शब्दकल्पद्रुमः/अर्दना

विकिस्रोतः तः
Jump to navigation Jump to search

शब्दकल्पद्रुमः]

पृष्ठ १/१०६

अर्दना, स्त्री, (अर्द + युच्, टाप् ।) याच्ञा । भिक्षा ।

इत्यमरः । (यातना । बधः । हिंसा । गतिः ।)

अर्दनिः, पुं, (अर्द + अनि ।) अग्निः । याच्ञा ।

रोगः । इत्यमरटीकायां भरतः ॥

अर्दितं, क्ली, (अर्द + क्तः ।) वायुव्याधिविशेषः । तस्य

(निदानपूर्ब्बरूपसम्प्राप्तिपूर्ब्बकं) लक्षणमाह (सुश्रुतः) ।
“उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि च ।
हसतो जृम्भतो भाराद्विषमाच्छयनादपि ॥
शिरोनासौष्ठचिवुकललाटेक्षणसन्धिजः ।
अर्द्दयित्वानिलो वक्त्रमर्द्दितं जनयत्यतः ॥
वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते ।
शिरश्चलति वाक्सङ्गो नेत्रादीनाञ्च वैकृतम् ॥
ग्रीवाचिवुकदन्तानां तस्मिन् पार्श्वे तु वेदना ॥
(यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलं ।
वायरूर्द्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः ॥)
तमर्द्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः” ॥
तस्यासाध्यलक्षणञ्चाह ॥
“क्षीणस्यानिमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः ।
न सिध्यत्यर्द्दितं वाढं त्रिवर्षं वेपनस्य च ॥ * ॥
भावप्रकाशेऽप्येयं व्याख्या ॥ व्याहरतः वदतः ।
कठिनानि पूगफलादीनि । विषमाच्छयनासना-
दिति पाठान्तरे । विषमाच्छयनासनात् ग्रीवादि-
वैपरीत्येन शयनादासनाच्च । अर्द्दयति पीडयति ।
जनयेत्तत इति पाठान्तरे । ततस्तदनन्तरं अर्द्दितं
जनयेत् । अर्द्दिते जाते किं स्यात्तदाह । वक्री-
भवतीत्यादि । अपवर्त्तते वक्रीभवति । चलति
कम्पते । वाक्सङ्गः वाङ्निरोधः । नेत्रादीना-
मित्यादिशब्देन भ्रूगण्डनासिकादीनां ग्रहणं ।
वैकृतं वेदनास्फुरणवक्रत्वादि । ग्रीवेत्यादि यस्मिन्
पार्श्वे अर्द्दितं तस्मिन् पार्श्वे ग्रीवादीनां वेदना ॥
अनिमिषाक्षस्य निमेषासमर्थचक्षुषः । प्रसक्तं
प्रकर्षेण लग्नं अव्यक्तञ्च भाषितुं शीलं यस्य । तस्य
अर्द्दितं न सिध्यति त्रिवर्षं अतीतवर्षत्रयं । अथवा
त्रयाणां चक्षुर्नासामुखानां वर्षः स्रावो यत्र तत् ।
वेपनस्य कम्पनशीलस्य च । वाढमतिशयेन न
सिध्यति इत्यन्वयः । गाढमित्यर्थे च स एवार्थः ॥ * ॥
(चरकश्चाह ।
“अतिवृद्धः शरीरार्द्धमेकं वायुः प्रपद्यते ।
यदा तदोपशोष्यासृक् बाहुं पादञ्च जानु च ॥
तस्मिन् सङ्कोचयत्यर्द्धे मुखं जिह्मं करोति च ।
वक्रीकरोति नासाभ्रुललाटाक्षिहनुन्तथा ॥
ततो वक्रं व्रजत्यास्ये भोजनं वक्रनासिकं ।
स्तब्धं नेत्रं कथयतः क्षरथुश्च निगृह्यते ॥
दीना जिह्मा समुत्क्षिप्ता कला सज्जति चास्यवाक् ।
दन्ताश्चलन्ति बाध्येते श्रवणौ भिद्यते स्वरः ॥
पादहस्ताक्षिजङ्घोरुशङ्खश्रवणगण्डरुक् ।
अर्द्धे तस्मिन् मुखार्द्धे वा केवले स्यात्तदर्द्दितं” ॥ * ॥
वाभटस्वाह ।
“शिर सा भारहरणादतिहार्यप्रभाषणात् ।
उत्त्रासवक्त्रक्षरथुस्वरकार्मुककर्षणात् ॥
विषमादुपधानाच्च कठिनानाञ्च चर्ब्बणात् ।
वायुर्विवृद्धस्तैस्तैश्च वातलैरूर्द्ध्वमास्थितः ॥
वक्रीकरोति वक्त्रार्द्धमूर्द्ध्वं हसितमीक्षितं ।
ततोऽस्य कम्पते मूर्द्धा वाक्सङ्गस्तब्धनेत्रता ॥
दन्तचालः स्वरभ्रंशः श्रुतिहानिः क्षरग्रहः ।
गन्धाज्ञानं स्मृतेर्म्मोहस्त्रासः सुप्तस्य जायते ॥
निष्ठीवः पार्श्वतोयायादेकस्याक्ष्णोनिमीलनं ।
जत्रोरुर्द्ध्वं रुजा तीव्रा शरीरार्द्धेऽधरेपि वा ॥
तमाहुरर्दितं केचिदेकायामथ चापरे” ॥ * ॥
हारीतसंहितायामप्युक्तं ।
“सन्तापदाहशोषाश्च मूर्च्छापित्तान्वितोमरुत् ।
शैत्यं शोथोऽरुचिर्जाड्यं वातश्लेष्मसमन्वितं ॥
यो द्वन्द्वजाश्रितो धीरास्तं साध्यं मारुतं विदुः ।
केवलोऽपि समीरोऽपि सोऽपि साध्यतमः स्मृतः ॥
वक्त्रं भवति वक्रार्द्धं ग्रीवा चाप्यपवर्त्तते ।
वैकृत्यं नयनानाञ्च विसंज्ञो वेदनातुरः ॥
ग्रीवायां गण्डयोर्दन्तपार्श्वे यस्यातिवेदना ।
तमर्द्दितमिति प्राहुर्वातव्याधिविचक्षणाः ॥
लालास्रावोऽथ शोषश्च हनुग्राहो विरस्यता ।
दन्तशूलं भवेद्यस्य वातेनार्द्दितमेव च ॥
पीतार्द्धं सज्वरं तृष्णा पित्तजे मोह एवच ।
शोफस्तम्भोऽस्य भवति कफोद्भूतेऽथवार्द्दिते” ॥ * ॥)
“वातात्पित्तात्कफाच्च स्यात् त्रिविधं तत्समासतः ।
लालास्रावो व्यथा कम्पः स्फुरणं हनुवाग्ग्रहः ॥
ओष्ठयोः श्वयथुः शूलश्चार्दिते वातजे भवेत् ।
पीतमास्यं ज्वरस्तृष्णा पित्तजे मोहधूपने ॥
गण्डे शिरसि मन्यायां शोथः स्तम्भः कफात्मके” ॥ * ॥
(अथ तस्य चिकित्सामाह सुश्रुतः ॥ अर्द्दितातुरं
बलवन्तमुपकरणवन्तञ्च वातव्याधिविधानेनोपच-
रेद्वैशेषिकैश्च मस्तिष्कशिरोवस्तिनस्यधूपोपनाह-
स्नेहनाडीस्वेदादिभिः । ततः सतृणं महापञ्चमूलं
काकोल्यादिं विदारिगन्धादि सौदकानूपमांसं त-
थैवौदकन्दांश्च संहृत्य द्विगुणोदके क्षीरद्रीणे नि-
क्वाथ्य पादावशिष्टमवतार्य्य परिस्राव्य तैलप्रस्थे-
नोन्मिश्र्य पुनरग्नावधिश्रयेत् ततस्तैलं क्षीरानु-
गतमवतार्य्य शीतीभूतमभिमन्थीयात्तत्र यः स्नेहः
उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं वि-
पचेदेतत् क्षीरतैलमर्द्दितातुराणां पानाभ्यङ्गादि-
धूपयोज्यं ॥ तैलहीनं वा क्षीरसर्पिरक्षितर्पण-
मिति ॥ * ॥ चरकस्तु ॥
“अर्द्दिते नावनं मूर्द्ध्नि तैलं तर्पणमेव च ॥
नाडीस्वेदोपनाहाश्च आनूपपिशितैर्हिताः” ॥ * ॥
वाभटश्च ॥
“अर्द्दिते नावनं मूर्द्ध्नि तैलं श्रोत्राक्षितर्पणं ।
सशोफे वमनं दाहरागयुक्ते शिराव्यधः” ॥ * ॥
हारीतसंहितायां ।
“अर्द्धं पलं रसोनञ्च हिङ्गुसैन्धवजीरकैः ।
सौवर्च्चलेन संयुक्तं तथैव कटुकत्रिकं ॥
घृतेन संयुतं भक्षेन्मासमेकं दिने दिने ।
निहन्ति वातरोगञ्च अर्द्दितञ्च प्रतानकं” ॥ * ॥
चक्रपाणिसंग्रहे ॥
“रसोनं नवनीतेन प्राश्य हन्त्यर्दितं द्रुतं ।
अर्द्दिते नवनीतेन खादेन्माषण्डरीं नरः ॥
क्षीरमांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ।
स्नैहाभ्यङ्गशिरोवस्तिपाननस्यपरायणः ।
अर्द्दितं स जयेत् सर्पिः पिबेदौत्तरभक्तिकं” ॥ * ॥
भावप्रकाशेऽप्येतदतिरिक्तं यत्संगृहीतं तच्चैतत् ॥)
“स्नेहपानानि नस्यञ्च भोज्यान्यनिलहृन्ति च ।
उपनाहाश्च शस्यन्ते स्वेदनं वस्तयोऽर्द्दिते” ॥
वस्तिरत्रशिरोवस्तिरेव ।
“दशमूलीकषायेण मातुलुङ्गरसेन वा ।
बलया पञ्चमूल्या वा क्षीरं वातात्मके हितं ॥
पिष्टं माषकृतं जग्ध्वा नवनीतेन सोऽर्द्दिती ।
क्षीरं मांसरसैर्भुक्त्वा दशमूलीरसं पिबेत् ॥
अर्दिते पित्तजे शीतान् स्नेहांश्चैव विनिर्द्दिशेत् ।
घृतवस्तिप्रसेकञ्च क्षीरसेकं तथैव च ॥
जिह्मीभूताननो मूको दाहवान् योऽर्द्दिती भवेत् ।
कुर्य्यात् प्रतिक्रियां तस्य वातपित्तविनाशिनीं ॥
श्लेष्मभागे क्षयं नीते वृंहणैः समुपाचरेत् ।
अर्दिते शोथसंयुक्ते वमनञ्च प्रशस्यते ॥
रसोनकल्कं तिलतैलमिश्रं
खादेन्नरो योऽर्द्दितरोगयुक्तः ।
तस्यार्द्दितं नाशमुपैति शीघ्रं
वृन्दं घनानामिव वायुवेगात्” ॥ इति ।

