सामग्री पर जाएँ

शब्दकल्पद्रुमः/आ

विकिस्रोतः तः
पृष्ठ १/१६०अ

, आकारः । द्वितीयस्वरवर्णः । अस्योच्चारणस्थानं

कण्ठः । स च दीर्घः प्लुतश्च भवति ।
“आकारं परमाश्चर्य्यं शङ्खज्योतिर्म्मयं प्रिये ।
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ।
पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली” ॥
इति कामधेनुतन्त्रे ॥ अस्य लेखनप्रकारो यथा --
“अकाररूपमासद्य दक्षक्रोडायता त्वधः ।
ब्रह्मादयस्तथा शक्तिस्तासु तिष्ठन्ति नित्यशः” ॥
इति वर्णोद्धारतन्त्रं । तस्य नामानि यथा --
“आकारो विजयानन्तो दीर्घच्छायो विनायकः ।
क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ ॥
प्रचण्ड एकजो रुद्रो नारायण इभेश्वरः ।
प्रतिष्ठा मानदा कान्तो विश्वान्तक गजान्तकः ॥
पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः ।
द्वितीया मानदा काशी विघ्नराजः कुजो वियत् ॥
स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी” ॥
इति वर्णाभिधानं ॥

, व्य, स्मृतिः । यथा । “आज्ञातं सजटायुरेषः” ।

वाक्यं । यथा । “आ एवं मन्यसे” । इत्यमरः ॥
(पूर्ब्बं मैवं मंस्था इदानीं त्वेवं मन्यसे इत्यर्थः ।)
अनुकम्पा । (यथा, आ देवदत्तो दरिद्रः इति ।)
समुच्चयः । इति मेदिनी ॥ (यथा, देवेभ्यश्च पितृ-
भ्यंश्च आ ।) क्वचित् निषिद्धसन्धिवर्णः । आशब्दो
योऽचा न सन्धीयते स इत्यर्थः । इति भरतः ॥
(“आ एवं तत्त्वमर्य्यादा आ एवं तत्कृतं मया” ।
इति मुग्धबोधम् ।)

आं, व्य, एवं । स्वीकारः । इत्यमरः ॥

आः, पुं, महेश्वरः । इति पुरुषोत्तमः ॥ पितामहः ।

वाक्यं । यथा अग्निपुराणे एकाक्षरामिधानं ॥
“अ विष्णुः प्रतिषेधः स्यादाः पितामहवाक्ययोः ।
सीमायामथाव्ययं आ भवेत् संक्रोधपीडयोः” ॥

आः, [स्] व्य, कोपः । यथा । आः पापदुर्म्मुखः ।

(“आः किमेतदितिक्रोधादाभाष्य महिषासुरः” ।
इति मार्कण्डेयपुराणम् ।
“आः पापे दुर्विनोते महाश्वेते” । इति काद-
म्बरी ।) पीडा । यथा आः शीतं । इत्यमरभरतौ ।
स्मृतिः । स्पर्द्धा । तर्ज्जतं । इति शब्दरत्नावली ॥

आकम्पितं, त्रि, (आकम्पते स्म । आङ् + कपि +

क्त ।) कम्पविशिष्टं । तत्पर्य्यायः । वेल्लितं २
प्रेङ्क्षितं ३ आधूतं ४ आधुतं ५ चलितं ६ इत्यमरः ॥
कम्पितं ७ धुतं ८ व्याधूतं ९ विधूतं १० धूतं ११
प्रकम्पितं १२ । इति शब्दरत्नावली ॥
(“अनोकहाकम्पितपुष्पगन्धी” । इति रर्धौ ।
पृष्ठ १/१६१
:“आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकृताधिवासैः” ।
इति ऋतुसंहारे ॥)

आकरः, पुं, (आकीर्य्यन्ते धातवोऽत्र । आङ् + कॄ +

अप् । यद्वा आकुर्व्वन्ति संघीभूय कुर्व्वन्ति व्यव-
हारमत्रेति वा । आ + कृ + घ ।) धातुरत्नादे-
रुत्पत्तिस्थानं । तत्पर्य्यायः । खनिः २ इत्यमरः ॥
(“आकरे पद्मरागाणां जन्म काचमणेः कुतः” ।
इति हितोपदेशः ।
“शैलेन्द्रो हिमवान् नाम धातूनामाकरो महान्”
इति रामायणम् ।) समूहः ।
(“शब्दाकरकरग्राममर्थमण्डलमण्डलम्” ।
इति कविकल्पद्रुमः ।) श्रेष्ठः । इति मेदिनी ॥

आकर्णनं, क्ली, (आ + कर्ण + ल्युट् ।) श्रवणं ॥

(“मुदा तदाकर्णनतत्परोऽभूत्” । इति नैषधे ।)

आकर्षः, पुं, (आकृष्यते इति । आ + कृष + घञ् ।)

पाशकः । पाशा इति भाषा । अक्षक्रीडा ।
पाशा खेला इति भाषा । सारिफलकः । इत्यमरः ॥
छक इति भाषा । (यथा महाभारते ।
“आकर्षस्ते वाक्फलः सुप्रणीतो
हृदि प्रोढो मन्त्रपदः समाधिः” ।
इन्द्रियं । धनुरभ्यासवस्तु । आकर्षणं । इति मे-
दिनी ॥ आकृष्यते अनेन । आँकुषी इति भाषा ।
यथा । “आकर्ष इव श्वा आकर्षश्वः” । इति
मुग्धबोधव्याकरणं ॥ आकर्षतुल्प्य इति ज्ञापनार्थ-
इव शब्दः । इति दुर्गादासः ॥ (अयस्कान्तः ।
निकषोपलः ।)

आकर्षणं, क्ली, (आ + कृष् + ल्युट् ।) आकर्षः ।

बलादानयनं । टानन् इति भाषा । यथा, --
“सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः ।
केशाकर्षणनिर्धूतगौरवा मागमिष्यसि” ॥
इति मार्कण्डेये देवोमाहात्म्यम् ॥ * ॥
तन्त्रोक्तकर्म्मविशेषद्वारा योषाद्यानयनं । यथा ।
अथाकर्षणं ।
“आकर्षणविधानानि कथयामि समासतः ।
यद्दृष्टं त्रैपुरे तन्त्रे यद्दृष्टं भूतडामरे ॥
श्रीवीजं मान्मथं वीजं लज्जावीजं समुद्धरेत् ।
प्रथमं प्रणतं दत्त्वा त्रिपुरादेविपदं ततः ॥
अमुकीति पदं दत्त्वा आकर्षय द्विधा पदं ।
स्वाहान्तं मन्त्रमुद्धृत्य जपेद्दशसहस्रकं ॥
षट्कोणचक्रमालिख्य रक्तचन्दनकुङ्कुमैः ।
षडङ्गं कारयेन्मन्त्री लज्जावीजसमन्वितं ॥
षड्दीर्घभाक्स्वरेणैव नादविन्दुविभूषितं ॥
रक्तपुष्पाक्षतधूपादिनैवेद्यैः प्रपूज्य तां ।
भावयन् चेतसा देवीं त्रिनेत्रां चन्द्रशेखरां ।
बालार्ककिरणप्रख्यां सिन्दूरारुणविग्रहां ॥
पद्मञ्च दक्षिणे पाणौ जपमालाञ्च वामके ।
मन्त्रस्यास्य प्रभावेण रस्मामपि तथोर्व्वशीं ॥
आकर्षयेन्न सन्देहः किं पुनर्मानवीमिह ॥ * ॥
भूर्जपत्रे समालिख्य कुङ्कुमालक्तवारिणा ॥
काश्मीरागुरुकस्तूरीरोचनामिलितेन च ।
अनामारक्तमिश्रेण कमलाक्षीमनुं लिखेत् ॥
ॐ ह्रीं कमलाक्षि अमुकीमाकर्षयाकर्षय ॐफट् ॥
इमं मन्त्रं जपेदादौ सहस्रैकं ततः पुनः ।
तद्भूर्जपत्रमादाय गुलिकां कारयेत् सुधीः ॥
तेनैवं साध्यपादोत्थमृत्तिकापङ्कवेष्टितां ।
शोषितां तेजसा भानोर्वेष्टयेत् त्रिकटुकैः पुनः ॥
प्रतिमां स्त्रीनिभां कृत्वा क्षिपेत्तस्यास्तदोदरे ।
गुलिकां पातयेत् पात्रे प्रतिमां साध्यरूपिणीं ॥
तादृशाभिमुखो भूत्वा निर्जने निशि साधकः ।
ततस्तद्गतचित्तश्च तावत् कालं जपेन्मनुं ।
यावदायाति सन्त्रस्ता मदनालसविग्रहा ॥ * ॥
अथान्यत् कथयाम्यत्र नृपाकर्षणहेतवे ।
देवस्यापि नरस्यापि मोहिनीमन्त्रजापतः ॥
अथ मन्त्रं महेशान्यास्तारमादौ ततस्त्रपां ।
पञ्चशायकवीजञ्च दत्त्वाथ भुवनेश्वरीं ॥
मोहिनीति च नामान्ते फट्कारं पुनरालिखेत् ।
स्वाहान्तमन्त्रमुक्तञ्च मध्यवीजेन कारयेत् ॥
षडङ्गान् दीर्घयुक्ताद्यैश्चक्रेऽष्टदलके यजेत् ।
प्रथमं साध्यनामानि लेख्यानि च कजोदरे ॥
महारजनरक्तेन पूर्ब्बमन्त्रपदं युतं ।
मोहिनीं पद्मकिञ्जल्के जृम्भिणीं स्तम्भिनीं तथा ॥
वशङ्करीं कुलेशीञ्च ततो वै विश्ववासिनीं ।
आकर्षिणीं ततः क्लिन्नामर्च्चयेदष्टपत्रके ॥
गन्धपुष्पादिधूपाद्यैर्भक्तियुक्तेन चेतसा ।
लक्षजप्तेन सर्व्वेषां शीघ्रमाकर्षणं भवेत् ॥ * ॥
ह्रीं कालिकायै धीमहि
तन्नः कालि प्रचोदयात् ।
ॐ आकर्षिणी वज्रधारिणी
हुँ फट् स्वाहा अमुकीमाकर्षय ॥
प्रणवं पूर्ब्बमुद्धृत्य उग्रसेनी ततः परं ।
नितम्बिनी वह्निजाया विद्या परमदुर्लभा ॥
सिन्दूरपुत्तलिं कृत्वा तस्या नाम हृदि विलिख्य
पणमूल्येन ताम्बूलं समानीय आमशरावद्वये
नैवेद्यं कृत्वा कृष्णाष्टोत्तरशततुलस्या मूलमन्त्र-
पठिते पुत्तल्या हृदि नामस्थाने ताडिते सति
सा समायाति” । इति श्रीकृष्णानन्दविद्यावागीश-
कृतषट्कर्म्मदीपिका तन्त्रसारश्च ॥

आकर्षणी, स्त्री, (आकृष्यते अनया । आ + कृष् +

ल्युट् + स्त्रियां ङीप् ।) फलपुष्पाद्याकर्षकयष्टि-
काविशेषः । आँकुषी इति भाषा ॥

आकलनं, क्ली, (आ + कल् + ल्युट् ।) आकाङ्क्षा ।

परिसंख्या । बन्धनं । इति मेदिनी ॥ (“सेव्यापि
सानुनयमाकलनाय यन्त्रा” । इति माघः: ।)

आकल्पः, पुं, (आ + कृप् + घञ् ।) वेशः । इत्य-

मरः ॥ कल्पनं । इति मेदिनी ॥ मण्डनं । रोगः ।
इति हेमचन्द्रः ॥ वेशार्थे यथा रघौ, --
(“अकृतकविधिसर्व्वाङ्गीनमाकल्पजातं
विलसितपदमाढ्यं यौवनं सा प्रपेदे” ।
“स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोष-
कृत्” । इति साहित्यदर्पणे तृतीयपरिच्छेदे ।
कल्पपर्य्यन्ते व्य, यथा -- “आकल्पं नरकं भुङ्क्ते” ।
इति स्मृतिः ।)

आकल्पकः, पुं, (आकल्प + कन् ।) तमः । मोहः ।

ग्रन्थिः । उत्कण्ठा । हर्षः । इति मेदिनी ॥

आकषः, पुं, (आकष्यते यत्र, आ + कष् + अच् ।)

प्रस्तरविशेषः । इति शब्दरत्नावली ॥ कष्टिपातर-
इति भाषा ।

आकस्मिकं, त्रि, (अकस्मात् भवं । अकस्मात् + ठ-

ञ् ।) अकस्मादुद्भवं । हठाज्जातं ॥ (“आकस्मिक-
प्रत्यवभासां च देवीं वाचमनुष्टुभेन छन्दसा परि-
णतामभ्युदैरयत्” । इति उत्तररामचरितम् ॥)

आकाङ्क्षा, स्त्री, (आङ् + काङ्क्षि + अच् + टाप् ।)

इच्छा । अभिलाषः । इत्यमरः ॥ (रमणीयवस्तु-
स्पृहा । यदुक्तं साहित्यदर्पणे ।)
“आकाङ्क्षा रमणीयत्वात् वस्तुनो या स्पृहा तु सा” ।
अपेक्षा । जिज्ञासा । अनुसन्धानं । यथा पदा-
ङ्कदूते, --
“नाकाङ्क्षा किं भवति विपुलश्रीमतोऽर्थान्तरेषु” ।)
न्यायमते । यत्पदमृते यत्पदान्वयबोधो न भवति
तत्पदे तत्पदवत्ता । प्रतीतिपर्य्यवसानविरहः । इत्या-
लङ्कारिकाः ॥

आकायः, पुं, (आञ् + चि + घञ् ।) निवासः ।

इति वोपदेवः ॥

आकारः, पुं, (आ + कृ + घञ् ।) इङ्गितं । अभि-

प्रायानुरूपचेष्टाविष्करणं । संकेत ठार इत्यादि
भाषा । आकृतिः । मूर्त्तिः । इत्यमरः ॥
(“तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च” ।
इति रघौ १ । २० ।
“आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च” ।
इति हितोपदेशे सुहृद्भेदः । मूर्त्तिः । “आकार-
सदृशप्रज्ञः” । इति रघौ १ । १५ ।)

आकारगुप्तिः, स्त्री, (आकारस्य गुप्तिः ।) रत्या-

दिसूचको मुखरागादिराकारः । आकारोऽङ्ग-
वैकृतमिति वोपालितः ॥ गुप्तिर्गोपनं । आकारस्य
भयलज्जादिना गुप्तिराकारगुप्तिः । इत्यमर-
टीकायां भरतः ॥ तत्पर्य्यायः । अवहित्था २ ।
इत्यमरः ॥ अङ्गविकृतस्य रोमाञ्चादेराच्छादनात्
अवहिःस्थितिरवहित्था । इति सारसुन्दरी ॥
(“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था” ।
इति साहित्यदर्पणम् ।)

आकारगोपनं, क्ली, (आकारस्य गोपनं ।) आकार-

गुप्तिः । रत्यादिसूचकमुखरागादिगोपनं । इति
हेमचन्द्रः ॥

आकारणं, क्ली, स्त्री, (आङ् + कृ + णिच् + ल्युट् ।)

आह्वानं । इत्यमरः ॥ डाकन इति भाषा ।
(“तैश्च मणिभद्राकारणाय कश्चित् प्रेषितः” ।
इति पञ्चतन्त्रम् ।)

आकालिकं, त्रि, (समानकालौ आद्यन्तौ यस्य ।

“आकालिकडाद्यन्तवचने” इति समानकालस्या-
कालादेशः । इकट् प्रत्ययश्च निपातनात् । यद्वा
अकाले भवम् । अकाल + ठञ् ।) क्षणध्वंसि ।
इति धरणिः ॥ समानकालीनजन्मविनाशशाली ।
इति संक्षिप्तसारः ॥ अकालसम्भवं । आरम्भ-
कालात् तत्सजातीयकालस्थायि । निमित्तं काल-
मारभ्य परेद्युर्यावत्कालः स एव कालस्तावदकाल-
पृष्ठ १/१६२
:स्तत्र भवः । इति तिथितत्त्वं ॥ (यथा मनौ ४ । १०५
(“एतानाकालिकान् विद्यादनध्यायानृतावपि” ।
“तपस्विनः स्थानुवनौकसस्ता-
माकालिकीं वीक्ष्य मधुप्रवृत्तिम्” ॥
इति कुमारसम्भवे ३ । ३३ ॥)

आकालिकप्रलयः, पुं, (आकालिकः प्रलयः ।) प्रलय-

विशेषः । स्वायम्भुवमन्वन्तरे कपिलशापेन अकाले
जगत्प्लावनं । तद्विवरणं यथा --
श्रीमार्कण्डेय उवाच ।
“आकालिकोऽयं प्रलयो यतो भगवता कृतः ।
तत् शृण्वन्तु महाभागा वाराहं लोकसंक्षयं ॥
यथा वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।
तदहं संप्रवक्ष्यामि सर्व्वपापप्रणाशनं” ॥
श्रीकपिल उवाच ।
“स्वायम्भुव मनुश्रेष्ठ ब्रह्मरूप महामते ।
ममैकमीप्सितार्थं त्वं देहि प्रार्थयतोऽधुना ॥
जगत् सर्व्वं तवैवेदं त्वया च परिपालितं ।
त्वया सर्व्वं जगत् सृष्टं त्वमेव जगतां पतिः ॥
तन्मे देहि रहःस्थानं त्रिषु लोकेषु दुर्लभं
पुण्यं पापहरं रम्यं ज्ञानप्रभवमुत्तमं ॥
अहं हि सर्व्वभूतानां भूत्वा प्रत्यक्षदर्शिवान् ।
उद्धरिष्ये जगज्जातान् निर्माय ज्ञानदीपिकाम् ॥
अज्ञानसागरे मग्नमधुना सकलं जगत् ।
ज्ञानदीपं प्रदायाहं तारयिष्ये जगत्प्लवं” ॥
श्रीमनुरुवाच ।
“यदि त्वयाखिलजगद्धितार्थं ज्ञानदीपिकां ।
चिकीर्षुणा तपः कार्य्यं किं स्थानार्थनया तव ॥
देवागाराणि तीर्थानि क्षेत्राणि सरितस्तथा ।
बहूनि पुण्यभाञ्ज्यत्र तिष्ठन्ति कपिल ! क्षितौ ॥
तेषामेकतमं त्वञ्चेदासाद्य कुरुषे तपः ।
स्थानं ब्रह्मन् तपःसिद्धौ न भविष्यति तत्र किं” ॥
कपिल उवाच ।
“त्वयि विश्रम्भमाधाय तपसः सिद्धयेऽचिरात् ।
स्थानं मया प्रार्थितं ते त्वं मां क्षिपसि हेतुभिः ॥
अक्षाम्यन्ते वचो मेऽद्य प्रार्थनायां विकत्थनं ।
यत्त्वं वदसि तस्मात्त्वं फलमेतदवाप्नुहि ॥
इदं त्रिभुवनं सर्व्वं सदेवासुरमानुषं ।
हतप्रहतविध्वस्तमचिरेण भविष्यति ॥
न चिरात् द्रक्ष्यसि मनो ! जलपूर्णं जगत्त्रयं ।
हतप्रहतविध्वस्तं तव गर्व्वविशातनं ॥
एवमुक्त्वा मुनीन्द्रोऽसौ कपिलस्तपसां निधिः ।
अन्तर्दधे जगामापि तदा ब्रह्मसदो मुनिः ॥
कपिलम्य वचः श्रुत्वा विषण्णवदनो मनुः ।
भावीति प्रतिपद्याशु मनुर्नोवाच किञ्चन ॥
विशालां वदरीं यातो गङ्गाद्वारान्तिकं मनुः ।
प्रविश्य तपसे यत्नमकरोल्लोकभावनः ।
आराधयामास हरिं जगत्कारणकारणं ॥
ॐ नमो भगवते वामुदेवाय शुद्धज्ञानस्वभाविने ।
इति जप्यं प्रजपतो मनोः स्वायम्भुवस्य तु ॥
प्रसनाद जगन्नायः केशवो न चिरादथ ।
ततः क्षद्रझसो भूत्वा दूर्व्वादलममप्रभः ॥
कर्परकलिकायुग्भतुल्यनेत्रयगोज्यलः ।
तपस्यन्तं महात्मानं मनुं स्वायम्भुवं मुनिं ॥
आससाद तदा क्षुद्रमत्स्यरूपी जनार्दनः ।
उवाच च महात्मानं मनुं स्वायम्भुवं तदा ॥
तपोनिधे महाभाग भीतं मां त्रातुमर्हसि ।
नित्यं युद्धे जितं मत्स्यैर्विशालैर्भक्षितुं प्रति ॥
अथ प्रभूतैर्विपुलैर्द्रावितः पृथुरोमभिः ।
प्राणाकाङ्क्षी महात्मानं भवन्तं शरणं मुनिं ॥
प्राप्तोऽहं यद्यनुक्रोशो मयि मां परिपालय ।
इति तस्य वचः श्रुत्वा मनुः स्वायम्भुवस्ततः ॥
अलिञ्जरे तोयपूर्णे न्यधाद्विपुलभोगिनि ।
स तस्मिन् मलिके मत्स्यो वर्द्धमानो दिने दिने ॥
सामान्यरोहितप्रायदेहोऽभून्नचिरादथ ।
दशघटजलपूर्णं प्रत्यहं स महात्मा
मलिकमसति कुर्व्वन् वर्द्धयामास मत्स्यं ।
स च सुविषदनेत्रो मत्स्यराजोऽचिरेण
मलिकसलिलमध्ये लोमशः पीनदेहः” ॥
इति कालिकापुराणे ३१ अध्यायः ॥ * ॥
श्रीमार्कण्डेय उवाच ।
“ततस्तथा पीनतनुं दृष्ट्वा मत्स्यं मनुः स्वयं ।
गृहीत्वा पाणिना फुल्लनलिनीं सरसीं ययौ ॥
तत्सरस्तत्र विपुलं पुण्ये नारायणाश्रमे ।
एकयोजनविस्तीर्णं सार्द्धयोजनमायतं ॥
नानामीनगणोपेतं शीतामलजलोत्करं ।
तदासाद्य सरो मत्स्यं विनिधाय मनुस्तदा ॥
पालयामास सुतवत् कृपया परया युतः ।
सोऽचिरेणैव कालेन पीनो वैसारिणोऽभवत् ॥
न समस्तत्र सरसि वृहत्काये द्विजोत्तमाः ।
स एकदा महामत्स्यः पूर्ब्बापरतटद्वये ॥
शिरःपुच्छे निधायाशु तुङ्गदेहः समुच्छ्रितः ।
स्वायम्भुवं महात्मानं चुक्रोश त्राहि मामिति ॥
तं तथा स मनुर्ज्ञात्वा क्रोशन्तं मीनपुङ्गवं ।
आससाद तदा मत्स्यं जग्राह च करेण तं ॥
न शक्रोम्यहमुद्धर्त्तुं पृथुरोमाणमद्भुतं ।
इति सञ्चिन्तयन्नेवं प्रोद्दधार करेण तं ॥
भगवानपि विश्वात्मा मत्स्यरूपी जनार्द्द्वनः ।
स्वायम्भुवकरं प्राप्य लघिमानमुपाश्रयत् ॥
ततः कराभ्यामुद्धृत्य स्कन्धे धृत्वाण्डजं मनुः ।
निनाय सागरं तत्र तोये च निदधे ततः ॥
यथेच्छमत्र वर्द्धस्व न कोऽपि त्वां हनिष्यति ।
अचिरेणैव सम्पूर्णदेहत्वं समवाप्नुहि ॥
इत्युक्त्वा स महाभागः सर्व्वप्राणभृतांवरः ।
लघुत्वं चिन्तयंस्तस्य विस्मयं परमं गतः ॥
मत्स्योऽपि न चिरादेव पूर्णकायस्तदा महान् ।
सर्व्वतः पूरयामास देहभोगेन सागरं ॥
तं पूर्णकायमालोक्य व्यतीत्याम्भः समुच्छ्रितं ।
शल्कैः शिराभीरचितं मानसाचलसन्निभं ॥
रुन्धन्तं सागरं सर्व्वं देहाभोगाचलीकृतं ।
स्वायम्भुवो मनुर्धीमान् मेने मत्स्यं न तं तदा ॥
ततः पप्रच्छ तं साम्ना मत्स्यं स्वायम्भुवो मनुः ।
विचिन्त्य लघिमानञ्च पश्यन्मूर्त्तिं तदाद्भुतां” ॥
श्रीमनुरुवाच ।
“न त्वां मत्स्यमहं मन्ये कस्त्वं मे वद सत्तम ! ।
महत्त्वं लघिमानन्ते चिन्तयन् सुमहत्तम ॥
त्वं ब्रह्मा ह्यथवा विष्णुः शम्भुर्व्वा मीनरूपधृक् ।
न चेद्गुह्यं महाभाग तन्मे वद महामते” ॥
श्रीमत्स्य उवाच ।
“आराध्योऽहंत्वया नित्यं यो हरिः स सनातनः ।
तवेष्टकामसिद्ध्यर्थं प्रादुर्भूतः समाहितः ॥
यत्त्वमिच्छसि देवेश मत्तः शान्तेन मूर्त्तिना ।
तत्करिष्येऽद्य तां मूर्त्तिमिमां विद्धि मनो मम” ॥
श्रीमार्कण्डेय उवाच ।
“इति तस्य वचः श्रुत्वा विष्णोरमिततेजसः ।
ज्ञात्वा प्रत्यक्षतो विष्णुं मनुस्तुष्टाव केशवं” ॥
श्रीमनुरुवाच ।
“नमस्ते जगदब्यक्तपरावरपते हरे ।
पावकादित्यशीतांशुनेत्रत्रयधराव्यय ॥
जगत्कारण सर्व्वज्ञ जगद्धाम हरे पर ।
सुरौघ परमेशान नारायण सुरेश्वर” ॥
इत्यादिस्तोत्रं ।
श्रीमार्कण्डेय उवाच ।
“स्वायम्भुवेन मनुना संस्तुतो मत्स्यरूपधृक् ।
वासुदेवस्तदा प्राह मेघगम्भीरनिस्वनः” ॥
श्रीभगवानुवाच ।
“तुष्टोऽस्मि तपसा तेऽद्य भक्त्या चापि स्तुतो मुहुः ॥
सपर्य्यया तथानेन वरं वरय सुव्रत ।
इष्टार्थं संप्रदास्यामि तुभ्यं नात्र विचारणा ॥
वरयाभीप्सितान्कामान् लोकानां वा हितञ्च यत्”
मनुरुवाच ।
“यदि देयो वरो मेऽद्य लोकानां यो हितो भवेत् ।
तन्मे देहि वरं विष्णो तं वक्ष्याभि शृणुष्व मे ॥
शशाप कपिलः पूर्ब्बं मदर्थे भुवनत्रयं ।
हतप्रहतविध्वस्तं सकलं ते भविष्यति ॥
येनेयमुद्धृता पृथ्वी येनेयं परिपालिता ।
संहरिष्यति यस्त्वेनां तेऽधुना प्लावयन्त्विमां ॥
ततोऽहं दीनहृदयस्त्वामेव शरणं गतः ।
न यथेदं त्रिभुवनं जलप्लुतं भविष्यति ॥
हतप्रहतविध्वस्तं तथा त्वं देहि मे वरं” ।
श्रीभगवानुवाच ।
“न मत्तः कपिलो भिन्नस्तथा न कपिलादहं ।
यदुक्तं मुनिना तेन मयोक्तं विहितं मनो ॥
तस्माद्यदुदितं तेन तत् सत्यं नान्यथा भवेत् ।
करिष्ये तत्र साहाय्यं स्वायम्भुव निबोध तत् ॥
हतप्रहतविध्वस्ते तोयमग्ने जगत्त्रये ।
न चिरादेव तत्तोयं शोषयिष्यामि वै मनो ॥
यावज्जलप्लवस्तावत् यथा कार्य्यं त्वया मनो ।
तन्मे निगदितं तथ्यं शृणुष्वावहितोऽधुना ॥
सर्व्वयज्ञियकाष्ठौघैरेका नौका विधीयतां ।
तामहं द्रढयिष्यामि यथा नो भिद्यते जलैः ॥
दशयोजनविस्तीर्णां त्रिंशद्योजनमायतां ।
धारिणीं सर्व्ववीजानां भुवनत्रयवर्द्धिनीं ॥
सर्व्ववाज्ञिकवृक्षाणां भूरिवल्कलतन्तुभिः ।
नवयोजनदीर्घान्तु व्यामत्रयसुविस्तृतां ॥
कुरु स्वयं मनो तूर्णं वृहतीमीरिकां वटीं ।
जगद्धात्री जगन्माया लोकमाता जगन्मयी ॥
पृष्ठ १/१६३
:द्रढयिष्यति तां रज्जुं न त्रुव्यति यथा तथा ।
सर्व्वाणि वीजान्यादाय सवेदान् सप्त वै ऋषीन् ॥
तस्यां नावि निसन्नस्त्वं वर्त्तमाने जलप्लवे ।
दक्षेण सह संगम्य स्मरिष्यसि मनो मम ॥
स्मृतोऽहं तूर्णमायास्ये भवतो निकटं प्रति ।
श्यामलेनाथ शृङ्गेण त्वं मां ज्ञास्यसि वै तदा ॥
यावत् प्रहतविध्वस्तं हतं स्याद्भुवनत्रयं ।
तावत् पृष्ठेन तां नावं वोढाहं नात्र संशयः ॥
जलप्लवे तु संपूर्णे शृङ्गे मम च तां हरिं ।
त्वं तया वटिकया तुर्णं सदा नेष्यसि वै दृढं ॥
बद्धायां नावि मे शृङ्गे दैवमानेन वत्सरान् ।
सहस्रं प्रेरयिष्यामि तां नावं शोषयन् जलं ॥
ततः शुष्केषु तोयेषु प्रोन्मग्ने शिखरे गिरेः ।
हिमाचलस्य बद्ध्वा तां तस्मिन्नावमहं मनो ॥
त्वां वै गोपयिता नित्यं तावत्तु शोषये जलं ।
चिन्तितोऽहं त्वया यास्ये यदाहं निकटं तव ॥
शृङ्गेण श्यामलेनैव त्वं मां ज्ञास्यसि पुष्करे ।
पुनः सृष्टिं ततः कृत्वा मत्प्रसादान्महामते ॥
त्रैलोक्यदुर्ल्लभामृद्धिमवाप्ससि सनातनीं ।
अहमाराधितो येन जप्येन भवता मनो ॥
सर्व्वसिद्धिर्भवेत्तस्य यस्तोषयति तेन मां” ।
श्रीमार्कण्डेय उवाच ।
“इति दत्त्वा वरं तस्मै मत्स्यस्तेन नमस्कृतः ।
अन्तर्द्दधे जगन्नाथो लोकानुग्रहकारकः ॥
स्वायम्भुवोऽपि भगवानन्तर्द्धानं गते हरौ ।
यथोक्तं हरिणा पूर्ब्बं नावं रज्जुं तथाकरोत् ॥
सर्व्वयाज्ञियवृक्षौघान् छित्त्वा स्वायम्भुवस्तदा ।
उद्घेन कारयामास नावं दृढतरां ततः ॥
तेषां वल्कसमुद्भूतसूत्रसंघैर्वटीरिकां ।
पूर्ब्बोक्तेन प्रमाणेन कारयामास वै मनुः ॥
ततः कालेन महता वृत्तं युद्धं महाद्भुतं ।
विष्णोर्यज्ञवराहस्य सरभस्य हरस्य च ॥
ततो जलप्लवे भूते विध्वस्ते भुवनत्रये ।
तया रज्ज्वा तरिं बद्ध्वा वीजान्यादाय सर्व्वशः ॥
वेदानृषीन् तथा सप्त दक्षं चादाय वै मनुः ।
तस्यां नावि समाधाय तोयमग्ने चराचरे ॥
स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार वै ततः ।
ततो जलानामुपरि सशृङ्ग इव पर्ब्बतः ॥
उद्दीप्तश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् ।
आगतस्तत्र न चिराद्यत्रास्ते स मनुर्हरिः ॥
तरिमारुह्य विपुले तोयराशौ भयङ्करे ।
यावच्चलाचलं तोयं तावत् पृष्ठे तरिं न्यधात् ॥
जले प्रकृतिमापन्ने शृङ्गे बद्ध्वा तरिं तदा ।
तां नावं चोदयामास सहस्रं दैववत्सरान् ॥
स्वयं नावमवष्टभ्य दधार परमेश्वरः ।
योगनिद्रा जगद्धात्री समासीदद्वटीरिकां ॥
ततः शनैः शनैस्तोये शोषं गच्छति वै चिरात् ।
पश्चिमं हिमवत् शृङ्गमुन्मग्रं तोयमध्यतः ॥
द्विसाहस्रैर्योजनानामुच्छ्रितस्य हिमप्रभोः ।
पञ्चाशत्तु सहस्राणि शृङ्गं तत्तस्य चोच्छ्रितं ॥
तस्मिन् शृङ्गे ततो नावं बद्ध्वा मत्स्यात्मधृक् हरिः ।
जगाम शोषणायाशु जलानां जगतां पतिः ॥
एवं हि मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।
कपिलस्य तु शापेन कृतोऽथाकालिको लयः ॥
आकालिकोऽयं प्रलयो यतो भगवता कृतः ।
इति वः कथितं सर्व्वं यथावत् द्विजसत्तमाः” ॥
इति कालिकापुराणे ३२ अध्यायः ॥

