शब्दकल्पद्रुमः/अवधिः

विकिस्रोतः तः
Jump to navigation Jump to search

शब्दकल्पद्रुमः

पृष्ठ १/१२५

अवधिः, पुं, (अव + धा + कि ।) अवधानं । सीमा ।

कालः । (“अथ चेदवधिः प्रतीक्ष्यते” इति भा-
रविः ।) विलं । इति विश्वमेदिन्यौ ॥

अवधीर, त्, क, अवज्ञायां । (अदन्त + चुरा०-

उभय०-सक०-सेट् ।) अवधीरयति । आवधीरयत्
साधुमसाधुः । इति दुर्गादासः ॥

अवधूतः, पुं, (अव + धू + क्तः ।) सन्न्यासाश्रमी ।

तद्विधानं सन्न्यासिशब्दे द्रष्टव्यं । तद्भेदा यथा ।
देव्युवाच ।
“द्विविधावाश्रमौ प्रोक्तौ गार्हस्थ्यो भैक्षुकस्तथा ।
किमिदं श्रूयते चित्रमवधूताश्चतुर्विधाः ॥
एतद्वेदितुमिच्छामि तत्त्वतः कथय प्रभो ।
चतुर्व्विधावधूतानां लक्षणानि विशेषतः ॥
सदाशिव उवाच ।
ब्रह्ममन्त्रोपासका ये ब्राह्मणक्षत्रियादयः ।
गृहाश्रमे वसन्तोऽपि ज्ञेयास्ते यतयः प्रिये ॥
पूर्णाभिषेकविधिना संस्कृता ये च मानवाः ।
शैवावधूतास्ते ज्ञेयाः पूजनीयाः कुलार्च्चिते ॥
ब्रह्मावधूतः शैवाश्च साग्रिमाचारवर्त्तिनः ।
विदध्युः सर्व्वकर्म्माणि शश्वदीरितवर्त्मना ॥
विना ब्रह्मार्पितञ्चैते तथा चक्रार्पितं विना ।
निषिद्धमन्नं तोयञ्च न गृह्लीयुः कदाचन ॥
ब्रह्मावधूतकौलानां कौलानामभिषेकिणां ।
प्रागेव कथितो धर्म्म आचारश्च वरानने ॥
स्नानं संन्यासनं पानं दानञ्च दाररक्षणं ।
सर्व्वमागममार्गेण शैवब्रह्मावधूतयोः” ॥
इति महानिर्व्वाणतन्त्रे १४ उल्लासः ॥ * ॥ अन्यच्च ।
शङ्कर उवाच ।
“शृणु देवि प्रवक्ष्यामि अवधूतो यथा भवेत् ।
वीरस्य मूर्त्तिं जानीयात् सदा तत्त्वपरायणः ॥
यद्रूपं कथितं सर्व्वं सन्न्यासधारणं परं ।
तद्रूपं सर्व्वकर्म्माणि प्रकुर्य्याद्वीरवल्लभं ॥
दण्डिनो मुण्डनं चामावास्यायामाचरेद्यथा ।
तथा नैव प्रकुर्य्यात्तु वीरस्य मुण्डनं प्रिये ॥
असंस्कृतं केशजालमुक्तालम्बिकचोच्चयं ।
अस्थिमाला विभूषा वा रुद्राक्षानपि धारयेत् ॥
दिगम्बरो वा वीरेन्द्रश्चाथ वा कौपिनी भवेत् ।
रक्तचन्दनसिक्ताङ्गं कुर्य्याद्भस्माङ्गभूषणं” ॥
रति निर्व्वाणतन्त्रे १४ पटलः ॥ * ॥ अपिच ।
“नृकरोटिं विधार्य्यञ्च काष्ठदण्डं तथा प्रिये ।
परशुञ्चाजिनञ्चैव योगीव धारयेत् सदा ॥
खट्टाङ्गं धारयेद्योगी वासरूपकवाससी ।
कपाले धारयेच्चन्द्रं चन्दनाद्यैर्व्विशेषतः ॥
ईषत् पिङ्गलकं वस्त्रं धारयेत् सर्व्वदा सुत” ।
सुत इति शिवस्य सम्बोधनं ।
सुदर्शनाख्यं यच्चक्रं तत्तु संधारयेद्बुधः ॥
विपञ्चीं कपिलञ्चैव मड्डडिण्डिमझर्झरान् ।
वादयन् डमरुं योगी यत्र कुत्राश्रमे स्थितः” ॥
इति योगसारे २ परिच्छेदः ॥ * ॥ अपरञ्च ।
“क्षमा दानं तपो ध्यानं बालभावेन शैलजे ।
शिवोऽहं भैरवानन्दो मुक्तोऽहं कुलनायकः ॥
एवं भावपरो मन्त्री हेतुयुक्तः सदाशिवः ।
संविदासेवनं कुर्य्यात् सदा कारणसेवनं ॥
भवेत् साक्षात् स पुरुषः शम्भुरूपो न संशयः” ।
इति निर्व्वाणतन्त्रं ॥ * ॥ किञ्च ।
“ब्राह्मणः क्षत्रियो वैश्यः शूद्रः सामान्य एव च ।
कुलावधूतसंस्कारे पञ्चानामधिकारिता” ॥
इति महानिर्व्वाणतन्त्रं ॥ * ॥ अन्यच्च ।
“निर्व्वाणमुक्तिमाप्नोति ब्राह्मणो वीरभावतः ।
अवधूतः क्षत्रियश्च महायोगी न संशयः ॥
स्वरूपोऽपि भवेद्वैश्यः शूद्रोऽपि सहलोकवान् ।
सम्पूर्णफलमाप्नोति विप्रो निर्व्वाणतां व्रजेत् ॥
त्रिभागं फलमाप्नोति क्षत्रियो वीरभावतः ।
पादद्वयन्तु वैश्यस्य शूद्रस्य चैकपादकं” ॥ * ॥
दशनामावधूतानां प्रत्येकं नाम प्रागुक्तमिदानी-
मपि तेषां प्रधानत्वेनाङ्गीकरणार्थं संज्ञाकथनगर्भं
लक्षणविशेषमाह ।
“अवधूतस्य चाख्यानं शृणुष्व पर्ब्बतात्मजे ।
वनारण्ये भारती च गिरिश्च पुरिरेव च ॥
एकस्थाने तु संस्थित्य इष्टध्यानादिकञ्चरेत् ।
यो मन्त्रदानं तपसा सवनः परिकीर्त्तितः ॥
स्नस्तकेशो जटाजूटः सदा वातुलवद्भवेत् ।
अन्तर्योगी महावीरोऽरण्यसंज्ञश्च शैलजे ॥
नानाशास्त्रेषु यो विज्ञो नानाकर्म्मविशारदः ।
सदेष्टदेवीभावेन भावयेद् यो हि चाबलां ॥
स एव भारतीवीरो महाज्ञानी जितेन्द्रियः ।
सदोर्द्ध्वबाहुर्यो वीरो मुक्तकेशो दिगम्बरः ॥
सर्व्वत्र समभावेन भावयेत् यो नरोत्तमः ॥
इष्टदेवीं विना नास्ति स गिरिः परिकीर्त्तितः ॥
नानादेशेषु पीठेषु क्षेत्रेषु तीर्थभूमिषु ।
भ्रमणं कुरुते नित्यं कुर्य्याद्यत्नेन पूजनं ॥
देवतायाः सदा ध्यानं श्रीगुरोः पूजनं तथा ।
अन्तर्यागेषु यो निष्ठः स वीरः पुरिरेव च ॥
अवधूताश्रमे देवि ! यस्य भक्तिः सुनिश्चला ।
तस्य तुष्टा भवेत् काली किं न सिद्ध्यति भूतले ॥
अवधूतं समालोक्य शम्भुवत् पूजनं चरेत् ।
शक्तितः पञ्चतत्त्वानि यत्नेनैव निवेदयेत् ।
अशक्तः परमेशानि भक्तितः परितोषयेत्” ॥
इति निर्व्वाणतन्त्रं ॥ * ॥ अपि च ।
“भक्तावधूतो द्विविधः पूर्णापूर्णविभेदतः ।
पूर्णः परमहंसाख्यः परिव्राडपरः स्मृतः ॥
कृतावधूतसंस्कारो यदि स्याज्ज्ञानदुर्ब्बलः ।
तदा लोकालये तिष्ठन्नात्मानं स तु शोधयेत् ॥
रक्षन् स्वजातिचिह्नञ्च कुर्व्वन् कर्म्माणि केवलं ।
सदा ब्रह्मपरो भूत्वा साधयेज्ज्ञानमुत्तमं” ॥
इति महानिर्व्वाणतन्त्रं ॥ * ॥ अपि च ।
“अवधूतः शिवः साक्षादवधूतः सदाशिवः ।
अवधूती शिवादेवी अवधूताश्रमं शृणु ॥
चतुराश्रमिणां मध्ये अवधूताश्रमो महान् ।
अवधूतश्च द्विविधो गृहस्थश्च चितानुगः ॥
सचेलश्चापि दिग्वासा विधियोनिविहारवान् ।
सदारः सर्व्वदारस्थश्चाट्टहासो दिगम्बरः ॥
गृहावधूतो देवेशि द्वितयस्तु सदाशिवः” ।
इति मुण्डमालातन्त्रे २ पटलः ॥ * ॥ अवधूतस्य
ओम् तत् सदिति मन्त्रेण कर्म्मकर्त्तव्यतामाह ।
“ॐ तत्सन्मन्त्रमुच्चार्य्य सोऽहमस्मीति चिन्तयन् ।
कुर्य्यादात्मोचितं कर्म्म सदा वैराग्यमाश्रितः ॥
कुर्व्वन् कर्म्माण्यनासक्तो नलिनोदलनीरवत् ।
यतेतात्मानमुद्धर्त्तुं तत्त्वज्ञानविवेकतः” ॥ * ॥
सर्व्वेषामोम् तत्सदिति निर्देशेन कर्म्मफलमाह ।
“ॐ तत्सदिति मन्त्रेण यो यत्कर्म्म समाचरेत् ।
गृहस्थो वाप्युदासीनस्तस्याभीष्टाय तद्भवेत्” ॥ * ॥
तन्मन्त्रक्रियमाणकर्म्मणः सम्पूर्णत्वमपि ।
“जपहोमप्रतिष्ठा च संस्काराद्यखिलाः क्रियाः ।
ॐ तत्सदिति निष्पन्नाः संपूर्णाः स्युर्न संशयः ॥
किमन्यैर्ब्बहुभिर्म्मन्त्रैः किमन्यैर्भूरिसाधनैः ।
ब्राह्म्येणानेन मन्त्रेण सर्व्वकर्म्माणि साधयेत् ॥
सुखसाध्यमबाहुल्यं संपूर्णफलदायकं ।
नास्त्येतस्मान्महामन्त्रादुपायान्तरमम्बिके ॥
पुरप्रदेशे देहे वा लिखित्वा धारयेदिमं ।
गेहे तस्य महातीर्थं देहः पुण्यमयो भवेत् ॥
निगमागमतन्त्राणां सारात् सारतरो मनुः ।
ॐ तत्सदिति देवेशि तवाग्रे सत्यमीरितं ॥
चतुर्व्विधानां तत्त्वानामन्येषामपि वस्तुनां ॥
मन्त्रान्यैः शोधनेनालं स्याच्चेदेतेन शोधितं ॥
पश्यन् सर्व्वत्र सद्रूपं जपंस्तत् सन्महामनुं ।
स्वेच्छाचारः शुद्धचित्तः स एव भुवि कौलराट् ॥
जपादस्य भवेत् सिद्धो मुक्तः स्यादर्णचिन्तनात् ।
साक्षाद्ब्रह्ममयो देही सार्थमेनं जपेन्मनुं ॥
त्रिपदोऽयं महामन्त्रः सर्व्वकारणकारणं ।
साधनादस्य मन्त्रस्य भवेन्मृत्युञ्जयः स्वयं ॥
युग्मयुग्मपदं वापि प्रत्येकं पदमेव वा ।
जप्त्वैतस्य महेशानि साधकः सिद्धिभाग्भवेत्” ।
इति मन्त्रप्रशंसा ॥ * ॥ शैवावधूतस्य सर्व्वकर्म्मा-
नधिकारमाह ।
“शैवावधूतसंस्कारविधूताखिलकर्म्मणः ।
नापि दैवे नवा पित्र्ये नार्षे कृत्येऽधिकारिता” ॥ * ॥
अथ परमहंसः ।
“चतुर्णामवधूतानां तुरीयो हंस उच्यते ।
त्रयोऽन्ये योगभोगाढ्या मुक्ताः सर्व्वे शिवोपमाः ॥
हंसो न कुर्य्यात् स्त्रीसङ्गं न विधत्ते परिग्रहं ।
प्रारब्धमश्नन् विहरेत् निषेधविधिवर्जितः ॥
त्यजेत् स्वजातिचिह्नानि कर्म्माणि गृहमेधिनां ।
तुरीयो विचरेत् क्षौणीं निःसङ्कल्पो निरुद्यमः ॥
सदात्मभावसन्तुष्टः शोकमोहविवर्ज्जितः ।
निर्निकेतस्तितिक्षुः स्यान्निःसङ्गो निरुपद्रवः ॥
नार्पणं भक्ष्यपेयानां न तस्य ध्यानधारणा ।
मुक्तो विमुक्तो निर्द्वन्द्वो हंसाचारपरो यतिः ॥
इति ते कथितं देवि ! चतुर्णां कुलयोगिनां ।
लक्षणं सविशेषेण साधूनां मत्स्वरूपिणां ॥
एतेषां दर्शनात् स्पर्शादालापात् परितोषणात् ।
सर्व्वतीर्थफलावाप्तिर्जायते मनुजन्मनां” ॥
इति महानिर्व्वाणतन्त्रं ॥

अबध्यं, त्रि, (बधमर्हति, यत्, ततो नञ्समासः ।)

मारणानर्हं । बधायोग्यं । अनर्थकवाक्यं । इति
विश्वमेदिन्यौ । यथा, --
पृष्ठ १/१२६
:“अबध्याञ्च स्त्रियं प्राहुस्तिर्य्यग्योनिगतास्वपि ।”
शत्रुस्त्रीणामबध्यत्वमाह मत्स्यपुराणं ।
“किं त्वया न श्रुतं लोके अबध्याः शत्रुयोषितः” ।
इति प्रायश्चित्ततत्त्वं ॥ * ॥ आत्मन अबध्यत्वं यथा, --
“देही नित्यमबध्योऽयं देहे सर्व्वस्य भारत ।
तस्मात् सर्व्वाणि भूतानि न त्वं शोचितुमर्हसि” ॥
इति श्रीभगवद्गीतायां २ अध्यायः ॥ * ॥ तद्बधे
पापं यथा, --
“यावानबध्यस्य बधे तावान् बध्यस्य मोक्षणे ।
अधर्म्मोर्नृ पतेर्दृष्टोधर्म्मस्तु विनियच्छतः” ॥
इति मानवे ९ अध्याये २४९ श्लोकः ॥

अवध्वंसः, पुं, (अव + ध्वन्स + घञ् ।) परित्यागः ।

निन्दनं । अवचूर्णनं । इति मेदिनी ॥

अवध्वस्तः, त्रि, (अव + ध्वन्स + क्त ।) परित्यक्तः ।

निन्दितः । अवचूर्णितः । इति मेदिनी ॥

अवनं, क्ली, (अव + ल्युट् ।) प्रीणनं । इत्यमरः ॥

रक्षणं । इति हेमचन्द्रः ॥ गमनं । स्पहा ।
तर्पणं । शोभनं । श्रवणं । प्राप्तिः । आलिङ्गनं ।
याचनं । प्रवेशनं । सत्ता । वृद्धिः । ग्रहणं । बधः ।
शक्तिः । अवगमनं । कामः । करणं । एते अव-
धात्वर्थाः ॥

अवनतं, त्रि, (अव + नम् + क्त ।) नम्रं । नतभागः ।

नोया इति भाषा । तत्पर्य्यायः । अवाग्रं २ आ-
नतं ३ नतं ४ । इत्यमरः तट्टीका च ॥ (अधो-
भूतः । “लिखन्नास्ते भूमिं वहिरवनतः प्राण-
दयितः” । इति अमरुशतके ।)

अवनद्धं, क्ली, (अव + नह् + क्त ।) आनद्धं । मृद-

ङ्गादिवाद्यं । इत्यमरटीकायां स्वामी ॥ (आबद्धः ।
आच्छादितः । यथाह मनुः, --
“चर्म्मावनद्धं दुर्गन्धि पूर्णं मूत्रपूरीषयोः ।”
लिप्तः यथा, “स्तानावनद्धघनशोणितशोणपाणि-
रुत्तंसयिष्यति कचांस्तव देवि भीमः ।” इति
वेणीसंहारनाटकम् ।)

अवनयः, पुं, (अव + नी + भावे अच् ।) अवनायः ।

निपातनं । अधःपातनं । इति भरतः ॥

अवनाटः, त्रि, (अवनता नासिका, प्रादिसमासः,

नतार्थे नासिकाया नाटादेशः अर्श आद्यच् ।)
नतनासिकः । खाँदा छेपडानाकव्यक्ति इति
भाषा । तत्पर्य्यायः । अवटीटः २ अवभ्रटः ३ ।
इत्यमरः ॥

अवनायः, पुं, (अव + नी + घञ् ।) अवनयः । अधो-

नयनं । इत्यमरः ॥ नीचे फेलान इति भाषा ।

अवनिः, स्त्री, (अव + अनि ।) पृथिवी । इत्यमरः ॥

(“तामुन्निद्रामवनिशयनां सौधवातायनस्थः” ।
इति मेघदूते ।)

अवनी, स्त्री, (अव + अनि + ङीप् ।) पृथ्वी । इति

भरतः ॥ त्रायमाणा लता । इति राजनिर्घण्टः ॥

अवनीपतिः, पुं, (अवन्याः पतिः, षष्ठीतत्पुरुषः ।)

राजा । इति जटाधरः ॥
(“स श्रवा सुमहाभागः प्रीतिमानवनोपतौ” ।
इति मत्म्यपराणे ।)

अवनेजनं, क्ली, (अव + निज् + ल्युट् ।) पिण्ड-

दानार्थमास्तृतकुशोपरि जलसेचनं यथा ब्रह्म-
पुराणम्, --
“सपुष्पं जलमादाय तेषां पृष्ठे पृथक् पृथक् ।
अप्रदक्षिणं नेनिज्यात् गोत्रनामानुमन्त्रितं ॥
पितुरवनेजनं मूलदेशे पितामहप्रपितामहयोस्तु
अवनेजनं मध्यदेशाग्रदेशयोः । मातामहादीना-
मप्येवं । इति । पिण्डोपरि जलसेचनं । यथा
ब्रह्मपुराणं, --
“ततो दर्भेषु विधिवत् सम्मार्ज्य च करन्ततः ।
प्रक्षाल्य च जलेनाथ त्रिराचम्य हरिं स्मरेत् ।
“तेभ्यः संस्रवपात्रेभ्यो जलेनैवावनेजनं ।
दत्त्वात्र पितरश्चेति पठेच्चोदङ्मुखस्थितः” ॥
इति च श्राद्धतत्त्वं ॥ (प्रक्षालनं ।
“न कुर्य्यात् गुरुपुत्त्रस्य पादयोश्चावनेजनम्” ।
इति मनुः ।)

अवन्तिः, पुं, (अव + झिच् ।) अवन्तीदेशः । इति

हेमचन्द्रः ॥ नदीविशेषः । इत्युणादिकोषः ॥ यथा,
“प्राग्ज्योतिषाः कामरूपा मालवाः स्युरवन्तयः” ।
इति हेमचन्द्रः ॥ अपि च ।
“अनूपास्तुण्डिकेराश्च वीतिहोत्रा अवन्तयः ।
एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः” ॥
इति मत्स्यपुराणे ९५ अध्यायः ॥

अवन्तिका, स्त्री, (अवति अव रक्षणादौ, बाहुल-

कात् झिच् ततः स्वार्थे कन्, टाप् ।) उज्जयनी-
नगरी ।
“अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः” ॥
इति स्कन्दपुराणे ॥

अवन्तिसोमं, क्ली, (अवन्तिषु अभिषुतं सोमं,

शाकपार्थिवादित्वात् समासः ।) काञ्जिकं । इत्य-
मरसिंहः ॥ काँजि इति भाषा । (काञ्जिकशब्दे-
ऽस्य गुणा व्याख्येयाः ।)

अवन्ती, स्त्री, मालवदेशस्य नगरी । उजैन इति

ख्याता । तत्पर्य्यायः । उज्जयिनी २ विशाला ३
पुष्ककरण्डिनी ४ । इति हेमचन्द्रः ॥ यथा, --
“ताम्रपर्णीं समासाद्य शैलार्द्धशिखरोर्द्ध्वतः ।
अवन्तीसंज्ञको देशः कालिका तत्र तिष्ठति” ॥
इति शक्तिसङ्गमतन्त्रे ७ पटलः ॥ अन्यच्च ।
“उत्पन्नोर्कः कलिङ्गे तु यमुनायाञ्च चन्द्रमाः ।
अवन्त्याञ्च कुजो जातो मागधे च हिमांशुजः” ॥
इति संस्कारतत्त्वधृतमत्स्यपुराणं ॥ अन्यत् पूर्ब्ब-
लिखितं ॥ (“प्राप्यावन्तीमुदयनकथाकोविदग्राम-
वृद्धान् ।” इति मेघदूते ।)

अबन्ध्यः, त्रि, (बन्धे साधुरिति बन्ध्यः, बन्ध + यत्,

ततो नज्समासः ।) फलवान् । फलकाले फल-
युक्तवृक्षः । तत्पर्य्यायः । फलेग्रहिः २ फलग्रहिः ३ ।
इत्यमरः ॥
(“कर्त्तुं यच्च प्रभवति महीमुच्छिलीग्ध्रामबन्ध्याम्” ।
इति मेघदूते ।)

अवपातः, पुं, (अव + पत् + घञ् ।) रन्धं । गर्त्तः ।

इति हेमचन्द्रः ॥ अधःपतनं ॥ (गजादीनां ग्रह-
णार्थं कृतस्तृणादिना प्रच्छन्नो गर्त्तः । यथा, --
“अवपातस्तु हस्त्यर्थे गर्त्तश्छन्नस्तृणादिना” ।
इति यादवः ।
“रोधांसि निघ्नन्नवपातमग्नः
करीव वन्यः परुषं ररास” ।
इति रघुवंशे । नाटकादौ भयादिजनितपलायन-
सम्भ्रमादिवर्णनेन प्रस्तुतस्य परिवर्त्तः । यथा, --
“अवपातन्तु निष्क्राम-प्रवेश-त्रास-विद्रवैः” ।
इति दशरूपे ।)

अवभृथः, पुं, (अवभ्रियते अनेन, अव + भृ +

क्थन् ।) दीक्षान्तयज्ञः । प्रधानयागसमापका-
परयज्ञः । यज्ञादेर्न्यूनाधिक-दोष-शान्ति-निमि-
त्तक-शेष-कर्त्तव्य-होम इति यावत् ॥ इत्यमरः
तट्टीका च ॥ यज्ञावशेषस्नानं । इति भरतः
त्रिकाण्डशेषश्च ॥
(“ततश्चकारावभृथं विधिदृष्टेन कर्म्मणा”
इति भारते ।
“भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि” ।
इति रघुवंशे ।)

अवभ्रटः, त्रि, (अवनतं नासिकायाः, नते नासि-

कायाः संज्ञायामिति भ्रटच् । अवभ्रष्टा नासिका
अस्ति अस्य इति अर्श आद्यच् ।) नतनासिक-
व्यक्तिः । इत्यमरः ॥ खाँदा इति भाषा ।

अवमः, त्रि, (अवति अस्मात् आत्मानम्, अव रक्ष-

णादौ, अवद्येति सूत्रेण अवतेः अमः प्रत्ययो
निपातितः । अवो भवो वा, अवोधसोर्लोप-
श्चेति मः ।) अधमः । निन्दितः । इत्यमरः ॥
(“अनलकानलकानवमां पुरीम्” । इति रघुवंशे ।)

अवमं, क्ली, तिथ्यन्तद्वयस्पृष्टैकदिनवारः । एकदिने

एकतिथिर शेष अपरतिथिर आद्यन्तस्पर्श
इति यावत् ॥ इति ज्योतिषशास्त्रे प्रसिद्धं ॥
यथा “तिथ्यन्तद्वयमेको दिनवारः स्पृशति यत्र
तद्भवत्यवमदिनं । त्रिदिनस्पृक्तिथित्रयस्य स्पर्श-
नादह्नः” । इति ज्योतिषतत्त्वं ॥

