रमैः” । इति मनुः । ७ । १०७ ।
आरम्भः । यथा, -- “रामोपक्रममाचख्यौ रक्षः-
परिभवं नवम्” ॥ १२ । ४२ । इति रघुः । “उप-
क्रम्यते इत्युपक्रमः कर्म्मणि घञ् । रामस्य कर्तुरुप-
क्रमः रामोपक्रमं रामेणादौ उपक्रान्तमित्यर्थः ।
उपज्ञोपक्रमं तदाचिख्यासायामिति क्लीवत्वम्” ।
इति तट्टीका ॥)

उपक्रोशः, पुं, (उप + क्रुश् + घञ् ।) निन्दा । इत्य-

मरः ॥ (यथा, रघुः । २ । ५३ ।
“राज्येन किं तद्विपरीतवृत्तेः
प्राणैरुपक्रोशमलीमसैर्व्वा” ॥)

उपक्रोष्टा [ऋ] पुं, स्त्री, (उप + क्रुश + तृच् ।)

गर्द्दभः । इति श्रीभागवतम् ॥ निन्दकः ॥

उपक्वणः, पुं, (उप + क्वण् + अच् ।) प्रक्वणः । वीणा-

शब्दः । इत्यमरटीकायां रायमुकुटः ॥

उपक्षेपणधर्म्मः, पुं, (उपक्षेपणरूपो धर्म्मः ।) शूद्र-

स्वामिकान्नस्य पाकार्थं ब्राह्मणगृहे समर्पणम् ।
इति शुद्धितत्त्वे कल्पतरुः ॥

उपगतः, त्रि, (उप + गम् + क्त ।) अङ्गीकृतः । स्वी-

कृतः ॥ इत्यमरः ॥ (यथा रघौ ९ । १५ ।
“उपगतोऽपि च मण्डलनाभिता-
मनुदितान्यसितातपवारणः” ।) कृतमैथुनः ॥

उपगमः, पुं, (उप + गम् + अप् ।) अङ्गीकारः ।

निकटगमनम् । इति मेदिनी ॥ (यथा रघौ ६ । ६९ ।
“तं प्राप्य सर्व्वावयवानवद्यं
व्यावर्त्ततान्योपगमात् कुमारी” ॥)

उपगूहनं, क्ली, (उप + गूह + ल्युट् ।) आलिङ्गनम् ।

इत्यमरः ॥ (“स्मरन्मुकुन्दाङ्घ्यपगहनं पुनः” ॥
इति भागवते १ । ५ । १९ ॥ तथा च साहित्य-
दर्पणे ६ परिच्छेदे ।
“कृतिः प्रमाद आनन्दः समयोऽप्युपगूहनम्” ॥)

उपग्रहः, पुं, (उपगृह्यते इति । उप + ग्रह + अप् ।)

वन्दी । इत्यमरः ॥ वँदुयान् इति भाषा । उप-
योगः । अनुकूलः । इति मेदिनी ॥ (ग्रहसदृशो
ज्योतिःपदार्थभेदः । यथा महाभारते ३ । स्कन्द-
शत्रुसमागमे २२६ । १ ॥
“ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा ।
हुताशनमुखाश्चैव दीप्ताः परिषदां गणाः” ॥)

उपग्रहणं, क्ली, (उप + ग्रह + ल्युट् ।) उपाकरणम् ।

संस्कारपूर्ब्बकश्रुतिग्रहणम् । इत्यमरटीकायां
रायमुकुटः ॥ (स्वीकारः । यथा, रामायणे १ । ४ । ४ ।
“वेदोपग्रहणार्थाय तावग्राहयत प्रभुः” ।
वेदोपवृंहणार्थाय इति पाठान्तरम् ॥)

उपग्राह्यः, पुं, (उपगृह्यते इति । उप + ग्रह +

ण्यत् ।) उपढौकनम् । इत्यमरः ॥ भेटी डालि
इत्यादि भाषा ॥

उपघातः, पुं, (उपहन्यते अनेन । उप + हन +

करणे घञ् ।) रोगः । इति राजनिर्घण्टः ॥ (भावे
घञ् । विनाशः । यथा, --
“तथात्वञ्चेदिन्द्रियाणामुपघाते कथं स्मृतिः” ।
इति भाषापरिच्छेदे । ४८ । अपकारः ।
“स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च” ॥
इति मनुः । २ । १७९ ॥)

उपघ्नः, पुं, (उप + हन + क ।) निकटाश्रयः । इत्य-

मरः ॥ (यथा, रघुः । १५ । १ ।
“छेदादिवोपघ्नतरोर्व्रतत्यौ” ॥)

उपचक्रः, पुं, (चक्रेण चक्रनाम्ना तुल्यः ।) चक्रवाकपक्षि-

विशेषः । अस्य मांसगुणाः । लघुत्वम् । हृद्यत्वम् ।
उष्णवीर्य्यत्वम् । कटुपाकित्वम् । बलाग्निवृद्धिका-
रित्वञ्च । इति राजवल्लभः ॥
(“चकोरैरुपचक्रैश्च पक्षिभिर्जीवजीवकैः” ॥
इति महाभारते ३ भीमस्याजगरग्रहणे १७८ । ७ ॥)

उपचक्षुः, [स्] क्ली, (उपगतं चक्षुषोर्दर्शनार्थम् ।)

दिव्यचक्षुः । चश्मा इति पारस्यभाषा । इति
लोकप्रसिद्धम् ॥

उपचयः, पुं, (उप + चि + अच् ।) वृद्धिः । उन्नतिः ।

(“स्वशक्त्युपचये केचित् परस्य व्यसने परे” ।
इति माघः । २ । ५७ । “तदेतेषामस्मत्पुत्त्राणां
ज्ञानोपचये भवन्तः प्रमाणम्” । इति हितोप-
देशे कथामुखम् ।) लग्नात् तृतीयषष्ठदशमैका-
दशस्थानानि । इति ज्योतिषम् ॥