आकालिकी, स्त्री, (अकाल + ठञ् + ङीप् ।) विद्युत् ।

इति हेमचन्द्रः ॥

आकाशः, पुं, क्ली, (आ समन्तात् काशन्ते दीप्यन्ते

सूर्य्यादयो यत्र । आ + काश् + घञ् ।) पञ्च-
भूतान्तर्गतभूतविशेषः । स तु शून्यः । तत्पर्य्यायः ।
द्योः २ द्यौः ३ अभ्रं ४ अब्भं ५ व्योम ६ पुष्करं ७
अम्बरं ८ नभः ९ अन्तरीक्षं १० अन्तरिक्षं ११
गगनं १२ अनन्तं १३ सुरवर्त्म १४ खं १५ वियत्
१६ विष्णुपदं १७ विहायः १८ । इत्यमरः ॥
नाकः १९ अनङ्गः २० नभसं २१ मेघवेश्म २२
महाविलं २३ । इति जटाधरः ॥ मरुद्वर्त्म २४
मेघवर्त्म २५ त्रिपिष्टपं २६ । इति शब्दरत्ना-
वली ॥ न्यायमते अस्य सामन्यगुणाः सङ्ख्यादि-
पञ्च । विशेषगुणः शब्दः । स तु नित्यः अश-
रीरी च । अस्येन्द्रियं कर्णः । सत्वेकः किन्तु
उपाधिभेदेन नाना भवति ।
(“शब्दः श्रोत्रेन्द्रियञ्चापि छिद्राणि च विविक्तता ।
वियतः कथिता एते गुणागुणविचारिभिः” ॥
तथा च भाषापरिछेदे ।
“आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ।
इन्द्रियं तु भवेत् श्रोत्रमेकः सन्नप्युपाधितः” ॥)
वेदान्तमते स जन्यः ॥

आकाशगङ्गा, स्त्री, (आकाशपथवाहिनी गङ्गा ।)

स्वर्गगङ्गा । यथा, शिवरात्रिव्रतकथायां, --
“आकाशगङ्गासलिलतरङ्गगणनादिते ।
त्रैगुण्यललितैश्चारुमरुद्भिरुपवीजिते” ॥
(“नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे” ।
इति रघौ १ । ७८ ।
“उभौ यदि व्योम्नि पृथग् प्रवाहा-
वाकाशगङ्गापयसः पतेताम्” । इति माघः ।)

आकाशजननी [न्] पुं, (आकाशमार्गस्य जननी ।)

प्रगण्डीमध्यस्थितजनानां वाह्यार्थदर्शनार्थानिक्षुद्र-
च्छिद्राणि । यद्द्वारा आग्नेयास्त्रगुलिकाः प्रक्षि-
प्यन्ते । इति राजधर्म्मः ॥ (आकाशजननी स्त्री
आकाशपथस्य जननीव पोषिका । इति केचित् ।)

आकाशदीपः, पुं, (आकाशे दीयमानो दीपः ।)

कार्त्तिकमासे भगवदुद्देशेन नभसि दत्तप्रदीपः ।
यथा । कार्त्तिके आकाशदीप उक्तो निर्णयामृते
पुष्करपुराणे ।
“तुलायां तिलतैलेन सायंकाले समागते ।
आकाशदीपं यो दद्यात् मासमेकं हरिं प्रति ॥
महतीं श्रियमाप्नोति रूपसौभाग्यसम्पदम्” । इति
तद्विधिश्च हेमाद्रौ आदिपुराणे ।
“दिवाकरेऽस्ताचलमौलिभूते
गृहाददूरे पुरुषप्रमाणं ।
यूपाकृतिं यज्ञियवृक्षदारु-
मारोप्य भूमावथ तस्य मूर्द्ध्नि ॥
यवाङ्गुलच्छिद्रयुतास्तु मध्ये
द्विहस्तदीर्घा अथ पट्टिकास्तु ।
कृत्वा चतस्रोऽष्टदलाकृतीस्तु
यामिर्भवेदष्टदिशानुसारी ॥
तत्कर्णिकायान्तु महाप्रकाशो
दीपः प्रदेयो दलगास्तथाष्टौ ।
निवेद्य धर्म्माय हराय भूम्यै
दामोदरायाप्यथ धर्म्मराज्ञे ॥
प्रजापतिभ्यस्त्वथ सत्पृतृभ्यः
प्रेतेभ्य एवाथ तमःस्थितेभ्यः” । इति ।
अपरार्के त्वन्यो मन्त्रो यथा, --
“दामोदराय नभसि तुलायां लोलया सह ।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे” ॥
इति निर्णयसिन्धौ २ परिच्छेदे कार्त्तिकमाहात्म्यं ॥

आकाशप्रदीपः, पुं, (आकाशे दीयमानः प्रदीपः ।)

तुलायां दीयमानलक्ष्मीदामोदरसम्प्रदानाकाश-
दीपः । तथाच ब्रह्माण्डपुराणे ।
“तुलायां तिलतैलेन सायं सन्ध्यासमागमे ।
आकाशदीपं यो दद्यात् मासमेकं निरन्तरं ।
सश्रीकाय श्रोपतये स श्रीमान् भुवि जायते ॥
ॐदामोदराय नभसि तुलायां लोलया सह ।
प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे ॥
इति मन्त्रेण यो दद्यात् प्रदीपं सर्पिरादिना ।
आकाशे मण्डपे वापि स चाक्षयफलं लभेत् ।
विष्णुवेश्मनि यो दद्यात् कार्त्तिके मासि दीपकं ॥
अग्निष्टोमसहस्रस्य फलमाप्नोति मानवः” ॥

आकाशमांसी, स्त्री, (आकाशजाता मांसी ।) सूक्ष्म-

जटामांसी । केदारे उत्पत्तिरस्याः । तत्पर्य्यायः ।
निरालम्भा २ खसम्भवा ३ शेवाली ४ सूक्ष्मपत्री
५ गौरी ६ पर्ब्बतवासिनी ७ अभ्रमांसी ८ ।
अस्या गुणाः । हिमत्वं । शोथव्रणनाडीरोग-
नाशित्वं । लूतागर्द्दभकज्वालाहारित्वं । वर्णकारि-
त्वञ्च । इति राजनिर्घण्टः ॥

आकाशमूली, स्त्री, (आकाशे भूमिरहितस्थाने

मूलमस्याः । ङीप् ।) कुम्भिका । इति हारा-
वली ॥ पाना इति ख्याता । (कुम्भिकाशब्देऽस्याः
गुणा द्रष्टव्याः ।)

आकाशरक्षी [न्] पुं, (आकाशे उच्चस्थाने स्थितः

सन् रक्षतियः । आकाश + रक्ष + णिन् ।) प्रग-
ण्डीस्थितप्रणिधिः । दुर्गवहिःप्राचीरोपरिस्थित-
चरः । इति राजधर्म्मः ॥

आकाशवल्ली, स्त्री, (आकाशस्य वल्लीव । अत्थुच्च-

शिखत्वात् ।) लताविशेषः । आकाशवेल अमर-
वेल इति ख्याता । तत्पर्य्यायः । खवल्ली २ दु-
स्पर्शा ३ व्योमवल्लिका ४ । अस्या गुणाः । मधु-
रत्वं । कटुत्वं । पित्तनाशित्वं । शुक्रवर्द्धकत्वं ।
रसायनत्वं । बलकारित्वं । दिव्यौषधिपरत्वं । इति
राजनिर्घण्टः ॥
“आकाशवल्ली तु बुधैः कथितामरवल्लरी ।
खवल्ली ग्राहिणी तिक्ता पिच्छिलाक्ष्यामयापहा ॥
तुवराग्निकरी हृद्या पित्तश्लेष्मामनाशिनी” ।
इति भावप्रकाशः ॥
पृष्ठ १/१६४

आकाशवाणी, स्त्री, (आकाशादुद्भवा वाणी ।) अश-

रीरिणी वाक् । दैववाणी । इति पुराणं ॥

आकाशसलिलं, क्ली, (आकाशात्पतितं सलिलं जलं ।)

दिव्योदकं । इति राजनिर्घण्टः ॥

आकिञ्चनं, क्ली, (अकिञ्चनस्य दरिद्रस्य भावः ।

अकिञ्चन + अण् ।) अकिञ्चनता ॥

आकीर्णं, त्रि, (आङ् + कॄ श विक्षेपे + क्तः ।) व्याप्तं ।

तत्पर्य्यायः । संकीर्णं २ सङ्कुलं ३ । इत्यमरः ।
सभाकीर्णं ४ । इति शब्दरत्नावली ॥ (यथा,
रघुवंशे । प्रथमसर्गे ५० श्लोकः ।
“आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः” ॥)
जलादिभिर्निरवकाशं । इति भरतः ॥

आकुञ्चनं, त्रि, (आङ् + कुचि + ल्युट् ।) न्यायमते

पञ्चप्रकारकर्म्मान्तर्गतकर्म्मविशेषः । सङ्कोचः ॥
(प्रसारितस्य संक्षिप्तत्वसम्पादनं । नमन । वक्रता-
सम्पादनं । यथा । भाषापरिछेदे ।
“उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ।
प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च” ॥)

आकुलं, त्रि, (आङ् + कुल + कः ।) व्याकुलं । तत्प-

र्य्यायः । व्यस्तं २ अप्रगुणं ३ । इत्यमरः ॥ (यथा
शाकुन्तले । “विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षण-
माकुला” ॥)

आकूतं, क्ली, (आङ् + कूङ् + क्तः) अभिप्रायः)

आशयः । इति हेमचन्द्रः ॥ (तात्पर्य्यं । इच्छा । यथा
साहित्यदर्पणे । २ य परिच्छेदे ।
“हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितं” । इति
“हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः” ॥
इति शाकुन्तले ।)

आकृतिः, स्त्री, (आक्रियते इयं गौरयं अश्वः इति

व्यज्यतेऽनया । आङ् + कृ + क्तिन् ।) रूपं ।
शरीरं । जातिः । इति मेदिनी ॥ (यथा शाकु
न्तले प्रथमाङ्के ।
“किमिव हि मधुराणां मण्डनं नाकृतीनां” ॥
न्यागमते सामान्यं, जातिः । “आकृतिर्जाति-
लिङ्गाख्या” । इति न्यायसूत्रम् । जातिलिङ्ग-
मित्याख्या यस्याः जातेर्गोत्वादेर्हि सास्नादिसंस्थान-
विशेषो लिङ्गम् । तस्य च परम्परया द्रव्यवृत्ति-
त्वम् । जातिद्रव्यासमवायिकारणतावच्छेदिकालिङ्गं
धर्म्मो यस्याः सा इत्यर्थः इति कश्चित् ॥)

आकृतिच्छत्रा, स्त्री, (आकृत्या छत्रमिव या ।) घोषा-

तकीवृक्षः । श्वेतघोषा इति भाषा । इति रत्न-
माला ॥ (घोषकशब्देऽस्या विशेषो ज्ञेयः ।)

आकृष्टं, त्रि, (आङ् + कृष् + कर्म्मणि + क्तः ।)

कृताकर्षणं । आकर्षितं ॥ (प्रलोभितः, मुग्धः ।
यथा हितोपदेशे । “ततो लोभाकृष्टेन केनचित्
पान्थेनालोचितं” ॥ इति)

आकोकेरः, पुं, मकरराशिः । इति ज्योतिस्तत्त्वं ॥

आक्रन्दः, पुं, (आङ् + क्रन्द + घञ् + अच् वा ।)

रोदनं । यथा गामायणे ।
(“तासामाक्रन्दशब्देन सहसोद्भ्रान्तलोचनः” ।)
आह्वानं । मित्रं । दारुणयुद्धं । भ्राता । इति
मेदिनी ॥ ध्वनिः (यथारामायणे ।
“तत्रैव निशि नागानामाक्रन्दः श्रूयते महान्” ॥)
नाथः । पार्ष्णिग्राहात् परो राजा । इति धरणिः ।
(यथा मानवे ७ । २०७ ।
“पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले” ।)

आक्रमः, पुं, (आङ् + क्रम् + अच् ।) आक्रमणं ।

तत्पर्य्यायः । अधिक्रमः २ क्रान्तिः ३ । इति
हेमचन्द्रः ॥ (अधिरोहः । व्याप्तिः । विक्षेपः ।
अधिगमः । प्राप्तिः । अधिकारः ॥)

आक्रमणं, क्ली, (आङ् + क्रम् + ल्युट् ।) आक्रमकरणं ।

(“यः पृष्ठवर्त्ती नृपतिः देशाक्रमणाद्याचरति” ।
इति कुल्लूकभट्टः ।) व्यापनं ॥ (अतिवर्त्तनं । यथा,
रामायणे ।
“कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति” ।
आरोहणम् । यथा रामायणे ।
“न देवलोकाक्रमणं नामरत्वमहं वृणे” ।)

आक्रान्तः, त्रि, (आङ् + क्रम + क्त) कृताक्रमणः ।

अधिक्रान्तः । आक्रमविशिष्टः । इति हलायुधः ॥
(अभिभूतः । पराभूतः । वशीभूतः । यथा मनुः --
“न पाषण्डिगणाक्रान्ते नोपसृष्टेऽन्त्यजैर्नृभिः” ।)

आक्रीडः, पुं, (आङ् + क्रीड + घञ् ।) राजोपवनं ।

राज्ञः साधारणं वनं । इत्यमरः ॥ (केलीकाननं,
लीलास्थानं । यथा, रामायणे ।
“आक्रीडालङ्कृतं स्फीतं सुविभक्तं सुसंस्कृतं” ।
तथा च कुमारे । २ । ६७ ।
“अक्रीडपर्ब्बतास्तेन कल्पिताः स्वेषु वेश्मसु” ।
कुरुत्थामनृपपुत्त्रः स्वनामख्यातः पौरवः” ॥
यथा हरिवंशे ।
“दुष्मन्तस्य तु दायादः कुरुत्थामः प्रजेश्वरः ।
कुरुत्थामादथाक्रीडश्चत्वारस्तस्य चात्मजाः” ॥)

आक्रोशः, पुं, (आङ् + क्रुश + घञ् ।) क्रोधाकर्त्तव्य-

निश्चयः । तत्पर्य्यायः । आक्षेपः २ अभिषङ्गः ३
शापः ४ । इति हेमचन्द्रः ॥ (यथा रामायणे ।
“आक्रोशं मममातुश्च प्रमार्ज्ज्य पुरुषर्षभ” इति ।)

आक्रोशनं, क्ली, (आङ् + क्रुश् + ल्युट् ।) अभिशापः ।

तत्पर्य्यायः । अभिषङ्गः २ अभीषङ्गः ३ । इत्यमरः ॥

आक्षपाटिकः, पुं, (अक्षपटे नियुक्तः । अक्षपट +

ठक् ।) अक्षदर्शकः । धर्म्माध्यक्षः । इति जटाधरः ॥

आक्षपादः, पुं, (अक्षपाद + अण् ।) नैयायिकः ।

इति भूरिप्रयोगः ॥

आक्षारणा, स्त्री, क्ली, (आङ् + क्षर + णिच् +

युच् ।) मैथुनं प्रति आक्रोशः । इत्यमरः ॥ परस्त्री-
निमित्तं पुसः परपुरुषनिमित्तं स्त्रिया वा दूषणं ।
यथा “कृतागम्यागमनस्त्वं स्थानान्तरं गच्छ” ।
इति भरतः ॥ छेनालि अपवाद इति भाषा ॥

आक्षारितं, त्रि, (आङ् + क्षर + णिच् + क्त ।) पर-

स्त्रियां परपुरुषे वा मैथुनं प्रति मिथ्यादूषितं ।
अपवादग्रस्तं । इत्यमरः ॥

आक्षिकः, पुं, आच्छुकवृक्षः । इति रत्नमाला ॥

आचेर गाछ इति भाषा । (द्यूतनिमित्तः । पाश-
क्रीडाविषयकः । अत्र अक्षैर्दीव्यति जितो वा
इति अक्ष + ठञ् । यथा मानवे । ८ । १५९ ॥
“प्रातिभाव्यं वृथादानमाक्षिकं सौरिकञ्चयत् ।
दण्डशुक्लावशेवञ्च न पुत्त्रो दातुमर्हति” ॥
(“पित्तश्लेष्मघ्नमम्लञ्च वातिकञ्चाक्षिकीफलं ।
मधुराम्लविपाकञ्च वातपित्तहरञ्च तत्” ॥
इति चरकः ॥
“आक्षिकः पाण्डुरोगघ्नो व्रण्यः संग्राहको लघुः” ।
इति सुश्रुतः ॥)

आक्षीव, पुं, (आङ् + क्षीव + अच् ।) अक्षीवः ।

शोभाञ्जनवृक्षः । इति रायमुकुटः ॥

आक्षेपः, पुं, (आङ् + क्षिप् + घञ् ।) अपवादः ।

इत्यमरः ॥ भर्त्सनं । (यथा -- नीतिशतके । ४२ ॥
‘क्षान्त्येवाक्षेपरुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः
सन्तः साश्चर्य्यचर्य्याजगति बहुमता कस्यनाभ्यर्थनीयाः’
आकर्षणं ।
(“नवपरिणयलज्जाभूषणां तत्र गौरीं ।
वदनमपहरन्तीं तत्कृताक्षेपमीशः” ॥
इति कुमारे । ७ । ९५ । विन्यासः । स्थापनं ।
“कर्णार्पितो लोध्रकषायरूक्षे
गोरोचनाक्षेपनितान्तगौरे ।
तस्याः कपोले परभागलाभात्” ।
इति कुमारे । ७ । १७ अपहरणं । यथा, --
“यत्रांशुकाक्षेपविलज्जितानां” । १ । १४ कुमारे ।
उपस्थितिः । यथा साहित्यदर्पणम् ।
“मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये” ।
इति ।) काव्यालङ्कारः । इति मेदिनी ॥ (अल-
ङ्कारप्रकरणे विशेषो द्रष्टव्यः ।)