अर्द्दितः, त्रि, (अर्द्द + क्तः ।) याचितः । इत्यमरः ॥

हिंसितः । इति मेदिनी ॥ गतः । पीडितः । इति
शब्दरत्नावली ॥

अर्द्धं, क्ली, (ऋध् + घञ् ।) समानांशः । समभागः ।

इत्यमरः ॥ आधा इति भाषा । समभागेऽर्द्धशब्दः
पुमान् क्लीवञ्च । अर्द्धशब्दः पुंलिङ्गः खण्डपर्य्याय-
एव विभागीकृत्य वण्टितस्य तुल्यवण्टिते अद्ध
क्लीवमेवेति केचित् । अर्द्धो रूपभेदात् भागे
पुंसि । तथा वस्त्रार्द्धो नगरार्द्धः उपचारात्तु भाग-
वति वाच्यलिङ्गः । यथा अर्द्धा शाटी अर्द्धः कम्बलः
अर्द्धं वस्त्रं । इति माधवी ॥ असमपरिभागवृ-
त्तिस्त्रिलिङ्गोऽर्द्धैत्यनुन्यासः । समग्रविभागेऽर्द्ध-
शब्दो नपुंसक एव नान्यलिङ्गः । इति भागवृत्तिः ।
इति भरतः ॥