उपचरितं, त्रि, (उपचर्य्यते स्म । उप + चर + क्त ।)

उपासितम् । सेवितम् । इत्यमरः ॥

उपचर्य्या, स्त्री, (उप + चर + क्यप् + टाप् ।) चि-

कित्सा । इति हलायुधः ॥

उपचाय्यः पुं, (उपचीयतेऽग्निरस्मिन् इति । “अग्नौ

परिचाय्योपचाय्यसमूह्याः” ३ । १ । १३१ । इतिण्य-
दायादेशौ निपात्येते । उप + चि + ण्यत् ।) यज्ञा-
ग्निः । इत्यमरः ॥

उपचार, पुं, (उप + चर + घञ् ।) रोगप्रतिकारः ।

पृष्ठ १/२५२
:तत्पर्य्यायः । उपचर्य्या २ चिकित्सा ३ रुक्प्रति-
क्रिया ४ निग्रहः ५ वेदनानिष्टा ६ क्रिया ७ उप-
क्रमः ८ शमः ९ । इति राजनिर्घण्टः ॥ सेवा ।
(“समे चिरायास्खलितोपचाराम्” । इति रघौ,
५ । २० ।) व्यवहारः । (“प्रयुक्तपाणिग्रहणोप-
चारौ” । इति कुमारे ७ । ८६ ।) उत्कोचः । इति
हेमचन्द्रः ॥ परस्य रञ्जनार्थं असत्यभाषणम् । यथा,
कुमारे ४ । ९ । “उपचारपदं नचेदिदं त्वमनङ्गः
कथमक्षता रतिः” ॥ “उपचारज्ञता दाक्ष्यं” इति
चरके सूत्रस्थाने नवमेऽध्याये ॥)

उपचार्य्यः, पुं, (उप + चर + ण्यत् ।) चिकित्सा । इति

हेमचन्द्रः ॥

उपचितः, त्रि, (उपचीयते स्म । उप + चि + क्त ।)

दिग्धः । समृद्धः । इति विश्वमेदिन्यौ ॥ (यथा रघौ
९ म -- सर्गे, । “मृगवयोगवयोपचितं वनम्” ।)
समाहितः । इति विश्वः हेमचन्द्रश्च ॥ निदिग्धः ।
लेपादिना वर्द्धितः । इत्यमरः ॥ (“यथाह
हारीतः ।
“प्रयतत्वाद्वोपचितमशुभं नाशयतीति” ॥)

उपचित्रा, स्त्री, (उपगता चित्राम् ।) मूषिकपर्णी ।

इत्यमरः । इँदुरकानि इति भाषा । दन्तीवृक्षः ।
इति राजनिर्घण्टः ॥ (दन्त्यर्थे यथा, --
“चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः” ।
इति वैद्यकरत्नमाला ॥)

उपजापः, पुं, (उप + जप् + घञ् ।) भेदः । विच्छेदः ।

इत्यमरः ॥
(“तेषु तेषु चाकृतेषु प्रासरन् परोपजापाः” ।
इति दशकुमारे विश्रुतचरिते । तथा च माघे
२ । ९९ ।
“उपजापः कृतस्तेन तानाकोपवतस्त्वयि” ॥)

उपजिह्वा, स्त्री, (उपगता जिह्वा यस्याः ।) कीट-

विशेषः । तत्पर्य्यायः । उपदेहिका २ वम्प्री ३
उददीका ४ । इति हेमचन्द्रः ॥ आलजिह्वा इति
ख्याता च ॥ (“उपजिह्वा स्फिचौ बाहू” ।
इति याज्ञवल्क्यः ।
“तादृगेवोपजिह्वा तु जिह्वाया उपरि स्थिता” ॥
इति वाभटेनोत्तरस्थाने एकविंशेऽध्याये उक्तम् ॥
चिकित्सा यथा ।
“उपजिह्वां परिस्राव्य यवक्षारेण घर्षयेत्” ।
इति च वाभटेनोत्तरस्थाने द्वाविंशेऽध्याये उक्तम् ॥)

उपजिह्विका, स्त्री, (उपजिह्वा + स्वार्थ कन् ।) घ-

ण्टिका । आलजिव इति भाषा । तत्पर्य्यायः ।
प्रतिजिह्वा २ । इति राजनिर्घण्टः ॥ (ऋग्वेदे
४ । ९१ । २१ । “यदत्युपजिह्विका यद्वम्रो अति-
सर्पति” ।) कीटभेदः । तत्पर्य्यायः । उत्पादिका २
वटिः ३ उद्देहिका ४ दिवी ५ । इति हारावली ॥
(“यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते ।
आशु संजनयेत् शोथं जायतेऽस्योपजिह्विका” ॥
इति चरके सूत्रस्थाने १८ अध्यायः ॥
“जिह्वाग्ररूपः श्वयथुर्हि जिह्वा-
मुन्नम्य जातः कफरक्तयोनिः ।
प्रसेककण्डूपरिदाहयुक्ता
प्रकथ्यतेऽसावुपजिह्विकेति” ॥
इति निदानस्थाने षोडशेऽध्याये सुश्रुतेनोक्तम् ॥
अस्य चिकित्सा यथा ।
“उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत् ।
शिराविरेकगण्डूषधमैश्चैनमुपाचरेत् ।
जिह्वागतानां कर्म्मोक्तं तालव्यानां प्रवक्ष्यते” ॥
इति सुश्रुते चिकित्सितस्थाने २२ अध्यायः ॥)