आक्षेपकः, पुं, (आङ् + क्षिप् + ण्वुल् ।) निन्दाकरः ।

व्याधः । इति मेदिनी ॥ वातरोगविशेषः । तस्य
कारणलक्षणे । निदाने यथा --
“यदा तु धमनीः सर्व्वाः कुपितोऽभ्येति मारुतः ।
तदा क्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः ॥
मुहुर्मुहुस्तदाक्षपादाक्षेपक इति स्मृतः” ।

आक्षोटः, पुं, (अक्षोट एव स्वार्थे अण् ।) अक्षोट-

वृक्षः । पर्ब्बतजपीलुवृक्षः । इति शब्दरत्नावली ॥
(“वतामाभिषुकाक्षोटमकूलकनिकोचकाः ।
गुरूष्णस्निग्धमधुरा सोरुमाणा बलप्रदाः ।
वातघ्ना वृंहणा वृष्याः कफपित्ताभिवर्द्धनाः” ॥
इति चरकः ॥)

आक्षोडः, पुं, आक्षोटवृक्षः । इत्यमरटीकायां

भरतः ॥

आक्षोदनं, क्ली, (आङ् + क्षुद् + ल्युट् ।) मृगया ।

इत्यमरः ॥

आखण्डलः, पुं, (आङ् + खण्ड + कलच् ।) इन्द्रः ।

इत्यमरः ॥ (यथा कुमारसम्भवे । तृतीयसर्गे ३ । ११ ।
“आखण्डलः काममिदं बभाषे” ।)

आखनिकः, पुं, (आङ् + खन + इकन् ।) चौरः ।

उन्दुरुः । शूकरः इति मेदिनी ॥ (खनित्रादिकं
खननसाधनद्रव्यं । खननकर्त्ता ।)

आखातं, पुं, क्ली, (आङ् + खन् + क्त ।) अखातं ।

देवखातं । इत्यमरटीकायां रायमुकुटः ॥

आखुः, पुं, (आङ् + खन + कुः ।) मूषिकः । इत्यमरः ॥

(यथा नीतिशतके । “कृत्वाखुविर्वरं स्वयं निप-
तितो नक्तं मुखे भोगिनः” ।) शूकरः । चौरः ।
पृष्ठ १/१६५
:इति हेमचन्द्रः ॥ देवताडवृक्षः । इति रत्नमाला ॥
(आखुमांसगुणा यथा, --
(“आखोर्मांसं सपदि बहुधा खण्डखण्डीकृतं यत्तैले
पाच्यं द्रवति निरतं यावदेतन्न सम्यक् ।
तत्तैलाक्तं वसनमनिशं योनिभागे दधाना,
हन्ति ब्रीडाकरभगफलं नात्र सन्देहबुद्धिः” ॥
इति वैद्यकचक्रपाणिसंग्रहः ॥)

आखुकर्णी, स्त्री (आखोः कर्णमिव पत्रमस्याः । आ-

खुकर्ण + ङीप्) लताविशेषः । मूषाकाणी इति
भाषा । तत्पर्य्यायः । कृशिका २ द्रवन्ती ३ चित्रा ४
सुवर्णो ५ उन्दुरुकर्णी ६ न्यग्रोधी ७ मूषक-
कर्णी ८ वृश्चिकर्णी ९ बहुकर्णिका १० माता
११ भूमिचरी १२ चण्डा १३ शम्बरी १४ बहु-
पादिका १५ प्रत्यक्श्रेणी १६ वृषा १७ पुत्त्रश्रेणी
१८ अद्रिभूः १९ । अस्या गुणाः । कटुत्वं उष्णत्वं ।
कफपित्तहरत्वं । सारकत्वं । आनाहज्वरशूल-
नाशित्वं । परमपाचकत्वं । इति राजनिर्घण्टः ॥
“आकुपर्णी आकुकर्णी कर्णिका भूदरीभवा ।
आखुकर्णी कटुस्तिक्ता कषाया शीतला लघुः ॥
विपाके कटुका मूत्रकफामयकृमिप्रणुत्” ।
इति भावप्रकाशः ॥

आखुगः, पुं, (आखुना गच्छति यः । गणेशस्य मूषिक-

वाहनत्वात् तथात्वं ।) गणेशः । इति हेमचन्द्रः ॥

आखुपर्णिका, स्त्री, (आखोः कर्णमिव पर्णमस्याः ।)

लताविशेषः । इति रत्नमाला ॥ इन्दुरकाणी इति
भाषा । (आखुपर्णीशब्दे आखुककर्णीशब्दे चास्या
गुणादयो ज्ञातव्याः ।)

आखुपर्णी, स्त्री, (आखोः कर्णमिव पर्णमस्याः ।)

आखुपर्णिका । इति रत्नमाला ॥
“मुस्ताखुपर्णीफलदारुशिग्रु-
क्वाथः सकृष्णा क्रिमिशक्रकल्कः ।
मार्गद्वयेनापि चिरप्रवृत्तान्
क्रिमीन्निहन्यात् क्रिमिजांश्च रोगान्” ॥
इति वैद्यकचक्रपाणिसंग्रहः ।
“आखुपर्णोकिशलयैः सुपिष्टैः पिष्टमिश्रितैः ।
पक्त्वा पूपलिकां खादेद्धान्याम्लञ्च पिबेदनु” ॥
इति वाभटः ॥ गुणादयोऽन्येंऽस्या आखुकर्णीशब्दे
ज्ञातव्याः ॥)

आखुपाषाणः, पुं, पाषाणभेदः । आखुपाषाणनामो-

ऽयं लोहसंकरकारकः । इति राजनिर्घण्टः ॥

आखुभुक् [ज्] पुं, (आखून् भुङ्क्ते यः । आखु +

भुज् + क्विप्) विडालः । इत्यमरः ॥

आखुरथः, पुं, (आखुः रथो वाहनं यस्य ।) गणेशः ।

इति हलायुधः ॥

आखुविषहा, स्त्री, (आखोर्विषं हन्ति या ।) देव-

ताडवृक्षः । इति जटाधरः ॥ देवदालीलता । इति
राजनिर्घण्टः ॥

आखेटः, पुं, (आङ् + खिट् + घञ्) मृगया ।

इत्यमरः ॥ शिकार इति भाषा । (“सुभगाखेट-
भूमित्वं” । कथासरित्सागरे १५ । १२० ।

आखेटकः, पुं, (आङ् + खिट् + ण्वुल् ।) मृगया ।

इति शब्दरत्नावली ॥ यथा पञ्चतन्त्रे ।
“आखेटकस्य धर्म्मेण विभवाः स्युर्वशे नृणाम् ।
नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव” ॥)

आखेटशीर्षकं, क्ली, कुट्टिमभेदः । इति शब्दरत्नावली

शुडङ्ग इति भाषा । (यदुक्तं ।
“कपिशीर्षं द्रुमशीर्षं तथाचाखेटशीर्षकं ।
इति कुट्टिमभेदाः स्युः शाब्दिकैः समुदाहृताः” ।)

आखेटिकः, पुं, (आखेटे मृगयायां कुशलः । आ-

खेट + ठक् ।) मृगयाकुशलकुक्कुरः । तत्पर्य्यायः ।
आखेटिकः २ विश्वकद्रुः ३ । इति हारावली ॥
(मृगयाकर्त्ता । त्रासजनकः । भयङ्करः । मृगयुः ।
व्याधः ।)

आखोटः, पुं, (आख + उट् ।) फलवृक्षविशेषः ।

आखरोट् इति भाषा । तत्पर्य्यायः । पार्ब्बतीयः २
फलस्रेहः ३ गुडाशयः ४ कीरेष्टः ५ कन्दरालः ६
मधुमज्जा ७ वृहच्छदः । अस्य गुणाः । मधुरत्वं ।
बलकारित्वं । स्निग्धत्वं । उष्णत्वं । वातपित्तना-
शित्वं । रक्तदोषप्रशमनत्वं । शीतलत्वं । कफ-
कोपनत्वं । इति राजनिर्घण्टः ॥ (आक्षोडशब्दे
आक्षोटशब्दे चास्य गुणादिकं ज्ञेयं ॥)

आख्या, स्त्री, (आङ् + ख्या + अङ् + टाप्) नाम ।

संज्ञा । इत्यमरः ॥ यथा कुमारसम्भवे १ । २६ ।
“उमेति मात्रा तपसो निषिद्धा
पश्चादुमाख्यां सुमुखी जगाम” ।

आख्यातं, त्रि, (आङ् + ख्या + क्तः) कथितं । उक्तं ।

इत्यमरः ॥ (प्रथितः, प्रसिद्धः, प्रकाशितः ।)
व्याकरणोक्तधातूत्तरविहिततिङ्प्रत्ययादि ॥

आख्यानं, क्ली, (आङ् + ख्या + ल्युट्) कथनं । यथा

“कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्त्र यथागमं ।
देवी मङ्गलचण्डी या तदाख्यानं निशामय” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४१ अध्यायः ॥

आख्यायिका, स्त्री, (आङ् + ख्या + ण्वुल् । टाप् ।)

उपलब्धार्थकथा । इत्यमरः ॥ इतिहास उपन्यास
इति ख्याता ॥ (आख्यायिकालक्षणं । यथा, --
“प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां विदुः ।
परस्पराश्रया या स्यात् सा मताख्यायिका क्वचित्”
इति च साहित्यदर्पणे ।
“आख्यायिका कथावत्स्यात् कवेर्वंशादिकीर्त्तनं”

आगः, [स्] क्ली, पापं । अपराधः । इत्यमरः ॥

(यथा शिशुपालबधे ३ य सर्गे १०८ श्लोकः ।
“सहिष्ये शतमागांसि सूनोस्ते इति यत्त्वया” ।)

आगतं, त्रि, (आङ् + गम् + क्तः ।) आयातं । उप-

स्थितं ॥ (लब्धः । प्राप्तः यथा, हितेपदेशे ।
“आगतन्तु भयं वीक्ष्य प्रतिकुर्य्यात् यथोचितम्” ।)

आगन्तुः, त्रि, (आङ् + गम् + तुन् ।) अतिथिः ।

इत्यमरः ॥ आगमनशीलः । अनियतः ॥
(“अकस्मादागन्तुना सह विश्वासो न युक्वः” ।
इति हितोपदेशः । आकस्मिकरोगादि । यथा,
“आगन्त्वपि शरीरशल्यव्यतिरेकेण यावन्तोभावा
दुःखमुत्पादयन्ति” । इति शुश्रुतः ।
निजागन्तुभेदेन रोगस्य कारणद्वैविध्यादागन्तु-
शब्दोऽयमामयस्यान्यतरकारणवाची ।
तद्यथा, --
“द्विविधा पुनः प्रकृतिरेषामागन्तुनिजविभा-
गात्” । “मुखानि तु खल्वागन्तोर्नखदशनपतना-
भिचाराभिशापाभिषङ्गबधबन्ध-पीडन-रज्जु-दहन-
मन्त्राशनि-भूतोपसर्गादीनि” ।
“आगन्तुर्हि व्यथापूर्ब्बमुत्पन्नो जघन्यं
वातपित्तश्लेष्मणां वैषम्यमापादयति” ।
उदाहरणं । “तत्रागन्तवश्छेदनभेदनक्षणनभञ्जन-
पिच्छनोत्पेषणवेष्टनप्रहार-बध-बन्धन-व्यधन-पीड-
नादिभिर्व्वा । भल्लातक-पुष्पफलरसात्मगुप्ताशूक-
क्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदन-
परिसर्पणावमूत्रणैर्व्वा विषिणाम् ॥ सविषाविष-
प्राणिदन्तविषाणनखनिपातनैर्व्वा ।
सागरविषवात-हिम-दहन-संस्पर्शनैर्व्वा शोथाः
समुपजायन्ते” ॥ इति चरकेणोक्त ॥

आगन्तुकं, त्रि, (आगन्तु + स्वार्थे कन्) आहार्य्यं ।

अनित्यस्थायि । इति त्रिकाण्डशेषः ॥
(अज्ञातकुलशीलादिर्नवागतः पुरुषः । यथाः
“त्वया च मूलभृत्यानपास्यायमागन्तुकः पुर-
स्कृतः” । इति हितोपदेशे ॥ अतिथिः । अज्ञात-
स्वामिकः पश्वादिः । यथा याज्ञवल्क्ये ॥
“महोक्षोत् सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां तु ते मोच्या दैवराजपरिप्लुताः” ॥
आकस्मिकक्षतादिरोगः । यथा, शुश्रुते ।
“शलश्वल आशुगमने धातुस्तस्य शल्यमितिरूपं
तत् द्विविधं, शारीरमागन्तुकं च” । इति ॥)

आगमं, क्ली, (आङ् + गम + अच् ।) तन्त्रशास्त्रं ।

अस्यार्थः । यथा तन्त्रशास्त्रं ॥
“आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजानने ।
मतञ्च वासुदेवस्य तस्मादागममुच्यते” ॥ इति
(एतल्लक्षणं यथा, --
“सृष्टिश्च प्रलयश्चैव देवतानां तथार्च्चनं ।
साधनञ्चैव सर्व्वेषां पुरश्चरणमेव च ॥
षट्कर्म्मसाधनं चैव ध्यानयोगश्चतुर्विधः ।
सप्तमिर्लक्षणैर्युक्तं त्वागमं तद्विदुर्बुधाः” ॥ इति
यथा रघुवंशे । १० । २६ ॥
“बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः”)

आगमः, पुं, (आ + गम् + अच् ।) शास्त्रमात्रं ।)

(“आगमादिव तमोपहादितः
सम्भवन्ति मतयो भवच्छिदः” ।
इति किराते । ५ । २२ ।) आगमनं । इति मे-
दिनीकरहेमचन्द्रौ ॥ (अर्थादीनामागमः । यथा,
नीतिशतके ७३ श्लोके । “नित्यव्यया प्रचुरनित्य-
धनागमा च” । इति । प्राप्तिः । उपार्जनम् ।
“नाधर्म्मेणागमः कश्चिन्मनुष्यान् प्रति वर्त्तते” ।
इति मनुः ॥)
साक्षिपत्रादिः । इति व्यवहारमातृका ॥ प्रकृति-
प्रत्ययानुपघाति कार्य्यं । इति व्याकरणं ॥ (शास्त्र-
ज्ञानं । श्रुतवत्ता । यथा,
“आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः” ।
इति रघुवश १ म सर्गे १५ । यथा च रघौ १४ । ८० ।
“तामर्पयामास च शोकदीनां
तदागमप्रीतिषु तापसीषु” ॥)
पृष्ठ १/१६६

आगमनं, क्ली, आङ्पूर्ब्बगमधातोरनट्प्रत्ययान्तस्य

रूपमिदं । आसा इति भाषा ॥ (यथा रघुवंशे ।
“रामस्त्वासन्नदे शत्वात् भरतागमनं पुनः” ।
स्त्रीसङ्गमः । यथा, --
“अन्त्यागमनपापस्य पापः पृच्छन् स निष्कतिं” ।
इति राजतरङ्गिणी ।)

आगमावर्त्ता, स्त्री, वृश्चिकालीवृक्षः । इति राज-

निर्घण्टः ॥

आगमितं, त्रि, (आ + गम + णिच् + क्त) अधीतं ।

पठितं । इति जटाधरः ॥ (यापितं प्रापितं ।)

आगाधं, क्ली, (अगाध एव । स्वार्थे अण् ।) अगाधं ।

अतिगभीरं इत्यमरटीकायां मथुरानाथः ॥

आगान्तुः, त्रि, आगन्तुकः । अतिथिः । इत्यमर-

टीकायां नीलकण्ठः ॥ (अभ्यागतः । आगन्तुः ।)

आगामी, [न्] त्रि, (आङ् + गम् + णिन् । भवि-

ष्यत्कालः । इति राजनिर्घण्टः ॥ (यथा, हितोप-
देशे । “भो यजमान ! आगामिन्याममावास्यायां
यक्ष्यामि यज्ञम्” ।)

आगारं, क्ली, (आग + ऋ + अण) गृहं । इत्यमर-

टीका ॥ (यथा मनुः ।
“आकीर्णं भिक्षुकैर्वान्यैरागारमुपसंव्रजेत् ।)

आगुः, [र्] स्त्री, आगूः । प्रतिज्ञा । इत्यमर-

टीकायां रमानाथः ॥

आगूः, स्त्री, (आ-गमेः क्विपि गमः क्वावित्यन्तलोपे

ऊचगमादीनामित्यूकारादेशः ।) प्रतिज्ञा । इत्य-
मरः ॥

आग्नीध्रं, क्ली, (अग्निमिन्धे, इन्धीदिप्तौ, क्विप्, नलोपः ।

अन्नीधः स्थानं; अग्नीधः शरणे रन् । तत्रस्थित-
त्वात् ऋत्विगप्याग्नीग्र उ{??}) अग्नीध्रं । होतृगृहं ।
इत्यमरटीकायां रमानाथः ॥ आग्नेय्या अग्नोध्र-
मुपतिष्ठते इत्यत्र आग्नीध्रं मण्डपमित्याख्यान-
दर्शनात् । धनद्वारा वरणीयऋत्विजि पुं ॥
(स्वायम्भुवस्य प्रथमस्य मनोर्द्वादशपुत्त्रमध्ये
परिगणितः स्वनामख्यातः पुत्त्रः । यथा हरिवंशे ।
“आग्निध्रश्चाग्निबाहुश्च मेधा मेधातिथिर्वसुः ।
ज्योतिष्मान् द्युतिमान् हव्यसवलः पुत्त्र एव च ॥-
मनोः स्वायम्मुवस्यैते दश पुत्त्राः महौजसः” ।
प्रियवतनृपपुत्त्रः स्वनामख्यातो मनुवंशीयो नृ-
पतिः । यदुक्तं, --
“अग्नोध्रो नाम नृपतिर्जम्बुनाथो मनोः कुले ।
तज्जातो नृपसंज्ञाभिः कथ्यन्ते भरतादयः” ॥
प्रियव्रतस्य राज्ञः दशपुत्त्रमध्येपरिगणितः स्वना-
माख्यातः पुत्त्रः । यदुक्तम् विष्णुपुराणे २ । १ ॥
“प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥
अग्नीध्रश्चाग्निवाहुश्च वपुष्मान् द्व्युतिमांस्तथा ।
मेधा मेधातिथिर्भव्यः सवनः पुत्त्र एव च ॥
ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत्” ॥ ८

आग्नेयं, क्ली, (अग्निर्देवता यस्य ।) स्वर्णं । इति राज-

निर्घण्टः ॥ देशविशेषः । इति शब्दरत्नावली ॥
रक्तं । इति हेमचन्द्रः ॥ घृतं । इति पाणिनिः ॥

आग्नेयः, पुं, (अग्निर्देवतास्य अण् । अग्निनोक्तं पुराणं

यदाग्नेयं वेदसम्मितमित्त्यक्तलक्षणे महापुराण-
भेदे बह्निपुराणे च । अग्निदेवताके द्रव्यमात्रे
च त्रिं । अग्नियोषिति स्वाहायाम् अग्निदेवता-
कायामृचि च । आग्नेयव्रतं । यथा मनौ ९ । ३१० ।
“दुष्टसामन्तहिंस्रस्य तदाग्नेयव्रतं स्मृतम्” ।)
अगस्त्यमुनिः । इति पाणिनिः ॥ अग्निसम्बन्धीये त्रि

आग्नेयी, स्त्री, (आग्नेय + ङीप् ।) अग्निकोणं ॥

स्वाहा । इति जटाधरः ॥

आग्रयणं, क्ली, नवशस्येष्टिः । यथा, --

“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।
धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः” ॥
इत्यनेन शरद्वसन्तविहितनवशस्येष्टः ।
“श्यामाकैर्व्रीहिभिश्चैव यवैरन्योन्यकालतः ।
प्रग्यष्टुं युज्यतेऽवश्यं न त्वत्राग्रयणात्ययः” ॥
इति कालान्तरदर्शनात् श्राद्धेऽपि तथा इति ।
आग्रयणं नवशस्येष्टिः । इति मलमासतत्त्वं ॥

आग्रहः, पुं, (आङ् + ग्रह + अप्) अनुग्रहः । आ-

सक्तिः । आक्रमः । ग्रहणं । इति मेदिनी ॥
(प्रसादः, अभिनिवेशः, आसङ्गः, यथा,
“इत्याग्रहात् वदन्तं तं स पिता तत्र नीतवान्” ॥
इति कथासरित्सागरे २५ । ९९ ।)

आग्रहायणः, पुं, मार्गशीर्षमासः । इति रायमुकुटः ॥

आग्रहायणिकः, पुं, (आग्रहायण्या मृगशिरसा

युक्ता पौर्णमासी अस्मिन् । आग्रहायण + ठक्)
अग्रहायणमासः । मतभेदे वत्सराद्यमासोऽयं ।
अस्मिन् मासे वृश्चिकराशिस्थो रविः । तत्पर्य्यायः ।
मार्गशीर्षः २ सहाः ४ मार्गः ४ । इत्यमरः ॥ आग्र-
हायी ५ अलकः ६ सहः ७ मार्गशिरः ८ । इति
शब्दरत्नावली ॥ अग्रहायणसम्बन्धिनि त्रि ।

आग्रहायणी, स्त्री, (अग्रे हायनमस्याः । मतभेदे

मार्गशीर्षमारभ्य वर्षप्रवृत्तेः । प्रज्ञाद्यण् । पूर्ब्ब-
पदादिति णत्वं । गौरादित्वात् ङीष्) मृगशिरो-
नक्षत्रं । इत्यमरः ॥ अग्रहायणमासस्य पौणमासी ॥

आघट्टकः, पुं, (आङ् + घट्ट + वुन् । ततः स्वार्थे कः)

रक्तापामार्गः । इति राजनिर्घण्टः ॥

आघाटः, पुं, (आङ् + घट् + घञ्) सीमा । इति

हेमचन्द्रः ॥ अपामार्गः । इति राजनिर्घण्टः ॥

आघातः, पुं, (आङ् + हन् + घञ्) बधस्थानं । इति

त्रिकाण्डशेषः ॥ हननं । छेदनं । चोट कोप
इत्यादि भाषा ॥ (यथा साहित्यदर्पणे । “पादा-
घातादशोकं विकसति वकुलं योषितामास्य-
मद्यैः” ॥)

आघातनं, क्ली, (आङ् + हन् + स्वार्थे णिच् + ल्युट्)

बधस्थानं । इति हारावली ॥ हननं ॥

आघारः, पुं, (आङ् + घृ + घञ्) घृतं । इति हेम-

चन्द्रः । ऋग्वेदिनां स्रुवेण चतुराज्यं स्रुचि दत्त्वा
प्रजापतिं मनसा ध्यात्वा तूष्णीमग्नेर्वायव्यकोणा-
दारभ्याग्रेयीं यावदविच्छिन्नघृतधारादानं । पुन-
स्रवेण चतुराज्यं स्रुचि दत्त्वा इन्द्रं ध्यात्वाग्नेर्नैरृत-
कोणादारभ्य ऐशानीं यावदविच्छिन्नघृतधारा-
दानं । इति कालेसिः ॥ यजुर्वेदिनान्तु स्रुवेण
मन्त्रोच्चारणपूर्ब्बकपूर्ब्बोक्तक्रमेण घृतधारादानं ।
इति पशुपतिः ॥

आघूर्णितं, त्रि, (आङ् + घूर्ण + क्त) घूर्णितनेत्रादिः ।

घूराण इति भाषा । यथा, देवीमाहात्म्यं ॥
“आघूर्णितो वा वातेन स्थितः पोते महार्णवे” ॥

आघ्राणं, क्ली, (आङ् + घ्रा + ल्युट्) तृप्तिः । इति

हेमचन्द्रः ॥ गन्धग्रहणं । सोँका इति भाषा ॥
“भेदघ्रां गन्धाघ्राणतः ।” इति कथासरित्सारे
१३ । १६ ।)

आघ्रातः, त्रि, (आङ् + घ्रा + क्त) शिङ्घितः । आ-

क्रान्तः । इति मेदिनी ॥ तृप्तः । इति हेमचन्द्रः ॥
(घ्राणविषयीकृतः । यथा, नागानन्दे । “नीताः
किं न निशा शशाङ्कधवला नाघ्रातमिन्दीवरं ॥)

आर्घ्यं, क्ली, पीतवर्णदीर्घतुण्डषट्पदसन्निभमाक्षि-

कोत्पन्नमधु । अस्य गुणाः । अतिशयचक्षुर्हित-
कारित्वं । कफपित्तरक्तदोषनाशित्वञ्च ॥ इति राज-
निर्घण्टः ॥ यथा, भावप्रकाशः ॥
“मधूकवृक्षा निर्यासं जरत्कार्य्व्याश्रमोद्भवाः ।
स्रवन्त्यार्ध्यं तदा ख्यातं श्वेतकं मालवे पुनः ॥
तीक्ष्णतुण्डास्तु याःपीता मक्षिकाः षट्पदोपमाः ।
आर्घ्यास्तास्तत्कृतं यत्तदार्घ्यमित्यपरे जगुः” ॥
(“आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परं ।
कषायं कटुपाके च बल्यं तिक्तमवातकृत्” ॥
इति सुश्रुतः ॥)