अवमतं, त्रि, (अव + मन् + क्त ।) अवज्ञात । अव-

मानितं । अनादृतं । इत्यमरः ॥
(“सुखं ह्यवमतः शेते सुखञ्च प्रतिबुध्यते” ।
इति मनुः ।)

अवमतिः, पुं, (अवान्तरगता अमात्यादीनां कार्य्येषु

मतिर्यस्य ।) स्वामी । ईश्वरः । पतिः । प्रभुः ।
नेता । इति जटाधरः ॥

अवमर्दः, पुं, (अव + मृद् + घञ् ।) पीडनं । व्यथनं ।

इत्यमरः ॥ शस्यादिसम्पन्नदेशस्य परचक्रेण पी-
डनं । इति भरतः ॥
(“बलावमर्द्दस्त्वयि सन्निविष्टो
यथा न गर्हेयुरुदारसत्त्वाः” ।
इति रामायणे ।) शत्रुकृतगाढप्रहार इति केचित् ॥
पदाक्रमणमिति केचित् ॥

अवमानः, पुं, (अव + मन् + भावे घञ् ।) अपमानः ।

अमर्य्यादा । यथा, --
“सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्व्वदा” ॥
इति मानवे २ अध्याये १६२ श्लोकः ॥
पृष्ठ १/१२७
:“मानावमानद्वन्द्वसहिष्णुत्वमनेन विधीयते” ।
इति कल्लूकभट्टः ॥

अवमाननं, क्ली, (अव + मन् + णिच् + ल्युट् ।) अप-

मानः । यथा । अवमाननं अवमानना । मान कि
चार्च्चे अवपूर्ब्बः ञीषि श्रन्थीति अनः । इत्यमर-
टीकायां भरतः ॥

अवमानना, स्त्री, (अव + मन + णिच् + युच् ।) अ-

वज्ञा । अनादरः । इत्यमरसिंहः ॥
(“अतोऽवमाननाऽस्माकं मानिना भवता कृता” ।
इति विष्णुपुराणे ।)

अवमानितः, त्रि, (अव + मान + क्त ।) कृतापमानः ।

अवज्ञातः । अनादृतः । इत्यमरः ॥
(“विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता” ।
इति सहित्यदर्पणे ।)

अवमान्यः, त्रि, (अव + मन + ण्यत् ।) अवमाननीयः ।

यथा, --
“या रोगिणी स्यात्तु हिता सम्पन्ना चैव शीलतः ॥
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित्” ॥
इति मानवे ९ अध्याये ८२ श्लोकः ॥

अवमूर्द्धशयः, त्रि, (अवमूर्द्ध + शी + अच् ।) अधोमुख-

शायी । अवनतो मूर्द्धा अस्येत्यवमूर्द्धः । तथाविधः
शेते इत्यवमूर्द्धशयः ॥ (“उत्तानशया देवा अव-
मूर्द्धशया मनुष्याः” इत्युक्तं ।)

अवमूर्द्धशायी, [न्] त्रि, (अवमूर्द्ध + शी + णिनि ।)

अधोमुखशायी । अवमूर्द्धं यथा स्यात् तथा
शयितुं शीलमस्य इत्यर्थे णिन् प्रत्ययेन निष्पन्नः ॥

अवयवः, पुं, (अवयौति इति यु मिश्रणे + पचाद्यच् ।)

अङ्गं । इत्यमरः ॥
(“स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलं” ।
इति अमरुशतके । उपकरणं । अंशः । एकदेशः ।
“तेषामवयवान् सूक्ष्मान् षण्णामप्यमितौजसां” ।
इति मनुसंहितायां । न्यायमते आरम्भकद्रव्यञ्च,
तत् उपादानकारणतया च व्यवह्रियते यदुक्तं, --
“अनित्या तु तदन्या स्यात् सैवावयवयोगिनी” ।
इति भाषापरिच्छेदे । प्रतिज्ञाहेतूदाहरणोप-
नयनिगमान्यनुमानावयवाश्च ।)

अवरः, त्रि, (न व्रियते इति वृञ्वरणे + ग्रहवृ-

द्रिति अप् ।) चरमः । इति मेदिनी । कनिष्ठः ।
अश्रेष्ठः । यथा, --
“श्रीर्नेशेन विना शम्भुः पृथग्विश्वेन तत्पुनः ।
न नाना शम्भुना रामाद्वर्षेणाधोक्षजोऽवरः” ॥
इति मुग्धबोधव्याकरणे वोपदेवः ॥ निकृष्टः ।
यथा, --
“दूरेण ह्यवरं कर्म्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः” ॥
इति श्रीभगवद्गीतायां २ अध्याये ४९ श्लोकः ॥

अवरं, क्ली, (वृ + अप् ततो नञ्समासः ।) गजा-

न्त्यजङ्घादिदेशः । इत्यमरमेदिन्यौ ॥

अवरजः, पुं, (अवर + जन् + ड ।) कनिष्ठभ्राता ।

इत्यमरसिंहः ॥
(“अस्य चावरजं विद्धि भ्रातरं मां तु लक्ष्मणम्” ।
इति रामायणे । हीनवंशजातः ।
“द्वौ शूरावरजौ धीरवित्रपाख्यौ निजाख्यया” ।
इति राजतरङ्गिण्यां ॥ शूद्रः ।
“यदि स्त्री यद्यवरजः श्रेयः किञ्चित् समाचरेत् ।
तत्सर्व्वमाचरेत् युक्तो यत्र वास्य रमेन्मनः” ॥
इति मानवे ।)

अवरतः, [स्] व्य, (अवर + तसिल् ।) अवरस्तात् ।

चरमे । इति सिद्धान्तकौमुदी ॥

अवरतिः, स्त्री, (अव + रम् + क्तिन् ।) विरामः ।

निवृत्तिः । इत्यमरः ॥

अवरवर्णः, पुं, स्त्री, (अवरश्चासौ वर्णश्चेति, कर्म्म-

धारयः ।) शूद्रः । इत्यमरः ॥

अवरवर्णकः, पुं, स्त्री, (अवरवर्ण + कन् स्वार्थे ।) चतुर्थ-

वर्णः । शूद्रः । इति रत्नावली ॥

अवरव्रतः, पुं, (नास्ति वरं यस्मात् तत् अवरं अत्यन्त-

श्रेष्ठं व्रतं यस्य ।) सूर्य्यः । इति त्रिकाण्डशेषः ॥

अवरस्तात्, व्य, (अवर + प्रथमाद्यर्थे दिक्छन्दोभ्य-

इति अस्तातिः ।) अवरतः । पश्चात् । इति
सिद्धान्तकौमुदी ॥

अवरा, स्त्री, (नास्ति वरा श्रेष्ठा यस्याः । अवर +

टाप् ।) दुर्गा । इति विश्वः ॥

अवरार्द्ध्यः, त्रि, (अवरार्द्धे भवः इति अवरार्द्ध यत् ।)

अवरार्द्धभवः । शेषार्द्धजातः । इति केचित् ॥

अवरीणं, त्रि, (अवरीयते स्म इति अव + रीङ् स्ववणे

क्त ।) धिक्कृतं । तिरस्कृतं । निन्दितं । इत्यमरः ॥

अवरोधः, पुं, (अव + रुध् + भावे घञ् ।) तिरो-

धानं । (आधारे घञ् ।) राजस्त्रीगृहं । राजगृहं ।
इति विश्वहेमचन्द्रौ ॥
(“आपानभूमिगमनमवरोधस्य दर्शनम्” ।
इति रामायणे ।) राजदाराः । इति मेदिनी ॥
(“यस्यावरोधस्तनचन्दनानां
प्रक्षालनाद्वारिविहारकाले ।
कलिन्दकन्या मथुराङ्गतापि
गङ्गोर्म्मिसंसक्तजलेव भाति” ॥
इति रघुवंशे । निरोधः । बाधा । अन्तरायः ।
आच्छादनं । केदारादिवेष्टनं ।)

अवरोधकः, त्रि, (अव + रुध + ण्वुल् ।) अवरोध-

कारकः । अवरोधकर्त्ता । अवपूर्ब्बकरुधधातोः
णकप्रत्ययेन निष्पन्नः ॥
(“सुधन्वा वीर्य्यवान् राजा मिथिलामवरोधकः” ।
इति रामायणे ।)

अवरोधनं, क्ली, (अवरुध्यते अत्र रुध आवरणे

कर्म्मणि ल्युट् ।) राज्ञामन्तःपुरं । इत्यमरसिंहः ॥
(अव + रुध् + ल्युट् भावे ।) रोधकरणं । यथा, --
“कृष्ण त्वदीय-पद-पङ्कज-पञ्जरान्ते
अद्यैव मे विशतु मानस-राजहंसः ।
प्राणप्रयाणसमये कफबातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते” ॥
इति पाण्डवगीता ॥

अवरोधिकः, पुं, (अवरोध + तत्र नियुक्त इति ठक् ।

संज्ञापूर्ब्बकत्वात् वृद्ध्यभावः । अवरोधः निवास-
त्वेन अस्ति अस्य वा ठन् ।) राजान्तःपुराध्यक्षः ।
इति हेमचन्द्रः ॥

अवरोहः, पुं, (अव + रुह् + भावे घञ् ।) अवतरणं ।

आरोहणं । (कर्त्तरि संज्ञायां घञ् ।) लतोद्गमः ।
इति मेदिनी ॥ वृक्षमूलादग्रपर्य्यन्तं गता लता ।
शाखाशिफा । इत्यमरः । वोया नामना इति
भाषा ॥
(“सुदूरमथ गत्वा तौ भ्रातरौ रामलक्ष्मणौ ।
अवरोहशताकीर्णं वटमासाद्य तस्थतुः” ॥
इति रामायणे ।) स्वर्गः । इति त्रिकाण्डशेषः ॥

अवरोहशाखी, [न्] पुं, (अवरोहति अधोगच्छति

मूलमस्याः तादृशी या शाखा सा विद्यते अस्य
मत्वर्थीय इनिः ।) प्लक्षवृक्षः । इति राज-
निर्घण्टः ॥ (प्लक्षशब्देऽस्य गुणाज्ञेयाः ॥)

अवरोहिका, स्त्री, (अवरोहति अधोगच्छति अव

+ रुह + ण्वुल् + टाप् अत इत्वं ।) अश्वगन्धा-
लता । इति राजनिर्घण्टः ॥

अवरोही, [न्] पुं, (अव + रुह + णिनि ।) वट-

वृक्षः । इति राजनिर्घण्टः ॥ (वटशब्देऽस्य गुणा-
दयो ज्ञातव्याः ।)

अवर्णः, पुं, (वर्ण्यते प्रशस्यते अनेन इति वर्णः ततो

विरोधे नञ्समासः ।) निन्दा । परीवादः । इत्य-
मरसिंहः ॥
(“सोढुं न तत्पूर्ब्बमवर्णमीशे
आलानिकं स्थाणुमिव द्विपेन्द्रः” ।
इति रघुवंशे ।)

अवलग्नः, पुं, क्ली, (अवलग्यते इति अव + लग + क्त ।

इडभावः । लस्ज + क्त, वा ।) मध्यदेशः । इत्य-
मरः ॥ माजा इति भाषा । (“विपुलतरोन्मुख-
लोचनावलग्नम्” । इति माघः ।)

अवलग्नः, त्रि, (अव + लग + क्त ।) संलग्नः । संयुक्तः ।

इति मेदिनी ॥

अवलम्बः, पुं, (अव + लवि + अच् ।) अवलम्बनं ।

अवपूर्ब्बलम्बधातोरल्प्रत्ययेन निष्पन्नः ॥ (आश्रयः ।)

अवलम्बनं, क्ली, (अव + लवि + आधारे ल्युट् ।)

आश्रयः । यथा, --
“प्रतिकूलतामुपगते हि विधौ
विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्त्तुरभू-
न्नपतिष्यतः करसहस्रमपि” ॥
इति माघे ९ सर्गः ॥

अवलम्बितं, त्रि, (अव + लवि + क्त ।) अविलम्बितं ।

शीघ्रं । इति जटाधरः ॥ अधोलम्बायमानं ।
कृतावलम्बनं । आश्रितं ॥

अवलक्षः, पुं, (अवलक्ष्यते इति अव + लक्ष + घञ् ।)

वलक्षः । श्वेतवर्णः । (अर्श आदित्वात् अच् ।)
तद्वति त्रि । इत्यमरटीकायां स्वामी ॥

अवलिप्तः, त्रि, (अव + लिप् + क्त ।) धनादिगर्ब्बितः ।

यथा, --
“न संवसेच्च पतितैर्न चाण्डालैर्न पुक्कशैः ।
न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावशायिभिः” ॥
इति भानवे ४ अध्याये ७९ श्लोकः । अवलिप्ता
धनादिगर्ब्बिता इति कुल्लूकभट्टः ॥
“अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः” ।
पृष्ठ १/१२८
:इति देवीमाहात्म्यम् ॥

अवलिप्तता, स्त्री, (अवलिप्त + तल् भावे ।) अह-

ङ्कारः । इति हेमचन्द्रः ॥ (“तेजस्विन्यवलिप्तता
मुखरता वक्तर्य्यशक्तिः स्थिरे” । इति नीतिशतके ।)

अवलीढं, त्रि, (अव + लिह + क्त कर्म्मणि ।) भक्षितं ।

यथा मनुः, --
“पतत्रिणावलीढञ्च शुना संस्पृष्टमेव च” ।
इत्यादि । “पतत्रिणावलीढं काकादिना भक्षितं” ।
इत्याह्निकतत्वम् ॥

अवलीला, स्त्री, (अवरा लीला ।) हेला । अनायासः ।

यथा, --
“रतिज्ञं नूतनं प्राप्य विषतुल्यं पुरातनं !
कान्तं दृष्ट्वा हिनस्त्येव सोपायेनावलीलया” ॥
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २३ अध्यायः ।
अपिच ।
“शूलञ्च भ्रमणं कृत्वा पपात दानवोपरि ।
चकार भस्मसात्तञ्च सरथञ्चावलीलया” ॥
इति च तत्रैव प्रकृतिखण्डे १८ अध्यायः ॥

अवलुण्ठनं, क्ली, (अव + लुठि + भावे ल्युट् ।) लुण्ठनं ।

लोटा गडागडी इतिभाषा । अवपूर्ब्बकलुठधा-
तोरनट्प्रत्ययेन निष्पन्नं ॥

अवलेपः, पुं, (अव + लिप् + भावे घञ् ।) अहङ्कारः ।

(“दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान्”
इति मेघदूते ।) लेपनं । दूषणं । इति मेदिनी ॥
सङ्गः । इति त्रिकाण्डशेषः ॥

अवलेपनं, क्ली, (अव + लिप् + ल्यट् भावे ।) विले-

पनं । म्रक्षणं । माखा इति भाषा । अवपूर्ब्बक-
लिपधातोरनट् प्रत्ययेन निष्पन्नं ॥

अवलेहः, पुं, (अवलिह्यते क्वाथादेः पुनः पाकात्

घनीभूततया स्वाद्यते इति अव + लिह + कर्म्मणि
घञ् ।) लेह्यौषधं । तस्य लक्षणं पर्य्यायश्च
यथा, --
“क्वाथादेर्यत् पुनः पाकात् घनत्वं सारसक्रिया ।
सोऽवलेहश्चलेहश्च प्राश इत्युच्यते बुधैः” ॥
(“जिह्वालेह्यावलेहिका”) इति च वैद्यकपरि-
भाषा । यथा, --
“कट्फलं पौष्करं शृङ्गी व्योषं यासश्च कारवी ।
श्लक्ष्णचूर्णीकृतं चैतन्मधुना सह लेहयेत् ॥
एषावलेहिका हन्ति सन्निपातं सुदारुणं ।
हिक्कां श्वासञ्च कासञ्च कण्ठरोगञ्च नाशयेत् ॥
एतद्योज्यं कफोद्रेके चूर्णमार्द्रकजै रसैः” ।
तन्त्रान्तरे च उक्तं ।
“अष्टाङ्गं मधुना लिह्यादार्द्रकस्य रसेन वा ।
संमोहं दारुणं हन्यात्तन्द्राकाससमन्वितम्” इति ॥
“सर्व्वेषु सन्निपातेषु न क्षौद्रमवचारयेत् ।
शीतोपचारि क्षौद्रं स्याच्छीतञ्चात्र विरुध्यते” ॥
अयमभिप्रायः । सन्निपातज्वरेषु श्लेष्मनिग्रहार्थं
सर्व्वदा स्वेदो हित उक्तः । तत्राग्निसम्बन्धाद्देह-
स्योष्णता तिष्ठेदेव । उष्णेण मधुना विरोधः ।
उक्तञ्च सुश्रुतेन ।
“उष्णैर्विरुध्यते सर्वं विषाम्ययतया मधु ।
उष्णात्तमुष्णैरुष्णञ्च तन्निहन्ति यथा विषं” इति ॥
शीतोपचारि क्षौद्रमिति । शीतेनोपचारोऽस्या-
स्तीति शीतोपचारि । शीतञ्चात्र सन्निपाते
विरुध्यते । अयमवलेहः प्रायेणोर्द्ध्वजत्रुजरोग-
हरत्वात् सायमुपयुज्यते । यत उक्तं चरकेण ।
“ऊर्द्ध्वजत्रुगदघ्नी या सा सायमवलेहिका ।
अधोरोगहरी या सा भोजनात्प्राक् प्रयुज्यते” ।
पौष्करं पुष्करमूलं तदलाभे कुष्ठं देयं ॥
शृङ्गी कर्कटशृङ्गी ! व्योषं शुण्ठीपिप्पलीमरिचानि
च । यासो यवासः । केचित् यासस्थाने यवानीं
प्रक्षिपन्ति । कारवी मगरेला इति लोके । अष्टा-
ङ्गावलेहिका ॥ * ॥
“स्विन्नमामलकं पिष्ट्वा द्राक्षया सह मेलयेत् ।
विश्वभेषजसंयुक्तं मधुना सह लेहयेत् ॥
तेनास्य शाम्यति श्वासः कासो मूर्च्छारुचिस्तथा” ॥
इत्यवलेहः ॥ * ॥ अन्यत् यथा, --
“पिप्पलीं त्रिफलाञ्चापि समभागां ज्वरी लिहन् ।
मधुना सर्पिषा वापि कासी श्वासी सुखी भवेत् ॥
कट्फलं पौष्करं शृङ्गी कृष्णा च मधुना सह ।
श्वासकाशज्वरहरो लेहोऽयं कफनाशनः” ॥
चातुर्भद्रिका ॥ * ॥
“कट्फलं पौष्करं शृङ्गी यवानी कारवी तथा ।
कटुत्रयञ्च सर्व्वाणि समभागानि चूर्णयेत् ॥
आर्द्रकस्य रसैर्ल्लिह्यान्मधुना वा कफज्वरी ।
कासश्वासारुचिच्छर्द्दिश्लेष्मानिलनिवृत्तये” ॥
अष्टाङ्गावलेहः । इति भावप्रकाशः ॥
(“क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारसक्रिया ।
सोऽवलेहश्च लेहः स्यात् तन्मात्रा स्यात्पलोन्मिता ॥
सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः ।
द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥
सुपक्वे तन्तुमत्त्वं स्यादवलेहेऽप्सुमज्जनं ।
स्थिरत्वं पीड्यते मुद्रा गन्धवर्णरसोद्भवः ॥
दुग्धमिक्षुरसं यूषं पञ्चमूलकषायकं ।
वासाक्वाथं यथायोग्यमनुपानं प्रशस्यते ॥ * ॥
तदुदाहरणं । यथा, --
“कण्टकारीतुलां नीर-द्रोणे पक्त्वा कषायकं ।
पादशेषं गृहीत्वा च तस्मिंश्चूर्णानि दापयेत् ॥
पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः ।
मुस्तं कर्कटशृङ्गी च त्र्यूषणं धन्वयासकं ॥
भार्गी रास्ना शठी चैव शर्करा पलविंशतिः ।
प्रत्येकञ्च पलान्यष्टौ प्रदद्याद्घृततैलयोः ॥
पक्त्वा लेहत्वमानीय शीते मधु पलाष्टकं ।
चतुष्पलं तु गोक्षीर्य्या पिप्पलीनां चतुष्पलं ॥
क्षिप्त्वा निदध्यात् सुदृढे मृन्मये भाजने शुभे ।
लेहोऽयं हन्ति हिक्कार्त्तिश्वासकासानशेषतः ॥ * ॥
कण्टकार्य्यवलेहः ॥ * ॥ इति च शार्ङ्गधरः ॥)

अवलेहनं, क्ली, (अव + लिह् + भावे ल्युट् ।) लेहनं ।

जिह्वाद्वारा स्वादनं । चाटन् इति भाषा । अव-
लेहः । अवपूर्ब्बलिहधातोर्भावेऽनट्प्रत्ययेन निष्पन्नं ॥

अवलोकनं, क्ली, (अव + लुक् + ल्युट् भावे ।) दर्शनं ।

आलोकनं । इति हेमचन्द्रः ॥
(“जलवेलावलोकनकुतूहली” ।
इति नागानन्दे ।)

अवलोकितः, पुं, (अव + लोक + भावे क्त ततो-

ऽस्त्यर्थे अच् ।) लोकनाथः । बुद्धः । इति विश्व-
मेदिन्यौ ॥

अवलोकितं, त्रि, (अव + लोक + कर्म्मणि क्त ।)

निरीक्षितं । दृष्टं । इति विश्वमेदिन्यौ । (भावे
क्त ।) प्रेक्षणक्रियायां, क्ली ॥

अवल्गुजः, पुं, (अवल्गोरशोभनाज्जायते इति अव-

ल्गु + जन् + ड ।) सोमराजी । इत्यमरः ॥ कृष्ण-
वर्णसोमराजी । हाकुच् यस्य प्रसिद्धिः । तस्य
गुणाः । वायु-कफ-कुष्ठ-त्वग्दोष-नाशित्वं । इति
राजवल्लभः । अस्य विवरणं वाकुची शब्दे
द्रष्टव्यं ॥
(“अवल्गुजाद्वीजकर्षं पीत्वा कोष्णेण वारिणा ।
भोजनं सर्पिषा कार्य्यं सर्व्वकुष्ठप्रणाशनम्” ॥
इति वैद्यकचक्रपाणिसङ्ग्रहः ॥)

अववादः, पुं, (अव + वद् + घञ् ।) आज्ञा । निन्दा ।

विश्वासः । इति मेदिनी ॥
अवशः, त्रि, (न विद्यते वशमायत्तत्वं यस्य ।)
अवशीभूतः । विवशः ।
यथा, --
“श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यञ्च क्रिया कार्य्या विधानतः” ॥
इति शुद्धितत्त्वं ॥ (क्लीं, अवश्यं । निश्चितम् ।)

अवशक्थिकः, त्रि, (अवबद्धे शक्थिनी येन ।)

वस्त्रादिद्वारा पृष्ठजानुजङ्घाद्वयदृढबन्धनपूर्ब्बको-
पविष्टः । फाँडबान्धिया वसा इति भाषा । यथा ।
कात्यायनः ।
“आसनारूढपादस्तु जानुनोर्ज्जङ्घयोस्तथा ।
कृतावशक्थिको यस्तु प्रौढपादः स उच्यते” ॥
आसनारूढपादः आसनारूढपादतलः । जानु-
नोर्ज्जङ्घयोः कृतावशक्थिको वस्त्रादिना कृतपृष्ठ-
जानुजङ्घाबन्धः । इत्याह्निकतत्त्वं ॥

अवशिष्टः, त्रि, (अवशिष्यते इति अब + शिष +

क्त ।) शेषः । उद्वर्त्तः । अवशेषाश्रयः । यथा, --
“बल्मीकमूषिकोत्खातां मदमन्तर्ज्जलां तथा ।
शौचावशिष्टां गेहाच्च नादद्यात् लेपमम्भवां” ॥
इत्याह्निकतत्त्वं ॥

अवश्यं, व्य, (न वश्यं ।) निश्चयः । तत्पर्य्यायः । नूनं २ ।

निश्चितं ३ । इत्यमरः ॥
(“अवश्यं याति तिर्य्यक्त्वं जग्ध्वा चैवाहुतं हविः” ।
इति मनुः ॥) (न + वश + यत् ।) अनायत्ते त्रि ॥

अवश्ययः, स्त्री, (अव + श्यै + ण । पृषोदरादित्वात्

ह्रस्वः ।) कुज्झटिका । इति शब्दरत्नावली ॥
(कुज्झटिकाशब्देऽस्य विशेषो ज्ञेयः ।)

अवश्यायः, पुं, (अवश्यायते शैत्यमापद्यते इति श्यैङ्

गतौ + श्याद्व्यधेति णः । ततो आतो युगिति
युक् ।) हिमं । इत्यमरः ॥
(“अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला” ।
इति रामायणे ।) गर्व्वः । इति विश्वप्रकाशः ।