उपजीविका, स्त्री, (उपजीव्यतेऽनया । उप + जीव

+ गुरोश्चेत्यः । संज्ञायां कन् क्वुन् वा ।) उप-
जीव्यम् । जीवनोपायः ॥

उपजोषम्, व्य, (उपजोषणम् । उप + जुष + अम् ।)

आनन्दः । इत्यमरः ॥ (यथा, महाभारते १ ।
“यथोपजोषं सर्व्वश्च जनश्चिक्रीड भारत” ।
सुखं । यथा, रामायणे २ । ८९ । २२ ।
“आश्वासयित्वा च चमूं महात्मा
निवेशयित्वा च यथोपयोषम्” ॥)

उपज्ञा, स्त्री, (उपज्ञायते । ज्ञा अवबोधने । आत-

श्चोपसर्गे इति कर्म्मणि अङ् ।) आद्यज्ञानम् ।
इत्यमरः ॥ तत्तु विनोपदेशेन प्रथमज्ञानम् । यथा
बाल्मीकेः श्लोकनिर्म्माणे ज्ञानम् ॥
(“अथ प्राचेतसोपज्ञं रामायणमितस्ततः” ॥
इति रघुः १५ । ६३ ॥ “लोकेऽभूद्यदुपज्ञमेव
विदुषां सौजन्यजन्यं यशः” इति मल्लिनाथटीका-
मुखम् ॥)

उपढौकनं, क्ली, (उप + ढौक + ल्युट् ।) पारितो-

षिकद्रव्यम् । भेट् डाला इत्यादि भाषा । तत्प-
र्य्यायः । प्राभृतम् १ प्रदेशनम् २ उपायनम् ३ उप-
ग्राह्यः ४ उपहारः ५ उपदा ६ । इत्यमरः ॥

उपतप्ता, [ऋ] पुं, (उप + तप् + तृच् ।) उपतापक-

मात्रम् । तत्पर्य्यायः । स्पर्शः २ स्प्रष्टा ३ । इत्य-
मरः ॥ स्पशः ४ स्पर्ष्टा ५ । इति तट्टीका ॥ रोग-
इत्यन्ये । इति भरतः ॥

उपतापः, पुं, (उप + तप् + घञ् ।) त्वरा । उत्तापः ।

रोगः । इति मेदिनी ॥ अशुभम् । पीडा । इति
शब्दरत्नावली ॥ (यथा, शाकुन्तले ।
“विवक्षितं ह्यनुक्तं उपतापं जनयति” ।
पीडादायके वाच्यलिङ्गः । यथा, कौशिकसूत्रे ।
१३५ । “यो वनस्पतीनामुपतापो बभूव” ॥)

उपत्यका, स्त्री, (उप समीपे आसन्ना भूमिः । उप +

“उपाधिभ्यां त्यकन्नासन्नारूढयोः” । ५ । २३४ ।
इति त्यकन् । “त्यकनश्च निषेधः” इति इत्वा-
भावः ।) पर्ब्बतनिकटभूमिः । इत्यमरः ॥ (यथा,
रघुः । ४ । ४६ ।
“मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः” ॥)