आङ्, व्य, उपसर्गविशेषः । अस्यार्थः । ईषत् ।

यथा आपिङ्गलः । अभिव्याप्तिः । यथा आजन्म-
ब्रह्मचारी । सीमा । यथा आसमुद्रक्षितोशानां ।
इति रघौ १ म सर्गे । धातुयोगजः । यथा आरो-
हति । इत्यमरभरतौ ॥ समन्तात् । ग्रहणं ।
प्रत्यावृत्तिः । इति दुर्गादासः ॥

आङ्गं, क्ली, (अङ्गस्य इदं । अङ्ग + अण्) कोमलाङ्गं ।

इति त्रिकाण्डशेषः ॥

आङ्गारं, क्ली, (अङ्गार + अण्) अङ्गारसमूहः ।

इति रायमुकुटः ॥

आङ्गिकः, त्रि, (अङ्ग + ठक्) अङ्गनिष्पन्नभावव्यञ्ज-

कभ्रूक्षेपादिः । इत्यमरः ॥ मार्द्दङ्गिकः । इति शब्द-
रत्नाबली ॥ (यथा साहित्यदर्पणे ।
“भवेदभिनयो ऽवस्थानुकारः स चतुर्विधः ।
आङ्गिको वाचिकश्चैवमाहार्य्यः सात्त्विकस्तथः” ।)

आङ्गिरसः, पुं, (अङ्गिरस् + अण्) वृहस्पतिः ।

इत्यमरः । (यथा मनुः । २ । १५१ ।
“अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।
पुत्त्रका इति होवाच ज्ञानेन परिगृह्य तान्” ॥)

आचमनं, क्ली, (आङ् + चम् + ल्युट्) वैधकर्म्मा-

रम्भात् पूर्ब्बं वारत्रयजलपानानन्तरं यथाक्रमा-
ष्टाङ्गस्पर्शरूपशुद्धिजनकक्रिया । तत्पर्य्यायः । उ-
पस्पर्शः २ । इत्य मरः ॥ आचमः ३ शुचिप्रणीः ४ ।
इति शब्दरत्नावली ॥ तद्विधानं यथा ॥
“त्रिराचामेदपः पूर्ब्बं द्विः प्रमृज्यात्ततो मुख ।
संमृज्याङ्गुष्ठमूलेन त्रिभिरास्यमुपस्पृशेत् ॥
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरं ।
अङ्गष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः ॥
कनिष्ठाङ्गुष्ठयोर्नाभिं हृदयन्तु तलेन वै ।
र्व्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशत् ॥
पृष्ठ १/१६७
:ऋचो यजूंषि सामानित्रिः पिबन् प्रीणयेत् क्रमात् ।
अथर्व्वाङ्गिरसौ पूर्ब्बं द्विः प्रमार्ष्ट्या नयेन्मुखं ॥
सेतिहासपुराणानि वेदाङ्गानि यथाक्रमं ।
खं मुखं नासिके वायुं नेत्रे सूर्य्यं श्रुती दिशः ॥
प्राणग्रन्थिमथो नाभिं ब्रह्माणं हृदयं स्पृशेत् ।
रुद्रं मूर्द्धानमालभ्य प्रीणात्यथ शिखामृषीन् ॥
बाहू यमेन्द्रवरुणकुवेरवसुधानलान् ।
अभ्युक्ष्य चरणौ विष्णुमिन्द्रविष्णुकरद्वयं ॥
वासुकिप्रमुखान् नागान् जलं क्षिपति यत् क्षितौ ।
येऽन्तरा विन्दवो यान्ति भूतग्रामञ्च तैर्द्विज ॥
अग्निवायुसूर्य्येन्द्रा गिरयोऽङ्गुलिपर्ब्बसु ।
गङ्गाद्याः सरितस्तासु या रेखाः करमध्यगाः ॥
तले सोमः सतीर्थश्च स्मृतोऽतः पावनः करः ।
इति गारुडे २१५ अध्यायः ॥ * ॥
अन्यच्च । अथाचमनं । पराशरः । यथा, --
“कृत्वाथ शौचं प्रक्षाल्य पादौ हस्तौ च मृज्जलैः ।
निबद्धशिख आसीनो द्विज आचमनं चरेत्” ॥
आपस्तम्वः । यथा, --
“इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् ।
हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः” ॥
आजान्विति अध्वश्रमादिना तत्पर्य्यन्तमशौचे
आजङ्घात इति हारीतोक्तं सामान्यतः ।
“कृत्वोपवीतं सव्यांशे वाङ्मनःकायसंयतः” ॥ * ॥
शिखाबन्धे विशेषमाह ब्रह्मपुराणम् ।
“गायत्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः ।
जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समारभेत्” ॥
याज्ञवल्क्यः । यथा, --
“अन्तर्जानु शुचौ देशे उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्म्येण तीर्थेन द्विजो नित्यमुपस्पृशेत्” ।
अन्तर्जानु जानुनोर्मध्ये हस्तौ कृत्वेति शेषः ॥
भविष्यपुराणे । यथा, --
“समौ तु चरणौ कृत्वा तथा बद्धशिखोनृप !” ।
आचामेदित्यनुवृत्तौ देवलः । यथा, --
“शिखां बद्ध्वा वसित्वा तु निर्निक्ते वाससी शुभे ।
तूष्णीं भूत्वा समादाय नोद्गच्छन्न विलोकयन्” ॥ * ॥
ब्राह्म्यावरोधे तु मनुः । यथा, --
“कायत्रैदशिकाभ्यान्तु न पित्रेण कदाचन” ।
मार्कण्डेयः । यथा, --
“सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियां ।
नोच्छिष्टं तत् पवित्रन्तु भुक्तोच्छिष्टन्तु वर्जयेत्” ॥
उदकग्रहणे परिमाणमाह भरद्वाजः । यथा, --
“आयतं पर्ब्बणां कृत्वा गोकर्णाकृतिमत् करं ।
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् ।
माषमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः” ॥
याज्ञवल्क्यः ॥ यथा, --
“अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्वदः ।
हृत्कण्ठतालुगाभिश्च यथासङ्ख्यं द्विजातयः ॥
शुद्धेरन् स्त्री च शूद्रश्च सकृत् स्पृष्टाभिरन्ततः” ।
अन्ततः ओष्ठप्रान्ते । प्रचेताः ॥
“अनुष्णाभिरफेनाभिः पूताभिर्वीक्ष्य चक्षुषा ।
हृद्गताभिरशब्दाभिस्त्रिश्चतुर्व्वाद्भिराचमेत्” ॥
चतुर्व्वेति भावशुद्ध्यपेक्षया ॥ * ॥
आचमनप्रकारमाह दक्षः ।
“प्रक्षाल्य हस्तौ पादौ च त्रिः पिबेदम्बु वीक्षितं ।
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखं ॥
संहत्य तिसृभिः पूर्ब्बमास्यमेवमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरं ॥
अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः ।
नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै ॥
सर्व्वाभिस्तु शिरोदेशं बाहू चाग्रेण संस्पृशेत्” ।
पुनःपुनरिति घ्राणादीनां गोलकद्वयाभिप्रायेण ।
इति श्रीदत्तः ॥ * ॥
वीक्षणानुष्णयोरपवादमाह यमः ।
“रात्रावनीक्षितेनापि शुद्धिरुक्ता मनीषिभिः ।
उदकेनातुराणाञ्च तथोष्णेनोष्णपायिनां” ॥ * ॥
मुखमार्जनानन्तरं व्यासः । “वामहस्तं पादौ
शिरश्च दक्षिणेन पाणिना जलेनाभ्युक्षयेत्” इति
सामवेदिक्रमः । यजुर्व्वेदिनान्तु गोतमः । “पादौ
चाभ्यक्षयेत् खानि चोपस्पृशेत् शीर्षाणि मूर्द्ध्नि
दद्यात् उदकविन्दून्” ॥ * ॥
इन्द्रियस्पर्शे विशेषमाह मनुः । “खानि चैव
स्पृशेदद्भिः” इति । नाभिस्पर्शे व्यासः । यथा, --
“ततः स्पृशेन्नाभिदेशं पुनरापश्च संस्पृशेत्” ।
इन्द्रियस्पर्शानन्तरं भविष्ये । यथा, --
“यद्भूमावुदकं वीर समुत्सृजति दानव ।
वासुकिप्रमुखान्नागान् तेन प्रीणाति मानवः” ॥ * ॥
जलस्थलोभयकर्म्मानुष्ठानार्थञ्च जलस्थलैकचरणे-
नाचमनं कर्त्तव्यमाह पैठीनसिः ॥ “अन्तरुदके
आचान्तो अन्तरेव शुद्धो भवति वहिरुदके आ-
चान्तो वहिरेव शुद्धः स्यात् तस्मादन्तरेकं वहि-
रेकञ्च कृत्वा पादमाचामेत् सर्व्वत्र पूतो भवति”
इति ॥ * ॥ जलमात्रे जानोरूर्द्ध्वमुत्तिष्ठन्नाचमन-
माह विष्णुः । यथा, --
“जानोरूर्द्ध्वं जले तिष्ठन्नाचान्तः शुचितामियात् ।
अधस्ताच्छतकृत्वोपि समाचान्तो न शुध्यति” ॥
हारीतः । यथा, --
“अर्द्रवासा जले कुर्य्यात्तर्पणाचमनं जपं ।
शुष्कवासाः स्थले कुर्य्यात्तर्पणाचमनं जपं” ॥ * ॥
आचमननिषेधे देवलः । यथा, --
सोपानत्को जलस्थो वा मुक्तकेशोऽपि वा पुनः ॥
उष्णीषी वापि नाचामेद्वस्त्रेणोद्वेष्ट्य वा शिरः ॥
न गच्छन्न शयानश्च न चलन्न परान् स्पृशन् ।
न हसन् नैव सजल्पन्नात्मानञ्चैव वीक्षयन् ॥
केशान्नीवीमधःकायमस्पशन् धरणीमपि ।
यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करं” ॥
आत्मानं हृदयं । तथा व्यासः ।
“शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा ।
अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत्” ॥
मरीचिः । यथा,
“न वहिर्जानु त्वरया नासनस्थो न चात्थितः ।
न पादुकास्थो नान्यचित्तः शुचिः प्रयतमानसः ॥
भुक्त्वासनस्थोऽप्याचामेन्नान्यकाले कदाचन ।
जानुभ्यामूर्द्ध्वमाचम्य जलें तिष्ठन्न दुष्यति” ॥
शाट्यायनः । यथा,
“स्नानमाचमनं होमं भोजनं देवतार्चन ।
प्रौढपादो न कुर्व्वीत स्वाध्यायं पितृतर्पणम्” ॥ * ॥
द्विराचमननिमित्तानि ॥
“स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्रा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च” ॥
ब्रह्मपुराणं ॥ यथा,
“होमे भोजनकाले च सन्ध्ययोरुभयोरपि ।
आचान्तः पुनराचामेदन्यत्रापि सकृत् सकृत्” ॥ * ॥
अथाचमननिमित्तानि ॥
“निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने ।
उच्छिष्टस्य च सम्भाषादशुच्युपहतस्य च ॥
सन्देहेषु च सर्व्वेषु शिखां बद्ध्वा तथैव च ।
विना यज्ञोपवीतेन नित्यमेवमुपस्पृशेत् ॥
उष्ट्रवायससंस्पर्शे दर्शने चान्त्यवासिनां” ॥
हारीतः । यथा,
स्त्रीशूद्रोच्छिष्टसम्भाषणे मूत्रपुरीषोत्सर्गदर्शने
देवमभिगन्तुकाम आचामेत् ॥ * ॥
अथ आचमनप्रतिप्रसवमाह स्मृतिः । यथा,
“क्षुते निष्ठीवने सुप्ते परिधानेऽश्रुपातने ।
कर्म्मस्थ एषु नाचामेद्दक्षिणं श्रवणं स्पृशेत्” ॥
वृद्धशातातपः ।
“वातकर्म्मणि निष्ठीवे दन्तश्लिष्टे तथानृते ।
क्षुते पतितसंलापे दक्षिणश्रवणं स्पृशेत्” ॥
मार्कण्डेयपुराणम् ॥ यथा,
“कुर्य्यादालम्भनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ।
कुर्व्वीतालभनं वापि दक्षिणश्रवणस्य च ॥
यथाविभवतो ह्येतत् पूर्ब्बाभावे ततः परम्” ॥ * ॥
आचमने जलाधारनिषेधमाह । उशनाः ॥ यथा,
“कांस्यायसेन पात्रेण त्रपुसीसकपित्तलैः ।
आचान्तः शतकृत्वोऽपि न कदाचित् शुचिर्भवेत्” ॥
इति गोपालपञ्चाननकृताचारनिर्णयः ॥
“आयतं पर्ब्बणां कृत्वा गोकर्णाकृतिवत् करं ।
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥
मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनं चरेत् ।
मासमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः” ॥
इति भारद्वाजः ॥
“अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्वुदैः ।
हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः ॥
शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः” ॥
इति याज्ञवल्क्यः ॥
“हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः ।
वश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिरन्ततः” ॥
इति मनुः ॥
“स्तियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च ।
सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः” ॥
इति मिताक्षरा ॥

आचमनकः, पुं, (आचमन + वुन् ।) निष्ठीवनपात्रं ।

पिक्दान डावर इति भाषा । तत्पर्य्यायः ।
प्रोण्ठः २ कटकोलः ३ पतद्ग्रहः ४ । इति
हारावली ॥ (“कोणस्थिताह्वानचकिताचमनक-
वाहिनि” । इति हषचरिते ॥)
पृष्ठ १/१६८

आचमनीयं, क्ली, (आचम्यतेऽनेन । आङ् + चम् +

अनीयर् ।) मुखप्रक्षालनार्थजलं । तद्दानविधि-
र्यथा, कालिकापुराणे ६७ अध्यायः ॥
“दद्यादाचमनीयन्तु सुगन्धिसलिलैः शुभैः ।
कर्पूरवासितैर्व्वापि कृष्णागुरुसुधूपितैः ॥
यथा तथा सुगन्धैर्व्वा प्रसन्नैः फेनवर्ज्जितैः ।
तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत् ॥
उदकं दीयते यत्तु प्रसन्नं फेनवर्ज्जितं ।
आचमनाय देवेभ्यस्तदाचमनमुच्यते ॥
केवलं तोयपात्रेण तदा दद्यान्नमिश्रितं ।
वासितन्तु सुगन्ध्याद्यैः कर्त्तव्यं यदि लभ्यते ॥
आयुर्ब्बलं यशोवृद्धिं प्रदायाचमनीयकं ।
लभते साधको नित्यं कामांश्चैव यथेप्सितान्” ॥

आचरणं, क्ली, (आङ् + चर् + ल्युट्) आचारः ।

व्यवहारः ॥ (“अधीतिबोधाचरणप्रचारणैः” ।
इति नैषधे ।)

आचरितं, त्रि, (आङ् + चर् + क्तः) कृताचरणं ।

(“जलं वामकरे कृत्वा या सन्ध्याचरिता द्विजैः” ।
इति काशीखण्डे ।) व्यवहृतं ॥ (यदुक्तं ।
“दारपुत्त्रपशून् हत्वा कृत्वा द्वारोपवेशनं ।
यत्रार्थो दाप्यतेऽर्थं स्वं तदाचरितमुच्यते” ॥
एतत्तु पारिभाषिकं ॥)

आचान्तः, त्रि, (आङ् + चम् + क्तः) कृताचमनः ।

यथा । बौधायनः ।
“स्नात्वा पीत्वा क्षुते सुप्त भुक्त्वा रत्योपसर्पणे ।
आचान्तः पुनराचामेत् वासो विपरिधायच” ॥
इत्याह्निकतत्त्वं ।

आचामः, पुं, (आङ् + चम् + घञ्) आचमनं ।

इति शब्दरत्नावली ॥ भक्तमण्डः । इत्यमरः ॥
(भक्षणं । पानं । यथा, काव्यप्रकाशे ।
“चक्रीर्य्य एव निपुणाश्चन्द्रिकाचामकर्म्मणि” ॥)

आचारः, पुं, (आङ् + चर् + घञ्) व्यवहरः ।

तत्पर्य्यायः । चरित्रं २ चरितं ३ चारित्रं ४ चरणं
५ वृत्तं ६ शीलं ७ । इति हेमचन्द्रः ॥ स्नानाच-
मनादिः । इति मानवे २ अध्याये ६९ श्लोक-
टीकायां कुल्लूकभट्टः । व्यवहारः ॥ स तु विचारः ।
यथा वृहस्पतिः ।
“आचारेणावसन्नोऽपि पुनर्लेखयते यदि ।
सोऽभिधेयो जितः पूर्ब्बं प्राङ्न्यायस्तु स उच्यते” ॥
इति व्यवहारतत्त्वं ॥ चरित्रं । एतद्विवरण सदा-
चारशव्दे द्रष्टव्यं ॥ (रघुः । २ । १० । “आचार-
लाजैरिव पौरकन्याः” ।)

आचारवर्ज्जितः, त्रि, (आचारेण वर्ज्जितः ।) आ-

चारवहिर्भूतः । इति जटाधरः ॥ (अव्यवस्थितः ।
नियमरहितः ।)

आचारी, स्त्री, (आङ् + चार + ङीष्) हिलमो-

चिका लता । इति राजनिर्घण्टः ॥ हेलञ्चा इति
ख्याता । आचारविशिष्टे त्रि । (हिलमोचिका-
शव्देऽस्या गुणादयो ज्ञातव्याः ॥)

आचार्य्यः, पुं, (आङ् + चर् + ण्यत् ।) वेदाध्या-

पकः । वैदिकमन्त्रव्याख्याकर्त्ता । तत्पर्य्यायः ।
मन्त्रव्याख्याकृत् २ । इत्यमरः ॥ द्रोणाचार्य्यः ।
इति त्रिकाण्डशेषः ॥ तल्लक्षणं यथा, --
“उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः ।
सकल्पं सरहस्यञ्च तमाचार्य्यं प्रचक्षते” ॥
इति मानवे २ । २४० ॥
(ततोऽनन्तरमाचार्य्यं परीक्षेत । तद्यथा, --
“पर्य्यवदातश्रुतं परिदृष्टकर्म्भाणं दक्षं दक्षिणं शुचिं
जितहस्तमुपकरणवन्तं सर्व्वेन्द्रियोपपन्नं प्रकृतिज्ञं
प्रतिपत्तिज्ञमनुपस्कृतविद्यमनसूयकमकोपनं क्ले-
शक्षमं शिष्यवत्सलमध्यापकं ज्ञानदानसमर्थमि-
त्येवंगुणो ह्याचार्य्यः सुक्षेत्रमार्त्तवो मेघ इव
शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः सम्पादयति ।
तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च
राजवच्च पितृवच्च भर्त्तृवच्चाप्रमत्तस्ततस्तत्प्रसादात्
कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभि-
धानसौष्ठवस्यार्थस्य विज्ञाने वचनशक्तौ च भूयः
पयतेत सम्यक्” । इति चरकः ॥)

आचार्य्या, स्त्री, (आचार्य्य + टाप् ।) मन्त्रव्याख्या-

कर्त्री । इत्यमरसिंहः ॥ (वेदादिशास्त्राध्यापन-
कर्त्ती ।)

आचार्य्याणी, स्त्री, (आङ् + चर् + ण्यत् + ङीप् +

आनुक् ॥) आचार्य्यपत्नी । इत्यमरः ॥ (यथा
महावीरचरिते ॥
“त्र्यम्बकं देवमाचार्य्यमाचार्य्याणीञ्च पार्ब्बतीं” ॥)

आचितं, क्ली, (आङ् + चि + क्त ।) दशभारपरि-

माणं । इत्यमरः । २५ मोन इति भाषा ॥

आचितः, पुं, (आङ् + चि + क्त ।) शाकटो भारः ।

इत्यमरः । एक गाडिर वोजा इति भाषा ॥ द्व्ययु-
तपलं । इति मेदिनी ॥

आचितः, त्रि, (आङ् + चि + क्तः) संगृहीतः । छन्नः ।

इति मेदिनी ॥ (एकत्र सन्निवेशितः, आकीर्णः,
व्याप्तः, ग्रथितः, गुम्फितः । यथा भारविः ।
“कचाचितौविष्वगिवागजौ गजौ” ॥ यथा रघुवंशे ।
“अर्द्धाचिता सत्वरमुत्थितायाः
पदे पदे टुर्निमिते गलन्ती” ।)

आच्छकः, पुं, वृक्षविशेषः । आच इति भाषा ।

तत्पर्य्यायः । रञ्जनद्रुः २ पक्षीकः ३ पक्षिकः ४
आक्षिकः ५ । इति रत्नमाला ॥

आच्छन्नं, त्रि, (आङ् + छद् + क्तः ।) आच्छादितं ।

आवृतं । यथा । “मेघाच्छन्नेऽह्नि दुर्दिनं” ।
इत्यमरः ॥
(“पङ्कपांशुजलाच्छन्नं सुव्यस्तं दस्युविद्रुतं” ।
इति हितोपदेशः ॥)

आच्छादः, पुं, (आङ् + छद् + घञ् ।) वस्त्रं । इति

हेमचन्द्रः ॥

आच्छादनं, क्ली, (आङ् + छद् + ल्युट् ।) वस्त्रं ।

इत्यमरः ॥ संपिधानं । अपवृतिमात्रं । इति
मेदिनी ॥ (यथा मनुः । ३ । ५९ ॥
“तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः” ॥)

आच्छादितं, त्रि, (आङ् + छद् + णिच् + क्तः) कृता-

च्छादनं । आवृतं । ढाका इति भाषा ।

आच्छुरितं, क्ली, (आङ् + छुर + क्तः) सशब्दहास्यं ।

नखवाद्यं । इति धरणिः ॥ आहतं । (यथा
कथासरित्सागरे ।
“न सेहे कञ्चुकेनापि क्षिप्रमाच्छुरितं वपुः” ।)

आच्छुरितकं, क्ली, (आङ् + छुर + भावे क्तः । ततः

स्वार्थे कन्) सोत्प्रासहासः । इत्यमरः ॥ हास्यं ।
नखाघातविशेषः । इति मेदिनीकरहेमचन्द्रौ ॥

आच्छोदनं, क्ली, (आङ् + छिद् + ल्युट् । ततः पृषो-

दरादित्वात् इत ओत् ।) मृगया । इत्यमरः ॥

आछ, इ, आयामे । (भ्वादिं-परं-सकं-सेट् ।) इति

कविकल्पद्रुमः ॥ इत्यादौ द्वित्वाभावः प्रकृति-
भ्रमनिरासार्थः । इ आञ्छ्यते । आयामो दीर्घो-
करणं । आञ्छति कटं शिल्पी । इति । दुर्गादासः ॥

आजं, क्ली, (अज + अण् । अजसम्बन्धी छागस्य घृत-

मांसादिः) घृतं । इति जटाधरः ॥ (यथा वैद्यके ।
“गव्यमाजं तथा चौष्ट्रमाविकं माहिषञ्च यत् ।
अतो धातुविवृद्ध्यर्थमाजं मांसं प्रशस्यते” ॥)
(तथाच रामायणे । २ । ९१ । ६७ ।
“आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः” ।
घृतार्थे -- गव्यादिघृतभेदेन यदुक्तं तत्सर्व्वं घृत-
शब्दे ज्ञातव्यं किन्त्वाजशब्दव्युत्पत्त्या दुग्धादिकं
यदुपलभ्यते तदन्यत्र प्रदर्श्यते ॥
“आजं दधि भवेच्चोष्णं क्षयवातविनाशनं ।
दुर्नामश्वासकासेषु हितमग्निप्रदीपनं ॥
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं ।
शस्तं कार्श्यापहं प्रोक्तं वातपित्तनिवर्हणं” ॥
इति हारीतसुश्रुतौ ॥
“नातिशीतं गुरुस्रिग्धं मांसमाजमदोषलं ।
शरीरधातुसामान्यादनभिष्यन्दि वृंहणं” ॥
इति चरको वाभटश्च ॥
“गव्यतुल्यगुणन्त्वाजं विशेषाच्छोषिणां हितं ।
दीपनं लघु संग्राहि श्वासकासास्रपित्तनुत् ।
अजानामल्पकायत्वात् कटुतिक्तनिषेवनात् ॥
नात्यम्बुपानाद्व्यायामात् सर्व्वव्याधिहरं पयः” ।
“दध्याजं कफपित्तघ्नं लघुवातक्षयापहं ।
दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनं ॥
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनं” ॥
“आजं घृतं दीपनीयं चक्षुष्यं बलवर्द्धनं ।
कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु” ॥
इति च सुश्रुतः ॥)

आजकं, क्ली, (अज + वुज्) अजसमूहः । छागलेर

पाल इति भाषा । इत्यमरः ॥

आजकारः, पुं, (आज + कृ + अण्) शिववृषः ।

इति शब्दरत्नावली ॥

आजगवं, क्ली, (अजगव + प्रज्ञाद्यण्) शिवधनुः ।

इति हेमचन्द्रः ॥

आजन्मसुरभिपत्रः, पुं, (आ जन्मनः सुरभीणि

पत्राणि यस्य सः) भरुवकवृक्षः । इति राज-
निर्घण्टः ॥

आजानेयः, पुं, स्त्री, (अज् + घञ् + आज + आनेयः)