अवष्कयणी, स्त्री, वष्कयनी । चिरप्रसूता गौः । इत्य-

मरटीकायां सारसुन्दरी ॥

अवष्टब्धं, त्रि, (अवष्टभ्यते स्म, ष्टभि स्तम्भे स्तम्भु-

पृष्ठ १/१२९
:रोधने वा क्तः । स्तम्भेः अवाच्चेति षः । अवा-
च्चालम्बन इति सूत्रेण आविदूर्य्ये स्तम्भेः षत्व-
विधानादवष्टब्धशब्द आसन्नपर इति अद्यश्वीना-
वष्टब्धे इत्यत्र मनोरमायां स्थितं ।) अविदूरः ।
समीपं । अवलम्बितं । आश्रितं । इत्यमरः ॥ बद्धः ।
रुद्धः । इति भरतः ॥ आक्रान्तः । इति मेदिनी ॥

अवष्टम्भः, पुं, (अव + ष्टम्भ रोधे इति + घञ् ।

षत्वञ्च ।) स्वर्णं ।
(“रघोरवष्टम्भमयेन पत्रिणा
हृदि क्षतो गोत्रभिदप्यमर्षणः” ।
इति रघुवंशे ।) स्तम्भः । प्रारम्भः । इति मेदिनी ॥
सौष्ठवं । इति हलायुधः ॥ (अवलम्बनं । बोधनम् ।
निष्पन्दता ।)

अवष्वाणं, क्ली, (अव + स्वन्शब्दे + घञ् । षत्वञ्च ।)

भक्षणं । इति हेमचन्द्रः ॥

अवस्, ब्य, (अवर + पूर्ब्बाधरावराणामित्यसि-

प्रत्ययः, तत्सन्नियोगेन अवरस्य अवादेशश्च ।)
ब्यतिरेकः । इति केचित् ॥

अवसः, पुं, (अव रक्षणादौ अवति इति अत्त्यवि-

चमीत्यादिना असच् प्रत्ययः ।) राजा । सूर्य्यः ।
इति सिद्धान्तकौमुदी ॥

अवसं, क्ली, (अव + असिच् भावे ।) रक्षणं । वैदिक-

शब्दोऽयं ॥

अवसक्थिका, स्त्री, (अवबद्धे सक्थिनी यया बन्ध-

प्रणाल्या सा, अव + सक्थि + समासे कप् ।) खट्टा ।
तत्पर्य्यायः । पर्य्यस्तिका २ परिकरः ३ पर्य्यङ्कः ४ ।
इति हेमचन्द्रः ॥ (पर्य्यङ्कबन्धः । वस्त्रादिद्वारा पृष्ठ-
जानु-जङ्घा-द्वयदृढबन्धनपूर्ब्बकोपवेशनं । यथा, --
“आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा ।
कृतावसक्थिको यस्तु प्रौढपादः स उच्यते” ॥
इति कात्यायनः ।
“शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च” ॥
इति मनुः ।)

अवसथः, पुं, (अव + सो + क्थन् ।) छात्रनिलयः ।

इति हेमचन्द्रः ॥ पाठशाला चौपाडी यस्य
प्रसिद्धिः । ग्रामः । इति शब्दरत्नावली ॥ गृहं ।
इति हलायुधः ॥

अवसथ्यः, पुं, (अवसथ + यत् ।) छात्रवेश्म ।

इति हेमचन्द्रः ॥ चौपाडी इति भाषा ॥

अवसन्नः, त्रि, (अव + सद + क्त ।) अवसादप्राप्तः ।

विषण्णः । यथा, --
“महिम्नः पारन्ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्व्वस्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः” ॥
इति पुष्पदन्तकृतशिवस्तोत्रं । अपि च ।
“आचारेणावसन्नोऽपि पुनः प्रार्थयते यदि” ।
इति व्यवहारतत्त्वं ॥

अवसरः, पुं, (अव + सृ + अच् ।) प्रस्तावः । मन्त्र-

विशेषः । वर्षणं । इति मेदिनी ॥ वत्सरः । क्षणं ।
इति हेमचन्द्रः ॥ अवकाशः । यथा । “गो-
बधे एका चेद्बहुभिरित्युपदेशेन दण्डवत् प्राय-
श्चित्तानि भवन्तीत्यतिदेशानवसरात् । तदवस-
रत्वे प्रत्येकं पूर्णप्रायश्चित्तद्वैगुण्यं स्यात्” । इति
प्रायश्चित्वतत्त्वं ॥ (योग्यकालः । क्रियास्थितियोग्य-
तासम्पादकरूपः कालिकोऽवकाशः । यथा, --
“कामस्तु बाणावसरं समीक्ष्य” । इति कुमारे ।
शिष्यजिज्ञासानिवृत्ताववश्यवक्तव्यरूपः सङ्गति-
विशेषः । अनन्तरवक्तव्यत्वम् अवसरः । “उप-
मानेऽवसरसङ्गतिः” । इति जगदीशः ।)

अवसर्गः, पुं, (अव + सृज् + घञ् ।) स्वेच्छाचारः ।

तत्पर्य्यायः । प्रकाम्यं २ स्वाच्छन्द्यं ३ अनुमननं ४ ।
इति त्रिकाण्डशषः ॥

अवसर्पः, पुं, (अव + सृप् + अच् ।) अपसर्पः । चरः ।

इत्यमरटीकायां भरतः ॥

अवसर्पिणी, स्त्री, (अव + सृप + णिन् ङीप् ।)

जिनानां कालविशेषः । स तु दशकोटिकोटि-
सागरवर्षेण समाप्यते । इति हेमचन्द्रः ॥

अवसव्यं, त्रि, अपसव्यं । दक्षिणं । इति रायमुकुटः ॥

अवसादः, पुं, (अव + सद् + घञ् ।) अवसन्नता ।

तत्पर्य्यायः । विषादः २ सादः ३ विषण्णता ४ ।
इति हेमचन्द्रः ॥ (शेषः । क्षयः । यथा, --
“धैर्य्यावसादेन हृतप्रसादा
वन्यद्विपेनेव निदाघसिन्धुः” ।
इति किरातार्ज्जुनीये ।)

अवसानं, क्ली, (अव + सो + ल्युट् ।) क्रियासमाप्तिः ।

शेषः । तत्पर्य्यायः । सातिः २ । इत्यमरः ॥ विरामः
३ । इति जटाधरः ॥ मृत्युः ।
(“पुंसोऽवसानं व्रजतोऽपि निष्ठुरै-
रिष्टैर्धनैः पञ्चपदीनमुच्यते” ।
इति पञ्चतन्त्रे ।) सीमा । इति हेमचन्द्रः ॥

अवसायः, पुं, (अव + सो + घञ् ।) शेषः । समाप्तिः ।

निश्चयः । इति मेदिनी ॥

अवसितं, त्रि, (अव + सो + क्त ।) परिपक्वमर्दित-

धान्यं । तत्पर्य्यायः । ऋद्धं २ । इति भरतमेदिन्यौ ॥
ज्ञातं । अवसानगतं । समाप्तं । तत्पर्य्यायः । सितः
२ । इत्यमरमेदिन्यौ ॥ (“यदि नेपथ्यविधानम्
अवसितम्” । इति शाकुन्तले ।)

अवसेकिमः, पुं, (अवसेकेन + निर्वृत्तः । अवसेक +

इमन्च ।) वटकः । इति हेमचन्द्रः ॥ वडा इति-
भाषा ॥

अवस्कन्दः, पुं, (अव + स्कन्द + अच् ।) विजिगीषूणां

निवेशस्थानं । शिविरं । इति हलायुधः ॥ अव-
गाहनं । यथा, --
“लतानुपातं कुसुमान्यगृह्णात्
स नद्यवस्कन्दमुपास्पृशच्च ।
कुतूहलाच्चारुशिलोपवेशं
काकुस्थ ईषत् स्मयमान आस्त” ॥
इति भट्टौ २ सर्गे ११ श्लोकः ॥ नद्यामवस्कन्दो-
ऽवगाहो यत्र स्नानक्रियायां । इति तट्टीकायां
भरतः ॥ (आक्रमणं । यथा, --
“अवस्कन्दभयात् राजा प्रजागरकृतश्रमम् ।
दिवासुप्तं समाहन्यान्निद्राव्याकुलसनिकम्” ॥
इति हितोपदेशः ।)

अवस्कन्दनं, क्ली, (अव + स्कन्द + ल्युट् ।) अव-

गाहनं । इति भट्टिः ॥ अवतरणं । इति महा-
भारतं ॥ अवपूर्ब्बस्कन्दधातोरनट्प्रत्ययेन निष्पन्नं ॥

अवस्करः, पुं, (अव कीर्य्यते क्षिप्यते इति । अव +

कॄ + अप् + सुट् ।) विष्ठा । गुह्यं । इत्यमरमेदिन्यौ ॥
संमार्जन्यादिनिक्षिप्तधूल्यादि । इत्यमरटीकायां
मथुरानाथः सारसुन्दरी च ॥

अवस्तात्, व्य, (अवरस्मिन्, अवरस्मात्, अवरमि-

त्यर्थे अस्तातिः ।) अवरे । पश्चात् । शेषे । अन्ते ।
इति पाणिनिः ॥ (“अवस्तात्स्वर्गलोकं प्रापयन्तः” ।
इति शतपथब्राह्मणे ।)

अवस्तारः, पुं, (अव + स्तॄ + घञ् ।) यवनिकादिः ।

कानात् इत्यादि भाषा ॥ अवस्तीर्य्यतेऽनेनेति स्तॄञ
आच्छादने घञ् ॥

अवस्तु, क्ली, (न वस्तु । नञ्तत्पुरुषः ।) असद्वस्तु ।

(यथा, --
“अवस्तुनिर्ब्बन्धपरे कथं नु ते
करोऽयमामुक्तविवाहकौतुकः” ।
इति कुमारे ।) वेदान्तमते अज्ञानादिसकल-
जडसमूहः ॥

अवस्था, स्त्री, (अव + स्था + अङ् ।) दशा । कालि-

कविशेषः । इत्यमरः ॥
“कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावाध ।
कैशोरमापञ्चदशात् यौवनन्तु ततः परं ॥
आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।
वृद्धस्तु सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परं” ॥
इति स्मृतिः ॥

अवस्थाचतुष्टयं, क्ली, (अवस्थायाश्चतुष्टयं । तत्पुरुषः ।)

कालकृतचतुर्विधदशा । यथा । “आपञ्चदशवषं
बाल्यं । आत्रिंशद्वर्षं कौमारं । आपञ्चाशद्वर्षं षौ-
वनं । पञ्चाशत ऊर्द्ध्वं वृद्धत्वं” । इति वैद्यकशास्त्रे ॥

अवस्थानं, क्ली, (अव + स्था + ल्युट् ।) स्थितिः ।

वासः । यथा । “परः सन्निकर्षश्च उपर्य्यधोभावा-
पन्नसमसूत्रपातन्यायेनैकराश्यवच्छेदेन सहाव-
स्थानरूपः” । इति तिथ्यादितत्त्वं ॥ (अवस्था ।
प्रतिष्ठा । यथा, “कीदृक् ते व्यसनावस्थानम्” ।
इति पञ्चतन्त्रं ।
“पद्भ्यां दृढमवस्थानं स कृत्वा कपिकुञ्जरः” ।
इति रामायणं ॥)

अवस्थितः, त्रि, (अव + स्था + क्त ।) कृतावस्थानः ।

अवस्थितिविशिष्टं । स्थितं । यथा ।
“यानेव हत्वा न जिजीविषाम-
स्तेऽवस्थिताः प्रमुखे धार्त्तराष्ट्राः” ।
इति श्रीभगद्गीतायां २ अध्वाये ६ श्लोकः ॥

अवस्थितिः, स्त्री, (अव + स्था + क्तिन् ।) अवस्थानं ।

थाका । इति भाषा । अवपूर्ब्बकस्थाधातोः क्ति-
प्रत्ययेन निष्पन्ना ॥ (अनुसरणम् । अभ्यासः ।)

अवहस्तः, पुं, (अवरं हस्तस्य । एकदेशी तत्पुरुषः ।)

हस्तपृष्ठं । इति हेमचन्द्रः ॥

अवहारः, पुं, (अव + हृ + घञ् ।) चोरः । द्यूत-

युद्धदिविश्रामः । निमन्त्रणं । उपनेतव्यद्रव्यं ।
पृष्ठ १/१३०
:ग्राहनामजलजन्तुः । इति विश्वमेदिन्यौ । धर्म्मा-
न्त रं । इति शब्दरत्नावली ॥ (आह्वानम् । स्वध-
र्म्मपरित्यागपूर्ब्बकधर्म्मान्तरग्रहणम् । प्रत्यर्पणम् ।)

अवहारकः, पुं, (अवहार + स्वार्थेकः ।) जलजन्तुवि-

शेषः । हाङ्गर इति ख्यातः । जलहस्तीति
केचित् । तत्पर्य्यायः । अवग्राहः २ नक्रराजः ३
अवहारः ४ । इति शब्दरत्नावली ॥ युद्धादि-
निवर्त्तके त्रि ।

अवहार्य्यः, त्रि, (अव + हृ + ण्यत् ।) समर्पणीयः ।

यथा, --
“आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः ।
अवहार्य्यौ भवेतां तौ दीर्घकालमवस्थितौ” ॥
इति मानवे ८ अध्याये १४५ श्लोकः ॥ (अर्थ-
दण्डयोग्यः । यथा, --
“अवहार्य्यो भवेच्चैव सान्वयः षट्शतं दमम् ।
निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्विषं” ॥
इति मनुः ।

अवहालिका, स्त्री, (अव + हल् + ण्वुल् + टाप् ।)

प्राचीरं । इति हारावली ॥

अवहितं, त्रि, (अव + धा + क्त ।) विज्ञातं । अव-

धानं गतं । इति धरणी ॥ (सावधानः । प्रमाद-
रहितः । यथा, --
“शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा” ।
इति मार्कण्डेयपुराणम् ॥)

अवहित्था, स्त्री, क्ली, (न वहिस्तिष्ठतीति अवहिः +

स्था + क + टाप् । पृषोदरादित्वात् साधुः ।)
आकारगुप्तिः । रत्यादिसूचकोमुखरागादिरा-
कारः । अङ्गवैकृतमिति वोपालितः ॥ भयलज्जा-
दिना तस्य गोपनं । इत्यमरटीकायां भरतः ॥
(तल्लक्षणं, यथा साहित्यदर्पणे, --
“भयगौरवलज्जादेर्हर्षाद्याकारगुप्तिरवहित्था ।
व्यापारान्तरसक्त्यान्यथाभाषण-विलोकनादि-
करी” ॥ उदाहरणम् । यथा कुमारसम्भवे, --
“एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्ब्बती” ॥
लज्जावशात् कमलदलगणनाव्याजेन हर्षं जुगोप
इत्यर्थः । अनेन अवहित्थाख्यः सञ्चारी भाव उक्तः,
तदुक्तं, --
“अवहित्था तु लज्जादेर्हर्षाद्याकारगोपनं” ।
इति मल्लिनाथः ।)

अवहेलं, क्ली, स्त्री, (अव + हेड् + घञ् डस्य लः,

डलयोरेकत्वस्मरणात् ।) अनादरः अवज्ञा ।
इत्यमरः ॥

अवहेलनं, क्ली, (अव + हेड् + ल्युट् ।) अवहेला

अवमानना । इति शब्दरत्नावली ॥

अवहेलितं, क्ली, (अव + हेड + क्त ।) अनादरः ।

अवहेला । तद्विशिष्टे त्रि ॥ कृतावहेलनवस्तु ।
अवहेलं जातमस्य इत्यर्थे इतप्रत्ययेन निष्पन्नं ॥

अवक्षुतं, क्ली, (अव + क्ष + क्त ।) उपरिकृतक्षुतं ।

यथा मनुः, --
“द्विषदन्नं नगर्य्यन्नं पतितान्नमवक्षुतं” ।
इत्याह्निकतत्त्वं ॥

अवाक्, [च्] त्रि, (नास्ति वाक् यस्य सः ।) वाक्य-

रहितः । इत्यमरः ॥ वोवा इति भाषा । क्विबन्त-
वच्धातोर्नञ्समासेऽयं प्रयोगः ॥ दक्षिणं । अधो
मुखं । एतदर्थयोः अवपूर्ब्बान्चधातोः प्रयोगः ॥

अवाक्पुष्पी, स्त्री, (अवाक् अधोमुखं पुष्पमस्याः)

शतपुष्पा । शलुफा इति ख्याता । मिश्रेया ।
इत्यमररत्नमाले ॥ मौरी इति भाषा । वृक्ष-
विशेषः । हेठाहुली चोरहुली चोरखड्की इति
भाषा । तत्पर्य्यायः । अधःपुष्पी २ मङ्गल्या ३
अमरपुष्पिका ४ । इति रत्नमाला ॥

अवाक्शिराः, [स्] पुं, (अवाक् अवनतं शिरो-

यस्य ।) अधोमुखः । यथा, --
“अवाक्शिरास्तमस्यन्धे किल्विषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्म्मनिश्चये” ॥
इति मानवे ८ अध्याये ९४ श्लोकः ॥
(“इति ब्रुवति रामेतु लक्ष्मणोऽवाक्शिरास्तदा”
इति रामायणम् ॥)

अवाग्रं, त्रि, (अवनतमग्रमस्य ।) नम्रं । अवनतं ।

इत्यमरः ॥

अवाङ्, [न्च] त्रि, (अव + अन्च + क्विप् ।) नीच-

वदनः । वत्पर्य्यायः । अधोमुखः २ अवाङ्मुखः ३
अवाचीनः ४ इत्यमर-जटाधरौ ॥
(“साक्षी दृष्टश्रुतादन्यत् विब्रुवन्नार्य्यसंसदि ।
अवाङ् नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते” ॥
इति मनुः ।)

अवाङ्मुखं, त्रि, (अवाङ्मुखमस्य ।) अधोवदनं । यथा

“तत् श्रुत्वा स बलः स्नेह-हर्ष-दुःख-त्रपाकुलः ।
अवाङ्मुखः प्राप्तकालां तामुवाचाश्रुगद्गदं” ॥
इति कथासरित्सागरे अलङ्कारवतीलम्बके ६३
रङ्गः ॥

अवाची, स्त्री, (अव + अन्च + क्विप् + ङीप् ।

दक्षिणदिक् । इति वोपदेवादयः ॥ अधोदिक् ।
इति व्याडिः ॥ अधोमुखी ॥

अवाचीनं, त्रि, (अवाच्यां भवं । अवाची + ख ।)

दक्षिणदिग्भववस्तु । अधोमुखः । इति स्वामि-
जटाधरौ ॥

अवाच्यं, क्ली, (न + वच + ण्यत् ।) दुर्व्वाक्यं । तत्प-

र्य्यायः । अनक्षरं २ । इत्यमरः ॥ वचनानर्हं । अ-
नक्षरं गालि प्रभृति इति मधुः । निन्दितान्य-
क्षराणि अत्र अनक्षरं अव्ययानामनेकार्थत्वात्
नञ् निन्दायां । एवमवाच्यं वक्तुमयोग्यं वच्लौ
वाचि हसृष्वासोरिति घ्यण भुजवचेति क-
निषेधः ॥ इति भरतः ॥
(“वाच्यावाच्ये हि कुपितो न विजानाति कर्हिचित्” ।
इति भारते ।
“अवाच्यं वदतो जिह्वा कथं न पतिता तव” ।
इति रामायणे ।)

अवाच्यः, त्रि, (अवाच् + भवार्थे यत् ।) अनिन्दितः ।

इति स्मृतिः ॥ अवक्तव्यः । वचनानर्हः । यथा, --
“अनक्षरमवाच्यन्तु वचनार्हं न यद्भवेत् ।
एष बन्ध्यासुतो याति खपुष्पकृतशेखरः ॥
मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्द्धरः” ।
इति शब्दरत्नावली ॥ (अवरदेशकालादौ भवः ।)

अवाच्यदेशः, पुं, (अवाच्यो देशः ।) योनिः । इति

त्रिकाण्डशेषः ॥

अवादी, [न्] त्रि, (वद + णिन् । न वादी । नञ्-

तत्पुरुषः ।) अविरोधी । अविवादी । अवक्ता ।
अवदनशीलः । वदधातोर्णिन् प्रत्ययानन्तरं नञ्-
समासनिष्पन्नः ॥

अवाधं, त्रि, (नास्ति वाधा यस्मिन् ।) वाधाशून्यं ।

अनर्गलं । तत्पर्य्यायः । निरर्गलं २ । इत्यमरः ॥

अवाध्यः, त्रि, वाधानर्हः । वाधायोग्यः । अवाधनीयः ।

अवाधितव्यः । न वाध्यः अवाध्य इति नञ्-
समासनिष्पन्नः ॥

अवानं, त्रि, (अव + अन् + अच् ।) शुष्कफलादि ।

इति शब्दरत्नावली ॥
(“अवानमशुकादष्टमेकमाम्रफलं किल” ।
इति भारते ।)

अवान्तरं, त्रि, (अवगतमन्तरं मध्यम् । प्रादिस-

मासः ।) प्रधानान्तःपाति । इयं फलश्रतिर्न श्रेयः-
परमपुरुषार्थसाधनपरा न भवति । किन्तु वहि-
र्मुखानां मोक्षविवक्षया अवान्तरकर्म्मफलैः कर्मसु
रुच्युत्पादनमात्रं । यथा भैषज्ये औषधे रुच्युत्पादनं ।
यथा, --
“पिब निम्बं प्रदास्यामि खलु ते खण्डलड्डुकान् ।
पित्रैवमुक्तः पिबति तिक्तमप्यतिबालकः” ॥
“अत्र तिक्तनिम्बादिपानस्य न खलु खण्डादिलाभ-
एव प्रयोजनं किन्त्वारोग्यं तथा वेदोऽप्यवान्तर-
फलैः प्रलोभयन् मोक्षायैव कर्म्माणि विधत्ते”
इति मलमासतत्त्वं ॥

अवापितधान्यं, त्रि, (अवापितं अकृतवपनं धान्यम् ।)

अकृतवपनधान्यं । रोपितधान्यं । रोयाधान इति
भाषा । तत् वापितधान्यापेक्षया किञ्चिद्धीनगुणं ।
इति राजवल्लभः ॥

अवारं, क्ली, (अव + ऋ + घञ् ।) अर्व्वाक्तटं ।

नद्यादेः । पूर्ब्बतीरं । इत्यमरः ॥ एपार इति भाषा ।

अवारपारः, पुं, (अवारं अर्व्वाक्तीरं पारं उत्तर-

तीरञ्च यस्य ।) समुद्रः । इति हेमचन्द्रः ॥

अवारपारीणः, त्रि, (अवारपारे गच्छतीति । अवा-

रपार + ख ।) पारगः । नद्यादिपारगतव्यक्तिः ।
इति पाणिनिः ॥

अवारिका, स्त्री, (नास्ति वारि यत्र ततः स्वार्थे

कन् + टाप् ।) धन्याकं । धनिया इति भाषा ।
अवरिका च पाठः । इति राजनिर्घण्टः ॥

अवारितं, त्रि, (न वारितं । नञ्समासः ।) अकृत-

वारणं । अनिवारितं । यथा, --
“अवारितद्वारतया तिरश्चा-
मन्तःपुरे तस्य निविश्य राज्ञः ।
गतेषु रम्येष्वधिकं विशेष-
मध्यापयामः परमाणुमध्याः” ॥
इति नैषधे ३ सर्गे ४२ श्लोकः ॥

अवारीणः, त्रि, (अवारं गच्छतीत्याद्यर्थे खः ।) पा-

रगः । नदीपारगतः । इति पाणिनिः ॥

अवार्य्यं, त्रि, (न वार्य्यं । नञ्समासः) अनिवार्य्यं ।

पृष्ठ १/१३१
:अवारणीयं । अवारितव्यं । वारणायोग्यं । यथा, --
“नमस्ते नित्यविलसद्वैष्णवस्वनिकेतन ।
अवार्य्यवीर्य्यवद्रूपं विष्णोर्यत् प्रणमाम्यहं” ॥
इत्युत्कलखण्डे २७ अध्यायः ॥