उपदंशः, पुं, (उपदश्यते इति । उप + दंश + कर्म्मणि

घञ् ।) मद्यपानरोचकभक्ष्यद्रव्यम् । तत्पर्य्यायः ।
अवदंशः २ चक्षणम् ३ मद्यपासनम् ४ । इति
हेमचन्द्रः ॥ (यथा दशकुमारे विश्रुतचरिते --
“द्वित्रान् उपदंशान् उपपाद्य” ।
“ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सपि-
र्मात्रां सूपम् उपदंशं च उपजहार” । इति च ।)
मेढ्ररोगविशेषः । वाओ इति भाषा । अथोपदं-
शाधिकारः । तत्रोपदंशस्य विप्रकृष्टं निदान-
माह ।
“हस्ताविघातान्नखदन्तघाता-
दधारणादत्युपसेवनाद्वा ।
योनिप्रदोषाच्च भवन्ति शिश्ने
पञ्चोपदंशा विविधापचारैः” ॥
हस्ताविघातात् हस्तेन मैथुनात् । नखदन्तघातात्
नखदन्तघातस्थानत्वेनानुक्तेऽपि मेहने नखदन्त-
घातो बलवदनुरागोदयात् । उक्तञ्च कामशास्त्रे ।
“शास्त्रस्य विषयस्तावद्यावन्मन्दतरो रसः ।
रतिचक्रे प्रवृत्ते तु न शास्त्रं नापि च क्रमः” ॥
कलहे दुष्टस्त्रीकृतो वा मेहने नखदन्तघातः ।
उत्कलादौ स्त्रियो मुखयोनयो भवन्ति । ताभिर्व्वा
मेहने नखदन्तघातः । योनिप्रदोषात् दीर्घकर्क्कश-
योनिलोमयोगात् । योनिच्छिद्रस्यातिसूक्ष्मत्वाद्वा ।
वातादिकृताद्वा योनिदोषात् । विविधापचारैः ।
दुष्टजलप्रक्षालनब्रह्मचारिणीगमनादिभिः पञ्चो-
पदंशाः । वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिकः
आगन्तुजश्चेति ॥ * ॥ तत्र वातिकपैत्तिकस्य चोप-
दंशस्य लक्षणमाह ।
“सतोदभेदस्फुरणैस्तु कृष्णैः
स्फोटैर्व्यवस्येन्मरुतोपदंशम् ।
पीतैर्ब्बहुक्लेदयुतैः सदाहैः
पित्तेन रक्तैः पिशितावभासैः” ॥
व्यवस्येत् जानीयात् । पीतैः रक्तैर्व्वेति विकल्पः ॥ * ॥
श्लैष्मिकं सान्निपातिकञ्चाह ।
“सकण्डुरैः शोफयुतैर्म्महद्भिः
शुक्लैर्घनैः स्रावयुतैः कफेन ।
नानाविधस्रावरुजोपपन्न-
मसाध्यमाहुस्त्रिमलोपदंशम्” ॥ * ॥
असाध्यमाह ।
“विशीर्णमांसं कृमिभिः प्रजग्धं
मुष्कावशेषं परिवर्ज्जयेत्तम्” ।
विशीर्णमांसं गलितमांसम् । प्रजग्धं खादितम् ।
मुष्कावशेषं विशीर्णसमस्तमेहनमांसत्वेनावशिष्ट-
फलकोषमात्रम् ॥ * ॥ उत्पन्नमात्रचिकित्सायाः
अकरणे दोषमाह ।
“सञ्जातमात्रे न करोति मूढः
क्रियां नरो यो विषये प्रसक्तः ।
कालेन शोफक्रिमिदाहपाकैः
प्रशीर्णशिश्नो म्रियते स तेन” ॥
विषये प्रसक्तः अतिस्त्रीरतः ॥ * ॥ लिङ्गार्शमाह ।
“अङ्कुरैरिव संजातैरुपर्य्युपरि संस्थितैः ।
क्रमेण जायते वर्त्तिस्ताम्रचूडशिखोपमा ॥
कोषस्याभ्यन्तरे सन्धौ पर्ब्बसन्धिगतापि च ।
सवेदना पिच्छिला च दुश्चिकित्स्या त्रिदोषजा ॥
लिङ्गवर्त्तिरिति ख्याता लिङ्गार्श इति चापरे” ॥
लिङ्गवर्त्तेः स्थानमाह । कोषाभ्यन्तरे अण्डकोषा-
भ्यन्तरे । सन्धौ लिङ्गरन्ध्रसन्धौ । पर्ब्बसन्धिगता
मणिपर्ब्बणोः सन्धिगता ॥ * ॥ * ॥
अथोपदंशस्य चिकित्सा ।
“उपदंशेषु सर्व्वेषु स्निग्धं स्विन्नस्य देहिनः ।
पृष्ठ १/२५३
:मेढ्रमध्ये शिरां विध्येत् पातयेद्वा जलौकसः ॥
सद्यो निर्हृतदोषस्य रुक्शोथावुपशाम्यतः ।
पाको निवार्य्यो यत्नेन शिश्नक्षयकरः स यत् ॥
वटप्ररोहार्ज्जुनजम्बुलोध्र-
पथ्याहरिद्रारचितः प्रलेपः ।
व्यथां तथा शोथमपाकरोति
सर्व्वोपदंशेषु ततो हितोऽयम् ॥
उपदंशेषु पक्वेषु व्रणप्रक्षालनं हितम् ।
त्रिफलायाः कषायेण भृङ्गराजरसेन वा ॥
नीलोत्पलं सकुमुदं पद्मं सौगन्धिकं तथा ।
एषां चूर्णं धूलनार्थं प्रलेपश्चात्र शस्यते ॥
बन्धूकदलचूर्णेन रजसा दाडिमत्वचः ।
गुण्ठनं तद्व्रणे कुर्य्याल्लेपं पूगफलेन वा ॥
दहेत् कटाहे त्रिफलां तन्मसी मधुसंयुता ।