अर्द्धः, पुं, (ऋध् + घञ् ।) एकदेशः । तत्पर्य्यायः ।

भित्तं २ शकलं ३ खण्डं ४ । इत्यमरः ॥ (“पश्चा-
र्द्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्ब्बकायम्” ॥
इति शाकुन्तले ।
“सर्व्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः ।
अर्द्धेन कुरुते कार्य्यं सर्व्वनाशो हि दुःसहः” ॥
इति पञ्चतन्त्रं ।)

अर्द्धगङ्गा, स्त्री, (अर्द्धं गङ्गायाः, एकदेशतत्पुरुषः ।)

कावेरी नदी । इति त्रिकाण्डशेषः ॥

अर्द्धगुच्छः, पुं, (अर्द्धः चन्द्रसमः गुच्छः ।) चतुर्व्विं-

शतिगच्छकहारः । इति हेमचन्द्रः ॥ चव्विशनरि
दाना इति भाषा ।

अर्द्धचन्द्रः, पुं, (अर्द्धं चन्द्रस्य ।) नखक्षतं । बाण-

विशेषः ।
(“चतुर्भिरर्द्धचन्द्रैश्च जघान चतुरो हयान्” ।
इति रामायणे ।) गलहस्तः । (“शृगालाः सर्व्वे-
ऽर्द्धचन्द्रं दत्वा निःसारिताः” । इति एञ्चतन्त्रे ।)
गलाटिपी यस्य प्रसिद्धिः । इति मेदिनी ॥ चन्द्रकः ।
पृष्ठ १/१०७
:चन्द्रखण्डं । इति हेमचन्द्रः ॥ मयूरपुच्छेर चाँद
इति भाषा ।

अर्द्धचन्द्रा, स्त्री, (अर्द्धं चन्द्रस्य, अर्द्धचन्द्र + टाप् ।)

कृष्णत्रिवृत् । इत्यमरः ॥ काल तेउडी इति भाषा ।

अर्द्धचन्द्रिका, स्त्री, (अर्द्धचन्द्र + स्वार्थे कन्, ह्रस्वे

अत इत्त्वे टांप् ।) कर्णस्फोटालता । इति राजनि-
र्घण्टः ॥

अर्द्धचोलकः, पुं, क्षुद्रचोलकः । इति हारावली ॥

काँचली इति भाषा ।

अर्द्धजाह्नवी, स्त्री, (अर्द्धं जाह्नव्याः ।) कावेरी नदी ।

इति हेमचन्द्रः ॥

अर्द्धतिक्तः, पुं, (अर्द्धः असम्पूर्णस्तिक्तः ।) नेपाल-

निम्बः । इति राजनिर्घण्टः ॥ (नेपालनिम्बशब्दे-
ऽस्य गुणा वक्तव्याः ॥)

अर्द्धनारीशः, पुं, (अर्द्धाङ्गे या नारी पार्ब्बतीरूपा

तस्या ईशः ।) शिवः । इति शब्दरत्नावली ॥ तस्य
ध्यानं यथा, --
“नीलप्रबालरुचिरं विलसत्त्रिनेत्रं
पाशारुणोत्पलकपालकशूलहस्तं ।
अर्द्धाम्बिकेशमनिशं प्रविभक्तभूषं
बालेन्दुबद्धमुकुटं प्रणमामि रूपं” ॥
इति तन्त्रसारः ॥

अर्द्धनारीश्वरः, पुं, (अर्द्धाङ्गे या नारी तस्या ईश्वरः ।)

उमामहेश्वरः । स च शिवः । यथा विष्णुधर्म्मोत्तरे ।
“अष्टमी नवमीयुक्ता नवमी चाष्टमीयुता ।
अर्द्धनारीश्वरप्राया उमामाहेश्वरी तिथिः” ॥
इति तिथ्यादितत्त्वं ॥ अपि च ।
“अजेशः सर्व्वसोमेशस्तथा लाङ्गुलिदारुकौ ।
अर्द्धनारीश्वरश्चोमाकान्तश्चाषाढिदण्डिनौ” ॥
इति तन्त्रसारे शिवमन्त्रे श्रीकण्ठादिन्यासः ॥ * ॥
अस्य मन्त्रादिकं यथा, --
“अग्निसंवर्त्तकादित्यरानिलौ षष्ठविन्दुमत् ।
चिन्तामणिरिति ख्यातं वीजं सर्व्वसमृद्धिदं” ॥
अग्नीरेफः । संवर्त्तकः क्षकारः । आदित्यो
मकारः । र रेफः । अनिलो यकारः । औ स्वरूपं ।
षष्ठस्वर ऊकारः ॥ प्रपञ्चसारे । “अनलकयमरेफ-
प्राणसत्यान्तवामश्रुतिहिमरुचिखण्डैर्मण्डितो म-
न्त्रराजः” । इति वचनात् रेफ एव न तु वकारः ।
रं£ क्षं£ मं£ रं£ यं£ औं£ ऊं£ । इति
मन्त्रः । अस्य पूजा प्रातःकृत्यादिशैवोक्तपीठमन्वन्तं
विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । यथा शिरसि
कश्यपाय ऋषये नमः । मुखेऽनुष्टुप्छन्दसे नमः ।
हृदि अर्द्धनारीश्वराय देवतायै नमः । ततः
कराङ्गन्यासौ कुर्य्यात् । रं अङ्गुष्ठाभ्यां नमः । कं
तर्जनीभ्यां स्वाहा । षं मध्यमाभ्यां वषट् । मं
अनामिकाभ्यां हुँ । रं कनिष्ठाभ्यां वौषट् । यं
करतलपृष्ठाभ्यां फट् । एवं हृदयादिषु । तथा च
निबन्धे । “रेफादिव्यञ्जनैः षड्भिः कुर्य्यादङ्गानि
षट् क्रमात्” । ततो ध्यानं ।
“नीलप्रबालरुचिरं विलसत्त्रिनेत्रं
पाशारुणोत्पलकपालकशूलहस्तं ।
अर्द्धाम्बिकेशमनिशं प्रविभक्तभूषं
बालेन्दुबद्धमुकुटं प्रणमामि रूपं” ॥
एवं ध्यात्वा मानसैः संपूज्यार्घ्यस्थापनं कृत्वा
शैवोक्तपीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्च-
पुष्पाञ्जलिदानपर्य्यन्तं विधाय आवरणपूजामार-
भेत । यथा । केशरेष्वग्न्यादिकोणेषु मध्ये दिक्षु
च रं इत्यादिना षडङ्गानि पूजयेत् । ततः पत्रेषु
पूर्ब्बवत् वृषभादीन् पूजयेत् । पत्राग्रेषु पूर्ब्बादितः
ब्राह्मीं माहेश्वरीं कौमारीं वैष्णवीं वाराहीं
इन्द्राणीं चामुण्डां महालक्ष्मीञ्च पूजयेत् । तद्वहि-
रिन्द्रादीन् वज्रादींश्च संपूज्य धूपादिविसर्जनान्तं
कर्म्म समापयेत् ॥ अस्य पुरस्करणं लक्षजपः ।
तथा च ।
“लक्षमेकं जपेन्मन्त्रमित्थं मन्त्री विचिन्तयन् ।
अयुतं मधुरासिक्तैर्ज्जुहुयात्तिलतण्डुलैः” ॥
इति तन्त्रसारः ॥