कुलीनाश्वः । श्रेष्ठघोटकः । इत्यमरः ॥ “शक्तिभि-
र्भिन्नहृदयाः स्खलन्तोऽपि पदे पदे । आजानन्ति
यतः सं ज्ञामाजानेयास्ततः स्मृताः” ॥ इत्यश्वतन्त्रं ॥

आजिः, स्त्री, (अज् + इन्) । यद्धं । समानभूमिः ।

पृष्ठ १/१६९
:इत्यमरकोषमेदिन्यौ । क्षणं । इति हेमचन्द्रः ।
(युद्धार्थे यथा, -- “आवृण्वती लोचनमार्गमाजौ
रजोन्धकारस्य विजृम्भितस्य” । इति रघुः । ७ । ४३ ।)
आक्षेपः । इति शब्दरत्नावली ॥

आजीवः, पुं, (आङ् + जीव + घञ् ।) जीविका ।

इत्यमरः ॥
(“बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे” ॥
इति रामायणे ।)

आजुः, [र्] स्त्री, (आङ् + जुर् + क्विप् ।) आजूः ।

विष्टिः । इति स्वामी ॥

आजूः, स्त्री, (आ + जुगतौ + क्विप् दीर्घश्च ।) वेतनं

विना कर्म्मकारः । वेंगार इति भाषा । इत्यमरः ॥
(यदुक्तम्,
“हठादभृतिकः क्लेशोविष्टिराजूश्च कीर्च्यते” ।)

आज्ञप्तः, त्रि, (आ + ज्ञा + णिच् + क्त ।) आज्ञा-

प्राप्तः । यथा, देवीमाहात्म्यम् ।
“आज्ञप्तास्तु ततो दैत्याञ्चण्डमुण्डपुरोगमाः ।
चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः” ॥

आज्ञा, स्त्री, (आङ् + ज्ञा + अङ् + टाप् ।) आ-

देशः । तत्पर्य्यायः । अववादः २ निर्देशः ३ नि-
देशः ४ शासनं ५ शिष्टिः ६ । इत्यमरः ॥
(“तथेति शेषामिव भर्तराज्ञां” । इति कुमारे ।
३ । २२ ।
“पश्चात् वनाय गच्छेति तदाज्ञां मुदितोऽग्रहोत्”
इति रघौ । १२ । ७ ।)

आज्ञाकारी, [न्] त्रि, (आज्ञा + कृ + णिन् ।) आ-

ज्ञया कर्म्मकारी । आज्ञावहः । आज्ञानुवर्त्ती ॥

आज्ञाचक्रं, क्ली, षट्चक्रान्तर्गतषष्ठचक्रम् । तथा च

तन्त्रे, -- “आज्ञानामाम्बुजं तद्धिमकरसदृशं ध्यान-
धामप्रकाशं हक्षाभ्यां वैकलाभ्यां प्रविलसितवपु-
र्नेत्रपत्रं सुशुभ्रं । तन्मध्ये हाकिनी सा शशिसम-
घवला वक्त्रषट्कं दधाना विद्यां मुद्रां कपालं
डमरुजपवटीं बिभ्रती शुद्धचित्ता ॥ एतत् पद्मा-
न्तराले निवसति च मनः सूक्ष्मरूपं प्रसिद्धम्” ॥
इति तत्त्वचिन्तामणौ षष्ठप्रकाशः ॥

आज्ञापकः, त्रि, (आङ् + ज्ञा + णिच् + ण्वुल् ।) आ-

ज्ञाकर्त्ता ।

आज्ञापत्रं, (आज्ञायै पत्रं ।) क्ली आदेशलिपिः ।

निदेशलिखनं । हुकुमनामा इति पारस्यभाषा ॥

आज्ञापनं, क्ली, (आङ् + ज्ञापि + ल्युट् ।) विज्ञा-

पनं । जानान इति भाषा ॥

आज्ञाप्तः, त्रि, (आङ् + ज्ञापि + क्त ।) आज्ञप्ति-

विशिष्टः । लब्धाज्ञः । आज्ञाप्राप्तः ॥

आज्यं, क्ली, (आङ् पूर्ब्बात् अञ्जेः संज्ञायामिति

क्यप् ।) घृतं । इत्यमरः ॥ श्रीवासः । इत्यजय-
पालः ॥ (यागक्रियासाधनं तैलदुग्धादिकमपि
आज्यशब्देनोच्यते । यदुक्तं गृह्यसङ्गहे ।
“घृतं वा यदि वा तैलं पयो वा दधि यावकं ।
आज्यस्थाने नियुक्तानामाज्यशब्दो विधीयते” ॥
यथा रघुवंशे । ७ । २० । “तत्रार्चितो भोजपतेः
पुरोधाः हुत्वाग्निमाज्यादिभिरग्निकल्पः” ॥)

आज्यभागः, पुं, (आज्यस्य भागः) ऋग्वेदिनां

अग्नेरुत्तरभागे स्रुवेणाग्निसम्प्रदानकघृताहुतिः
तद्दक्षिणभागे सोमसम्प्रदानकाहुतिश्च । इति
कालेसिः ।
यजुर्वेदिनान्तु अग्नेरुत्तरदक्षिणयोः पश्चिमादि-
प्राच्यन्तघृतधारा । इति पशुपतिः ॥

आञ्जनेयः, पुं, (अञ्जनाया अपत्यं, अञ्जना + ढक् ।)

अञ्जनानामवानरीपुत्त्रः । स तु हनूमान् । इति
त्रिकाण्डशेषः ॥ (यथा महानाटके ।
“उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयं” ॥)

आञ्जिनेयः, पुं, (आञ्जन + ढक् + इट् ।) जन्तुविशेषः ।

आजनाइ इति ख्यातः । इति शब्दमाला ॥

आटिः, पुं, (आङ् + अट + इन् ।) पक्षिविशेषः ।

शरालि इति ख्यातः । इत्यमरः ॥

आटीकनं, क्ली, (आङ् + टीक् + ल्युट् ।) वत्सानां

गमनं । इति त्रिकाण्डशेषः ॥

आटीकरः, पुं, (आटीक + र ।) वृषः । इति भूरि-

प्रयोगः ॥

आटोपः, पुं, (आङ् + टुप् + घञ् ।) दर्पः । इति

हेमचन्द्रः ॥ वायुजन्य-उदरगुड्गुडाशब्दः । इति
वैद्यकं ॥ (गर्व्वः, सम्भ्रमः, संरम्भः । यथा-पञ्चतन्त्रे
“विषं भवतु मावाभूत् फटाटोपो भयङ्करः” ।
यथा शिशुपालबधे । ‘साटोपमुर्व्वीमनिशं नदन्तः’ ।
“आटोपहृल्लासवमीगुरुत्व-
स्तैमित्यमावाहकफप्रसेकैः” ।
इति माधवकरः ॥)

आडम्बरः, पुं, (आङ् + दम् + वरच् । ततः द स्थाने

ड । आडम्ब्यते डवि क्षेपे घञ् भावे वा । आडम्बं
राति रमयति वा आतोनुपेति कः । मूलविभुजेति
वा कः । आडम्बयति वा बाहुलकादरन् ।) पटहः ।
तूर्य्यरवः । गजेन्द्रगर्जनं । इत्यमरः ॥ आरम्भः ।
इति त्रिकाण्डशेषः ॥ पक्ष्म । दर्पः । इति मेदिनी ॥
क्रोधः । इति स्वामी ॥ हर्षः । इति शब्दरत्ना-
वली ॥ (आयोजनं । एकत्र सन्निवेशः, यथा,
भामिनीविलासे । “धातः किं नु विधौ विधातु-
मुचितो धाराधराडम्वरः” ॥ युद्धं । रवार्थे यथा,
“असारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
नहि तादृक्ध्वनिः स्वर्णे यथा कांस्ये प्रजायते” ॥)

आडिः, स्त्री, (आङ् + अड + इन् ।) शरालिपक्षी ।

इत्यमरः ॥ स्वनामख्यातमत्स्यविशेषः । अस्याः
गुणाः । गुरुत्वं । स्निग्धत्वं । वातश्लेष्मप्रकोपनत्वं ।
अतिबलशुक्रमेधाग्निवृद्धिकारित्वञ्च ॥ इति राज-
वल्लभः ॥ (विश्वामित्रशापेन वशिष्ठो महर्षिरा-
डिपक्षिरूपतां गतः इति पौराणिकी कथा ॥
यथा मार्कण्डेयपुराणे आडिवकयुद्धे, --
“श्रुत्वा शापं महातेजा विश्वामित्रोऽपि कौशिकः ।
त्वमप्याडिर्भवस्वेति प्रतिशापमयच्छत ॥
आडिं सोऽप्युन्नतग्रीवो वकः पद्भ्यामताडयत्” ॥)

आडूः, पुं, (अण शब्दे । अनोडश्चेत्त्यूः ।) उडुपः ।

भेला माड इत्यादि भाषा । इत्युणादिकोषः ।

आढकं, क्ली, (आ समन्तात् ढौकते ढौक्यते वा

ढौक गतौ अच् घञ् वा पृषोदरादिः । परि-
माणविशेषः । आढा इति भाषा । यथा, --
“शतयोजनविस्तीर्णं त्रिंशद्योजनमायतं ।
आढकस्य भवेन्मानं मुनिभिः परिकीर्त्तितं” ॥
अपि च ॥
“त्रिंशद्योजनविस्तीर्णं शतयोजनमायतं ।
विंशयोजनगम्भीरमाढकं परिकीर्त्तितं” ॥
इति गणपतिभट्टः । इति ज्योतिस्तत्त्वं ॥

आढकः, पुं, क्ली, चतुःप्रस्थपरिमाणं । आडी इति

भाषा । इत्यमरः ॥ द्रोणचतुर्थभागः । इति
लीलावती ॥ अष्टमुष्टिर्भवेत् कुञ्चिरित्यादिवचनात्
षट्पञ्चाशदधिकद्विशतमुष्टिर्भवति । व्यवहारे षो-
डशसेरो विंशतिसेरो वा । वैद्यकमते अष्टश-
रावपरिमाणं । तत्पर्य्यायः । पात्रं २ कंसं ३
भाजनं ४ । इति परिभाषा ॥
(“चतुःप्रस्थैस्तथाढकं ।
भाजनं कांस्यपात्रञ्च चतुःषष्टिपलञ्च तत्” ॥
इति शार्ङ्गधरः ।
“चतुःप्रस्थमयाढकं ।
“पात्रंतदेव विज्ञेयं कंसंप्रस्थाष्टकन्तथा” ॥
इति चरकः ।)
अपचयविवक्षायां आढकिकेत्यपि स्यात् । इत्य-
मरटीकासारसुन्दरी ॥ आढिका । इति भरतः ॥

आढकिकः, त्रि, (आढक + ठञ् ।) आढकपरिमित-

वीजवपनादियोग्यक्षेत्रादिः । इत्यमरः ॥

आढकी, स्त्री, शमीधान्यविशेषः । अरहर इति

भाषा । तत्पर्य्यायः । तुवरी २ वर्य्या ३ कर
वीरभुजा ४ वृत्तवीजा ५ पीतपुष्पा ६ । अस्याः
गुणाः । कषायत्वं । मधुरत्वं । कफपित्तनाशि-
त्वञ्च । तद्द्विदलगुणाः । ईषद्वातरुचिकारित्वं ।
गुरुत्वं । ग्राहित्वञ्च । पीता रक्ता सिता त्रिविधेयं ।
श्वेता दोषदा । लोहिता रुच्या बल्या पित्तता-
पादिहन्त्री च । पीता दीपनी पित्तदाहध्वंसिनी
च ॥ तद्युषं बल्यं । इति राजनिर्घण्टः ॥ अमर-
मते तत्पर्य्यायः । काक्षी २ मृतस्ना ३ तुवरिका ४
मृतालकं ५ सुराष्ट्रजं ६ । भरतमल्लिकमते एतत्
षट्कं अरहरस्य । सारसुन्दरीमते तुवरिकाख्य-
गन्धद्रव्यस्य । केषाञ्चिन्मते सुगन्धिमृत्तिकायाः ॥
(अस्याः पर्य्यायगुणावाह ।
“आढकी तुवरी चापि सा प्रोक्ता शणपुष्पिका ॥
आढकी तुवरा रूक्षा मधरा शीतला लघुः ।
ग्राहिणी वातजननी वर्ण्या पित्तकफास्रजित्” ॥
इति भावप्रकाशः ॥
“मृदुः कषाया च सरक्तपित्तं
निहन्ति कासानतिवातला स्यात् ।
गुल्मज्वरारोचककासछर्द्दि-
हृद्रोगदुर्नामहराढकी स्यात्” ॥
इति हारीतः ॥
“आढकी कफपित्तघ्नी वातला,” । इति चरकः ॥
“आढकी कफपित्तघ्नी नातिवातप्रकोपनी” ।
इति सुश्रुतः ॥)
पृष्ठ १/१७०

आढकीनः, त्रि, (आढक + ख ।) आढकिकः ।

इत्यमरटीका ॥

आढ्यः, त्रि, (आढौकते ढौकृ गतौ बाहुलकात् ढ्यः ।)

धनवान् । इत्यमरः ॥ युक्तः । विशिष्टः । अन्वितः ।
यथा, धनाढ्यः गुणाढ्य इत्यादिः ॥ (यथा मनुः ८ । १६९ ।
“चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिड् नृपः” ।
यथा भगवद्गीतायां, --
“आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो
मया” ॥)

आणकः, त्रि, (अणक एव स्वार्थे अण् ।) अणकः ।

अधमः । इति रायमुकुटः ॥

आणवीनं, त्रि, (अणु + खञ् ।) अणव्यं । अणुधा-

न्योद्भवोचितक्षेत्रं । इत्यमरटीकायां रायमुकुटः ।

आणिः, पुं, स्त्री, (अण + इन् ।) अक्षाग्रकीलकः ॥

अश्रिः । सीमा । इति मेदिनी ॥

आतङ्कः, पुं, (आङ् + तकि + घञ् ।) रोगः ।

(यथा, याज्ञवल्क्यः, --
“दृष्ट्वा पथि निरातङ्कं कृत्वा वा ब्रह्महा शुचिः” ॥)
सन्तापः । शङ्का । (यथा, महावीरचरिते, --
“आतङ्कश्रमसाहसव्यतिकरोत्कम्पःक्षणंसह्यतां” ।)
मुरजध्वनिः । इति मेदिनीकरहेमचन्द्रौ ॥ ज्वरः ।
इति राजनिर्घण्टः ॥
(“नानातन्त्रविहीनानां भिषजामल्पमेधसां ।
सुस्वं विज्ञातुमातङ्कमयमेव भविष्यति” ॥
इति माधवकरः ॥
रोगार्थे उदाहरणं यथा सुश्रुते ।
“प्रश्नेन च विजानीयात् देशं कालं जातिं सात्म्य-
मातङ्कसमुत्पत्तिं वेदनासमुच्छ्रायं बलमित्यादि” ॥
ज्वरार्थे पर्य्यायानाह ।
“ज्वरो विकारो रोगश्च व्याधिरातङ्क एव च ।
एकार्थनामपर्य्यायैर्विविधैरभिधीयते” ॥
इति चरकः ॥)

आतञ्चनं, क्ली, (आङ् + तञ्च + ल्युट् ।) प्रतिवापः ।

गलितस्य स्वर्णादेर्द्रव्यान्तरेणावचूर्णनं । इति
स्वामी ॥ निक्षेपणं । इति सुभूतिः ॥ उपद्रवः ।
इति रायमकुटः ॥ द्रवद्रव्यप्रक्षेपणोचितचूर्णं ।
इति सारसुन्दरी ॥ जवनं । वेगः । आप्यायनं ।
तर्पणं । इत्यमरमेदिन्यौ ॥

आततायी, [न्] त्रि, (आतत + अय + णिन् ।)

बधोद्यतः । इत्यमरः ॥
“अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदारापहारी च षडेते आततायिनः ॥
आततायिनमायान्तं हन्यादेवाविचारयन् ।
नाततायिबधे दोषो हन्तुर्भवति कश्चन” ॥
इति भगवद्गीताटीकायां श्रीधरस्वामी ॥

आतपः, पुं, (आङ् + तप + अच् ।)

रौद्रं । तत्पर्य्यायः । प्रकाशः २ द्योतः ३ । इत्य-
मरः ॥ दिनज्योतिः ४ सूर्य्यालोकः ५ दिनप्रभा ६
रविप्रकाशः ७ प्रद्योतः ८ तमारिः ९ तापनः १०
द्युतिः ११ । अस्य गुणाः । कटुत्वं । रूक्षत्वं
स्वदमूर्च्छातृष्णादाहवैवर्ण्यजनकत्वं । नेत्ररोगप्रको-
पनत्वञ्च ॥ इति राजनिर्घण्टः ॥
(“आतपः कटुको रुक्षः स्वेदमच्छातृषावहः ।
दाहवैवर्ण्यजननो नेत्ररोगप्रक्रोपनः” ॥
“आतपः पित्ततृष्णाग्निस्वेदमूर्च्छाभ्रमास्रकृत् ।
दाहवैवर्ण्यकारी च” इति सुश्रुतः ॥
यथा शाकुन्तले, --
“कथमातपे गमिष्यसि परिवाधाकोमलैरङ्गैः” ॥
यथा ऋतुसंहारे, ११ । --
“मृगाः प्रचण्डातपतापिता भृशम्” ॥)

आतपत्रं, क्ली, (आतप + त्रै + कः) छत्रं । इत्यमरः ॥

(यथा शाकुन्तले, --
“राज्यं स्वहस्तधृतदण्डमिवातपत्रं” ।
यथा रामायणे, --
“पाण्डरेणातपत्रेण ध्रियमाणेन मूर्द्धनि” ॥
“छत्रशब्देऽस्य गुणादयो ज्ञातव्याः” ।)

आतपत्रकं, क्ली, छत्रं । इति शब्दरत्नावली ॥

आतपवारणं, क्ली, (आतप + वारि + ल्युट् ।) छत्रं ।

इति हेमचन्द्रः ॥ (यथा रघवंशे, ३ । ७० ।
“नृपतिककुदं दत्वा यूने सितातपवारणं” ।
“अनुदितान्यसितातपवारणः” ॥)

आतपाभावः, पुं, (आतपस्य अभावः । षष्ठीतत्पुरुषः ।)

छाया । इति राजनिर्घण्टः ॥

आतरः, पुं, (आङ् + तॄ + अप् । आतरत्यनेन, पुंसि

संज्ञायामिति घः) नद्यादितरणाय देयकपर्द-
कादिः । तत्पर्य्यायः । तरपण्यं २ । इत्यमरः ॥
पाराणिकडि नौकाभाडा इति भाषा ॥

आतर्पणं, क्ली, (आङ् + तृप् + ल्युट् ।) प्रीणनं ।

तृप्तिः । मङ्गलालेपनं । आलिपना इति भाषा ।
इति मेदिनी ॥ (यथा मेदिनी ।
“आतर्पणं प्रीणने स्यात् मङ्गलामेपनेऽपि च” ॥)

आतापी, [न्] पुं, (आङ् + तापि + णिन् ।) आ-

तायी । चिल्लः । इत्यमरटीकायां स्वामी ॥ (असुर-
भेदः । चिल इति ख्यातः पक्षिभेदः ॥)

आतायी, [न्] पुं, (आङ् + ताय + णिन् ।) चिल्लः ।

चिल इति भाषा । इत्यमरः ॥

आतारः, पुं, (आङ् + तॄ + घञ् ।) आतरः । तर-

पण्यं । इति शब्दरत्नावली ॥

आतिः, पुं, (अत + इण् ।) पक्षी । इति सिद्धान्त-

कौमुद्यामुणादिवृत्तिः ॥

आतिथेयः, त्रि, (अतिथि + ढञ् । अतिथौ साधुः ।)

अतिथिसेवाकारकः । इत्यमरः ॥ (यथारघुवंशे, ५ । २
“प्रत्युज्जगामातिथिमातिथेयः ॥
यथा कुमारसम्भवे, ५ । ३१ ।
“तमातिथेयी बहुमानपूर्ब्बया सपर्थ्यया” ।
यथा मनुः, ३ । १८ ।
“दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु” ।

आतिथ्यं, त्रि, (अतिथि + ञ्य ।)

अतिथ्यर्थवस्तु । अतिथिभक्षणादिद्रव्यं इत्य-
मरः ॥ अतिथिसेवा च ॥ (“यथा हितोपदेशे ।
“अरावप्युचितं कार्य्यमातिथ्यं गृहमागते” ॥)

आतिथ्यः, पुं, अतिथिः । इति मेदिनी ॥

आतुः, पुं, (आङ् + तॄ + डुः ।) भेलकः । भेला माड

इत्यादि भाषा । इति शब्दमाला ॥

आतुरः, त्रि, (आङ् + तुर + क) रोगी । तत्पर्य्यायः ।

आमयावी २ विकृतः ३ व्याधितः ४ अपटुः ५
अभ्यमितः ६ अभ्यन्तः ७ । इत्यमरः ॥ (यथा हितो-
पदेशे । वैद्यानामातुरः श्रेयान् । यथा मनुः, ४ । १२९ ।
“न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि” ॥
आतुरावस्थास्वपि कार्य्याकार्य्यं प्रति कालाकाल-
संज्ञा । तद्यथा -- अस्यामवस्थायामस्य भेषजस्य
कालोऽकालः पुनरस्येति । एतदपि भवत्यवस्था-
विशेषेण तस्मादातुरावस्थास्वपि हि कालाकाल-
संज्ञा । तस्य परीक्षा मुहुर्म्मुहुरातुरस्य सर्व्वा-
वस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थं । न
ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्य-
मानं यौगिकं भवति । कालोहि भैषज्ययोग-
पर्य्याप्तिमभिनिर्व्वर्त्तयति ॥ इति चरकः ॥
आतुरमुपक्रममाणेन भिषजायुरेवादौ परीक्ष्येत ।
इति सुश्रुतः ॥)

आतृप्यं, क्ली, (आङ् + तृप् + क्यप् ।) फलविशेषः ।

आता इति भाषा । अस्य गुणाः । तृप्तिजनकत्वं ।
रक्तवर्द्धकत्वं । स्वादुत्वं । शीतलत्वं । बलमांस-
कारित्वं । हृद्यत्वं । दाहरक्तपित्तवायुनाशित्वञ्च ।
इति द्रव्यगुणः ॥

आतोद्यं, क्ली, (आङ् + तुद् + ण्यत् ।) वाद्यं । तच्च-

तुर्विधं । वीणादिवाद्यं ततं १ मुरजादिवाद्यं आनद्धं
२ वंश्यादिवाद्यं शुषिरं ३ कांस्यतालादिवाद्यं घनं
४ इत्यमरः ॥ (यथा रघवंशे । “स्रजमातोद्यशि-
रोनिवेशितां ।
“आतोद्यं ग्राहयामास समत्याजयदायुधं” ॥)

आत्तगन्धः, त्रि, (आत्तः अरिणा गृहीतः गन्धो गर्व्वो

यस्य सः बहुव्रीहिः ।) दूरीभूताहङ्कारः । तत्प-
र्य्यायः । अभिभूतः २ । इति हेमचन्द्रः ॥ गृहीत-
गन्धः ॥ (यथा रघुवंशे १३ । १७ ।
“पक्षच्छिदा गोत्रभिदात्तगन्धाः
शरण्यमेनं शतशो महीध्राः” ।)

आत्तगर्व्वः, त्रि, (आत्तः अरिणा गृहीतः गर्व्वो यस्य

सः बहुव्रीहिः ।) अरिणा गृहीतगर्व्वः । दूरी-
भूताहङ्कारः । भग्नदर्पः । इत्यमरः ॥

आत्मगुप्ता, स्त्री, (आत्मना गुप्ता । तृतीया तत्पुरुषः ।)

लताविशेषः । आलकुशी इति भाषा । तत्पर्य्यायः ।
मर्कटी २ कण्डुरा ३ अध्यण्डा ४ कच्छुरा ५
जटा ६ जडा ७ शुकशिम्बा ८ आमगुप्ता ९
ऋषभी १० कपिकच्छुरा ११ । इति रत्नमाला ।
(“माषैः समानं फलमात्मगुप्तं” । इति सुश्रुतः ।
विशेषोऽस्याः कपिकच्छुराशब्दे द्रष्टव्यः ।)

आत्मग्राही, [न्] त्रिः, (आत्मन् + ग्रह + णिन् ।)

आत्मम्भरिः । स्वार्थी ॥

आत्मघाती, [न्] त्रि, (आत्मन् + हन् + णिन् ।)

