शब्दकल्पद्रुमः/अश्मजं

विकिस्रोतः तः
Jump to navigation Jump to search
पृष्ठ १/१४१

अश्मजं, क्ली, (अश्मनः प्रस्तराज्जायते इति । अश्मन्

+ जन + ड ।) शिलाजतु । इत्यमरः ॥ लौहं
इति राजनिर्घण्टः ॥
(“अद्भ्योऽग्निर्बक्ष्मतः क्षत्रम नो लोहमुत्थितम् ।
तेषां सर्व्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥”
इति मनुः ॥ शिलाजत्वर्थे वैद्यकचक्रपाणिसंग्र-
हस्याश्मरीरोगचिकित्सायां वरुणघृते यथा ॥
‘अमृता चाश्मजं देयं’ ॥)

अश्मजतुकं, क्ली, (अश्मजतु + स्वार्थे कन् ।) शिला-

जतु । इति राजनिर्घण्टः ॥ (शिलाजतुशब्देऽस्य
विशेषविवरणं ज्ञेयं ॥)

अश्मदारणः, पुं, (अश्मानं दारयतीति । अश्म +

दॄ + णिच् + ल्युट् ।) टङ्कः । पाषाणविदारणास्त्रं ।
इति जटाधरः ॥ टाँकी इति पश्चिमदेशे ख्यातः ॥

अश्मन्तं, क्ली, (अश्मनः प्रस्तरस्यापि अन्तो भवत्यत्र ।

शकन्ध्वांदिरयं ।) चुल्ली । अशुभं । मरणं । अन-
वधिः । क्षेत्रं । इति मेदिनी ॥ (पुं, धर्म्मात्
मरुत्वत्यां जातः स्वनामख्यातो मरुद्भेदः । तथा च
हरिवंशे ।
“मरुत्वती मरुत्वन्तो देवानजनयत्सुतान् ।”
“अश्मन्तं चित्ररश्मिञ्च तथा निष्कुषितं नृपं ॥”)

अश्मन्तकं, क्ली, (अश्मन्त + स्वार्थे कन् ।) चुल्ली ।

मल्लिकाच्छादनं । दीपाधाराच्छादनं । इति मे-
दिनी ॥ सेज आँधारिया इत्यादि भाषा ।

अश्मन्तकः, पुं, अश्मन्त + कन् ।) तृणविशेषः । अम्ल-

कुचाइ इतिभाषा । तत्पर्य्यायः । अम्लोटकः २ ।
इति रत्नमाला ॥ वृक्षविशेषः । आवुटा इति
पश्चिमदेशे ख्यातः । तत्पर्य्यायः । इन्दुकः २ कुराली
३ अम्लपत्रः ४ श्लक्ष्मत्वक् ५ नीलपत्रः ६ यमलप-
त्रकः ७ । अस्य गुणाः । मधुरत्वं । कषायत्वं । सुशी-
तलत्वं । पित्तप्रमेहविदाहतृष्णाविषमज्वरविषा-
र्त्तिच्छर्द्दिभूतनाशित्वञ्च ॥ इति राजनिर्घण्टः ॥

अश्मपुष्पं, क्ली, (अश्मनः पुष्पमिव ।) शैलेयं । शैल-

जनामगन्धद्रव्यं । इत्यमरः ॥

अश्मभालं, क्ली, (अश्मेव भाजयति चूर्णितं करोति ।

भजचूर्णने । भज + णिच् + अण् । पृषोदरादि-
त्वात् जस्य लत्वम् ।) द्रव्यचूर्णार्थलौहादिपात्रं ।
तत्पर्य्यायः । लौहभाण्डं २ । इति शब्दचन्द्रिका ॥
हामानदिस्ता इति भाषा ॥

अश्मभित्, [द्,] पुं, (अश्मानं भिनत्तीति । अश्म +

भिद् + क्विप् ।) पाषाणभेदी वृक्षः । इति रत्न-
माला ॥ प्रस्तरभेदके त्रि ॥

अश्मभेदः, पुं, (अश्मनो भेदो भवत्यस्मात् ।) पाषाण-

भेदी वृक्षः । इति रत्नमाला ॥ (अस्य गुणाः ।
“अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः ।
भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः ॥
योनिरोगान् प्रमेहांश्च प्लीहशूलब्रणानि च” ।
इति भावप्रकाशः ॥
“एरण्डो विजपूरश्च गोक्षुरं वृहतीद्वयं ।
अश्मभेदस्तथाविल्व एतन्मूलः कृतः शृतः ॥
एरण्डतैलहिङ्गाढ्यो यवक्षारः ससैन्धवः ।
स्तनकण्ठकटीमेढ्रहृदयोत्थव्यथां जयेत्” ॥
इति शार्ङ्गधरः ॥)

अश्मयोनिः, पुं, (अश्मा योनिरुत्पत्तिस्थानं यस्य ।)

मरकतमणिः । इत्यमरटीकायां भरतः ॥

अश्मरः, त्रि, (अश्मनोऽयमिति । अश्म + र ।) प्रस्तर-

सम्बन्धीयः । इति पाणिनिः ॥ पातुरिया इति
भाषा ।

अश्मरी, स्त्री, (अश्मानं राति ददाति या । अश्मन् +

रा + क + गौरादित्वात् ङीप् । मूत्रकृच्छ्ररोगो
हि मूत्रद्वारे प्रस्तरमिव कठिनमांसं रचयति ।)
मूत्रकृच्छ्ररोगः । पातरी इति भाषा । यथा ।
अथाश्मर्य्यधिकारः । अत्राश्मर्य्याः सन्निकृष्टनिदानं
सङ्ख्याञ्चाह ।
“वातपित्तकफैस्तिस्रश्चतुर्थी शुक्रजा मता ।
प्रायः श्लेष्माश्रयाः सर्व्वा अश्मर्य्यः स्युर्यमोपमाः” ॥
श्नेष्माश्रयाः श्लेष्मसमवायिकारणाः । शुक्रजां
विना । शुक्रजायास्तु शुक्रस्यैव समवायिकारण-
त्वात् । अन्ये तु शुक्राश्मर्य्यामपि कफकारणत्व-
मिच्छन्ति । प्रायःशब्दश्चात्र विशेषार्थः । यमो-
पमाश्चिकित्सां विना ॥ * ॥ सम्प्राप्तिमाह ।
“विशोषयेद्वस्तिगतं सशुक्रं
मूत्रं सपित्तं पवनः कफं वा ।
यदा तदाश्मर्य्युपजायते तु
क्रमेण पित्तेष्विव रोचना गोः ॥
पवनो वस्तिगतं सशुक्रं मूत्रं सपित्तं कफं वा
शोषमुपनयेत् यदा तदा अश्मरी क्रमेण क्रमशो
वर्द्धमाना । यथा गोः पित्तेषु रोचनेवेत्यन्वयः ॥ * ॥
पूर्ब्बरूपमाह ।
“नैकदोषाश्रयाः सर्व्वा अथासां पूर्ब्बरूक्षणं ।
वस्त्याध्मानं तदासन्नदेशेषु परितोऽतिरुक् ॥
मूत्रे वस्तसगन्धत्वं मूत्रकृच्छ्रं ज्वरोऽरुचिः” ।
वस्तः छगलकः ॥ * ॥ सामान्यलक्षणमाह ।
“सामान्यलिङ्गं रुङ्नाभिसेवनीवस्तिमूर्द्धसु ।
विशीर्णधारं मूत्रं स्यात् तया मार्गनिरोधने ॥
तद्व्यपायात् सुखं मेहेदच्छं गोमेदकोपमं ।
तत्संक्षोभात् क्षते सास्रमायासाच्चातिरुग्भवेत्” ॥
वस्तिमूर्द्धा नाभेरधोदेशः । विशीर्णधारं सवि-
च्छेदधारं । तया अश्मर्य्या । मार्गः मूत्रवाहि
स्रोतः । तद्व्यपायात् कदाचिद्वायुना अश्मर्य्या
मूत्रमार्गादन्यत्र गमनात् । सुखं मेहेत् मूत्रयेत् ।
गोमेदकोपमं गोमेदको मणिः किञ्चिल्लोहित-
स्तद्वर्णं । तत्संक्षोभात् तस्या अश्मर्य्याः सञ्चारात् ।
घर्षणेन मूत्रवहे स्रोतसि क्षते जाते सास्रं सरक्तं
मेहेत् । आयासात् प्रवाहनादिजनितात् ॥ * ॥
वातोल्वणामाह ।
“तत्र वाताद्भृशं त्वार्त्तो दन्तान् खादति वेपते ।
मृद्गाति मेहनं नाभिं पीडयत्यपि सङ्क्वणन् ॥
सानिलं मुञ्चति शकृन्मुहुर्म्मेहति विन्दुशः ।
श्यावारुणाश्मरी चास्य स्याच्चिता कण्टकैरिव” ॥
सङक्वणन् आर्त्तनादं कुर्व्वन् नाभिदेशं पीडयति ।
शकृत् पुरीषं सानिलं मुञ्चति । मुहुर्व्वारंवारं ।
विन्दुशः विन्दुं विन्दुं मेहति मूत्रयेत् । श्यावे-
त्यादि श्यावा किञ्चित् श्यामा । अरुणा किञ्चि-
द्रक्ता । एवं चाश्मर्य्या वर्णाकारकथनं आ-
कृष्याणां प्रत्यक्षसंवादिशास्त्रप्रामाण्यख्यापनार्थ-
माहुः । चिताकण्टकैरिव वदरीवीजवत् क्षुद्रा-
ङ्कुरैर्वेष्टिता ॥ * ॥ पित्तोल्वणामाह ।
“पित्तेन दह्यते वस्तिः पच्यमान इवोष्मवान् ।
भल्लातकास्थिसंस्थाना रक्ता पीता सिताश्मरी” ॥
दह्यते साक्षादग्निनेव । वस्तिरिति मूत्रकोषः ।
पच्यमानैव क्षारेणेव । उष्मवान् उष्णस्पर्शः ॥ * ॥
कफोल्वणामाह ।
“वस्तिर्निस्तुद्यतैव श्लेष्मणा शीतलो गुरुः ।
अश्मरी महती श्लक्ष्मा मधुवर्णाथवा सिता” ॥
महती कुक्कुटाण्डतुल्या । मधुवर्णा ईषत्पिङ्गल-
शुक्ला ॥
“एता भवन्ति बालानां तेषामेव हि भूयसा ।
आश्रयोपचयाप्लत्वात् ग्रहणाहरणे सुखाः” ॥
एताः दोषत्रयजनिताः बालानां स्युः ॥ यतः सर्व्वा
एवाश्मर्य्यो विशेषतः श्लेष्मसमवायिकारणाः । बाला-
स्तु विशेषतस्तन्निदानसेविनो भवन्ति । उक्तञ्च
सुश्रुतेन । प्रायेणैता अश्मर्य्यो दिवास्वप्नसमश-
नाध्यशनस्निग्धशीतगुरुमधुराहारप्रियत्वात् विशे-
षेण बालानां भवन्तीति । भूयः पदोपादानात्
महतामपि त्रिदोषजनिता भवन्ति । तेषामेव
बालानामेव । ग्रहणाहरणे सुखाः ग्रहणं निष्का-
सनार्थमङ्गुलिभ्यां । आहरणं पाचनादिपूर्ब्बकं
निष्कासनं तत्र सुखाः सुखदाः । तत्र हेतुमाह ।
आश्रयोपचयाप्लत्वादिति आश्रयो वस्तिः तस्यो-
पचयः स्थौल्यं तस्याप्लत्वात् ॥ * ॥ शुक्राश्मरीमाह ।
“शुक्राश्मरी तु महतां जायते शुक्रधारणात्” ।
अव्ययानामनेकार्थत्वात् तु शब्दोऽत्रावधारणार्थः ।
तेन महतामेव न तु बालानां । तेषां वक्ष्यमाण-
सम्प्राप्तेरसम्भवात् । न तु शुक्राभावो वाच्यः ।
शुक्रधारणात् वेगात् च्यवमानस्य शुक्रस्य धार-
णात् ॥ * ॥ शुक्राश्मर्य्याः सम्प्राप्तिमाह ।
“स्थानाच्चुतममुक्तं हि मूष्कयोरन्तरेऽनिलः ।
शोषयत्युपसंहृत्य शुक्रं तच्छुक्रमश्मरी” ॥
अनिलः मैथुनवेगेन स्थानाच्च्युतं । अमुक्तं मैथुन-
वेगधारणेन धृतं शुक्रं । मुष्कयोः मेढ्रसहितयोः ।
मेढ्रवृषणयोरन्तर इति सुश्रुतवचनात् । तेन
मेढ्रवृषणमध्यगतवस्तिमुखे उपसंहृत्य एकीकृत्य
शोषयति । तच्छुक्रमश्मरी तथाभूतं शुक्रमेवा-
श्मरी ॥ * ॥ अस्या लक्षणमाह ।
“वस्तिरुङ्मूत्रकृच्छ्रत्वमुष्कश्वयथुकारिणी ।
तस्यामुत्पन्नमात्रायां शुक्रमेति विलीयते ॥
पीडिते त्ववकाशेऽस्मिन्नश्मर्य्येव च शर्करा” ।
तस्यां शुक्राश्मर्य्यां । उत्पन्नगात्रायां यदा सा कथ-
मपि विलीयते विलयं याति तदा शुक्रं एति
मूत्रमार्गात् प्रवर्त्तते । पीडिते त्ववकाशेऽस्मिन्
तुशब्दोऽवधारणे । तेन अस्मिन्नेव अवकाशे
स्थाने मेढवृषणयोरन्तरे पीडिते सति सा
पृष्ठ १/१४२
:विलीयते अन्तर्ल्लीना भबति ॥ अवस्थाभेदादश्मरी
शर्करा सिकता भवतीत्याह । अश्मर्य्येव च शर्करा
चकरात् सिकता च भवति । शर्करासिकतयोश्च
भेदो महत्वाल्पत्वाभ्यां बोद्धव्यः ॥ कथं अश्मरी
शर्करा भवतीत्याह । सा भिन्नमूर्त्तिर्वातेन शर्क-
रेत्यभिधीयते । सा अश्मरी ॥ * ॥ शर्करायाः पात-
मवरोधञ्च सहेतुकमाह ।
“अणुशो वायुना भिन्ना सा तस्मिन्ननुलोमगे ।
निरेति सहमूत्रेण प्रतिलोमे विबध्यते ।
मूत्रस्रोतःप्रवृत्ता सा सक्ता कुर्य्यादुपद्रवान्” ॥
सा अश्मरी । तस्मिन् वायौ । अनुलोमगे मूत्र-
स्रोतःसु सम्यक्प्रवृत्ते मूत्रेण सह सा शर्करा
निरेति पतति । प्रतिलोमगे ऊर्द्ध्वप्रवृत्ते वायौ
विबध्यते । तदा मूत्रस्रोतः श्रिता सक्ता लग्ना
स्यात्तदा उपद्रवान् कुर्य्यात् । तानेवोपद्रवानाह ।
“दौर्ब्बल्यं सदनं कार्श्यं कुक्षिशूलमथारुचिं ।
पाण्डुत्वमुष्मवातञ्च तृष्णां हृत्पीडनं वमिं” ॥
दौर्ब्बल्यमिन्द्रियाणां । सदनं अवसन्नत्वं । का-
र्श्यमङ्गानां । उदरैकदेशे शूलं । उष्मवातं मूत्रा-
घातविशेषं ॥ * ॥ अश्मरी शर्करा सिकताना-
मरिष्टमाह ।
“प्रसूननाभिवृषणं बद्धमूत्रं रुजान्वितं ।
अश्मरी क्षप्रयत्याशु शर्करा सिकतान्विता” ॥
शर्करा सिकतेति च नामद्वयमन्वर्थं ॥ * ॥
अथाश्मर्य्याश्चिकित्सा ।
“शुण्ठ्यग्निमन्थपाषाणभिद्रुग्वरुणगोक्षुरैः ।
अभयारग्वधफलैः क्वाथं कृत्वा विचक्षणः ॥
रामठक्षारलवणचूर्णं क्षिप्त्वा पिबेन्नरः ।
अश्मरी मूत्रकृच्छञ्च नाशमायाति निश्चितं ॥
क्वाथः शुण्ठ्यादिनामायं दीपनः पाचनः परं ।
हन्ति कोष्ठाश्रितं वातं कण्ठरुग्गदमेढ्रजं” ॥
रुक्कुष्ठं ।
शुण्ठ्यादिक्वाथः ॥ * ॥
“एलोपकुल्यामधकाश्मभेद-
कौन्तीश्वदष्ट्रावृषकोरुवूकैः ।
श्रितं पिबेदश्मजतुप्रगाढं
सशर्करं मूत्रगदेऽश्मरीषु” ॥
उरुवूक एरण्डस्तस्यात्र मूलं । मूत्रगदे मूत्रकृच्छ्रे ।
एलादिक्वाथः ॥ * ॥
“कुष्माण्डकरसं हिङ्गुयवक्षारयुतं पिबेत् ।
वस्तौ मेढ्रे शूलयुक्ते अश्मरीशर्कराञ्जयेत्” ॥ * ॥
“वरुणत्वक्शिलाभदशुण्ठीगोक्षुरकैः कृतः ।
कषायक्षारसंयुक्तः शर्करां परतयत्यधः” ॥
क्षारो यवक्षारः ॥ * ॥
“त्रिकण्टकस्य वीजानां चूर्णं माक्षिकसंयुतं ।
अवीक्षीरेण सप्ताहादश्मरीनाशनं पिबेत्” ॥
अवीर्म्मेषी ॥ * ॥
“वरुणत्वक्कषायस्तु पीती गुडसमन्वितः ।
अश्मरीं पातयत्याशु वस्तिशूलञ्च नाशयेत्” ॥ * ॥
“क्वाथो वरुणमूलस्य तस्य कल्केन संयुतः ।
शिग्रुमूलस्य च क्वाथः कटूष्णश्चाश्मरीं हरेत्” ॥ * ॥
“शृङ्गवेरयवक्षारपथ्याकालीयकान्वितः ।
दधिमण्डो भिनत्त्युग्रामश्म रीमाशु पानतः” ॥
शृङ्गवेरं नागरं ॥ * ॥
“नो जग्धं कृमिभिर्घनंसुतरुणं स्निग्धं शुचिस्थानजं
घस्रे पुण्यनिरीक्षिते वरुणकं छित्त्वा तुलां ग्राहयेत् ।
संगृह्याशु चतुर्गुणाभ्व्वपि पचेत् पादावशेषं जलं
तत्तुल्येन गुडेन वै दृढतरे भाण्डे पचेत्तत् पुनः ॥
ज्ञात्वैवं घनतां गुडे परिणते प्रत्येकमेषां पलं
शुण्ठ्यैर्व्वारुकवीजगोक्षुरकणापाषाणभिच्छीतला ।
कुष्माण्डत्रपूषाक्षवीजकुनटीवास्तूकशोभाञ्जनं
द्राक्षैलागिरिजाभयाकृमिहृतांचूर्णीकृतानाङ्क्षिपेत् ॥
पथ्याशी प्रतिवासरं गुडममुं योऽक्षप्रमाणं नरः
खादेत्तस्य समस्तदोषजनिताश्मर्य्यः पतन्ति द्रुतं” ।
एर्व्वारुकवीजं कर्कटीवीजं । पाषाणभित् हाथा-
छोडीति लोके । शीतला नीलदूर्व्वा । तथाच ।
“नीलदूर्व्वा स्मृता शस्यं शाद्वलं हरितं तथा ।
शतपर्ब्बा शीतकूम्भी शीतला वामनी तथा” ॥
इति निर्घण्टौ धन्वन्तरिः ॥ कुनटी धान्यकं ।
गिरिजं शिलाजतु । कृमिहृत् विडङ्गं । वरुणा-
दिगुडः ॥ * ॥
“मञ्जिष्ठा त्रापुषं वीजं जीरकः शतपुष्पिका ।
धात्रीफलं वदरकं गन्धकञ्च मनःशिला ॥
एतेषां समभागानां चूर्णं टङ्कमितं नरः ।
भक्षयेन्मधुना सार्द्धं पतेत्तस्याश्मरी ध्रुवं” ॥ * ॥
“पलद्वयमिते कोष्णे कुलत्थस्य शृते तु यः ।
लवणं शरपुङ्खस्य सार्द्धमाषद्वयोन्मितं ॥
क्षिप्त्वा पिबेत् पतेत्तस्य मूत्रेण सममश्मरी ।
शर्करा सिकता चापि दृष्टमेतदनेकधा” ॥
इत्यश्मर्य्यधिकारः ॥ * ॥ इति भावप्रकाशः ॥
(अस्या निरुक्तिमाह भोजः ।
“तुल्यतामश्मना याति तस्मात्तामश्मरीं विदुः” ।
इति माधवकृतरुग्विनिश्चयस्यान्यतमटीकाकृतोक्तं ॥
“पितृमातृकदोषेण अथवा मूत्ररोधनात् ।
अतिपथ्याक्षाभिचारैर्जायते चाश्मरीगदः ॥
मूत्राविष्टौ च पितरौ सुरतं कुरुतो यदि ।
मूत्रेण सहितं युक्तं च्यवते गर्भसम्भवं ॥
पञ्चजस्य स्वदेहस्य स च तत्र प्रजायते ।
मूत्रं मूत्रस्य संस्थाने करोति बन्धनं त्रिषु ॥
सोऽप्यसाध्यो मूत्रगदश्चाल्पाद्भवति मानुषे ।
तारुण्ये चापि साध्यश्च जायते मूत्रशर्करा ॥
विपरीतेन चोत्ताने स्त्रिया च पुरुषेण वा ।
शुक्रञ्च प्रवहेत्तस्य स्त्रीशुक्रं विचिनोति च ॥
पुनश्च मेहने वासः वातेन शोणितञ्च तत् ।
द्वयं दत्तं प्रपद्येत मूत्रद्वारं रुणद्धि च ॥
तेन मूत्रप्ररोधश्च जायते तीव्रवेदना ।
अण्डसन्धिस्थिता याति शर्करा शस्त्रसाध्यका ॥
अतो वक्ष्यामि भैषज्यं शृणु पुत्त्र ! महामते” ।
अस्याश्चिकित्सा यथा ॥
“शुण्ठीगोक्षुरकस्यैव वरुणस्य त्वचस्तथा ।
क्वाथो गुडयवक्षारयुतश्चाश्मरिनाशनः ॥ १ ॥
गोक्षुरकस्य वीजानां धातुमाक्षिकसंयुतं ।
चूर्णं माहिषदुग्धेन पानञ्चाश्मरिपातनं” ॥ २ ॥
अस्यां पथ्यानि यथा ॥
“पुराणयष्टिकाशालिरक्ततण्डुलकास्तथा ।
श्यामाकः कोद्रवोद्दालो मर्कटीतृणधान्यकं ॥
कुलत्थयवगोधूमास्तथाचैवाढकी भिषक् ।
वातघ्नाश्च प्रयोक्तव्या भोजने वातरोगिणां ॥
क्रौञ्चाद्यानि च मांसानि पथ्यान्यश्मरिनाशने” ॥
इति हारीतः ॥
“विशोषयेद्वस्तिगतन्तु शुक्रं
मूत्रं सपित्तं पवनः कफं वा ।
यदा तदाश्मर्य्युपजायते तु
क्रमेण पित्तेष्विव रोचना गोः ॥
कदम्बपुष्पाकृतिरश्मतुल्या
श्लक्ष्णा त्रिपुट्याप्यथवापि मृद्वी ।
मूत्रस्य चेन्मार्गमुपैति रुद्धा
मूत्रं रुजां तस्य करोति वस्तौ ॥
ससीवनीमेहनवस्तिशूलं
विशीर्णधारञ्च करोति मूत्रं ।
गृह्णाति मेढ्रं स तु वेदनार्त्तो
मुहुः शकृन्मुञ्चति मेहते च ॥
क्षोभात् क्षते मूत्रयतीह सासृक्
तस्याः सुखं मेहति च व्यपायात् ।
एषाश्मरी मारुतभिन्नमूर्त्तिः
स्याच्छर्करामूत्रपथात् क्षरन्ती” ॥ * ॥
चिकित्सा यथा ॥ * ॥
“क्रिया हिता त्वश्मरिशर्कराभ्यां
कृच्छ्रे तथैवेह कफानिलाभ्यां ।
कार्य्यश्मरीभेदनपातनाय
विशेषयुक्तं शृणु कर्म्मसिद्धं ॥
पाषाणभेदं वृषकं श्वदंष्ट्रा-
पाठाभयाव्योषशठीनिकुम्भाः ।
हिंस्रीखराश्वासितिमारकाभ्या-
मेर्व्वारुकाणां त्रपुषस्य वीजं ॥
उपकुञ्चिका हिङ्ग सवेतसाम्लं
स्याद् द्वे वृहत्यौ हपुषा वचा च ।
चूर्णं पिबेदश्मरिभेदि पक्वं
सर्पिश्च गोमूत्रचतुर्गुणन्तैः ॥ १ ॥
शिग्रोस्तु यूषो मृदुमूलकल्का-
द्विल्वप्रमाणाद्घृततैलभृष्टात् ।
शीतोऽश्मभित्स्याद्दधिमण्डयुक्तं
पेयः प्रकामं लवणेन युक्तः ॥ २ ॥
जलेन शौभाञ्जनमूलकल्कः
शृतो हितश्चाश्मरिशर्कराभ्यां ॥ ३ ॥
पीत्वा च मद्यं निगदं रथेन
हयेन वा शीघ्रजवेन यायात् ।
तैः शर्करा प्रच्यवतेऽश्मरी तु
शाम्येन्नचेच्छल्यविदुद्धरेत्तां” ॥ ४ ॥
अस्यां वर्ज्जनीयान्याह ।
व्यायामसन्धारणशुष्कभक्ष्य-
पिष्टान्नवातार्ककरव्यवायान् ।
खर्ज्जूर-शालूक-कपित्थ-जम्बु
विषं कषायञ्च रसं भजेन्न” ॥
इति च चरकः ॥)
चतस्रोऽश्मर्य्यो भवन्ति । श्लेष्मणा वातेन पित्तेन
पृष्ठ १/१४३
:शुक्रेण चेति ॥ तत्रासंशोधनशीलस्यापथ्यका-
रिणः प्रकुपितः श्लेष्मामूत्रसम्पृक्तोऽनुप्रविश्य
वस्तिमश्मरीं जनयति । तासां पूर्ब्बरूपाणि
वस्तिपीडारोचकौ मूत्रकृच्छ्रं वस्तिशिरोमुष्कशे-
फसां वेदना कृच्छ्रा ज्वरावसादौ वस्तगन्धित्वं
मूत्रस्येति ॥
“यथास्वं वेदनावर्णं दुष्टं सान्द्रमथाविलं ।
पूर्ब्बरूपेऽश्मनः कृच्छ्रान्मूत्रं सृजति मानवः” ॥
अथ जातासु नाभि-वस्ति-सेवनी-मेहनेष्वन्यतम-
स्मिन् मेहतो वेदना मूत्रधारासङ्गः सरुधिर-
मूत्रता मूत्रविकिरणञ्च गोमेदकप्रकाशमनाविलं
ससिकतं विसृजति धावन-लङ्घन-प्लवन-पृष्ठ-याना-
ध्वगमनैश्चास्य वेदना भवति ॥
तत्र श्लेष्माश्मरी श्लेष्मलमन्नमभ्यवहरतोऽत्यर्थमुप-
लिप्याधः परिवृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रो-
तो विरुणद्धि तस्य मूत्रप्रतिघाताद्दाल्यते भिद्यते
निस्तुद्यत इव च वस्तिर्गुरुः शीतश्च भवति । अश्मरी
चात्र श्वेता स्निग्धा महती कुक्कुटाण्डप्रतीकाशा
मधूकपुष्पवर्णा वा भवति तां श्लैष्मिकीमिति
विद्यात् ॥
पित्तयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परि-
वृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि
तस्य मूत्रप्रतीघातादुष्यते चूष्यते दह्यते पच्यते
इव वस्तिरुष्णवातश्च भवति । अश्मरी चात्र सरक्ता
पीतावभासा कृष्णा भल्लातकास्थिप्रतिमा मधु-
वर्णा वा भवति तां पैत्तिकीमिति विद्यात् ॥
वातयुक्तस्तु श्लेष्मा सङ्घातमुपगम्य यथोक्तां परि-
वृद्धिं प्राप्य वस्तिमुखमधिष्ठाय स्रोतो निरुणद्धि
तस्य मूत्रप्रतीघातात्तीव्रा वेदना भवति तथात्यर्थं
पीड्यमानो दन्तान् खादति नाभिं पीडयति मेढ्रं
मृद्गाति वायुं स्पृशति विशर्द्धते विदहति वात-
मूत्रपुरीषाणि कृच्छ्रेण वास्य मेहतो निःसरन्ति ।
अश्मरी चात्र श्यामा परुषा विषमा खरा कदम्ब-
पुष्पवत् कण्टकाचिता भवति तां वातिकीमिति
विद्यात् ॥
प्रायेणैतास्तिस्रोऽश्मर्य्यो दिवास्वप्न-समशनाध्यशन-
शीत-स्रिग्ध-गुरु-मधुराहारप्रियत्वाद्विशेषेण बा-
लानां भवन्ति तेषामेवाल्पवस्तिकायत्वादनुपचित-
मांसत्वाच्च वस्तेः सुखग्रहणाहरणा भवन्ति ॥ मह-
तान्तु शुक्राश्मरी शुक्रनिमित्ता भवति । मैथुनाभि-
घातादतिमैथुनाद्वा शुक्रश्च तिलमनिर्गच्छद्विमार्ग-
गमनादनिलोऽभितः संगृह्य मेढ्रवृषणयोरन्तरे
संहरति संहृत्य चोपशोषयति सा मूत्रमार्गमा-
वृणोति मूत्रकृच्छ्रं वस्तिवेदनां वृषणयोश्च श्वयथु-
मापादयति पीडितमात्रे च तस्मिन्नेव प्रदेशे प्रवि-
लयमापद्यते तां शुक्राश्मरीमिति विद्यात् ॥
अस्याश्चिकित्सा यथा ॥
“अश्मरी दारुणो व्याधिरन्तकप्रतिमो मतः ।
औषधैस्तरुणः साध्यः प्रवृद्धञ्छेदमर्हति ॥
तस्य पूर्ब्बेषु रूपेषु स्नेहादिक्रम इष्यते ।
तेनास्यापचयं यान्ति व्याधेर्मूलान्यशेषतः ॥
घृतैः क्षारैः कषायैश्च क्षीरैः सोत्तरवस्तिभिः ।
यदि नोपशमं गच्छेत् छेदस्तत्रोत्तरो विधिः ॥
कुशलस्यापि वैद्यस्य यतः सिद्धिरिहाध्रुवा ।
उपक्रमो जद्यन्योऽयमतः स परिकीर्त्तितः ॥
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ।
तस्मादापृच्छ्य कर्त्तव्यमीश्वरं साधुकारिणा” ॥
अथ रोगान्वितमुपस्निग्धमपकृष्टदोषमीषत् क-
शितमभ्यक्तस्विन्नशरीरं भुक्तवन्तं कृतवलिमङ्गल-
स्वस्तिवाचनमग्रोपहरणीयोक्तेन विधानेनोपक-
ल्पितसम्भारमाश्वास्य ततो बलवन्तमविक्लव-
माजानुसमे फलके प्रागुपवेश्य पुरुषञ्च तस्योत्सङ्गे
निषन्नपूर्ब्बकायमुत्तानमुन्नतकटीकं वस्त्रधारकोप-
विष्टं सङ्कुचितजानुकूर्परमितरेण सहावबद्धं
सूत्रेण शाटकैर्व्वा ततः स्वभ्यक्तनाभिप्रदेशस्य
वामपार्श्वं विमृद्य मुष्टिनावपीडयेदधोनाभेर्याव-
दश्मर्य्यधः प्रपन्नेति । ततः स्नेहाभ्यक्ते कॢप्तनखे
वातहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसे-
वनीमासाद्य प्रयत्नबलाभ्यां पायुमेढ्रान्तरमानीय
निर्व्यलीकमनायतमविषमञ्च वस्ति सन्निवेश्य भृश-
मुत्पीडयेदङ्गुलिभ्यां यथाग्रन्थिरिवोन्नतं शल्यं
भवति ॥
“सचेद्गृहीतशल्ये तु विवृताक्षो विचेतनः ।
हतवल्लम्बशीर्षश्च निर्व्विकारो मृतोपमः ॥
न तस्य निर्हरेच्छल्यं निर्हरेत्तु म्रियेत सः ।
विना त्वेतेषु रूपेषु निर्हर्त्तुं समुपाचरेत् ॥”
इति सुश्रुतः ॥
“अयोरजः श्नक्ष्णपिष्टं मधुना सह योजयेत् ।
अश्मरीं विनिहन्त्याशु मूत्रकृच्छ्रञ्च दारुणं ॥”
॥ * ॥ लौहप्रयोगः ॥ * ॥
इति वैद्यकरसेन्द्रसारसंग्रहः ॥)