अर्द्धपारावतः, पुं, (अर्द्धेन अङ्गेन पारावत इव ।)

चित्रकण्ठकपोतः । तित्तिरिपक्षी । इति मेदिनी ॥

अर्द्धमाणवः, पुं, द्वादशयष्टिकहारः । इति हेम-

चन्द्रः ॥ वारोनरि हार इति भाषा ।

अर्द्धरात्रः, पुं, (अर्द्धं रात्रेः, अर्द्धं नपुंसकमित्येक-

देशी समासः, अहःसर्व्वैकदेशसंख्यातपुण्याच्च
रात्रेरिति समासान्तोऽच्प्रत्ययः, रात्र्यह्नाहा पुंसि
इति नियमात् पुंस्त्वम् ।) रात्र्यर्द्धभागः । दुइप्रहर
रात्रि इति भाषा । तत्पर्य्यायः । निशीथः २ ।
इत्यमरः ॥ निसम्पातः ३ अवसरालयः ४ । इति
शब्दरत्नावली ॥ सुप्तजनः ५ । इति जटाधरः ॥
रात्र्यष्टममुहूर्त्तः । स तु रात्रिमध्यदण्डद्वयात्मकः ।
सम्पूर्णार्द्धरात्रोऽप्ययं । महानिशा । सा तु सा-
र्द्धप्रहरानन्तरं सार्द्धतृतीयप्रहरपर्य्यन्तं । इति
स्मृतिः ॥
(“मध्यन्दिनेऽर्द्धरात्रे च श्राद्धं भुक्त्वा च सामिषम्” ।
“मध्यन्दिनेऽर्द्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद्धर्म्मकामार्थान् सार्द्धं तैरेक एव वा” ॥
इति मनुः ।)

अर्द्धर्चः, पुं, क्ली, (अर्द्धं ऋचः समासान्तः अच्-

प्रत्ययः ।) अर्द्धऋक् । ऋङ्नामकवैदिकमन्त्रार्द्ध-
भागः । इत्यमरः ॥

अर्द्धलक्ष्मीहरिः, पुं, (अर्द्धं लक्ष्म्या आकारे, अर्द्धं

च हरेः, तादृशो हरिः ।) विष्णुः । यथा ।
गौतमीये, --
“ऋषिः प्रजापतिश्छन्दो गायत्त्री देवता पुनः ।
अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीवीजेन षडङ्गकं” ॥
अस्य मन्त्रादि यथा, --
“तारं नमः पदं ब्रूयान्नरौ दीर्घसमन्वितौ ।
पवनोणायमन्त्रोऽयं प्रोक्ती वस्वक्षरः परः” ॥
अस्य पूजाप्रयोगः । प्रातःकृत्यादिस्नानान्तं कर्म्म
कृत्वा पूजामण्डपमागत्य वैष्णवाचमनं कुर्य्यात् ।
तद्यथा गौतमीये, --
“केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत् करौ ।
द्वाभ्यामोष्ठौ द्विरुन्मृज्य द्वाभ्यां मृज्यान्मुखं ततः ॥
एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः ।
संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षणादिभिः ॥
आस्यनासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् ।
स्पृशेदेवं भवेदाचमनञ्च वैष्णवान्वये ॥
एवमाचमनं कृत्वा साक्षान्नारायणो भवेत्” ॥
केशवादयस्तु केशव-नारायण-माधव-गोविन्द-
विष्णु-मधुसूदन-त्रिविक्रम-वामन-श्रीधर-हृषी-
केश-पद्मनाभ-दामोदर-सङ्कर्षण-वासुदेव-प्रद्युम्ना-
निरुद्ध-पुरुषोत्तमाधोक्षज-नृसिंहाच्युत-जनार्द्दनो-
पेन्द्र-हरिविष्णवः ॥ वाक्यन्तु ओम् केशवाय नमः ।
इत्यादि । तथा च ।
“सचतुर्थिनमोऽन्तैश्च नामभिर्व्विन्यसेत् सुधीः”
ततः सामान्यार्ध्यादिमातृकान्यासान्तं कर्म्म वि-
धाय केशवकीत्यादिन्यासं कुर्य्यात् । अस्य ऋष्यादि-
न्यासः । शिरसि प्रजापतये ऋषये नमः । मुखे
गायत्रीच्छन्दसे नमः । हृदि अर्द्धलक्ष्मीहरये
देवतायै नमः । ततः कराङ्गन्यासौ । श्रीं अङ्गु-
ष्ठाभ्यां नमः । इत्यादि । श्रीं हृदयाय नमः ।
इत्यादि । तथा च गौतमीये ।
“ऋषिः प्रजापतिश्छन्दो गायत्री देवता पुनः ।
अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीवीजेन षडङ्गकं” ॥
ततो ध्यानं ।
“उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातं
पार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टं ।
नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रं,
विष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिं” ॥
इत्यादि । इति तन्त्रसारः ॥