प्रलेपेनोपदंशस्य व्रणं सद्यः प्ररोहयेत् ॥
पटोलनिम्बत्रिफलाकिरात-
क्वाथं पिबेद्वा खदिरासनाभ्याम् ।
सगुग्गुलुं वा त्रिफलायुतं वा
सर्व्वोपदंशापहरः प्रयोगः” ॥ * ॥
“भूनिम्बनिम्बत्रिफलापटोल-
करञ्जधात्रीखदिरासनानाम् ।
कषायकल्कैः सृतमाशु चाज्यं
सर्व्वोपदंशापहरं प्रदिष्टम्” ॥
भूनिम्बादिघृतम् ॥ * ॥
“घृतानि यानि प्रोक्तानि कुष्ठे नाडीव्रणे व्रणे ।
उपदंशे प्रयोज्यानि सेकाभ्यञ्जनभोजने ॥
क्षारसूत्रेण संछिद्य लिङ्गवर्त्तिमशेषतः ।
दहेच्च तां ततस्ताभ्यां चिकित्सां व्रणवच्चरेत्” ॥
इत्युपदंशाधिकारः । इति भावप्रकाशः ॥ * ॥
अपि च ।
“पटोलनिम्बत्रिफलागुडूचीक्वाथमाविशेत् ।
सगुग्गुलुं सखदिरमुपदंशो विनश्यति” ॥
ग्रन्थान्तरे प्रथमार्द्धे “पटोलनिम्बगुडूचीमरिच-
क्वाथमापिबेत्” । इति च पाठः ॥
“दहेत् कटाहे त्रिफलां सा मसी मधुसंयुता ।
उपदंशे प्रलेपोऽयं सद्यो रोपयते व्रणम्” ॥ * ॥
“त्रिफलानिम्बभूनिम्बकरञ्जखदिरादिभिः ।
कल्कैः क्वाथैर्घृतं पक्वमुपदंशहरं परम्” ॥
इति गारुडे १७५ अध्यायः ॥
(अन्यच्चास्य सनिदानसम्प्राप्तिकं लक्षणमाह । यथा,
“स्त्रीव्यवायनिवृत्तस्य सहसा भजतोऽथवा ।
दोषाध्युषितसंकीर्णमलिनानुरजःपथाम् ॥
अन्ययोनिमनिच्छन्तीमगम्यां नवसूतिकाम् ।
दूषितं स्पृशतस्तोयं रतान्तेष्वपि नैव वा ॥
विवर्द्धयिषया तीक्ष्णान् प्रलेपादीन् प्रयच्छतः ।
मुष्टिदन्तनखोत्पीडाविषवच्छुक्रपातनैः ॥
वेगनिग्रहदीर्घातिखरस्पर्शविघट्टनैः ।
दोषा दुष्टा गता गुह्यं त्रयोविंशतिमामयान् ॥
जनयन्त्युपदंशादीन् उपदंशोऽत्र पञ्चधा ।
पृथक्दोषैः सरुधिरैः समस्तैश्चात्र मारुतात् ॥
मेढ्रशोके रुजश्चित्राः स्तम्भत्वक् परिपोटनम् ॥ १ ॥
पक्वोदुम्बरसंकाशः पित्तेन श्वयथुर्ज्वरः ॥ २ ॥
श्लेष्मणा कठिनः स्निग्धः कण्डूमान् शीतलोगुरुः ॥ ३ ॥
शोणितेनासितस्फोटसम्भवोऽस्रस्रुतिर्ज्वरः ॥ ४ ॥
सर्व्वजे सर्व्वलिङ्गत्वं श्वयथुर्मुष्कयोरपि” ॥ ५ ॥
असाध्यलक्षणं यथा ।
“तीव्रा रुगाशुपचनं दरणं क्रिमिसम्भवः ।
याप्यो रक्तोद्भवस्तेषां मृत्यवे सन्निपातजः” ॥
इति वाभटे उत्तरस्थाने ३३ अध्याये ।
अस्य चिकित्सा च यथा ॥
“मेढ्रमध्ये शिरां विध्येदुपदंशे नवोत्थिते ।
शीतां कुर्य्यात् क्रियां शुद्धिं विरेकेण विशेषतः ॥
तिलकल्कघृतक्षौद्रैर्लेपः पक्वे तु पाटिते ।
जम्ब्वाम्रसुमनोनीपश्वेतकाम्बोजिकाङ्कुरान् ॥
शल्लकीवदरीविल्वपलाशतिनिशोद्भवाः ।
त्वचः क्षीरिद्रुमाणाञ्च त्रिफलाञ्च जले पचेत् ॥
सक्वाथः क्षालनं तेन पक्वतैलञ्च रोपणम् ।
तुत्थगैरिकलोध्रैलामनोह्वालरसाञ्जनैः ॥
हरेणुपुष्पकाशीससौराष्ट्रीलवणोत्तमैः ।
लेपः क्षौद्रयुतैः सूक्ष्मैरुपदंशव्रणापहः ॥
कपाले त्रिफला दग्धा सघृता रोपणं परम् ।
सामान्यं साधनमिदं प्रतिदोषन्तु शोफवत् ॥
न च याति यथा पाकं प्रयतेत तथा भृशम् ।
पक्वैः स्नायुशिरामांसैः प्रायो नश्यति हि ध्वजः” ॥
इति वाभटे उत्तरस्थाने ३४ अध्यायः ॥
तत्रातिमैथुनादतिब्रह्मचर्य्याद्वा तथा ब्रह्मचा-
रिणीं चिरोत्सृष्टां रजस्वलां दीर्घरोमां कर्कशरो-
मां सङ्कीर्णरोमां निगूढरोमामल्पद्वारां महाद्वा-
रामप्रियामकामामचौक्ष्यसलिलप्रक्षालितयोनि-
मक्षालितयोनिं योनिरोगोपसृष्टां स्वभावतो वा
दुष्टयोनिं वियोनिं वा नारीमत्यर्थमुपसेवमानस्य
तथा करज-दशन-विष-शूकनिपातनादर्द्दनाद्धस्ता-
भिघाताच्चतुष्पदीगमनादचौक्ष्यसलिलप्रक्षालनाद-
वपीडनाच्छुक्रमूत्रवेगविधारणान्मैथुनान्ते वाऽप्र-
क्षालनादिभिर्मेढ्रमागम्य प्रकुपिता दोषाः क्षते-