अश्मरीघ्नः, पुं, (अश्मरीं मूत्रकृच्छ्रंहन्ति । अश्मरी +

हन् + टक् ।) वरुणवृक्षः । इति त्रिकाण्डशेषः ॥

अश्मरीहरः, पुं, (अश्मरीं हरति । अश्मरी + हृ +

अच् ।) धान्यविशेषः । इति रत्नमाला ॥ दे धान
इति ख्यातः ।
“वरुणः कफवातघ्नो भेदी चोष्णोऽश्मरीहरः” ।
इति वैद्यकद्रव्यगुणः ॥)

अश्मसारः, पुं, क्ली, (अश्मनः सारः ।) लौहः ।

इत्यमरः ॥ (“प्राणाः सत्वरमश्मसारकठिना
गच्छन्ति गच्छन्त्वमी” । इति साहित्यदर्पणे ॥)

अश्मीरः, पुं, क्ली, (अश्मन् + ईर ।) अश्मरीरोगः ॥

इत्युणादिकोषः ॥

अश्मोत्थं, क्ली, (अश्मनः उत्तिष्ठति यत् । उत् + स्था

+ क ।) शिलाजतु । इति राजनिर्घण्टः ॥

अश्रं, क्ली, (अश्नुते व्याप्नोति नेत्रं कण्ठं वा अश् +

रक् ।) नेत्रजलं । इत्युणादिकोषः ॥
(“तामप्यश्रं नवजलमयं मोचयिष्यत्यवश्यं” ।
इति मेघदूते ॥
“सखीभिरश्रोत्तरमीक्षितामिमाम्” । इति कु-
मारे ॥) रक्तं । इत्यमरटीका ॥

अश्रद्दधानः, त्रि, (न श्रद्दधानः । नञ्तत्पुरुषः ।)

श्रद्धाहीनः । यथा देवलः ।
“प्रत्ययो धर्म्मकार्य्येषु तथा श्रद्धेत्यदाहृता ।
नास्ति ह्यश्रद्धधानस्य धर्म्मकृत्ये प्रयोजनं” ॥
इति श्राद्धतत्त्वं ॥

अश्रद्धा, स्त्री, (न श्रद्धा । नञ्तत्पुरुषः ।) शास्त्रार्थे

अदृढप्रत्ययः । यथा, --
“विधिहीनं भावदुष्टं कृतमश्रद्धया च यत् ।
तद्धरन्त्यसुरास्तस्य मूढस्य दुष्कृतात्मनः” ॥
इति श्राद्धतत्त्वं ॥ (मानसिकवृत्तिभेदः । यथा
श्रुतौ, --
“कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
धृतिर्ह्रीर्धीर्भीरित्येतत् सर्वं मन एव” ॥
“अश्रद्धया च यद्दत्तं तत्तामसमुदाहृतम्” ॥
इति गीतायाम् ।)

अश्रद्धेयं, त्रि, श्रद्धानर्हं । आदरायोग्यं । शास्त्रार्था-

दृढप्रत्यययोग्यं । श्रत् शब्दपूर्ब्बक धाधातोर्यप्रत्यये
पश्चान्नञ्समासेन निष्पन्नं ॥ (“किमनेनाश्रद्धेय-
व्याधवचनप्रत्ययमात्रपरिगृहीतेनाण्डजेन” । इति
पञ्चतन्त्रे ।)

अश्रपः, पुं, क्ली, (अश्रं रक्तं पिबति यः । अश्र +

पा + ड ।) राक्षसः । इत्यमरः ॥

अश्राद्धभोजी, [न्] त्रि, (न श्राद्धभोजी । नञ्तत्-

पुरुषः ।) श्राद्धान्नाभक्षकः । यथा । दुर्गसिंहोऽपि
अश्राद्धभोजीत्यस्य सति भोजने अश्राद्धमेव
भुङ्क्ते न श्राद्धमिति न नियमः । तथात्वे व्रतलोपः
स्यात् । इति प्रायश्चित्ततत्त्वं ॥

अश्राद्धी, [न्] पुं, (अश्राद्धमस्त्यस्य । अश्राद्ध +

इन् ।) श्राद्धपञ्चयज्ञशून्यः । यथा मनुः ।
“नाद्यात् शूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः ।
आददीताममेवास्मादवृत्तावेकरात्रिकं” ॥
अश्राद्धिनः श्राद्धपञ्चयज्ञशून्यस्य । इत्याह्निका-
चारतत्त्वं ॥

अश्राद्धेयः, पुं, (न श्राद्धेयः । नञ्समासः ।) श्राद्धा-

नर्ह्यः । श्राद्धायोग्यब्राह्मणः । यथा । अत्रिका-
श्यपौ, --
“पितुर्गेहे च या कन्या रजः पश्यत्यसंस्कता ।
भ्रूणहत्या पितुस्तस्याः सा कन्या वृषली स्मृता ॥
यस्तु तां वरयेत् कन्यां ब्राह्मणो ज्ञानदुर्ब्बलः ।
अश्राद्धेयमपाङ्क्तेयं तं विद्याद्वृषलीपतिं” ॥
इत्युद्वाहतत्त्वं ॥

अश्रान्तं, क्ली, (अविद्यमानं श्रान्तमत्र । नञ्स-

मासः) अनवरतं । नित्यं । इत्यमरः ॥ श्रमर-
हिते त्रि ॥

अश्रान्तः, त्रि, श्रमरहितः । यथा । “अश्रान्तश्रुति-

पाठपूतरसनाविर्भूतभूरिस्तवा जिह्मब्रह्ममुखौघ-
विघ्नितनवस्वर्गक्रियाकेलिना । पूर्ब्बं गाधिसुतेन
साभिघटिता मुक्तानु मन्दाकिनी यत् प्रासाददु-
कूलवल्लिरनिलान्दोलैरखेलद्दिवि” ॥ इति नैषधे
१ स्वर्गः ॥

अश्रिः, स्त्री, (अश्नाति अश्नुते वा । अश भोजने अशू

व्याप्तौ वा । आश्रीयते प्राहारार्थम् । आङि-
श्रिहनिभ्यां ह्रस्वश्चेति इण् स च डित् डित्वात्
टिलोप आङो ह्रस्वश्च ।) गृहादेः कोणः । इति
हेमचन्द्रः ॥ अस्त्रादेरग्रभागः । इत्यमरः ॥
पृष्ठ १/१४४
:(“वृत्तस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते” ।
इति कुमारे ।
“वज्रो वा एष यद्यूपः सोऽष्टाश्रिः कर्त्तव्योऽष्टाश्रिः
वै वज्रः” । इति ऐतरेयब्राह्मणे ।)

अश्री, स्त्री, अश्रिः । अस्त्रादेरग्रभागः ॥ इत्यमर-

टीका ॥

अश्रु, क्ली, (अश्नुते नेत्रमिति । अश् + रुक् । अथ

वा न श्रयति इति । न + श्रि + डुन् ।) चक्षुर्ज्जलं ।
तत्पर्य्यायः । नेत्राम्बु २ रोदनं ३ अश्रं ४ अस्रं ५
अस्रु ६ वाष्पं ७ । इत्यमरकोषशब्दरत्नावल्यौ ।
(“श्रुतदेहविसर्ज्जनः पितुश्चिरमश्रूणि विमुच्य
राघवः” । इति रघुवंशे ।) लोचं ८ । इति जटा-
धरः ॥

अश्रुतं, त्रि, (न श्रुतं । नञ्तत्पुरुषः ।) अकृतश्रवणं ॥

अनाकर्णितं । अशुना इति भाषा । यथा, --
“श्रुतार्थस्य परित्यागात् अश्रुतार्थस्य कल्पनात् ।
प्राप्तस्य बाधादित्येवं परिसङ्ख्या त्रिदोषिका” ।
इति प्रायश्चित्ततत्त्वं ॥

अश्लेषा, स्त्री, (नास्ति श्लेषो यस्याम् ।) अश्वि-

न्यादिसप्तविंशतिनक्षत्रान्तर्गतनवमनक्षत्रं । अस्य
रूपं । चक्राकृतिषड्नक्षत्रात्मकं । इति दीपिका ॥
तस्याधिदेवता सर्पः ॥ यथा । अश्वि-यम दहन-
कमलज-शशि-शूलभृददिति-जीव-फणि-पितरः ।
इत्यादि ज्योतिस्तत्त्वं ॥ सा केतुग्रहस्य जन्मनक्षत्रं ।
यथा, --
“विशाखानलतोयानि वैष्णवं भगदैवतं ।
पुष्या पौष्णं यमः सर्पो जन्मभान्यर्कतः क्रमात्” ॥
इति दीपिका ॥ सा च अधोमुखगणः । यथा, --
“अश्लेषवह्नियमपित्र्यविशाखयुक्तं
पूर्ब्बात्रयं शतभिषा च नवाप्युडूनि ।
एतान्यधोमुखगणानि शिवानि नित्यं
विद्यार्घ्यभूमिखननेषु च शोभितानि” ॥
इति ज्योतिस्तत्त्वं ॥ * ॥ तस्या मस्तकोपरि उदये
रात्रिलग्ननिरूपणं यथा, --
“मौलिगे भुजगभे श्वपुच्छके
भङ्गुराकृतिनि सप्ततारके ।
मारकेलिरसिके तुलोदयात्
निर्ययुर्ज्जलधिखाक्षिलिप्तिकाः” ॥ ३ । २४ ।
इति कालिदासकृतरात्रिलग्ननिरूपणं ॥ तत्र
जातफलं ॥
“वृथाटनः स्यादतिदुष्टचेताः
कष्टप्रदश्चापि वृथा जनानां ।
सर्पे सदर्पो हि शठार्पितार्थः
कन्दर्पसन्तप्तमना मनुष्यः” ॥
इति कोष्ठीप्रदीपः ॥

अश्लेषाभवः, पुं, (अश्लेषायां भवः ।) केतुग्रहः । इति

हारावली ॥

अश्वः, पुं, (अश्नुते मार्गं व्याप्नोति । अशू व्याप्तौ

अशूप्रुषिलटीति क्वन् ।) घोटकः । तत्पर्य्यायः ।
पीतिः २ पीती ३ वीतिः ४ घोटः ५ घोटकः ६
तुरगः ७ तुरङ्गः ८ तुरङ्गमः ९ वाजी १० वाहः
११ अर्व्वा १२ गन्धर्ब्बः १३ हयः १४ सैन्धवः १५
सप्तिः १६ । इत्यमरः तट्टीकाच ॥
(“जितसिंहभया नागा यत्राश्वा विलयोनयः” ।
इति कुमारे ॥
“गच्छन्तमुच्चलितचामरचारुमश्वम्” ॥
इति शिशुपालबधे ॥) अश्वेन भ्रमणगुणाः ।
वातकोपनाङ्गस्थैर्य्यबलाग्निकारित्वं । इति राज-
वल्लभः ॥ पुंजातिविशेषः । तस्य लक्षणं ।
“काष्ठतुल्यवपुर्धृष्टो मिथाचारश्च निर्भयः ।
द्वादशाङ्गुलमेढ्रश्च दरिद्रस्तु हयो मतः” ॥
इति रतिमञ्जरी ॥ (स्वनामख्यातो वृष्णिवंशी-
यो नृपतिश्चित्रकस्य पुत्त्रः । यथा, --
“चित्रकस्याभवन् पुत्त्राः पृथुर्विप्रथुरेव च ।
अश्वग्रीवोऽश्ववाहुश्च सुपार्श्वकगवेषणौ ॥
अरिष्टनेमिरश्वश्च ।” इति हरिवंशे ॥ स्वनाम
ख्यातो दानवश्च यथा महाभारते ।
“चत्वारिंशद्दनोः पुत्त्राः ख्याताः सर्व्वत्र भारत ॥
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्व्वा जकस्तथा” ॥)

अश्वकन्दिका, स्त्री, अश्वगन्धावृक्षः । इति रत्नमाला ॥

अश्वकर्णः, पुं, (अश्वस्य कर्णमिवपत्रमस्य ।) शाल-

वृक्षविशेषः । लताशाल इति केचित् ॥ तत्-
पर्य्यायः । जरणद्रुमः २ तार्क्ष्यप्रसवः ३ शस्यसम्ब-
रणः ४ धन्यः ५ दीर्घपर्णः ६ कुशिकः ७ कौ-
शिकः ८ । अस्य गुणाः । कटुत्वं । तिक्तत्वं ।
स्निग्धत्वं । “उरोविस्फोटपित्तास्रकण्डुशिरादोषा-
र्त्तिनाशित्वञ्च” ॥ इति राजनिर्घण्टः ॥
(“सालतालाश्वकर्णानां पर्णैर्वहुभिरावृताम्” ॥
इति रामायणे ॥
“अश्वकर्णः कषायः स्याद्ब्रणस्वेदककक्रमीन् ।
ब्रध्नविद्रधिवाधिर्य्ययीनिकर्णगदान् हरेत्” ॥
इति भावप्रकाशः ॥
“विम्बीफलं साश्वकर्णं स्तन्यकृत् कफपित्तजित् ।
तृड्दाहज्वरपित्तासृक्कासश्वासक्षयापहं” ॥
इति सुश्रुतः ॥)

अश्वकर्णकः, पुं, (अश्वकर्ण + स्वार्थे कन् ।) पाल-

वृक्षः । इत्यमरः ॥

अश्वकिनी, स्त्री, (अश्वक + इन् + ङीप् ।) अश्विनी-

नक्षत्रं । इति हेमचन्द्रः ॥

अश्वखुरः, पुं, (अश्वस्य खुरमिवाकृतिर्यस्य ।) नखी-

नामगन्धद्रव्यं । इति रत्नमाला ॥

अश्वखुरा, स्त्री, अपराजितालता । इति राजनिर्घण्टः ॥

अश्चखुरी, (स्त्रीं) अपराजितालता । इति शब्द-

माला ॥

अश्वगन्धा, स्त्री, (अश्चस्य गन्ध एकदेशोमेढ्रनिव मूल-

मस्याः ।) स्वनामख्यातक्षुद्रवृक्षविशेषः । अश्वगन्ध
इतिख्याता । तत्पर्य्यायः । हयगन्धा २ वाजि-
गन्धा ३ अश्वगन्धिका ४ बल्या ५ तुरगगन्धा ६
कम्बुका ७ अश्वावरोहिका ८ कम्बुकाष्ठा ९ अव-
रोहिका १० वाराहकर्णी ११ तुरगा १२ वनजा
१३ वाजिनी १४ हया १५ पुष्टिदा १६ बलदा १७
पुष्टिः १८ पीवरा १९ पलाशपर्णी २० वातघ्नी २१
श्यामला २२ कामरूपिणी २३ काला २४ प्रिय-
करी २५ गन्धपत्री २६ हयप्रिया २७ वाराहपत्री
२८ अस्या गुणाः । कटुत्वं । उष्णत्वं । तिक्तत्वं ।
मदगन्धित्वं । बलशुक्रकारित्वं । वायुकाशश्वास-
क्षयव्रणजराव्याधिनाशित्वञ्च । इति रत्नमाला-
राजनिर्घण्टराजबल्लभाः ॥
“गन्धान्ता वाजिनामादिरश्वगन्धा हयाह्वया ।
वाराहकर्णी वरदा वरदा कुष्ठगन्धिनी” ॥
क्वचित्पुस्तके अन्त्यवरदास्थाने वदरीति पाठः ।
“अश्वगन्धानिलश्लेष्मश्वित्रशोथक्षयापहा ।
बल्या रसायनी तिक्ता कषायोष्णातिशुक्रला” ॥
इति भावप्रकाशः ॥
(“यवाश्वगन्धा यष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम् ।
शतावर्य्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः” ॥
इति सुश्रुते ॥
“अश्वगन्धाशु वातघ्नी बल्या वृष्या रसायणी” ॥
इति वैद्यकद्रव्यगुणः ॥
“पादकल्केऽश्वगन्धायाः क्षीरे दशगुणे पचेत् ।
घृतं पेयं कुमाराणां पुष्टिकृद्वलबर्द्धनं” ॥
॥ * ॥ अश्वगन्धाघृतं ॥ * ॥
इति वैद्यकचक्रपाणिसंग्रहः ॥)

अश्वगोयुगं, क्ली, (द्वावश्वौ । द्वित्वे, अश्व + गोयुगच् ।)

अश्वद्वयं । इति पाणिनिः ॥ एक योडाघोडा
इति भाषा ।

अश्वगोष्ठं, क्ली, (अश्वानां स्थानं । गोष्ठजादयः स्थाना-

दिषु पशुनामभ्य इति, अश्व + गोष्ठच् ।) अश्व-
स्थानं । आस्तबल् इति आरवीमाषा । यथा, --
“पशुभ्यः स्थानद्विषट्के गोष्ठगोयुगषड्गवं ।”
इत्यनेन अश्वशब्दात् गोष्ठप्रत्ययेन निष्पन्नं’ ॥
इति मुग्धबोधव्याकरणं ॥

अश्वग्रीवः, पुं, (अश्वस्य ग्रीवाइव ग्रीवा यस्य ।)

विष्णुद्वेष्टासुरविशेषः । इति हेमचन्द्रः ॥ (यथाह
भारते ।
“अश्वग्रीवश्च सूक्षश्च तुहुण्डश्च महाबलः” ॥
तत्रैव च ।
“अश्वग्रीव इति ख्यातः पृथिव्यां सोऽभवन्नृपः” ॥
स्वनामख्यातो वृष्णिवंशीयो नृपतिः सहि चित्र-
कस्य पुत्त्रो वृष्णिनरपतेः पौत्त्रः । यथा हरि-
वंशे, --
“चित्रकस्याभवन् पुत्त्राः पृथुर्विप्रथुरेव च ।
अश्वग्रीवोऽश्ववाहुश्व सुपार्श्वकगवेषणौ” ॥)

अश्वघ्नः, पुं, (अश्वं हन्तीति । अश्व + हन् + टक् ।)

करवीरपुष्पवृक्षः । इति रत्नमाला ॥

अश्वतरः, पुं, स्त्री, (तनुरश्वः । वत्सोक्षाश्वर्षभेभ्यश्च

तनुत्व इति ष्टरच् । अश्वेनाश्वायामुत्कन्नोऽश्वः ।
अश्वत्वं च जातिः । तत्सहचरितस्योक्तधर्म्मस्य
तनुत्वं अन्यपितृकत्वात् ।) अश्वायां गर्द्दभेन
जातः पशुविशेषः । इति स्मृतिः । खचर इति
भाषा । ॥
(“हयानश्वतरानुष्ट्रांस्तथैव सुरभेः सुतान्” ।
इति रामायणे ॥
“सकृद्दुष्टं हि यो मित्रं पुनः सन्धातुमिच्छति ।
स मृत्युमुपगृह्णाति गर्भादश्वतरो यथा” ॥
इति पञ्चतन्त्रे ॥)
पृष्ठ १/१४५

अश्वतरः, पुं, वेगसरः । नागराजविशेषः । इति

मेदिनीं ॥
(“कम्बलाश्वतरौ चापि नागकालीयकस्तथा” ।
“ऐरावतो महापद्मः कम्बलाश्वतरावुभौ” ॥
इति च महाभारते ॥) गन्धर्व्वविशेषः । पुंवत्सः ।
इति धरणिः ॥

अश्वत्थः, पुं, (अश्वत्थं जलमस्यास्ति । मूले सिक्त-

त्वात् । अर्श-आद्यच् । अशृत्थवत् कामकर्म्मवाते-
रितनित्यप्रचलितस्वभावत्वात् आशुविनाशित्वेन
श्वोऽपि स्थास्यतीति विश्वासानर्हत्वाच्च मायामयः
संसारवृक्षः । शाल्मलिवटाद्यपेक्षया न श्वश्चिरं
तिष्ठति अश्वैव तिष्ठति वा । स्था गतिनिवृत्तौ ।
पृषोदरादित्वात् पूर्ब्बोत्तरपदान्ताद्योः सकारयो-
स्तकारौ सुपिस्थ इति कः ।) स्वनामख्यातवृक्ष-
विशेषः । पिपर इति पश्चिमदेशीयभाषा । तत्-
पर्य्यायः । बोधिद्रुमः २ चलदलः ३ पिप्पलः ४
कुञ्जराशनः ५ । इत्यमरः ॥ अच्युतावासः ६ चल-
पत्रः ७ पवित्रकः ८ शुभदः ९ बोधिवृक्षः १०
याज्ञिकः ११ गजभक्षकः १२ श्रीमान् १३ क्षीर-
द्रुमः १४ विप्रः १५ मङ्गल्यः १६ श्यामलः १७ गुह्य-
पुष्पः १८ सेव्यः १९ सत्यः २० शुचिद्रुमः २१ धनु-
वृक्षः २२ । अस्य गुणाः । सुमधुरत्वं । कषायत्वं ।
शीतलत्वं । कफपित्तविनाशित्वं रक्तदाहशमन-
कारित्वञ्च ॥ तत्पक्वफलस्य गुणाः । सद्यो योनि-
दोषहारित्वं । शीतलत्वं । अतिहृद्यत्वं । पित्तर-
क्तविषार्त्तिदाहच्छर्द्दिशोषारुचिदोषनाशित्वञ्च ।
इति राजनिर्घण्टः ॥
(“अश्वत्थोडुम्बरप्लक्षन्यग्रोधानां फलानि च ।
कषायमधुराम्लानि वातलानि गुरूणि च” ॥
इति चरकः ॥
अश्वत्थदेवायतनश्मशान-
बल्मीकसन्ध्यासु चतुष्पथेषु ।
याम्ये सपित्रे परिवर्ज्जनीया
ऋक्षे नरा मर्म्मसु ये च दष्टाः” ॥
इति सुश्रुतः ॥)
अथाश्वत्थवन्दनकालमन्त्राः ।
“अश्वत्थं वन्दयेन्नित्यं पूर्ब्बाह्ले प्रहरद्वये ।
अत ऊर्द्ध्वं न वन्देत अश्वत्थन्तु कदाचन ॥
(ॐ) चक्षुस्पन्दं भुजस्पन्दं तथा दुःस्वप्नदर्शनं ।
शत्रूणाञ्च समुत्थानमश्वत्थ शमयाशु मे ॥
अश्वत्थरूपी भगवान् प्रीयतां मे जनार्दनः ।
त्वां दृष्ट्वा नश्यते पापं दृष्ट्वा लक्ष्मीः प्रवर्त्तते ॥
प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोऽस्तु ते” ॥
इति स्मृत्यर्थसारे हलायुधधृतवचनं ॥ गर्द्दभाण्ड-
वृक्षः । इति विश्वः ॥
“बाधिद्रुः पिप्पलोऽश्वत्थश्चलपत्रो गजाशनः ।
पिप्पलो दुर्ज्जरः शीतः पित्तश्लेष्मव्रणास्रजित् ॥
गुरुस्तुवरको रूक्षो वर्ण्यो योनिविशोधनः” ॥ * ॥
अथ पिप्पलभेदः । गजहण्डु इति हिन्दिभाषा ।
“पारिशोन्यः फलीशश्च कपिचूतः कमण्डलुः ।
गर्द्दभाण्डः कन्दरालकपीतनसुपार्श्वकाः ॥
फलीशो दुर्ज्जरः स्निग्धः क्रिमिशुक्रकफप्रदः ।
फलेऽम्लमधुरो मूले कषायः स्वादुमज्जकः” ॥ * ॥
अथ वेलियापिप्पलः ।
“नन्दीवृक्षोऽश्वत्थभेदः प्ररोही गजपादपः ।
स्थालीवृक्षः क्षयतरुः क्षीरी च स्याद्वनस्पतिः ॥
नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवर उष्णकः ।
कटुपाकरसो ग्राही विषपित्तकफास्रनुत्” ॥
इति भावक्रकाशः ॥ * ॥ तस्य विष्णुस्वरूपत्वं यथा, --
ऋषय ऊचुः ।
“कथं त्वयाश्वत्थवटौ गोब्राह्मणसमौ कृतौ ।
सर्व्वेभ्योऽपि तरुभ्यस्तौ कथं पूज्यतमौ कृतौ” ॥
सूत उवाच ॥
“अश्वत्थरूपो भगवान् विष्णुरेव न संशयः ।
रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक् ॥
दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः ।
दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवं” ॥
ऋषय ऊचुः ।
“कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।
एतत् कथय सर्व्वज्ञ संशयोऽत्र महान् हि नः” ॥
सूत उवाच ।
“पार्ब्बतीशिवयोर्दवैः सुरतं कुर्व्वतोः किल ।
अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नः कृतः पुरा ॥
ततस्तु पार्ब्बती क्रुद्धा शशाप त्रिदिवौकसः ।
रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा” ॥
पार्ब्बत्युवाच ।
“कृमिकीटादयोऽप्येते जानन्ति सुरतेः सुखं ।
तस्मान्मम सुखभ्रंशात् यूयं वृक्षत्वमाप्स्यथ” ॥
सूत उवाच ।
“एवं सा षार्ब्बती देवी अशपत् क्रुद्धमानसा ।
तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ॥
तस्मादिमौ विष्णुमहेश्वरावुभौ
बभूवतुर्बोधिवटौ मुनीश्वराः ।
बोधिस्त्वयं चार्किदिनं विनैव
न संस्पृशेदर्कजवारयोगात्” ॥
इति पाद्मे उत्तरखण्डे १६० अध्यायः ॥ * ॥
ऋषय ऊचुः ।
“अस्पृश्यत्वं कथं जातं सूत बोधितरुः स्वयं ।
स्पृश्यत्वञ्च कथं प्राप्तस्तथायं शनिवासरे” ॥
सूत उवाच ।
“समुद्रमथनाद्यानि रत्नान्यापुः सुरोत्तमाः ।
श्रेष्ठञ्च कौस्तुभं तेष विष्णवे प्रददुः सुराः ॥
यावदङ्गीचकारासौ लक्ष्मीं भार्य्यार्थमात्मनः ।
तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनं” ॥
लक्ष्मीरुवाच ।
“असंस्कृत्य कथं च्येष्ठां कनिष्ठा परिणीयते ।
तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ॥
विवाह्योद्वाहमां पश्चात् एष धर्म्मः सनातनः ।
तस्मात् धर्म्मव्यतिक्रामं न कुर्य्या मधुसूदन ॥
इति तद्वचनं श्रुत्वा स बिष्णुर्लोकभावनः ।
उद्दालकाय मुनये सुदीर्घतपसे तदा ॥
आप्तवाक्यानुरोधेन तामलक्ष्मीं ददौ किल ।
स्थूलोष्ठीं शुक्लवदनां विरूपां बिभ्रतीं तनुं ॥
खवदारक्तनयनां रूक्षपिङ्गशिरोरुहां ।
स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमं ॥
वेदध्वनिसमायुक्तमानयामास धर्म्मवित् ।
होमधूपसुगन्धाढ्यं वेदघोषेन नादितं ॥
आश्रमं तं विलोक्याथ व्यथिता साब्रवीदिदं ।”
ज्येष्ठोवाच ।
“नहि वासानुरूपोऽयं वेदध्वनियुतो मम ॥
नात्रागमिस्ये भो ब्रह्मन् नयस्वान्यत्र मां ध्रवं” ।
उद्दालक उवाच ।
“कथं नायासि किञ्चात्र वर्त्तते स्वमतं तव ।
तव योग्या च वसतिः का भवेत्तद्वदस्व मां” ॥
ज्येष्ठोवाच ।
“वेदध्वनिर्भवेद्यस्मिन् अतिथीनाञ्च पूजनं ।
यज्ञदानादिकं यत्र नैव तत्र वसाम्यहं ॥
परस्परानुरागेण दाम्पत्यं यत्र विद्यते ।
पितृदेवार्च्चनं यत्र तत्र नैव वसाम्यहं ॥
दानशौचे न विद्येते परद्रव्यापहारिणः ।
परदाररता यत्र तत्र स्थाने रतिर्म्मम ॥
वृद्धसज्जनविप्राणां यत्र स्यादवमाननं ।
निष्ठुरं भाषणं यत्र तत्र सम्यग्वसाम्यहं” ॥
सूत उवाच ।
“इति तद्वचनं श्रुत्वा विसन्नवदनोऽभवत् ।
उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह” ॥
उद्दालक उवाच ।
“अश्वत्थवृक्षमूलेऽस्मिन् अलक्ष्मीः श्रम्यतां क्षणं
आश्रमस्थानमालोक्य यावदायाम्यहं पुनः” ॥
सूत उवाच ।
“इति तां तत्र संस्थाप्य जगामोद्दालको मुनिः ।
प्रतीक्षन्ती चिरं तत्र यदा न तं ददर्श सा ॥
तदा रुरोद करुणं भर्तुस्त्यागेन दुःखिता ।
तत्तस्याः क्रन्दितं लक्ष्मीर्वैकुण्ठभवनेऽशृणोत् ॥
तदा विज्ञापयामास विष्णुमुद्विग्नमानसा” ।
लक्ष्मीरुवाच ।
“स्वामिन् मद्भगिनी ज्येष्ठा स्वामित्यागेन दुःखिता ।
तामाश्वासयितुं याहि कृपालो यद्यहं प्रिया” ॥
सूत उवाच ।
“लक्ष्म्या सह ततो विष्णुस्तत्रागात् कृपयान्वितः ।
आश्वासयन्नलक्ष्मीं तामिदं वाक्यमथाब्रवीत्” ॥
विष्णुरुवाच ।
“अश्वत्थवृक्षमासाद्य सदालक्ष्मीः स्थिरा भव ।
ममांशसम्भवो ह्येष आवासस्ते मया कृतः ॥
मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति ।
अस्पृश्योऽसौ भवेत्तस्मात् मन्दवारं विना किल” ॥
इति पाद्मे उत्तरखण्डे १६१ अध्यायः ॥ २ ॥
वैशाखमासे तस्य सेचनफलं यथा, --
“वैशाखे सिञ्चयेन्नित्यं विष्णुमश्वत्थरूपिणं ।
चतुर्वर्गफलावाप्तिहेतवे वैष्णवो जनः ॥
गण्डूषमात्रतोयेन कूर्य्याद्योऽश्वत्थसेचनं ।
सोऽपि याति परं स्थानं विमुक्तः पापकोटिभिः ॥
अश्वत्थमूलं विप्रर्षे यो बध्नाति शिलादिभिः ।
अश्वत्थरूपी भगवान् किं तस्मै न हि यच्छति ॥
अश्वत्थद्रुममालोक्य प्रणामं कुरुते तु यः ।
आयुर्वृद्धिर्भवेत्तस्य वर्द्धन्ते सर्वसम्पदः ॥
पृष्ठ १/१४६
:यथाश्वत्थतले बिप्र धर्म्मकर्म्म विधीयते ।
न्यूनातिरिक्तता न स्यात्तस्मिन् कर्म्मणि जैमिने ॥
तत्र तीर्थानि सर्व्वाणि त्रिस्रोतादीनि जैमिने ।
यत्राश्वत्थतरुस्तिष्ठेत् एकोऽपि शाखिनां वरः ॥
अश्वत्थपूजको यस्तु स एव हरिपूजकः ।
अश्वत्थमूर्त्तिर्भगवान् स्वयमेव यतो द्विज ॥
तरुज्ञानाद्द्विजश्रेष्ठ योऽश्वत्थं हन्ति मूढधीः ।
संसारे नास्ति तत्कर्म्म यत् कृत्वा स च शुध्यति ॥
अश्वत्थो वृक्षराजोऽयं हरिमूर्त्तिः प्रकीर्त्तितः ।
तस्मादश्वत्थहन्तॄणां त्राता कोऽपि न विद्यते ॥
अश्वत्थं पश्यतो विप्र स्पृशतः स्मरतस्तथा ।
देहस्थं पातकं तस्य हरेत् प्रणमतो हरिः ॥
विलोक्याश्वत्थहन्तारं यः शक्तो न निवारयेत् ।
तन्नेत्रयुग्मं वडिशैर्यमेनोत्पाट्यते स्वयं ॥
अश्वत्थच्छेदनं मूढ मा कुर्विति वदेन्न यः ।
तस्य जिह्वां छुरिकया स्वयं कृन्तति भास्करिः ॥
अश्वत्थशाखामेकां यः स्वल्पामपि निहन्ति यः ।
स कोटिब्रह्यहत्यानां फलं प्राप्नोति मानवः ॥
यत्पापं ब्रह्महत्यायां गुरुस्त्रीगमने च यत् ।
सुरापाने तथास्तेये न्यासापहरणे तथा ॥
यत्पापं भ्रूणहत्यायां गोहत्यायां द्विजोत्तम ।
स्त्रीहत्यायाञ्च यत्पापं परस्त्रीगमने तथा ॥
शरणागतहत्यायां हत्यायां सुहृदां तथा ।
विश्वासवाक्याकथने परहिंसाविधौ च यत् ॥
यत् पापं परनिन्दायां हरिवासरभोजने ।
अश्वत्थच्छेदनाद्घोरं तत् पापं प्राप्यते जनैः ॥
विष्णुमूर्त्तेर्ज्जनो मोहादश्वत्थस्य निहन्ता यः ।
तत्तुल्यः पातकी कोऽपि न श्रुतः क्षितिमण्डले ॥
वदाम्यश्वत्थमाहात्म्यं सर्व्वपापप्रणाशनं ।
साक्षादेव स्वयं विष्णुरशत्थोऽखिलविश्वराट् ॥
तद्भक्तिं कुर्वतः पुंसो विद्यते नाशुभं क्वचित् ।
अश्वत्थं सेवते यस्तु विष्णबुद्ध्या नरोत्तमः ॥
तस्य प्रसन्नो भगवान् ददाति परमं पदं” ।
इति पाद्मे क्रियायोगसारे अश्वत्थसेचनं नाम
११ अध्यायः ॥
(अस्थिररूपः संसारवृक्षः । यथा, गीतायाम् ।
“ऊर्द्ध्वमुलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्” ॥
विस्तरस्तु गीतायाः पञ्चदशेऽध्याये द्रष्टव्यः ॥)