अर्द्धवीक्षणं, क्ली, (अर्द्धमसम्पूर्णं वीक्षणम् ।) अपा-

ङ्गदर्शनं ॥ कटाक्षः । इति हेमचन्द्रः ॥

अर्द्धशनं, क्ली, (अर्द्धमसम्पूर्णमशनं भोजनं, अर्द्ध +

अश् + ल्युट् ।) अर्द्धाशनं । अर्द्धभोजनं । इति
शब्दरत्नावली ॥

अर्द्धसफरः, पुं, (अर्द्धः सफरः ।) क्षुद्रमत्स्यविशेषः ।

दाँडिका माछ इति भाषा । तत्पर्य्यायः । दण्ड-
पालः २ । इति हारावली ॥

अर्द्धहारः, पुं, (ऋध-वृद्धौ + अच्, अर्द्धः सम्पन्नः

हारः ।) चतुःषष्टियष्टिकहारः । इत्यमरः ॥ चौ-
षट्टिनरि हार इति भाषा ।

अर्द्धाशनं, क्ली, (अर्द्धमसम्पूर्णमशनं भोजनं, अर्द्ध +

अश + ल्युट् ।) अर्द्धभोजनं । इति शब्दरत्नावलीं ॥

अर्द्धासनं, क्ली, (अर्द्धमासनस्य ।) स्नेहदानं । अकुत्-

सनं । इति धरणिः ॥ (उपवेशनार्थमासनार्द्धदान-
रूपः स्नेहव्यञ्जकः सम्मानभेदः । यथा, --
“अर्द्धासनं गोत्रभिदोऽधितष्टौ” । इति रघु-
वंशे । “मम हि दिवौकसां समक्षम् अर्द्धा-
सनोपवेशितस्य” ! इति शाकुन्तले ।)

अर्द्धेन्दुः, पुं, (अर्द्धमिन्दोः ।) चन्द्रार्द्धभागः । गल-

हस्तः । नखचिह्नं । अतिप्रौढस्त्रीयोन्यङ्गुलियो-
जनं । इति मेदिनी ॥ अर्द्धचन्द्रबाणः । इति
हेमचन्द्रः ॥

अर्द्धोदयः, पुं, (अर्द्धस्य समृद्धस्य पुण्यस्य उदयो यत्र ।)

योगविशेषः । स च रविवारव्यतीपातश्रवणा-
नक्षत्रैर्युक्ता चेत् पौषमाघयोरमावास्या स्यात्तदा
भबति । यथा । पाश्चात्यनिर्णयामृते ।
पृष्ठ १/१०८
:“अमार्कपातश्रवणैर्युक्ता चेन्माघपौषयोः ।
अर्द्धोदयः स विज्ञेयः कोटिसूर्य्यग्रहैः समः ॥
अत्र सूर्य्यपर्ब्बशताधिक इति कृत्यचिन्तामणौ
पाठः । तथा ।
“दिवैव योगः शस्तोऽयं न च रात्रौ कदाचन ।”
स्कन्दपुराणे ।
“अर्द्धोदये तु संप्राप्ते सर्व्वं गङ्गासमं जलं ।
शुद्धात्मानो द्विजाः सर्व्वे भवेयुर्ब्रह्मसन्निभाः ॥
यत्किञ्चित् क्रियते दानं तद्दानं सेतुसन्निभं” ॥
शिवविष्णुस्नानप्रशस्तकालोऽपि । वृहन्नारदीयं ।
“अर्द्धोदये च पूष्यार्के हस्तार्के रोहिणीबुधे” ।
इति तिथ्यादितत्त्वं ॥

अर्द्धोरुकं, क्ली, (अर्द्धमूरोः अर्द्धोरु, तत्र काशते,

काश + ड ।) उत्तमस्त्रीणां अर्द्धोरुपर्य्यन्तं चेल-
नाकारपरिधेयवस्त्रं । तत्पर्य्यायः । चण्डातकं २ ।
इत्यमरः ॥

अर्पणं, क्ली, (ऋ + णिच् + ल्युट् ।) प्रापणं । सम-

र्पणं । यथा, --
“यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणं” ॥
इति श्रीभगवद्गीतायां ९ अध्यायः । (स्थापनं ।
न्यासः ।
“कैलासगौरं वृषमारुरुक्षोः
पादार्पणानुग्रहपूतपृष्ठम्” ।
इति रघुवंशे । स्वत्वत्यागः । परित्यागः ।
“अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये” ।
इति साहित्यदर्पणे ।)

अर्पिसः, पुं, (ऋ + णिच् + इसन् ।) हृदयं । इत्युणा-

दिकोषः ॥ (अग्रमांसः ।)