ऽक्षते वा श्वयथुमुपजनयन्ति तमुपदंशमित्या-
चक्षते ॥
स पञ्चविधस्त्रिभिर्दोषैः पृथक् समस्तैरसृजा
चैकः ॥
तत्र वातिके पारुष्यं त्वक्परिपुटनं स्तध्वमेढ्र-
ता परुषशोफता विविधाश्च वातवेदनाः ॥ १ ॥
पैत्तिके ज्वरः श्वयथुः पक्वोडुम्बरसङ्काशस्तीव्र-
दाहः क्षिप्रपाकः पित्तवेदनाश्च ॥ २ ॥
श्लैष्मिके श्वयथुः कण्डूमान् कठिनः स्निग्धः श्लेष्म-
वेदनाश्च ॥ ३ ॥
रक्तजे कृष्णस्फोटप्रादुर्भावोऽत्यर्थमसृक्प्रवृत्तिः
पित्तलिङ्गान्यत्यर्थं ज्वरदाहो शोषश्च याप्यश्चैव
कदाचित् ॥ ४ ॥
सर्व्वजे सर्व्वलिङ्गदर्शनमवदरणं शेफसः कृमि-
प्रादुर्भावो मरणञ्चेति ॥ ५ ॥
इति सुश्रुते निदानस्थाने १२ अध्यायः ॥
चिकित्साविशेषो यथा ।
“यदि वा दुर्ब्बलो जन्तुर्न वा प्राप्तं विरेचनम् ॥
निरूहेण हरेत् तस्य दोषानत्यर्थमुच्छ्रितान् ।
प्रपौण्डरीकयष्ट्याह्ववर्षाभू-कुष्ठदारुभिः ॥
सरलागुरुरास्नाभिर्वातजं संप्रलेपयेत् ।
निचुलैरण्डवीजानि यवगोधूमशक्तवः ॥
एतैश्च वातजं स्निग्धैः सुखोष्णैः संप्रलेपयेत् ।
प्रपौण्डरीकपूर्ब्बैश्च द्रव्यैः सेकः प्रशस्यते ॥
गैरिकाञ्जनयष्ट्याह्वसारिवोशीरपद्मकैः ।
सचन्दनोत्पलैः स्निग्धैः पैत्तिकं संप्रलेपयेत् ॥
पद्मोत्पलमृणालैश्च ससर्ज्जार्ज्जुनवेतसैः ।
सर्पिःस्निग्धैः समधुकैः पैत्तिकं सम्प्रलेपयेत् ॥
सेचयेच्च घृतक्षीरशर्करेक्षुमधूदकैः ।
अथ वापि सुशीतेन कषायेण वटादिना ॥
शालाश्वकर्णाजकर्णधवत्वग्भिः कफोत्थितम् ।
सुरापिष्टाभिरुष्णाभिः सतलाभिः प्रलेपयेत् ॥
रजन्यतिविषामुस्तसरलासुरदारुभिः ।
सपत्रपाठापत्तूरैरथ वा सम्प्रलेपयेत् ॥
करवीरस्य पत्राणि जात्यारग्बधयोस्तथा ।
प्रक्षालने प्रयोज्यानि वैजयन्त्यर्कयोरपि ॥
गोजिविडङ्गयष्टीभिः सर्व्वगन्धैश्च संयुतम् ।
एतत् सर्व्वोपदंशेषु श्रेष्ठं रोपणमिष्यते ॥
सर्ज्जिकातुत्थकाशीसं शैलेयञ्च रसाञ्जनम् ।
मनःशिलासमैश्चूर्णं व्रणवीसर्पनाशनम् ॥
गुन्द्रान्दग्ध्वा कृतं भस्म हरितालं मनःशिला ।
उपदंशविसर्पाणामेतच्छान्तिकरं परम् ॥
मार्कवस्त्रिफलादन्तीताम्रचूर्णमयो रजः ।
उपदंशं निहन्त्येष वृक्षमिन्द्राशनिर्यथा ॥
उपदंशद्वयेऽप्येतां प्रत्याख्यायाचरेत् क्रियाम् ।
तयोरेव च या योग्या वीक्ष्य दोषबलाबलम् ॥
उपदंशे विशेषेण श्टणु भूयस्त्रिदोषजे ।
दुवृव्रणविधिं कुर्य्यात् कुथितं मेहनं त्यजेत् ॥
जाम्बौष्ठेनाग्निवर्णेन पश्चाच्छेषं दहेद्भिषक् ।
सम्यग्दग्धञ्च विज्ञाय मधुसर्पिः प्रयोजयेत् ॥
शुद्धे च रोपणं दद्यात् कल्कं तैलं हितञ्च यत्” ।
इति च सुश्रुते चिकित्सितस्थाने १९ अध्याये ॥
“लवङ्गं मरिचं शुण्ठी विडङ्गञ्च वचान्तथा ।
गन्धकं श्वेतखदिरं जातीकोषफले तथा ।
समभागकृतं सर्व्वं मधुना कारयेद्वटीम् ॥
शाणमात्रान्तु मतिमान् योजयेदविकल्पितः ।
अनुपानं दुग्धसारं ततस्ताम्बूलभक्षणम्” ॥
इति उपदंशारी रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे उपदंशाधिकारः ॥ * ॥
अत्र पथ्यानि यथा ॥
छिर्द्दिर्विरेको ध्वजमध्यनाडी-
वेधो जलौकःपरिपातनञ्च ।
सेकः प्रलेपो यवशालयश्च
धन्वामिषं मुद्गरसो घृतानि ॥ १ ॥
कठिल्लकं शिग्रुफलं पटोलं
शालिञ्चशाकं नवमूलकञ्च ।
तिक्तं कषायं मधुकूपवारि
तैलञ्च हन्यादुपदंशरोगम् ॥ २ ॥
अपथ्यानि यथा ॥
“दिवानिद्रां मूत्रवेगं गुर्व्वन्नं मैथुनं गुडम् ।
आयासमम्लं तक्रञ्च वर्ज्ज येदुपदंशवान् ॥ ३ ॥
पृष्ठ १/२५४
:इति वैद्यकपथ्यापथ्यविधिः ॥) समष्ठिलवृक्षः ।
शिग्रुवृक्षः । इति राजनिर्घण्टः । (भवे घञ् ।)
दंशनम् ॥