अवासाः, [स्] त्रि, (नास्ति वासो यस्य ।) वस्त्र-

रहितः । नग्नः । इत्यमरः ॥

अवास्तवं, त्रि, अयथार्थं । भिथ्या । न वास्तवं अवास्त-

वमिति नञ्समासनिष्पन्नं ॥

अवाक्षः, त्रि, परिरक्षकः । अवपूर्ब्बकाक्षधातोरल्-

प्रत्ययेन निष्पन्नः ॥

अविः, पुं, (अव + इन् ।) सूर्य्यः । पर्ब्बतः । मेषः ।

इत्यमरः ॥
(“श्वशूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणां” । इति मनुः ।)
“मूत्राणि हस्तिकरभमहिषीखरवाजिनां ।
गोजावीनां स्त्रियां पुंसां मूत्रवर्ग उदाहृतः” ॥
इति वैद्यकरसेन्द्रसारसंग्रहे ॥)
नाथः । मूषिककम्बलः । इति मेदिनी ॥ प्राचीरं
वायुः । इति दण्डी ॥

अविः, स्त्री, ऋतुमती । इत्यमरः ॥

अविकटः, पुं, (अवीनां मेषाणाम् संघातः । अवि +

कटच् ।) मेषसमूहः । इति संक्षिप्तसारपरि-
शिष्टं ॥ भेडारपाल इति भाषा ।

अविकटः, त्रि, अविशालः । अकरालः । अविस्तारः ।

न विकटः अविकटः इति नञ्समासनिष्पन्नः ॥

अविकं, क्ली, (अवि + क ।) हीरकं । इति राज-

निर्घण्टः ॥ (हीरकशब्देऽस्य गुणादयो ज्ञातव्याः ॥

अविकारी, [न्] त्रि, (न विकारी + नञ्तत्पुण्षः ।)

विकाराजनकः । यथा वृहस्पतिः ।
“कन्दमूलफलैः पुष्पैः शस्तैः शुक्तरसन्तु यत् ।
अविकारि भवेन्मेध्यमभक्ष्यं तद्विकारकृत्” ॥
इत्याह्निकाचारतत्त्वं ॥

अविगन्धिका, स्त्री, (अवेश्छागस्य गन्द इव गन्धो-

ऽस्याः । ततः स्वार्थे कन् ।) अजगन्धावृक्षः । इति
राजनिर्घण्टः ॥

अविगीतं, त्रि, (न विगीतम् । नञ्तत्पुरुषः ।)

अनिन्दितं । यथा । “नापि मङ्गलं सफलमविगीत-
शिष्टाचारविषयत्वाद्दर्शवत्” । इति मङ्गलवाद-
चिन्तामणिः ॥

अविग्नः, पुं, (न विग्नः । तञ्तत्पुरुषः ।) करमर्दक-

वृक्षः । इत्यमरः ॥ पानिआमला इति ख्यातः ।
इति सारसुन्दरी ॥

अविचारः, पुं, (नास्ति विचारो यस्येति ।) अन्यायः ।

अत्याचारः । विचाररहिते त्रि । (विचाराभावः ।)
यथा, --
“अविचारेण सर्व्वाभिरनुष्ठेयन्तु तत् पुनः ।
संसारोत्तारणायालमेतद्वेदविदो विदुः” ॥
इति मत्स्यपुराणं ॥

अविचारितः, त्रि, (न विचारितः । नञ्तत्पुरुषः ।)

अकृतविचारः । अविवेचितः । अविचारशब्दादि-
तप्रत्ययेन निष्पन्नः ॥ (“अतः सर्व्वथाऽविचारितं
कर्म्मन कर्त्तव्यम्” । इति पञ्चतन्त्रम् । अवि-
वेचितं मम्यग्विवेचनं विना । यथा, --
“स किं भृत्यः स किं मन्त्री य आदावेव भूपतिम् ।
युद्धोद्योगं स्वभूत्यागं निर्दिशत्यविचारितम्” ॥
इति हितोपदेशः ।)

अविच्छिन्नं, क्ली, (न विच्छिन्नं, नञ्तत् ।) विच्छेदा-

भाववत् । अनिष्पत्तिमत् । यथा, --
“अविच्छिन्ने कथम्भावे यत् प्रधानस्य पठ्यते ।
अविज्ञातफलं कर्म्म तस्य प्रकरणाङ्गता” ॥
इति मलमासतत्त्वम् ॥

अविज्ञः, त्रि, (न विज्ञः । नञ्तत्पुरुषः ।) अप्रवीणः ।

अनिपुणः । अनभिज्ञः । अशिक्षितः । अकृती ।
यथा, --
एते सर्व्वे गुणाः कान्त सन्ति कान्ते त्वयि ध्रुवं ।
त्वां न वाञ्छन्ति याः कान्तास्ता अविज्ञाश्च वञ्चिताः”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २३ अध्यायः ॥

अविज्ञेयं, त्रि, (न विज्ञेयं । नञतत्पुरुषः ।) दुर्ज्ञेयं ।

यथा, --
“आसीदिदं तमोभूतमप्रज्ञातमलक्षणं ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्व्वतः” ॥
इति मानवे १ अध्यायः ॥

अविडीनं, क्ली, (न विडीनम् । नञ्तत्पुरुषः ।)

पक्षिणां आभिमुख्याभिगमनं । इति महाभारतं ॥

अवितं, त्रि, (अव + क्त ।) त्रातं । रक्षितं । इत्यमरः ॥

अवितथं, क्ली, (न वितथम् । नञ्तत्पुरुषः ।)

सत्यं । (“अवितथमाह प्रियंवदा” । इति शाकु-
न्तले ।) तद्विशिष्टे त्रि । इति रत्नावली ॥
(सार्थकं । यथा, -- “वत्स ! अवितथैषा तव
भारती भवतु” । इति नागानन्दे ।)

अवित्यजः, पुं, क्ली, (न विशेषेण त्यज्यते रसायना-

दिषु इति । न + वि + त्यज + क ।) पारदः ।
इति राजनिर्घण्टः ॥

अविदूसं, क्ली, (अवेर्मेषस्य दुग्धम् । अवेः दुग्धे

सोढदूसमरीसचः, इति दूसप्रत्ययः ।) मेषदुग्धं ।
इति हेमचन्द्रः ॥ (मेषदुग्धविवरणेऽस्य विशेषो
ज्ञेयः ॥)

अविद्धकर्णा, स्त्री, अम्बष्ठा । आकनादि इति

ख्याता । इति भृङ्गराजः । इत्यमरटीकायां भरतः ॥

अविद्धकर्णी, स्त्री, (न विद्धः पर्णरूपः कर्णो यस्याः ।)

विद्धकर्णीलता । इति भरतः ॥ (माचिकाशब्दे-
ऽम्बष्ठकीशब्दे चास्या गुणादयो ज्ञातव्याः ॥)

अविद्यः, त्रि, (नास्ति विद्या यस्य सः ।) विद्यारहितः ।

अविद्वान् । विद्याहीनः । यथा, --
“अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः” ।
अपि च । कात्यायनः ।
“नाविद्यानान्तु वैद्येन देयं विद्याधनात् क्वचित्” ॥
इति दायतत्त्वं ॥ अन्यच्च ।
“अविद्यानान्तु सर्वेषामीहातश्चेद्धनं भवेत् ।
समस्तत्र विभागः स्यादपित्र्य इति धारणा” ॥
इति मानवे ९ अध्याये २०५ श्लोकः ॥

अविद्यमानः, त्रि, (न विद्यमानः । नञ्तत्पुरुषः ।)

अवर्त्तमानः । सत्तारहितः । अभावः । यथा
नारदः, --
“अविद्यमाने पित्रर्थे स्वांशादुद्धृत्य वा पुनः ।
अवश्यकार्य्याः संस्कारा भ्रातृभिः पूर्ब्बसंस्कृतैः” ॥
इति दायतत्त्वं ॥

अविद्या, स्त्री, (न विद्या । नञ्तत्पुरुषः ।) अ-

ज्ञानं । इत्यमरः ॥ माया । इति वेदान्ते ॥ (अह-
ङ्कारहेतुकमज्ञानं, मिथ्याज्ञानं, विद्याविरोधिनी,
अयथार्थबुद्धिः । यदुक्तम्, --
“अविद्याया अविद्यात्वमिदमेव तु लक्षणम् ।
यत्प्रमाणासहिष्णुत्वमन्यथा वस्तु सा भवेत्” ॥
अन्यच्च,
“सेयं भ्रान्तिर्निरालम्बा सर्व्वन्यायविरोधिनी ।
सहते न विचारं सा तमो यद्वद्दिवाकरम्” ।
अव्यक्तमहदहङ्कार पञ्चतन्मात्रेष्वनात्मस्वात्मबुद्धिः ।
यथा, -- “शरीरे मनुष्योऽहमित्यादि” । इयञ्च
सर्वक्लेशमूलभूता तम इत्युच्यते ।
“अविरोधितया कर्म्म नाऽविद्यां विनिवर्त्तयेत् ।
विद्याविद्यां निहन्त्येव तेजस्तिमिरसंघवत्” ॥
इति आत्मबोधः ।)

अविधिः, पुं, (न विधिः । नञ्तंत्पुरुषः ।) अवि-

धानं । शास्त्राविहितं । यथा, --
“येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्ब्बकं” ॥
इति श्रीभगवद्गीतायां ९ अध्याये २३ श्लोकः ॥
अपि च याज्ञवल्क्यः ।
“वसेत् स नरके घोरे दिनानि पशुरोमभिः ।
अमितानि दुराचारो यो हन्त्यविधिना पशून्” ॥
इत्याह्निकतत्त्वं ॥

अविनः, पुं, (अव + इनच् ।) यष्टा । यागकर्त्ता ।

इत्युणादिकोषः ॥

अविनयः, पुं, (न विनयः । नञ्तत्पुरुषः ।) विनया-

भावः । यथा, --
“बहवोऽविनयान्नष्टा राजानः सपरिच्छदाः ।
वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥
वेणो विनष्टोऽविनयान्नहुषश्चैव पार्थिवः ।
सुदासो यवनश्चैव सुमुखो निमिरेव च” ॥
इति मानवे ७ अध्याये ४०।४१ श्लोकौ ॥ (अशि-
ष्टाचारः । यथा, --
“अयमाचारत्यविनयं मुग्धासु तपस्विकन्यकासु” ।
इति शाकुन्तले ।) अविनीते त्रि ॥

अविनाभावः, पुं, (विना व्यापकं विना न भावः

स्थिंतिः ।) व्याप्तिः । व्याप्यनिष्ठव्यापकनिरूपित-
धर्म्मः । यथा, -- “वह्निमान् धूमात्” इत्यादौ
धूमनिष्ठा वह्निनिरूपिता व्याप्तिः ॥ इति न्याय-
मीमांसयोर्मतं ॥ तत्पंदार्थे तत्पदार्थाभाववद्वृत्ति-
त्वाभावः । यथा । केयमाकाङ्क्षा न तावदविना-
भावः । नीलं सरोजमित्यादौ तदभावात् । विमलं
जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या
अविनाभावात् कच्छे साकाङ्क्षतापत्तेश्च । इत्या-
काङ्क्षाचिन्तामणिः । अविनाभाव इति । तत्पदा-
र्थेन विना यो भावः सत्त्वं तदभाव इत्यर्थः ।
तत्पदार्थे तत्पदार्थाभाववद्वृत्तित्वाभावस्तत्पदार्थ
तत्पदार्थाकाङ्क्षा इति भावः । इति तट्टीका
माथुरी ॥
पृष्ठ १/१३२

अविनीतः, त्रि, (न विनीतः । नञ्तत्पुरुषः ।)

विनयरहितव्यक्तिः । तत्पर्य्यायः । समुद्धतः २ ।
इत्यमरः ॥ (यथा, --
“न चापि प्रतिकूलेन नाविनीतेन रावण ! ।
राज्यं पालयितुं शक्यं राज्ञा तीक्ष्णेन वा पुनः” ॥
इति रामायणे । अनियमितः । यथा, --
“नाविनीतैर्व्रजेद्धूर्य्ये न च क्षुद्व्याधिपीडितैः” ॥
इति मनुः ।)

अविनीता, स्त्री, (न विनीता । नञ्तत्पुरुषः ।)

पुंश्चली । असती । इति हेमचन्द्रः ॥

अविपटः, पुं, (अवि + पटच् ।) अवीनां विस्तारः

इति संक्षिप्तसारव्याकरणपरिशिष्टं । कम्बलादिः ॥

अविप्रियः, पुं, (अवि + प्री + क ।) श्यामाकतृणं ।

इति राजनिर्घण्टः ॥ (यदा न विप्रिय इत्येवं स्यात्
तदा इष्टः ।)

अविप्रिया, स्त्री, (अवीनां मेषादीनां प्रिया ।) श्वेता-

लता । इति राजनिर्घण्टः ॥

अविभक्तः, त्रि, (न विभक्तः । नञ्तत्पुरुषः ।) अपृ-

थक् । यथा कृत्यचिन्तामणौ ।
“विभक्ता अविभक्ता वा कुर्य्युः श्राद्धमदैविकं ।
मघासु च तथान्यत्र नाधिकारः पृथग्विना” ॥
इति मलमासतत्त्वं ॥

अविभाज्यं, त्रि, (न विभाज्यम् । नञ्तत्पुरुषः ।)

विभागायोग्यं । अथ विभाज्याविभाज्ये । तत्र
व्यासः ।
“अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद्धनं ।
दायादेभ्यो न तद्दद्यात् विद्यालब्धञ्च यद्भवेत्” ॥ * ॥
विद्याधनमाह कात्यायनः ।
“उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्ब्बकं ।
विद्याधनन्तु तद्विद्यात् विभागे न नियोजयेत् ॥
शिष्यादार्त्विज्यतः प्रश्नात् सन्दिग्धप्रश्ननिर्णयात् ।
स्वज्ञानसंशनाद्वादाल्लब्धं प्राध्ययनात्तु यत् ॥
विद्याधनन्तु तत्प्राहुर्विभागे न प्रयोजयेत् ।
शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकं भवेत् ॥
परं निरस्य यल्लब्धं विद्यया धूतपूर्ब्बकं ।
विद्याधनन्तु तद्विद्यात् न विभाज्यं वृहस्पतिः” ॥ * ॥
यदि भवान् भद्रमुपन्यस्यति तदा भवत एव
मयैतद्देयमिति पणितं यत्रोपन्यासं निस्तीर्य्य
लभते तन्न विभाज्यं । शिष्यादध्यापितात् । आ-
र्त्विज्यतः यजमानाद्दक्षिणया लब्धधनं न प्रति-
ग्रहलब्धं वेतनरूपत्वात्तस्य । तथा यत्किञ्चिद्विद्या-
प्रश्ने निस्तीर्णेऽपणितं यदि कश्चित् परितोषा-
दृदाति । तथा योऽस्मिन् शास्त्रार्थे अस्माकं
संशयमपनयति तस्मै धनमिदं ददानीत्युपस्थितस्य
संशयमपनीय यल्लब्धं । वादिनोर्व्वा सन्देहे
न्यायकरणार्थमागतयोः सम्यङ्निरूपणेन यल्लब्धं
षष्ठांशादिकं तथा शास्त्रादिप्रकृष्टज्ञानं सम्भाव्य
यत् प्रतिग्रहादिना लब्धं । तथा शास्त्रज्ञानवि-
वादे अन्यत्रापि यत्र कुत्रचिदन्योन्यज्ञानविवादे
निर्ज्जित्य यल्लब्धं । तथैकस्मिन् देये बहूनामुप-
प्लवे येन प्रहृष्टात् यल्लब्धं । तथा शिल्पादिविद्यया
चित्रकरसुवर्णकारादिभिर्यल्लब्धं । तथा द्यूतेनापि
परं निर्ज्जित्य यल्लब्धं । तत्सर्व्वमविभाज्यमितरैः ।
तस्माद्यया कयाचिद्विद्यया लब्धमर्ज्जकस्यैव तन्नेत-
रेषामिति । प्रदर्शनार्थन्तु कात्यायनेन विस्ता-
रितमिति दायभागः ॥ * ॥ नारदः ।
“कुटुम्बं बिभृयाद्भ्रातुर्यो विद्यामधिगच्छतः ।
भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि सन्” ॥
बिभृयादित्येकवचननिर्देशान्न बहवः । यदि वि-
द्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता स्वधन-
व्ययशरीरायासाम्यां संवर्द्धयति तदा तद्विद्या-
र्ज्जितधने तस्याधिकारः । अश्रुतो मूर्खः । कल्प-
तरुमिताक्षरादीपकलिकासु । कात्यायनः ।
“परभक्तोपयोगेन विद्या प्राप्तान्यतस्त या ।
तया लब्धं धनं यत्तु विद्यालब्धं तदुच्यते” ॥
अन्यतः पितृमातृकुलव्यतिरिक्तात् ॥ * ॥ अत्र
विशेषयति स एव ।
“नाविद्यानान्तु वैद्येन देयं विद्याधनात् क्वचित् ।
समविद्याधिकानान्तु देयं वैद्येन तद्धनं” ॥
तत्रोच्चरितविद्यापदमुमाभ्यां सम्बध्यते तेन सम-
विद्याधिकविद्यानां भागो न तु न्यूनविद्ययोः ।
वैद्येन विदुषा ॥ * ॥ पुनर्व्विशेषयति ।
“कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।
शौर्य्यप्राप्तन्तु यद्वित्तं विभाज्यं तद्वृहस्पतिः” ॥
कुले स्वकुले पितामहपितृव्यादिभ्यः । पितृत एव
वा । शिक्षितविद्यानां भ्रातॄणां । यद्विद्याशौर्य्य-
प्राप्तं धनं तद्विभजनीयमिति कल्पतरुरत्नाकरौ ।
पुनः कात्यायनः ॥
“द्व्यंशहरोऽर्द्धहरो वा पुत्त्रवित्तार्ज्जनात् पिता” ।
पुत्त्रवित्तार्ज्जनात् । कृदभिहितभावो द्रव्यवत्
प्रकाशत इति न्यायात् पुत्त्रार्ज्जितवित्तात् पितु-
र्द्व्यंशित्वं पितृधनानुपघातविषयं भ्रातृधनोपघा-
तविषयञ्च । अर्ज्जकस्य तु द्व्यंशित्वं भ्रातृधनो-
पघाते तु तेषामप्येकांशित्वं वक्ष्यमाणव्यासवच-
नात् । पितुरर्द्धहरत्वन्तु पितृद्रव्योपघाताद्गुण-
वत्त्वाद्वेति दायभागः । अनुपघाते पिता द्व्यंशहरः
अर्ज्जकत्वात् स्वयमपि द्व्यंशहरः इतरेषामनं-
शित्वं । भ्रातृद्रव्योपघाते तु तस्याप्येकांश इति
द्व्यंशार्द्धांशयोर्भेदकथनं ॥ * ॥ पुनः कात्यायनः ।
“गीप्रचारश्च रथ्या च वस्त्रं यच्चाङ्गयोजितं ।
प्रायोज्यं न विभज्येत शिल्पार्थन्तु वृहस्पतिः” ॥
प्रायोज्यं यद्यस्य प्रयोजनार्हं पुस्तकादि न तन्मूर्खा-
दिभिः सह पण्डितादिभिर्व्विभजनीयं एवमेव
दायभागमदनपारिजातादयः । याज्ञवल्क्यः ।
“पितृभ्याञ्चैव यद्दत्तं तत्तस्यैव धनं भवेत्” ।
पुत्त्रदुहित्रोर्यदलङ्कारादि दत्तं तत्तस्यैवेति शूल-
पाण्युपाध्यायाः ॥ नारदः ।
“शौर्य्यभार्य्याधने चोभे यच्च विद्याधनम्भवेत् ।
त्रीण्येतान्यविभाज्यानि प्रसादो यश्च पैतृकः” ॥
प्राप्तञ्च सह भार्य्ययेति भरद्वाजवचनात् भार्य्या-
प्राप्तिकाले लब्धं धनं भार्य्याधनमौद्वाहिकमि-
त्यर्थः । चोभे इत्यत्र हित्वेति पाठे एतत्त्रिकं
हित्वान्यद्विभजेदित्यनुवर्त्तते अत एतान्यविभा-
ज्यानीति । न वास्तविभागो नोदकपात्रालङ्का-
रोपयुक्तस्त्रीवाससामपां प्रचाररथ्यानां विभागश्च
इति प्रजापतिरिति । यस्मिन् वास्तुनि येन गृहो-
द्यानादिकं कृतं अपरेणापि स्थानान्तरे तथा कृत-
ञ्चेत् तदा येन यत् कृतं तत्तस्यैव । अन्यत्रा-
प्येवं ॥ * ॥ साधारणधनार्ज्जितेऽपि विशेषमाह
व्यासः ।
“साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधं ।
शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥
तस्य भागद्वयं देयं शेषास्तु समभागिनः” ।
अत्र भ्रातर इत्युपलक्षणं पितृव्यादयोऽपि बोद्ध-
व्याः । तस्यार्जकस्य । साधारणोपघाते यस्य याव-
तोऽशस्याल्पस्य महतो वा उपघातस्तस्य तद-
नुसारेण भागकल्पना कार्य्येति दायभागः ॥
याज्ञवल्क्यः ।
“क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः ।
दायादेभ्यो न तद्दद्यात् विद्यया लब्धमेव च” ॥
पितृपितामहागतं बलादन्यैर्हृतं योऽंश्यन्तराणा-
मनुज्ञया उद्धरति तदंश्यन्तरेभ्यो न दद्यात् ॥ * ॥
भूमौ तु विशेषयति शङ्खः ।
“पूर्ब्बनष्टाञ्च यो भूमिमेक एवोद्धरेत् श्रमात् ।
यथाभागं भजन्त्यन्ये दत्त्वांशन्तु तूरीयकं” ॥
एतद्वचनं स्मृतिमहार्णवकामधेनुपारिजातप्रभृति-
ष्वलिखनादयुक्तमेवेति रत्नाकरः । तन्न, दायभाग-
मिताक्षराप्रभृतिभिर्धृतत्वात् । इति दायतत्त्वं ॥

अविमरीसं, क्ली, (अवि + मरीसच् । अवेर्दुग्धे

मरीसच्प्रत्ययः ।) मेषदुग्धं । इति हेमचन्द्रः ॥
(“तर्पणाश्चोतनैर्नस्यैरहृद्यन्तूष्णमाविकं” ॥
इति शार्ङ्गधरः ॥)

अविमुक्तं, क्ली, (वि + मुच् + क्त । ततो, न विमुक्तम् ।

नञ् तत्पुरुषः ।) वाराणसीक्षेत्रं । यथा, --
“मुने प्रलयकालेऽपि न तत् क्षेत्रं कदाचन ।
विमुक्तं न शिवाभ्यां यदविमुक्तं ततो विदुः ॥
अविमुक्तं तदारभ्य क्षेत्रमेतदुदीर्य्यते ।
अस्यानन्दवनं नाम पुराऽकारि पिनाकिना ।
क्षेत्रस्यानन्दहेतुत्वादविमुक्तमनन्तरं ॥
आनन्दकन्दवीजानामङ्कुराणि यतस्ततः ।
ज्ञेयानि सर्व्वलिङ्गानि तस्मिन्नानन्दकानने
अविमुक्तमिति ख्यातमासीदित्थं घटोद्भव” ।
इति काशिखण्डे २६ अध्यायः ॥ (मूर्द्धचिवकान्त-
रालस्थाने च । यथा, --
‘एष योऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठितः’
इति । “आमनन्ति चैनं परमेश्वरमस्मिन् मूर्द्ध-
चिवुकान्तराले” । इति च भाष्ये ।)

अविमुक्तः, पुं, (न विमुक्तः । नञ्तत्पुरुषः ।) वारा-

णसीक्षेत्रं । इति काशीखण्डे । अत्यक्ते त्रि ॥

अविरतं, क्ली, (न विरतम् । नञ्तत्पुरुषः ।)

सततं । अनवरतं ।
(“अविरतोज्झितवारिविपाण्डुभि-
र्विरहितैरचिरद्युतितेजसा” ॥
इति किरातार्ज्जुनीये ।) तद्वति त्रि । इत्यमरः ॥

अविरलं, त्रि, (न विरलं । नञ्तत्पुरुषः ।) विरल-

त्वरहितं । तत्पर्य्यायः । निविरीशं २ घनं ३
पृष्ठ १/१३३
:निविडं ४ निरन्तरं ५ सान्द्रं ६ नीरन्ध्रं ७
बहलं ८ दृढं ९ गाढं १० । इति हेमचन्द्रः ॥

अविरोधः, पुं, (न विरोधः । नञ्तत्पुरुषः ।) वि-

रोधाभावः । यथा, --
“श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसी ।
अविरोधे सदा कार्य्यं स्मार्त्तं वैदिकवत् सता” ॥
इति श्राद्धतत्त्वधृतजावालवचनं ॥ अपि च ।
“अपसर्पन्तु ते भूता ये भूता भूमिपालकाः ।
भूतानामविरोधेन पूजाकर्म्म करोम्यहं” ॥
इत्याह्निकतत्त्वं ॥