अश्वत्थभेदः, पुं, (अश्वत्थस्य भेदो विभिन्नता यस्मिन् ।)

स्थालीवृक्षः । इति राजनिर्घण्टः ॥

अश्वत्था, स्त्री, पूर्णिमातिथिः । इति मेदिनी ॥

अश्वत्थामा, [न्,] पुं, (अश्वस्येव स्थाम बलं यस्य ।

पृषोदरादिवत् सस्य तः । अथवा अश्व इव
तिष्ठति युद्धे । अश्व + स्था + मनिन् ।) द्रोणा-
चार्य्यपुत्त्रः । स तु चिरजीवी महारथी च ।
तत्पर्य्यायः । कृपीसुतः २ द्रौणायनः ३ । इति
त्रिकाण्डशेषः ॥ द्रौणिः ४ । इति स्मार्त्ताः ॥ वृद्ध्य-
भावे द्रोणिः ५ ॥ (अयं खलु जात एव अश्वैव
नमाद अतोऽस्य अश्वत्थामेति नाम । तथा च
भारते ।
“अलभत् गौतमीपत्त्रमश्वत्थामानमेव च ।
स जातमात्रो व्यनदत् यथैवोच्चैःश्रवा हयः ॥
तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत् ।
अश्वस्येवास्य यत् स्थाम नदतः प्रदिशो गतम् ॥
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति” ।)

अश्वत्थी, स्त्री, (क्षुद्रोऽश्वत्थः । अश्वत्थ + अल्पार्थे

ङीप् ।) वृक्षविशेषः । पिप्पली इति लोके ।
तत्पर्य्यायः । लघुपत्री २ पवित्रा ३ ह्रस्वपत्रिका
४ पिप्पलीका ५ वनस्था ६ अश्वत्थिका ७ । अस्या
गुणाः । मधुरत्वं । कषायत्वं । अम्लपित्तनाशित्वं ।
विषदाहप्रशमनकारित्वं । गुर्व्विण्या हितकारि-
त्वञ्च ॥ इति राजनिर्घण्टः ॥

अश्वदंष्ट्रा, स्त्री, (अश्वस्य दंष्ट्रा इव आकृत्या ।) गो-

क्षुरवृक्षः । इत्यमरः ॥

अश्वन्तं, क्ली, (अशू-(सू)-नामन्तो यस्मिन् ।) अशुभं ।

क्षेत्रं । चुल्ली । अनवधि । मृतं । इति हेमचन्द्रः ॥

अश्वपालः, पुं, (अश्वान् पालयतीति, अश्व +

पाल + कर्म्मणि उपपदे अण् प्रत्ययः ।) घोटक-
रक्षकः । इति अश्वपालिकशब्दटीकायां दुर्गा-
दासः ॥ सैस् इति आरवीभाषा । (“दत्ता-
तङ्कोऽङ्गनानामनुसृतसरणिः संभ्रमादश्वपालैः प्र-
भ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दु-
रायाः” इति रत्नावल्याम् ।)

अश्वपुच्छी, स्त्री, (अश्वस्य पुच्छमिव केशरोऽस्याः ।)

माषपर्णीवृक्षः । इति राजनिर्घण्टः ॥

अश्वबालः, पुं, (अश्वस्य बाल इव । काशस्य पुष्पं

अश्वबालवत् विभाति ।) काशः । केश्या इति
भाषा । इति त्रिकाण्डशेषः ॥

अश्वमहिषिका, स्त्री, (अश्वमहिषयो र्वैरम् । द्वन्द्वा-

द्वुन् वैरमैथुनिकयोरिति अश्वमहिष + वुन् ।)
अश्वमहिषयोर्नित्यवैरं । इति शब्दरत्नावली ॥

अश्वमारः पुं, (अश्वं मारयति । अश्व + मृ +

णिच् + अण् ।) करवीरवृक्षः । इति
शब्दरत्नावली ॥ (“लाक्षारेवतकुटजाऽश्वमार-
कटफलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा
चेति” । इति सुश्रुते ॥

अश्वमारकः पुं, (अश्वं मारयति । अश्व + भृ +

णिच् + अण् ।) करवीरवृक्षः । इति
शब्दरत्नावली ॥ (“लाक्षारेवतकुटजाऽश्वमार-
कटफलहरिद्राद्वयनिम्बसप्तच्छदमालत्यस्त्रायमाणा
चेति” । इति सुश्रुते ॥
“करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः” ।
इति भावप्रकाशः ॥
“तत्र क्लीतकाश्ममारगुञ्जेत्यादि ।
सुश्रुतस्य कल्पस्थानेऽभिहितं ॥”)

अश्वमुखः, पुं, (अश्वस्य मुखमिव मुखं यस्य । किन्नरः ।

इति हलायुधः ॥ (स्त्री, किन्नरी । किम्पुरुषस्त्री ।
यथा कुमारे ।
“न दुर्व्वहश्रोनिपयोधरार्त्ता
भिन्दन्ति मन्दां गतिमश्वमुख्यः” ॥)

अश्वमेधः, पुं, (अश्वः मेध्यते हिंस्यते यत्र । मेध-

हिंसने + घञ् ।) यज्ञविशेषः । इति जटाधरः ॥
यत्र लक्षणविशेषाक्रान्तमश्वं संप्रोक्ष्य कपाले
जयपत्रं बद्ध्वा त्यजेत् तद्रक्षार्थं पुरुषविशेषं नियो
जयेत् संवत्सरान्ते अश्वे आगते सति अथवा
केनापि संबद्धे युद्धं कृत्वा तमानीय यथाविधि
बधं कृत्वा तद्वपया होमः कर्त्तव्यः । कामनानु
सारेणतत्फलं । मोक्षः ब्रह्महत्यापापक्षयः स्वर्गश्च ।
यथा । आपस्तम्बः ।
“राजा सार्व्वभौमः अश्वमेधेन यजेत नाप्यसार्व्व-
भौमः” । इति ॥ प्रायश्चित्तात्मकाश्वमेधो यथा ।
विष्णुः ।
“अनुपातकिनस्त्वेते महापातकिनो यथा ।
अश्वमेधेन शुध्यन्ति तीर्थानुसरणेन वा” ॥
अपि च ।
“अश्वमेधेन शुध्यन्ति महापातकिनस्त्विमे” ।
इति विष्णूक्ताश्वमेधस्य प्रायश्चित्तत्वम् । पापक्षय-
स्वर्गोभयसाधकस्य तु तस्यापि न प्रायश्चित्तत्वम् ।
इति प्रायश्चित्ततत्त्वम् ॥ ० ॥ कलौ तस्य निषेधो
यथा वृहन्नारदीये ।
“दीर्घकालं ब्रह्मचर्य्यं नरमेंधाश्वमेधकौ ।
महाप्रस्थानगमनं गोमेधञ्च तथा मखं ॥
इमान् धर्म्मान् कलियुगे वर्ज्यानाहुर्म्मनीषिणः” ।
इत्युद्वाहतत्त्वम् ॥ अन्यच्च । ब्रह्मपुराणम् ।
“नराश्वमेधौ मद्यञ्च कलौ वर्ज्या द्विजातिभिः” ।
इति तिथ्यादितत्त्वम् ॥ ० ॥ तत्फलजनककर्म्माणि
यथा, --
“वैशाखे मासि यः कुर्य्यात् प्रपां माधवतुष्टये ।
दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः” ॥
इति पाद्मे क्रियायोगसारे ११ अध्यायः ॥
अपि च ब्रह्माण्डे ॥
“स्नानन्तु भक्त्या गङ्गायां कर्तुकामस्य गच्छतः ।
पदे पदेऽश्वमेधस्य फलं मर्त्त्यस्य जायते” ॥
इति प्रायश्चित्ततत्त्वम् ॥

अश्वमेधिकः, पुं, (अश्वमेधाय हितः । अश्वमेध +

ठक्, ठन् वा ।) अश्वमेधयागोपयुक्तघोटकः ।
इति जटाधरः ॥ (क्लीवलिङ्गे स्वनामख्यातं महा-
भारतान्तर्गतं चतुर्द्दशपर्ब्ब । यथा, --
“ततोऽश्वमेधिकं पर्ब्ब सर्वपापप्रणाशनम्” ।
“ततोऽश्वमेधिकं पर्ब्ब प्रोक्तं तच्च चतुर्दशम्” ।)

अश्वमेधीयः, पुं, (अश्वमेधाय हितः । अश्वमेध +

छ ।) अश्वमेधयज्ञीयाश्वः । तत्पर्य्यायः ययुः २ ।
इत्यमरः ॥ तस्य लक्षणम् ।
“कालाम्भोधरसङ्काशः स्वर्णवर्णमुखो बली ।
यस्य पार्श्वावुभावर्द्धचन्द्राकारौ सुशोभनौ ॥
पुच्छं विद्युत्प्रतीकाशमुदरं कुन्दसन्निभं ।
पादाश्चैव हरिद्वर्णाः कर्णौ सिन्दूरसन्निभौ ॥
ज्वलदग्निनिभा जिह्वा चक्षुषी भास्करोपमे ।
विराजितो रोमराज्या सानुलोमविलोमया ॥
विचित्रैर्विविधैर्वर्णैश्चित्रो रजतविन्दुभिः ।
यो वेगे वायुतुल्यः स्यादुच्चैरुच्चैःश्रवा यथा ॥
यस्य गात्रोद्भवो गन्धो गन्धर्ब्बमपि मोहयेत् ।
एवं लक्षणसंयुक्तो यज्ञीयः पशुरुच्यते ॥
अश्वस्य पालकश्चातिबलवान् पुत्त्र उच्यते ।
पुत्त्रतुल्यः सुहृद्वापि बहुविघ्नः क्रतूत्तमः” ॥
इति वाशिष्ठरामायणम् ॥

अश्वयुक्, [ज्] स्त्री, (अश्वं युनक्ति रूपेणानुकरोतीति

अश्व + युज् + क्विप् ।) अश्विनीनक्षत्रं । इत्यमरः ॥

अश्वयुक्, [ज्] पुं, (अश्वेन नक्षत्रेण युक् युक्ता पौर्ण

मासी अस्त्यस्मिन ।) आश्विनमासः ।

अश्वयुजः मासी अस्त्यस्मिन ।) आश्विनमासः ।

पृष्ठ १/१४७
:इति शब्दरत्नावली ॥ (“अश्वयुक् कृष्णपक्षे तु
श्राद्धं कुर्य्यादिति स्मृतिः” । भाद्रपदाश्वयुजौ वर्षाः ।
इति सुश्रुतः ।)
इति शब्दरत्नावली ॥ (“अश्वयुक् कृष्णपक्षे तु
श्राद्धं कुर्य्यादिति स्मृतिः” । भाद्रपदाश्वयुजौ वर्षाः ।
इति सुश्रुतः ।)

अश्वरक्षः, पुं, (अश्वान् रक्षतीति । अश्व + रक्ष +

अण् ।) घोटकरक्षकः । अश्वपालः । इति जटा-
धरः ॥

अश्वरोधकः, पुं, (अश्वान् रुणद्धि । अश्व + रुध् +

ण्वुल् ।) करवीरवृक्षः । इति राजनिर्घण्टः ॥

अश्वलाला, स्त्री, (अश्वस्य लालेवाकारेण ।) सर्प-

विशेषः । तत्पर्य्यायः । हलाहलः २ ब्रह्मसर्पः ३ ।
इति त्रिकाण्डशेषः ॥

अश्ववक्त्रः, पुं, (अश्वस्य वक्त्रमिव वक्त्रं यस्यं ।) किन्नरः ।

इति शब्दरत्नमाला ॥

अश्ववडवं, क्ली, अश्ववडवानां समाहारः । अश्ववड-

वयोर्द्वन्द्वे अश्ववडवौ । अश्ववडवानां द्वन्द्वे अश्व-
वडवाः । इत्यमरटीकायां भरतः सारसुन्दरी च ।
घोडा घुडीर समाहारद्वन्द्वसमासे क्लीवलिङ्गेर
एकवचन हय इतरेतरद्वन्द्वे पुंलिङ्गेर द्विवचन बहु-
वचन हय इति भाषा ॥

अश्ववहः, पुं, (अश्वेन उह्यते यः सः । अश्व + वह +

अच् ।) अश्ववाहकः । इति जटाधरः । घोड-
सओयार इति भाषा ॥

अश्ववारः, पुं, (अश्वं वारयतीति । अश्व + वृ +

अण् ।) सादी । इति हेमचन्द्रः । घोडसओयार
इति भाषा ॥
(“परस्परोत्पीडितजानुभागा
दुःखेन निश्चक्रमुरश्ववाराः” ।
इति माघे ।)

अश्ववारणः, पुं, (अश्वं वारयति + अश्व + वृ + णिच्

+ ल्यु ।) गलकम्बलरहितगोसदृशपशुविशेषः ।
तत्पर्य्यायः । गवयः २ वनगवः ३ गोसदृक्षः ४ ।
इति हेमचन्द्रः ॥

अश्ववित्, [द्] पुं, (अश्वं अश्वविद्यां वेत्तीति ।

अश्व + विद् + क्विप् ।) नलराजः । इति त्रि-
काण्डशेषः ॥ (नलस्य राज्ञोऽश्वविद्याज्ञता वर्णिता
भारते । यथा ।
“बाहुकस्तमुवाचाथ देहि विद्यामिमां मम ।
मत्तोऽपि चाश्वहृदयं गृहाण पुरुषर्षभ ! ॥
ऋतुपर्णं ततो राजा बाहुकं कार्य्यगौरवात् ।
हयज्ञानस्य लोभाच्च तं तथेत्यब्रवीद्वचः ॥
यथोक्तं त्वं गृहाणेदमक्षाणां हृदयं परं ।
निक्षेपो मेऽश्वहृदयं त्वयि तिष्ठतु बाहुक” ॥
बाहुको बाहुकवेशधारी नलः ।)

अश्ववद्यः, पुं, घोटकचिकित्सकः । सालोतरी इति

हिन्दिभाषा । अश्वस्य वैद्यः इति षष्ठीतत्परुष-
समासनिष्पन्नः ॥

अश्वशाला, स्त्री, घोटकगृहं । घोडार पाइशाल ।

आस्तवल् इति भाषा । यथा वाजिशाला तु
मन्दूरा । इत्यमरः ॥ द्वे अश्वावस्थानगृहे । वाजिनो
ऽश्वस्य शाला गृहं वाजिशाला । अश्वशालादि च ।
इति तट्टीकायां भरतः ॥ (“कोषागारमायुधा-
गारमश्वशालां हस्तिशालाञ्च” । इति भारते ।)

अश्वशृगालिका स्त्री, (अश्वशृगालयोर्वैरम् । द्वन्द्वा

द्वुन् वैरमैथुनिकयोरिति वुन् ।) अश्वशृगालयो-
र्वैरम् । इति शब्दरत्नावली ॥

अश्वषड्गवं, क्ली, (अश्व + षङ्गवच् ।) अश्वषट्कं ।

षडश्वाः । इति पाणिनिः ॥

अश्वसेननृपनन्दनः, पुं, (अश्वसेनो नृपस्तस्य नन्दनः ।)

सनत्कुमारः । इति हेमचन्द्रः ॥

अश्वा, स्त्री, (अश्व + टाप् ।) घोटकी । घुडी इति

भाषा । तत्पर्य्यायः । वामी २ वडवा ३ । इत्यमरः ॥

अश्वारिः, पुं, (अश्वानामरिः ।) महिषः । इति

जटाधरः ॥

अश्वारूढः, पुं, (अश्व आरूढो येन ।) अश्वारोहः ।

घोटकोपरि कृतारोहणः । यथा । “अश्वारोहास्तु
सादिनः” । इत्यमरः ॥ द्वे अश्वारूढे । अश्वमारो-
हन्ति अश्वारोहाः ढात् षण् । सादयन्ति श्रम-
यन्ति अश्वान् सादिनः ग्रहादित्वात् णिन् । इति
तट्टीकायां भरतः ॥

अश्वारोहः, त्रि, (अश्वमारोहतीति । अश्व + आ +

रुह + अण् ।) अश्वपृष्ठस्थितयोद्धा । घोडसोयार
इति भाषा । तत्पर्य्यायः । सादी २ इत्यमरः ॥
अश्ववहः ३ । इति जटाधरः ॥ अश्ववारः ४
तुरगी ५ । इति हेमचन्द्रः ॥

अश्वारोहा, स्त्री, अश्वगन्धावृक्षः । अश्ववाहके त्रि ।

इति मेदिनी ॥ (अश्वगन्धाशब्देऽस्याः गुणा
व्याख्याताः ।)

अश्वारोही, [न्] त्रि, अश्वारोहणविशिष्टः । अश्वा-

रूढः । अश्वारोहणकर्त्ता । अश्वारोहणशीलः ॥
घोडसोयार इति भाषा । अश्वमारोढुं शील-
मस्येत्यर्थे णिन्प्रत्ययेन निष्पन्नः ॥

अश्वावरोहकः, पुं, अश्वगन्धावृक्षः । इति रत्नमाला ।

अश्वाक्षः, (अश्वस्याक्षीव ।) देवसर्षपवृक्षः । इति

राजनिर्घण्टः ॥

अश्विनी, स्त्री, (अश्वः अश्वरूपं विद्यते यस्याः । अश्व

+ इन् + ङीप् ।) सप्तविंशतिनक्षत्रान्तर्गतप्रथम-
नक्षत्रं । अश्विन्यादयो रेवत्यन्ताः सप्तविंशति-
तारा दक्षस्यापत्यत्वात् दाक्षायण्य उच्यन्ते । तत्प-
र्य्यायः । अश्वयुक् २ दाक्षायणी ३ । इत्यमरः ॥
सा चन्द्रस्य भार्य्या । नवपादात्मकमेषराशेरादि-
चतुष्पादरूपा च ॥ अस्या रूपं । घोटकमुखा-
कृतितारात्रयात्मकं । अस्या अधिष्ठात्री देवता
अश्वारूढपुरुषः । इति ज्योतिःशास्त्रं । तस्यां
जातफलं । “सदैव देवाभ्युदितो विनीतः सत्त्वा-
न्वितः प्राप्तसमस्तसम्पत् । योषाविभूषात्मज-
भूरितोषः स्यादश्विनीजन्मनि मानवस्य” । इति
कोष्ठीप्रदीपः ॥ तस्य मस्तकोपरि उदये कर्कट-
लग्नस्य १ । ३० त्रिंशत्पलाधिकदण्डैको गतो भ-
वति । यथा । “तन्वि घोटकमुखाकृतौ त्रिभे
मस्तकोर्द्ध्वपथभाजि वाजिनि । चारुचन्द्रमुखि
कर्कटोदयात् निर्गता गगनरन्ध्रलिप्तिका” ॥ इति
श्रीकालिदासकृतरात्रिलग्ननिर्णयः ॥

अश्विनीकुमारौ, पुं, (अश्विन्या अश्वीभूतसंज्ञानाम-

सूर्य्यपत्न्याः यमजौ कुमारौ ।) अश्विनीसुतौ ।
अश्वीभूतसंज्ञानामसूर्य्यपत्न्याः यमजपुत्त्रौ । तौ
देवचिकित्सकौ । (यथा हरिवंशे,
“विवस्वान् कश्यापाज्जज्ञे दाक्षायण्यामरिन्दम ! ।
तस्य भार्य्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः” ॥
“देवौ तस्यामजायेतामश्विनौ भिषजां वरौ” ।)
नित्यद्विवचनान्तशब्दोऽयं ।

अश्विनीपुत्त्रौ, पुं, (अश्विन्याः पुत्त्रौ ।) स्वर्व्वैद्यौ । इति

हेमचन्द्रः ॥

अश्विनीसुतौ, पुं, (अश्विन्याः सुतौ ।) अश्विनीपुत्त्रौ ।

तयोः पर्य्यायः । स्वर्वैद्यौ २ अश्विनौ ३ दस्रौ ४
नासत्यौ ५ आश्विनेयौ ६ । इत्यमरः । नासिक्यौ ७
गदागदौ ८ । इति जटाधरः ॥ पुष्करस्रजौ ९ ।
रति शब्दरत्नावली ॥

अश्विनौ, पुं, (प्रशस्ता अश्वाः सन्ति ययोः । इनिः ।

यद्वा, अश्विन्याम् जातौ । सन्धिवेलेत्यणो नक्ष-
त्रेम्यो बहुलमिति लुकि लुक्तद्वितलुकीति ङीपो
लुक् ॥) अश्विनीकुमारौ । इत्यमरः ॥
(“त्वाष्ट्री तु सवितुर्भार्य्या वडवारूपधारिणी ।
असूयत महाभागा सान्तरीक्षेऽश्विनावुभौ” ॥
इति महाभारते ।
“किमश्विनौ सोमरसं पिपासू” ।
इति भट्टौ ।)
(“अश्विनौ देवभिषजौ यज्ञवाहाविति स्मृतौ ।
दक्षस्य हि शिरश्छिन्नं पुनस्ताभ्यां समाहितं ॥
प्रशीर्णा दशनाःपूष्णो नेत्रे नष्टे भगस्य च ।
वज्रिणश्च भुजस्तम्भस्ताभ्यामेव चिकित्सितः ॥
चिकित्सितस्तु शीतांशुर्गृहीतो राजयक्ष्मणा ।
सोमान्निपतितश्चन्द्रः कृतस्ताभ्यां पुनः सुखी ॥
भार्गवश्च्यवनः कामी वृद्धः सन् विकृतिं गतः ।
वीतवर्णस्वरोपेतः कृतस्ताभ्यां पुनर्युवा ॥
एतैश्चान्यैश्च बहुभिः कम्मभिर्भिषगुत्तमौ ।
बभूवतुर्भृशं पूज्याविन्द्रादीनां महात्मनां ॥
ग्रहास्तोत्राणि मन्त्राणि तथान्यानि हवींषि च ।
धूम्राश्च पशवस्ताभ्यां प्रकल्प्यन्ते द्विजातिभिः ॥
प्रातश्च सवने सोमं शक्रोऽश्विभ्यां सहाश्नुते ।
सौत्रामण्याञ्च भगवानश्विभ्यां सह मोदते ॥
इन्द्राग्नी चाश्विनौ चैव स्तूयन्ते प्रायशो द्विजैः ।
स्तूयन्ते वेदवाक्येषु न तथान्या हि देवताः ॥
अमरैरजरैस्तावद्विबुधैः साधिपैर्ध्रुवैः ।
पूज्येते प्रयतैरेवमश्विनौ भिषजाविति ॥”
इति चरकः ॥
“श्रूयते हि यथा रुद्रेण यज्ञस्य शिरश्छिन्नमिति
ततो देवा अश्विनावभिगम्योचुः । भगवन्तौ नः
श्रेष्ठतमौ युवां भविष्यथः । भवद्भ्यां यज्ञस्य शिरः
सन्धातव्यं । तावूचतुरेवमस्त्विति । अथ तयोरर्थे
देवा इन्द्रं यज्ञभागेन प्रासादयन् । ताभ्यां यज्ञम्य
शिरः संहितमिति” ॥ इति सुश्रुतः ॥)

अश्वीनः, त्रि, एकाश्वकरणकदिनैकगम्यस्थानादिः ।

आश्विन इत्यमरः ॥ वृद्ध्यभावपक्षे अश्विनः ॥

अश्वीयं, क्ली, (अश्वानां समूहः । अश्व + छ ।) अश्व-

वृन्दं । अश्वसमूहः । तत्पर्य्यायः । आश्वं २ । इत्य-
मरः ॥
पृष्ठ १/१४८

अश्वीयः, त्रि, (अश्वाय हितः । अश्व + छ ।) अश्व-

हितकारी ॥ इति मेदिनी ॥ अश्वसम्बन्धीयः ॥

अष ञ् (भ्वादिं-उभं-सकं-सेट् ।) दीप्तौ । ग्रहणे ।

गतौ । इति कविकल्पद्रुमः ॥ ञ् अषति अषते ।
इति दुर्गादासः ॥

अषडक्षीणः, त्रि, (अविद्यमानानि षडक्षीणि यत्र ।

अषडक्षाशितङ्ग्वलङ्कर्मेति स्वार्थे खः । अक्षि-
शब्दोऽत्र श्रोत्रेन्द्रिये वर्त्तते । बहुब्रीहौ सक्-
थ्यक्ष्णोरिति षच् ।) यो मन्त्रादिर्द्वाभ्यां क्रियते न
तृतीयादीनां गोचरः । इत्यमरः । दुइजने करा
मन्त्रणा इति भाषा ॥

अषाढः, पुं, (अषाढया युक्ता पौर्णमासी आषाढी,

सा यत्र मासे अण् वा ह्रस्वः । आषाढी पूर्णिमा
प्रयोजनमस्य । प्रयोजनार्थे अण् ।) आषाढ-
मासः । व्रते पालाशदण्डः । इत्यमरटीकाधृत-
द्विरूपकोषः ॥

अषाढकः, पुं, (अषाढ + स्वार्थ कन् ।) आषाढमासः ।

इति शब्दमाला ॥

अष्ट, [न्] त्रि, (अश्नुते अशू व्याप्तौ कन् ।) सप्यशूभ्यां

तुट् चेति कनिन् ।) संख्याविशेषः । ८ आट इति
भाषा । नित्यबहुवचनान्तशब्दोऽयं । इति व्याक-
रणं ॥ अथाष्टवाचकशब्दाः । योगाङ्गं १ वसुः २
शिवमूर्त्तिः ३ दिग्गजः ४ सिद्धिः ५ ब्रह्मश्रुतिः ६
व्याकरणं ७ दिक्पालः ८ अहिः ९ कुलाद्रिः १०
ऐश्वर्य्यं ११ । इति कविकल्पलता ॥

अष्टकः, त्रि, (अष्टावध्यायाः परिमाणमस्य । अष्टन्

+ कन् ।) अष्टसंख्या । अष्ट एवाष्टकः स्वार्थे क-
प्रत्ययः । अष्टसंख्याविशिष्टं यथा, -- “गङ्गाष्टकं
पठति यः प्रयतः प्रभाते बाल्मीकिना विरचितं
सुखदं मनुष्यः” । इति बाल्मीकीयगङ्गाष्टकं ॥
अपि च ।
“अच्युतं केशवं विष्णुं हरिं सत्यं जनार्द्दनं ।
हंसं नारायणञ्चैव एतन्नामाष्टकं शुभं” ॥
इति ब्रह्मपुराणे श्रीविष्णुनामाष्टकं स्तोत्रं ॥