उपदर्शकः, पुं, (उपदर्शयतीति । उप + दृश् + णिच्

+ ण्वुल् ।) द्वारपालः । इत्यमरटीकासारसुन्दरी ॥
(दर्शयितरि, त्रि ॥)

उपदा, स्त्री, (उपदीयते इति । उप + दा + आत-

श्चोपसर्ग इत्यङ् ।) उपढौकनम् । इत्यमरः ॥
(“उपदा विविशुः शश्वत् नोत्सेकः कोशलेश्वरम्” ।
इति रघुः । ४ । १० ।)
“प्रत्यर्प्य पूजामुपदाच्छलेन” । इति रघुः । ७ । ३० ।)

उपदानकं, क्ली, (उपदान + स्वार्थे कन् ।) उत्कोचः ।

इति त्रिकाण्डशेषः ॥

उपदिष्टः, त्रि, (उप + दिश् + क्त ।) उपदेशप्राप्तः ।

यथा । “ननु शूद्रस्यापि सगोत्रा कथं न निषिध्यते
इति चेदत्र उपदिष्टातिदिष्टगोत्रस्यैव निषेधो न
त्वतिदिष्टातिदिष्टशूद्रगोत्रादेरिति” । इत्युद्वाह-
तत्त्वम् ॥

उपदी, स्त्री, (उपेत्य दीयते छिद्यते इति उप + दो

+ क + ङीष् ।) वन्दाकः । इति राजनिर्घण्टः ॥
परगाछा इति भाषा ॥

उपदेवता, स्त्री, (उपगता सादृश्येन देवताम् ।) यक्ष-

भूतादिः ॥ (उपदेवताश्च दश । यथाह अमरः ।
“विद्याधरोऽप्सरो यक्षो रक्षो गन्धर्व्वकिन्नरौ ।
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः” ॥)

उपदेशः, पुं, (उप + दिश् + घञ् ।) मन्त्रकथनम् ।

तत्पर्य्यायः । दीक्षा २ । यथा ।
“चन्द्रसूर्य्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये ।
मन्त्रमात्रप्रकथनमुपदेशः स उच्यते” ॥
इति रामार्च्चनचन्द्रिका ॥ कलावत्यादिदीक्षाया-
मसामर्थ्ये संक्षेपो यथा ।
“तत्राप्यशक्तः कश्चिच्चेदब्जमभ्यर्च्च्य साक्षतम् ।
तदम्बुनाभिषिच्याष्टवारं मूलेन केकरम् ॥
निधायाष्टौ जपेत् कण उपदेशे त्वयं विधिः” ॥
इति विश्वसारतन्त्रम् ॥ हितकथनम् ।
(यथा, हितोपदेशे विग्रहे उक्तम् ।
“उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये” ॥)
शिक्षणम् ॥ (यथा, मनुः ८ । २७२ ।
“धर्म्मोपदेशं दर्पण विप्राणामस्य कुर्व्वतः” ।
“एवमित्युपदेशः । यथा । तथा न जागृयात्
रात्रौ दिवास्वप्नञ्च वर्जयेदनेन कारणेनेत्युपदे शः ॥
अथोपदिश्यते मधुरेण श्लेष्माभिवर्द्धत इति” ।
इति सुश्रुते उत्तरतन्त्रे ६५ अध्यायः ॥)

उपदेशी, [न्] त्रि, (उपदिशति यः । उप + दिश्

+ णिनि ।) उपदेष्टा ॥ (यथा हितोपदेशे मित्र-
लाभे ।
“गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् ।
प्रमाणयति नो धर्म्मे यथा गोघ्नमपि द्विजम्” ॥)

उपदेष्टा, [ऋ] त्रि, (उपदिशति यः । उप + दिश् +

तृच ।) उपदेशकर्त्ता । यथा ।
“तथोपदेष्टारमपि पूजयेच्च ततो गुरुम् ।
नपूज्यते गुरुर्यत्र नरैस्तत्राफला क्रिया” ॥
इति तिथ्यादितत्त्वम् ॥ वृहस्पतिः ।
“उपदेष्टानुमन्ता च लोके तुल्यफलौ स्मृतौ” ।
इत्याह्निकतत्त्वञ्च ॥

उपदेहिका, स्त्री, (उपदेहो विद्यते यस्याः । उप-

देह + ठक् ।) कीटविशेषः । तत्पर्य्यायः । उप-
जिह्वा २ वम्प्री ३ उपदीका ४ । इति हेमचन्द्रः ॥

उपद्रवः, पुं, (उप + द्रु + अप् ।) उत्पातः । इति

हलायुधः ॥ रोगारम्भकदोषप्रकोपजन्योऽन्यो वि-
कारः । (तल्लक्षणमुक्तं वैद्यके । यथा, --
“यो व्याधिस्तस्य यो हेतुर्दोषस्तस्य प्रकोपतः ।
योऽन्यो विकारो भवति स उपद्रव उच्यते” ॥
“व्याधेरुपरि यो व्याधिः उपद्रव उदाहृतः ।
सोपद्रवा न जीवन्ति जीवन्ति निरुपद्रवाः” ॥
इति हारीते चिकित्सितस्थाने द्वितीयेऽध्याये ।
“तत्रौपसर्गिको यः पूर्ब्बोत्पन्नं व्याधिं जघन्यकाल-
जातो व्याधिरुपसृजति स तन्मूलएवोपद्रव-
संज्ञः” । इति सुश्रुते सूत्रस्थाने ३५ अध्याये ॥)

उपद्रष्टा, [ऋ] त्रि, (उप + दृश + बाहुलकात्तृच् ।)

उपदर्शकः । उदासीनबोधरूपत्वेन गुणप्रचार-
दर्शी । इति गीताटीका ॥
(“उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः” ।
इति गीतायां १३ । २२ । साक्षी पुरुषः । यथा,
“ऋत्विग्यजमानेषु यजनकर्म्मव्यापृतेषु तत्स-
मीपस्थोऽन्यः स्वयमव्यापृतो यज्ञविद्याकुशलत्वात्
ऋत्विग्यजमानव्यापारगुणदोषाणां ईक्षिता तद्वत्-
कार्य्यकारणव्यापारेषु स्वयमव्यापृतो विलक्षणस्तेषां
कार्य्यकारणानां सव्यापाराणां समीपस्थो द्रष्टा
उपद्रष्टा साक्षी पुरुषः” ॥)

उपधर्म्मः, पुं, (उपहीनोधर्म्मः ।) पाषण्डः । इति

श्रीभागवतम् ॥ (यथा मनुः २ । २३७ ।
“एष धर्म्मः परः साक्षात् उपधर्म्मोऽन्य उच्यते” ॥)