आत्महन्ता । यथा कूर्म्मपुराणे ॥
“व्यापादयेद्वृथात्मानं स्वयं योऽग्न्युदकादिभिः ।
विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकं” ॥
आत्महननकर्त्ता । अवैधबुद्धिपूर्ब्बकात्महननस्य
प्रायश्चित्तं यथा, --
“इन्द्रियैरपरित्यक्ता ये च मूढा विषादिनः ।
पृष्ठ १/१७१
:घातयन्ति स्वमात्मानं चण्डालादिहताश्च ये ॥
तेषां पुत्त्राश्च पौत्त्राश्च दयया समभिप्लुताः ।
यथ श्राद्धं प्रतन्वन्ति विष्णुनामप्रतिष्ठितं ॥
तथा ते संप्रवक्ष्यामि नमस्कृत्य स्वयम्भुवे” ।
इति हेमाद्रौ वृद्धशातातपेनोक्तम् ॥
“आत्मनो घातशुद्ध्यर्थं चरेच्चान्द्रायणद्वयं ।
तप्तकृच्छ्रचतुष्कञ्च त्रिंशत् कृच्छ्राणि वा पुनः ॥
अर्ब्बाक् संवत्सरात् कुर्य्याद्दहनादि यथोदितं ।
कृत्वा नारायणवलिमनित्यत्वात्तदायुषः” ॥
इदञ्चात्मबधनिमित्तं तज्जातिबधप्रायश्चित्तेन समु-
च्चितं कार्य्यम् । इति निर्णयसिन्धौ ५ परिच्छेदः ॥
अन्यत् पतितशब्दे द्रष्टव्यम् ॥ * ॥ आत्मत्यागिषु
विशेषमाह गौतमः । “प्रायोऽनाशकशस्त्राग्नि-
विषोदकोद्बन्धनप्रपतनैश्चेच्छताम्” इति । प्रायो
महाप्रस्थानं । अनाशकमनशनं । प्रपतनं शैल-
शिखरादवपातनं । इत्यादिनिमित्तैः शास्त्रावि-
हितमार्गेण इच्छापूर्ब्बकमृतानामशौचादिकं न
कर्त्तव्यमित्यर्थः । अङ्गिराः ।
“चाण्डालादुदकात् सर्पात् ब्राह्मणाद्वैद्युतादपि ।
दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्म्मिणां ॥
उदकं पिण्डदानञ्च प्रेतेभ्यो यत् प्रदीयते ।
नोपतिष्ठति तत्सर्व्वं अन्तरीक्षे विनश्यति” ॥
यथा मनुः ।
“वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ।
आत्मनस्त्यागिनां चैव निवर्त्तेतोदकक्रिया” ॥
वृथासङ्करजातानामिति वृथाजाताः पञ्चमहा-
यज्ञादिरहिताः । सङ्करजाताः प्रतिलोमजाः ॥ * ॥
प्रमादात् पूर्ब्बोक्तनिमित्तैर्म्मरणे विद्यते एवा-
शौचादिकं । अतएवाङ्गिराः ।
“अथ कश्चित् प्रभादेन म्रियेताग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं कर्त्तव्या चोदकक्रिया” ॥
चाण्डालादिमृताहिताग्नेरग्न्रादीनां प्रतिपत्तिकर्म्म
च स्मृत्यन्तरेऽभिहितं ।
“वैतानं प्रक्षिपेदप्सु आवसथ्यं चतुष्पथे ।
पात्राणि तु दहेदग्नौ यजमाने वृथामृते” ॥
वृथामृतः अविहितमार्गेण मृतः । तथा, --
“आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ।
तेषामपि च गड्गायास्तीरे संस्थापनं मतं” ॥
गङ्गेति पुण्यनद्युपलक्षणं ॥ * ॥ एवं पूर्ब्बोक्त-
निन्दितमरणे मृतानां स्नेहादिनाग्न्याद्यौर्द्ध्वदेहिक-
करणे स्मृत्यन्तरे प्रायश्चित्तमाम्नातं ।
“कृत्वाग्निमुदकं स्नानं स्पर्शनं हवनं तथा ।
“रज्जुच्छेदाश्रुपातञ्च तप्तकृच्छ्रेण शुद्ध्यति” ॥ इति ।
एतच्च बुद्धिपूर्ब्बे प्रत्येकमग्न्यादिकरणे ॥
अबुद्धिपूर्ब्बके तु संवर्त्तः ।
“एषामन्यतमं प्रेतं यो वहेत दहेत वा ।
कटोदकक्रियां कृत्वा कृच्छ्रं सान्तपनं चरेत्” ॥
यच्च सुमन्त्वादिर्मासं भैक्षाहारस्त्रिसवनञ्च ।
तथा एकरात्राभोजनादिकं चाभिहितं तदशक्त-
विषये देशकालाद्यपेक्षानुसारेण योजनीयं ॥ * ॥
यस्तु वृद्धादिर्लुप्तभिषक्क्रियस्तस्यात्महननमप्यनु-
ज्ञातमादिपुराणे ।
“वृद्धः शौचस्मृतेर्लुप्तः प्रत्याख्यातभिषक्क्रियः ।
आत्मानं घातयेद्यस्तु भृग्वन्यनशनाम्बुभिः ॥
तस्य त्रिरात्रमाशौचं द्वितीये त्वस्थिसञ्चयः ।
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धमारभेत्” ॥
तथा, --
“गच्छेत् महापथं वापि तुषारगिरिमादरात् ।
प्रयागे वटशाखायां देहत्यागं करोति यः ॥
स्वयं देहविनाशस्य काले प्राप्ते महामतिः ।
उत्तमान् प्राप्नुयाल्लोकान्नात्मघाती भवेत् क्वचित् ॥
एतेषामधिकारस्तु सर्व्वेषां सर्व्वजन्तुषु ।
नराणामथ नारीणां सर्व्ववर्णेषु सर्व्वदा ॥
अशौचं स्यात् त्र्यहं तेषां वज्रानलहतेषु च ।
वाराणस्यां म्रियेद्यस्तु प्रत्याख्यातभिषक्क्रियः ॥
प्रणवं तारकं ब्रूते नान्यथा कस्यचित् क्वचित्” ।
विवस्वान् ।
“सर्व्वेन्द्रियविमुक्तस्य स्वव्यापाराक्षमस्य च ।
प्रायश्चित्तमनुज्ञातमग्निपातो महापथः” ॥
धर्म्मार्ज्जनासमर्थस्य द्वादशवार्षिकादिरूपप्राय-
श्चित्तासमर्थस्य । एवं शास्त्राविहितमार्गेण मृता-
नां चाण्डालादिमृतानां संवत्सरादूर्द्ध्वमौर्द्ध्वदेहिकं
कार्य्यं । षट्त्रिंशन्मते ।
“गोब्राह्यणहतानाञ्च पतितानां तथैव च ।
ऊर्द्धं संवत्सरात् कुर्य्यात् सर्व्वमेवौर्द्ध्वदेहिकं” ॥ * ॥
अत्रापरं विशेषमाह पराशरः ।
“चाण्डालेन श्वपाकेन गोभिर्व्विप्रैर्हतो यदि ।
आहिताग्निर्मृतो विप्रो विशेषेणात्मघातकः ॥
दहेत ब्राह्मणं विप्रो लोकाग्नौ मन्त्रवर्ज्जितं ।
दग्ध्वास्थीनि पुनर्गृह्य क्षीरेण क्षालयेत्ततः ॥
स्वेनाग्निना स्वमन्त्रेण पृथगेतत् पुनर्द्दहेत्” ॥ * ॥
संवत्सरादर्व्वागपि तत्तत्पापानुसारेण द्विगुणादि-
प्रायश्चित्तं विधाय नारायणवलिञ्च कृत्वा और्द्ध्व-
देहिकं कार्य्यं । आयुषोऽनित्यत्वेन संवत्सरानन्तर-
मौर्द्ध्वदेहिकादिलोपप्रसङ्गात् । तच्च नारायण-
वलिं कृत्वा । तथा च वृद्धयाज्ञवल्क्यः ।
“नारायणवलिः कार्य्यो लोकगर्हाभयान्नरैः ।
तथा तेषां भवेत् शौचं नान्यथेत्यब्रवीद्यमः” ॥
नारायणवलौ कृते ऐर्द्ध्वदेहिककरणे भवती-
त्यर्थः ॥ * ॥ सर्पहते तु विशेषः । संवत्सरं यावत्
पञ्चम्यां नागपूजां विधाय तदनन्तरं नारायण-
वलिं कृत्वा सौवर्णनागं प्रत्यक्षां गाञ्च व्यासोद्दे-
शेन ब्राह्मणाय दत्त्वा ऐर्द्ध्वदेहिकं कुर्य्यात् ॥ * ॥
नारायणवलिस्वरूपञ्च विष्णुनाभिहितं ।
“एकादशीं समासाद्य शुक्लपक्षस्य वै तिथिं ।
विष्णुं समर्च्चयेद्देवं यमं वैवस्वतं तथा ॥
दशपिण्डान् घृताभ्यक्तान् दर्भेषु मधुसंयुतान् ।
तिलमिश्रान् प्रदद्याद्वै संयतो दक्षिणामुखः ॥
विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् ।
नामगोत्रग्रहं कृत्वा पुष्पैरभ्यर्च्चनं ततः ॥
धूपदीपप्रदानञ्च भक्ष्यभोज्यं तथापरं ।
विद्यातपःसमृद्धान् वै कुलोत्पन्नान् समाहितान् ॥
निमन्त्रयेत विप्रान् वै पञ्च सप्त नवापि वा ।
अपरेऽहनि सम्प्राप्ते मध्याह्ने समुपोषितः ॥
विष्णोरभ्यर्च्चनं कृत्वा विप्रांस्तानुपवेशयेत् ।
उदङ्मुखान् यथाज्येष्ठं पितृरूपमनुस्मरन् ॥
मनो निवेश्य विष्णौ वै सर्व्वं कुर्य्यादतन्द्रितः ।
आवाहनादि यत् प्रोक्तं दैवपूर्ब्बं तदाचरेत् ॥
तृप्तान् ज्ञात्वा ततो विप्रस्तृप्तिं पृष्ट्वा यथाविधि ।
हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥
पञ्च पिण्डान् प्रदद्याच्च दैवरूपमनुस्मरन् ।
प्रथमं विष्णवे दद्यात् ब्रह्मणे च शिवाय च ॥
यमाय सानुसाराय चतुर्थं पिण्डमुत्सृजेत् ।
मृतं संकीर्त्य मनसा गोत्रपूर्ब्बमतःपरं ॥
विष्णोर्नाम गृहीत्ववं पञ्चमं पूर्ब्बवत् क्षिपेत् ।
विप्रानाचम्य विधिवत् दक्षिणाभिः समर्च्चयेत् ॥
एकं वृद्धतमं विप्रं हिरण्येन समर्च्चयेत् ।
गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरेत् ॥
ततस्तिलाम्भो विप्रास्तु हस्तैर्द्दर्भसमन्वितैः ।
क्षिपेयुर्गोत्रपूर्ब्बन्तु नाम बुद्धौ निवेश्य च ॥
हविर्गन्धतिलाम्भस्तु तस्मै दद्युः समाहिताः ।
मित्रभृत्यजनैः सार्द्धं पश्चाद्भुञ्जीत वाग्यतः” ॥
भविष्यपुराणे ।
“सुवर्णतारनिष्पन्नं नागं कृत्वा तथैव गां ।
व्यासाय दत्त्वा विधिवत् पितुरानृण्यमाप्तवान्” ॥
इति मदनपारिजाते ५ स्तवकः ॥

आत्मघोषः, पुं, (आत्मानं घोषयतीति । आत्मन् +

घुष् + अण् ।) काकः । इत्यमरः ॥ कुक्कुटः । इति
शब्दचन्द्रिका ॥

आत्मजः, पुं, (आत्मन् + जन् + डः । आत्मा वै जायते

पुत्र इति श्रुतेः ।) पुत्रः । इत्यमरः ॥ मनुः, १७ । १४ ।
“तस्यार्थे सर्व्वभूतानां गोप्तारं धर्म्ममात्मजं” ।
यथा रामायणे, --
“दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजां” ॥)

आत्मजन्मा [न्] पुं, (आत्मनः जन्म यस्य सः बहु-

व्रीहिः ।) पुत्त्रः । इति शब्दरत्नावली ॥
यथा कुमारसम्भवे, ६ । २८ ।
“अत आहर्त्तुमिच्छामि पार्ब्बतीमात्मजन्मने” ।
यथा रघुवंशे, १ । ३३ ।
“तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः” ॥)

आत्मजा, स्त्री, (आत्मन् + जन् + ड + आप् ।) कन्या ।

इत्यमरः ॥ बुद्धिः । इति शब्दरत्नावली ॥

आत्मतत्त्वं, क्ली, (आत्मनः तत्वं स्वरूपम् ।) तत्तद्भा-

सकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्चैतन्यमे-
वात्मतत्त्वं । पुत्रादिभासकं नित्यशुद्धत्वादिस्वरूप-
मेवात्मवस्त्विति यावत् । एतद्विवरणं यथा ।
“इदानीं प्रत्यगात्मनि इदमिदमयमयमारोपय-
तीति विशेष उच्यते । तथाच । अतिप्राकृतस्तु
आत्मा वै जायते पुत्र इत्यादि श्रुतेः स्वस्मिन्निव
स्वपुत्त्रेऽपि प्रेमदर्शनात् पुत्त्रे पुष्टे नष्टेऽहमेव
पुष्टो नष्टश्चेत्याद्यनुभवाच्च पुत्त्र आत्मेति वदति ॥
१ ॥ चार्व्वाकस्तु स वा एष पुरुषोऽन्नरसमय
इत्यादि श्रुतेः प्रदीप्तगृहात् स्वपुत्त्रं परित्यज्यापि
स्वस्य निर्गमदर्शनात् स्थूलोऽहं कृशोऽहं इत्याद्य-
नुभवाच्च स्थूलशरीरमात्मेति वदति ॥ २ ॥ अप-
रश्चार्व्वाकः तेऽप्राणाः प्रजाप्रतिं समेत्य ब्रूयु
पृष्ठ १/१७२
:रित्यादिश्रुतेः इन्द्रियाणामभावे शरीरचलना-
भावात् काणोऽहं वधिरोऽहं इत्याद्यनुभवाच्च
इन्द्रियाण्यात्मेति वदति ॥ ३ ॥ अन्यस्तु चार्व्वाकः
अन्योऽन्तर आत्मा प्राणमय इत्यादिश्रुतेः प्राणा-
भावे इन्द्रियचलनायोगात् अहमशनायावानहं
पिपासावान् इत्याद्यनुभवाच्च प्राण आत्मेति वदति
॥ ४ ॥ इतरस्तु चार्व्वाकः अन्योऽन्तर आत्मा
मनोमय इत्यादिश्रुतेः मनसि सुप्ते प्राणादेर-
भावात् अहं सङ्कल्पवानहं विकल्पवानित्याद्यनु-
भवाच्च मन आत्मेति वदति ॥ ५ ॥ बौद्धस्तु अन्यो
ऽन्तर आत्मा विज्ञानमय इत्यादिश्रुतेः कर्त्तुरमावे
करणस्य शक्त्यभावात् अहं कर्त्ताहं भोक्ता इत्या-
द्यनुभवाच्च बुद्धिरात्मेति वदति ॥ ६ ॥ प्राभाकर-
तार्किकौ तु अन्योऽन्तर आत्मा आनन्दमय
इत्यादिश्रतेः सुषुप्तौ बुद्ध्यादीनामज्ञाने लयदर्श-
नात् अहमज्ञोऽहं ज्ञानीत्याद्यनुभवाच्च अज्ञान-
मात्मेति वदतः ॥ ७ ॥ भट्टस्तु प्रज्ञानघन एवानन्द-
मय आत्मेत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्-
भावात् मामहं न जानामि इत्याद्यनुभवाच्च अज्ञा-
नोपहितं चैतन्यमात्मेति वदति ॥ ८ ॥ अपरबौद्धः
असदेवेदमग्र आसीदित्यादिश्रुतेः सुषुप्तौ सर्व्वा-
भावादहं सुप्तः सुषुप्तौ नासमित्युत्थितस्य स्वाभाव-
परामर्शविषयानुभवाच्च शून्यमात्मेति वदति ॥ ९ ॥
एतेषां पुत्त्रादीनां शून्यपर्य्यन्तानामनात्मत्व-
मुच्यते । एतैरतिप्राकृतादिवादिभिरुक्तेषु श्रुति-
युक्त्यनुभवाभासेषु पूर्ब्बपूर्ब्बोक्तश्रुतियुक्त्यनुभवाभासा-
नामुत्तरोत्तरश्रुतियुक्त्यानुभवाभासैरात्मबाधदर्श --
नात् पुत्त्रादीनामनात्मत्वं स्पष्टमेवेति ॥ * ॥ किञ्च
प्रत्यगस्थूलोऽचक्षुरप्राणोऽमना अकर्त्ता चैतन्यं
चिन्मात्रं सदित्यादिप्रबलश्रुतिविरोधात् अस्य
पुत्त्रादिशून्यपर्य्यन्तस्य जडस्य चैतन्यभास्यत्वेन
घटादिवदनित्यत्वात् अहं ब्रह्मेति विद्वदनुभव
प्राबल्याच्च तत्तच्छ्रुतियुक्त्यनभवाभासानां बाधित-
त्वादपि पुत्त्रादिशून्यपर्य्यन्तमखिलमनात्मैव । अत-
स्तत्तद्भासकं नित्यशुद्धबुद्धमुक्तसत्यस्वभावं प्रत्यक्-
चैतन्यनेवात्मतत्त्वमिति वेदान्तविदनुभवः” । इति
वेदान्तसारः (५० -- ५८) ।

आत्मदर्शः, पुं, (आत्मन् + दृश् + घः ।) दर्पणं । इति

हेमचन्द्रः ॥ (यथा रघुवंशे । “निश्वासवाष्पापगमा-
त्प्रपन्नः । प्रसादमात्मीयमिवात्मदर्शः” ।)

आत्मनीनं, त्रि, (आत्मन् + खः ।) आत्मने हितं ।

इति व्याकरणं ॥ पथ्यं । इति राजनिर्घण्टः ॥
(“भजनिर्वृतिमात्मनीनाम्” । इति प्रबोधचन्द्रो-
दयः ।)

आत्मनीनः, पुं, (आत्मन् + ख ।) सुतः । श्यालः ॥

प्राणाधारः । विदूषकः । इत्यजयः ॥

आत्मबन्धुः, पुं, (आत्मनः बन्धुः । षष्ठीतत्पुरुषः ।

यदुक्तं “आत्ममातृष्वसुः पुत्त्रा आत्मापितृष्वसुः
सुताः । आत्ममातुलपुत्त्राश्च विज्ञेया आत्म-
वान्धवाः” ।) पितृष्वसृपुत्त्रः । मातुलपुत्त्रः । मातृ-
ष्वसृपुत्त्रः । इति म्मृतिः ।

आत्मवीरः, पुं, (आत्म वीरैव यस्य । प्राणवान् ।

श्यालकः । विदूषकः । इति मेदिनी ॥

आत्मभूः, पुं, (आत्मन् + भू + क्विप् ।) ब्रह्मा । काम-

देवः । इत्यमरः ॥ विष्णुः । शिवः । इति शब्द-
रत्नावली ॥
(यथा रघुवंशे १० । २० ।
“सर्व्वज्ञस्त्वमविज्ञातः सर्व्वयोनिस्त्वमात्मभूः” ।)

आत्ममूली, स्त्री, (आत्मन् + मूल + ङीप् ।) दुरा-

लभावृक्षः । इति शब्दमाला ॥ (दुरालभाशब्दे
ऽस्याविशेषोज्ञेयः ।)

आत्मम्भरिः, त्रि, (आत्मानं बिभर्त्तीति, आत्मन्

+ भृ + इन् + मुम् ।) आत्मोदरमात्रभरणकर्त्ता ।
तत्पर्य्यायः । कुक्षिम्भरि २ स्वोदरपूरकः ३ ।
इत्यमरः ॥ (आद्यूनः, परार्थवैमुख्येन स्वार्थ-
साधनपरः । यथा भट्टिकाव्ये । “आत्मम्भरिस्त्वं
पिशितैर्नराणां” ॥ यथा हितोपदेशे ।
“शिष्टैरप्यविशेषज्ञ उग्रश्च कृतनाशकः ।
त्यज्यते किं पुनर्नान्यैः पत्न्याप्यात्मम्भरिर्नरः” ॥)

आत्मयोनिः, पुं, (आत्मैव योनिरुपादानकारणमस्य

बहुब्रोहिः ॥) ब्रह्मा । विष्णुः । शिवः । कामदेवः ।
इति मेदिनीशब्दरत्नावल्यौ (यथा कुमारे ३ । ७० ।
“ददर्श चक्रीकृतचारुपापं
प्रहर्त्तुमभ्युद्यतमात्मयोनिं” ॥)

आत्मरक्षा, स्त्री, महेन्द्रवारुणीवृक्षः । इति राज-

निर्घण्टः ॥ (आत्मशरीररक्षणं ।)

आत्मशल्या, स्त्री, शतावरी । इति राजनिर्घण्टः ॥

आत्मश्लाघा, स्त्री, (आत्मनः श्लाघा ।) आत्मगर्व्वः ।

स्वीयप्रशंसा ॥

आत्महत्या, स्त्री, (आत्मनः हत्या ।) आत्मघातः ।

स्वबधः ॥

आत्महा, [न्] पुं, (आत्मन् + हन् + क्विप् ।) देवलः ।

इति शब्दरत्नावली ॥ आत्मघाती । “नृदेहमाद्यं
सुलमं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारं । मया-
नुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स
आत्महा” ॥ इति श्रीभागवतं ॥ (अपरञ्च यथा,
“लब्धा कथञ्चित् नरजन्म दुर्लभं तत्रापि पुंस्त्वं
श्रुतिपारदर्शनं । यस्त्वात्ममुक्त्यै न यतेत मूढधीः
स आत्महा स्वं विनिहन्त्यसद्ग्रहात्” ॥)

आत्मा, [न्] पुं, (अतति सन्ततभावेन जाग्रदादि-

सर्व्वावस्थासु अनुवर्त्तते, अत सातत्यगमने +
मनिण् ।) यत्नः । धृतिः । बुद्धिः । स्वभावः ।
ब्रह्म । देहः । इत्यमरः ॥ मनः । इति मेदिनी ॥
परव्यावर्त्तनं । इति धरणी ॥ पुत्त्रः । इति
शब्दरत्नावली ॥ जीवः । अर्कः । हुताशनः ।
वायुः । इति हेमचन्द्रः ॥
(“आत्मज्ञः करणैर्योगात् ज्ञानं तस्य प्रवर्त्तते” ।
“अय्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः” ।
“चेतवान् यतश्चात्मा ततः कर्त्ता निरुच्यते” ।
“देही सर्व्वगतोह्यात्मा स्वेस्वे संस्पर्शनेन्द्रिये ।
सर्व्वाः सर्व्वाश्रयस्थास्तु नात्मातो वेत्ति वेदनाः” ॥
“विभुत्वमतएवास्य यस्मात् सर्व्वगतो महान् ।
मनसश्च समाधानात् पश्यत्यात्मा तिरस्कृतं” ॥
“आदिर्नास्त्यात्मनः क्षेत्रपारम्पर्य्यमनादिकं” ।
“स सर्व्वगः सर्व्वशरीरभृच्च,
स विश्वकर्म्मा स च विश्वरूपः ।
स चेतनाधातुरतीन्द्रियश्च,
स नित्ययुक् सानुशयः सएव ॥
रसात्ममातापितृसम्भवानि,
भूतानि विद्याद्दश षट् च देहे ।
चत्वारि तत्रात्मनि संश्रितानि,
स्थितस्तथात्मा च चतुर्षु तेषु ॥
भूतानि मातापितृसम्भवानि,
रजश्च शुक्रञ्च वदन्ति गर्भे ।
आप्याय्यते शुक्रमसृक्सुभूतै-
र्यैस्तानि भूतानि रसोद्भवानि ॥
भूतानि चत्वारि तु कर्म्मजानि,
यान्यात्मलीनानि विशन्ति गर्भं ।
सवीजधर्म्माह्यपरापराणि,
देहान्तराण्यात्मनि याति याति ॥
रूपाद्विरूपप्रभवः प्रसिद्धः,
कर्म्मात्मकानां भनसो मनस्तः ।
भवन्ति येत्वाकृतिबुद्धिभेदाः
रजस्तमस्तत्र च कर्म्महेतुः ॥
अतीन्द्रियैस्तैरतिसूक्ष्मरूपै
रात्मा कदाचिन्न वियुक्तरूपः ।
न कर्म्मणा नैव मनोमतिभ्यां
न चाप्यहङ्कारविकारदोषैः” ॥
इति चरकः ॥
“यदा यदात्माकृतिमानयं भवे-
त्तदा मनस्तत्त्वधितिष्ठतीन्द्रियं ।
ततो मनोऽधिष्ठितमिन्द्रियं घटे-
प्रवर्त्तते संशयबुद्धिसम्भवे” ॥
इति वैद्यकवादार्थदर्पणं ॥)

आत्माधीनः, पुं, (आत्मनोऽधीनः ।) पुत्त्रः । प्राणा-

धारः । श्यालकः । विदूषकः । इति हेमचन्द्रः ॥

आत्माशी, [न्] पुं, (आत्मन् + अश + णिन् ।)

मत्स्यः । इति त्रिकाण्डशेषः ॥

आत्माश्रयः, पुं, (आत्मा आश्रयो यस्य सः ।) तर्क-

विशेषः । तस्य लक्षणं । स्वापेक्षापादकप्रसङ्गत्वं ।
अपेक्षा च ज्ञाप्तौ उत्पत्तौ स्थितौ च ग्राह्या ।
तत्र्याद्या यथा । एतद्घटज्ञानं यद्येतद्घटज्ञानजन्यं
स्यात् एतद्घटज्ञानभिन्नं स्यात् । द्वितीया तु घटो-
ऽयं यद्येतद्घटजनकः स्यात् एतद्घटभिन्नः स्यात् ।
तृतीया च अयं घटो यद्येतद्घटवृत्तिः स्यात्
तथात्वेनोपलभ्येत इति ॥