अविलम्बनं, क्ली, (न विलम्बनम् । नञ्तत्पुरुषः ।)

शीघ्रं । अविलम्बितं । इति रायमुकुटः ॥

अविलम्बितं, क्ली, (वि + लबि + क्त । ततो नञ्तत्-

पुरुषः ।) विलम्बाभावः । तत्पर्य्यायः । शीघ्रं २
त्वरितं ३ लघु ४ क्षिप्रं ५ अरं ६ द्रुतं ७ सत्वरं ८
चपलं ९ तूर्णं १० आशु ११ । इत्यमरः ॥

अविलम्बितः, त्रि, (न विलम्बितः । नञ्समासः ।)

त्वरायुक्तः । तत्पर्य्यायः । उच्चण्डः २ । इत्यमरः ॥
अवलम्बितं ३ । यथा, --
“अविलम्बितमुच्चण्डं केऽप्याहुरवलम्बितं” ।
इति जटाधरः ॥

अविला, स्त्री, (अव + इलच् ।) मेषी । भेडी । इति

हेमचन्द्रः ॥ (नास्ति विलं यत्रेत्यर्थे, त्रि ॥)

अविवादः, पुं, (न विवादः । नञ्तत्पुरुषः ।)

विवादाभावः । यथा, --
“यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः” ॥
इति मानवे ८ अध्याये ९२ श्लोकः ॥

अविवादी, [न्] त्रि, (न विवादी । नञ्तत्पुरुषः ।)

विवादरहितः । निर्व्विवादी । नञ्पूर्ब्बविवाद-
शब्दादिन्प्रत्ययेन निष्पन्नः ॥

अविवाहितः, पुं, स्त्री, (न विवाहितः । नञ्तत्-

पुरुषः ।) अनूढः । अकृतोद्वाहः । अकृतोपयमः ।
अपरिणीतः । अकृतपाणिग्रहः । आइवड इति
भाषा । नञ्पूर्ब्बविवाहशब्दादितप्रत्ययेन निष्पन्नः ॥

अविवाह्या, स्त्री, (न विवाह्या । नञ्तत्पुरुषः ।)

विवाहानर्हा । यथा । सुमन्तुः । “मातृपितृ-
सम्बद्धा आसप्तमादविवाह्याः कन्या भवन्ति” ।
आपञ्चमादन्येषां मतं । नारदोऽपि ।
“आसप्तमात् पञ्चमाच्च बन्धुभ्यः पितृमातृतः ।
अविवाह्या सगोत्रा च समानप्रवरा तथा ॥
सप्तमे पञ्चमे वापि येषां वैवाहिकी क्रिया ।
ते च सन्तानिनः सर्व्वे पतिताः शूद्रतां गताः” ॥ * ॥
सर्व्वाः पितृपत्न्यो मातरस्तद्भ्रातरो मातुलास्तद्-
दुहितरो भगिन्यस्तदपत्यानि भागिनेयानि ता-
श्चाविवाह्याः अन्यथा सङ्करकारिण्यस्तथाध्याप-
यितुरेतदेवेति । ताश्च यथा । पितृपितामहा-
दीनां सप्तानां सन्ततिः सप्तमीपर्य्यन्ता नोद्वाह्या ।
एवं पितृबन्धुप्रभृतिसम्बन्धघटकानां सप्तानां स-
न्ततिः सप्तमीपर्य्यन्ता नोद्वाह्या । एवं मातामह-
प्रमातामहादीनां पञ्चानां सन्ततिः पञ्चमीप-
र्य्यन्ता नोद्वाह्या । एवं मातृबन्धुप्रभृतिसम्बन्ध-
घटकानां पञ्चानां सन्ततिः पञ्चमीपर्य्यन्ता नो-
द्वाह्या । बन्धुतन्मात्रोरसत्वेऽपि पितृमातामह-
मातृमातामहप्रभृत्युपरितनानां पञ्चानां त्रयाणां
सप्तमीपञ्चमीपय्यन्ता नीद्वाह्येति । एवञ्च पितु-
र्म्मातुश्च मातामहकन्यान्तरसत्वे तामादाय सप्त-
मीपञ्चमीपर्य्यन्तायाः परीहारः । एवं बन्ध्वन्तरे-
ऽप्यूह्यं । बन्ध्वपेक्षया त्रिगोत्रगणनं परतः सर्वत्र ।
पूर्ब्बतस्तु पितुर्म्मातुश्च मातुलपुत्त्ररूपबन्धोरपि
स्वापेक्षया अन्येषां बन्धूनां मातामहगोत्रापेक्षया
त्रिगोत्रगणनं सर्वसामञ्जस्यं स्यात् । अन्यथा
पितुः पितामहदौहित्रीकन्यायाः पितामहभगि-
नीपुत्त्रबन्ध्वपेक्षया त्रिगोत्रात् पराया विवाहः
प्रसज्येत स चायुक्तः । पितृगोत्रापेक्षया तस्यास्त्रि-
गोत्रमध्यवर्त्तित्वात् । एवं पितुः प्रमातामहदौ-
हित्रीकन्यायाः पितामहीभगिनीपुत्त्रबन्ध्वपेक्षया
त्रिगोत्रात् पराया विवाहः प्रसज्येत स चाप्य-
युक्तः । पितामहीभ्रातृपुत्त्रबन्ध्वपेक्षया तस्यास्त्रि-
गोत्रमध्यवर्त्तित्वात् । एवं मातुः प्रपिता-
महदौहित्रीकन्याया मातामहभगिनीपुत्त्रबन्ध्वपे-
क्षया त्रिगोत्रात् पराया विवाहः प्रसज्येत स
चायुक्तः । वरस्य मातामहापेक्षया तस्यास्त्रिगोत्र-
मध्यवर्त्तित्वात् । एवं मातुः प्रमातामहदौहित्री-
कन्याया मातामहीभगिनीपुत्त्रबन्ध्वपेक्षया त्रि-
गोत्रात् पराया विवाहः प्रसज्येत स चायुक्तः ।
मातामहीभ्रातृपुत्रबन्ध्वपेक्षया तस्या स्त्रिगोत्र-
मध्यवर्त्तित्वात् । इति । एवं मातृसपत्नीभ्रातृ-
सन्ततिः पितृमातृसगोत्रादयोऽप्यविवाह्याः ॥ * ॥
असवर्णाया अविवाह्यत्वं यथा । कलौ त्वस-
वर्णया अविवाह्यत्वमाह वृहन्नारदीयं ।
“समुद्रयात्रास्वीकारः कमण्डलुविधारणं ।
द्विजानामसवर्णासु कन्यासूपयमस्तथा” ॥
इत्यादि । इत्युद्वाहतत्त्वं ॥

अविवेकः, पुं, (न विवेकः । नञ्तत्पुरुषः । नास्ति

विवेको यस्य इति समासे वाच्यलिङ्गः ।) सद-
सद्विवेचनाराहित्यं । यथा । “देहात्मनोरविवेका-
दस्यैवं शोको भवतीति तद्विवेकप्रदर्शनार्थं श्री-
भगवानुवाच अशोच्यानित्यादि” । इति श्रीभग-
वद्गीता २ अध्यायस्य ११ श्लोकटीका ॥ तद्वति
त्रि ॥ अविमृश्यकारी । यथा, -- (“सहसा विदधीत
न क्रियामविवेकः परमापदाम्पदम्” ॥ इति
किरातार्ज्जुनीये ॥ सदसद्विवेकरहितः । यथा, --
“उत्तमोत्तममप्राप्यमविवेकोऽभिवाञ्छसि” । इति
विष्णुपुराणं ।)

अविवेकी, [न्] त्रि, (न विवेकी । नञ्तत्पुरुषः ।

विवेकशून्यः । अविवेचकः । यथा । “तस्माद-
विवेकिनः सुखमात्रलिप्सवो नात्राधिकारिणः”)
इति मुक्तिवादस्य गादाधरी टीका । अपि च ।
“अस्मिन् प्रसन्ने देवेन्द्रे परमं धाम लभ्यते ।
मयाविवेकिना तस्य हृदये जनिता व्यथा ॥
सर्व्वपापहरो विष्णः स मया व्यथितः कृतः” ।
इति पाद्मे क्रियायोगसारे ११ अध्यायः ॥

अविवेचकः, त्रि, (न विवेचकः । नञतत्परुषः ।)

विवेचनारहितः । अविवेकी । न विवेचकः अवि-
वेचकः इति नञ्समासनिष्पन्नः ॥

अविशेषः, त्रि, (न विशेषः । नञ्तत्पुरुषः ।)

विशेषरहितः । अभेदः । तुल्यः । विशेषाभावे,
पुं ॥ विशेषाभावः । यथा, --
“पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवं ।
अविशेषेण कर्त्तव्यं विशेषान्नरकं व्रजेत्” ॥
इति श्राद्धतत्त्वं ॥ (“सांख्यादिमतसिद्धानि
तन्मात्राख्यानि सूक्ष्मभूतानि, तानि च इदमेतदेवं-
गुणकमिति व्यावृत्ततया नानुभूयन्ते इत्यविशेषाः
सूक्ष्माश्चोच्यन्ते” । तथा च विष्णुपुराणे, --
“तस्मिंस्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रता स्मृता ।
न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः” ॥
इति ।)

अविश्रान्तः, त्रि, विश्रामरहितः । विश्रान्तिशून्यः ।

अनवरते, क्ली । विपूर्ब्बश्रमधातोः क्तप्रत्ययानन्तरं
नञ्समासनिष्पन्नः ॥ (“अविश्रान्तं पत्युर्गुणगण-
कथाम्रेडनजडा” ॥ इति आनन्दलहर्य्याम् ॥)

अविश्रामं, क्ली, (नास्ति विश्रामो यस्मिन् इति ।)

विश्रामराहित्यं । यथा, --
“अविश्रामं वहेत् भारं शीतोष्णञ्च न विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्द्दभात्” ॥
इति चाणक्यं ॥

अविश्वस्तः, त्रि, (न विश्वस्तः । नञ्तत्पुरुषः ।)

विश्वासानर्हः । अकृतविश्वासः । प्रत्ययायोग्यः ।
यथा, --
“न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासात् भयमुत्पन्नं मूलान्यपि निकृन्तति” ॥
इति चाणक्यं ॥
(“विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्” ।
इति भारते ॥)

अविश्वासा, स्त्री, (नास्ति विश्वासो यस्याम् सा ।)

चिरप्रसूता गौः । केलेनगाइ इति भाषा । इति
शब्दचन्द्रिका ॥

अविषः, पुं, (अव + टिषच् ।) समुद्रः । इति कात-

न्त्रीयोणादिवृत्तिः । (राजा । पृथिवी । स्वर्गः ।
रक्षकमात्रे त्रि ।) विषशून्ये त्रि ॥ (यथा, --
“इत्येता अविषा व्याख्याताः” ॥ इति सुश्रुते ॥)

अविषा, स्त्री, (नास्ति विषं यस्याम् ।) निर्विषातृणं ।

इति राजनिर्घण्टः ॥

अविषी, स्त्री, (अविष + ङीप् ।) नदी । इत्युणादि-

वृत्तावुज्जलदत्तः ॥

अविसोढं, क्ली, (अवेर्दुग्धम् । अवि + सोढच् ।)

मेषदुग्धं । इति हेमचन्द्रः ॥

अविस्पष्टं, क्ली, (वि + स्पश + क्त । ततो नञ्-

समासः ।) अस्पष्टवाक्यं । तत्पर्य्यायः । म्लिष्टं २ ।
इत्यमरः ॥
(“नाविस्पष्टमधियीत न शूद्रजनसन्निधौ” ॥
इति मनुः ॥ अस्फुटः । यथा, --
“विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशा-
दविस्पष्टां दृष्टिं तिरयति पुनर्वाष्पसलिलैः” ॥
इति रत्वावल्याम् ॥)
पृष्ठ १/१३४

अवी, स्त्री, (अवत्यात्मानं लज्जया । अव + ई ।)

ऋतुमती । इति हेमचन्द्रः ॥

अवीचिः, पुं, (नास्ति वीचिः प्रकाशः सुखं वा अत्र ।)

नरकविशेषः । इति शब्दरत्नावली ॥
(“अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनञ्चैव तापनञ्चैव विंशकम्” ॥
इति याज्ञवल्क्ये ॥) वाच्यलिङ्गस्तु तरङ्गशून्ये ॥

अवीचिः, पुं, (नास्ति वीचिः सुखं यस्मिन्) नरकवि-

शेषः । यथा । “वैतरणी पूयोदः प्राणरोधो विश-
सनं लालाभक्षः सारमेयादनमवीचिरयःपान-
मिति । य स्त्विह वा अनृतं वदति साक्ष्ये द्रव्य-
विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके
अवीचिमत्यधःशिरा निरवकाशे योजनशतो-
च्छ्रायात् गिरिमूर्द्ध्नः संपात्यते । यत्र जलमिव
स्थलमश्मपृष्ठमभासते तदवीचिमत् तिलशो वि-
शीर्य्यमाणशरीरो न म्रियमाणः पुनरारोपितो
निपतति” । इति श्रीभागवते ५ स्कन्धे २६ अध्यायः ॥

अवीचिमत्, क्ली, (अवीचि + मतुप् ।) नरकभेदः

शेषः । यथा । “वैतरणी पूयोदः प्राणरोधो विश-
सनं लालाभक्षः सारमेयादनमवीचिरयःपान-
मिति । य स्त्विह वा अनृतं वदति साक्ष्ये द्रव्य-
विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके
अवीचिमत्यधःशिरा निरवकाशे योजनशतो-
च्छ्रायात् गिरिमूर्द्ध्नः संपात्यते । यत्र जलमिव
स्थलमश्मपृष्ठमभासते तदवीचिमत् तिलशो वि-
शीर्य्यमाणशरीरो न म्रियमाणः पुनरारोपितो
निपतति” । इति श्रीभागवते ५ स्कन्धे २६ अध्यायः ॥

अवीचिमयः, पुं, (अवीचि + मयट् ।) नरकभेदः ।

“यः साक्ष्यादौ अनृतं वदति स निरवलम्बेऽवीचि-
मये अधःशिरा निपात्यते यत्र” । इति श्रीभाग-
वते ॥

अवीरः, त्रि, (नास्ति वीरो यस्य ।) सत्वरुहितः ।

निर्व्वीर्य्यः । इति मेदिनी ॥

अवीरा, स्त्री, (नास्ति वीरः पुत्त्रादिर्यस्याः ।) अजा-

तापत्यविधवा । इति स्मृतिः । निष्पतिसुता ।
इत्यमरमेदिन्यौ ॥ तदन्नभोजने दोषप्रायश्चित्ते
यथा, --
“यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ।
भगजीवी वार्द्धुषिको विषहीनो यथोरगः” ॥
इति ब्रक्ष्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥ * ॥
अपि च ।
“अवीरान्नञ्च यो भुङ्क्ते योनिजीवी च ब्राह्मणः ।
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेत् ध्रुवं” ॥
इति च तत्रैव २७ अध्यायः ॥ * ॥ विष्णुः । गण-
गणिकास्तेनगायनकान्नानि भुक्त्वा सप्तरात्रं पयसा
वर्त्तेत । अवीरास्त्रीस्वर्णकारसंसर्गपतितानाञ्च ।
इति प्रायश्चित्तविवेकः ॥ * ॥ सामान्येनाभोज्यान्न-
भोजनप्रकरणे मनुः, --
“नाश्रोत्रियहुते यज्ञे ग्रामयाजिहुते तथा” । इत्यादि ।
“अनर्चितं वृथामांसमवीरायाश्च योषितः”
इत्यादिकञ्चोपक्रम्य ।
“भुक्त्वा चान्यतमस्यान्नममत्याक्षपणं त्र्यहं” ।
“मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव” ॥
इति । अवीरा पतिपुत्त्रविहीना निःसम्बन्धिनी ।
स्वसम्बन्धिन्यास्तु श्राद्धादिनाभ्यनुज्ञानात् व्यव-
हारात् धनाधिकाराच्च । इति च प्रायश्चित्त-
विवेकः ॥ * ॥ अस्या धनाधिकारो यथा याज्ञ-
वल्क्यः, --
“पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुतो गोत्रजो बन्धुः शिष्याः सब्रह्मचारिणः ॥
एषामभावे पूर्ब्बस्य धनभागुत्तरोत्तरः ।
स्वर्य्यातस्य ह्यपुत्त्रस्य सर्व्ववर्णेष्वयं विधिः” ॥
तथा विष्णुः । अपुत्त्रस्य धनं पत्न्यभिगामि तद-
भावे दुहितृगामि । इत्यादि । तेन प्रपौत्त्र-
पर्य्यन्तानामभावे पत्नी धनाधिकारिणी । यथा
कात्यायनः ।
“भर्त्तृदायं मृते पत्यौ विन्यसेत् स्त्री यथेष्टतः ।
विद्यमाने तु संरक्षेत् क्षपयेत् तत्कुलेऽन्यथा ॥
अपुत्त्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता ।
भुञ्जीतामरणात् क्षान्ता दायादा ऊर्द्ध्वमाप्नुयुः” ॥
यथेष्टत इति धर्म्माथं । तथा च व्यासः ।
“लोकान्तरस्थं भर्त्तारमात्मानञ्च वरानने ।
तारयत्युभयं नारी नित्यं धर्म्मपरायणा” ॥
मदनपारिजातधृता स्मृतिः ।
“यद्यदिष्टतमं लोके यद्यत् पत्युः समीहितं ।
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया” ॥
भर्त्तुः शयनं पालयन्ती नान्यगामिनी । अतएव
हरिवंशीयपुण्यकव्रतोपाख्याने ॥
“दानोपवासपुण्यानि सुकृतान्यप्यरुन्धुति ।
निष्फलान्यसतीनां हि पुण्यकानि तथा शुभे” ॥
तथा वृहन्मनुः, --
“अपुत्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता ।
पत्न्येव दद्यात् तत्पिण्डं कृत्स्नमंशं लभेत च” ॥
तत्पिण्डमित्यत्र तदित्यनुषज्य । तच्छब्देन भर्त्तुः
परामर्शात् भर्त्तुः कृत्स्नमंशं यावदंशं हरेत् न तु
वर्त्तनोचितमात्रं । इति दायतत्त्वं ॥ * ॥ अस्याः
पतिश्राद्धाधिकारो यथा । पुत्रपौत्रप्रपौत्राभावे
पत्नी । तथा च शङ्खः ।
“पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया ।
तदभावे तु पत्नी स्यात् तदभावे सहोदरः ॥
भार्य्यापिण्डं पतिर्द्दद्यात् भर्त्रे भार्य्या तथैव च ।
श्वश्व्रादेश्च स्नुषा चैव तदभावे द्विजोत्तमः” ॥
इत्यादि ॥
“अपुत्रा स्त्री यथा पुत्रः पुत्रवत्यपि भर्त्तरि ।
पिण्डं दद्यात् जलञ्चैव जलमात्रन्तु पुत्रिणी” ॥
इति निर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्र-
सद्भावविषयमिति श्राद्धविवेकप्रभृतयः । इति
॥ * ॥ अस्या भर्त्रादितर्पणाधिकारो यथा स्मृतिः ।
“तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ।
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्ब्बकं” ॥
एतत्तु तर्पणं पुत्रपौत्राद्यभावविषयमिति मदन-
पारिजातः । इति ॥ * ॥ मृतायास्तस्या आद्य-
श्राद्धादि पञ्चदशश्राद्धं कर्त्तव्यं न तु सपिण्डनं ।
यथा । अत्र सपत्नीपुत्रस्य पुत्रत्वातिदेशात् तत्स-
त्वेऽपि स्त्रीणां सपिण्डनं मैथिलैरुक्तं तन्न ।
“पुत्रेणैव तु कर्त्तव्यं सपिण्डीकरणं स्त्रियाः ।
पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्रादयोऽपि ये” ॥
इति लघुहारीतवचने एवकारेण अतिदिष्टपुत्र-
निषेधात् । पुत्रेणेति तत्सत्त्वमात्रविवक्षितं ।
“सपिण्डीकरणं तासां पुत्राभावे न विद्यते” ।
इति मार्कण्डेयपुराणैकवाक्यत्वात् ।
“यानि पञ्चदशाद्यानि अपुत्रस्येतराणि च ।
एकस्यैव तु दातव्यमपुत्रायाश्च योषितः” ॥
इति छन्दोगपरिशिष्टेन आद्यपञ्चदशश्राद्धैः प्रेत-
त्वपरीहारोक्तत्वाच्च । एतत्पत्युरभावे द्रष्टव्यं ।
ततश्च शिशौ पुत्रे अन्येनापि सपिण्ड्यते । एवं
पतिसत्वेऽपि । अतएव मैथिलैरवीरायाः सपिण्डनं
नास्तीत्युक्तं । इति च शुद्धितत्त्वं ॥

अवेद्यः, पुं, (विद + ण्यत् । ततो, न वेद्यः नञ्स-

मासः ।) गोवत्सकः । इति शब्दचन्द्रिका ॥ वाछुर
इतिभाषा । अज्ञेये त्रि ॥ (अविवाह्यः । यथा, --
“व्यभिचारेण वर्णानामवेद्यावेदनेन च ।
स्वकर्म्मणाञ्च त्यागेन जायन्ते वर्णसङ्कराः” ॥
इति मनुः ।)

अवेलः, पुं, (नास्ति वेला यस्य सः ।) अपलापः । अप-

ह्नवः । इति मेदिनी ॥

अवेला, स्त्री, पूगचर्व्वितं । इति मेदिनी ॥ चिवान

गुया इति भाषा । अपराह्णः । इति लोकप्रसिद्धं ।
वेलाशून्ये त्रि ॥

अवेक्षणं, क्ली, (अव + ईक्ष + ल्युट् ।) अवेक्षा ॥

दर्शनं । यथा । “कृताकृतावेक्षणवत् स्वयं तत्कुशो-
पवेशनस्य कर्त्तव्यत्वात्” । इति संस्कारतत्त्वं ।
(तथाच ।
“दूरादवेक्षणं हासः संप्रश्ने सादरो भृशम् ।
परोक्षेऽपि गुणश्लाघा स्मरणं प्रियवस्तुषु” ॥
इति हितोपदेशे ॥ अवधानम् । प्रतिजागरः ।
अनुसन्धानम् । यथा, --
“निगृह्य शोकं स्वयमेव धीमान
वर्णाश्रमावेक्षणजागरूकः ।”
इति रघुवंशे ॥)

अवेक्षा, स्त्री, (अव + ईक्ष + अ + ततष्टाप् ।) प्रत्य-

वेक्षणं । प्रत्यक्षदृष्टिः । तत्पर्य्यायः । प्रतिजा-
गरः २ । इत्यमरः । (अवधानम् । अनुसन्धा-
नम् । यथा, --
“अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।
रक्षितं वर्द्धयेत् वृद्ध्या वृद्धं दानेन निक्षिपेत्” ॥
इति मनुः ।
(“यदि रामस्य नावेक्षा त्वयि स्यान्मातृवत्सदा” ।
इति रामायणे ।)

अवेक्षितं, त्रि, (अव + ईक्ष + क्त ।) दृष्टं । यथा

मनुः ।
“केशकीटावपन्नञ्च पदा स्पृष्टञ्च कामतः ।
भ्रूणघ्नावेक्षितञ्चैव संस्पृष्टञ्चाप्युदक्यया” ॥
इत्याह्निकाचारतत्त्वम् ॥ (कृतावधानः । यथा,
रघुवंशे । “स कदाचिदवेक्षितप्रजः” ।)

अवैधं, त्रि, (न वैधं विधित आगतं । नञ्तत्पुरुषः ।)

विध्यविषयः । विधिविवर्ज्जितं । विधिप्राप्तभिन्नं ॥
(“अवैधं पञ्चमं कुर्व्वन् राज्ञो दण्डेन शुध्यति” ।
इति स्मृतिः ॥)

अवोदं, त्रि, (अव + उन्द + घञ् ।) आर्द्रं । इति

जटाधरः ॥

अवोधः, त्रि, (नास्ति वोधो ज्ञानं यस्य ।) निर्व्वोधः ।

अज्ञानः ।

अवोक्षणं, क्ली, (अव + उक्ष + ल्युट् ।) प्रोक्षण-

विशेषः । नुब्जहस्तेन जलक्षेपणं । यथा हारीतः ।
पृष्ठ १/१३५
:“तस्मादद्भिरवोक्ष्यैतद्दद्यादालभ्य एव च” ।
अवोक्ष्य प्रोक्ष्य इति रत्नाकरः ॥ नव्यवर्द्धमान-
धृतम् ।
“उत्तानेन तु हस्तेन प्रोक्षणं समुदाहृतम् ।
न्युब्जताभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं स्मृतम्” ॥
इति शुद्धितत्त्वम् ॥