अष्टकर्णः, पुं, (अष्टौ कर्णा यस्य ।) ब्रह्मा । इति

शब्दरत्नावली ॥

अष्टका, स्त्री, (अश्नन्ति पितरोऽस्याम् । अश् +

तकन् ।) श्राद्धविशेषः । तिथिभेदः । तद्यथा ।
गौणचान्द्रपौषमाघफाल्गुनमासीयकृष्णाष्टमी ।
आश्विनकृष्णाष्टमी च । एतासु श्राद्धमावश्यकं ।
यथा । आग्रहायण्या ऊद्ध्वं तिसृषु कृष्णाष्ट-
मोषु श्राद्धानि नित्यानि । यथा गोभिलः ।
“अष्टका योर्द्ध्वमाग्रहायण्यास्तमिस्राष्टमी” ।
इति । ब्रह्मपुराणे ।
“पित्र्यदानाय मूले स्युरष्टकास्तिस्र एव च ।
कृष्णपक्षे वरिष्ठा हि पूर्ब्बा चैन्द्रो विभाव्यते ॥
प्राजापत्या द्वितीया स्यात् तृतीया वैश्वदेवकी ।
आद्या पूपैः सदा कार्य्या मांसैरन्या भवेत्तथा ॥
शाकैः कार्य्या तृतीया स्यादेष द्रव्यगतो विधिः” ।
मूले प्रधानस्थाने अमावास्यायां अमावास्या हि
श्राद्धस्य प्रधानकालस्तद्वदिति यावत् । ऐन्द्री
साग्नेरिन्द्रदेवताकयागसम्बन्धात् । एवं प्राजापत्था
वैश्वदेवकी च । मांसैः पशोः । तथा च गोभिलः ।
“यद्युवाल्पतरसम्भारः स्यात्तदापि पशुनैव कु-
र्य्यात्” इति । यद्युवेति निपातसमुदायो यद्यर्थे
पशुरपि छाग एव । छागोऽनादेशे पशुः । इति
गौतमात् । न च तैष्या ऊर्द्ध्वमष्टम्यां गौः । इति
गोभिलसूत्रेण गवोपदेशात् कथमनुपदिष्टत्व-
मिति वाच्यं । तदसम्भवे पशुरित्यनेन यः पशु-
रुपदिष्टस्तस्य विशेषतोऽनुपदिष्टत्वात् । तैषी
पौषी । वस्तुतस्तु हरिवंशे मृगोऽपि विहितः ।
यथा, --
“इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथादिशत् ।
मांसमानय श्राद्धाय मृगं हत्वा महाबलः” ॥
इति । स्त्रिया बधाभावमाह सएव ।
“अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतामपि” ।
एतदर्द्धं ब्रह्मपुराणेऽपि । आरण्यानामगस्त्य-
प्रोक्षितत्वं वक्ष्यते । पश्वभावे स्थालोपाकेन । यथा
गोभिलः । “अपि वा स्थालीपाकं कुर्ब्बीत” ।
इति । तद्विधानन्तु ।
“स्थालीपाकं पशुस्थाने कुर्य्याद्यद्यानुकल्पिकं ।
श्रपयेत्तं सवत्सायास्तरुण्या गोः पयस्यनु” ॥
इति छन्दोगपरिशिष्टोक्तं ग्राह्यं । अन्विति ओ-
दनचरोः पश्चात् । अतएव सातातपः ।
“नवोदके नवान्ने च गृहप्रच्छादने तथा ।
पितरः स्पृहयन्त्यन्नमष्टकासु मघासु च ॥
तस्माद्दद्यात् सदा युक्तो विद्वत्सुं ब्राह्मणेषु च” ।
तस्मादन्नं प्रधानं । पूपादिकन्तूपकरणत्वेन शक्ताना-
मावश्यक उभयत्र सदेति श्रवणात् । तथा च ।
“नित्यं सदा यावदायुर्न कदाचिदतिक्रमेत् ।
उपेत्यातिक्रमे दोषश्रुतेरत्यागदर्शनात् ॥
फलाश्रुतेर्व्वीप्सया च तम्नित्यमिति कीर्त्तितं” ।
इति तिथ्यादितत्त्वम् ॥
गोणचान्द्रपौषस्य कृष्णाष्टमी पूपाष्टका । गौण-
चान्द्रमाघस्य कृष्णाष्टभी मांसाष्टका । गौण-
चान्द्रफाल्गुनस्य कृष्णाष्टमी शाकाष्टका । केषाञ्चि-
न्मते गौणचान्द्राश्विनस्य कृष्णाष्टमी अष्टकापद-
वाच्या । तासु क्रमात् पूपमांसशाकैः षाट्पौरु-
षिकं श्राद्धं कर्त्तव्यं । इति ब्रह्मवायुविष्णुधर्म्मोत्तर-
पुराणानि ॥

अष्टकाङ्गं, क्ली, (अष्टकमङ्गमस्य ।) नयपीठी । इति

त्रिकाण्डशेषः ॥ पाशार छक् इति भाषा ।

अष्टपात्, [द्], पुं, (अष्टौ पादा यस्य ।) लूता ।

भाकडसा । इति भाषा । शरभः । इति हेमचन्द्रः ॥

अष्टपादः, पुं, (अष्टौ पादा यस्य ।) ऊर्णनाभविशेषः ।

तत्पर्य्यायः । किन्तनुः २ । इति त्रिकाण्डशेषः ॥

अष्टपादिका, स्त्री, (अष्टसु दिक्षु पादा यस्याः ।

अन्त्यलोपः । ङीपि पद्भावे संज्ञायां कन् ह्रस्वः ।)
लताविशेषः । इति रत्नमाला ॥ हापरमाली इति
भाषा ॥

अष्टमः, त्रि, अष्टानां पूरणः । इति व्याकरणं ॥ (तस्य

पूरणे डट् । नान्तादसङ्ख्यादेर्मट् ।) यथा ।
कात्यायनः ।
“अष्टमेऽशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याष्टमांशे च ततः किल भवेदणुः” ॥
इति श्राद्धतत्त्वं ॥ अपि च ।
“सावर्णिः सूर्य्यतनयो यो मनुः कथ्यतेऽष्टमः ।
निशामय तदुत्पत्तिं विस्तराद्गदतो मम” ॥
इति देवीमाहात्म्यं ॥

अष्टमङ्गलं, क्ली, (अष्टप्रकारं मङ्गलम् ।) अष्टप्रकार-

मङ्गलद्रव्यं । तद्यथा, --
“मृगराजो वृषो नागः कलसो व्यजनन्तथा ।
वैजयन्ती तथा भेरी दीप इत्यष्टमङ्गलं” ॥
इति वृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतौ ॥
“लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ।
हिरण्यं सर्पिरादित्य आपो राजा तथा ष्टमः” ॥
इति शुद्धितत्त्वं ॥

अष्टमङ्गलः, पुं, (अष्टौ मङ्गलानि शुभचिह्नानि

यस्मिन् ।) श्वेतवर्णमुखवक्षःखुरकेशपुच्छयुक्तघो-
टकः । इति हेमचन्द्रः ॥

अष्टमङ्गलघृतं, क्ली, (अष्टाभिः मङ्गलजनकद्रव्यैः कृतं

यद्घृतं ।) अष्टौषधयुक्तपक्वघृतं । यथा, --
“वचा कूष्ठं तथा ब्राह्मी सिद्धार्थकमथापि च ।
सारिवा सैन्धवञ्चैव पिप्पली घृतमष्टमं ॥
सिद्धं घृतमिदं मेध्यं पिबेत् प्रातर्द्दिने दिने ।
दृढस्मृतिः कुमाराणां पिबतामष्टमङ्गलं” ॥
इति भावप्रक्राशः ॥

अष्टमानं, क्ली, (अष्टौ मुष्टयः परिमाणमस्य ।) कुडव-

परिमाणं । शरावार्द्धं । इति वैद्यकपरिभाषायां ॥
(“प्रसृतिभ्यामञ्जलिःस्यात् कुडवोऽर्द्धशरावकः ॥
अष्टमानञ्च स ज्ञेयः”, इति शार्ङ्गधरः ॥)

अष्टमिका, स्त्री, (अष्टम + कन् + स्त्रियामाप् ।)

शुक्तिपरिमाणं । चतुस्तोलकं । इति वैद्यकपरि-
भाषायां ॥
(“स्यात्कर्षाभ्यामर्द्धपलं शुक्तिरष्टमिका तथा” ॥
इति शार्ङ्गधरः ॥)

अष्टमी, स्त्री, (अष्टानां पूरणी । अष्टम + ङीप् ।)

क्षीरकाकोली । इति शब्दचन्द्रिका ॥ तिथि-
विशेषः । सा चन्द्रस्याष्टमकलाक्रियारूपा । तदु-
पलक्षितकालरूपा च । सा च शुक्ला नवमी-
युता ग्राह्या युग्मात् । कृष्णा च सप्तमीयुता ।
यथा निगमः ।
“कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी ।
पूर्ब्बविद्धैव कर्त्तव्या परविद्धा न कुत्रचित् ॥
उपवासादिकार्य्येषु एष धर्म्मः सनातनः” ॥ * ॥
भविष्यपुराणे ।
“चतुर्द्दश्यां तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।
योऽब्दमेकं न भुञ्जीत शिवार्च्चनपरो नरः ॥
यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनां ।
तत्पुण्यं सकलं तस्य शिवलोकञ्च गच्छति” ॥
ततश्च सततसत्रयाज्यक्षयपुण्यसमपुण्यप्राप्तिः शिव-
लोकगतिश्च फलं । फाल्गुनशुक्लाष्टमीचतुर्द्दश्यो-
रारभ्य वर्षं यावत् प्रत्यष्टमीप्रतिचतुर्द्दश्युपवास-
व्रतं ॥ * ॥ कालिकापुराणे ।
“यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका ।
वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥
पृष्ठ १/१४९
:रक्तपद्मासनस्था च मुकुटकुण्डलमण्डिता ।
रक्तकौषेयवस्त्रा तु स्मितवक्त्रा शुभानना ॥
नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ।
उमया भाषितं मन्त्रं यत् पूर्ब्बं त्वेकमक्षरं ॥
मन्त्रमस्यास्तु तज्ज्ञेयं तेन देवीं प्रपूजयेत्” ।
एकमक्षरं शक्तिवीजरूपं ।
“तथाष्टम्यां नवम्याञ्च पूजा कार्य्या विवृद्धये ।
पटेषु प्रतिमायां वा घटे मङ्गलचण्डिकां ॥
यः पूजयेद्भौमवारे शुभैर्दूर्व्वाक्षतैः शिवां ।
सततं साधकः सोऽपि काममिष्टमवाप्नुयात्” ॥ * ॥
ज्योतिषे । शनैश्चरस्य वारेण वारेणाङ्गारकस्य च ।
“कृष्णाष्टमी चतुर्द्दश्यौ पुण्यात् पुण्यतरे स्मृते” ॥
तथा --
“सोमवारेऽप्यमावास्या आदित्याहे तु सप्तमी ।
चतुर्थङ्गारवारे च अष्टमी च वृहस्पतौ ॥
अत्र यत् क्रियते पापमथवा धर्म्मसञ्चयः ।
षष्टिजन्मसहस्राणि प्रतिजन्म तदक्षयं” ॥
इति तिथ्यादितत्त्वं ॥ * ॥ श्रीकृष्णजन्माष्टमीव्रतं
अष्टकाश्राद्धं भीष्माष्टमीकृत्यञ्च तत्तच्छब्दे द्रष्टव्यं ॥
महाष्टमीकृत्यं महाष्टमीशब्दे द्रष्टव्यं ॥ तत्र
जातफलं ।
“भूपालतः प्राप्तधनः कृशाङ्गः
सुखी कृपालुर्युवतिप्रियश्च ।
चतुष्पदाढ्यो धनधान्ययुक्तः
स्यादष्टमीजो मनुजः सुधीरः ॥”
इति कोष्ठीप्रदीपः ॥

अष्टमूर्त्तिः, पुं, (अष्टौ मूर्त्तयो यस्य ।) शिवः । इति

हेमचन्द्रः ॥ तत्प्रत्येकमूर्त्तिनामानि । क्षिति-
मूर्त्तिः सर्व्वः १ जलमूर्त्तिर्भवः २ अग्निमूर्त्तिः रुद्रः
३ वायुमूर्त्तिरुग्रः ४ आकाशमूर्त्तिर्भीमः ५
यजमानमूर्त्तिः पशुपतिः ६ चन्द्रमूर्त्तिर्म्महादेवः
७ सूर्य्यमूर्त्तिरीशानः ८ । इति तन्त्रशास्त्रं ॥
एताः शरभरूपिशिवस्याष्टपादाः इति कालि-
कापुराणं ॥ यथा ।
“अष्टमूर्त्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः” ।
इति वदुकभैरवस्तोत्रं ॥ तस्याष्टमूर्त्तयो यथा ।
“अथाग्निः रविरिन्दुश्च भूमिरापः प्रभञ्जनः ।
यजमानः खमष्टौ च महादेवस्य मूर्त्तयः” ॥
इति शब्दमाला ॥
(“अवेहि मां किङ्करमष्टमूर्त्तेः
कुम्भोदरं नाम निकुम्भमित्रम्” ॥
इति रघुवंशे ॥ तथा कुमारे च ।
“तत्राग्निमाधाय समित्समिद्धं
स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिः” ॥)

अष्टलोहकं, क्ली, अष्टधातुविशेषः । तद्यथा ।

सुवर्णं १ रजतं २ ताम्रं ३ रङ्गं ४ सीसं ५ कान्त-
लोहं ६ मुण्डलोहं ७ तीक्ष्णलोहं ८ । इति राज-
निर्घण्टः ॥

अष्टवर्गः, पुं, (अष्टानां औषधविशेषानां रविप्रभृ-

तीनां वा वर्गः ।) औषधविशेषाष्टकं । तद्यथा ।
ऋषभः १ जीवकः २ मेदः ३ महामेदः ४ ऋद्धिः
५ वृद्धिः ६ काकोली ७ क्षीरकाकोली ८ । इति
वैद्यकपरिभाषा । एकीकृतैतदौषधगुणाः । रक्त-
पित्तव्रणवायुपित्तनाशित्वं । इति राजवल्लभः ॥
(“जीवकर्षभकौ मेदे काकोल्यौ ऋद्धिवृद्धिके ।
अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः ॥
अष्टवर्गो हिमः स्वादुर्वृंहणो शुक्रलो गुरुः ।
भग्नसन्धानकृत् कामबलासबलवर्द्धनः ॥
वातपित्तास्रतृट्दाहज्वरमेहक्षयप्रणुत्” ।
इति भावप्रकाशः ॥)
ज्योतिषशास्त्रोक्तगोचरविशेषः । तद्यथा । आदौ
रव्यादिसप्तग्रहाणां राहोश्च अष्टमासकोष्ठं कृत्वा
प्रत्येकमासकोष्ठे जन्मकालीनग्रहाधिष्ठितराश्य-
वधिस्वाद्दिनकृच्छुभद इत्यादि दीपिकोक्तवच-
नाङ्कसंख्यकगृहे रेखां विन्यसेत् तत्र रवेर्द्वादश-
कोष्ठे ४८ चन्द्रस्य ४९ कुजस्य ३९ बुधस्य ५५
गुरोः ५६ भृगोः ५२ शनेः ३९ राहोः ३९
एतत्संख्यका रेखा देयाः । ततः प्रत्येकगृहस्थरेखाः
द्विगुणीकृत्य अष्टाधिकाश्चेत् अष्टभिः शोध-
येत् । शेषा रेखाः शुभाः ख्याताः । अष्टोना-
श्चेत्तदा विन्दुभिरष्टानां पूरणं कार्य्यं । तत्र विन्द-
वोऽशुभाः ख्याताः । अष्टौ चेत् तदा विन्दुरे-
खयोरभावस्तत्र समं परिकीर्त्तितं ॥ तस्य
नामगुणाः ।
“जीवकर्षभकौ मेदे काकोल्यौ वृद्धिऋद्धिके ।
अष्टवर्गोऽष्टभिर्द्रव्यैः कथितश्चरकादिभिः ॥
अष्टवर्गो हिमः स्वादुर्वृंहणः शुक्रलो गुरुः ।
भग्नसन्धानकृत् बल्यः शरीरबलवर्द्धनः ॥
वातपित्तास्रतृट्दाहज्वरमेहक्षयप्रणुत्” ।
इति भावप्रकाशः ॥ * । ज्योतिःशास्त्रोक्तगणनया
रेखाविन्दुभ्यां शुभाशुभफलसूचकजन्मकालीनाष्ट-
ग्रहसमुदायः । यथा । अथाष्टवर्गः ।
“जन्मकालग्रहस्थित्या फलं वक्ष्ये शुभाशुभं” ।
स्वाद्दिनकृत् शुभदः क्षितिपक्षसमुद्रनगादिक-
पञ्चगतो १ । २ । ४ । ७ । ८ । ९ । १० । ११ ।
ऽथ विभावरिभर्त्तुस्त्र्यङ्गदशेषगतो ३ । ६ । १० ।
११ । ऽथ कुजाद्रविवत् १ । २ । ४ । ७ । ८ । ९ ।
१० । ११ । अथ सोमसुतात्रिशरर्त्तुनवादिषु
यातः । ३ । ५ । ६ । ९ । १० । ११ । १२ । देव-
गुरोर्विषयर्त्तुनवेशगतो ५ । ६ । ९ । ११ । ऽथ
सुरारिगुरोः समयाचलभास्करयातः । ६ । ७ ।
१२ । तीक्ष्णमरीचिसुतादपि भास्करवत् । १ ।
२ । ४ । ७ । ८ । ९ । १० । ११ । अथ लग्नगृहात्
त्रिकृताङ्गदशादिषु यातः ३ । ४ । ६ । १० । ११ ।
१२ । रविरेखाः । ४८ । भूजङ्गविलासाभिधान-
मालादण्डकेनादित्याष्टवर्गः ॥ * ॥ चन्द्रः शुभो-
ऽर्कात्रिकालाद्रिदन्ताबलाशशिवस्थ । ३ । ६ । ७ ।
८ । १० । ११ । स्ततः स्वात् कुरामर्त्त्वगाशा-
शिवस्थः । १ । ३ । ६ । ७ । १० । ११ । क्ष्माजा-
द्द्विवह्नीषुषड्गोदिगीशेष्व । २ । ३ । ५ । ६ । ९ ।
१० । ११ । थ ज्ञात् कुरामाब्धिबाणागदन्ता-
बलाशाशिवस्थः १ । ३ । ४ । ५ । ७ । ८ । १० ।
११ । जीवात् कुदृग्वेदशैलेभकाष्ठाशिवस्थो १ ।
२ । ४ । ७ । ८ । १० । ११ । ऽथ शुक्रात्रिवेदेषु-
शैलग्रहाशाशिवस्थः ३ । ४ । ५ । ७ । ९ । १० । ११ ।
तीक्ष्णांशुदेहोद्भवाद्रामबाणर्त्तुशम्भुस्थितो ३ । ५ ।
६ । ११ । ऽथोदयाद्धव्यवाहर्त्तुकाष्ठाशिवस्थः । ३ ।
६ । १० । ११ । चन्द्ररेखाः । ४९ । कामबाणाभि-
धानमालादण्डकेन चन्द्राष्टवर्गः ॥ * ॥ कुत्रोऽर्का-
च्छुभो वह्निबाणर्त्तुदिक्शम्भुगो ३ । ५ । ६ । १० ।
११ । ऽथेन्दुतो रामकालेशग ३ । ६ । ११ । स्ततः
स्वात कुदृग्वेदसप्ताष्टदिक्शम्भुगः स्यात् १ । २ ।
४ । ७ । ८ । १० । ११ । निशानाथपुत्त्राद्गुणेष्वङ्ग-
रुद्रोपयातः । ३ । ५ । ६ । ११ । ततो जीवतः
कालकाष्ठाशिवार्कोपयातो ६ । १० । ११ । १२ ।
ऽथ देवारिपूज्यादनेहो गजेशार्कसंस्थः । ६ । ८ ।
११ । १२ । ततः सूर्य्यपुत्त्रात् कुवेदागनागग्रहा-
शाशिवस्थो १ । ४ । ७ । ८ । ९ । १० । ११ ।
ऽथ लग्नात् कुरामाङ्गदिकशम्भुयातः । १ । ३ ।
६ । १० । ११ । कुजरेखाः ३९ । सिंहविलासा-
भिधानमालादण्डकेन भौमाष्टवर्गः ॥ * ॥ ज्ञः शुभो-
ऽर्कतः शरर्त्तुगोशिवार्कगो ५ । ६ । ९ । ११ ।
१२ । ऽथ चन्द्रतो द्विवेदकालनागदिङ्महेश्वरेषु ।
२ । ४ । ६ । ८ । १० । ११ । भूमिजात् कुदृक्-
कृतागनागगोदशेशगः । १ । २ । ४ । ७ । ८ ।
९ । १० । ११ । ततः स्वतः कुवह्निपञ्चषण्णवादि-
केषु । १ । ३ । ५ । ६ । ९ । १० । ११ । १२ ।
वाक्पतेरसाष्टशम्भुसूर्य्यगो ६ । ८ । ११ । १२ ।
ऽथ शुक्रतः कुबाहुवह्निवेदपञ्चनागगोशिवेषु । १ ।
२ । ३ । ४ । ५ । ८ । ९ । ११ पङ्गुतः कुदृक्कृताग-
नागपञ्चकस्थितो ऽथ । १ । २ । ४ । ७ । ८ । ९ ।
१० । ११ । १२ । लग्नतः क्षितिद्विवेदकालनाग-
दिक्शिवेषु । १ । २ । ४ । ६ । ८ । १० । ११ ।
बुधरेखाः । ५५ । अशोकमञ्जरीसंज्ञकमाला-
दण्डकेन बुधाष्टवर्गः ॥ * ॥ सुरराजगुरुः शुभदो
रवितः कुयमानलवेदनगादिकपञ्चगतो १ । २ ।
३ । ४ । ७ । ८ । ९ । १० । ११ । ऽथ विधोर्द्वि-
शराचलगोशिवगो २ । ५ । ७ । ९ । ११ । वसु-
धातनयात् कुयमाब्धिनगाष्टदशेशगतो १ । २ ।
४ । ७ । ८ । १० । ११ । ऽथ बुधात् क्षितियुग्म-
कृतेषुरसग्रहदिक्गिरिशोपगत १ । २ । ४ ।
५ । ६ । ९ । १० । ११ । स्तदनु स्वत एकयमानल-
वारिधिपर्ब्बतनागदशेशगतो १ । २ । ३ । ४ ।
७ । ८ । १० । ११ । ऽथ सिताद्यमपञ्चरसग्रहदि-
शिवगो २ । ५ । ६ । ९ । १० । ११ । रविनन्द-
नतो दहनेषुरसार्कगत ३ । ५ । ६ । १२ । स्त्वथ
लग्नगृहात् कुयमाब्धिशरर्त्तुनगग्रहदिग्गिरिशोप-
गतः १ । २ । ४ । ५ । ६ । ७ । ९ । १० । ११ ।
गुरुरेखाः ५६ । कुसुमस्तवकाभिधानमालादण्डकेन
वृहस्पतेरष्टवर्गः ॥ * ॥ भृगुः शुभो रवेर्गजेश-
सूर्य्यगो । ८ । ११ । १२ । ऽथ चन्द्रतः क्ष्मादिपञ्च-
काष्टगोशिवार्कगः । १ । २ । ३ । ४ । ५ । ८ ।
९ । ११ । १२ । कुजात् त्रिवेदकालगोशिवार्कगो
३ । ४ । ६ । ९ । ११ । १२ । ऽथ बोधनात् त्रि-
बाणकालरन्ध्ररुद्रसंस्थितः । ३ । ५ । ६ । ९ । ११ ।
गुरोः शराष्टरन्धदिङ्महेशग । ५ । ८ । ९ । १० ।
पृष्ठ १/१५०
:११ । स्ततः स्वतः कुपञ्चकाष्टरन्ध्रदिक्शिवोपगः
१ । ५ । ८ । ९ । १० । ११ । शनेर्गुणाब्धिपञ्चना-
गगोदशेशगो । ३ । ४ । ५ । ८ । ९ । १० । ११ । ऽथ
लग्नतः कुपञ्चकाष्टगोशिवस्थितः । १ । २ । ३ ।
४ । ५ । ८ । ९ । ११ । शुक्ररेखाः । ५२ । अनङ्ग-
शेखराभिधानमालादण्डकेन भार्गवाष्टवर्गः ॥ * ॥
शुभः पङ्गुरर्कात् क्ष्मायमाम्भोधिशैलाष्टदिक्श-
म्भुग । १ । २ । ४ । ७ । ८ । १० । ११ । इन्दुतो
रामकालेशगतः । ३ । ६ । ११ । क्ष्मासुताद्वह्नि-
बाणर्त्तुकाष्ठाशिवार्कोपगो । ३ । ५ । ६ । १० ।
११ । १२ । ऽथ ज्ञतः कालदन्तावलादिस्थितो । ६ ।
८ । ९ । १० । ११ । १२ । जीवतो बाणकालेश-
मार्त्तण्डयात । ५ । ६ । ११ । १२ । स्ततो दैत्य-
पूज्यादनेहःशिवार्कोपयातः । ६ । ११ । १२ । स्वतो
वीतिहोत्रेषु कालेशयात । ३ । ५ । ६ । ११ ।
स्ततो लग्नतः क्ष्मागुणाम्भोधिषड्दिङ्महेशस्थितः ।
१ । ३ । ४ । ६ । १० । ११ । शनिरेखाः ३९ ।
मत्तमातङ्गलीलाभिधानदण्डकेन शनैश्चराष्टवर्गः ।
इति दीपिका ॥ * ॥ राहुः शुभोऽर्काद्भुजवह्नि-
वेदर्त्तुरन्ध्रगो । २ । ३ । ४ । ६ । ९ । अथ चन्द्रात्
कुरामवेदाङ्गग । १ । ३ । ४ । ६ । स्ततः कुजा-
द्वह्निबाणाङ्गरन्ध्रगतो । ३ । ५ । ६ । ९ । ऽथ
बुधाच्छशिपक्षवह्निबाणरन्ध्रग । १ । २ । ३ । ५ ।
९ । स्ततो जीवाद्धव्यवाहवेदाङ्गरन्ध्रग । ३ । ४ ।
६ । ९ । स्ततः शुक्रात् पक्षवह्निबाणरन्ध्रगत ।
२ । ३ । ५ । ९ । स्ततः सौरात् पक्षबाणर्त्तुग । २ ।
५ । ६ । स्ततः स्वतः शशिवेदबाणरिपुरन्ध्रगो ।
१ । ४ । ५ । ६ । ९ । ऽथ लग्नाद्वेदरग्ध्र-
दिग्रुद्रसूर्य्यगतः । ४ । ९ । १० । ११ । १२ ।
राहुरेखाः । ३९ । मृगेन्द्रविलासाभिधानदण्डकेन
राहोरष्टवर्गः ॥ * ॥ सूर्य्यादेकद्विचतुःसप्ताष्ट-
दशैकादशेषु । १ । २ । ४ । ७ । ८ । १० । ११ ।
सोमात्त्रिषड्दशैकादशेष । ३ । ६ । १० । ११ ।
भौमात्त्रिपञ्चषडेकादशेषु । ३ । ५ । ६ । ११ ।
बुधात् षडष्टनवदशैकादशेषु । ६ । ८ । ९ । १० ।
११ । गुरोः पञ्चषडेकादशद्वादशेषु । ५ । ६ ।
११ । १२ । शुक्रात् षडेकादशद्वादशेषु ६ । ११ ।
१२ । शनेस्त्रिपञ्चाष्टदशैकादशेषु । ३ । ५ । ८ ।
१० । ११ । लग्नादेकत्रिचतुःषड्दशकादशेषु । १ ।
३ । ४ । ६ । ११ । एवं लग्नरेखाः ३७ ॥ * ॥
“इति निगदितमिष्टं नेष्टमन्यद्विशेषा-
दधिकफलविपाकं जन्मंभात्तत्र दद्युः ।
उपचयगृहमित्रस्वोच्चगाः पुष्टमिष्टं
त्वपचयगृहनीचारातिभे नेष्टसम्पत् ॥
यावती यावती रेखा ग्रहाणामष्टवर्गके ।
तावतीं द्विगुणीकृत्य अष्टाभिः परिशोधयेत् ॥
अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरविन्दवः ।
अष्टाभिस्तु समो यत्र तत् समं परिकीर्त्तितम् ॥
रेखा ग्रहाच्छुभे देया विन्दवश्चेतरत्र तु ।
रेखाविन्दू समानौ चेत् समस्तत्र निगद्यते ॥
रेखाधिक्ये शुभं ज्ञेयं तद्वद्विन्दोरथाशुभम् ।
श्रीरानन्दस्तथा श्रेयो भोगो राज्यं भवेत्तथा ॥
मलिनोऽथ विपच्चैव हानिर्मृत्युर्भवेत्तथा ।
द्व्यादिरेखा द्व्यादिविन्दोः फलान्येतान्यनुक्रमात् ॥
रेखायां वत्सरो ज्ञेयः सार्द्धसप्तदिनं समे ।
अष्टवर्गदशायुः स्यात् दिनं चतुर्षु विन्दुषु” ॥
इत्यायुर्द्दायः । इत्यष्टवर्गः ॥ * ॥ नन्दी ।
“अष्टवर्गशुभैः श्रीमान् कर्म्म कुर्य्यान्नभश्चरैः ।
गोचरस्थैस्तदप्राप्तौ तदप्राप्तौ च वेधगैः ॥
व्रतारम्भे विवाहे च यात्रायां क्षुरकर्म्मणि ।
अविशुद्धाष्टवर्गस्य समस्ता निष्फलाः क्रियाः ॥
“सततं दिशति नराणां
राशौ मध्येऽष्टवर्गफलं निखिलं ।
भावफलं प्रथमार्द्धे
दृष्टिफलान्यर्द्धभुक्तेषु” ॥
इत्यष्टवर्गार्थकथनम् । इति ज्योतिस्तत्त्वम् ॥

अष्टश्रवाः, [स्] पुं, (अष्टौ श्रवांसि यस्य । चतु-

र्मुखस्य ब्रह्मणः प्रतिमुखं द्विकर्णतया तथात्वम् ।)
ब्रह्मा । इति त्रिकाण्डशेषः ॥

अष्टाकपालः, पुं, (अष्टसु कपालेषु संस्कतः । संस्कृतं

भक्ष्य इत्यणोद्विगोर्लुगनपत्ये इति लुक् । अष्टनः
कपाले हविषीत्यात्वम् ।) यज्ञविशेषः । यत्र
अष्टसु कपालेषु पुरोडाशः पक्त्वा हूयते । इति
श्रुतिः ॥

अष्टाङ्गार्घ्यः, पुं, (अष्टौ अङ्गानि उपकरणानि यस्य

तादृशोऽर्घ्यः ।) अष्टद्रव्यघटितपूजोपकरणवि-
शेषः । यथा, --
“आपः क्षीरं कुशाग्राणि दधि सर्पिः सतण्डुलाः ।
यवाः सिद्धार्थकाश्चैव अष्टाङ्गार्घ्यः प्रकीर्त्तितः” ॥
इति तन्त्रम् ॥
“आपः क्षीरं कुशाग्राणि घृतं मधु तथा दधि ।
रक्तानि करवीराणि तथा रक्तञ्च नन्दनम् ॥
अष्टाङ्ग एष अर्घ्यो व भानवे परिकीर्त्तितः” ।
इति काशीखण्डम् ॥

अष्टादश [न्] त्रि, (अष्टाधिका दश ।) अष्टाधिक-

दशसंख्या । १८ आठार इति भाषा । नित्यबहु-
वचनान्तशब्दोऽयं । इति सिद्धान्तकौमुदी ॥
(यथा मनुः ।
“अष्टादशसु मागषु निबद्धानि पृथक् पृथक्” ।)
अथाष्टादशवाचकशब्दाः यथा । द्वीपः १ विद्या २
पुराणं ३ स्मृतिः ४ धान्यं ५ । इति कविकल्पलता ॥
(“अगाहताष्टादशतां जिगीषया
नवद्वयद्वीपपृथकजयश्रियाम् ।”
इति नैषधे ।
“अष्टादश पुराणानि कृत्वा सत्यवतीसुतः” ।
इति भारते ॥)