उपधा, स्त्री, (उपधीयते शुद्धिज्ञानमत्र । उप + धा

+ आतश्चोपसर्ग इत्यङ् + टाप् ।) राज्ञां धर्म्म-
कामार्थभयैरमात्यादेर्यत् परीक्षणम् । इत्यमरः ॥
धर्म्मार्थकाममोक्षद्वारा परीक्षा । यथा ।
“धर्म्मार्थकाममोक्षैश्च प्रत्येकं परिशोधनैः ।
उपेत्य धीयते यस्मादुपधा परिकीर्त्तिता ॥
अर्थकामोपधाभ्यान्तु भार्य्याः पुत्त्रांस्तु शोधयेत् ।
धर्म्मोपधाभिर्व्विप्रांस्तु सर्व्वाभिः सचिवान् पुनः” ॥
इति कालिकापुराणे ८५ अध्यायः ॥ (“भूयोभूय-
श्चोपधाभिर्विशोध्य तं मे मतिसहायमकरवम्” ।
इति दशकुमारचरिते विश्रुतचरिते ।) पदानामु-
पान्त्यवर्णः । इति व्याकरणम् ॥

उपधातुः, पुं, (उप सादृश्ये । धातुसदृशो धातुः ।)

अष्टप्रधानधातुसदृशधातुः । स तु सप्तधा यथा ।
माक्षिकम् १ तुत्थकम् २ अभ्रम् ३ नीलाञ्जनम्
४ मनःशिला ५ हरितालम् ६ रसाञ्जनम् ७ ॥
शरीरस्थधातुभवोपधातुः सप्तधा यथा । रसात्
स्तनदुग्धम् १ रक्तात् स्त्रीरजः २ मांसात् वसा
३ मेदसो घर्म्म ४ अस्थ्नो दन्तः ५ मज्जनः केशः
६ शुक्रात् ओजः ७ । इति वैद्यकम् ॥
(“स्तन्यं रजश्च नारीणां काले भवति गच्छति ।
शुद्धमांसभवस्नेहः सा वसा परिकीर्त्तिता ॥
स्वेदो दन्तास्तथा केशास्तथैवोजश्च सप्तमम् ।
इति धातुभवा ज्ञेया एते सप्तोपधातवः” ॥
इति शार्ङ्गधरेण पूर्ब्बखण्डे पञ्चमेऽध्याये उक्तम् ॥
“सप्तोपधातवः स्वर्णमाक्षिकं तारमाक्षिकम् ।
तुत्थं कांस्यं च रीतिश्च सिन्दूरश्च शिलाजतु” ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)

उपधानं, क्ली, (उपधीयते आरोप्यते मस्तकमत्र ।

उप + धा + अधिकरणे ल्युट् ।) शिरोधानम् ॥
वालिश इति भाषा । तत्पर्य्यायः । उपवर्हः २ ।
इत्यमरः । गण्डुः ३ । इति जटाधरः ।
(“सोपधानां धियं धीराः स्थेयसीं खट्टयन्ति ये” ।
इति माघः २ । ७७ । “पट्टोपधानाध्यासितशिरो-
भागेन” । इति कादम्बरी ।) विषम् । प्रणयः ।
इति मेदिनी । व्रतम् । इति हेमचन्द्रः ॥

उपधानीयं, क्ली, (उपधीयते यस्मिन् । उप + धा +

अनीयर् ।) उपधानम् । इति शब्दरत्नावली ॥

उपधिः, पुं, (उपधीयते आरोप्यतेऽनेन । उप + धा

+ किः ।) कपटः । इत्यमरः ॥ (यथा, मनुः ८ । १६५ ॥
“योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्युपधिं पश्येत् तत्सर्व्वं विनिवर्त्तयेत्” ॥
“अरिषु हि विजयार्थिनः क्षितीशाः
विदधति सोपधि सन्धिदूषणानि” ।
इति किराते ॥ १ । ४५ ।) रथचक्रम् । इति हेमचन्द्रः ॥

उपधूपितः, त्रि, (उप + धूप् + क्त ।) आसन्नमरणः ।

परिधूपितः । इति मेदिनी ॥

उपधृतिः, स्त्री, (उप + धृ + क्तिन् ।) किरणः । इति

हेमचन्द्रः ॥

उपनतः, त्रि, (उप + नम् + क्त ।) उपस्थितः । इति

हेमचन्द्रः ॥ (“अचिरोपनतां स मेदिनीं” इति
रघुः ८ । ७ ॥ नम्रः । यथा, माघे । १२ । ३३ ।
“शौरेः प्रतापोपनतैरितस्ततः
समागतैः प्रश्रयनम्रमूर्त्तिभिः” ॥)

उपनदं, क्ली, नद्याः समीपम् । इति मुग्धबोध-

व्याकरणम् ॥ (तथा पाणिनीये ।
“नदीपौर्णमास्याग्रहायणीभ्यः” । ५ । ४ । ११० ।
इत्यनेन सिद्धम् ॥)

उपनदि, क्ली, नद्याः समीपम् । इति मुग्धबोध-

व्याकरणम् ॥ (तथा पाणिनीये ।
“नदीपौर्णमास्याग्रहायणीभ्यः” । ५ । ४ । ११० ।
इत्यनेन सिद्धम् ॥)

उपनयः, पुं, (उप समीपे नीयते येन कर्म्मणा । उप

+ नी + अच् ।) उपनयनम् । इति हेमचन्द्रः ॥
(“गृह्योक्तकर्म्मणा येन समीपं नीयते गुरोः ।
बालो वेदाय तद्योगात् बालस्योपनयं विदुः” ॥
इति स्मृतिः । भावे + अच् । प्रापणम् । यथा,
महाभारते ३ । २ । २४ ।
“मानमस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्” ॥
न्यायमते यो यो धूमवान् स सवह्निमान् अयमपि
तथेत्यादिरूपः न्यायावयवभेदः ॥)