अब्दः, पुं, (अव + दन् ॥ औणादिकोऽयं ।) वत्सरः ।

मेघः । मुस्ता । इति रायमुकुटः सारसुन्दरी च ॥
(मुस्तार्थे प्रयोगो यथा, --
“किराताब्दामृताविश्वचन्दनोदीच्यवत्सरैः ।
शोथातिसारशमनं विशेषाज्ज्वरनाशनम्” ॥
इति वैद्यकचक्रपाणिसङ्ग्रहः ॥)

अव्यक्तः, पुं, (वि + अन्ज + क्त । ततो नञ्समासः ।)

विष्णुः । शिवः । कन्दर्पः । इति मेदिनी । मूर्ख इति
हेमचन्द्रः । अस्फुटे त्रि ॥)

अव्यक्तं, क्ली, प्रकृतिः । आत्मा । इति हेमचन्द्रः ।

महदादि । परमात्मा । इति मेदिनी ॥
(“योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्व्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ” ॥
इति मानवे ॥
गणितादौ अज्ञातराश्यादिः । अदृश्यः । साङ्ख्यमते
सर्व्वकारणं रूपादिहीनतया चक्षुराद्यगोचरं
प्रधानं महदादि ।
“महतः परमव्यक्तमव्यक्तात् पुरुषः परः” ।
इति कठोपनिषद् ॥
वेदान्तमते सूक्ष्मशरीरं स्वापावस्थायां शब्द-
प्रवृत्तिनिमित्तैर्जातिगुणक्रियासम्बन्धैर्वर्ज्जितं नि-
र्व्विकारं निराकारं ब्रह्म । परमात्मा, मायोपा-
धिकं ब्रह्म, सूक्ष्ममतीन्द्रियं लिङ्गग्राह्यं परब्रह्म ।
यदुक्तम्, --
“अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्” ।
रूपादिविहीनत्वेन चक्षुराद्यगोचरो योगाभ्या-
सावसेयो भावः ।
“ब्राह्मं सरः कारणमाप्तवाचो
बुद्धेरिवाव्यक्तमुदाहरन्ति” । इति रघुवंशे ॥
प्रकृतिः । तथा हि, -- “यत् सर्व्वस्य जगतो
वीजभूतमव्याकृतमनामरूपमतत्वं सर्व्वकार्य्यकार-
णशक्तिसमाहाररूपं अव्यक्ताव्याकृताकाशादिना-
मवाच्यं परमात्मन्योतप्रोतभावेन समाश्रितं वट-
कणिकायामिव वटवृक्षशक्तिः । सत्त्वादिरूपेण
निरूप्यमाणे व्यक्तिरस्य नास्तीत्यव्यक्तम्” ।
यदुक्तम् । “हेतुमदनित्यमव्यापि सक्रियमनेक-
माश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विप-
रीतमव्यक्तम्” ॥ ० ॥ सर्व्वभूतानां कारणमकारणं
सत्त्वरजस्तमोलक्षणमष्टरूपमखिलस्य जगतः स-
म्भवहेतुरव्यक्तं नाम । तदेकं बहूनां क्षेत्रज्ञाना-
मधिष्ठानं समुद्र इवोदकानां भावानां” ॥ इति
सुश्रुतः ॥
“अनादिः पुरुषो नित्यो विपरीतस्तु हेतुजः ।
सदकारणवन्नित्यं दृष्टं हेतुमदन्यथा ॥
तदेव भावादग्राह्यं नित्यत्वान्न कुतश्चन ।
भावाज्ज्ञेयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा” ॥ इति ॥
“अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः” ।
इति च ॥
“अतोऽन्यत् पुनरव्यक्तं लिङ्गग्राह्यमतीन्द्रियं” ॥
इति च ॥
“अव्यक्तमस्य क्षेत्रस्य ज्ञेत्रज्ञमृषयो विदुः” ॥
इति च चरकः ॥)

अव्यक्तरागः, पुं, (न व्यक्तोऽल्पव्यक्तो रागोऽरुणिमा ।)

ईषल्लोहितवर्णः । तत्पर्य्यायः । अरुणः २ । इत्य-
मरः ॥ ताम्रः ३ गौरः ४ । इति जटाधरः ॥

अव्यङ्गः, त्रि, (न सन्ति व्यङ्गानि यस्य ।) व्यङ्ग-

रहितः । अविकलाङ्गः । यथा, --
“तत आहूय धर्म्मज्ञं ब्राह्मणं वेदपारगं ।
अव्यङ्गावयवं पूज्य गन्धधूपार्च्चनादिभिः” ॥
इति मत्स्यपुराणे ६६ अध्यायः ॥

अव्यङ्गा, स्त्री, (अवेर्मेषस्य अङ्गं शृङ्गमिव अङ्गं

यस्याः ।) शूकशिम्बी । इति केचित् ॥ अमर-
कोषे अध्यण्डा इति तट्टीकायां अव्यण्डा इति
च पाठः ॥ व्यङ्गरहिते अविकलाङ्गे च त्रि ॥

अव्यङ्ग्यं, क्ली, (नास्ति व्यङ्गालङ्कारो यस्मिन् ।) व्यङ्ग्या-

लङ्काररहितकाव्यं ॥ यथा, --
“सव्यङ्ग्यमुत्तमं काव्यमव्यङ्ग्यमधमं स्मृतं ।
किञ्चिद्व्यङ्ग्यसमायुक्तं मध्यमं परिकीर्त्तितं” ॥
इति काव्यचन्द्रिका ॥

अव्यञ्जनः, पुं, (नास्ति व्यञ्जनं शुभलक्षणं शृङ्गं, यस्य ।)

शृङ्गहीनपशुः । इति हलायुधः ॥ अस्फुटे त्रि ॥
(अनुद्भिन्नरजस्वलाचिह्ना कन्या । यथा, --
“असंप्राप्तरजा गौरी प्राप्ते रजसि रोहिणी ।
अव्यञ्जना भवेत् कन्या कुचहीना च नग्निका” ॥
इति पञ्चतन्त्रे ॥)

अव्यण्डा, स्त्री, (न विगतमण्डं वीजमस्याः ।) अध्यण्डा

इति कुत्रचिदमरकोषे पाठः ॥ आलकुशीति
भाषा ।

अव्यथः, त्रि, (नास्ति व्यथा यस्य सः ।) पीडारहितः ।

व्यथाशून्यः । सर्पे पुं । इति मेदिनी ॥

अव्यथा, स्त्री, (न व्यथा । नञ्तत्पुरुषः ।) हरी-

तकी ॥ पद्मचारिणी । इत्यमरः ॥

अव्यथिः, पुं, अश्वः । सङ्ग्रामे न बिभ्यतीति अव्यथिः ।

व्यथ भयसञ्चलनयोः सर्व्वधातुभ्य इति इन्प्रत्ययः
ततो नञ्समासः । वेदप्रयोगोऽयं ॥

अव्यथिषः, पुं, (न + व्यथ + टिषच् ।) समुद्रः । सूर्य्यः ।

इति सिद्धान्तकौमुद्या उणादिवृत्तिः ॥

अव्यथिषी, स्त्री, (अव्यथिष + ङीप् ।) पृथिवी ।

अर्द्धरात्रं । इति सिद्धान्तकौमुदी ॥

अव्यथ्यः, त्रि, (न + व्यथ + क्यप् ।) व्यथाशून्यः ।

इति पाणिनिः ॥

अव्ययं, क्ली, पुं, (न + वि + इन् + अच् ।) शब्द-

विशेषः । तत्परे विभक्तिर्न तिष्ठति अतएव लि-
ङ्गत्रयाविकृतं । तथाच कातन्त्रे, --
“सदृशं त्रिषु लिङ्गेषु सर्व्वासु च विभक्तिषु ।
वचनेषु च सर्व्वेषु यन्न व्येति तदव्ययम्” ॥
(क्ली, अनाद्यन्तं विकारशून्यं परब्रह्म । यथा, --
“अनण्वस्थलमह्रस्वमदीर्घमजमव्ययम् ।
अरूपगुणवर्णाख्यं तद्ब्रह्मेत्यवधारयेत्” ॥
इति आत्मबोधे ॥)

अव्ययः, पुं, (नास्ति व्ययो यस्य ।) विष्णुः ।

(“नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे ।
पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च” ॥
इति मार्कण्डेयपुराणे ॥) व्ययरहिते, त्रि । इति
मेदिनी ॥ (अविनाशी । नित्यपुरुषः । यथा, --
“तमसः परमापदव्ययं पुरुषं योगसमाधिना
रघुः” ॥ इति रघुवंशे ।
“सूक्ष्माभ्यो मूर्त्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम्” ।
इति मानवे ॥)

अव्यर्थः, त्रि, (न व्यर्थः । नञ्तत्पुरुषः ।) अमोघः ।

सफलः । यथा, --
“दुर्निवार्य्यञ्च दुर्द्धर्षमव्यर्थं वैरिघातकम् ।
तेजसा चक्रतुल्यञ्च सर्व्वशस्त्रास्त्रघातकम्” ॥
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे १८ अध्यायः ॥

अव्यवसायवान्, [त्] त्रि, (अव्यवसाय + मतुप् ।

मस्य वः ।) व्यवसायरहितः । अव्यवसायी ।
तत्पर्य्यायः । शिक्कुः २ । इति त्रिकाण्डशेषः ॥
(अनुशीलनरहितः ।)

अव्यवस्था, स्त्री, (वि + अव + स्था + अङ् । ततो

नञ्समासः ।) अवसिद्धान्तः । अविधिः । शास्त्र-
विरुद्धव्यवस्था । इति नञ्समासनिष्पन्ना ॥
(चञ्चले । यथा, कुमारे,
“स्थलारविन्दश्रियमव्यवस्थां” ॥)

अव्यवस्थितः, त्रि, (न व्यवस्थितः । नञ्समासः ।)

नीतिशास्त्रादिव्यवस्थानभिज्ञः । सिद्धान्तरहितः ।
यथा, --
“क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे ।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः” ॥
इति हितोपदेशः ॥

अव्यवहार्य्यं, त्रि, (वि + अव + हृ + ण्यत् । ततोनञ्-

समासः ।) व्यवहारायोग्यं । अव्यवहरणीयं ।
यथा । ज्ञानतश्चाण्डालान्त्यस्त्रीगमने तत्तुल्यतया
द्विगुणव्रताचरणे कृतेऽपि न व्यवहार्य्यः । यथा
याज्ञवल्क्यः ।
“प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतोऽव्यवहार्य्यस्तु वचनादिह जायते” ॥
पापान्तरेऽप्यव्यवहार्य्यत्वं याज्ञवल्क्योक्तम् ।
“शरणागतबालस्त्रीहिंसकान् संवसेन्न तु ।
चीर्णव्रतानपि सदा कृतघ्नसहितानिमान्” ॥
“अत्र च कामतो महापातकादिवृहत्पापकर्तु-
रव्यवहार्य्यत्वदर्शनात् कामतो बहुतरगुणयुक्त-
शरणागतादिहन्तॄणामव्यवहार्य्यत्वं न तु हीनतर-
हन्तॄणां अन्यथा विषमशिष्टतापत्तिः स्यात्” ।
इति प्रायश्चित्ततत्त्वम् ॥

अव्यवहितं, त्रि, (वि + अव + धा + क्त । ततो नञ्-

तत्पुरुषः ।) व्यवधानशून्यं । तत्पर्य्यायः । संसक्तं २
अपटान्तरं ३ अपदान्तरं ४ । इत्यमरः ॥ तट्टीका
च ॥ लग्नं ५ । इति शब्दरत्नावली ॥ (“सिसा-
धयिषाविरहविशिष्टक्षणाव्यवहितोत्तरक्षणोत्प-
त्तिकानुमितिकभिन्नेति” ॥ इति दीधितिः ॥)
पृष्ठ १/१३६

अव्यवहृतः, त्रि, (न व्यवहृतः । नञ्तत्पुरुषः ।)

अकृतव्यवहारः । इति नञ्समासनिष्पन्नः ॥

अव्याजः, पुं, (न व्याजः । नञ्तत्पुरुषः ।) छलाभावः ।

यथा ।
“इदं किलाव्याजमनोहरं वपुः
तपःक्लमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां छेत्तुमृषिर्व्यवस्यति” ॥
इत्यभिज्ञानशकुन्तलानाटके प्रथमोऽङ्कः ।
शीघ्रं । यथा । “सेक्तव्यो यदि मारवस्तरुरयं
पाथोदपाथोलवैरव्याजं परिषिञ्च किं चिरयसे
कालः परिक्रामति । मूले सिक्तरसे दले विग-
लिते शीर्णे तथा वल्कले न स्यादस्य परिस्थितेः
प्रभुरहो धारापि वारां तव ॥” इत्युद्भटः ॥

अव्याप्यं, त्रि, (न व्याप्यं । नञ्तत्पुरुषः ।) अव्याप-

नीयं । व्याप्तिरहितं । अनधीनं । यथा । “नापि
साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया
साध्यव्याप्यव्यापकत्वेनोपाधेरेव साध्यव्यापकत्व-
साधनात् । तस्मादुपाधिर्हेत्वाभासान्तरमिति” ।
इत्यपाधिवादचिन्तामणिः । अपि च,
“अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते” ।
इति भाषापरिच्छेदः ॥

अव्याप्यवृत्तिः, त्रि, (अव्याप्य सर्व्वावच्छेदमप्राप्य

वृत्तिर्यस्य ।) किञ्चिदवच्छिन्नवृत्तिः ।
(“अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते” ।
इति भाषापरिच्छेदः ।)
स्वसमानाधिकरणाभावप्रतियोगीति यावत् । दै-
शिककालिकभेदेन स द्विविधः । तत्पर्य्यायः ।
प्रादेशिकः २ । आत्मनो विशेषगुणाः । बुद्धिः १
सुखं २ दुःखं ३ इच्छा-४ द्वेषः ५ यत्नः ६ धर्म्मः ७
अधर्म्मः ८ भावनाख्यसंस्कारः ९ आकाशस्य वि-
शेषगुणः शब्दः १० । सामान्यगुणौ संयोग ११
विभागश्च १२ । एते सर्व्वे अव्याप्यवृत्तयः स्युः । इति
न्यायभाषा ॥

अव्याहतं, त्रि, (न व्याहतम् । नञ्तत्पुरुषः ।)

व्याघातशून्यं । यथा ।
“यस्य त्रिकालममलं ज्ञानमव्याहतं सदा ।
वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति” ॥
इति शब्दमाला ॥ किञ्च । विष्णुपुराणम् ।
“अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्वेतत् परिणतौ ममास्त्वव्याहतं सुखम् ॥
प्राणापानसमानानामुदानव्यानयोस्तथा ।
अन्नं तुष्टिकरञ्चास्तु ममास्त्वव्याहतं सुखम्” ॥
इत्याह्णिकाचारतत्त्वम् ॥ (अकुण्ठितं । यथा, --
“वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः” ।
इति मार्कण्डेयपुराणे ।)

अव्याहृतः, त्रि, अकथितः । न व्याहृतः अव्याहृतः

नञ्समासनिष्पन्नः ॥

अश ऊ ङ न (स्वादिं-आत्मं-सकं-वेट् ।) व्याप्ति-

संहत्योः । ऊ ङ अशिष्यते अक्ष्यते । न अश्नो-
ति । संहतिः समूहः । इति दुर्गादासः ॥
(“यद्ददाति गयास्थश्च सर्व्वमानन्त्यमश्नुते” ।
इति याज्ञवल्क्यसंहिता ।)

अश ग (क्र्यादिं-परं-सकं-सेट् ।) भोजने । अश्नात्यन्नं

बुभुक्षितः । इति दुर्गादासः ।

अशकुम्भी, स्त्री, (अशा सलिलं स्कुम्भाति व्याप्नोति

इति । अशा + स्कुम्भ + ट + पृषोदरादिरयं ।)
पानीयपृष्ठजः । इति रत्नमाला ॥ पाना इति
भाषा ।

अशक्यं, त्रि, (न शक्यम् । नञ्तत्पुरुषः ।) अशक-

नीयं । असाध्यं । यथा । “अशक्ये अध्यवसायः
समर्थना” । इति मुग्धबोधव्याकरणम् ॥

अशक्तं, त्रि, (न शक्तः । नञ्तत्पुरुषः ।) शक्तिरहितं ।

असमर्थं यथा । मनुः ।
“बिभृयाद्वेच्छतः सर्व्वान् ज्येष्ठो भ्राता यथा पिता ।
भ्राताशक्तः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः” ॥
इति दायतत्त्वम् ॥
“उपवासेष्वशक्तानां नक्तं भोजनमिष्यते” ।
इति तिथ्यादितत्त्वम् ॥

अशत्रुः, पुं, (न + शद् + क्रुन् । नञ्तत्पुरुषः ।)

चन्द्रः । इति शब्दचन्द्रिका ॥ शत्रुरहिते मित्रे
च त्रि ॥

अशनं, क्ली, (अश + ल्युट् ।) भक्षणं । अन्नं । इति

हेमचन्द्रः ॥ (“शीतं निर्झरवारि पानमशनं कन्दाः
सहाया मृगाः ॥” इति नागानन्दे ॥
“विशिष्टमिष्टसंस्कारैः पथ्यैरिष्टैरसादिभिः ।
मनोज्ञं शुचि नात्युष्णं प्रत्यग्रमशनं हितं” ॥
इति सुश्रुतः ॥)

अशनः, पुं, असनवृक्षः । पीतशालवृक्षः । इति

रायमुकुटः ॥ (असनशब्देऽस्य विशेषो ज्ञातव्यः ॥)

अशनपर्णी, स्त्री, (अशनस्य शालवृक्षविशेषस्य पर्ण-

मिव पर्णमस्याः ।) वृक्षविशेषः । तत्पर्य्यायः ।
वातकः २ शीतलः ३ शीतलवातकः ४ असन-
पर्णी ५ शनपर्णी ६ सनपर्णी ७ शीतः ८ शीतकः
९ अपराजिता १० । माराटी इति ख्याता ।
इति शब्दरत्नावली ॥

अशनाया, स्त्री, (अशन + क्यच् ।) भोजनेच्छा ।

क्षुधा । इत्यमरः ॥
(“अन्नाद्वा अशनाया निवर्त्तते पानात्पिपासा” ।
इति शतपथब्राह्मणे । “च्युताशनायः फलवद्वि-
भूत्या” । इति भट्टौ ।)

अशनायितं, त्रि, (अशनाय + क्त । अशनाया भोज-

नेच्छा जाता अस्य इति इतच् वा ।) क्षुधितं ।
इत्यमरः ॥

अशनिः, पुं, स्त्री, (अश्नाति सङ्घातं करोति ।

अश + अनिः ।) वज्रं । इत्यमरः । विद्युत् ॥
(“अथवा मम भाग्यविप्लवादशनिः कल्पित एष
वेधसा” इति रघुवंशे ।)

अशर्म्म [न्,] क्ली, (न शर्म्म । नञ्समासः । नास्ति

शर्म्म यस्मिन् इति समासे वाच्यलिङ्गः ।) कष्टं ।
दुःखं ।
(“एकौघभूतं तदशर्म्म कृष्णां
विभावरीं ध्वान्तमिव प्रपेदे ॥”
इति भारविः ॥) तद्विशिष्टे त्रि । इति जटाधरः ॥

अशाखा, स्त्री, (नास्ति शाखा यस्याः ।) शूलीतृणं ।

इति राजनिर्घण्टः ॥

अशितं, त्रि, (अश + क्त ।) भुक्तं । खादितं । तृप्तं ।

इति हेमचन्द्रः ॥
(“आप एव तदशितं नयन्ते” ।
“तेजोऽशितं त्रेधा विधीयते” ।
इति च छान्दोग्ये उपनिषदि ॥
“अशितं मात्रया काले पथ्यं याति जरां सुखं” ॥
इति वाभटः ॥ “यावद् यस्याशनमशितमनुप-
हत्य प्रकृतिं यथाकालं जरां गच्छति, तावदस्य
मात्रा प्रमाणं वेदितव्यं भवति” ॥ इति चरकश्च ॥)

अशितङ्गवीनं, त्रि, (अशिता भोजिता गावो यत्र ।

अशितगो + ख + निपातनात् मुमागमः ।) आ-
शितङ्गवीनं । पूर्ब्बगवादिचरितक्षेत्रादि । इत्यम-
रटीकासारसुन्दरी ॥

अशित्रः, त्रि, (अश + इत्र ।) चौरः । इत्युणादि-

कोषः ॥ (चरुः ।)

अशिरं, क्ली, (अश + इर ।) हीरकं । इति राज-

निर्घण्टः ॥ (हीरकशब्देऽस्य विशेषो ज्ञेयः ॥)

अशिरः, पुं, (अशभोजने + इर ।) अग्निः । राक्षसः ।

सूर्य्यः । इति मेदिनी ॥

अशिरा, स्त्री, अशिरराक्षसस्त्री । इत्युणादिकोषः ॥

अशिश्विका, स्त्री, (अशिश्वी + स्वार्थे कन् ।) अन-

पत्या । कन्यापुत्रविहीना स्त्री । इति शब्दरत्ना-
वली ॥ आँटकुडी इति भाषा ॥

अशिश्वी, स्त्री, (नास्ति शिशुर्यस्याः इति । निपा-

तनात् ङीप् ।) अशिश्विका । इत्यमरः ॥

अशिक्षितं, त्रि, (न शिक्षितं । नञ्समासः ।) शि-

क्षारहितः । अनिपुणः । अतभिज्ञः । यथा । “यत्र
सारथेरकौशल्यात् यानमन्यथा गच्छति तत्र
हिंसायां अशिक्षितसारथिनियोगात् स्वामी द्वि-
शतं दण्डं दाप्यः स्यात्” । इति कुल्लूकभट्टव्याख्या-
नात् । इति प्रायश्चित्ततत्त्वं ॥

अशीतः, त्रि, (न शीतः । नञ्तत्पुरुषः ।) शीता-

भावयुक्तः । यथा, --
“अशीतास्तरवो माघे फाल्गुने पशुपक्षिणौ ।
चैत्रे जलचराः सर्व्वे वैशाखे नरवानरौ” ॥
इति पुराणं ॥

अशीतिः, त्रि, (अष्टदशतः परिमाणमस्य । पङ्क्ति-

विंशतीत्यादिना निपातनात् प्रकृतेरशीभावस्ति-
प्रत्ययश्च ।) संख्याबिशेषः । ८० आशी इति
भाषा । यथा मनुः, --
“अशीतिभागं गृह्णीयात्
मासात् वार्द्धुषिकः शतात् ।
द्विकं शतं वा गृह्णीयात्
सतां धर्म्ममनुस्मरन्” ॥
इत्याह्निकाचारतत्त्वं ॥ अपि च ।
“अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः ।
प्रायश्चित्तार्द्धमर्हन्ति स्त्रियो रोगिण एव च” ॥
इति प्रायश्चित्ततत्त्वं ॥

अश्रुद्धं, त्रि, (न शुद्धम् । नञ्तत्पुरुषः ।) अपवित्र ।

अकृतशोधनं । अशौचयुक्तं । यथा । शङ्खः, --
पृष्ठ १/१३७
:“ततः श्राद्धमशुद्धौ तु कुर्य्यादेकादशे तथा ।
कर्त्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः” ॥
इति ।
“शुद्धा भर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयीः ।
दैवे कर्म्मणि पैत्रे च पञ्चमेऽहनि शुद्ध्यति” ॥
इति च शुद्धितत्त्वं ॥ (वर्णाद्यशुद्धियुक्तः ।)

अश्रुभं, क्ली, (न शुभम् । नञ्तत्पुरुषः । नास्ति-

शुभं यस्येति समासे वाच्यलिङ्ग एव ।) पापं ।
इति हेमचन्द्रः ॥ अमङ्गलं ।
(“न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम्” ।
मा च वोऽस्त्वशुभं किञ्चित्सर्व्वथा पण्डुनन्दनाः” ॥
इति च भारते ॥) तद्युक्ते त्रि । यथा, --
“सर्व्वाशुभानां परिमोक्षकारि
सम्पूजनं देववरस्य विष्णोः” ।
इति ज्योतिस्तत्त्वं ॥ अपि च । मदनपारिजात-
धृतं ।
“अशुभं खञ्जनं दृष्ट्वा देवब्राह्मणषूजनं ।
दानं कुर्व्वीत कुर्य्याच्च स्नानं सर्व्वौषधीजलैः” ॥
इति तिथ्यादितत्त्वं ॥