अष्टादशाङ्गः, पुं, (अष्टादश अङ्गानि यस्मिन् ।)

अष्टादशद्रव्यात्मकपाचनं । स चतुर्व्विधः । दश-
मूल्यादिः १ । भूनिम्बादिः २ । द्राक्षादिः ३ ।
मुस्तादिः ४ । तद्यथा ।
“दशमूली शठी शृङ्गी पौष्करं सदुरालभा ।
भार्गी कुटजवीजञ्च पटोलं कटुरोहिणी ॥
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः ।
कासहृद्गहपाश्वार्त्तिहिक्काश्वासवमीहरः” ॥ १ ॥
“भूनिम्बदारुदशमूलमहौषधाब्द-
तिक्तेन्द्रवीजधनिकेभकणाकषायः ।
तन्द्राप्रलापकसनारुचिदाहमोह
श्वासादियुक्तमखिलं ज्वरमाशु हन्ति” ॥ २ ॥
“द्राक्षामृता शठी शृङ्गी मुस्तकं रक्तचन्दनं ।
नागरं कटुका पाठा भूनिम्बं सदुरालभं ॥
उशीरं पद्मकं धान्यं बालकं कण्टकारिका ।
पुष्करं पिचुमर्द्दश्च क्वाथं जीर्णज्वरापहः ॥
कासं श्वासञ्च विषमं श्वयथूदरनाशनं ।
अष्टादशाङ्गमुदितमेतत् स्यात् सन्निपातनुत्” ॥ ३ ॥
मुस्तपर्पटकोशीरदेवदारुमहौषधं ।
त्रिफला धन्वयासश्च नीली काम्पिल्लकं त्रिवृत् ॥
किराततिक्तकं पाठा बलाकटुकरोहिणी ।
मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ॥
अष्टादशाङ्गमुदितमेतद्वा सन्निपातनुत् ।
पित्तोत्तरे सन्निपाते हितञ्चोक्तं मनीषिभिः ॥
मन्यास्तम्भौरोघाते उरःपार्श्वशिरोग्रहे” ॥ ४ ॥
इति सुखबोधः ॥

अष्टापदं, पुं, क्ली, (अष्टसु धातुषु पदं प्रतिष्ठा यस्य ।

पङ्क्तौ पङ्क्तौ अष्टौ पदानि यस्येति वा । अष्टनः
संज्ञायामिति दीर्घः ।) स्वर्णं । धुस्तूरः । शारीणां
फलकः । इत्यमरमेदिनीकरौ ॥ पाशार छक्
इति भाषा । यथा “धुस्तूरः कनकाह्वयः” । इत्य-
मरदर्शनात् । अष्टापदशब्दस्य कनकवाचकत्वाच्च ॥
(“आवर्जिताष्टापदकुम्भतोयैः ।”
इति कुमारसम्भवे ॥
“स रामकरमुक्तेन निहतो द्यूतमण्डले ।
अष्टापदेन बलवान् राजा वज्रधरोपमः ॥”
इति हरिवंशे ॥)

अष्टापदः, पुं, (अष्टौ पदानि यस्य ।) शरभः

मर्कटः । इति मेदिनी ॥ लूता । चन्द्रमल्ली ।
क्रिमिः । कैलासपर्ब्बतः । इति हेमचन्द्रः ॥ की-
लकः । इति धरणिः ॥

अष्टापदी, स्त्री, (अष्टौ पादा यस्याः । संख्यासु पूर्ब्ब-

स्येति पादस्यान्तलोपे पादोन्यतरस्यामिति ङीपि
पादः पत् ॥) चन्द्रमल्ली । इति मेदिनी ॥

अष्टारचक्रवान् [त्] पुं, (अष्टारमष्टकोणं चक्रं

विद्यते यस्य । अष्टारचक्र + मतुप् । मस्य वः ।)
जिनविशेषः । तत्पर्य्यायः । मञ्जुश्रीः २ ज्ञान-
दर्पणः ३ मञ्जुभद्रः ४ मञ्जुघोषः ५ कुमारः ६
स्थिरचक्रः ७ वज्रधरः ८ प्रज्ञाकायः ९ वादिराट्ं
१० नीलोत्पली ११ भहाराजः १२ नीलः १३
शार्दूलवाहनः १४ धियाम्पतिः १५ पूर्ब्बजिनः १६
खड्गी १७ दण्डी १८ विभूषणः १९ बालव्रतः
२० पञ्चचीरः २१ सिंहकेलिः २२ शिखाधरः
२३ वागीश्वरः २४ । इति त्रिकाण्डशेषः ॥

अष्टिः, स्त्री, (अस्यते पृथिव्यां क्षिप्यते इति + अस

+ क्तिन् । पृषोदरादित्वात् वत्वम् ।) वीजं ।
इत्युणादिकोषः ॥ आँठि इति भाषा ।

अष्ठीवान् [त्] पुं, क्ली, (अतिशयितमस्थि यस्मिन् ।

अस्थि + मतुप् । मस्य वः । आसन्दीवदष्ठीवदिति
निपातनादस्थिशब्दस्याष्ठीभावः ।) जानु । इत्य-
पृष्ठ १/१५१
:मरः ॥ आँठु इति भाषा ।

अस ल भावे । (अदां-परं-अकं-सेट् ।) भावः

सत्ता । सा चेह विद्यमानतैव । ल अस्ति विष्णुः ।
इति दुर्गादासः ॥ (वि + अति) । अतिक्रमे ।
पराभवे । “अन्यो व्यतिस्ते तु ममापि धर्म्मः”
इति मट्टौ । (अभि) भागसत्तायाम् । “यदत्र
ममामिस्यात् दीयताम्” । इति पाणिनिः ।
(आविस्) आविर्भावे ।
“तेषामाविरभूद् ब्रह्मा परिम्लानमुखश्रियाम्” ।
इति कुमारे । (प्रादुस्) प्रादुर्भावे । उद्भवे ।
“महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः” ।
इति मनुः ।)

अस इ र् य उ क्षेपे । (दिवां-परं-सकं-सेट् ।) इति

कविकल्पद्रुमः ॥ य अस्यति । उ असित्वा अस्त्वा ।
इर् आस्थत् आसीत् । अस्यमानं महागदा
इति भट्टौ ताच्छील्ये शतुः शानः । इति दुर्गा-
दासः ॥
(“तस्मिन्नास्थदिषीकास्त्रं रामो रामावबोधितः” ।
इति रघुवंशे । (अति) अतिक्रमे । पराभवे ।
“बहुभिश्चैकमत्यस्यन्नेकेन च बहून् जनान्” ।
इति रामायणे । (वि + अति) उत्ताने ।
“व्यत्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः” ।
इति मनुः । (अप) टूरनिक्षेपे ।
चीरानपास्यज्जनकस्य कन्या
नेयं प्रतिज्ञा मम दत्तपूर्ब्बा” ।
इति रामायणे । (अभि) अभ्यासे ।
“अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः” ।
इति कुमारे । (नि) निक्षेपे । “न मद्विधो न्यस्यति
भारमुग्रम्” । इति भट्टौ । (उप + नि) प्रस्तावे ।
“स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म
यः” । इति किराते । (सं + उप + नि) प्रमा-
णादिना दृढीकरणे ।
“त्वया च मया समुपन्यस्तेष्वपि मन्त्रेष्ववज्ञानं
वाक्पारूष्यञ्च कृतम्” । इति हितोपदेशे । (प्रति
+ नि) स्थापने ।
“तथैवायुधजालानि भ्रातृभ्यां कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्म्म कठिनं च यत्” ॥
इति रामायणे । (निर्) दूरीकरणे । पराभवे ।
“यशांसि सर्व्वेषुभृतां निरास्थत्” ।
“तानर्द्दिददखादीच्च निरास्थच्च तलाहतान्” ॥
इति च भट्टौ । (परि) विस्तृतौ । “पर्य्यस्यन्निह
निचयः सहस्रसंख्यां” । किराते ॥ “ताम्रोष्ठ-
पर्य्यस्तरुचः स्मितस्य” । इति कुमारे ॥ पातने च ।
“दासौघटमपां पूर्णं पर्य्यस्येत् प्रेतवत् सदा” ।
इति मानवे ॥ (सम्) संयोगे । एकत्र संश्लेषे ।
यथा, --
“सर्व्वोऽप्यवयवोऽह्ना समस्यते ।”
“अव्ययं समर्थेन सह समस्यते ॥”
इति च पाणिनिः ॥ इत्यादिः ॥

अस ञ् अषार्थे । (भ्वादिं-उभं-सकं-सेट् ।) अषार्थो

दीप्तिग्रहणगतयः ॥ “वासुदेवं परित्यज्य योऽन्य-
देवमुपासते” । उपगच्छतीत्यर्थः । लावण्य उत्पाद्य-
इवास यत्न इत्यादिसिद्ध्यै अनेकाथत्वात् सत्ता-
र्थोऽयमपीति रमानाथः । अनुप्रयोगादन्यत्रापि
परोक्षायामस्तेर्भूभावं केचिन्नेच्छन्तीति धातुप्रदी-
पः । इति दुर्गादासः ॥

असंख्यः, त्रि, असंख्यनीयः । संख्यारहितः । अपरि-

मितः । न विद्यते संख्या यस्येति बहुव्रीहिः ।
अगणनीयः । यथा, --
“असंख्यं द्विपरार्द्धादि पुद्गलात्मात्यनन्तकं” ।
इति हेमचन्द्रः ॥ अपि च ।
“शतयोजनविस्तीर्णैः शतस्कन्धसमन्वितैः ।
असंख्यशाखानिकरैरसंख्यफलसंयुतैः” ॥
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४१ अध्यायः ॥

असंख्यातं, त्रि, संख्यारहितं । यथा । मदनपारिजाते ।

“अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घितं ।
असंख्यातञ्च यज्जप्तं तत्सर्व्वं निष्फलं भवेत्” ॥
इत्याह्निकाचारतत्त्वं ॥

असंस्कृतः, त्रि, (न संस्कृतः । नञ्समासः ।) संस्कार-

रहितः । यथा । आपस्तम्बः ।
“असंस्कृतः सुतः श्रेष्ठो नापरो वेदपारगः” ।
इति शुद्धितत्त्वं ॥ अन्यच्च ।
“असंस्कृतप्रमीतस्य पिता न श्राद्धमाचरेत् ।
यदि स्नेहाच्चरेच्छ्राद्धं सपिण्डीकरणं विना” ॥
इति ।
“असंस्कृतौ न संस्कार्य्यौ पूर्ब्बौ पौत्त्रप्रपौत्त्रकैः ।
पितरं तत्र संस्कुर्य्यादिति धर्म्मो व्यवस्थितः” ॥
इति च श्राद्धतत्त्वं ॥

असंस्कृतवाक्यं, क्ली, (असंस्कृतं संस्कृतेतरं वाक्यम् ।)

संस्कृतेतरभाषा । तत्पर्य्यायः । अपभ्रंशः २ अप-
शब्दः ३ । इत्यमरटीका ॥

असंस्थानं, क्ली, असंस्थितिः संस्थानाभावः । न सं-

स्थानमसंस्थानमिति नञ्समासनिष्पन्नं ॥
असंहतः, पुं, (न संहन्यते येन । न + सम् + हन्
+ करणे क्त ।) व्यूहविशेषः । स तु सेनानां
पृथग्वृत्तिः । इति रायमुकुटादयः ॥ (दण्डः ।
भोगः । मण्डलः ।) असमूहिते अहते च त्रि ॥

असंहतः, त्रि, असंलग्नः । संहतो लग्नः न संहतः

असंहतः इति नञ्समासनिष्पन्नः ॥

असकृत्, व्य, (न सकृत् । नञ्समासः ।) पुनः

पुनः । वारं वारं । इत्यमरः ॥
(“अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा” ।
इति साहित्यदर्पणे ।
“अन्न्याद्येनासकृचैतान् गुणैश्च परिचोदयेत्” ।
इति मानवे ।)

असङ्कल्पितः, त्रि, (न सङ्कल्पितः । नञ्समासः ।)

सङ्कल्पाविषयः । यथा । विष्णुपुराणे ।
“कर्म्माण्यसङ्कल्पिततत्फलानि
संन्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्म्ममहीमनन्ते
तस्मिन् लयं ते त्वमलाः प्रयान्ति” ॥
इति मलमासतत्त्वं ॥

असङ्कुलः, पुं, (न सङ्कुलः ।) विस्तृतः पन्थाः । इति

हेमचन्द्रः ॥

असङ्ख्यः, त्रि, सङ्ख्यारहितः । अगणनीयः । स तु

द्विपरार्द्धादिः । इति हेमचन्द्रः ॥
असङ्गतः, त्रि, (न सङ्गतः । नञ्तत्पुरुषः ।)
सङ्गतिरहितः । नासङ्गतं प्रयुञ्जीतेति प्रसिद्धिः ॥
यथा । वस्तुतस्तु जिज्ञासुमेकपुरुषं प्रति सङ्गत-
मपि अतादृशमन्यं प्रति असङ्गतमिति यं प्रति-
पादयितुमानन्तर्य्याभिधानं तादृशाभिधानप्रयो-
जकतत्पुरुषोयजिज्ञासाजनकज्ञानविषयोऽर्थः तं
प्रति सङ्गतिरिति पुरुषविशेषनियन्त्रितं सङ्गति-
त्वं वाच्यं । इत्यनुमितिग्रन्थीयगदाधरी ॥ अयुक्तः ।
यथा देवीपुराणं ।
“घस्रद्वये जन्मतिथिर्यदि स्यात्
पूज्या तदा जन्मभसंयुता च ।
असङ्गता भेन दिनद्वयेऽपि
पूज्या परा या भवतीह यत्नात्” ॥
इति तिथ्यादितत्त्वं ॥ (असभ्यः । अशिक्षितः ।
यथा हितोपदेशे ।
“आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमसङ्गतं वा” ॥)

असती, स्त्री, (न सती साध्वी । नञ्समासः: ।)

भ्रष्टा । व्यभिचारिणी तत्पर्य्यायः । पुंश्चली २
धर्षिणी ३ बन्धकी ४ कुलटा ५ इत्वरी ६ स्वैरिणी
७ पांशुला ८ । इत्यमरः ॥ धृष्टा ९ दुष्टा १०
धर्षिता ११ । इति शब्दरत्नाबली ॥ लङ्का १२
निशाचरी १३ त्रपारण्डा १४ । इति जटाधरः ॥
(“आबाल्यादसती सती सुरपुरीं कुन्ती समा-
रोहयत्” । इति धर्म्मविवेके ।)

असतीसुतः, पुं, स्त्री, (असत्याः सुतः ।) व्यभि-

चारिणीपुत्त्रः । तत्पर्य्यायः । बान्धकिनेयः २ बन्धुलः
३ कौलटेरः ४ कौलटेयः ५ । इत्यमरः ॥
“बन्धुलः कौलटेरश्च कौलटेयोऽसतीसुतः ।
तथा बान्धकिनेयस्तु स्यात् कौलकेय इत्यपि ॥
अथ सत्यान्तु भिक्षुक्यां पुत्त्रो भवति यः पुनः ।
तत्र कौलटिनेयः स्यात्कौलटेयोऽपि स स्मृतः” ॥
इति शब्दरत्नावली ॥ अपि च । असतीसूनुः कौ-
लटेरश्च बन्धुलः ।
“अपि बान्धकिनेयः स्यात्कौलटेयोऽतिभिक्षुकी ।
कुलटापि सती सा चेत् कौलटेयस्तदात्मजः ॥
अपि कौलटिनेयः स्यात्” । इति जटाधरः ॥

असतीसूनुः, पुं, (असत्याः सूनुः ।) कुलटापुत्त्रः ।

इति जटाधरः ॥

असत्, त्रि, (अस् + शतृ ततो नञ्समासः ।)

अविद्यमानं । असाधुः । मूर्खः । ब्रह्मभिन्नवस्तु ।
इति वेदान्तः ॥ जडवर्गः । यथा, --
“यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके ।
तस्य सर्व्वस्य या शक्तिः सा त्वं किं स्तूयसे तदा” ॥
इति देवीमाहात्म्ये १ अध्यायः ॥ सत् चेतनवगः ।
असत् जडवर्गः ।
“तस्य सर्व्वस्य या शक्तिः सा यदा त्वं तदा कथं” ।
स्तव्येत्यर्थः । इति तट्टीकायां नागोजीभट्टः ॥ * ॥
निष्फलं । यथा, --
“अश्रद्धया हुतं दत्तं तपस्तप्तं कृतञ्च यत् ।
पृष्ठ १/१५२
:असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह” ॥
इति श्रीभवद्गीतायां १७ अध्याये २८ श्लोकः ॥ * ॥
निन्दितः । यथा, --
“असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा” ।
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डं ॥ ं ॥ अनित्यं । यथा ।
“अज्ञानन्तु सदसद्भ्यामनिर्व्वचनीयं” । इत्यादि
वेदान्तसारः ॥

असत्पथः, पुं, (न सन् पन्थाः ।) मन्दपथः । तत्प-

र्य्यायः । कुपथः २ कापथः ३ व्यध्वः ४ दुरध्वः ५
अपथः ६ कदध्वा ७ विपथः ८ कुत्सितवर्त्म ९ ।
इति शब्दरत्नावली ॥

असदध्येता, (ऋ) त्रि, (असत् निषिद्धशास्त्रमधीते

इति । असत् + अधि + इङ् + तृच् ।) असदध्य-
यनशाली । तत्पर्य्यायः । अजपः २ । इति हेम-
चन्द्रः ॥

असदृशः, त्रि, (न सदृशः । नञतत्पुरुषः ।) अ-

तुल्यः । अनुपमेयः । यद्यसदृशी स्तुतिरिति पुष्प-
दन्तः ॥ यथा । ब्रह्मवैवर्त्ते ।
“वित्तशाठ्यमकुर्व्वाणः सम्यक्फलमवाप्नुयात् ।
कुर्व्वाणो वित्तशाठ्यन्तु लभते ऽसदृशं फलम्” ॥
इति तिथ्यादितत्त्वं ॥

असद्ग्रहः, पुं, (असति अप्राप्ये वस्तुनि ग्रहः आग्रहः ।)

अखट्टिः । इति त्रिकाण्डशेषः ॥ बालकादीनां खो-
इट आवदार इत्यादिभाषा ।

असनं, क्ली, (अस्यते इति । अस + ल्युट् ।) क्षेपणं ।

इति मेदिनी ॥ (“तृणनिरसने विनियोगः” ।
इति भवदेवः ।)

असनः, पुं, वृक्षविशेषः । पियाशाल इति ख्यातः ।

तत्पर्य्यायः । महासर्ज्जः २ सौरिः ३ बन्धूकपुष्पः
४ प्रियकः ५ वीजवृक्षः ६ नीलकः प्रियसालकः ८ ।
(“प्रियविमानितमानवतीरुषां
निरसनैरसनैरवृथार्थता” ।
इति शिशुपाले ।) अस्य गुणाः । कटुत्वं । उष्णत्वं ।
तिक्तत्वं । वातार्त्तिदोषगलदोषरक्तमण्डलनाशित्वं ।
सारकत्वञ्च । इति राजनिर्घण्टः ॥ वृक्षभेदः ।
आसन इयि ख्यातः । तत्पर्य्यायः । अजकर्णः २
वनेसर्ज्जः ३ महासर्ज्जः ४ । इति रत्नमाला ॥
अस्य गुणाः । कफपित्तनाशित्वं । इति राज-
वल्लभः ।
(“वीजकः पीतसारश्च पीतशालक इत्यपि ।
बन्धूकपुष्पः प्रियकः सर्ज्जकश्चासनः स्मृतः ॥
वीजकः कुष्ठवीसर्पश्वित्रमेहगुदक्रिमीन् ।
हस्तिश्लेष्मास्नपित्तञ्च त्वच्यः केश्यो रसायनः” ॥
इति भावप्रकाशेऽस्य पर्य्यायगुणौ कथितौ ॥)

असनपर्णी, स्त्री, (असनस्य पर्णमिव पर्णमस्याः ।)

वृक्षविशेषः । तत्पर्य्यायः । वातकः २ शीतलः ३
शीतलवातः ४ अपराजिता ५ शणपर्णो ६ ।
इत्यमरः ॥ शीतः ७ शीतकः ८ सनपर्णो ९ ।
इति शब्दरत्नावली ॥ माराटी इति भरतः ॥
ओसान इति सारसुन्दरी ॥

असन्, [त्] पुं, इन्द्रः । इति त्रिकाण्डशेषः ॥

असन्तुष्टः, त्रि, (न सन्तुष्टः । नञ्समासः ।)

सम्यक् तुष्टिरहितः । सन्तोषशून्यः । यथा, --
“असन्तुष्टाः द्विजा नष्टाः सन्तुष्टा इव पार्थिवाः” ।
इति चाणक्यं ॥

असन्नद्धः, त्रि, (न सम्यक् नद्धः स्वकार्य्यक्षमः ।)

समुद्भूतः । पण्डितामिमानी । दर्पितः । इति
जटाधरः ॥ अकृतसन्नाहः ॥

असन्मानं, क्ली, मानहानिः । अमर्य्यादा । अनादरः ।

असाधुमानं । असच्च तत् मानञ्चेनि कर्म्मधारय-
समासनिष्पन्नं ॥

असभ्यः, त्रि, असभासत् । सभानुपयुक्तः । असा-

माजिकः ॥ न सभ्यः असभ्य इति नञ्समास-
निष्पन्नः । खलः । यथा, --
“अयन्त्वसभ्यस्तव जन्म नो गृहे
श्रुत्वाग्रजांस्ते न्यबधीत् सुरेश्वर ।
स तेऽवतारं पुरुषैः समर्पितं
श्रुत्वाधुनैवाभिसरत्युदायुधः” ॥
इति श्रीभागवते १० स्कन्धे ३ अध्याये २०
श्लोकः ॥ असभ्यः खलः । समर्पितं कथितं । इति
श्रीधरस्वामी ॥

असमः, पुं, (नास्ति समो यस्य ।) बुद्धः । इति

शब्दरत्नावली ॥

असमः, त्रि, विषमः । अतुल्यः । यथा । “इत्येषा

सहकारिशक्तिरसमा माया दुरुन्नीतितो मूल-
त्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता” ।
इति कुसुमाञ्जलौ १ स्तवकः ॥

असमञ्जसं, क्ली, (न समञ्जसं युक्तियुक्तम् ।) असङ्गतं ।

अनुपयुक्तं । तत्पर्य्यायः । दुर्जातं २ दुःससञ्जं ३ ।
इति त्रिकाण्डशेषः ॥ (“अतिप्रणयादेतन्मयोक्त-
मसमञ्जसम्” । इति कथासरित्सागरे । (पुं)
सगरराजज्येष्ठपुत्रः । यथा हरिवंशे ।
“केशिन्यसूत सगरादसमञ्जसमात्मजम्” ।)

असमयः, पुं, (अपकृष्टः समयः । नञ्समासः ।)

अकालः । दुःसमयः । यथा, --
“एतान् जनान्न सेवेत व्याधिसङ्घश्च दुर्ज्जयः ।
सर्व्वं बोध्यमसमये काले सर्व्वं ग्रसिष्यति” ॥
इति ब्रह्मवैवर्त्ते ब्रह्यखण्डे १६ अध्यायः ॥

असमर्थः, त्रि, (न ससर्थः । नञ्समासः ।) अशक्तः ।

दुर्ब्बलः । यथा । ब्रह्मववर्त्ते ।
“उपवासासमर्थश्चेदेकं विप्रन्तु भोजयेत् ।
तावद्धनानि वा दद्याद् यद्भुक्तद्विगुणं भवेत्” ।
इति तिथ्यादितत्त्वं ॥

असमवायिकारणं, क्ली, (न समवायि कार्य्येण

कारणेन वा सह एकस्मिन्नर्थे समवेतं कारणम् ।)
समवायिकारणासन्नकारणं । समवायिकारणे
प्रत्यासन्नजनकं । यथा । घटं प्रति कपालद्वय-
संयोगः । एतत्कारणं गुणः कर्म्म च । समवायि-
कारणे प्रत्यासन्न हैया ये कारण हय । इति
न्यायभाषा ॥ (एतत् कारणन्तु सर्व्वत्र द्रव्ये गुणः
गुणे गुणः कर्म्म च । तदुकं भाषापरिच्छदे ।
“गुणकर्म्ममात्रवृत्ति ज्ञेयमथाप्यसमबायिहेतु-
त्वम्” ।)

असमानं, त्रि, (नास्ति समानो यस्य ।) अतुल्यं ।

विजातीयं । सजातीयभिन्नं । यथा शङ्खः ।
“समानाशौचं प्रथमे प्रथमेन समापयेत् ।
असमानं द्वितीयेन धर्म्मराजवचो यथा” ॥
इति शुद्धितत्त्वं ॥

असमाप्तं, त्रि, (न समाप्तं । नञ्तत्पुरुषः ।) समा-

प्तिरहितं । असम्पूर्णं । अनिष्पन्नं । यथा । स्मृतिः ।
“असमाप्ते व्रते पूर्ब्बेनैव कुर्य्याद्व्रतान्तरं” ।
इति तिथ्यादितत्त्वं ॥

असमीक्ष्यकारी, [न्] त्रि, (समीक्ष्य विचिन्त्य न

करोतीति । असमींक्ष्य + कृ + णिनि ।) अबि-
वेचनापूर्ब्बककर्म्मकर्त्ता । तत्पर्य्यायः । जाल्मः २ ।
इत्यमरः ॥ (“उचितमेवैतत् ममासमीक्ष्य-
कारिणः” । इति हितोपदेशे ।)

असम्बद्धं, त्रि, (न सम्वद्धं परस्परान्वययुक्तं । नञ्-

समासः ।) अनर्थकवाक्यं । तत्पर्य्यायः । अबद्धं २ ।
इति जटाधरः ॥
(“असम्बद्धकृतश्चैव व्यवहारो न सिध्यति” ।
इति मनुः । विशृङ्खलः । अनियमः । यथा भारते ।
“असम्बद्धा महाराज ! तान् निगृह्णन्ति ते गजाः”
इति ॥)

असम्मतः, त्रि, (न सम्मतः । नञ्समासः । अन-

भिमतः । तत्पर्य्यायः । प्रणाय्यः २ । इति हेमचन्द्रः ॥
(“असम्मतः कस्तव मुक्तिमार्गं
पुनर्भवक्लेशभयात् प्रपन्नः” ।
इति कुमारे ।)

असम्मानं, क्ली, अमर्य्यादा । अपमानं । सम्यङ्माना-

भावः । न सम्मानं असम्मानमिति नञ्समास-
निष्पन्नं ॥

असरुः, पुं, (अस + अरु ।) वृक्षविशेषः । इति शब्द-

चन्द्रिका ॥ कुकुरसोँका इतिख्यातः ।

असहनः, पुं, स्त्री, (न सहनः । नञ्समासः ।) शत्रुः ।

इति हेमचन्द्रः ॥ (अधीरः । असहिष्णुः । यथा, --
“कस्मात् प्राप्य तिरस्क्रियामसहनोऽप्यस्थादिति
प्रस्तुते” । इति महावीरचरिते ।
“प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ” ।
इति रत्नावल्यां । क्षमाराहित्यम् । यथा, साहित्य-
दर्पणे ।
“अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेप्यसहनं तत्तेजः समुदाहृतम्” ॥
इति ॥)

असह्यः, त्रि, (न सह्यः । नञ्तत्पुरुषः ।) असह-

नीयः । असोढव्यः । सहनायोग्यः । यथा, --
“वरं रामशराः सह्या न च वैभीषणं वचः ।
असह्यं ज्ञातिदुर्व्वाक्यं मेघान्तरितराद्रवत्” ॥
इति महानाटकं ॥ ज्ञातिदुर्व्वाक्यमित्यत्र दुर्व्वचो
ज्ञातेरिति च पाठः ॥

असाधारणं, त्रि, (न साधारणं सामान्यधर्म्मयुक्तम् ।

नञ्समासः ।) साधारणभिन्नं । असामान्यं ।
विशेषः । न्यायमते साध्यव्यापकीभूताभावप्रति-
योगिहेतुः । यथा वह्निमान् जलत्वादित्यादिः ।
यथा । “यत्तु प्रयागे च्यहस्राने क्रोडीकृते
माघसप्तमीलानादावसाधारणसङ्कल्पेन पुनस्तथैव
पृष्ठ १/१५३
:प्रातःस्नानाचरणं” इति तिथ्यादितत्त्वं ॥ किञ्च
“असाधारणशरीरव्यापारार्ज्जितं अविद्वद्भ्यो दातु-
मनिच्छन्न दद्यात्” । इति दायभागः ॥ अतुल्यं ।
इति शूद्रवर्गे साधारणशब्दार्थदर्शनात् ॥

असाध्यं, त्रि, (न साध्यं साधयितुमशक्यम् ।) असा-

धनीयं । साधनायोग्यं । अशक्यं । असाधितव्यं ।
यथा, --
“सहजानि त्रिदोषाणि यानि चाभ्यन्तरा वलिं ।
जायन्तेऽर्शांसि संगृह्य तान्यसाध्यानि निर्द्दिशेत्” ॥
इति भावप्रकाशः ॥ अपि च ।
“य इदं प्रपठेन्नित्यं दुर्गानामशतात्मकं ।
नासाध्यं विद्यते तस्य त्रिषु लोकेषु पार्व्वति” ॥
इति विश्वसारतन्त्रे दुर्गाशतनामात्मकं स्तोत्रं ॥
(“साध्या याप्यत्वमायान्तियाप्याश्चासाध्यतां तथा ।
घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्” ।
“अमर्म्मोपहिते देशे शिरासन्ध्यस्थिवर्ज्जिते ।
विकारो योऽनुपर्य्येति तदसाध्यस्य लक्षणं” ॥
इति सुश्रुतः ॥)

असाध्वी, स्त्री, (न साध्वी । नञ्समासः ।) अपति-

व्रता । यथा ज्योतिस्तत्त्वम्, --
“कन्यातुलाभृन्मिथुने च साध्वी
शेषेष्वसाध्वी धनवर्ज्जिता च ।
निन्द्येऽपि लग्ने द्विपदांश इष्टः
कन्यादिलग्नेष्वपि नान्यभागः” ॥ इति ।

असान्द्रं, त्रि, (न सान्द्रं निविडं । नञ्तत्पुरुषः ।)

अनिविडं । विरलं । इति जटाधरः ॥

असाम्प्रतं, व्य, (न साम्प्रतम् युक्तम् । नञ्तत्पुरुषः ।)

अयुक्तं । अनुचितं । तथा च कालिदासः ।
“विषवृक्षोऽपि संवर्द्ध्य स्वयं छेत्तुमसाम्प्रतम्” ।
इति । कुमारे २ । ५५ ॥
(“सम्प्रत्यसाम्प्रतं वक्तुमुक्ते मुषलपाणिना” ।
इति माघे । “अविधाय विवाहसत्क्रियामन-
योर्गम्यत इत्यसाम्प्रतम्” । इति रघौ ८ । ६० ।)