अर्ब्ब, हिंसे । (भ्वादि-परं-सकं-सेट् ।) गतौ । इति

कविकल्पद्रुमः ॥ अर्ब्बति । इति दुर्गादासः ॥

अर्ब्बुदः, पुं, क्ली, (अर्ब्ब + विच्, तस्मै उदेति, उद्

+ इण + ड ।) दशकोटिसंख्या । रोगविशेषः ।
मांसकीलः । मांसपुरुषः । आव् इति भाषा ।
इति लिङ्गादिसंग्रहे अमरो मेदिनी च ॥ तस्य
निदानलक्षणे ।
“गात्रप्रदेशे क्वचिदेव दोषाः
संमूर्च्छिता मांसमसृक् प्रदूष्य ।
वृत्तं स्थिरं मन्दरुजं महान्त-
मनल्पमूलं चिरवृद्ध्यपाकं ॥
कुर्ब्बन्ति मांसोच्छ्रयमत्यगाधं
तमर्ब्बदं शास्त्रविदो वदन्ति” ।
महान्तं ग्रन्थ्यपेक्षया चिरेण वृद्धिरपाकश्च यस्य
तत् चिरवृद्ध्यपाकं । अपाकमिति ग्रन्थेः सका-
शादस्य भेदज्ञापकं । अत्यगाधं दूरानुप्रविष्टं ॥ * ॥
निदानपूर्ब्बकाणि विशिष्टानि लक्षणान्याह ।
“वातेन पित्तेन कफेन वापि
रक्तेन मांसेन च मेदसा च ।
तज्जायते तस्य च लक्षणानि
ग्रन्थेः समानानि सदा भवन्ति” ॥
ग्रन्थेः समानानि वातिकपैत्तिकश्लैष्मिकमेदोजानां
ग्रन्थीनां लक्षणैर्व्वातिकपैत्तिकश्लैष्मिकमेदोजाना-
मर्ब्बुदानां लक्षणानि तुल्यानि भवन्ति ॥ * ॥ रक्ता-
र्ब्बुदमाह ।
“दोषप्रदुष्टे रुधिरं शिराश्च
सङ्कोच्य संपीड्य ततस्त्वपाकं ।
सस्रावमुन्नह्यति मासपिण्डं
मांसाङ्कुरैरावृतमाशु वृद्धिं ॥
स्रवत्यजस्रं रुधिरं प्रदुष्ट-
मसाध्यमेतद्रुधिरात्मकन्तु ।
रक्तक्षयोपद्रवपीडितत्वात्
पाण्डुर्भवेदर्ब्बुदपीडितस्तु” ॥
दोषोऽत्र पित्तं रुधिरं शिराश्च सङ्कोच्य संपीड्य
संहतीकृत्यमांसासृजोः सर्वेष्वर्ब्बुदेषु दूष्यत्वं रक्तजे
तु विशेषतोरक्वदुष्टिः । एवं मांसार्ब्बुदे विशेषतो
मांसदुष्टिर्बोद्धव्या । ततो मांसपिण्डमुन्नह्यति
उद्गतं करोति । अपाकं ईषत्पाकं यथा स्यादेव-
मिति क्रियाविशेषणं ईषत्पाकश्च एकदेशपाकेन ।
रक्तक्षयोपद्रवपीडितत्वात् । रक्तक्षयोपद्रवाः
सुश्रुतेनोक्ताः । तैः पीडितत्वात् । अर्ब्बुदपीडितः
रक्तार्ब्बुदपीडितः ॥ * ॥ मांसार्ब्बुदस्य संप्राप्तिमाह
“मुष्टिप्रहारादिभिरर्दितेऽङ्गे
मांसं प्रदुष्टं समुपैति शोथं ।
अवेदनं स्निग्धमनन्यवर्ण-
मपाकमश्मोपममप्रचाल्यं” ॥
मांसं प्रदुष्टं वातेन । अवेदनं वेदनारहितं
ईषद्वेदनं वा । अपाकं पाकरहितं ईषत्पाकं
वा । अश्मोपमं पाषाणवत् कठिनं । अप्रचाल्यं
स्थिरं । यद्यपि रक्तमांसार्ब्बुदयो रक्तमांसयो-
र्हेतुत्वेनोक्तिः तथापि रक्तजे पित्तं मांसजे वायु-
रारम्भकः ॥ * ॥ निदानमाह ।
“प्रदुष्टमांसस्य नरस्य गाढ-
मेतद्भवेन्मांसपरायणस्य” ।
मांसाशनाभ्यासेन यः प्रदुष्टमांसस्तस्यैव भवति
इत्यर्थः ॥ * ॥ असाध्यमाह ।
“मांसार्बुदं त्वेतदसाध्यमाहुः
साध्येष्वपीमानि विवर्जयेच्च ।
संप्रस्तुतं मर्म्मसु यच्च जातं
स्रोतःसु वा यच्च भवेदचाल्यं” ॥
साध्येष्वपि वातजादिष्वपि । इमानि वक्ष्यमाणानि
संप्रस्तुतादीनि ॥ * ॥ अपरासाध्यमाह ।
“यज्जायतेऽन्यत् खलु पूर्ब्बजाते
ज्ञेयं तदध्यर्ब्बुदमर्ब्बुदज्ञैः ॥
यद्द्वन्द्वजातं युगपत् क्रमाद्वा
द्विरर्ब्बुदं तच्च भवेदसाध्यं” ॥ * ॥
अर्ब्बुदानां पाकाभावे हेतुमाह ।
“न पाकमायाति कफाधिकत्वा-
न्मेदोबहुत्वाच्च विशेषतस्तु ।
दोषस्थिरत्वात् ग्रथनाच्च तेषां
सर्व्वार्ब्बुदान्येव निसर्गतस्तु” ।
ग्रथनात् ग्रन्थिरूपत्वात् । नन्वपच्यां कफमेद-
सोराधिक्येऽपि पाको दृश्यते तथात्र कथं न पाक
इत्याह निसर्गात् स्वभावात् ॥ * ॥
अथार्ब्बुदस्य चिकित्सा ।
“ग्रन्थ्यर्ब्बुदानां न यतो विशेषः
प्रदोषहेत्वाकृतिदोषदुष्टेः ।
अतश्चिकित्सेद्भिषगर्ब्बुदानि
विधानविद्ग्रन्थिचिकित्सितेन ॥
हरिद्रा-लोध्र-पत्तङ्ग-गृहधूम-मनःशिला ।
मधुप्रगाढो लेपोऽयं मेदोऽर्ब्बुदहरः परः ॥ १ ॥
मूलकस्य कृतः क्षारो हरिद्रायास्तथैव च ।
शङ्खचूर्णेन संयुक्तो लेपः सिद्धोऽर्ब्बुदापहः ॥ २ ॥
वटदुग्धकुष्ठरोमकलिप्तं बद्धं वटस्य पत्रेण । अध्य-
स्थिसप्तरात्रात् महादप्युपशान्तिमर्ब्बुदं गच्छेत् ॥ ३ ॥
शिग्रुमूलकयोर्ब्बीजं रक्षोघ्नं सुरसां यवं ।
तक्रेणाश्वरिपुं पिष्ट्वा लिम्पेदर्ब्बुदशान्तये ॥ ४ ॥
रक्षोघ्नं सर्षपं । सुरसां तुलसीं । यवं रन्द्रयवं ।
अश्वरिपुं करवीरं । इत्यर्ब्बुदाधिकारः । इति
भावप्रकाशः ॥

अर्ब्बुद, पुं, (अर्ब्ब + उदच् ।) पर्ब्बतविशेषः । इति

मेदिनी ॥

अर्भः, पुं, (ऋ + भ ।) बालकः । इति हेमचन्द्रः ॥

(प्रभाहीनः । मलिनः । शिष्यः । छात्रः । शिशिरः ।
शाकशस्यादिकं ।)

अर्भकः, पुं, (अर्भ एव, स्वार्थे कन् ।) शिश्रुः । इत्य-

मरः ॥
(“अभूच्च नम्रः प्रणिपातशिक्षया
पितुर्मुदं तेन ततान सोऽर्भकः” ।
इति रघुवंशे ।) मूर्खः । कृशः । इति मेदिनी ॥
स्वल्पः । सदृशः । इत्युणादिकोषः ॥