अशून्यशयनव्रतं, क्ली, (न शून्यं शयनं यस्मात्, तत्

व्रतम् ।) श्रावणकृष्णद्वितीयाकर्त्तव्यव्रतविशेषः ।
यथा, --
“ब्रह्मोवाच ।
भगवन् ! पुरुषस्येह स्त्रियाश्च विरहादिकं ।
शोक-व्याधि-भयं दुःखं न भवेद्येन तद्वद ॥
भगवानुवाच ।
श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः ।
क्षीरार्णवे सलक्ष्मीकः सदा वसति केशवः ॥
तस्यां संपूज्य गोविन्दं सर्व्वान् कामान् समश्नुते ।
गो-भू-हिरण्य-दानादि सप्तकल्पशतानुगं ॥
अशून्यशयना नाम द्वितीया या प्रकीर्त्तिता ।
तस्यां सम्पूजयेद्विष्णुमेभिर्म्मन्त्रैर्व्विधानतः ॥
श्रीवत्सधारिन् श्रीकान्त श्रीधाम श्रीपतेऽव्यय ।
गार्हस्थं मा प्रणाशं मे यातु धर्म्मार्थकामद ॥
अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम ।
पितरो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ॥
लक्ष्म्या वियुज्यते देवो न कदाचित् यथा भवान् ।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यतु ॥
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा ।
शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥
गीतवादित्रनिर्घोषं देवस्याग्रे तु कारयेत् ।
घण्टा भवेदशक्तस्य सर्व्ववाद्यमयी यतः ॥
एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्ज्जितं ।
नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयं ॥
ततः प्रभाते संजाते लक्ष्मीपतिसमन्वितां ।
दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणां ॥
पादुकोपानहच्छत्रचामरासनसंयुतां ।
अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृतां ॥
सोपधानकविश्रामां फलैर्नानाविधैर्युतां ।
तथाभरणधान्यैश्च यथाशक्त्या समन्वितां ॥
अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने ।
दातव्या वेदविदुषे न वकव्रतिने क्वचित् ॥
तत्रोपवेश्य दाम्पत्यमलंकृत्य विधानतः ।
पत्न्यास्तु भाजनं दद्यात् भक्ष्यभोज्यसमन्वितं ।
ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्वितां ।
प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत् ॥
एवं यस्तु पुमान् कुर्य्यादशून्यशयनं हरेः ।
वित्तशाठ्येन रहितो नारायणपरायणः ॥
न तस्य पत्न्या विरहः कदाचिदपि जायते ।
नारी चाविधवा ब्रह्मन् यावच्चन्द्रार्कतारकं ॥
न विरूपं न शोकार्त्तं दाम्पत्यं जायते क्वचित् ।
न पुत्त्रपशुरत्नानि क्षयं यान्ति पितामह ॥
सप्तकल्पसहस्राणि सप्तकल्पशतानि च ।
कुर्व्वन्नशून्यशयनं विष्णुलोके महीयते” ॥
इति मत्स्यपुराणे अशून्यशयनव्रतं ६७ अध्यायः ॥

अशृतं, त्रि, (न शृतम् । नञ्तत्पुरुषः ।) अपक्वं ।

इति रत्नमाला ॥
“तण्डुलात् षोडशगुणे शृते वाप्यशृते तथा ।
तोये पेयां पचेत्तावद्यावत् सिक्थकनिर्गमः” ॥
इति वैद्यकपरिभाषा ॥

अशेषं, त्रि, (नास्ति शेषो यस्येति ।) शेषरहितं ।

निःशेषं ॥ सर्व्वं । इत्यमरः ॥
(“स्थानं प्राप्स्याम्यशेषाणां जगतामपि पूजितम्” ॥
“अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरः” ॥
इति च विष्णुपुराणम् ॥ अशेषेण । यथा, --
“अलं विवादेन यथा श्रुतस्त्वया
तथाविधस्तावदशेषमस्तु सः” ।
इति कुमारे ।
“वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः” ॥
इति गीतायाम् ॥)

अशोकं, स्त्री, पारदं । इति मेदिनी ॥ शोकरहिते

त्रि ॥

अशोकः, पुं, (नास्ति शोको यस्मात् ।) स्वनाम-

ख्यातपुष्पवृक्षविशेषः । तत्पर्य्यायः । शोकनाशः २
विशोकः ३ वञ्जुलद्रुमः ४ वञ्जलः ५ मधुपुष्पः ६
अपशोकः ७ कङ्केल्लिः ८ केलिकः ९ रक्तपल्लवः
१० चित्रः ११ विचित्रः १२ कर्णपूरः १३ सुभगः
१४ दोहली १५ ताम्रपल्लवः १६ रोगितरुः १७
हेमपुष्पः १८ रामा १९ वामाङ्घ्रिघातनः २०
पिण्डीपुष्पः २१ नटः २२ पल्लवद्रुः २३ । अस्य-
गुणाः शीतलत्वं । हृद्यत्वं । पित्तदाहश्रमापहत्वं ।
गुल्मशूलोदराध्माननाशित्वं । कृमिकारकत्वञ्च ।
इति राजनिर्घण्टः ॥ अस्य पर्य्यायगुणाः ।
“अशोको हेमपुष्पश्च वञ्जुलस्ताम्रपप्लवः ।
कङ्केल्लिः पिण्डपुष्पश्च गन्धपुष्पो नटस्तथा ॥
अशोकः शीतलस्तिक्तो ग्राही वर्य्यः कषायकः ।
दोषापचीतृषादाहकृमिशोषविषास्रजित्” ॥
इति भावप्रकाशः ॥
अस्य कलिकाभक्षणविधिरशीकाष्टमीशब्दे द्र-
ष्टव्यः ॥ (योषितां सनूपुरचरणप्रहारेण अशो-
कानां पुष्पोद्गमो भवतीति कविसमयप्रसिद्धिः ।
यदुक्तम् ।
“पादाघातादशोकं विकसति वकुलं योषिता-
मास्यमद्यैः” । इति साहित्यदर्पणे । अपरञ्च ।
“पादाहतः प्रमदया विकसत्यशोकः
शोकं जहाति वकुलो मुखशीधुसिक्तः” ।
अपरञ्च ।
“सनूपुररवेण स्त्रीचरणेनाभिताडनम् ।
दोहदं यदशोकस्य ततः पुष्पोद्गमो भवेत्” ॥
कुमारसम्भवे ऽपि ।
“असूत सद्यः कुसुमान्यशोकः” । इति ॥
“कुसुमं कृतदोहदस्त्वया
यदशोकोऽयमुदीरयिष्यति” ।
इति रघुवंशे ।
“अशोकवल्कलक्वाथं शृतं दुग्धं सुशीतलं ।
यथाबलं पिबेत्प्रातस्तीव्रासृग्दरनाशनं’ ॥”
इति वैद्यकचक्रपाणिसंग्रहः ॥
“अशोकवल्कलप्रस्थं तोयाढके विपाचितं ।
तेन पादावशेषेण जीरकेण तथैव च ॥
घृतप्रस्थं पचेदेतत्प्रक्षिप्य च तथापरं ।
तण्डुलाम्बून्यजाक्षीरं प्रस्थं प्रस्थं पृथक् पृथक् ॥
केशराजरसस्यापि प्रस्थमेकं भिषग्वरः ।
जीवनीयैः पियालैश्च परूषसरलाञ्जनैः ॥
यष्ट्याह्वाशोकमूलञ्च मृद्वीका च शतावरी ।
तण्डुलीयकमूलञ्च कल्कैरेतैः पलार्द्धकैः ॥
शर्करायाः पलान्यष्टौ गर्भदन्त्वाशुचूर्णितं ।
पुष्यायोगेन तत्पीतं निहन्यात् सर्व्वदोषजं ॥
श्वेतं कृष्णं तथा नीलं प्रदरं हन्ति दुस्तरं ।
कुक्षिशूलं योनिशूलं पृष्ठशूलञ्च दारुणं ॥
मन्दाग्निमरुचिं पाण्डुं कृशतां श्वासकासिनां ।
अशोकघृतमेतत्तु विख्यातं स्त्रीगदेषु च” ॥ * ॥
अशोकघृतं ॥ * ॥
इति वैद्यकस्नेहमालिकायां ॥)

अशोकः, त्रि, (नास्ति शोकों यस्येति वाच्यलिङ्गः ।)

शोकरहितः । यथा,
“त्वामशोक हराभीष्ट मधुमाससमुद्भव ।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु” ॥
इति तिथ्यादितत्त्वं ॥ (स्वनामख्यातो दशरथस्य
मन्त्री । उक्तं रामायणे ।
“धृष्टिर्जयन्तो विजयः सिद्धार्थोऽप्यर्थसाधकः ।
अशोको धर्म्मपालश्च सुमन्त्रश्चाष्टमोऽभवत्” ॥
स्वनामख्यातो नृपतिश्च, यथा भारते ।
“अशोको नाम राजाभून्महावीर्य्योऽपराजितः ।
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः” ॥

अशोकरोहिणी, स्त्री, (अशोकैव रोहतीति ।

अशोक + रुह + णिन् + ङीप् ।) कटुरोहिणी ।
इत्यमरः ॥ कट्कीति भाषा । (“अशोकरोहिणी-
वैजयन्ती-सुवर्च्चला-पुनर्नवा-वृश्चिकाली-ज्योतिष्म-
ती-प्रभृतीनि समासेन तिक्तो वर्गः” ।
इति सुश्रुते ॥)

अशोकषष्ठी, स्त्री, (अशोका शोकादिरहिता या

षष्ठी ।) चैत्रस्य शुक्ला षष्ठी । तस्यां षष्ठीपूजा यथा,
“चैत्रे मास्यसिते पक्षे षष्ठ्यां षष्ठीं समर्च्चयेत् ।
सुखाय पुत्त्रलाभाय शुक्लपक्षे तथैव च” ॥
इत्युत्तरकामाख्यातन्त्रे ११ पटलः ॥ ० ॥
“प्रसूत्या द्वादशे मासि सम्पूज्यापत्यवृद्धये ।
पृष्ठ १/१३८
:सुते जाते तथा षष्ठ्यां षष्ठी द्वादशरूपिणी ॥
वैशाखे चान्दनी षष्ठी ज्यैष्ठे चारण्यसंज्ञिता ।
आषाढे कार्दमी ज्ञेया श्रावणे लुण्ठनी मता ॥
भाद्रे चपेटी विख्याता दुर्गाख्याश्वयुजे तथा ।
नाड्याख्या कार्त्तिके मासि मार्गे मूलकरूपिणी ॥
पौषे मास्यन्नरूपा च शीतला तपसि स्मृता ॥
गोरूपिणी फाल्गुने च चैत्रेऽशोका प्रकीर्त्तिता” ॥
इति स्कन्दपुराणम् ॥

अशोका, स्त्री, (न विद्यते शोको दुःखं यस्याम् ।)

कटुकी । इत्यमरः । अर्हतां शासनदेवताभेदः ।
इति हेमचन्द्रः ॥

अशोकारिः, पुं, (आशोकस्य अरिः । कदम्बवृक्षः ।

इति शब्दचन्द्रिका ॥

अशोकाष्टमी, स्त्री, (न विद्यते शोको यस्यां सा ।

एवम्भूता अष्टमी ।) चैत्रमासीयशुक्लाष्टमी । त-
त्राष्टसङ्ख्यकाशोककलिकायुक्तजलपानं कर्त्तव्यम् ।
यथा, अथाशोकाष्टमी स्कान्दे ।
“मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीं ।
पिबेदशोककलिकाः स्नायाल्लौहित्यवारिणि” ॥
अशोकाख्येत्युपादानात्तिथिमात्रेऽपि तत्पानं ।
फलन्तु मन्त्रलिङ्गात् शोकराहित्यमवगन्तव्यं ।
लौहित्यवारिणि ब्रह्मपुत्त्राख्यनदजले । पुनर्वसु-
योगे तु फलाधिक्यं । आह लिङ्गगरुडपुराणयोः ।
“अशोककलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ ।
चैत्रे मासि सिताष्टम्यां न ते शोकमवाप्नुयुः” ॥
पानमन्त्रस्तु ।
“त्वामशोक हराभीष्ट मधुमाससमुद्भव ।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु” ॥
स्त्रीशूद्रकर्त्तृकपानेऽपि प्रागुक्तयुक्तेः स्वयं मन्त्रः
पठनीयः । स्त्रीपक्षे ऊहोऽपि नास्ति विवृतमेका-
दशीतत्त्वे । अशोकपानन्तु पञ्चमार्द्धप्रहरव्यापि-
न्यामष्टम्यां भ्रातृद्वितीयोक्तवत् । इति तिथ्यादि-
तत्त्वं ॥ * ॥ अपि च । अत्र स्रोतोजले बुधवारे
पुनर्व्वसुनक्षत्रयुक्तशुक्लाष्टम्यां वाजपेययज्ञजन्यफल-
समफलप्राप्तिकामः स्नायात् । ब्रह्मपुत्रे तु सर्व्व-
पापक्षयपूर्ब्बकतीर्थस्नानजन्यफलप्राप्तिकामः स्ना-
यात् । स्नानेतिकर्त्तव्यतां विधाय ।
“ॐ, ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन ।
अमोघागर्भसंभूत पापं लौहित्य मे हर” ॥
इति पठित्वा स्नायात् ।
केवलशुक्लाष्टम्यां ब्रह्मपदगमनफलं । पञ्चमार्द्ध-
प्रहरव्यापिन्यां पुनर्व्वसुयुक्तायां केवलायां वा शुक्ला-
ष्टम्यां शोकरहितत्वकामः अष्टावशोककलिका
अहं पिबामि इति सङ्कल्प्य, --
“त्वामशोक हराभीष्ट मधुमाससमुद्भव ।
पिबामि शोकसन्तप्तो मामशोकं सदा कुरु” ॥
इति पठित्वा विष्णुपदजलमिश्रिता अशोक-
कलिका अष्टौ पिबेत् । स्त्रीशूद्रानुपनीतैरपि
मन्त्रः पठनीयः पौराणिकत्वात् । स्त्रीपक्षेलिङ्गोहो
नान्ति प्रकृतेः समवेतार्थत्वात् । इति कृत्यतत्त्वं ॥

अशोचः, पुं, (न शोचः । नञ्समामः ।) शोकाभावः ।

तत्पर्य्यायः । अनहंकृतिः । इति त्रिकाण्डशेषः ।

अशोच्यं, त्रि, (शुच् + कर्म्मनि ण्यत् । ततो नञ्तत्पु-

रुषः ।) शोकायोग्यं । अशोचनीयं । यथा, --
“अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः” ॥
इति श्रीभगवद्गीतायां २ अध्याये ११ श्लोकः ॥
(तथा च चाणक्ये, --
“अशोच्यो निर्धनः प्राज्ञोऽशोच्यः पण्डितबान्धवः ।
अशोच्या विधवा नारी पुत्त्रपौत्त्रप्रतिष्ठिता”)