असारः, पुं, (नास्ति सारो यस्य ।) एरण्डवृक्षः । इति

शब्दचन्द्रिका ॥

असारं, त्रि, (नास्ति सारो यस्य ।) साररहितवस्त ।

स्थिरांशशून्यं । तत्पर्य्यायः । फल्गु २ । इत्य-
मरः ॥ निःसारं ३ निष्फलं ४ । इति शब्दरत्ना-
वली ॥ वार्त्तं ५ । इति जटाधरः ॥
(यथा -- मनुसंहितायां ८ । २०३ ।
“नान्यदन्येन संसृष्टरूपं विक्रयमर्हति ।
न चासारं न च न्यूनं न दूरे न तिरोहितम्” ।
“असारे खलु संसारे त्रीणि साराणि भावयेत्” ।
इति हितोपदेशे ॥
“निदर्शनमसाराणां लघुर्बहुतृणं नरः ।”
इति माघे ॥
“बहूनामप्यसाराणां समवायो बलावहः ।”
इति पञ्चतन्त्रे ॥
“धिगिमां देहभृतामसारताम् ।” इति रघुवंशे ॥
“अतो विपरीतास्त्वसाराः” ॥ इति चरकः ॥)

असारं, क्ली, नास्ति सारो यस्य ।) अगुरु । इति रा-

जनिर्घण्टः ॥ (अगुरुशब्देऽस्य विशेषो ज्ञेयः ॥)

असाक्षात्, व्य, (न साक्षात् । नञ्तत्पुरुषः ।)

अप्रत्यक्षं । अदर्शनं । अगोचरं ॥ अतुल्यं । इति
साक्षात् शब्दार्थदर्शनात् ॥

असिः, स्त्री, (अस्यते अवगाहनेन पापानि दूरी-

करोति या । अस + इन् ।) नदीविशेषः । सा
च काशीदक्षिणदिक्स्थिता । यथा ।
“तस्मात् विश्वेश्वराज्ञैव काशीवासेऽत्र कारणं ।
असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते ॥
वाराणसीति विख्याता तदारभ्य महामुने ।
असेश्च वरणायाश्च सङ्गमं प्राप्य काशिका ॥
वाराणसीह करुणामयदिव्यमूर्त्ते-
रुत्सृ ज्य यत्र तु तनुं तनुभृत् सुखेन ।
विश्वेशदृङ्महसि यत् सहसा प्रविश्य
रूपेण तां वितनुता पदवीं दधाति ॥
जातो मृतो बहुषु तीर्थवरेषु ये त्वं
जन्तोर्न जातु भवशान्तिरभून्निमज्य ।
वाराणसीति गदतीह मृतोऽमृतत्वं
प्राप्याधुना मम बलात् स्मरशासनः स्यात्” ॥
इति काशीखण्डे ३० अध्यायः ॥

असिः, पुं, (असतीति । अस दीप्तौ इनि ।) अस्त्र-

भेदः । खाँडा तरवाल इत्यादि भाषा । तत्प-
र्य्यायः । खड्गः २ निस्त्रिंशः ३ चन्द्रहासः ४
रिष्टिः ५ कौक्षेयकः ६ मण्डलाग्रः ७ करपालः
८ कृपाणः ९ इत्यमरः ॥ प्रबालकः १० भद्रात्मजः
११ रिष्टः १२ ऋष्टिः १३ धाराविषः १४ कौक्षेयः
१५ तरवारिः १६ तरवाजः १७ कृपाणकः १८
करवालः १९ कृपाणी २० शस्त्रः २१ । इति
शब्दरत्नावली ॥ विषसनः २२ । इति त्रिकांण्ड-
शेषः ॥
(“पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः ।
वैरूप्यपौनरुक्तेन भीषणां तामयोजयत्” ॥
इति रघवंशे १२ । ४० ॥
“स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा ।
वृक्षगुल्मावृते चापैरसिचर्म्मायुधैः स्थले ॥”
इति मनौ ७ । १९२ ॥) तस्य स्तुतिर्यथा ।
“असिर्व्विषसनः खड्गस्तीक्ष्णधारो दुरासदः ।
श्रीगर्भो विजयश्चैव धर्म्मपालो नमोऽस्तु ते ॥
इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा ।
नक्षत्रं कृत्तिका ते तु गुरुर्देवो महेश्वरः ॥
हिरण्यञ्च शरीरन्ते धाता देवो जनार्द्दनः ।
पिता पितामहो देवस्त्वं मां पालय सर्व्वदा ॥
नीलजीमूतसङ्काशस्तीक्ष्णदंष्ट्रः कृशोदरः ।
भावशुद्धोऽमर्षणश्च अतितेजास्तथैव च ॥
इयं येन धृता क्षौणी हतश्च महिषासुरः ।
तीक्ष्णधाराय शुद्धाय तस्मै खड्गाय ते नमः” ॥
इति वृहन्नन्दिकेश्वरपुराणीयदुर्गोत्सवपद्धतिधृत-
वाराहीतन्त्रं ॥

असिकं, क्ली, (असति दीप्यते यत् । अस् +

इकन् ।) अधरचिवुकयोर्म्मध्यभागः । इति
हेमचन्द्रः ॥

असिक्निका, स्त्री, असिक्नी । दासी । इति जटाधरः ॥

(“गतोगणस्तूर्णमसिक्निकानां” । इति पाणिनिः ।

असिक्नी, स्त्री, (न सिता शुक्लकेशा । छन्दसि क्न-

मेक इति तस्य क्नः नान्तत्तात् ङीप् च ।) अवृ-
द्धान्तःपुरचारिणी प्रेष्या ॥ इत्यमरः ॥ नदी वि-
शेषः । इति मेदिनी ॥ (दक्षपत्नी वीरणसुता ।
यथा हरिवंशे । “असिक्नीमावहत्पत्नीं वीरणस्य
प्रजापतेः । सुतां सुतपसा युक्ताम्” इति ॥)

असिगण्डः, पुं, (अस्यते क्षिप्यते इति असिः क्षिप्त

इत्यर्थः । असिः गण्डो यस्मिन् ।) क्षुद्रोपधानं ।
इति जटाधरः ॥ छोटवांलिश इति भाषा ॥

असितः, पुं, (न सितः शुक्लः । नञ्समासः ।) कृष्ण-

वर्णः । तद्विशिष्टे त्रि । (यथा पुष्पदन्ते ॥
“असितगिरिनिभं स्यात् कज्जलं सिन्धुपात्रम्” ।
“चकाशे विनिविष्टेन स सन्ध्येव निशाऽसिता” ।
इति रामायणे ॥) इत्यमरः ॥ शनिग्रहः । कृष्ण-
पक्षः । इति हलायुधः ॥ (स्वनामख्यातः सूर्य्य-
वंशोद्भवो भरतपुत्त्रो राजा । यथा, रामायणे --
“भरतात् तु महातेजा असितो समजायत” ।
स्वनामख्यातः कश्चित् व्यासशिष्यो मुनिः । यथा
हरिवंशे ।
“असितस्यैकपर्णा तु देवलस्य महात्मनः” ।
पर्ब्वतभेदः । यथा भारते, --
“तत्र पुण्यंहृदः ख्यातो मैनाकश्चैव पर्ब्बतः ।
बहुमूलफलोपेतस्त्वसितो नाम पर्ब्बतः” ॥)

असिता, स्त्री, (न सिता । असित पलितयोः प्रति-

षेधात् वर्णादनुदात्तादिति ङीष् तकारस्य क्नका-
रादेशश्च न ।) नीलीवृक्षः । इति राजनिर्घण्टः ॥
या अवृद्धा भहादेवीभिः प्रेष्यते अन्तःपुरे च पुनः
पुन श्चरति सा । इत्यमरटीकायां भरतः ॥ या
अवृद्धा युवती कृष्णकेशा प्रेष्या दासी अन्तःपुरे
चरति सा इति सारसुन्दरी ॥ (स्वनामख्याता
स्वर्वेश्या । यथा हरिवंशे ।
“असिता च सुबाहुश्च सुवृत्ता सुमुखी तथा” ।)

असिताभ्रशेखरः, पुं, (असितः कृष्णवर्णः अभ्रो मेघ-

इव शेखरो यस्य ।) वुद्धविशेषः । इति त्रिकाण्ड-
शेषः ॥

असितार्च्चिः [स्] पुं, (असिता कृष्णा अर्च्चिः शिखा

यस्य ।) अग्निः । इति त्रिकाण्डशेषः ॥

असितालुः, पुं, (असितः आलुः ।) नीलालुः । इति

राजनिर्घण्टः ॥

असितोत्पलं, क्ली, (असितमुत्पलम्ं ।) नीलोत्पलं ।

इति राजनिर्घण्टः ॥ (यथा चरकः ।
“उत्पलानि कषायाणि पित्तरक्तहराणि च” ॥)

असिदंष्ट्रः, पुं, (असिरिव तीक्ष्णा दष्ट्रा यस्य ।) जल-

जन्तुविशेषः । मकर इति ख्यातः । इति शब्द-
रत्नावली ॥

असिदंष्ट्रकः, पुं, (असिद्रंष्ट्र + स्वार्थे कन् ।) असि-

दंष्ट्रः । मकरः । इति त्रिकाण्डशेषः ॥

असिद्धं, त्रि, (न सिद्धम् । नञ्समासः ।) अपक्वं ।

अस्विन्नं । इति रत्नमाला ॥ सिद्धिरहितं ॥
(“स्वयमसिद्धः कथं परान् साधयेत्” इति न्यायः ।
न्यायमते, आश्रयासिद्धत्वादिभिर्दोषैर्दुष्टो हेतुः ।
यथा, भाषापरिच्छेदे ।
पृष्ठ १/१५४
:“अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।
कालात्ययोपदिष्टश्च हेत्वाभासस्तु पञ्चधा” ॥)

असिद्धिः, स्त्री, (न सिद्धिः । नञ्समासः ।) अनि-

ष्पत्तिः । न्यायमते सा त्रिविधा । पक्षासिद्धिः १
यथा काञ्चनमयपर्ब्बतो वह्निमान् इत्यादिः १ ।
स्वरूपासिद्धिः २ यथा, पर्ब्बतः काञ्चनमय-
वह्निमान् इत्यादिः २ । व्याप्यत्वासिद्धिः ३ यथा,
पर्ब्बतो वह्निमान् ज्वलत्वादित्यादिः ३ । (यथा
भाषापरिच्छेदे ।
“आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ ।
व्याप्यतासिद्धिरपरा स्यादसिद्धिरतः स्त्रिधा ॥
पक्षासिद्धिर्यत्र पक्षो भवेन्मनिमयो गिरिः ।
ह्रदो द्रव्यं घूमवत्वादत्रासिद्धिरथापरा ॥
व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत्” ॥)

असिधावः, पुं, (असिं धावति निर्म्मलं करोतीति ।

असि + धाव + अण् ।) शस्त्रमार्ज्जकः । इति
जटाधरः ॥ शिकलकर इति भाषा ।

असिधावकः, पुं, (असिधाव + स्वार्थे कन् ।) असि-

धारकर्त्ता । अस्त्रमार्जकः । इत्यमरः ॥

असिधेनुः, स्त्री, (असिर्धेनुरिव यस्याः । असेर्धेनु-

सादृश्येन छुरिकाया स्तद्वत्स्यसादृश्यम् ।) छुरि-
का । इति हलायुधः ॥ छुरी इति भाषा ।

असिधेनुका, स्त्री, (असिर्धेनुका इव यस्याः ।)

छुरिका । इत्यमरः ॥

असिपत्रः, पुं, (इक्षुपक्षे, असिरिव तीक्ष्णं पत्रं

यस्य ।) इक्षुः । खडगकोषः । नरकविशेषः ।
इति मेदिनी ॥ गुण्डनाम तृणं । इति राजनि-
र्घण्टः ॥

असिपत्रकः, पुं, (असिपत्र + कन् ।) इक्षुः । इति

त्रिकाण्डशेषः ॥

असिपत्रवनं, क्ली, (असिरिव तीक्ष्णं पत्रं यस्य

तादृशं वनं ।) नरकविशेषः । “पत्रैर्यत्र विदा-
र्य्यते” । इति मनुः ॥ (“यस्त्विह वै निजपथादना-
पद्यपगतः पाषण्डञ्चोपगतस्तमसिपत्रवनं प्रवेश्य
कषया प्रहरन्ति तत्रासावितस्ततो धावमानः
उभयतोधारै स्तालवनासिपत्रैश्छिद्यमानसर्व्वाङ्गो
हा हतोऽस्मीति परमया वेदनया मूर्च्छितः पदे
पदे निपतति स्वधर्म्महा पाषण्डानुगमनफलं
भुङ्क्ते” । इति श्रीभागवते ॥
“अशिपत्रवनं नाम नरकं शृणु चापरम् ।
योजनानां सहस्रं वै ज्वलदग्न्यास्तृतावनिः ॥
तप्ता सूर्य्यकरैश्चण्डैः कल्पकालाग्निदारुणैः ।
प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः ॥
तन्मध्ये च वनं शीतं स्निग्धपत्रं विभाव्यते ।
पत्राणि यत्र खङ्गानि फलानि द्विजसत्तम” ॥
इति मार्कण्डेयपुराणे ।)

असिपुच्छकः, पुं, (असिरिव पुच्छो यस्य ।) शिशु-

मारः । इति हाराबली ॥

असिपुत्रिका, स्त्री, (असेः पुत्त्रीव ।) छुरिका ।

इति हलायुधः ॥

असिपुत्री, स्त्री, (अमेः पुत्त्रीव ।) इत्यमरः ॥ छुरिका ॥

छरी इति भषा ।

असिमेदः, पुं, (असिरिव मेदो निर्यासो यस्य ।)

विट्खदिरः । इति शब्दरत्नावली ॥ (इरिमेद-
शब्देऽस्य गुणा ज्ञेयाः ॥)

असिहेतिः, पुं, (असिर्हेतिः प्रधानास्त्रं यस्य ।)

खड्गधारी योद्धा । तत्पर्य्यायः । नैस्त्रिंशिकः २ ।
इत्यमरः ॥

असु, क्ली, (अस्यतेऽनेन । अस् + उ ।) चित्तं ।

उपतापः । इत्युणादिकोषः ॥

असुः, पुं, (अस्यन्ते इति । अस् + उ ।) प्राणः

पञ्चप्राणेषु बहुवचनान्तः । असवः । इत्यमरः ॥
(“तेजस्विनः सुखमसूनपि संत्यजन्ति” ।
इति नीतिशतके । ९९ श्लोकः ।)

असुखं, क्ली, (न सुखम् । नञ्समासः ।) दुःखं ।

इति हेमचन्द्रः ॥
(यथा मनुसंहितायां १२ । १९ ।
“तौ धर्म्मं पश्यतस्तस्य पापं चातन्द्रितौ सह ।
याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम्” ॥
तत्रैव ४ । ७० ।
“न कर्म्म निष्फलं कुर्य्यान्नायत्यामसुखोदयम्” ।)

असुधारणं, क्ली, (असूनां धारणं ।) जीवनं । इत्य-

मरः ॥

असुभृत्, त्रि, (असून् विभर्तीति । असु + भृ +

क्विप् ।) प्राणी । जीवः । यथा । “दृतय इव
श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयो
ऽण्डमसृजन् यदनुग्रहतः” । इति श्रीभागवते
दशमस्कन्धे ८७ अध्यये १४ श्लोकः ॥

असुरः, पुं, स्त्री, (अस्यति देवान् क्षिपति इति ।

असं + उरन् । यद्वा न सुरः विरोधे नञ्तत्-
पुरुषः । यद्वा नास्ति सुरा यस्य सः । सूर्य्यपक्षे
असति दीप्यते इति उरन् ।) सुर विरोधी ।
स तु कश्यपात् दितिगर्भजातः । तत्पर्य्यायः ।
दैत्यः २ दैत्येयः ३ दनुजः ४ इन्द्रारिः ५ दानवः ६
शुक्रशिष्यः ७ दितिसुतः ८ पूर्ब्बदेवः ९ सुरद्विट्
१० देवरिपुः ११ देवारिः १२ इत्यमरः ॥
(“सुराः प्रतिग्रहाद्देवाः सुरा इत्यभिविश्रुताः ।
अप्रतिग्रहणात्तस्य दैतेयाश्चासुराः स्मृताः” ॥
इति रामायणे ।) सूर्य्यः । इति मेदिनी । राहुः
इति ज्योतिःशास्त्रम् ॥

असुररिपुः, पुं, (असुराणां रिपुः ।) विष्णुः । इति

शब्दरत्नावली ॥

असुरसा, स्त्री, (न विद्यते सु शोभनो रसो यस्याः ।)

वर्व्वरी । इति रत्नमाला । वावुइ तुलसी इति
भाषा । (वर्व्वरीशब्दे ऽस्या विशेषो ज्ञातव्यः ॥)

असुरा, स्त्री, रात्रिः । रासिः । इति मेदिनी ॥

असुराह्वं, क्ली, (असुरस्याह्वा आह्वा यस्य ।) कांस्यं ।

इति हेमचन्द्रः ॥

असुरी, स्त्री, (अस् + उरन् + ङीष् ।) राजिका ।

इत्यमरटोकायां भरतादयः । राई सर्षा इति
भाषा ॥ असुरपत्नी ॥

असुर्क्षणं, क्ली, (न + सुक्ष + ल्युट् ।) अवज्ञा । अनादरः । इत्यमरः ।

असुस्थः, त्रि, (न सुस्थः । नञ्समासः ।) सुखः-

स्थितिरहितः । रोगी ॥

असुक्षणं, क्ली, (न + सूर्क्ष + ल्युट्) अवज्ञा । अना-

दरः । इत्यमरः ॥

असूया, स्त्री, (असू ञ असूयायाम् । असू + यक् +

अ ।) गुणषु दोषाविष्करणं । परगुणे दोषारोपणं
इत्यमरः ॥ (यथा साहित्यदर्पणे ।
“असूयान्यगुणर्द्धीनामौद्धत्यादसहिष्णुता ।
दोषोद्घोषभ्रूविभेदावज्ञाक्रोधेङ्गितादिकृत्” ॥
इयञ्च “हर्षासूया विषादाः” । इत्यादिना व्यभि-
चारिभावमध्येऽपि परिगणिता ॥)

असूर्य्यम्पश्या, स्त्री, (सूर्य्यमपि न पश्यति या । न +

सूर्य्य + दृश् + खश् । सत्यपि सूर्य्यदर्शने प्रयोगो
भवति । यदा तु सूर्य्यदर्शनाभावमात्रम् सूर्य्ये-
तरस्य चन्द्रादेर्दर्शनं वा विवक्षितं तदा खश् न
भवति ।) राजपत्न्यादिः । इति कलापपाणिनी ॥
(“असूर्य्यम्पश्यरूपा त्वं किमभीरुररार्य्यसे” ।
इति भट्टिः ॥)

असूर्क्षणम्, क्ली, (सूर्क्ष आदरे तस्मात् ल्युट् ततो

नञ्समासः ।) अनादरः । इत्यमरः ।

असूक्षणं, क्ली, (सूर्क्ष आदरे तस्मात् ल्युट् ततो

नञ्समासः ।) अनादरः । इत्यमरः ।

असृक्, [ज्] क्ली (न + सृज् + क्विप् ।) रक्तम् ।

इत्यमरः ॥ (“पानमप्यसृजः क्षिप्रं स्वपीडायै
जलौकसाम्” । इति दृष्टान्तशतकम् ।) कुङ्कुमं ।
इति राजनिर्घण्टः ॥ विष्कुम्भादि सप्तविंशति
योगान्तर्गतषोडशयोगः ॥ तत्र जातफलं ।
“धनी कुरूपः कुमतिर्दूरात्मा
विदेशगामी रुधिरप्रकोपः ।
महाप्रलोभी पुरुषो वलीया-
नसृक् प्रसूतौ किल यस्य जन्तोः” ।
इति कोष्ठीप्रदीपः । रक्तार्थे यथा, वैद्यकं ॥
“रसासृक्मांसमेदोटस्थि मज्जशुक्राणि धातवः” ।
“तस्य पित्तमसृङ्मांसं दग्ध्वा रोगाय कल्पते” ।
“वातासृक् पूर्व्वलक्षणं ।” इति माधवकरः ॥
“विदाह्यन्नं विरुद्धञ्च तत्तच्चासृक् प्रदूषणं ।
भजतां विधिहीनञ्च स्वप्नजागरमैथुनं ॥
प्रायेण सुकुमाराणामचङ्मणशीलिनां ।
अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गकः ।
तादृशनासृजा रुद्धः प्राक् तदेव प्रदूषयेत्” ॥
इति वाभटः ॥
“असृजः श्लेष्मणश्चापि यः प्रसादः परो मतः” ।
“तद्वर्षाद्दादशात्काले वर्त्तमानमसृक् पुनः ।
जरापक्वशरीराणां यातिपञ्चाशतः क्षयं ॥
मदमूर्च्छा श्रमार्त्तानां वातविण्मूत्रसङ्गिनां ।
निद्राभिभूतभीतानां नृणां नासृक् प्रवर्त्तते” ॥
इति सुश्रुतः ॥)

असृक्करः, पुं, (असृक् शोणितं करोतीति । असृज्

+ कृ + ट ।) शरीरस्थधातुः । इति हेमचन्द्रः ॥
(भुक्तस्यान्नादिकस्य प्रथमं रसरूपता, रसस्य
परिपाकतो रक्तरूपता इति वैद्यके प्रसिद्धिः ।
“रसाद्रक्तं ततो मांसं मांसान्मेदः प्रजायते” ॥
इति सुश्रुतः ॥)

असृक्पः, पुं, स्त्री, (असृक् पिवतीति । असृज् +

पा + ड) राक्षसः इति हेमचन्द्रः ॥
पृष्ठ १/१५५

असृग्धरा, स्त्री, (असृक् शोनितं धरतीति । असृज्

+ धृ + अच् ।) चर्म्म । इत्यमरटीकायां भर-
तादयः ॥

असृपाटी, स्त्री, पुं, (न + सृप् + काट् ।) रक्तधारा

इत्यमरटीकासारमुन्दरी ।

असेचनकं, त्रि, (न सिच्यते मनो यस्मिन् । न + सिच्

+ ल्युट् । संज्ञायां कन् ।) यस्य दर्शनात् तृप्ते
रन्तो नास्ति तत् । अत्यन्तप्रियदर्शनं । इत्यमरः ।
याहाके देखिया तृप्तिर शेष ना हय एमन वस्तु ।
(“नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापं” ।
इति साहित्यदर्पणे ॥)

असौम्यस्वरः, त्रि, (असौम्यः कठोरः स्वरो यस्य ।)

काकवत् मन्दस्वरयुक्तः । तत्पर्य्यायः । अस्वरः २ ।
इत्यमरसिंहः ॥

असौष्ठवं, क्वी, (न सौष्ठवं । नञ्समासः) अप्रशंस-

नीयत्वं । अशोभनत्वं । अनातिशय्यं । नञ् पूर्ब्बात्
सुष्टुशब्दात् भावे ष्णप्रत्ययः ॥ (“गमनमलसं शून्या
दृष्टिः शरीरमसौष्ठवं” । इति मालतीमाधवे ।
अलङ्कारशास्त्रे स्मरदशाभेदः । यथा साहित्य-
दर्पणे । “असौष्ठवं मलापत्तिस्तापस्तु विरह-
ज्वरः” ॥)

अस्तः, पुं, (अस्यन्त रविकिरणा यस्मिन् । अस् + त ।)

अस्ताचलः । पश्चिमाचलः । तत्पर्य्यायः । चरम
क्ष्माभृत् २ । इत्यमरमेदिन्यौ ॥
(“विडम्बयत्यस्तनिमग्नसूर्य्यम्” । इति रघुः ।
“सहस्रशिखरञ्चैव नानातीर्थसमाकुलम् ।
चकार रत्नसंकीर्णं भूयोऽस्तं नाम पर्व्वतं” ॥
इति हरिवंशे ।)
लग्नात् सप्तमस्थानं । इति दीपिका ॥

अस्तं, त्रि, (अस् + क्त ।) क्षिप्तं । अवसानप्राप्तं । इति

मेदिनी ॥ (“पतिरपास्तसंज्ञा मतिः” । इति
मालतीमाधवे ॥ “निरस्तगाम्भीर्य्यमपास्तधैर्य्यं” ।
इति माघे ॥ सूर्य्यास्तगमनं । “करजाल मस्त-
समयेऽपि सताम्” । इति माघे ॥
तथा कुमारसम्भवे २ । २३ ।
“यमोपि विलिखन् भूमिं दण्डेनास्तमितत्विषा ।
कुरूतेस्मिन्नमोघेपि निर्व्वानालातलाघवम्” ॥)

अस्तं, क्ली, भृत्युः । इति हेमचन्द्रः ॥

अस्तकः, पुं, (अस्त + कन् ।) मोक्षः । निर्ब्बाणं ।

इति त्रिकाण्डशेषः ॥

अस्तम्, व्य, (अस् + तम् ।) अदर्शनं । इत्यमरः ॥

(राज्यमस्तमितेश्वरम्” इति रघुः ॥)

अस्तमती, स्त्री, (अस्तं अततीति । अस्तम् + अत् +

अच् + गौरादित्वात् ङीष् ।) शालपर्णी वृक्षः ।
इति शब्दरत्नाबली ॥

अस्ताघः, त्रि, (अस्तं गतं अघं मालिन्यं यस्मात् ।)

अगाधः । अतिगभीरः । इति हेमचन्द्रः ।

अस्ताचलः, पुं, (अस्ताय अचलः । यद्वा अस्तः पश्चि-

मोऽचलः) अस्तगिरिः । पश्चिमाचलः । इति
शब्दरत्नावली । (“अस्ताचलचूडावलम्बिनि
भगवति कुभुदिनीनायके चन्द्रमसि” । इति
हितोपदेशः ॥)

अस्ताद्रिः, पुं, (अस्तः पश्चिमोऽद्रिः पर्ब्बतः ।) अस्ता-

चलः । इति त्रिकाण्डशेषः ॥

अस्ति, व्य, (अस् + स्तिक्) विद्यमानता । तत्पर्य्यायः

सत्त्वं २ । इत्यमरः ॥ अस्धातोस्तिपि कृते-
ऽप्येतद्रूपं ॥ (यथा चानक्ये ।
“अतिथिर्बालकश्चैव राजा भार्य्या तथैव च ।
अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः” ॥)

अस्तिमान्, त्रि, (अस्ति विद्यमानमिति विद्यते यस्य

अस्ति + मतुप् ।) धनी इति हेमचन्द्रः ॥

अस्तु, व्य, (अस् + तुन् ।) अङ्गीकारः । असूया ।

पीडा । इति विश्वमेदिनौ । असधातोः तुपि-
कृतेऽप्येतद्रूपं स्यात् ॥

अस्त्यानं, क्ली, (न स्त्यानं । नञ्सभासः ।) भर्त्सनं ।

निन्दा । इति त्रिकाण्डशेषः ॥

अस्त्रं, क्ली, (अस्यते क्षिप्यते यत् । अस् + ष्ट्रन् ।)

प्रहारयोग्यद्रव्यमात्रं । हातियार इति भाषा ।
तत्पर्य्यायः । आयुधं २ प्रहरणं ३ शस्त्रं ४ । इत्य-
मरः ॥ खङ्गः ५ । धनुः ६ । इति मेदिनो । क्षेपन-
योग्यवाणादि । इति रायमुकुटः ॥ (“प्रयुक्तमप्यस्त्र-
मितो वृथा स्यात्” । “प्रत्याहतास्त्रो गिरीश-
प्रभावात्” । इति च रघुः ॥) तन्निरूपनं यथा, --
“दण्डसाध्यं यतो राज्यं स दण्डः शास्त्रसंश्रितः ।
अस्त्राणि भूमिपालानां निरूप्यन्ते ततः क्रमात्” ॥
अथ गणना ।
“खङ्गचर्म्म धनुर्व्वाणौ शल्वभल्वौ तथापरौ ।
अर्द्धचन्द्रश्च नाराचः शक्तियष्ठी तथा परे ॥
परशुश्चक्रशूले च परिघश्चैवमादयः ।
अस्त्रभेदाः समुद्दिष्टाः श्रीमद्भोजमहीभुजा” ॥
वात्स्यस्तु ।
“अस्त्रन्तु द्विविधं प्रोक्तं निर्म्मायं मायिकन्तथा ।
खङ्गादिकन्तु निर्म्मायं मायिकं दहनादिकं ॥
दहनोऽथ जलं काष्ठं लोष्ट्रं शब्दादयस्तथा ।
तप्ततैलादिकञ्चैव मायिकस्यास्त्रमुच्यते ॥
खड्गादीनान्तुगणना पूर्ब्बमेव निदर्शिता ।
अस्त्रात्मनैव निर्द्दिष्टः कवचादिरपीष्यते” ॥
इति युक्तिकल्पतरुः ॥ * ॥
स्वड्गचर्म्मादि परीक्षा तत्तच्छब्दे द्रष्टव्या ।

अस्त्रकण्टकः, पुं, (अस्त्रं कण्टक इव । वाणास्त्रस्य

कण्टकाकृतित्वात् ।) वाणः । इति त्रिकाण्डशेषः ॥

अस्त्रकारकः, पुं, (अस्त्राणां कारकः ।) अस्त्रनिर्म्माता ।

शस्त्रनिर्म्मायकः । आयुधकारः । अस्त्रकारी ॥

अस्त्रचिकित्सकः, पुं, (अस्त्रेण चिकित्सतीति । अस्त्र

+ कित् + स्वार्थे सन् + ण्वुल् ।) शस्त्रवैद्यः ॥
(“छेद्यादिष्वनभिज्ञो यः स्नेहादिषु च कर्म्मषु” ।
इत्यादि सुश्रुतः ॥)

अस्त्रजित्, क्ली, (अस्त्रं अस्त्राघातजं व्रणादिकं जयति

निवारयति । अस्त्र + जि + क्विप् ।) वृक्षविशेषः ।
कवाट् वेटु इति ख्यातं । कवाडवण्टुया इति
केचित् । अस्य पर्य्यायः । कवाटवक्रशब्दे द्रष्टव्यः ।
अस्त्रजित् इति चं पाठः । इति रत्नमाला ॥

अस्त्रमार्ज्जः, पुं, (अस्त्रं मार्ष्टि । अस्त्र + मृज् + अण् ।)

अस्त्रमार्ज्जकः । शानकरः । तत्पर्य्यायः । शस्त्र-
मार्ज्जः २ । असिधावः ३ । असिधावकः ४ । इति
शब्दरत्नाबली ॥

अस्त्रसायकः, पुं, नाराचास्त्रं । समुदयलौहमय-

वाणः । इति शब्दमाला ॥

अस्त्रागारं, क्ली, (अस्त्राणामागारं ।) अस्त्ररक्षण-

गृहं । सेलाखाना इति पारस्यभाषा । तत्पर्य्यायः ।
आयुधागारं २ । यथा, --
“स्थापना जातितत्वज्ञः सततं प्रतिजागृता ।
राज्ञः स्यादायुधागारे दक्षः कर्म्मसु चोद्यतः” ॥
इति मात्स्ये १८९ अध्यायः ॥

अस्त्रागारः, पुं, अस्त्ररक्षणगृहं । सेलाखाना इति

भाषा ॥

अस्थागं, त्रि, (अस्थामस्थितिं गच्छति प्राप्तोतीति ।

अस्था + गम + ड ।) अगाधं । अतिगभीरं । इति
हेमचन्द्रः ॥

अस्थाघं, त्रि, (अस्थामस्थितिं हन्तीति । अस्था +

हन + अप् ।) अतलस्पर्शं । इति हेमचन्द्रः ॥

अस्थानं, त्रि, (नास्ति स्थानं प्राशस्थ्यं यत्र) अतल-

स्पर्शं । इति जटाधरः ॥ मन्दस्थले क्ली ॥ (“अस्थाने
पतितामतीवमहतामेतादृशी स्याद्गतिः” । इति
नीतिप्रपञ्चे ।)