आत्मीयः, त्रि, (आत्मन् + छ ।) स्वकीयः । अन्त-

रङ्गः । इति हेमचन्द्रः ॥ (यथा रघुवंशे ।
“प्रसादमात्मीयमिवात्मदर्शः” ।
कुमारसम्मवे । २ । १९ ॥
“किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा” ।)

आत्मोद्भवा, स्त्री, (आत्मनः उद्भवो यस्याः सा ।)

माषपर्णो । इति राजनिर्घण्टः ॥ कन्या । पुत्त्रे, पुं ॥
(माषपर्णीशब्देऽस्या विशेषो ज्ञातव्यः ।)

आत्रेयः, पुं, (अत्रेरपत्यं पुमान् । अत्रि + ढक् ।)

अत्रिमुनिपुत्त्रः । स च दत्तः । दुर्व्वासाः । चन्द्रश्च ।
पृष्ठ १/१७३
:इति मेदिनी ॥ शरीरस्थरसधातुः । इति
हेमचन्द्रः ॥

आत्रेयिका, स्त्री, (अत्रि + ढक् + कन् + टाप् ।)

ऋतुमती । इति हलायुधः ॥

आत्रेयी, स्त्री, (अत्रि + ढक् + ङीप् ।) पुष्पवती स्त्री ।

(यथाह अङ्गिराः, --
“आहिताग्नेर्ब्राह्मणस्य हत्वा पत्नीमनिन्दिताम् ।
ब्रह्महत्याव्रतं कुर्य्यात् आत्रेयीघ्नस्तथैव च” ॥)
नदीविशेषः । इति मेदिनी ॥ (अत्रिमुनिपत्नी ।)
यथा भारते, --
“सरयूर्वारवत्या च लाङ्गली च सरिद्वरा ।
करतोया तथात्रेयी लौहीत्यश्च महानदः” ॥)

आथर्व्वणं, क्ली, (अथर्व्वन् + अण् ।) अथर्व्वणां

समूहः । अथर्व्वनाम्ना मुनिना प्रोक्तो वेदः
अथर्व्वा तेषां सङ्घः । इत्यमरः ॥ शान्तिगृहं ।
इति हेमचन्द्रः ॥ (यथा महावीरचरिते ।
“आथर्व्वणस्तीव्र इवाभिचारः” ।)

आथर्व्वणः, पुं, (अथर्व्व वेत्तीति । अथर्व्वन् + अण् ।)

पुरोहितः । अथर्व्ववेदक्षब्राह्मणः । इति हेमचन्द्रः ॥

आदरः, पुं, (आङ् + दॄ + अप् ।) आरम्भः । इति

त्रिकाण्डशेषः ॥ समादरः । सम्मानः ॥ (यथा
किरातार्ज्जुनीये ५ । १६ ।
“स जगदे वचनं प्रियमादरात्
मुखरतावसरे हि विराजते” ।
कुमारसम्भवे ६ । १३ ।
“तद्दर्शनादभूत् शम्भोर्भूयान् दारार्थमादरः” ।
हितोदेशे ।
“सन्तुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः” ।)

आदर्य्यः, त्रि, (आङ् + दृ + ण्यत् ।) आदरणीयः ।

आदर्त्तव्यः ॥ आदरीपयुक्तः ॥

आदर्शः, पुं, (आङ् + दृश् + घञ् ।) दर्पणं । टीका ।

प्रतिपुस्तकं । इति मेदिनी ॥ (यथा भगवद्गीतायां ।
“धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्वनेनावृतो गर्भस्तथा तेनेदमावृतं” ॥)
आदानं, क्ली, (आङ्दा + ल्युट् ।) ग्रहणं । अश्वा-
भरणं । इति मेदिनीहेमचन्द्रौ ॥ रोगलक्षणं ।
इति राजनिर्घण्टः । (स्वीकारः प्रतिग्रहः ।
यथा कुमारंसम्भवे ५ । ११ ॥
“कुशाङ्कुरादानपरिक्षताङ्गुलिः” ॥ मनुः, ७ । २०४ ।
“आदानमप्रियकरं दानञ्च प्रियकारकं ।
अभीप्सितानामर्थानां काले युक्तं प्रशस्यते” ॥)

आदानी, स्त्री, (आ + दा + ल्युट् + ङीप् ।) हास्त-

घोषावृक्षः । इति रत्नमाला ॥

आदिः, पुं, (आङ् + दा + कि ।) पूर्ब्बः । प्रथमः ।

इत्यमरः ॥ पदान्ते गणसूचकः । यथा इत्यादिः ॥
(प्रारम्भः । प्राक्सत्ता । नियतपूर्ब्बवत्तिकारणं ।
उत्पत्तिहेतुः । सामीप्ये । व्यवस्थायां । प्रकारे,
अवयवार्थे च आदिशब्दस्य प्रयोगो भवति ।
यदुक्तं, --
“सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा ।
आदिशब्दं तु मेधावी चतुर्ष्वर्थेषु लक्षयेत्” ॥
यथा मानवे १ । ८ ।
“अपएव ससर्ज्जादौ तासु वीजमवासृजत्” ।
कुभारे १ । ९ । “जगदादिरनादिस्त्वं” ॥)

आदिकविः, पुं, (आदिः प्रथमः कविः ।) ब्रह्मा-

इति श्रीभागवतं ॥ वाल्मीकिमुनिः । इति हेम-
चन्द्रः ॥ (“तेने ब्रह्महृदा य आदिकवये मुह्यन्ति
यत् सूरयः” । इति भागवते १ । ४ ।)

आदिकारणं, क्ली, (आदि आद्यं कारणम् ।) पूर्ब्ब-

निमित्तं । मूलहेतुः । तत्पर्य्यायः । निदानं २ ।
इत्यमरः ॥

आदिगदाधरः, पुं, (आदिराद्यः आदौ पूजितो वा

गदाधरः ।) गयास्थदेवताविशेषः । यथा, --
“गयाशिरश्छादयित्वा गुरुत्वादास्थिता शिला ।
कालान्तरेण व्यक्तश्च स्थित आदिगदाधरः ॥
तथा व्यक्तोऽव्यक्तरूपी आसीदादौ गदाधरः ।
आदिरादौ पूजितोऽत्र देवैर्ब्रह्मादिभिर्यतः ॥
पाद्याद्यगन्धपुष्पाद्यैरत आदिगदाधरः” ॥
इति गारुडे गयामाहात्म्ये ८५ अध्यायः ॥
अपिच
“गदयादाववष्टभ्य गयासुरशिरःशिलां ।
निश्चलार्थंस्थितो यस्मात्तस्मादादिगदाधरः” ॥
इति वायुपुराणीयगयामाहात्म्ये ८ अध्यायः ॥

आदितालः, पुं, (आदिराद्यस्तालः ।) तालविशेषः ।

यथा, -- सङ्गीतदामोदरः ।
“एकएव लघुर्यत्र आदितालः स कथ्यते ।
गुरुस्तत् पुरतो वाच्यः प्रायेणैतन्निदर्शनं” ॥ इति ।

आदितेयः, पुं, (अदितेरपत्यं पुमान् । अदिति +

ढक् ।) अदितिपुत्त्रः । देवः । इत्यमरः ॥

आदित्यः, पुं, (अदितेरादित्यस्य वा अपत्यं + ण्यः ।)

देवः । सूर्य्यः । इत्यमरमेदिन्यौ ॥ द्वादशादित्य-
गणे बहुवचनान्तः । इत्यमरः ॥ तत्प्रत्येकनामानि ।
विवस्वान् १ अर्य्यमा २ पूषा ३ त्वष्टा ४ सविता
५ भगः ६ धाता ७ विधाता ८ वरुणः ९ मित्रः
१० शक्रः ११ उरुक्रमः १२ । एते कश्यपात्
अदितिभार्य्यायां जाताः । कल्पान्तरे त्वष्टृकन्या
संज्ञा आदित्यपत्नी आदित्यस्य तेजः सोढुमस-
मर्था अतस्तस्याः पितृकृतादित्यद्वादशखण्डा द्वा-
दशादित्याः । तेषां द्वादशमासेष्वेकैकस्योदयः ।
इति पुराणं ॥ अर्कवृक्षः । इत्यमरः ॥ आकन्द
इति भाषा । (“आदित्यमण्डलस्थितो हिरण्म-
योविष्णुः” । यथा शान्तिशतके । ४ । २४ ।
“आदित्यस्य गतागतैरहरहःसंक्षीयते जीवितं” ।
भारते ।
“आदित्यचन्द्रावनिलाऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च” ।
हरिवंशे द्वादशादित्यकथा यथा ।
“मरीचात् कश्यपाज्जातास्तेऽदित्या दक्षकन्यया ।
तत्र शक्रश्च विष्णुश्च जज्ञाते पुनरेवह ॥
अर्य्यमा चैव धाता च त्वष्टा पूषा च भारत ।
विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः” ॥
तस्य संवत्सरात्मनो भगवानादित्यो गतिविशे-
षेणाक्षिनिमेषकाष्ठाकलामुहूर्त्ताहोरात्रपक्षमास-
र्त्त्वयनसंवत्सरयुगप्रविभागं करोति ॥ इति सुश्रुतः)

आदित्यपत्रः, पुं, (आदित्यवृक्षस्य पत्रमिव पत्रमस्य ।)

क्षुपविशेषः । तत्पर्य्यायः । अर्कपत्रः २ अर्कदलः ३
सूर्य्यपत्रः ४ तपनच्छदः ५ कुष्ठारिः ६ विटपः ७
सुपत्रः ८ रविप्रियः ९ रश्मिपतिः १० रुद्रः ११ ।
अस्य गुणाः । कटुत्वं । उष्णवीर्य्यत्वं । कफवात-
रोगजाठरगुल्मारोचकनाशित्वं । अग्निसन्दी-
पनत्वञ्च । इति राजनिर्घण्टः ॥

आदित्यपुष्पिका, स्त्री, (आदित्यवत् लीहितं पुष्प-

मस्याः ।) लीहितार्कवृक्षः । इति रत्नमाला ॥
राङ्गा आकन्द इति भाषा ।

आदित्यभक्ता, स्त्री, (आदित्यस्य भक्ता ।) ओषधी-

विशेषः । हुडहुडिया इति भाषा । तत्पर्य्यायः ।
वरदा २ अर्कभक्ता ३ सुवर्च्चला ४ सूर्य्यलता ५
सूर्य्यावर्त्ता ६ अर्ककान्ता ७ मण्डूकपर्णी ८ सुर-
सम्भवा ९ सौरी १० सुतेजाः ११ अर्कहिता ११
वरिष्ठा १३ मण्डूकी १४ सप्तनामा १५ देवी ६२
मार्त्तण्डवल्लभा १७ विक्रान्ता १८ भास्करेष्टा १९ ।
अस्या गुणाः । हिमत्वं । तिक्तत्वं । कटुत्वं ।
उग्रत्वं । कफत्वग्दोषकण्डूब्रणकुष्ठभूतग्रहोग्रशीत-
ज्वरनाशित्वञ्च । अन्यच्च । स्वादुपाकरसत्वं ।
गुरुत्वं । अपित्तवर्द्धकत्वं । क्षाररसत्वं । विष्टम्भ-
वातनाशित्वञ्च । इति राजनिर्घण्टः ॥

आदित्यसूनुः, पुं, (अदितेरपत्यं पुमान् आदित्यः

सूर्य्यः तस्य सूनुः षष्ठीतत्पुरुषः ।) सुग्रीववानरः ।
इति हेमचन्द्रः ॥ यमः । शनैश्चरः । सावर्णिमनुः ।
वैवस्वतमनुः । इति पुराणं ॥ (कर्णः ।)

आदिदेवः, पुं, (आदिः कारणं स च देवश्चेति कर्म्म-

धारयः ।) नारायणः । इति त्रिकाण्डशेषः ॥ (जग-
दुपादानादिगुणवान् वासुदेवः विष्णुः, महादेवः,
ब्रह्मा च यथा, भगवद्गीतायां, १० । १२ ।
“परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुं ॥
त्वमादिदेवः पुरुषः पुराण-
स्त्वमस्य विश्वस्य परं निधानं” ॥
यथा, महाभारते, -- सूर्य्यस्य नामाष्टशतमध्ये
परिगणितो नामभेदः ।
“ध्वन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सूतः” ॥)

आदिमं, त्रि, (आदौ भवं अग्रादिपश्चात् डिमच् ।

यद्वा मध्यान्म इत्यत्रादेश्चेति वचनात् मः ।) आद्यं ।
प्रथमभववस्तु । इत्यमरटीका व्याकरणञ्च ॥
(यथाह भाषापरिच्छेदे, --
“एते पञ्चान्यथासिद्धा दण्डावादिकमादिमम्” ।
“आदिमः श्येनशैलादिसंयोगः परिकीर्त्तितः” ॥)

आदिराजः, पुं, (आदिः प्रथमः राजा इति राजहः-

सखिभ्यष्टच् ।) पृथुराजः । इति हेमचन्द्रः ॥ (मही-
क्षितामाद्यो वैवस्वतो ममुः । अविक्षित्पुत्त्रः स्वना-
मख्यातः पौरवो राजा । यथा, रामायणे ।
“आदिराजो मनुरिव प्रजानां परिरक्षिता” ॥
महाभारते ।
“अविक्षितः परिक्षित्तु शवलाश्वश्च वीर्य्यबान् ।
आदिराजो विरागश्च शाल्मलिश्च महाबलः” ॥)
पृष्ठ १/१७४

आदिवराहः, पुं, (आदिः कारणं स च वराहश्चेति

कर्म्मधारयः ।) विष्णुः । इति त्रिकाण्डशेषः ॥
अदिशूकरः । आद्यकोलः ॥

आदिष्टं, क्ली, (आङ् + दिश् + क्तः ।) उच्छिष्टं ।

इति मेदिनी ॥

आदिष्टः, त्रि, (आङ् + दिश् + क्त ।) आदेशितः ।

आज्ञाप्तः इति मेदिनो । (नियोजितः, उपदिष्टः,
अनुशासितः, अभिहितः ।)

आदीनवः, पुं, (दीङ्क्षये भावे क्तः । स्वादय ओदितः,

ओदितश्चेति नत्वं । आदीनस्य वा नम् । घञर्थे
क इति बाहुलकात् वातेः कः ।) क्लेशः । इत्यमरः ॥
दोषः । दुरन्तः । इति मेदिनी ॥ (यथा, शिशु-
पालबधे २ । २२ ।
“यद्वासुदेवेनादीनमनादीनवमीरितं” ।)

आदीपनं, क्ली, (आदीप्यते आङ् + दीप् + भावे

ल्युट् ।) आलिम्पना । इति त्रिकाण्डशेषः ॥ आ-
लिपना इति भाषा ।

आदृतः, त्रि, (आङ् + दृञ् + आद्रियते यः कर्म्मणि

क्तः ।) कृतादरः । सादरः । अर्च्चितः । पूजितः ।
इत्यमरः ॥ (सावधानः, अवहितः, अप्रमत्तः ।
यथा, पञ्चतन्त्रे,
“आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति” ।)

आदृत्यः, त्रि, (आङ् + दृ + क्यप् ।) आदरणीयः ।

आदरयोग्यः ॥

आदेशः, पुं, (आङ् + दिश् + भावे घञ् ।) आज्ञा ।

इति हेमचन्द्रः ॥ ज्योतिःशास्त्रफलं । इति सि-
द्धान्तशिरोमणिः ॥ वर्णस्य वर्णान्तरोत्पत्तिः । प्र-
कृतिप्रत्ययोपधातिकार्य्यं । इति व्याकरणं ॥ (अनु-
मतिः, शासनं, उपदेशः, शास्त्राचार्य्योपदेश-
गम्यो वार्त्तासञ्चारः, कार्य्यभेदः, यथा मुग्धबोधे
“स्थानिवदादेशः” । यथा, मनुः, ९ । २५८ ।
“मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह” ।)

आदेशी, [न्] पुं, (आङ् + दिश् + णिनि ।) दैवज्ञः ।

गणकः । इति हेमचन्द्रः ॥ (त्रि, आदेशकर्त्ता,
उपदेष्टा, यथा, रघुवंशे, ४ । ६८ ।
“कपोलपाटलादेशि बभूव रघुचेष्टितं” ॥)

आदेष्टा, [ऋ] पुं, (आदिशति ऋत्त्विजादीन् यागा-

दिष्वेष्टसम्पादनाय प्रेरयति । आङ् + दिश अति-
सर्ज्जने + तृच् ।) यागविषये ममेष्टसम्पादनाय य-
थार्थं कर्म्म कुर्व्विति ऋत्त्विजामादेशकः । तत्प-
र्य्यायः व्रती २ यष्टा ३ यजमानः ४ । इत्यमरः ॥
अन्वादेष्टा ५ याजकः ६ । इति हेमचन्द्रः ॥ आ-
देशकर्त्ता ॥

आद्यं, क्ली, (अद्यते यत् अद् कर्म्मणि ण्यत् ।) धान्यं ।

इति राजनिर्घण्टः ॥ अदनीयद्रव्ये त्रि ॥ (यथा --
मनुः, ५ । २४ ।
“तत्पर्य्युषितमप्याद्यं हविः शेषञ्च यद्भवेत् ।
चिरस्थितमपित्वाद्यं” -- इत्यादि ।)

आद्यः, त्रि, (आदौ भवः दिगादिभ्यो यत् यद्वा अद्यते

यः अद् कर्म्मणि ण्यत् ।) प्रथमः । इत्यमरः ॥
(यथा महाभारते, --
“तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्म्मणा” ।
रघुवंशे, १ । ११ ।
“आसीत् महीक्षितामाद्यः प्रणवश्छन्दसामिव” ।)
भक्ष्यः । यथा मनुः ५ । २६ ।
“पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः” ।

आद्यकविः, पुं, (आद्यश्च कविश्चेति कर्म्मधारयः ।)

बाल्मीकिमुनिः । इति भूरिप्रयोगः ॥ (पुराण-
कविः ब्रह्मा) ।

आद्यमाषकः, पुं, (आद्य + मष् + हलश्चेति घञ् +

कः ।) माषकपरिमाणं । पञ्चरत्तिकाः । इत्यमरः ॥
यथाह भास्कराचार्य्यः, --
“दशार्द्धगुञ्जं प्रवदन्ति माषं” ।)

आद्यवीजं, क्ली, (आद्यं मुख्यं वीजं कारणं ।) आदि-

कारणं । इति जटाधरः ॥

आद्या, स्त्री, (आदौ भवा दिगादित्वात् यत् टाप् ।)

दुर्गा । इति शब्दरत्नावली । काली । तारा ।
त्रिपुरसुन्दरी । भुवनेश्वरी । इति तन्त्रसारनील-
तन्त्रयोगिनीतन्त्राणि । प्रधाना शक्तिः । महा-
विद्या । यथा, मुण्डमालातन्त्रे १० पटलः ॥
“सत्ये तु सुन्दरी आद्या त्रेतायां भुवनेश्वरी ।
द्वापरे तारिणो आद्या कलौ काली प्रकीर्त्तिता ॥
नामभेदं प्रवक्ष्यामि रूपभेदं वरानने ।
न भेदः कालिकायाश्च ताराया जगदम्बिके ॥
षोडश्या भुवनायाश्च भैरव्यास्त्रिपुरेश्वरि ।
छिन्नायाश्चैव धूमाया भीमायाः परमेश्वरि ॥
ततश्च वगलामुख्या मातङ्ग्याश्च सुरेश्वरि ।
न च भेदो महेशानि विद्याया वरवर्णिनि” ॥
आदिभूते त्रि ॥

आद्यूनः, त्रि, (आङ् पूर्ब्बात् दीव्यतेरकर्म्मकत्वात्

क्तः । दिवोविजिगीषायामिति निष्ठातस्य नत्वं
यस्य विभाषेति नेट्, च्छोरित्यूट् ।) औदरिकः ।
इत्यमरः ॥ पेटुक इति भाषा । (यदुक्तं, अमरे ।
“आद्यूनः स्यादौदरिके विजिगीषाविवर्ज्जिते” ।
“आद्यूनः सदगृहिण्येव प्रायोयष्ट्यावलम्बितः” ॥
इति किराते ११ । ५ ।) आदिहीनः ॥

आद्योपान्तं, क्ली, (आद्यञ्च उपान्तञ्च द्वन्द्वः ।) पूर्ब्बा-

परं । इस्तकनागादि इति भाषा ॥

आधमनं, क्ली, (आधीयते आङ् + धा + कमनन् ।)

बन्धकं । इति स्मृतिः । (आधिः । यथा मनुः, --
“योगाधमनविक्रीतं योगदानप्रतिग्रहं ।
यत्र वाप्युपधिं पश्येत् तत्सर्व्वं विनिवर्त्तयेत्” ॥

आधानं, क्ली, (आधीयते आङ् + धा + भावे ल्यट्

यद्वा आधीयते स्थाप्यते यत् कर्म्मणि ल्युट् ।)
गर्भाधानं । अग्न्याधानं । स्थापितद्रव्यं । इति
स्मृतिः ॥ (ग्रहणं, धारणं । अधिगमः, करणं ।
सम्पादनं । श्रौताग्नेः स्मार्त्ताग्नेर्वा ग्रहणं, ब्राह्मणानां
प्रतिदिनकर्त्तव्या विहितवह्निस्थापनपूर्ब्बकहोमा-
दिक्रिया, यजनं, होमः । यथा रघुवंशे, १ । २४ ।
“प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतवः” ॥
यथा मनुः, ५ । १६८ ।
“भार्य्यायै पूर्ब्बमारिण्यै दत्वाग्नीनन्त्यकर्म्मणि ।
पुनर्दारक्रियां कुर्य्यात् पुनराधानमेव च” ॥
यथा महाभारते, --
“सर्व्वेषां पुनराधानं बिधिदृष्टेन कर्म्मणा” ।
यथा मेघदूते, पूर्ब्बमेघे । ३ ।
“तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः” ॥)

आधानिकं, क्ली, (आधानं गर्भाधानं प्रयोजनमस्य ।

प्रयोजनमिति ठक् ।) गर्भाधानसंस्कारः । इति
त्रिकाण्डशेषः ॥

आधारः, पुं, (आध्रियन्ते अस्मिन् इति आधारः

अध्यायन्यायेति सूत्रे अवहाराधारेत्युपसंख्या-
नादधिकरणे घञ् । व्याकरणशास्त्रे अधिकरण-
कारकं, तल्लक्षणं यथा सिद्धान्तकौमुद्यां, आधा-
रोऽधिकरणं कर्तृकर्म्मद्वारा तन्निष्ठक्रियाया आ-
धारः कारकमधिकरणसंज्ञः स्यात् । तच्च सामी-
प्याश्लेषविषयव्याप्तिभेदाच्चतुर्विधं । तथा सिद्धान्त-
कौमुद्यां, औपश्लेषिकोवैषयिकोऽभिव्यापकश्चेत्या-
धारस्त्रिधा यथा -- कटे आस्ते । स्थाल्यां पचति ।
मोक्षे सर्व्वस्मिन्नात्मास्ति ।) अधिकरणं । आल-
वालं । अम्बुधारणं । इति मेदिनी ॥ क्षेत्रादि-
सेकार्थं सेतुना बहुनालं जलं निरुध्य यत्र स्थाप्यते
स आधारः बद्धकन्दरादिः । बाँध इति ख्यातः ।
इत्यमरटीकायां भरतः ॥ शस्याद्यर्थं जलबन्धन-
माधारः । इति वैकुण्ठः ॥ क्षेत्रादिसेकार्थं जला-
धारस्थानमाधार इति मधुः ॥ (यथा रघुवंशे ५ । ६ ।
“आधारबन्धप्रमुखैः प्रयत्नैः
संवर्द्धितानां सुतनिर्विशेषं ।
क्वच्चिन्न वाष्वादिरुपप्लवो वः
श्रमच्छिदामाश्रमपादपानाम्” ॥
याज्ञवल्क्यः ।
“तथात्मकोऽप्यनेकस्तु जलाधारेष्विवांशुमान्” ॥)

आधार्म्मिकः, त्रि, (अधर्म्म + ठञ् ।) अधार्म्मिकः ।

इति त्रिकाण्डशेषः ॥ (यथा मनुः ।
“नाधार्म्मिके वसेद्ग्रामे” ॥)

आधिः, पुं, (आङ् + धा + किः ।) मनःपीडा । प्र-

त्याशा । बन्धकं । व्यसनं । अधिष्ठानं । इति
मेदिनी ॥
(यथा, हितोपदेशे ।
“आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ।
कोऽहि नाम शरीराय धर्म्मापेतं समाचरेत्” ॥
तथा च वैराग्यशतके ।
“आधिव्याधिशतैर्जनस्य
विविधैरारोग्यमुन्मूल्यते” ॥)