अर्म्मं, क्ली, पुं, (ऋ + मन् ।) चक्षूरोगविशेषः ।

इति लिङ्गादिसंग्रहे अमरः ॥ तच्च पञ्चविधं ।
प्रस्तार्य्यर्म्म १ शुक्लार्म्म २ रक्तार्म्म ३ मांसार्म्म ४
स्नाष्वर्म्म ५ । एषां लक्षणानि तत्तत्शब्दे द्रष्ट-
व्यानि । वैद्यके नान्तक्लीवलिङ्गोऽयं शब्दः ॥

अर्म्मणः, पुं, (ऋ + बाहुलकात् मन् ।) द्रोणपरि-

माणं । इति वैद्यकपरिभाषा ॥

अर्य्यः, पुं, (ऋ + यत् ।) स्वामी । वैश्यः । इत्यमरः ॥

श्रेष्ठे त्रि । इति तट्टीकायां भरतः ॥ (त्रि, उत्कृष्टः ।
न्याय्यः । प्रभुः ।

अर्य्यमा, [न्] पुं, (अर्य्यं श्रेष्ठं मिमीते, मा +

कनिन् ।) सूर्य्यः ।
(“प्रोषितार्य्यमणं मेरोरन्धकारस्तटीमिव” ।
इति माघः ।
“सूर्य्योऽर्य्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः” ॥
इति महाभारति । कश्यपात् दक्षकन्यया दित्या
जातो द्वादशादित्यमध्ये परिगणितः ख्यात आ-
दित्यः, यदुक्तं हरिवंशे, --
“मारीचात् कश्यपाज्जातास्ते दित्या दक्षकन्यया ।
तत्र शक्रश्च विष्णुश्च जज्ञाते पुनरेव ह ॥
अर्य्यमा चैव धाता च त्वष्टा पूषा च भारत ! ॥
विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशोभगश्चातितेजा आदित्या द्वादश स्मृताः” ॥)
अर्कवृक्षः । इत्यमरः ॥ पितृदेवविशेषः । इति
मेदिनी ॥
पृष्ठ १/१०९

अर्य्या, स्त्री, (ऋ + यत् + टाप् ।) वैश्यस्त्रीजातिः ।

इत्यमरः ॥

अर्य्याणी, स्त्री, (अर्य्य + आनुक् + ङीप् ।) वैश्यस्त्री-

जातिः । इत्यमरः ॥

अर्य्यी, स्त्री, (अर्य्य + ङीप् ।) वैश्यपत्नी । इत्यमरः ॥

वैश्यस्त्रीजातिः । इति दुर्गादासः ॥

अर्व्व बधे । (इति कविकल्पद्रुमः) ॥ (भ्वादिं-परं-

सकं-सेट् ।) अर्व्वति । इति दुर्गादासः ॥ अन्तः-
स्थवकारान्तोऽयं ॥

अर्व्वती, स्त्री, (अर्व्व + बाहुलकात् वनिप् + ङीप् ।)

घोटकी । इति हलायुधः ॥ कुट्टनी । इति
त्रिकाण्डशेषः ॥

अर्व्वा, [न्] पुं, (ऋ + वनिप् ।) घोटकः । इत्य-

मरः ॥ इन्द्रः । गोकर्णपरिमाणं । इति विश्वः ॥
कुत्सिते त्रि । इत्यमरः ॥

अर्व्वाक्, व्य, (अवरे काले देशे वा अञ्चति, अन्च +

क्विन्, पृषोदरादित्वात् अर्व्वादेशः ।) पूर्ब्ब-
कालतः पश्चात् । तत्पर्य्यायः । अवरः २ । इत्य-
मरः ॥ निकटं । इति भरतः । अर्व्वाच् इति
केचित् ॥

अर्व्वाचीनः, त्रि, (अर्व्वाग्भवः, खः ।) पश्चाज्जातः ।

विपर्य्यस्तं । इति धरणिः ॥ (इदानीन्तनः । अधो-
भागस्थितः । अवरदेशगतः ।
(“यटूर्द्ध्वं पृथिव्या अर्व्वाचीनमन्तरीक्षात्” ।
इति शतपथब्राह्मणे ।)

अर्शं, क्ली, (ऋश् + अच् ।) अर्शोरोगः । इति

शब्दरत्नावली ॥ (बलिकाकारः गुह्यस्थरोगभेदः ।)