अशौचं, क्ली, (शुचेः पवित्रताया भावः शौचं ततो तञ्-

तत्पुरुषः ।) शुचित्वाभावः । स्मृतौ तु । वैदिककर्म्मा-
नर्हत्वप्रयोजकीभूतसंस्कारविशेषः । यथा । वैदि-
ककर्म्मानर्हत्वप्रयोजकसंस्कारविशेषरूपमशौचं ।
वैदिककर्म्मार्हत्वप्रयोजकसंस्काररूपं शौचं । न
चाशौचाभाव एव शुद्धिर्नसंस्कारविशेष इति
वाच्यं । अघानां यौगपद्येत्विति न वर्द्धयेदघानि
इत्येताभ्यामशौचे पापपर्य्यायाघपदप्रदर्शनात्
अशौचपदस्य यथांभावरूपत्वं । तथा, --
“देवाश्च पितरश्चैव पुत्त्रे जाते द्विजन्मनां ।
आयान्ति तस्मात्तदहः पुण्यं षष्ठञ्च सर्व्वदा” ॥
इत्यादित्यपुराणीयेन शौचे पुण्यपददर्शनात्
शौचस्यांपि भावरूपता प्रतीयते । इति शुद्धि-
तत्त्वं ॥ * ॥ मन्त्रदगुरुमरणे अशौचं यथा, --
“गृहीतो देवतामन्त्रः सावित्रीग्रहणं कृतं ।
यस्मात्तस्य त्रिरात्रन्तु ब्रह्मविद्याग्रहो यतः ॥
उपनीयाध्यापको यस्तस्मिन्नपि त्रिरात्रकं ।
वेदवेदाङ्गशास्त्राणां व्याख्यानं शिक्षितं यतः ॥
ज्ञानं प्रतिष्ठितं येन वेदाभ्यासो यतः कृतः ।
तस्मिन्मृते चैकरात्रं गुरौ शिष्ये तथैव च ॥”
इति मत्स्यसूक्ते महातन्त्रे ३५ पटलः ॥ अपि च ।
“गुरावुपरते चैव त्र्यहाणि शिष्यसन्ततौ” ।
इति विज्ञानतन्त्रं ॥ * ॥ अन्यत् पूर्ब्बलिखितं ।
विहितकर्म्मविरोध्यदृष्टविशेषः । तदनेकविधं तत्र
शुद्धितत्त्वोक्ताशौचानि संगृह्यन्ते ॥
अथ सपिण्डाद्यशौचं १ ॥
जनने मरणे च सप्तमपुरुषपर्य्यन्तं सम्पूर्णाशौचं ।
तच्च विप्रस्य दशाहः क्षत्रियस्य द्वादशाहः ।
वैश्यस्य पञ्चदशाहः । शूद्रस्य मासः ॥ (यथाह
मनुः ।
“शुध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति” ॥)
जनने मरणे च दशमपुरुषपर्य्यन्तं सर्व्वेषां वर्णानां
त्र्यहः । चतुर्द्दशपुरुषपर्य्यन्तं पक्षिणी ॥
जनने मरणे च जन्मनामस्मृतिपर्य्यन्तं सर्व्ववर्णाना-
मेकाहः ॥ जन्मनामस्मृतेरभावे स्नानमात्रं ॥
अशौचं प्रति कन्यायास्त्रिपुरुषं सापिण्डं ॥ माता-
महमरणे सर्व्वेषां वर्णानां त्रिरात्रं ॥
मातृष्वस्रीय-पितृष्वस्रीय-मातुलपुत्त्र-भागिनेय-
मरणे सर्व्ववर्णानां पक्षिणी ॥
पितामहभगिनीपुत्त्र -- पितामहीभगिनीपुत्त्र -- पि-
तामहीभ्रातृपुत्त्ररूप-पितृबान्धवत्रयमरणे सर्व्वव-
र्णानां पक्षिणी ॥
मातामहभगिनीपुत्त्र-मातामहीभगिनीपुत्त्र-मा-
तामहीभ्रातृपुत्त्ररूप-मातृबान्धवत्रयमरणे सर्व्व-
वर्णानामहोरात्रं ॥
एकग्रामवासिस्वगोत्रजमरणे सर्व्ववर्णानामहो-
रात्रं ॥
औरसव्यतिरिक्तपुत्त्रजननमरणयोःपरपूर्ब्बभार्य्या-
प्रसवमरणयोश्च सर्व्ववर्णानां त्रिरात्रं ॥
आचार्य्यमरणे ब्राह्मणादिवर्णत्रयाणां त्रिरात्रं ॥
समानजातीयोत्कृष्टजातीयपुरुषान्तर-संगृहीत-
स्वभार्य्यामरणे सर्व्वेषां त्रिरात्रं ॥ हीनवर्णोपभुक्ता-
मरणे तु नाशौचं ॥
भगिनीपुत्त्रगृहे मातृष्वसुर्भ्रातृपुत्त्रगृहे पितृ-
ष्वसुः पैतृष्वस्रीयगृहे मातुलपुत्त्रस्य जामातृगृहे
श्वश्रूश्वशुरयोम्मरणे भगिनीपुत्त्रादिचतुर्णां त्रि-
रात्रं ॥
श्वश्रूश्वशुरयोः सन्निधिमरणे सर्व्ववर्णानां त्रि-
रात्रं ॥ श्वश्रूश्वशुरयोरेकग्रामस्थितयोर्म्मरणे स-
र्व्वेषां पक्षिणी ॥
श्वश्रूश्वशुरयोर्भिन्नग्राममरणे सर्व्वेषामहोरात्रं ॥
भगिनी-मातुलानी-मातुल-पितृष्वसृ-मातृष्वसृ-
गुर्व्वङ्गना-मातामही-मरणे सर्व्वेषां पक्षिणी ॥
आचार्य्यपत्नीपुत्त्रयोरुपाध्यायस्य मातृवैमात्रेयस्य
श्यालकस्य सहाध्यायिनः शिष्यस्य च मरणे सर्व्व-
वर्णानामहोरात्रं ॥ मातृष्वसृपुत्त्र-पितृष्वसृपुत्त्र-
मातुलपुत्त्ररूपात्मबान्धवत्रयमरणे सर्व्ववर्णानां
पक्षिणी ॥
(तथा च मनुः --
“मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च” ।
प्रथममन्येनोढा तेनैव जनितपुत्त्रा पुत्त्रसहितै-
वान्यमाश्रिता पश्चात्तेनापि जनितपुत्रा तयोः
पुत्त्रयोर्यथासम्भवं प्रसवमरणयोर्द्वितीयपुत्रपितु-
स्त्रिरात्रं । तत्सपिण्डानामेकरात्रं । तद्द्वितीय-
पितुर्म्मरणे तथाविधपुत्त्रयोरपि त्रिरात्रं । तथा-
विधपुत्त्रयोः परस्परप्रसवमरणयोर्म्मातृजात्यु-
क्ताशौचं ॥
दौहित्रमरणे सर्व्वेषां वर्णानां पक्षिणी ॥
पितृमातृमरणे ऊढानां कन्यानां त्रिरात्रं ॥ यदि
मातुलमातृष्वसृपितृष्वसृप्रभृतीनां दहनवहनं
करोति तदा सर्व्वेषां वर्णानां त्रिरात्रं ॥
मातामहादीनां त्रिरात्राभ्यन्तरं मरणश्रवणे
तच्छेषेण शुद्धिः । तत्कालोत्तरश्रवणे तु नाशौचं ।
किन्त्वाचारात् स्नानमात्रं ॥
अथ बालाद्यशौचं ॥ २
नवमादिमासजातबालस्याशौचकालाभ्यन्तरे मर-
णे मातापित्रोरस्पृश्यत्वं युक्तं तदेव स्वजात्युक्त-
जननाशौचं ॥ ज्ञातीनान्त्वशौचं नास्ति ॥
नवमादिमासमृतजातयोः कन्यापुत्त्रयोः पित्रा-
दिसपिण्डानां मातुश्च जननाशौचं ॥ तच्च ब्राह्म-
णानां दशाहं शूद्राणां मासः ॥ पुत्त्रजन्मनि पितुः
सचेलं स्नानं । पुत्त्रमुखदर्शनात्परं पुनः सचेल-
स्नानं ॥
(तथाच संवर्त्तः, --
“जाते पुत्त्रे पितुः स्नानं सचेलं तु विधीयते ।
पृष्ठ १/१३९
:माता शुध्येद्दशाहेन स्नानात्तु स्पर्शनं पितुः” ॥)
पुत्त्रकन्याजनने ब्राह्मण्या दशाहानन्तरं लौकिक-
कर्म्माधिकारः ।
पुत्त्रजनने ब्राह्मण्या विंशतिरात्रोत्तरस्नानात्
वैदिककर्म्माधिकारः ।
कन्याजनने ब्राह्मण्या मासोत्तरस्नानात् वैदिक-
कर्म्माधिकारः ॥
शूद्रायाः कन्यापुत्त्रजनने त्रयोदशाहोत्तरं लौकिक-
कर्म्माधिकारः । वैदिककर्म्मणि तु मासोत्तर-
स्नानात् शुद्धिः ॥
एतत् सर्व्वं कन्यापुत्त्रयोर्विद्यमानत्वे बोध्यं ॥
जननाशौचोत्तरं षण्मासाभ्यन्तरमजातदन्तमरणे
मातापित्रोरेकाहः । सपिण्डानान्तु सद्यः शौचं ॥
षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे माता-
पित्रोस्त्र्यहः । सपिण्डानामेकाहः ॥ षण्मासो-
परि द्विवर्षपर्य्यन्तं बालकमरणे मातापित्रोस्त्र्यहः ।
सपिण्डानामकृतचूडे एकाहः । कृतचूडे त्र्यहः ॥
(अत्र मनुः, --
“नॄणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।
निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥
ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा वहिः ।
अलङ्कृत्य शुचौ भूमावस्थिसञ्चयनादृते ॥
नास्य कार्य्योऽग्निसंस्कारो न च कार्य्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस्त्र्यहमेव वा ॥”)
द्विवर्षोपरि मासत्रयाधिकषड्वर्षपर्य्यन्तमनुपनीत-
बालकस्य मरणे मातापित्रादिसपिण्डानां त्र्यहः ॥
तन्मध्येऽप्युपनीतस्य मरणे दशाहः । मास-
त्रयाधिकषड्वर्षोपरि मरणे पित्रादिसपिण्डानां
दशाहः ॥
शूद्रस्य षण्मासाभ्यन्तरे अनुत्पन्नदन्तस्य मरणे
त्रिरात्रं । उत्पन्नदन्तस्य पञ्चाहः ॥ षण्मासोपरि
द्विवर्षाभ्यन्तरे अकृतचूडमरणे पञ्चाहः । तत्रापि
कृतचूडमरणे द्वादशाहः ॥ द्विवर्षोपरि षड्वर्षा-
भ्यन्तरे मरणे द्वादशाहः । अत्रापि दैवात् कृतो-
द्वाहे मासो व्यवह्रियते ॥ षड्वर्षोपरि मासः ॥
अथ स्त्र्यशौचं ॥ ३
कन्याया जन्मावधिद्विवर्षाभ्यन्तरे मरणे सर्व्व-
वर्णानां पित्रादिसपिण्डानां सद्यः शौचं । द्विव-
र्षोपरि वाग्दानपर्य्यन्तमेकाहः ॥
वाग्दानोत्तरं विवाहपर्य्यन्तं कन्यामरणे भर्तृकुले
पितृकुले च त्रिरात्रं
(“स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः” ।
इति मनुः ।)
विवाहोत्तरं मरणे भर्तृकुलएव सम्पूर्णाशौचं ॥
दन्तजन्मपर्य्यन्तं भगिनीमरणे सोदरभ्रातुः सद्यः
शौचं ॥
चूडापर्य्यन्तं भगिनीमरणे एकरात्रं । विवाह-
पर्य्यन्तं त्रिरात्रं ॥
दत्तकन्यायाः पितृगृहे प्रसवमरणयोः पित्रोः
शयनासनादिसंसर्गशून्ययोस्त्रिरात्रं । तथाविधब-
न्धुवर्गाणां एकरात्रं । तथाविधसंसर्गिणान्तु
सर्व्वेषां पूर्णाशौचं ॥ एतत्सर्व्वं सर्व्ववर्णसाधारणं ॥
अथ गर्भस्रावाशौचं ॥ ४
षण्मासाभ्यन्तरे गर्भस्रावे सर्व्ववर्णस्त्रीणामेवा-
शौचं । तच्च लौकिकवैदिककर्म्मणोर्गर्भमाससम-
सङ्ख्यदिनव्यापकं ॥
(“रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति” ॥ इति मनुः ।)
द्वितीयमासावधिगर्भस्रावे माससमसङ्ख्यदिनाधि-
कादेकदिनात्परं ब्राह्मण्या वैदिककर्म्माधिकारः ॥
क्षत्रियाया गर्भमाससमसङ्ख्यदिनाधिकात् दिन-
द्वयात् । वैश्याया दिनत्रयात् । शूद्रायाः षड्-
दिनात् ॥
सप्तमाष्टममासयोर्गर्भपतने मातुः सम्पूर्णाशौचं ।
सगुणसपिण्डानां सद्यः शौचं । निर्गुणपित्रादि-
सपिण्डानामहोरात्रं । यथेष्टाचरणशीलानां सपि-
ण्डानां त्रिरात्रं तत्र जातस्य तद्दिनएव मरणे
एवं ज्ञेयं ॥ सप्तमाष्टममासजातबालस्य जन्मद्वि-
तीयदिनादौ मरणे नवमादिमासजातबालक-
मरणवदशौचं । तच्च बालाद्यशौचे विवृतं ॥
अथ मृत्युविशेषाशौचं ॥ ५
शास्त्राननुमतबुद्धिपूर्ब्बकात्मघातिनो नाशौचदा-
हश्राद्धादि ॥
शास्त्रानुमत्या अनशनादिमृतस्य प्रमादादनशना-
शनि-वह्नि-जलोच्चदेशप्रपतन-संग्राम-शृङ्गि-दंष्ट्रि-
नखि-व्याल-विष-चण्डाल-चौर-हतस्य च त्रिरात्रं ॥
शृङ्ग्यादिभिः स्त्रिया च क्रीडां कुर्व्वतः प्रमदा-
प्रमादमृतस्य नाशौचादि ॥ नागविप्रियकारित्वेन
तद्धतस्य मरणोद्देशप्रवृत्तविद्युद्धतस्य चौर्य्यदो-
षेण राज्ञा हतस्य कलहं कृत्वा चाण्डालाद्यै-
रसमानवर्णैर्हतस्य विप्रादेर्व्याधिजनकौषधस्य
विषस्य वह्नेश्च वा दातुर्म्मरणे पाषण्डाश्रितस्य नित्य
परापकारिणः क्रोधात् स्वयं प्रायविषवह्न्यादि-
शस्त्रोद्बन्धन-जल-गिरि-वृक्षप्रपात-मृतस्य चर्म्मा-
स्थ्यादिमयपात्रनिर्म्मातृविप्रादेर्म्मनुष्यबधस्थानाधि-
कारिणः कण्ठदेशोत्पन्नभगरोगस्य पुंकर्म्माशक्त-
नपुंसकस्य ब्राह्मणविषयापराधकरणान्निहतस्य
बुद्धिपूर्ब्बकब्राह्मणहतस्य च महापातकिनो गलत्-
कुष्ठिनश्च एवंविधपतितानां मरणे च न दाहा-
शौचादिकं कार्य्यं ॥ तत्कृत्वा तप्तकृच्छ्रद्वयं कुर्य्यात् ॥
(अत्र मनुः, --
“वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ।
आत्मनस्त्यागिनाञ्चैव निवर्त्तेतोदकक्रिया ॥
पाषण्डमाश्रितानाञ्च चरन्तीनाञ्च कामतः ।
गर्भभर्तृद्रुहाञ्चैव सुरापीनाञ्च योषितां” ॥
इति ।) म्लेच्छतस्करादिभिर्युद्धे स्वाम्यर्थहतवि-
प्रादेर्दाहाशौचादिकमस्त्येव ॥
कृतप्रायश्चित्तगलत्कुष्ठिनो दाहाशौचादिकं कार्य्यं ॥
शस्त्रेणाभिमुखहतस्य तु सद्यःशौचं दाहादि च ॥
गवार्थे ब्राह्मणार्थे वा दण्डेन युद्धे हतस्याहोरात्र-
मशौचं ॥
मृपतिरहितयुद्धे लगुडादिहतस्य पराङ्मुख-
हतस्य च त्रिरात्राशौचं ॥
गोविप्रपालनेऽभिमुखयुद्धहतस्य सद्यः शौचं
पराङ्मुखहतस्य तु त्रिरात्रं ॥
लौकिकपारिभाषिकोभयशस्त्रघातेतरक्षतमरणे
सर्व्ववर्णानां सप्ताहमध्ये त्र्यहं सप्ताहादूर्द्धं सम्पूर्णा-
शौचं ॥
लौकिकपारिभाषिकशस्त्रघातमरणे त्र्यहमध्ये
त्र्यहं त्र्यहादूर्द्ध्वं प्रकृताशौचं ॥
लौकिकशस्त्रघातः खङ्गशरादिघातः ॥ पारि-
भाषिकशस्त्रघातस्तु ।
“पक्षिमत्स्यमृगैर्ये तु दंष्ट्रिशृङ्गिनखैर्हताः ।
पतनानशनप्रायैर्व्वज्राग्निविषबन्धनैः ॥
मृता जलप्रवेशेन ते वै शस्त्रहताः स्मृताः” ॥
इति देवीपुराणोक्तः ॥
अथ विदेशस्थाशौचं ॥ ६
अशौचकालाभ्यन्तरे विदेशस्थजननमरणाशौच-
श्रवणे शेषाहोभिः शुद्धिः ॥
(“विगतं तु विदेशस्थं शृणुयात् यो ह्यनिर्द्दशं ।
यच्छेशं दशरात्रस्य तावदेवाशुचिर्भवेत्” ॥
इति मनुः ।)
अशौचकालोत्तरं विदेशस्थज्ञातिजननश्रवणे-
ऽशौचं नास्त्येव । पुत्त्रजननश्रवणे तु सचेलस्नानात्
शुद्धिः ॥ (अत्र मनुराह ।
“निर्दशं ज्ञातिमरणं श्रुत्वा पुत्त्रस्य जन्म च ।
सवासा जलमाप्लुत्य शुद्धो भवति मानवः” ॥)
सम्पूर्णाशौचिमरणे वर्षाभ्यन्तरश्रवणे सपिण्डानां
त्रिरात्रेण शुद्धिः । सचेलस्नानादङ्गास्पृश्यत्व-
निवृत्तिः । वर्षोत्तरश्रवणे तु सपिण्डानां स्नानेन
शुद्धिः ॥ (अत्र मनुः ।
“अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।
संवत्सरे ब्यतीते तु स्पृष्ट्वैवापो विशुध्यति” ॥)
मातृ-पितृ-भर्तृ-मरणे वर्षोत्तरश्रवणे पुत्त्रपत्न्यो-
रेकाहेन शुद्धिः ॥ द्विवर्षोत्तरश्रवणे स्नानमात्रं ॥
पूर्णाशौचातिक्रमएव विदेशस्थमरणाशौचश्रवणे
त्र्यहाशौचं । न खण्डाशौचातिक्रमे ॥ यत्र मरण-
मात्रं श्रुतं विशिष्य मासादिकमज्ञातं तत्र श्रवण-
दिनावधिस्वजात्युक्तमशौचं । खण्डाशौचेऽपि
महागुरुनिपाते एकरात्रं ॥
अथाशौचसङ्करः ॥ ७
जननाशौचमध्ये जननाशौचान्तरपाते मरणा-
शौचमध्ये मरणाशौचान्तरपाते च पूर्ब्बाशौच-
कालेन सर्व्ववर्णानां शुद्धिः ॥ (यथाह मनुः --
“अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनी ।
तावत्स्यादशुचिर्विप्री यावत्तत्स्यादनिर्दशं” ॥)
पूर्णजननाशौचान्तदिने पूर्णजननाशौचान्तरपाते
पूर्णमरणाशौचान्तदिने पूर्णमरणाशौचान्तरपाते
च पूर्णाशौचान्तिमदिनोत्तरदिनद्वयेन शुद्धिः ॥
पूर्णजननाशौचान्तिमदिवसीयोत्तरप्रभाते सूर्य्यो-
दयात् पूर्ब्बं तत्पाते सूर्य्योदयावधिदिनत्रयेण
शुद्धिः ॥
एवं मरणाशौचेऽपि ॥
पूर्ब्बाक्तवर्द्धितदिनद्वयत्रयाभ्यन्तरेऽशौचान्तरपाते
पूर्ब्बाशौचकालेन शुद्धिः ॥
अशौचत्रितयान्तदिनकृत्यं क्षौरादिकमेकदैव
तद्द्वितीयदिनकृत्यं श्राद्धादिकं तत्परदिने ॥
पृष्ठ १/१४०
:अत्र च अशौचान्तिमदिनतत्प्रभातयोः स्वपुत्त्र-
जनने पितृमातृभर्तृमरणे च न दिनद्वयत्रय-
वृद्धिः । किन्तु स्वपुत्त्रजननावधि पितृमातृभर्तृ-
मरणावधि च पूर्णाशौचं ॥ ज्ञातिजननाशौच-
पूर्ब्बर्द्धे स्वपुत्त्रजनने ज्ञातिजननाशौचकालेन
शुद्धिः ॥ परार्द्धे चेत् स्वपुत्त्रजननाशौचकालेन
शुद्धिः ॥
ज्ञातिमरणाशौचकालमध्ये पितृमातृभर्तृमरणे
पूर्ब्बार्द्धे पूर्ब्बाशौचकालेन परार्द्धे पराशौचकालेन
शुद्धिः ॥
स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोर्ज्ञाति-
जनने पितृमातृभर्तृमरणाशौचान्तिमदिनतत्प्रभा-
तयोर्ज्ञातिमरणेऽपि न दिनद्वयत्रयवृद्धिः । कि-
न्तु पूर्ब्बाशौचकालेन शुद्धिः ॥
स्वपुत्त्रजननाशौचान्तिमदिनतत्प्रभातयोः स्वपुत्त्रा-
न्तरजनने एवं मातृमरणाशौचान्तिमदिनतत्प्रभा-
तयोः पितृमरणे पितृमरणाशौचान्तिमदिनतत्प्र-
भातयोर्म्मातृमरणे च क्रमेण दिनद्वयत्रयवृद्धिः ॥
जननाशौचद्वयसन्निपाते पूर्ब्बजातो यदाशौचका-
लाभ्यन्तरे मृतस्तदा सपिण्डानां सद्यःशौचेन
पूर्ब्बाशौचनाशः ॥ तन्नाशादेव परार्द्धजातबालस्य
मातृपितृव्यतिरिक्तसपिण्डानां पूर्ब्बार्द्धजातबालस्य
मातापित्रादिसकलसपिण्डानां परजननाशौचस्य
निवृत्तिः ॥ पूर्ब्बजातबालस्य मातापित्रोस्त्वस्पृ-
श्यत्वयुक्तस्वस्वजात्युक्तजननाशौचं ॥ जननाशौच-
द्वयसन्निपाते प्रथमजननाशौचपूर्ब्बार्द्धजातबाल-
मरणे तन्मातापित्रोः पूर्ब्बाशौचकालपर्य्यन्तं
अङ्गास्पृश्यत्वयुक्तमशौचं ॥ परार्द्धजातबालमरणे
तु तज्जननावधि तन्मातापित्रोरङ्गास्पृश्यत्वयुक्तस्व-
जात्युक्तजननाशौचं । विशेषातिरिक्तसमसंख्यदि-
वसीयजननमरणाशौचयोः सन्निपाते मरणाशौच-
कालेन शुद्धिः । असमसंख्यदिवसीयजननमरणा-
शौचयोः सन्निपाते तु दीर्घशौचकालेन शुद्धिः ॥
शूद्रेतरायाः पुत्त्रजननप्रयुक्तविंशतिरात्राशौचा-
भ्यन्तरे पत्युर्म्मरणेऽपि पुत्त्रजननाशौचकालेन
शुद्धिः ॥
पूर्ब्बोक्तसपिण्डद्वयजननवर्द्धिताशौचमध्येपितृमातृ-
भर्तृमरणेऽपि वर्द्धितसपिण्डद्वयजननाशौचकालेन
शुद्धिः । एकाहे पूर्णाशौचिसपिण्डद्वयमरणे या-
वदशौचं तावत् सर्व्वसपिण्डानामस्पृश्यत्वं ॥
सकुल्यपर्य्यायसमानोदकमरणे विद्युदादिमरणे-
ऽपि अशौचं त्रिरात्रं । अङ्गास्पृश्यत्वमेकरात्रं ।
तेनैतत् त्रिरात्रद्वयं गुरु ॥ विदेशस्थमरणे अर्थात्
अशौचमध्ये अश्रुतसपिण्डमरणे त्रिरात्राशौचं
अङ्गान्स्पृश्यत्वस्नानापनेयं । अतस्तल्लघु । एषां स-
न्निपाते गुरुणैव शुद्धिः ॥
विदेशमृतज्ञातित्रिरात्राशौचस्य लघुनः विदेश-
मृतपितृमातृभर्तृत्रिरात्राशौचेन शुद्धिः ॥
तुल्यत्रिरात्राशौचसन्निपाते पूर्ब्बेणैव शुद्धिः ॥
कन्यापुत्त्रयमजोत्पत्तौ सर्ववर्णाया मातुर्म्मासेन
शुद्धिः पित्रादिसपिण्डानां स्वजात्युक्ताशौचं ॥
तयोरशौचमध्ये एकतरमरणे शूद्राभिन्नमातुः
कन्यामरणात् सद्यः शुद्धिः । न तु पुत्त्रमरणात् ॥
पित्रादिसपिण्डानान्तु प्रथमजातमरणात् शुद्धिः ।
न तु परजातमरणात् ॥ शूद्राया यमजोत्पत्तौ
प्रथमजातमरणाशौचेन शुद्धिः । न तु परजात-
मरणात् ॥ पित्रादिसपिण्डानान्तु प्रथमजातमर-
णात् शुद्धिः न तु परजातमरणात् ॥ एवमन्य-
द्भाव्यं सुधीभिः ॥
अथ शवानुगमनाद्यशौचं ॥ ८
ब्राह्मणशवानुगमने ब्राह्मणस्य सचेलस्नानाग्नि-
स्पर्शघृतप्राशनैः शुद्धिः ॥
क्षत्त्रियशवानुगमने ब्राह्मणस्य एकाहेन शुद्धिः ॥
वैश्यशवानुगमने ब्राह्मणस्य द्व्यहेन शुद्धिः ॥ शूद्र-
शवानुगमने ब्राह्मणस्य प्राणायामशतेन दिन-
त्रयेण च शुद्धिः ॥
प्रमादात् शूद्रशवानुगमने ब्राह्मणस्य जलावगाह-
नाग्निस्पर्शघृतप्राशनैः शुद्धिः ॥
अनाथब्राह्मणस्य धर्म्मबुद्ध्या दहनवहनयोः स्नान-
घृतप्राशनाभ्यां सद्यः शौचं ॥
लोभेन सजातीयदाहे स्वस्वजात्युक्ताशौचं ॥
असजातीयशवदहनवहनस्पर्शैः शवजात्युक्ताशौचं ॥
स्नेहादसम्बन्धिदाहकविप्रादेस्तद्गृहवासे त्रिरात्रं ।
अशौचिकुलान्नभोजने तत्तुल्याशौचं ॥ अशौ-
चान्नभोजनं विना तद्गृहवासेऽहोरात्रं ॥
विशेषवचनाभावे सम्बन्धिनो मातुलादेरस्नेहे-
नापि दाहे त्रिरात्रं ॥
चिताधूमसेवने स्नानात् शुद्धिः ॥ (यथाह मनुः ।
“असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥
यदन्नमत्ति तेषां तु दशाहेनैव शुध्यति ।
अनदन्नन्नमह्नैव स चेत् तस्मिन् गृहे वसेत् ॥
अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव वा ।
स्नात्वा सचेलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति” ॥)
शूद्रे मृतेऽस्थिसञ्चयनकालाभ्यन्तरे तद्गृहं गत्वा-
श्रुनिपातेन विप्रस्य त्रिरात्रं ॥ स्थानान्तरेऽश्रुपा-
तनेऽहोरात्रं ॥
शूद्रे मृतेऽस्थिसञ्चयनकालादूद्ध्वं मासाभ्यन्तरे तद्-
गृहेऽश्रुपातने विप्रस्याहोरात्रं सचेस्नानञ्च ॥
अस्थिसञ्चयनात् पूर्ब्बं विप्रगृहे रोदने विप्रस्य
एकाहेन शुद्धिः ॥
क्षत्रवैश्ययोर्गृहे रोदने विप्रस्य द्व्यहेन शुद्धिः ॥
शूद्रस्तु सर्व्वत्र रोदने नक्तेन शुद्धः ॥
मृतशूद्रस्य बान्धवैः सह रोदनरहितविलापमात्रे
ब्राह्मणस्याहोरात्रं ॥
अस्थिसञ्चयनकालस्तु पूर्णाशौचे ब्राह्मणस्य चतु-
र्थाहः । क्षत्रियस्य षष्ठाहः । वैश्यस्य अष्टमाहः ।
शूद्रस्य दशमाहः ॥ त्र्यहाशौचे सर्व्वेषां द्विती-
याहः ॥
पूर्णाशौचिमरणे ब्राह्मणस्य चतुर्थाहेऽस्पृ श्यता-
निवृत्तिः ॥ क्षत्रियस्य षष्ठदिने । वैश्यस्य अष्टम-
दिने । शूद्रस्य दशमदिनेऽस्पृश्यतानिवृत्तिः ॥
सर्वस्य खण्डाशौचे त्रिभागकालेनास्पृश्यतानि-
वृत्तिः ।
अतीतेऽशौचे सचेलस्नानेनास्पृश्यतानिवृत्तिः ॥
जननाशौचे सपिण्डानां अस्पृश्यता नास्ति ॥
पुत्त्रोत्पत्तौ स्नानात् पूर्ब्बं पितुर्विमातॄणाञ्चास्पृ-
श्यत्वं ॥
सूतिकास्पर्शे पितुर्विमातॄणाञ्च सूतिकातुल्य-
कालास्पृश्यत्वं । अन्येषां स्नानमात्रं ॥
कन्यापुत्रयोर्ज्जनने मातुर्दशरात्रमस्पृश्यत्वं ॥
कन्यापुत्रयोर्जनने शूद्रायास्त्रयोदशरात्रमस्पृश्यत्वं ॥
अथ क्षताशौचं ॥ ९
नाभेरूर्द्धमधोवा रुधिरस्रवे सन्ध्यावन्दनाद्यति-
रिक्त्वकर्म्मण्येकाहः ॥
दन्तरक्तस्रवे सर्वत्र कर्म्मण्येकाहः ॥
अथ रजस्वलाशौचं ॥ १०
तत्र प्रथमदिनावधि त्रिरात्रमशौचं ॥ त्रिरात्रात्
परं सप्तदशाहपर्य्यन्तं रजोदर्शनेऽशौचाभावः ॥
अष्टादशाहे रजोदर्शने एकाहमशौचं ॥
ऊनविंशदिने रजोदर्शने द्व्यहाशौचं ॥
ऊनविंशतिदिनात् परं रजोदर्शने त्रिरात्राशौचं ॥
रजस्वला चतुर्थेऽह्नि भर्तृसेवनादिलौकिककर्म्मणि
शुद्धा । पञ्चमेऽहनि दैवपैत्रकर्म्मणोः शुद्धा ॥
(“शुद्धाभर्त्तुश्चतुर्थेऽह्नि अशुद्धा दैवपैत्रयोः ।
दैवे कर्म्मणि पैत्रे च पञ्चमेऽहनि शुध्यति” ॥
इति शुद्धितत्त्वे ।)
रजस्वलाया अशौचमध्ये सूतिकास्पर्शे अन्त्यज-
जातिस्पर्शे च त्रिरात्रोपवासेन शुद्धिः ॥ उप-
वासस्तु अशौचात् परं करणीयः ॥
भर्तृपूरकपिण्डदानकाले यदि रजस्वला भवति
तदा वस्त्रं त्यक्त्वा पुनः स्नात्वा पूरकं दद्यात्
किन्तु शुद्ध्युत्तराशौचदिनासत्त्वएवायं विधिः ।
तत्सत्त्वे तु शुद्धया भूत्वा देयं ॥
आब्दिकश्राद्धकालेऽपुत्त्रभार्य्या यदि रजस्वला
भवति तदा पञ्चमेऽहनि तच्छ्राद्धं कुर्य्यात् ॥ * ॥
(अभिषिक्तक्षत्रियाणां चान्द्रायणादिव्रतकारिणां
गवामयनादियागप्रवृत्तानाञ्च सपिण्डमरणादाव-
शौचाभावएव । उक्तञ्च मनुना ।
“न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्रिणाम् ।
ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा” ॥
विष्णुणाप्युक्तम् । “अशौचं न राज्ञां राजकर्म्मणि,
न व्रतिनां व्रते, न सत्रिणां सत्रे” । इति ॥)
इत्यशौचव्यवस्था समाप्ता ॥

अश्मः, पुं, पर्ब्बतः । मेघः । वैदिकशब्दोऽयं ॥

अश्मकदली, स्त्री, (अश्मा इव कदलीफलं यस्याः ।)

कदलीविशेषः । इति राजनिर्घण्टः ॥ अस्याः
गुणपर्य्यायौ काष्ठकदलीशब्दे द्रष्टव्यौ ॥

अश्मकेतुः, स्त्री, (अश्मेव केतुरस्याः ।) क्षद्रपाषाण-

भेदावृक्षः ॥ इति राजनिर्घण्टः ॥

अश्मगर्भः, पुं, (अश्मेव गर्भो यस्य ।) हरिन्मणिः ।

मरकतं । इत्यमरः ॥

अश्मगर्भजं, क्ली, (अश्मनो गर्भाज्जायते इति । अश्म-

गर्भ + जन् + ड ।) मरकतं । इति राजनिर्घण्टः ॥
पान्ना इति भाषा ॥ (पुं, पाषाणजो वह्निः ।)

अश्मघ्नः, पुं, (अश्मानं पाषाणं हन्ति भिनत्तीति । अश्म

+ हन् + टक् ।) पाषाणभेदनवृक्षः । इति राज-
निर्घण्टः ॥ हाथाजुडी इति भाषा ॥ अश्मभेदशब्दे-
ऽस्य पर्य्यायगुणौ ज्ञातव्यौ ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/अवधिः&oldid=43898" इत्यस्माद् प्रतिप्राप्तम्