अस्थायं, त्रि, अगाधं । स्थीयते यत्रेत्यधिकरणवाच्ये

घञि कृते पश्चादादन्ताद्यन्प्रत्यये स्थायं ततो
न स्थायमस्थायमिति नञ्समासनिष्पन्नं । न सम्भ-
वति स्थायः स्थितिर्यत्र इति केचित् ॥

अस्थायी, [न्] त्रि, स्थितिरहितः । नश्वरः । स्थातुं

शीलमस्येति शीलार्थे णिनि स्थायी, न स्थायी अस्था-
यीति नञ्समासनिष्पन्नः ॥

अस्थारं, त्रि, (अस्थामस्थितिं राति । अस्था + रा

+ ड ।) अतलस्पर्शं । अगाधं । इति शब्द-
रत्नावली ॥

अस्थावरं, क्ली, स्थावरेतरद्रव्यं । जङ्गमवस्तु । न स्था-

वरं अस्थावरं इति नञ्समासनिष्पन्नं ॥

अस्थावरं, त्रि, (न स्थावरम् । नञ्समामः ।) स्था-

वरेतरद्रव्यं । जङ्गमवस्तु । इति स्मृतिः ॥

अस्थि, क्ली, (अस्यते क्षिप्यते यत् । अस् + क्थिन् ।)

शरीरस्थसप्तधात्वन्तर्गतधातुविशेषः । हाड इति
भाषा । तत्सङ्ख्यादि शारीरशब्दे द्रष्टव्यं ॥ तत्-
पर्य्यायः । कीकसं २ कुल्यं ३ मेदोजं ४ । इत्य-
मरादयः ॥ (अस्थिस्वरूपाद्युक्तं भावप्रकाशे ।
“मेदो यत् स्वाग्निना पक्वं वायुना चातिशोषितं ।
तदस्थिसंज्ञां लभते स सारः सर्ब्बविग्रहे ॥
अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः ।
अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवं ॥
तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् ।
अस्थीनि न विनश्यन्ति सारा एतानि सर्व्वथा” ॥
“मेदसोऽस्थि ततो मज्जा मज्जतः शुक्रसम्भवः” ॥
इति सुश्रुतः ॥
त्रीणि सषष्ठान्यस्थिशतानि वेदवादिनो भाषन्ते ।
शल्यतश्रेषु त्रीण्येवशतानि । तेषां सविंशमस्थि-
शतं शाखासु । सप्तदशोत्तरं शतं स्रोणि पार्श्व-
पृष्ठोदरोरस्सु । ग्रीवां प्रत्यूर्द्धं त्रिषष्टिः । एव-
पृष्ठ १/१५६
:मस्थ्नां त्रीणि शतानि पूर्य्यन्ते ॥
एकैकस्यान्तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्च-
दश । तलकूष्ठगुल्फसंश्रितानि दश । पार्ष्ण्यामेकं ।
जङ्घायां द्वे । जानुन्येकं । एकमूराविति । त्रिंशदेव-
मेकस्मिन् सक्थीनि भवन्ति । एतेनेतर सक्थि-
बाहू च व्याख्यातौ ॥ श्रोण्यां पञ्च तेषां गुदभग
नितम्बेषु चत्वारि । त्रिकसंश्रितमेकं । पार्श्वे
षट्त्रिंशदेवमेकस्मिन् द्वितीयेऽप्येवं । पृष्ठे त्रिं-
शत् । अष्टावुरसि । द्वे अक्षकसंज्ञे । ग्रीवायां
नवकं । कण्ठनाड्यां चत्वारि । द्वे हन्वोः । दन्ता
द्वात्रिंशत् । नासायां त्रीणि । एकं तालुनि । गण्ड-
कर्णशङ्खेष्वेकैकं । षट् शिरसि ॥ एतानि पञ्च-
बिधानि भवन्ति । तद्यथा ।
कपाल-रुचक-तरुण-बलय-नलकसंज्ञानि । तेषां
जानुनितम्बांसगण्डतालुशङ्खशिरस्सु कपालानि ।
दशनास्तु रुचकानि । घ्राणकर्णग्रीबाक्षिकोषेषु
तरुणानि । पाणिपादपार्श्वपृष्ठोदरोरस्सु बल-
यानि । शेषाणि नलकसंज्ञानि ॥
“मांसान्यत्रनिबन्धानि सिराभिः स्नायुभिस्तथा ।
अस्थीन्यालम्बनं कृत्वा नशीर्य्यन्ते पतन्ति वा” ॥
इति च सुश्रुतः ॥) वीजं । इति रायमुकुटः वैद्य-
कश्च ॥ आँटी इति भाषा ।

अस्थिकुण्डं, क्ली, (अस्थ्नां कुण्डम् ।) अस्थिपूर्णनरक-

कुण्डविशेषः । यथा, --
“पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ।
स च तिष्ठत्यस्थिकुण्डे स्वलोमाव्दं महेश्वरि” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः ॥

अस्थिकृत्, पुं, (अस्थि करोति यः । अस्थि + कृ +

क्विप् ।) शरीरस्थमेदो धातुः । इति हेमचन्द्रः ॥
(मेदसोऽस्थि । इति सुश्रुतः ।)

अस्थिजः, पुं, (अस्थ्नो जायते इति । अस्थि + जन +

ड ।) मज्जा । इति राजनिर्घण्टः ॥
(मज्जशब्देऽस्य गुणादयो द्रष्टव्याः ।)

अस्थितुण्डः, पुं, स्त्री, (अस्थीव दारुणं तुण्डं यस्य ।)

पक्षी । शब्दमाला ॥

अस्थिधन्वा, [न्] पुं, (अस्थिमयं धनुर्यस्य ।) शिवः । इति हेमचन्द्रः ॥

अस्थिपञ्जरः, पुं, (अस्थि पञ्जर इव ।) शरीरास्थि-

समूहः । तत्पर्य्यायः । करङ्कः २ कङ्कालं ३ । इति
हेमचन्द्रः ॥

अस्थिभक्षः, पुं, स्त्री, (अस्थि भक्षयति । अस्थि +

भक्ष + अच् ।) कुक्कुरः । इति हाराबली । (पक्षि-
विशेषः । हाडगिला इति भाषा ।)

अस्थिभुक् [ज्] पुं, स्त्री, (अस्थि भुङ्क्ते इति । अस्थि +

भुज् + क्विप् ।) कुक्कुरः । इति हेमचन्द्रः ॥

अस्थिमाली, [न्], पुं, (अस्थिमाला विद्यते यस्य

अस्थिमाला + इन्) शिवः । इति हेमचन्द्रः ।
(“शूलहस्थोऽस्थिमाली” इति शिवशतके ।)

अस्थिरः, त्रि, (न स्थिरः । नञ्तत्पुरुषः ।) चञ्चल-

प्रकृतिः । तत्पर्य्यायः । सङ्कसुकः २ । इत्यमरः ।
अनिश्चितः । इति खामी ॥
(“लुब्धः कूराऽवशोऽसत्यः प्रमादी भीरुरस्थिरः” ॥
इति हितोपदेशे ।)

अस्थिरमतिः, त्रि, (अस्थिरा मतिर्यस्य ।) चञ्चल-

बुद्धिः । यथा । “विक्रान्तं कुलमुख्यमस्थिरमतिं
वित्तेश्वरं साङ्गिराः” । इति ज्योतिस्तत्त्वेद्विग्रह-
योगफलं ॥

अस्थिरविभूतिः, स्त्री, (अस्थिरा विभूतिः ।) चञ्चलै-

श्वर्य्यं । यथा । “अस्थिरविभूतिमैत्रं चलमटनं
स्खलितनियममपि चरभे” । इति ज्योतिस्तत्त्वे
राशिफलं ॥

अस्थिविग्रहः, पुं, (अस्थिसारो विग्रहो यस्य ।)

भृङ्गिनामकशिवसहचरः । इति हेमचन्द्रः ॥

अस्थिशृङ्खला, स्त्री, (अस्थ्नां शृङ्खला योजनकारणम् ।)

ग्रन्थिमान् वृक्षः । इति राजनिर्घण्टः ॥ (हाड-
योडा इति भाषा । यथा भावप्रकाशः ॥
“काण्डं त्वग्विरहित मस्थिशृङ्खलाया
माषार्द्दं द्विदलमकञ्चुकं तदर्द्धम् ।
संपिष्टं सुतनु ! ततस्तिलस्य तैले
संपक्वं वटकमतीव वातहारि” ॥)

अस्थिसंहारः, पुं, (अस्थीनि संहरति योजयति ।

अस्थि + सं + हृ + अण् ।) वृक्षविशेषः । हाडञ्च
हाडजोडा इति भाषा । तत्पर्य्यायः । वज्रवल्ली
२ ग्रन्थिमान् ३ कुलिशं ४ अमरः ५ । इति
रत्नमाला ॥ हस्तिशुण्डी ६ वनालिका ७ । इति
हारावली । अस्य गुणाः । वलास्थिभग्नहित-
कारित्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥
यथा, --
“ग्रन्थिमानस्थिसंहारी वज्राङ्गी चास्थिशृङ्खला ।
अस्थिसंहारकः प्रोक्तो वातश्लेष्महरोऽस्थियुक् ॥
उष्णः सरः कृमिघ्नश्च दुनामघ्नो ऽक्षिरोगजित् ।
रूक्षः स्वादुर्लघुर्वृष्यः पाचनः पित्तलः स्मृतः ॥
काण्डं त्वग्विरहित मस्थिशृङ्खलाया
माषार्द्धं द्विदलमकञ्चुकं तदर्द्धं ।
संपिष्टं सुतनु ततस्तिलस्य तैले
संपक्वं वटकमतीव वातहारि” ॥
इति भावप्रकाशः ॥
(“अस्थिभग्नेऽस्थिसंहारो हितोवल्योऽनिलापहः”
इति वैद्यकद्रव्यगुणः ।)

अस्थिसंहारी, स्त्री, (अस्थीनि संहरति या । अस्थि

+ सम् + हृ + अण् + स्त्रियां ङीप्) ग्नन्थिमान्
वृक्षः । इति राजनिर्घण्टः ॥
(अस्थिसंहारशब्देऽस्य गुणा ज्ञातव्याः ।)

अस्थिसारः, पुं, (अस्थ्नः सारः पाकपरिणामः ।)

मज्जा । इति राजनिर्घण्टः ॥

अस्थिस्नेहसञ्चकः, पुं, (अस्थ्नः स्नेहस्तस्य सञ्चकः ।)

मज्जा । इति राजनिर्घण्टः ॥

अस्थैर्य्यं, क्ली, अस्थिरता । स्थिरस्य भावः इत्यर्थे

ष्ण्यप्रत्यये स्थैर्य्यं न स्थैर्य्यमस्थैर्य्यमिति नञ्-
समासेन निष्पन्नं ॥ (“अस्यैर्य्येण विभूतयोऽप्युप-
हता ग्रस्थं न किं केन वा” । इति वैराग्यशत-
कम् ॥ २९ श्लोकः ।)

अस्निग्धदारु, क्ली, (अस्निग्धं कठोरं दारु ।) देव-

काष्ठं । देवदारुभेदः । इति राजनिर्घण्टः ॥

अस्पष्टं, त्रि, (न स्पष्टम् । नञ्तत्पुरुषः ।) अव्यक्तं

अस्फुटं । यथा । म्लिष्टं । अस्पष्टं । इति मुग्ध-
बोधव्याकरणं ॥

अस्पृहा, स्त्री, (न स्पृहा । नञ्समासः ।) इच्छा-

भावः । यथा, --
“यथोत्पन्नेन सन्तोषः कर्त्तव्यो ऽत्यल्पवस्तुना ।
परस्याचिन्तयित्वार्थं सास्पृहा परिकीर्त्तिता” ॥
इत्येकादशीतत्त्वं ॥ (नास्ति स्पृहा यस्येति वाक्ये
त्रि, स्पृहा रहितः । उदासीनः ।)

अस्फुटं, त्रि, (न स्फुटम् । नञ्समासः ।) अस्पष्टं ।

अव्यक्तं । म्लिष्टवाक्यं । इति हेमचन्द्रः ॥

अस्फुटवाक्, [च्] त्रि, (अस्फुटा वाक् यस्य ।) अस्पष्ट-

वक्ता । तत्पर्य्यायः । लोहलः २ । इत्यमरसिंहः ॥

अस्मद्, त्रि, आत्मवाची सर्व्वनामशब्दः । अस्य रूपं

यथा । अहं, आमि । आवां, आमरा दुइ । वयं,
आमरा अनेक । इत्यादि व्याकरणं ॥ एकविंशति-
विभक्तिषु तस्य रूपाणि यथा । अहं १ आवां २
वयं ३ । १ । मां ४ आवां ५ अस्मान् ६ । २ ।
मया ७ आवाभ्यां ८ अस्माभिः ९ । ३ । मह्यं १०
आवाम्भां ११ अस्मभ्यं १२ । ४ । मत् १३ आवा-
भ्यां १४ अस्मत् १५ । ५ । मम १६ आवयोः १७
अस्माकं १८ । ६ । मयि १९ आवयोः २० अस्मासु
२१ । ७ । एतानि त्रिषु लिङ्गेषु समानानि
द्वितीया-चतुर्थी-षष्ठीनां एकवचन-द्विवचन-वहुव-
चनविभक्तिषु तस्य रूपान्तराणि यथा । द्वितीयै-
कवचने मा । चतुर्थी-षष्ठ्योरेकवचने मे । आसां-
द्विवचने नौ । आसां वहुवचने नः । श्लोकपाद-
वाक्यादौ एतानि रूपाणि न स्युः । च वा हा ह
एव शब्दयोगे अदर्शनार्थदश्यर्थधातुयोगे च न
स्युः । इति व्याकरणं ॥

अस्मन्तं, क्ली, अश्मन्तं । चुल्ली । इति रायमुकुटः ॥

उनान आखा इति भाषा ॥

अस्रः, पुं, (अस् + रक् ।) कोणः । केशः । इत्यमरः ॥

अंस्रं, क्ली, (अस्यते क्षिप्यते यत् । अस् + र ।) रक्तं ।

अस्रु । इत्यमरः ॥ (रक्तार्ते यथा, --
“पिपासादाहपित्तास्रयुक्तं पित्तज्वरं जयेत्” ।
इति शार्ङ्गधरः ॥
“क्षीणेऽस्रे मधुराकाङ्क्षा मूर्च्छा च त्वचि रुक्षता ।
शैथिल्यञ्च सिराणां स्याद्वातादुन्मार्गगामिता” ।
इति भावप्रकाशः ॥ “अस्रस्राविणो विस्रा” इति ।
“अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात् स्रावयेत्परं” ।
इति वाभटः ॥ * ॥ नेत्रजलार्थे यथा, --
“कुर्य्यात्सास्रं शिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमं” ।
इति वाभटः ॥ * ॥ आलस्यनयने साम्रे, इति
चरकः ॥)

अस्रकण्ठः, पुं, (अस्रं कण्ठे यस्य ।) वाणः । इति

हारावली ॥

अस्रखदिरः, पुं, (अस्ववर्णः खदिरः ।) रक्तखदिर-

वृक्षः । इति राजनिर्घण्टः ॥
(खदिरशब्देऽस्यगुणादयो ज्ञेयाः ॥)

अस्रजं, क्ली (अस्रात् रक्तात् परिपाकेण जायते यत् ।

अस्र + जन् + ड ।) मांसं । इति राजनिर्घण्टः ॥
(मांसशब्टेऽस्यविशेषो ज्ञातव्यः ॥)
पृष्ठ १/१५७

अस्रपः, पुं, स्त्री, (अस्रं पिवतीति । अस्र + पा +

ड ।) राक्षसः । इत्यमरः ॥
(“द्विरागमं लघुध्रुवे चरेऽस्रपे मृदूडुनि” ।
इति मुहूर्त्तचिन्तामाणिः । जलौकाः ।)

अस्रपत्रकः, पुं, (अस्रमिव रक्तं पत्रं यस्य । संज्ञायां

कन् ।) भिण्डावृक्षः । इति राजनिर्घण्टः ॥

अस्रपा, स्त्री, (अस्रं रक्तं पिवति या । अस्र + पा +

ड + टाप् ।) जलौकाः । इति हेमचन्द्रः ॥

अस्रफला, स्त्री, (अस्रमिव रक्तं फलं यस्याः ।) सल्ल-

कीवृक्षः । इति राजनिर्घण्टः ॥

अस्रमातृका, स्त्री, (अस्रस्य रक्तस्य मातेव पोषिका ।

संज्ञायां कन् । एषा हि शरीरस्थधातूनां श्रेष्ठा ।)
शरीररसः । इति राजनिर्घण्टः ॥

अस्ररोधिनी, स्त्री, (अस्रं क्षतजरक्तं रुणद्धि या ।

अस्र + रुध + णिन् + स्त्रियां ङीप् ।) लज्जालु-
लता । इति रत्नमालाराजनिर्घण्टौ ॥

अस्रविन्दुच्छदा, स्त्री, (अस्रविन्दुरिब विन्दुः च्छदे

पत्रे यस्याः ।) लक्ष्मणा नाम कन्दः ॥ इति राज-
निर्घण्टः ॥

अस्रार्ज्जकः, पुं, (अस्रानामर्ज्जकः ।) श्वेततुलसी ।

इति रत्नमाला ॥

अस्रु, क्ली, (अस्यते क्षिप्यते । अस् + रु ।) चक्षु-

र्ज्जलं । तत्पर्य्यायः । नेत्राम्बु २ रोदनं ३ अस्रं ४
अश्रु ५ । इत्यमरः ॥ वास्पं ६ । इति शब्दरत्ना-
वली ॥ लोचं ७ । इति जटाधरः ॥ (“श्रुत्वा
श्रुत्वास्रुधारां त्यजति” । इति कीचकबधः ।
“रागास्रुवेदनाशान्तौ परं लेखनमञ्जनं” ।
इति वाभटः ॥)

अस्वच्छन्दः, त्रि, (न स्वच्छन्दः । नञ्समासः ।)

अधीनः । आयत्तः । इत्यमरः ॥

अस्वतन्त्रः, त्रि, (न स्वतन्त्रः । नञ्समासः ।) पर-

तन्त्रः । पराधीनः । इति जटाधरः ॥

अस्वप्नः, पुं, (नास्ति स्वप्नो निद्रा यस्य ।) देवता ।

इत्यमरः ॥ (निद्राया अभावार्थे यथा, --
“अस्वप्नः सन्ततारुक् च मज्जास्थिकुपितेऽनिले” ॥
इति माधवकरः ॥)
“मज्जस्थोऽस्थिषु सौषिर्य्यमस्वप्नं स्तब्धतां रुजं” ॥
इति वाभटः ॥)

अस्वरः, त्रि, (अप्रशस्तः स्वरो यस्य ।) मन्दस्वरयुक्तः ।

तत्पर्य्यायः । असौम्यस्वरः २ । इत्यमरः ॥
(“अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः ।
उवाच मृदुमन्दार्थं वचनं दीनमस्वरम्” ॥
इति रामायणे ॥)

अस्वाध्यायः, पुं, (न विद्यते स्वाध्यायो वेदाध्ययनं

यस्य ।) विधिपूर्व्वकवेदाध्ययनहीनः । तत्पर्य्यायः ।
निराकृतिः २ । इत्यमरः ॥ अनध्यायः । अध्य-
यने निषिद्धदिनं । तद्यथा । चन्द्रसूर्य्यग्रहण-
दिनानि । तानि तु । ग्रस्तास्ते ३ दिनानि ।
अन्यत्र १ दिनं । सन्ध्यागर्ज्जने १ दिनं । माघादि-
मासंचतुष्टये गर्ज्जनमात्रे तद्दिनं । निर्घातशब्दे
१ दिनं । भूकम्पे १ दिनं । उल्कापाते १ दिनं ।
महोल्कापाते आकालिंकः । एकवेदसमापना-
नन्तरं १ दिनं । आरण्यकनामकवेदभागसमाप-
नानन्तरं १ दिनं । पञ्चपर्व्वाणि ५ दिनानि ।
चैत्रशुक्लप्रतिपत् १ दिनं । श्रावणशुक्लप्रतिपत् १
दिनं । मार्गशुक्लप्रतिपत् १ दिनं । एताः प्रति-
पदो नित्याः । अन्याः काम्याः । वज्रपाते आका-
लिकः । विद्युत्समकालीनमेघशब्दे आकालिकः ।
चतुर्द्दशमन्वन्तराः १४ तिथयः । युगाद्याः ४
तिथयः । माघमासस्योभयपक्षीयद्वितीया २ दिने ।
आश्विनस्योभयपक्षीयद्वितीया २ दिने । चैत्र-
कृष्णपक्षद्वितीया १ दिनं । कार्त्तिकस्योभयपक्षीय-
द्वितीया २ दिने । आषाढस्योभयपक्षीयद्वि-
तीया २ दिने । मार्गमासस्योभयपक्षीयद्वितीया
२ दिने । फाल्गुनमासस्योभयपक्षीयद्वितीया २
दिने । उत्सवदिनानि अनेकानि । अक्षयतृतीया
१ दिनं । इति स्मृतिः ॥
(“कृष्णेऽष्टमी तन्निधनेऽहनी द्वे
कृष्णेतरेऽप्येवमहर्द्विसन्ध्यं ।
अकालविद्युत् स्तनयित्नुघोषे
स्वतन्त्रराष्ट्रक्षितिपव्यथासु ॥
श्मशानयानाद्यतनाहवेष
महोत्सवौत्पातिकदर्शनेषु ।
नाध्येयमन्येषु च येषु विप्रा
नाधीयते नाशुचिना च नित्यं” ॥ इति सुश्रुतः ॥)

अस्वामिकं, त्रि, (नास्ति स्वामी उत्तराधिकारी

यस्मिन् ।) स्वामिरहितवस्तु । अकर्तृकं । वेयो-
रिस् इति पारस्य भाषा । यथा । एतच्च अग्र-
दानं स्वभूमौ अस्वामिकायाञ्च न दद्यात् । अस्वा-
मिकान्याह यमः ।
“अटव्यः पर्व्वताः पुण्या नद्यस्तीर्थानि यानि च ।
सर्व्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः” ॥
पुण्या इति विशेषणात् अटव्यो नैमिषाद्याः
पर्व्वता हिमालयाद्याः । नद्यो गङ्गाद्याः ।
तीर्थाणि पुरुषोत्तमादिक्षेत्राणि । वाराणस्या-
द्यायतनानि च । स्वाम्यभावे हेतुमाह न हि
तेष्विति । इति श्राद्धतत्त्वं ॥

अस्वामिविक्रयः, पुं, (अस्वामिना अनधिकारिणा

कृतो विक्रयः ।) अस्वामिकर्तृकविक्रयः । यथा
सम्प्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते ।
तस्य च लक्षणं नारदेनोक्तं ।
“निक्षिप्तं वा परद्रव्यं नष्टं लव्ध्वापहृत्य वा ।
विक्रीयतेऽसमक्षं यत्सज्ञेयोऽस्वामिविक्रयः” ॥
इति तत्र किमित्याह ।
“स्वयं लभेतान्यविक्रीतं क्रेतुर्द्दोषोऽप्रकाशिते ।
हीनाद्रहोहीनमूल्ये वेलाहीने च तस्करः” ॥
स्वं आत्मसम्बन्धिद्रव्यं अन्यविक्रीतमस्वांमिविक्रीतं
यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामि-
विक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ता-
हितयोरुपलक्षणार्थं । अस्वामिकृतत्वेन तुल्य-
त्वात् । अतएवोक्तं । अस्वामिविक्रयं दत्तमाधिञ्च
विनिवर्त्तयेदिति । क्रेतुः पुनरप्रकाशिते गोपिते
क्रये दोषो भवति । तथा हीनात्तद्द्रव्यागमो-
पायहीनात् । रहसि चैकान्ते सम्भाव्यद्रव्यादपि
हीनमूल्ये अल्पतरेण मूल्येन क्रये । वेलाहीने
वेलया हीनो वेलाहीनः क्रयो रात्र्यादौ कृतः तत्र
च क्रेता तस्करो भवति । तस्करवत् दण्डभाक्
भवतोत्यर्थः । यथोक्तं ।
“द्रव्य मस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् ।
प्रकाशक्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात्” इति ॥
स्वाम्यभियुक्तेन क्रेत्रा किं कर्त्तव्यमित्यत आह ।
“नष्टापहृतमासाद्य हर्त्तारं ग्राहयेन्नरं ।
देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेत्” ॥
नष्टमपहृतं वान्यदीयं क्रयादिना प्राप्य हर्त्तारं
ग्राहयेत् चौरोद्धरणकादिभिः । आत्मविशुद्ध्यथ
राजदण्डाप्राप्त्यर्थञ्च । अथाविदितदेशान्तरं गतः
कालान्तरे वा विपन्नस्तदा मूलसमाहरणाशक्ते-
र्विक्रेतारमदर्शयित्वैव स्वयमेव तद्धनं नाष्टिकस्य
समर्पयेत् । तावतैवासौ शुद्धो भवतीति श्रीकरा-
चार्य्येण व्याख्यातं । तदिदमनुपपन्नं । विक्रेतु-
र्द्दर्शनाच्छुद्धिरित्यनेन पौनरुक्तप्रसङ्गात् । अतो
ऽन्यथा व्याख्यायते । नष्टापहृतमिति नाष्टिकं
प्रत्ययमुपदेशः । नष्टमपहृतं वा आत्मीयं द्रव्य-
मासाद्य क्रेतृहस्तस्थं ज्ञात्वा तं हर्त्तारं क्रेतारं
स्थानपालादिभिर्ग्राहयेत् । देशकालातिपत्तौ
देशकालातिक्रमे स्थानपालाद्यसन्निधाने तद्वि-
ज्ञापनकालात् प्राक्पलायनाशङ्कायां स्वयमेव
गृहीत्वा तेभ्यः समर्पयेत् ॥ * ॥
ग्राहिते हर्त्तरि किं कर्त्तव्यमित्यत आह ।
“विक्रेतुर्द्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमं ।
क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी” ।
यद्यसौ गृहीतः क्रेता न मयेद मपहृतं अन्य-
सकाशात् प्राप्तमिति वक्ति तदा तस्य क्रेतु
र्विक्रेतृदर्शनमात्रेण शुद्धिर्भवति । न पुनरसा-
वभियोज्यः । किन्तु तत्प्रदर्शितेन विक्रेत्रा सह
नाष्टिकस्य विवादः । यथाह वृहस्पतिः ।
“मूले समाहृते क्रेता नाभियोज्यः कथञ्चन ।
मूलेन सह वादस्त नाष्टिकस्य विधीयते” ॥ इति
तस्मिंश्च विवादे यद्यस्वामिविक्रयनिश्चयो भवति
तदास्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी
विक्रेता तस्य सकाशात् स्वामी नाष्टिकः स्वीयं ।
द्रव्यमवाप्नोति चौरश्चापराधानुरूपं दण्डं क्रेता
च मूल्यमवाप्नोति । अथासौ देशान्तरं गतः
तदा योजनसङ्ख्ययानयनाथ कालो देयः ।
“प्रकाशं वा क्रयं कुर्य्यात् मूलं वापि समर्पयेत् ।
मूलानयनकालश्च देय स्तत्राध्वसङ्ख्ययेति स्मरणात्
॥ * ॥ अथाविज्ञातदेशतया मूलमाहर्त्तुं न
शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति ।
असमाहार्य्यमूलस्तु क्रयमेव विशोधयेदिति मनु-
वचनात् । यदा पुनः साक्ष्यादिभिः र्द्दिव्येन वा
क्रयं न शोधयति मूलञ्च न प्रदर्शयति तदा स
एव दण्डभाग्भवतीति ।
“अनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमञ्च सः” ॥
इति स्मरणात् । स्वं लभेतान्यविक्रीतमित्युक्तं ॥ * ॥
तल्लिप्मुना किं कर्त्तव्यमित्यत आह ।
पृष्ठ १/१५८
:“आगमेनोपभोगेन नष्टं भाव्यमतो ऽन्यथा ।
पञ्चबन्धो दमस्तस्थ राज्ञे तेनाविभाविते” ॥
आगमेन रिक्थक्रयादिना उपभोगेन च मदीय-
मिदं द्रव्यं तच्चैवं नष्टमपहृतं वेत्यपि भाव्यं साध-
नीयं तत्स्वामिना अतोऽन्यथा तेन स्वामिना
अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो
नाष्टिकेन राज्ञे देयः ॥ * ॥ अत्रैवायं क्रमः ।
पूर्व्वस्वामो नष्टमात्मीयं साधयेत् ततः क्रेता
चौर्य्यपरिहारार्थं मूल्यलाभाय च विक्रेतारमान-
येत् । अथानेतुं न शक्नोति तदात्मदोषपरिहा-
राय क्रयं शोधवित्वा नाष्टिकस्य समर्पयेदि-
ति ॥ * ॥
तस्करस्य प्रच्छादकं प्रत्याह ।
“हृतं प्रणष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान्” ॥
हृतं प्रणष्टं वा चौरादिहस्तस्थं द्रव्यमनेन मदीयं
द्रव्यमपहृतमिति नृपस्यानिवेद्यैव दर्पादिना यो
गृह्णात्यसौ षडुत्तरान् नवतिपणान् दण्डनीयः ।
तस्करप्रच्छादकत्वेन दुष्टत्वात् ॥ * ॥
राजपुरुषानीतं प्रत्याह ।
“शौल्किकैः स्थानपालैर्व्वा नष्टापहृतमाहृतं ।
अर्व्वाक् सम्बत्सरात् स्वामी हरेत परतो नृपः” ॥
यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्व्वा
नष्टमपहृतं द्रव्यं राजपार्श्वं प्रत्यानीतं तदा संव-
त्सरादर्ब्बाक्प्राप्तश्चेत् नाष्टिकस्तद्द्रव्यमवाप्नुयात् ।
ऊर्द्ध्वं पुनः संवत्सराद्राजा गृह्णीयात् । स्वपुरुषा-
नीतञ्च द्रव्यं जनसमूहेषूद्घोष्य यावत् संवत्सरं
राज्ञा रक्षणीयं । यथाह गौतमः । प्रणष्टमस्वा-
मिक मधिगम्य राज्ञे प्रब्रूयुर्विख्याप्य सम्बत्सरं
राज्ञा रक्ष्यमिति । यत् पुनर्मनुना विध्यन्तर-
मुक्तं --
“प्रणष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।
अर्व्वाक्त्र्यब्दात् हरेत् स्वामी परतोनृपतिर्हरेत्” ॥
इति ॥ तच्छतवृत्तसम्पन्नब्राह्मणविषयं । रक्षणनि-
मित्तं षड्भागादिग्रहणञ्च तेनैवोक्तं ।
“आददीताथ षड्भागं प्रणष्टाधिगतान्नृपः ।
दशमं द्वादशं वापि सतां धर्म्ममनुस्मरन्” ॥ इति ।
तृतीयद्वितीयप्रथमवत्सरेषु वथाक्रमं षष्ठादयो
भागा वेदितव्याः । प्रपञ्चितञ्चैतत् पुरस्तात् ॥ * ॥
मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषे अपवाद-
माह ।
“पणानेकशफे दद्यात् चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके” ॥
एकशफे अश्वादौ प्रणष्टाधिगते तत्स्वामी राज्ञे
रक्षानिमित्तं चतुरः पणान् दद्यात् । मानुषे
मनुष्यजातीये द्रव्ये पञ्च पणान् । महिषोष्ट्रगवां
रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ पणौ । अजाविके
पुनः प्रत्येकं पादं पादं दद्यादिति सर्व्वत्रानुष-
ज्यते । अजाविकमिति समासनिर्द्देशेऽपि पादं
पादमिति वीप्साबलात् प्रत्येकं सम्बन्धो गम्यते ॥
इत्यस्वामिकविक्रयप्रकरणं । इति मिताक्षरायां
ष्यवहाराध्यायः ॥