आधिक्यं, क्ली, (अधिक + ष्यञ् ।) अधिकस्य भावः ।

अधिकत्वं । अतिशयता । यथा ।
“युग्मायामपि रात्रौ चेत् शोणितं प्रचुरं तथा ।
कन्या च पुंवत् भवति शुक्राधिक्ये पुमान् भवेत्” ॥
इति ज्योतिस्तत्त्वम् ॥ (श्रेष्ठता । उत्कर्षः । प्राब-
ल्यम् । यथा साहित्यदर्पणे । १० पः ।
“आधिक्यमुपमेयस्योपमानात् न्यूनताथवा” ।
यथा, मनुः ७ । १६९ ।
“यदावगच्छेदायत्यामाधिक्य ध्रुवमात्मनः” ॥
आधिक्यं नाम यदायुर्वेदे भाष्यभाणे वार्हस्पत्य-
मौशनसम् अन्यद्वा प्रतिसम्बधार्थमुच्यते यद्वा
पृष्ठ १/१७५
:पुनः प्रतिसम्बद्धमपि द्विरभिधीयते तत् पुनरुक्त-
दोषाधिकं तच्च पुनरुक्तं द्विविधं, अर्थपुनरुक्तं
शब्दपुनरुक्तञ्च । तत्रार्थपुनरुक्तं नाम यथा, --
“भेषजमौषधं साधनम्” इति, शब्दपुनरुक्तं
“पुनर्भेषजं भेषजम्” इति चरकः ॥)

आधिज्ञः, त्रि, (आधि + ज्ञा + क ।) वक्रः । व्य-

थितः । इत्यजयपालः ॥

आधिदैविकं, त्रि, (अधि + देव + ठञ् । अनु-

शतिकादीनां च इत्युपभयपदवृद्धिः ।) दुःखविशेषः ।
तद्यथा, । “आधिदैविकं यक्षराक्षसविनायकग्र-
हाद्यावेशनिबन्धनं” । इति साङ्ख्यसत्त्वकौमुदी ॥
(देवतामधिकृत्य, प्रवृत्तं, दाहशीतादिजनितं दुःखं ।
अतिवातादिवृष्ट्यादिहेतुकं दुःखं । देवतामधि-
कृत्य प्रवृत्तं शास्त्रम् । यथा मनुः ६ । ८३ ।
“अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
आध्यात्मिकञ्च सततं वेदान्ताभिहितञ्च यत्” ॥
“तत्तु सप्तविधे व्याधावुपनिपतति” इति सुश्रुतः ।)

आधिपत्यं, क्ली, (अधिपति + ष्यञ् ।) अधिपते-

र्भावः । स्वामित्वं । प्रभुत्वं । ऐश्वर्य्यं । यथा,
“नहि प्रपश्यामि ममापनुद्यात्
यच्छोकमुच्छोषणमिन्द्रियाणां ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यं” ॥
इति श्रीभगवद्गीतायां २ अध्यायः ८ ॥
(यथा मनुः १२ । १०० ।
“सर्व्वलोकाधिपत्यञ्च वेदशास्त्रविदर्हति” ।)

आधिभोगः, पुं, (आधेर्बन्धकस्य भोगः ।) बन्धक-

द्रव्यस्य भोगः ॥

आधिभौतिकं, त्रि, (अधिभूत + ठञ् । अनुशति-

कादीनां चेत्युभयपदवृद्धिः ।) दुःखविशेषः । यथा ।
“वाह्योपायसाध्यं दुःखं द्वेधा । आधिभौतिकं आ-
धिदैविकञ्च । तत्राधिभौतिकं मानुषपशुमृगप-
क्षिसरीसृपस्थावरनिमित्तं” । इति साङ्ख्यतत्त्व-
कौमुदी ॥ (“तत्तु सप्तबिधे ब्याधावुपनिपतति” ।
इति सुश्रुतः ॥)

आधिमन्यवः, पुं, (आधि + मन्यु + अण् ।) ज्वराग्निः ।

इति हारावली ॥

आधिवेदनिकं, त्रि, (अधि + विद् + ल्युट् । ततः

अधिवेदन + ठञ् ।) द्वितीयविवाहार्थं प्रथमस्त्रियै
दत्तधनादि । यथा, --
“अधित्विन्नस्त्रियै देयमाधिवेदनिकं समं ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्द्धं प्रकीर्त्तितं” ॥
इति याज्ञवल्क्यः ॥

आधुतः, त्रि, (आङ् + धु + क्तः ।) आधूतः ।

कम्पितः । इत्यमरटीकायां रायमुकुटः ॥

आधुनिकः, त्रि, (अधुना + ठञ् ।) अधुनाजातः ।

नव्यः ॥

आधूतः, त्रि, (आङ् + धू + क्त ।) कम्पितः । इत्य-

मरः ॥ (विक्षिप्तः, अभिभूतः, व्याकुलितः ।
आन्दोलितः, चालितः । यथा, रघुवंशे, १ । ३८ ।
“पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः” ।)

आधेयं, त्रि, (आङ् + धा + यत् ।) आधारस्थित-

वस्तु । यथा । शाब्दबोधे चैकपदार्थे अपरपदार्थ-
संसर्गः संसर्गमर्य्यादया भासते । स च क्वचिद्भेदः
क्वचिदतिरिक्त एवाधाराधेयप्रतियोग्यनुयोगिवि-
षयविषयिभावादिः । इति गदाधरभट्टाचार्य्यकृत-
प्रथमव्युत्पत्तिवादः ॥ उत्पाद्यः । यथा, --
“सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः” ॥
इति वोपदेवकृतमुग्धबोधीयकारिका ॥ आधेय
उत्पाद्यः । यथा पक्वमृण्मयपात्रेषु रक्ततागुणः स
वह्निसंयोगादिना निष्पाद्यते । इति तट्टीकायां
दुर्गादासः ॥

आधोरणः, पुं, (आधोरयति धोरृगतिचातुर्य्ये

कर्त्तरि ल्यु ।) हस्तिपकः । माहुत इति भाषा ।
(“आधोरणा हस्तिपका हस्त्र्यारोहा निषा-
दिनः” । अमरः । यथा, -- रघुवंशे ७ । ४६ ।
“आधोरणानां गजसन्निपाते
शिरांसि चक्रैर्निशितैः क्षुराग्रैः” ॥)

आध्मातः, पुं, (आङ् + ध्मा + क्तः ।) शब्दितः । दग्धः ।

वातरोगविशेषः । संयतः । इति मेदिनी ॥ (स्फीतः
दर्पादिना उद्धतः, विवर्द्धितः । यदुक्तं । “ततो
मानाध्मातः स पतति यदा शोकगहने” । हितो-
पदेशे । “ततोऽसौ दर्पाध्मातस्तस्योपरि आत्मानं
निक्षिप्य एञ्चत्वं गतः” । उत्तरचरिते । “ज्यानि-
र्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्भयन्” ।)

आध्मानं, क्ली, (आङ् + ध्मा + ल्युट् ।) वातव्याधि-

विशेषः । तस्य रूपं ।
“साटोपमत्युग्ररुजमाध्मातमुदरं भृशं ।
आध्मानमिति जानीयाद्घोरं वातनिरोधजं” ॥
इति निदानं ॥ पेटफाँपा इति भाषा ।
तस्य चिकित्सा यथा, --
“आध्माने लङ्घनं पूर्ब्बं दीपनं पाचनं ततः ।
फलवर्त्तिक्रियां कुर्य्यात् वस्तिकर्म्म च शोधनं ॥
कर्षमात्रा भवेत् कृष्णा त्रिवृता स्यात् पलोन्मिता ।
खण्डादपि पलं ग्राह्यं चूर्णमेकत्र कारयेत् ॥
भधुनाक्षमितं लिह्यातं चूर्णमाध्माननाशनं” ॥
नारायणचूर्णं ॥ १ ॥
“दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः ।
लिम्पेब् कोष्णैरम्लपिष्टैः शूलाध्मानयुतोदरं ॥
हैमवती वचा । दारुषट्कलेपः ॥ २ ॥
“अभयारग्वधो धात्री दन्ती तिक्ता स्नुही त्रिवृत् ।
मुस्ता प्रत्येकमेतानि ग्राह्याणि पलमात्रया ॥
तानि संक्षुद्य सर्व्वाणि जलाढकयुगे पचेत् ।
तत्र तोयेऽष्टमं भागं कषायमवशेषयेत् ॥
निस्त्वग्जैपालवीजानि नवानि पलमात्रया ।
तनुवस्त्रधृतान्येव तस्मिन् क्वाथे शनैः पचेत् ॥
ज्वालयेदनलं मन्दं यावत् क्वाथो घनो भवेत् ।
ततः खल्ले क्षिपेत् भागानष्टौ जैपालबीजतः ॥
भागांस्त्रीन् नागराद्द्वौ च मरिचात् द्वौ च पारदात् ।
गन्धकात् द्वौ च तानीह यावद्यामं विमर्दयेत् ॥
रसो नाराचनामायं भक्षितो रक्तिकामितः ।
जलेन शीतलेनैव रोगानेतान् विनाशयेत् ॥
आध्मानं शूलमानाहं प्रत्याध्मानं तथैव च ।
उदावर्त्तं तथागुल्भमुदराणि हरत्यसौ ॥
वेगे शान्ते च भुञ्जीत शर्करासहितं दधि ।
ततस्तत्सैन्धवेनापि ततो दध्योदनं मनाक्” ॥
महानाराचो रसः ॥ ३ ॥ इति भावप्रकाशः ॥
(वायुना सवेदनमुदरपरिपूर्णत्वमाध्मानत्वं । इति
रुग्विनिश्चयग्रन्थव्याख्यानकृद्विजयरक्षितः ॥)

आध्मानी, स्त्री, (आङ् + ध्मा + ल्युट् + ङीप् ।)

नलिकानामगन्धद्रव्यं । इति राजनिर्घण्टः ॥

आध्या, स्त्री, (आङ् + ध्यै + अङ् + टाप् ।) चिन्ता ।

स्मतिः । इति शब्दरत्नावली ॥

आध्यात्मिकं, त्रि, (आत्मानमधिकृत्य भवं अधि +

आत्मन् + ठञ् ।) दुःखविशेषः । यथा । दुःखानां
त्रयं दुःखत्रयं तत् खल्वाध्यात्मिकं चाधिभौतिकं
चाधिदैविकञ्च । तत्राध्यात्मिकं द्विविधं शारीरं
मानसञ्च । शारीरं वातपित्तश्लेष्मणां निमित्तं ।
मानसं कामक्रोधलोभमोहेर्षाविषादविशेषादर्श-
ननिबन्धनं । सर्व्वं चैतदान्तरोपायसाध्यत्वात् आ-
ध्यात्मिकं दुःखं । इति साङ्ख्यतत्त्वकौमुदी ॥
(आत्मतत्त्वविषयकं । यथा, मनुः २ । ११७ ।
“लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च ।
आददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत्” ॥

आध्यानं, क्ली, (आङ् + घ्यै + ल्युट् ।) ध्यानं । चिन्ता ।

इत्यमरः ॥

आध्यापकः, पुं, (आ सम्यक् अध्यापयति यः इति

अध्यापकः । स एव स्वार्थे अण् ।) अध्यापकः । इति
शब्दरत्नावली ॥

आनः, पुं, (अन् + घञ्) उच्छ्वासः । वहिर्मुखश्वासः ।

इति हेमचन्द्रः ॥ (अन्तःस्थितस्य प्राणवायोर्नासि-
कयोच्छ्वासः ।)

आनकः, पुं, (आङ् + अन् + ण्वुल्) पटहः । भेरी ।

मृदङ्गः । शब्दयुक्तमेघः । इति मेदिनी ॥
(यथा, भगवद्गीतायां १ । १३ ।
“ततः शङ्खाश्च भेर्य्यश्च पणवानकगोमुखाः” ।)

आनकदुन्दुभिः, पुं, (आनकाः दुन्दभयो देववद्यबिशेषाः

यस्य जन्मनि । वसुदेवजन्मनि देवा दुन्दभिध्व-
निञ्चक्रुः ।) बसुदेवः । इत्यमरः ॥ (कृष्णपिता ।
यथा -- हरिवंशे ॥
“वसुदेवो महाबाहुः पूर्ब्बमानकदुन्दुभिः ।
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्रानदन् दिवि ॥
आनकानां च संह्रादः सुमहानभवद्दिवि” ॥)

आनकदुन्दुभिः, पुं स्त्री, (आनकः प्रोत्साहको दुन्दु-

भिः ।) वृहडृक्का । इत्यमरटीकायां भरतः ॥

आनतः, त्रि, (आङ् + नम् + क्तः ।) नतः । तत्-

पर्य्यायः । अवाग्रः २ अवनतः ३ । इत्यमरः ॥
(अधोमुखः, बिनतः, प्रणतः, विनयनम्रः । यथा,
हरिवंशे ॥
“पितृभात्रोर्हि पादान् वै नमश्चक्रतुरानतौ” ।
महाभारते ।
“स कदाचित् मृगं विद्ध्वा वाणेनानतपर्ब्बणा” ।
मनुः ।
“रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत्” ।)

आनतिकरः, त्रि, (आनति + कृ + अण् ।) पारितो-

पृष्ठ १/१७६
:षिकः । यथा । प्रायश्चित्तोपदेशाय वस्त्रादिना
ब्राह्मणस्तोषणीयः । यथा मिताक्षरायां पराशरः ।
“पापं प्रख्यापयेत् पापी धेनुं दत्त्वा तथा वृषं” ।
एतच्चोपलक्षणं ।
“प्रख्याप्य पापं वक्त्वृभ्यः किञ्चिद्दत्त्वा व्रतं चरेत् ।”
इति स्मृतेः ।
देवलवचने “तोषयित्वा द्विजोत्तमान् इति” ।
अत्र तोषयित्वा इति श्रवणात् आनतिकरत्वेन
तद्ग्रहणान्नदोषः । इति प्रायश्चित्ततत्त्वं ॥

आनद्धं, क्ली, (आनह्यते चर्म्मणा बध्यते इति । आङ्-

+ नह + क्तः ।) चर्म्मबद्धमुखबाद्यमात्रं । तत्तु मुर-
जादि । इत्यमरः ॥ कल्पमात्रं । तत्तु वेशभूषादि ।
इत्यजयपालः ॥

आनद्धः, त्रि, (आङ् + नह् + कर्म्मणि + क्तः ।)

सन्धितः । बद्धः । इति मेदिनी ॥ (यथा सुश्रुते ।
“च्छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः” ।)

आननं, क्ली, (आनिति अनेन । आङ् + अन् + ल्युट्)

मुखं । इत्यमरः ॥ (“तदाननं मृत्सुरभि क्षितीश्वरः”
इति रधुः । ३ । ३ ।)

आनन्दः, पुं, (आङ् + नन्द + घञ्) आह्लादः । तत्

पर्य्यापः । आबन्दथुः २ शर्म्म ३ शातं ४ सुखं ५
सुत् ६ प्रीतिः ७ प्रमोदः ८ हर्षः ९ प्रमदः १०
आमोदः ११ समदः १२ । इत्यमरः ॥
(यथा, उत्तरचरिते ।
“यत्रानन्दाश्च मोदाश्च यत्र स्निग्धाश्च सम्पदः” ।
मनुः ।
“आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन” ।)
वासुदेवस्य बलविशेषः । इति हेमचन्द्रः ॥

आनन्दः, त्रि, (आनन्द + अर्श आदित्वात् अच् ।)

आनन्दविशिष्टः । हर्षयुक्तः । सुखी । इत्यमरटीका ॥
(“गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति” ।
इत्यमरोक्तेः अत्र गुणिलिङ्गः ।)

आनन्दथुः, पुं, (आङ् + नन्द + अथुच् ।) आनन्दः ।

हर्षः । इत्यमरः ॥ तद्युक्ते त्रि ॥

आनन्दनं, क्ली, (आङ् + नदि + ल्युट्) गमनागमन-

समये सुहृदादेरालिङ्गनारोग्यस्वागतादिप्रश्नादि-
द्वारा आनन्दोत्पादनं । तत्पर्य्यायः । सभाजनः २
स्वभाजनः ३ सुभाजनः ४ आप्रश्नः ५ आमन्त्रणं ६ ॥
इत्यमरः तट्टीका च ॥ (आनन्दजननं, हर्षोत्-
पादनं । प्रभोदकरः, सुखजनकः । यदुक्तं ।
“मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः” ।
इति हितोपदेशे ।)

आनन्दपटं, क्ली, (आनन्दाय पटम् ।) नवोढावस्त्रं ।

इति हारावली ॥

आनन्दप्रभवं, क्ली, (आनन्दः प्रभवोयस्य तत् ।) रेतः ।

वीर्य्यं । इति हेमचन्द्रः ॥
(“वाय्वाकाशादिभिर्भावै सौशिर्य्यं जायतेऽस्थिषु ।
तेन स्रवन्ति तच्छ्रुक्रं नवात् कुम्भादिवोदकं ॥
म्वोतोभिः स्यन्दते देहात् समन्तात् शुक्रवाहिभिः ।
हर्षेणोदीरितं रागात् सङ्कल्पाच्च मनोभवात् ॥
वस्तौ संभृत्य निर्याति स्यलान्निम्नादिवोदकं ।”
इति चरकः ॥
“कृस्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा ।
स्त्रीषु व्यायच्छतश्चापि हर्षात्तत् संप्रवर्त्तते ॥”
इति सुश्रुतः ॥)

आनन्दमयकोषः, पुं, (आनन्दमयस्य परमात्मनः

कोष इवावरकः ।) सत्त्वप्रधानाज्ञानं । तत्पर्य्यायः ।
कारणशरीरं २ सुषुप्तिः ३ । इति वेदान्तः ॥

आनन्दा, स्त्री, (आनन्दयति या । आङ् + नन्द + ।

णिच् + अच् + टाप्) विजया । आरामशीलता ।
इति राजनिर्घण्टः ॥

आनन्दिः, पुं, (आङ् + नन्द + किः ।) आनन्दः । हर्षः । इति शब्दमाला ॥

आनन्दितः, त्रि, (आङ् + नन्द + क्त । यद्वा आनन्दः

सञ्जातोऽस्य । आनन्द + इतच् ।) आनन्दयुक्तः ।
हृष्टः । आह्लादितः ॥ (यथा महाभारते ॥
“पुनरानन्दिताः सर्व्वे मथुरायां वसामहे ॥”)

आनन्दी, [न्] त्रि, (आनन्द + इनि ।) आनन्द-

विशिष्टः ॥

आनन्दी, स्त्री, वृक्षविशेषः । आकन्दपाता इति

ख्याता । इति शब्दचन्द्रिका ॥

आनयः, पुं, (आनीयते वेदाध्ययनायात्र । आङ् +

नीङ + अच्) उपनयनं । इति हेमचन्द्रः ॥

आनयनं, क्ली, (आङ् + नी + ल्युट् ।) स्थानान्तरनयनं ।

आना इति भाषा ॥ (यथा रामायणे ।
“व्यादिशत्पुरुषांस्तत्र राज्ञामानयने बहून्” ॥)

आनर्त्तः, पुं, (आङ् + नृत् + घञ् ।) देशविशेषः ।

द्वारका इति ख्याता । नृत्यस्थानं । युद्धं । इत्य-
मरः ॥ जलं । इति मेदिनी ॥ आनर्त्तदेशवासी
लोकः । इत्यमरटीका ॥ (यथा हरिवंशे । “आन-
र्त्तान् कालकूटांश्च कुलिन्दांश्च विजित्य सः” ॥
स्वनामख्यातो राजा ।
“शर्यातेर्मिथुनं त्वासीदानर्त्तो नाम विश्रुतः ।
“आनर्त्तस्य तु दायादो रेवो नाम महाद्युतिः” ॥
“आनर्तविषयश्चासीत् पुरी चास्य कुशस्थली” ।
“आनर्त्तस्तु विभोः पुत्रः सुकुमारस्ततोऽभवत्” ॥)

आनायः, पुं, (आङ् + नीञ् + घञ् ।) जालं । इत्यमरः ॥

आनाय्यः, पुं, (आनाय्यते गार्हपत्यादानीय संस्क्रियते

ऽसौ आङ् + नी + ण्यत् ।) दक्षिणाग्निः । इत्यमरः ॥
गार्हपत्यादग्नेरानीय यो दक्षिणाग्निरारोप्यते ।
तत्र । इति भरतः ॥ होम करिवार निमित्ते धर
हैते आनिया दक्षिणदिके राखा आगन् इति
भाषा ।

आनाहः, पुं, (आङ् + नह् + घञ् ।) मूत्रपुरीष-

रोधकरोगः । तत्पर्य्यायः । विबन्धः २ । इत्यमरः ॥
विष्टम्भः ३ मलरोधनः ४ । इति राजनिर्घण्टः ॥
(“आनाहार्त्त ततो दृष्ट्वा तत्सैन्यमसुखार्द्दितम्” ।
इति महाभारते ।) तस्य सम्प्राप्तिरूपे । यथा,
“आमं शकृद्वा निचितं क्रमेण
भूयो विबद्धं विगुणानिलेन ।
प्रवर्त्तमानं न यथास्वमेनं
विकारमानाहमुदाहरन्ति” ॥ इति निदानं ॥
(“यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति ।
नाधो व्रजति नाप्यूर्द्ध्वञ्चानाहस्तस्य जायते” ॥
इति चरकः ॥
अस्य चिकित्सामाह । भावप्रकाशे यथा, --
“तुल्यकारणकार्य्यत्वादुदावर्त्तहरीं क्रियां ।
आनाहेषु च कुर्व्वीत विशेषश्चाभिधीयते ॥ * ॥
त्रिवृत्कृष्णाहरीतक्यो द्विचतुःपञ्चभागिकाः ।
गुडेन तुल्या गुटिका हरत्यानाहमुल्वणं ॥ * ॥
वर्त्तिस्त्रिकटुसैन्धव
सर्षपगृहधूमकूष्ठमदनफलैः ।
मधुनि गुडे वा पक्वै-
र्विहिता साङ्गुष्ठसम्मिता विज्ञैः ॥
वर्त्तिरियं दृष्टफला
शनैः प्रणिहिता गुदे घृताभ्यक्ता ।
आनाहमुदरजार्त्तिं
शमयति जठरं तथा गुल्मम्” ॥ * ॥
इति त्रिकटुकाद्यावर्त्तिः ॥ * ॥
चक्रपाणिसङ्ग्रहे तु चिकित्सा यथा, --
“उदावर्त्तक्रियानाहे सामे लङ्घनपाचनम्” ॥
“द्विरुत्तरा हिङ्गुवचा सकुष्ठा
सुवर्चिका चेति विडङ्गचूर्णं ।
सुखाम्बुनानाहविसूचिकार्त्ति-
हृद्रोगगुल्मोर्द्ध्वसमीरणघ्नम् ॥ * ॥
वचाभयाचित्रकयावशूकान्
सपिप्पलीकातिविषान् सकुष्ठान् ।
उष्णाम्बुनानाहविमूढवातान्
पीत्वा जयेदाशु हितौदनाशी ॥ * ॥
त्रिवृद्धरीतकीश्यामाः स्नुहीक्षीरेण भावयेत् ।
वटिका मूत्रपीतास्ता ज्येष्ठा आनाहभेदिकाः ॥ * ॥
राठ-धूम-विडव्योष-गुड-मूत्रैर्विपाचिता ।
गुदेऽङ्गुलसमावर्त्तिर्निधेयानाहशूलनुत् ॥ * ॥
मूलकं शुष्कमात्रञ्च वर्षाभूमूलपञ्चकम् ।
आरेवतफलञ्चापि पक्त्वा तेन पचेद्घृतम् ।
तत् पीतमात्रं शमयेदुदावर्त्तमसंशयम्” ॥ * ॥
शुष्कमूलकाद्यं घृतम् ॥ * ॥) दैर्ध्यं । इति रमानाथः ॥

आनिलिः, पुं, (अनिलस्य वायोरपत्यं अनिल +

इञ् ।) हनूमान् । इति त्रिकाण्डशेषः ॥ (भीमः ।)

आनिली, स्त्री, (अनिल + अण् + ङीप् ।) स्वाति-

नक्षत्रं । इति हेमचन्द्रः ॥

आनीलः, पुं, नीलघोटकः । इति हेमचन्द्रः ॥

(असितः । ईषन्नीलः । यथा किरातार्ज्जनीये,
“आनीलाभैर्विरचितपरभागा रत्नैः” ।)

आनुकूल्यं, क्ली, (अनुकूल + ष्यञ् ।) अनुकूलता ॥

(साम्मुख्यं । प्रसादः । सहायता । यथा याज्ञवल्क्यः ।
“यत्रानुकूल्यं दम्पत्योस्त्रिवर्गस्तत्र वर्द्धते” ।
यथा, -- रामायणे ।
“रमतश्चानुकूल्येन ययुः संवत्सरा दश” ।)

आनुगत्यं, क्ली, (अनुगतस्य भावः कर्म्म वा । अनु-

गत + ष्यञ् ।) अनुगतत्वं । अनुगतस्य भाव इत्यर्थे
ष्ण्यप्रत्ययेन निष्पन्नम् ॥

आनुपूर्व्वी, स्त्री, क्ली, (अनुपूर्व्व + अण् ।) परिपाटी ।

अनुक्रमः । इत्यमरः ॥ (यथा मनुः ३ । २३ ।
“षडानुपूर्ब्ब्या विप्रस्य क्षत्रस्य चतुरो वरान्” ॥
यथा रामायणे ।
“आनुपूर्ब्ब्या स धर्म्मज्ञः पप्रच्छ कुशलं कुले” ।)
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/आ&oldid=43906" इत्यस्माद् प्रतिप्राप्तम्