अस्वामी, [न्] त्रि, (न स्वामि अधिकारी नञ्-

समासः ।) स्वामिभिन्नः । यथा । वृहस्पतिः ।
“अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकं ।
सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते” ॥
इति दायतत्त्वं ॥

अस्वाम्यं, क्ली, (न स्वाम्यम् । नञ्समासः । स्वामि-

त्वाभावः । यथा देवलः ।
“अस्वाम्यं हि भवेदेषां निर्द्दोषे पितरि स्थिते” ।
इति दायतत्त्वं ॥

अस्वास्थ्यं, क्ली, सुस्थत्वाभावः । सुस्थताराहित्यं ।

स्वास्थ्यस्याभावः अस्वास्थ्यमित्यव्ययीभावसमास-
निष्पन्नं ॥ (यथा शिशुपालबधे ।
“विगृह्य चक्रे नमुचिद्विषा बली
य इत्थमस्वास्थ्यमहर्द्दिवन्दिवः” ॥
भुक्ते स्वास्थ्यमुपैति च, इति ग्रहणीरोगेऽभिहितं
माधवकरेण संगृहीतञ्च । अत्र हि अभुक्तेऽस्वास्थ्य-
मिति तात्पर्य्यं ॥)

अह इ क भासे । (उभं-चुरां-अकं-सेट् ।) दीप्ति-

रिति यावत् । इति कविकल्पद्रुमः ॥ इ क अंह-
यति । भासो दीप्तिः । इति दुर्गादासः ॥

अह इ ङ गतौ । (भ्वादिं-आत्मं-सकं-सेट् ।) इति

कविकल्पद्रुमः ॥ इ अंह्यते । ङ अंहते । इति
दुर्गादासः ॥

अह, व्य, प्रशंसा । क्षेपणं । नियोगः । विनिग्रहः ।

इति मेदिनी ॥

अहं, त्रि, अस्मद्शब्दस्य प्रथमान्तस्य रूपं । आमि

इति भाषा । यथा आह्निकतत्त्वं, --
“अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न शोकभाक् ।
सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान्” ॥
(तथा च रघुवंशे १ । ६८ ।
“सोहमिज्या विशुद्धात्मा प्रजालोपनिमीलितः”)

अहंयुः, त्रि, (अहंमस्यास्तीति अहंशब्दात् “अहं-

शुभयोर्युस्” इति युस् ।) अहङ्कारयुक्तः ।
गर्व्वान्वितः । तत्पर्य्यायः । अहङ्कारवान् २ ।
इत्यमरः ॥ (“अहंयुनाथ क्षितिपः शुभंयुः” ।
इति भट्टिः ।)

अहः [न्], क्ली, दिवा । इत्यमरः ॥

अहःपतिः, पुं, (अह्नः पतिः ।) सूर्य्यः । इत्यमरटीका ॥

अहङ्कारः, पुं, (अहमिति ज्ञानं क्रियतेऽनेन । अहं

+ कृ + घञ् ।) अहङ्कृतिः । तत्पर्य्यायः । गर्व्वः
२ अभिमानः ३ इत्यमरः ॥ पुराणमते स त्रि-
बिधः । सात्विकः १ राजसः २ तामसश्च ३ ।
सात्विकाहङ्कारात् इन्द्रियाधिष्ठातारो देवा मनश्च
जातं । राजसाहङ्कारात् दशेन्द्रियाणि जातानि ।
तामसाहङ्कारात् सूक्ष्मपञ्चभूतानि जातानि । वेदा-
न्तमते अभिमानात्मिकान्तःकरणवृत्तिः ॥ अह-
मित्यभिमानः । स च शरीरादिविषयको मिथ्या-
ज्ञानमुच्यते । इति गोतमसूत्रवृत्तिः । “अह-
मित्यव्ययं तस्य करणं । अहमिति किरति अत्रेति
वा अहङ्कारः । करोतेः किरतेर्व्वा घञ् । कार-
प्रत्यय इत्यन्ये” । इत्यभरटीकायां भरतः । मदः ४
स्मयः ५ अपलेपः ६ दर्पः ७ । इति जटाधरः ।
अहङ्कृतिः ८ उद्ध्वतमनस्कत्वं ९ । मानः १० चित्त-
समुन्नतिः ११ । यथा ।
“गर्व्वोमदोऽभिमानः स्यादहङ्कारस्त्वहङ्कृतिः ।
स्यादुद्धतमनस्कत्वे मानचित्तसमुन्नतिः ॥
अहङ्कारस्य पर्य्याय इति केचित् प्रचक्षते” ॥
इति शब्दरत्नावली ॥ (अहङ्कारस्याश्रय आत्मा ।
यथा, भाषापरिच्छेदे ।
“अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः” ।
अहङ्कारतत्त्वं । यथाह मनौ, १ । १४ ।
“मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम्” ।
गर्व्वौन्नत्यम् । यदुक्तं ।
“अहङ्कारश्च सर्व्वेषां पापवीजममङ्गलम् ।
ब्रह्माण्डेषु च सर्व्वेषां गर्व्वपर्य्यन्तमुन्नतिः” ॥
स च द्विविधः, विशेषरूपः सामान्यरूपश्चेति ।
तत्रायमहं एतस्य पुत्र इत्येवं व्यक्तमभि मन्य-
मानो विशेषरूपो व्यष्ट्यहङ्कारः । अस्मोत्येता-
वन्मात्रमभिमन्यमानः सामान्यरूपः समष्ट्य-
हङ्कारः । स च हिरण्यगर्भो महान् आत्मेति च
सर्व्वानुस्यूतत्वादुच्यते । अहमभिमानरूपो यो-
ऽहङ्कारः स सर्व्वसाधारणः । आरोपितगुणै-
रात्मनो महत्वाभिमानः । अहमेव श्रेष्ठ इति
दुरभिमानः । महाकूलप्रसूतोऽहं महतां शिष्यो
नास्ति द्वितीयो मत्सम इत्यभिमानः । आत्मश्ला-
घनाभावेऽपि मनसि प्रादुर्भूतोऽहं सर्व्वोत्कृष्ट-
इति गर्व्वः ।)

अहङ्कारवान्, त्रि, (अहङ्कारो विद्यतेऽस्य । अह-

ङ्कार + मतुप् । मस्य वः ।) गर्व्वान्वितः । इत्य-
मरः ॥ तत्पर्य्यायः । अहंयुः २ । इत्यमरः ॥
अहङ्कारान्वितः ३ । इति शब्दरत्नावली । गर्व्वितः
४ । इति जटाधरः ॥

अहङ्कारी, [न्] त्रि, गर्व्वयुक्तः । अहङ्कारो विद्यते-

यस्येति अस्त्यर्थे णिन्प्रत्ययेन निष्पन्नः । अभि-
मानी । गर्व्वान्वितः ॥ (दशदशरूपके ॥
“धीरोद्धतस्त्वहङ्कारी चलश्चण्डो विकत्थनः” ।)

अहङ्कृतिः, स्त्री, (अहम् + कृ + क्तिन् ।) अहङ्कारः ।

गर्व्वः । इति शब्दरत्नावली ॥ (यथा पञ्चतन्त्रे ॥
“युध्यतेऽहङ्कृतिं कृत्वा दुर्ब्बलो यो बलीयसा” ।)

अहतं, क्ली, (हन् + क्त । ततो नञ्समासः ।)

नवाम्बरं । नूतनवस्त्रं । इति हलायुधशब्दरत्ना-
वल्यौ ॥ (अहतलक्षणं यथा महाभारते, --
“ईषद्धौतं नवं श्वेतं सदशं यन्नधारितम् ।
अहतं तद्विजानीयात् पावनं सर्व्वकर्म्मसु” ॥
“अहतैश्चैव वासोभिर्माल्यैरुचावचैरपि” । इति ॥
“अहतानि च वासांसि रथञ्च शुभलक्षणम्” ।
इति रामायणे । अनाहते, त्रि, ॥

अहमहमिका, स्त्री, (अहमहं शब्दोऽस्त्यत्र, वीप्साया

द्वित्वम् । ब्रीह्यादित्वात् ठन् । ततष्टाप् ।) पर-
स्पराहङ्कारः । इत्यमरः । परस्परं परमपेक्ष्या-
परस्यापरमपेक्ष्य परस्य योऽहङ्कारोऽहमेव
श्रेष्ठोऽहमेव श्रेष्ठ इति मानः । इति भरतः
आमि वड आमि वड वलिया परस्पर अहङ्कार
इति भाषा ॥ (यथा पञ्चतन्त्रे, --
पृष्ठ १/१५९
:“इत्थञ्चाहमहमहमिकया तयोर्विवदतोः” ।)

अहम्पूर्व्विका, स्त्री, (अहं पूर्व्वं अहं पूर्व्वमिति कथनं

यत्र । अहम्पूर्ब्ब + ठन् + स्वार्थेकन् + ततष्टाप् ।)
अहम्पूर्ब्बं अग्रे भवामि अहं पूर्ब्बं अग्रे भवामि
इत्यन्योऽन्यं योधानां धावनक्रिया । इत्यमरः ।
आमि अग्रे याव वलिया योद्धा दिगेर परस्पर
आगे धाओया इति भाषा । (यथा किराते, --
“सुगेषु दुर्गेषु च तुल्यविक्रमै-
र्जवादहम्पूर्ब्बिकया यियासुभिः” ।)

अहम्मतिः, स्त्री, (अहंप्रधाना मतिर्ज्ञानं ।)

अविद्या । अज्ञानं । इत्यमरः ॥

अहर्गणः, पुं, (अह्नां गणः) मासः इति हारावली ।

ग्रहाणां मध्यादिज्ञानार्थं श्वेतवाराहकल्पावधि-
सृष्ट्यवधिब्रह्मसिद्धान्तोक्तकल्पावधिकल्याद्यब्धा-
वधि वा इष्टकालपर्य्यन्तं परिगणितदिनसमूहः ।
तत्पर्य्यायः । द्युवृन्दं २ । दिनौघः ३ । द्युगणः ४ ।
दिनपिण्डः ५ । इति ज्योतिःशास्त्रम् ॥

अहर्ज्जरः, पुं, (अहोभिर्लोकान् जरयति । अहन्

+ जॄ + णिच + अच् । यद्वा अहानि जीर्य्यन्त्य-
न्तर्भवन्त्यस्मिन् । अहन् + जॄ + अच् ।) संवत्सरः ।
यथा । “यथापः प्रवता यन्ति यथा मासा अह-
र्ज्जरं । एवं मां ब्रह्मचारिणः धातरायन्तु सर्व्वतः
स्वाहा” । इति तैत्तिरीयोपनिषदि शिक्षावल्ली ॥
यथा लोके आपः प्रवता प्रवणवता निम्नवता
देशेन यन्ति गच्छन्ति । यथा वा मासा अहर्ज्जरं
संवत्सरोऽहर्ज्जरोऽहोभिः परिवर्त्तमानो लोकान्
जरयतीति अहानि वा अस्मिन् जीर्य्यन्ति अन्त-
र्भवन्ति इत्यहर्ज्जरः । तञ्च यथा मासा यन्ति
एवं मां ब्रह्मचारिणः हे धातः सर्व्वस्य विधातः
मामायन्तु सर्व्वतः सर्व्वदिग्भ्यः । इति शङ्करा-
चार्य्यकृतभाष्यम् ॥

अहर्पतिः, पुं, (अह्नः पतिः । पक्षे अहःपतिः ।)

सूर्य्यः । इत्यमरः । (यथा रघुवंशे १० । ५४ ।
“द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम्” ।)

अहर्ब्बान्धवः पुं, (अह्नो बान्धवः । अह्नो मणिरिव

च ।) सूर्य्यः । इति हेमचन्द्रः । अर्क-
वृक्षः ।

अहर्म्मणिः पुं, (अह्नो बान्धवः । अह्नो मणिरिव

च ।) सूर्य्यः । इति हेमचन्द्रः । अर्क-
वृक्षः ।

अहर्मुखं, क्ली, (अह्नो मुखं ।) प्रत्यूषः । इत्यमरः ॥

अहल्यः, त्रि, (हलेन कृष्यं । ततो नञ्समासः ।)

हलानाकृष्टक्षेत्रादिः । अकृष्टभूमिः ॥

अहल्या, स्त्री, अप्सरोविशेषः । (यथा हरिवंशे ।

“दिवोदासश्च राजर्षिरहल्या च यशस्विनी ।
शरद्धतश्च दायादमहल्या समसूयत” ॥
गौतममुनिपत्नी । इति मेदिनी ॥ सा च महा-
साध्वी । प्रातः काले तस्यानामस्मरणे महापातक-
नाशो भवति । यथा पुराणं, --
“अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा ।
पञ्च कन्याः स्मरेन्नित्यं महापातकनाशनं” ॥
सत्ययुगे इन्द्रः गौतमरूपधारणं कृत्वा तस्याः
सतीत्वं नाशितवान् । ततो गौतमशापेन सा
पाषाणदेहा बभूव । ततस्त्रेतायुगे श्रीरामचन्द्रस्य
पादस्पर्शात् शापात् विमुक्ता सती पुनः पूर्ब्बरूपा
मानवी भूता । इति रामायणम् ॥

अहस्करः, पुं, (अहः करोति । अहन् + कृ + ट ।

कस्कादित्वात् सः ।) सूर्य्यः । इति हेमचन्द्रः ।
अर्कवृक्षः ॥

अहस्पतिः, पुं, (अह्नः पतिरिव ।) सूर्य्यः । इत्यमरः ।

अर्कवृक्षः । अमरे तत्पर्य्याये अर्काह्व इति
दर्शनात् ॥

अहह, व्य, (अहं जहातीति । अहम् + हा + ड ।

पृषोदरादित्वात्सलोपः ।) अद्भुतं । खेदः । परि-
क्लेशः । प्रकर्षः । सम्बोधनं । इति मेदिनी ॥
(आश्चर्य्यं । विस्मयः । यथा हितोपदेशः ।
“अहह ! महापङ्के पतितोऽसि” ।
“अहह ! तात ! पणस्तव दारुण” ।
इति महानाटके ॥)

अहहा, व्य, (अहं जहातीति । अहम् + हा + ड ।

क्विप् । पृषोदरादित्वात् साधुः ।) अद्भुतं । खेदं ।
इत्यमरटीकायां रायमुकुटादयः । अत्र अहह-
शब्दार्थोऽपि द्रष्टव्यः ॥

अहार्य्यः, पुं, (हृ + ण्यत् । ततो नञ्समासः ।)

पर्ब्बतः । इत्यमरमेदिन्यौ ॥

अहार्य्यं, त्रि, (न हार्य्यं । नञ्समासः ।) हर्त्तुमशक्यं ।

अहर्त्तव्यं । अहरणीयं । इति मेदिनी ॥
(“अहार्य्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः”
“तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः” ॥
इति च मनुः ९ । १८९ ।)

अहिः, पुं, (आहन्तीति । आ + हन् + इण् । हन

हिंसागत्योः । आङि श्रिहनिभ्यां ह्रस्वश्चेति इण् ।
स च डित् । डित्वात् टिलोपः । आङो ह्रस्वश्च ।)
वृत्रासुरः । सर्पः । इत्यमरः । सूर्य्यः । पथिकः ।
राहुः । इत्यनेकार्थध्वनिमञ्जरी ॥ (सीसकं ।
राहुः । वप्रः । अश्लेषानक्षत्रं । खलः । “विष-
धरतोऽप्यतिविषमः खल इति न मृषा वदन्ति
विद्वांसः । यदहिर्नकुलद्वेषी स्वकुलद्वेषी पुनः
पिशुनः” । इति वासवदत्तायाः प्रस्तावनाश्लोकः ॥)

अहिंस्रा, स्त्री, (न हिंस्रा । नञ्सभासः ।) कुलिक-

वृक्षः । कुलेखाडा इति ख्याता । अस्या गुणाः ।
विषरोगशोथनाशित्वं । इति राजवल्लभः ॥
(कोकिलाक्षशब्देऽस्या गुणादयो ज्ञेयाः । हिंसा
रहिते, त्रि ।)

अहिका, स्त्री, (न + हा + ङिक् + टाप् ।) शाल्म-

लीवृक्षः । इति शब्दचन्द्रिका ॥

अहिकान्तः, पुं, (अहेः सर्पस्य कान्तः प्रियः । भक्ष्य-

त्वात् ।) वायुः । इति हेमचन्द्रः ॥

अहिच्छत्रः, पुं, (अहेः च्छत्रः फणा इव छादकः ।)

देशविशेषः । तत्पर्य्यायः । प्रत्यग्रथः २ । मेष-
शृङ्गीवृक्षः । इति हेमचन्द्रः ॥

अहिच्छत्रा, स्त्री, शर्करा । इति राजनिर्घण्टः ।

चिनि इति भाषा । पुरीविशेषः । इति ज्योतिष-
तत्वं ॥ तथा वृद्धगार्ग्यः । “केशवमानर्त्तपुरं
पाटलीपुत्रं पुरीमहिच्छत्रां । दितिमदितिञ्च
स्मरतां क्षौरविधौ भवति कल्याणं” । इति
ज्योतिस्तत्वं ॥

अहिजित्, पुं, (अहिं सर्पं वृत्रासुरं वा जितवान्

अहि + जि + क्विप् ।) विष्णुः । कालीयनाग-
दमनात् ॥ इन्द्रः । वृत्रासुरनाशात् ॥

अहितः, त्रि, (न हितः । नञ्समासः ।) शत्रुः ।

इत्यमरः । (यथा रघुवंशे ४ । २८ ॥
“स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा ।
अहिताननिलोद्धुतैस्तर्जयन्निव केतुभिः” ।)
अपथ्यं इति शब्दचन्द्रिका ॥
(“एकान्ताहितानि दहनपचनमारणादिषु प्रवृ-
त्तान्यग्निक्षारविषादीनि ।” इति सुश्रुते ।
प्रतिकूलः । अशुभकरः । यथा वैराग्यशतकं ।
“लोकस्तथाप्यहितमाचरतीति चित्रम्” । ३५ ॥
“परोऽपि हितवान् शत्रुर्बन्धुरप्यहितः परः ।
अहितो देहजो व्याधिर्हितमारण्यमौषधं” ॥ इति
हितोपदेशः । अहिताहारोपयोगिनां पुनः कार-
णतो न सद्यो दोषवान् भवत्यपचारः, नहि
सर्व्वाण्यपथ्यानि तुल्यदोषाणि न च सर्व्वे दोषा-
स्तुल्यबलाः । नच सर्व्वाणि शरीराणि व्याधि-
क्षमत्वे समर्थानि । तदेव ह्यपथ्यं देशकालसंयोग-
वीर्य्यप्रमाणातियोगात् भूयस्तरमपथ्यं सम्पद्यते ॥
स एव दोषः संसृष्टयोर्निर्विरुद्धोपक्रमो गम्भो-
रानुगतः प्राणायतनसमुत्थो मर्म्मोपघाती वा
भूयान् कष्टतमः क्षिप्रकारितमश्च सम्पद्यते
इति चरकः ।
“इह खलु यस्माद्द्रव्याणि स्वभावतः संयोगत-
श्चैकान्तहितान्येकान्ताहितानि हिताहितानि
भवन्ति” । “एकान्ताहितानि दहनपचनमारणा
दिषु प्रवृत्तान्यग्निक्षारविषादीनि ।”
“दुग्धस्यैकान्तहिततां विषस्यैकान्ततोऽहि तं
एवं युक्तरसाद्येषु द्रव्येषु सलिलादिषु ॥
एकान्तहिततां विद्धि वत्स ! सुश्रुत ! नान्यथा” ॥
“विरुद्धान्येवमादीनि रसवीर्य्यविपाकतः ।
तान्येकान्ताहितान्येव शेषं विद्याद्धिताहितं” ॥
इति सुश्रुतः ॥)

अहितुण्डिकः, पुं, (अहेः तुण्डं मुखं, तेन दीव्यति

यः सः । अहितुण्ड + ठक् । संज्ञापूर्ब्बकत्वात्
वृद्ध्यभावः ।) भिक्षार्थं सर्पखेलकः । तत्पर्य्यायः ।
व्यालग्राही २ । इत्यमरः । सापुडे इति भाषा ॥

अहिद्विट्, [ष्] पुं, (अहिं वृत्रासुरं सर्पं वा द्वेष्टि

यः । अहि + द्विष् + क्विप् ।) इन्द्रः । गरुडः ।
मयूरः । नकुलः । इति मेदिनी ॥
(“अहिद्विषस्तद्भवता निशम्यतां” । इति माघे ।
“एकाहिरक्षार्थमहिद्विषेऽद्य
दत्तो मयात्मेति यया ब्रवीति” ।
इति नागानन्दे ॥

अहिनकुलता स्त्री, अहिनकुलयोर्वैरं । नित्य-

विरोधितेति यावत् । अहिश्च
नकुलश्च अहिनकुलौ तयोर्भाव इति भावार्थे
त-ष्णिकप्रत्यययोः स्त्रियामापा निष्पन्ना ॥

अहिनकुलिका स्त्री, अहिनकुलयोर्वैरं । नित्य-

विरोधितेति यावत् । अहिश्च
नकुलश्च अहिनकुलौ तयोर्भाव इति भावार्थे
त-ष्णिकप्रत्यययोः स्त्रियामापा निष्पन्ना ॥

अहिपुत्त्रकः, पुं, (अहेः सर्पस्य पुत्त्रक इव । सर्पा-

कारत्वात् ।) नौकाविशेषः । तत्पर्य्यायः । पोतः २
तरालुः ३ । इति हारावली ॥
पृष्ठ १/१६०

अहिपूतनः, पुं, क्षुद्ररोगविशेषः । तल्लक्षणं यथा, --

“शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् ।
स्विन्ने वा स्वाप्यमानस्य कण्डूरक्तकफोद्भवा ॥
कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते ।
एकीभूतं व्रणं घोरं तं विद्यादहिपूतनं” ॥ * ॥
तच्चिकित्सा यथा भावप्रकाशे, --
“तत्र संशोधनैः पूर्ब्बं धात्रीस्तन्यं विशोधयेत् ।
त्रिफलाखदिरक्वाथैर्व्रणानां क्षालनं हितं ॥
शङ्खसौवीरयष्ठ्याह्वैर्लेपः कार्य्योऽहिपूतने” । इति
(रुग्विनिश्चयटीकाकृता विजयेन व्याख्याप्रसङ्गतो
भोजवचनं यदाहृतं तद्यथा, -- यदुक्तं ।
“दुष्टस्तन्यस्य पानेन मलस्याक्षालनेन च ।
कण्डूदाहरुजावद्भिः पिडकैश्च समाचितः ॥
अहिपूतनः सम्भवति यथादोषञ्च दारुणः” ॥
इति सनिदानलक्षणसम्प्राप्तिकं चिकित्सितं वाभ-
टेन वा यदुक्तं तद्यथा, --
“मलोपलेपात् स्वेदाद्वा गुदे रक्तकफोद्भवः ।
ताम्रोव्रणोऽन्तःकण्डूमान् जायते भूर्य्युपद्रवः ॥
केचित्तं मातृकादोषं वदन्त्यन्येऽहिपूतनं ।
प्रष्टारुर्गुदकुन्दञ्च केचिच्च तमनामिकं” ॥ * ॥
चिकित्सा ।
“तत्र धात्र्याः पयःशोध्यं पित्तश्लेष्महरौषधैः । १
शृतशीतञ्च शीताम्बु-युक्तमन्तरपानकं ॥ २
सक्षौद्रतार्क्ष्यशौलेन व्रणं तेन च लेपयेत् । ३
त्रिफलावदरीप्लक्षत्वक्-क्वाथ-परिषेचितं ॥ ४
कासीश-रोचना-तुत्थ-मनोह्वालरसाञ्जनैः । ५
लेपयेदम्लपिर्ष्टैर्वा चूर्णितैर्वावचूर्णयेत् ॥ ६
सुश्लक्ष्णैरथवा यष्टीशङ्खसौवीरकाञ्जनैः । ७
सारिवाशङ्खनाभिभ्यामशनस्य त्वचोऽथवा” ॥ ८ ॥ * ॥
चक्रपाणिसंग्रहे तु ॥
“पटोलपत्रत्रिफलारसाञ्जनविपाचितं ।
पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनां” ॥
पटोलाद्यघृतं ॥ * ॥)

अहिफेनं, क्ली, (अहेः सर्पस्य फेनं गरलमिव ।

अत्युग्रत्वात् ।) अफेनं । इति राजनिर्घण्टः ॥ आफिं
इति भाषा । (अस्य पर्य्यायमाह भावप्रकाश-
कारः ।)
“उक्तं खसफलक्षीरमाफूकमहिफेनकं” ।
अस्य कार्य्यञ्चाह शार्ङ्गधरः ।
“पूर्ब्बं व्याप्याखिलं कायं ततः पाकञ्च गच्छति ।
व्यवायि तद्यथा भङ्गा फेनञ्चाहिसमुद्भवं” ॥
अपरञ्चाफेनशब्दे आफूकशब्दे च ज्ञातव्यं ॥)

अहिब्रध्नः, पुं, (अहिः ब्रध्ने यस्य ।) शिवः ।

(“अजैकपादहिब्रध्नः पिनाकी चापराजितः” ।
इति हरिवंशे ।) रुद्रविशेषः ॥ इति जटाधरः ॥
(यथा हरिवंशे ।
“सुरभी कस्यपाद्रुद्रानेकादश विनिर्म्ममे ।
महादेवप्रसादेन तपसा भाविता सती ॥
अजैकपादहिब्रध्नस्त्वष्टा रुद्राश्च भारत” ! इति ।)

अहिब्रध्रदेवता, स्त्री, (अहिब्रध्नो रुद्रोऽधिष्ठात्री

देवता यस्याः ।) उत्तरभाद्रपदनक्षत्रं । इति ज्यो-
तिःशास्त्रं ॥

अहिभयं, क्ली, (अहेः सर्पतुल्यस्वपक्षात् सर्पाद्वा

भयं ।) राज्ञां स्वपक्षोद्भवभयं । इत्यमरः ॥ सर्प-
भयं ॥

अहिभयदा, स्त्री, (अहेर्भयं द्यति खण्डययीति । अहि-

भय + दो + क) भूम्यामलकी । इति राजनिर्घण्टः ॥
(भूम्यालकीशब्देऽस्या गुणाबली ज्ञातव्या ॥)

अहिमुक्, [ज्] पुं, (अहिं भुङ्क्ते । अहि + भुज् +

क्विप् ।) गरुडः । मयूरः ॥ इत्यमरः ॥ नाकुली ।
गन्धनाकुली । इति राजनिर्घण्टः ॥

अहिमर्द्दनी, स्त्री, (अहेर्मर्द्दनं भवत्यस्याः ।) गन्ध-

नाकुलीनाम कन्दविशेषः ॥ इति राजनिर्घण्टः ॥

अहिमारः, पुं, (अहिं मारयति यः सः । अहि +

मृ + णिच् + अण् ।) अरिमेदकवृक्षः । इति
राजनिर्घण्टः ॥

अहिमेदकः, पुं, (अहिं मेदयति स्पर्शमात्रेण गल-

यति यः सः ।) अरिमेदकवृक्षः । इति राज-
निर्घण्टः ॥ (अरिमेदशव्देऽस्य गुणादयो ज्ञेयाः ॥)

अहिलता, स्त्री, (अहिरिव लता । दोर्घाकारत्वात् ।)

गन्धनाकुली । ताम्बूली । इति राजनिर्घण्टः ॥

अहीरणिः, पुं, (अहीन् ईरयति दूरीकरोति ।

अहि + ईर + अणि ।) द्विमुखसर्पः । इति त्रि-
काण्डशेषः ॥

अहे, व्य, क्षेपः । वियोगः । इति शब्दलाला ॥

अहेरुः, स्त्री, (न हिनोति । हि गतौ बाहुलकाद्रुः ।

ततो नञ्समासः ।) शतमूली । इत्यमरः ॥

अहो, व्य, (न + हा + डो ।) धिगर्थः । शोकः ।

करुणार्थः । विषादः । सम्बोधनं । प्रशंसा ।
विस्मयं । पदपूरणं । असूया । वितर्कः । इति
भेदिनी ॥ (यथा रामायणे अयोध्याकाण्डे ॥
“अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः” ।
“अहो मधुरमासां दर्शनं” । इति शाकुन्तले
प्रथमाङ्के ।)

अहोरात्रः, पुं, (अहश्च रात्रिश्च द्वयोः समाहारः ।

रात्राह्णाहाः पुंसि । अहः सर्व्वैकदेशे टच् इति
टच् ।) दिवानिशं । स तु सूर्य्योदयद्वयपरिच्छिन्न-
त्रिंशन्मुहूर्त्तात्मककालः । इत्यमरः ॥ मनुष्याणां
मासेन पैत्रोऽहोरात्रो भवति । मनुष्याणामेक-
वर्षेण देवानामहोरात्रोभवति । द्विसहस्रगुणित-
मानुष्यचतुर्युगमानेन ब्रह्मणोऽहोरात्रो भवति ।
तत्र मनुष्यमानेन ८६४००००००० वर्षा भवन्ति ॥

अहोवत, व्य (अहो च वत च ।) अनूकम्पा । खेदः ।

सम्बोधनं । इति विश्वमेदिनौ ॥
(“अहोवतासिस्पृहनीयवीर्य्यः” । इति कुमारे ।
“अहोवत ! कीदृशीं वयोऽवस्थामापन्नोऽस्मि” ।
इति शाकुन्तले ।
“अहोवत ! महत्पापं कर्त्तुं व्यवसिता वयम्” । इति गीता ॥)

अह्नाय, व्य, (हु ङ अपनयने । वाहुलकाद्भावे घञ् ।

वृद्धिः । पृषोदरादित्वात् वस्य यः । ततो नञ-
समासः ।) झटिति । द्रुतं । इत्यमरः ॥
(अह्नाय सा नियमजं क्लममुत्ससर्ज” । इति कुमारे ।
“अह्नाय तावदरुणेन तमो निरस्तम्” । इति रघौ ।
“स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा
मूर्च्छन् मोसमहर्षिहर्षविहितस्नानाह्निकाऽह्ना-
यवः” । इति काव्यप्रकाशे ।)

अह्रीकः, पुं, (नास्ति ह्रीर्लज्जा यस्य ।) वौद्धः । क्षप-

णकः । इति त्रिकाण्डशेषः ॥

अह्वला, स्त्री, (न + ह्वे + डल् ।) भल्लातकवृक्षः ।

इति शब्दचन्द्रिका ॥ भेला इति भाषा ।