अर्शः, [स्] क्ली, (ऋ + असुन्, शुट् ।) स्वनाम-

ख्यातपायुरोगः । तत्पर्य्यायः । दुर्नामकं २ । इत्य-
मरः ॥ दुर्नाम ३ गुदकीलः ४ गुदाङ्कुरः ५ ।
इति राजनिर्घण्टः ॥ अनामकं ६ । इति शब्द-
रत्नावली ॥ यथा । अथार्शोऽधिकारः । तत्रार्शसः
सन्निकृष्टनिदानान्याह ।
“पृथग्दोषैः समस्तैश्च शोणितात् सहजानि च ।
अर्शांसि षट्प्रकाराणि विद्याद्गुदवलित्रये” ॥
केचिद्रुधिरस्यापि दोषत्वं मन्यन्ते । तन्मतमाश्रि-
ग्राह । शोणितादिति । सहजानि शरीरेण सह
जातानि । सङ्ख्याञ्चाह । षट्प्रकाराणीति । गुद-
वलित्रये सार्द्धचतुरङ्गुलं गुदस्य मानं तस्यावयव-
भूतास्तिस्रो वलयः शङ्खावर्त्तनिभा उपर्य्युपरि
सन्ति । तासां नाम प्रवाहिणी विसर्जनी संव-
रणी चेति । तत्र गुदौष्ठोऽर्द्धाङ्गुलमानस्तदूर्द्ध्व-
मङ्गुलमाना प्रथमा वलिः । सार्द्धैकाङ्गुलमाना
द्वितीया । तृतीया च तावती । उक्तञ्च ।
“अर्द्धाङ्गुलप्रमाणेन गुदौष्ठं परिचक्षते ।
गुदौष्ठादङ्गुलं चैकं प्रथमान्तु वलिं विदुः ॥
सार्द्धैकाङ्गुलमानेन पृथगन्ये प्रकीर्त्तिताः” ॥ * ॥
अथ वातार्शसो विप्रकृष्टं निदानमाह ।
“कषायकटुतिक्तानि रूक्षशीतलघूनि च ।
प्रमिताल्पाशनं तीक्ष्णं मद्यं मैथूनसेवनं ॥
लङ्घनं देशकालौ च शीतौ व्यायामकर्म्म च ।
शोको वातातपस्पर्शो हेतुर्व्वातार्शसां मतः” ॥
प्रमितमपरिमितं । तीक्ष्णमिति मद्यविशेषणं ।
पैष्ट्यादिमृदुमद्यस्य वातसमकत्वात् । आतप-
स्तूष्णवीर्य्योऽप्युद्भूतरौक्ष्याद्वातप्रकोपे हेतुः वाता-
र्शसां । नन्वर्शांसि सर्व्वाणि त्रिदोषजानि । यतआह ।
“पञ्चात्मा मारुतः पित्तं कफो गुदवलित्रये ।
सर्व एव प्रकुप्यन्ति गुदजानां समुद्भवः” ॥ इति ।
तथा सति कथं वातार्शसामिति उच्यते । तत्त-
दाधिक्याद्व्यपदेशभेद इति न दोषः । अतएव
अग्रे वक्ष्यते । पित्तोल्वणानामिति तथाच चरकः ।
“अर्शांसि नाम जायन्ते नासन्निपतितैस्त्रिभिः ।
दोषैर्दोषविशेषात्तु विशेषः कथ्यतेऽर्शसां” ॥
इति ॥ * ॥ अथ पित्तार्शसो विप्रकृष्टनिदान-
माह ।
“कट्वम्ललवणोष्णानि व्यायामाग्न्यातपप्रभाः ।
देशकालावशिशिरौ क्रोधोमद्यमसूयनं
विदाहि तोक्ष्णमुष्णं यत् तत् सर्व्वं पानभोजनं ।
पित्तेल्वाणानां विज्ञेयः प्रकोपे हेतुरर्शसां” ॥
उष्णद्रव्यस्य स्पर्शनादि बोद्धव्यं उष्णपानभोजन-
स्याग्रे वक्ष्यमाणत्वात् । अग्न्यातपप्रभा अग्न्या-
तपयोः प्रभा तेजः । अथवा अग्न्यातपेतरतेज-
स्विद्रव्यस्य दीप्तिः प्रभा । अशिशिरो देशो मरुः ।
असूयनं परसम्पत्तिद्वेषः । पानभोजनं पीयत इति
पानं । भुज्यते इति भोजनं प्रकोपे उत्पत्तौ ॥ * ॥
अथ कफार्शसो विप्रकृष्टं निदानमाह ।
“मधुरस्निग्धशीतानि लवणाम्लगुरूणि च ।
अव्यायामदिवास्वप्नशय्यासनसुखे रतिः ॥
प्राग्वातसेवाशीतौ च देशकालावचिन्तनं ।
श्लैष्मिकाणां समुद्दिष्टमेतत् कारणमर्शसां” ॥
अचिन्तनं निश्चिन्तता ॥ * ॥ अथ त्रिदोषार्शसो
विप्रकृष्टं निदानमाह ।
“सर्व्वो हेतुस्त्रिदोषाणां सहजैर्लक्षणं समं” ।
जनकत्वेन त्रयो दोषा येषां तानि त्रिदोषाणि
अर्शांसि तेषां सर्व्वो हेतुः । पृथग्वातपित्त-
कफार्शोहेतुः । त्रिदोषार्शसां लक्षणञ्च सहजैः
सहजार्शोभिः समं सदृशं । ननु त्रिदोषाणां इति
विशेषणं व्यर्थं । यतः सर्व्व एव व्याधयस्त्रिदोषजाः ।
उक्तञ्च ।
“द्रव्यमेकरसं नास्ति न रोगोऽप्येकदोषजः ।
एकस्तु कुपितो दोष इतरावपि कोपयेत्” ॥
इति । युक्तिमप्याह । स्वकारणाद्वद्धो वायुः शै-
त्याच्छीतलं श्लेष्माणं लाघवात्तेजोरूपं पित्तं वर्द्ध-
यते । तथा पित्तं कटुकत्वात् वातं द्रवत्वात् कफं
वर्द्धयते । श्लेष्मा च शैत्याद्वायुं द्रवत्वात् पित्तं
वर्द्धयते इति । उच्यते । यत्र स्वस्वकारणात्त्रयो
दोषाः कुप्यन्ति तत्र त्रिदोषजव्यपदेश इति न
दोषः ॥ * ॥ अथार्शसां पूर्ब्बरूपमाह ।
“विष्टम्भोऽन्नस्य दौर्बल्यं कुक्षेराटोप एव च ।
कार्श्यमुद्गारबाहुल्यं सक्थिसादोऽप्लविट्कता ॥
ग्रहणीदोषपाण्ड्वर्त्तेः प्रशङ्का चोदरस्य च ।
पूर्ब्बरूपाणि निर्द्दिष्टान्यर्शसामभिवृद्धये” ॥
दौर्बल्यमाबल्यं । आटोपः गुड्गुडाशब्दः । अभि-
वृद्धये उत्पत्तये ॥ * ॥ अथार्शसां संप्राप्तिपूर्ब्बकं
सामान्यं लक्षणमाह ।
“दोषास्त्वङ्मांसमेदांसि संदूष्य विविधाकृतीन् ।
मांसाङ्कुरानपानादौ कुर्वन्त्यर्शांसि तान् जगुः” ॥
त्वङ्मांसपदेन त्वङ्मांसाश्रितं रक्तमपि गृह्यते ।
चिकित्सायां रक्तस्रावणोपदेशात् । अपानं गुदं ।
आदिशब्दान्नासानेत्रनाभिमेढ्रादिष्वपि कुर्वन्ति ॥ * ॥
अथ वातार्शोलक्षणमाह ।
“गुदाङ्कुरा बह्वनिलाः शुष्काश्चिमिचिमान्विताः ।
म्लानाः श्यावारुणाः स्तब्धा विशदाः परुषाः खराः ॥
मिथोविसदृशा वक्रास्तीक्ष्णा विस्फुटिताननाः ।
विम्बीकर्क्कन्धुखर्ज्जूरकार्पासीफलसन्निभाः ॥
केचित्कदम्बपुष्पाभाः केचित् सिद्धार्थकोपमाः ।
शिरःपार्श्वांसकट्यूरुवङ्क्षणाभ्यधिकव्यथाः ॥
क्षवथूद्गारविष्टम्भहृद्ग्रहारोचकप्रदाः ।
कासश्वासाग्निवैषम्यकर्णनादभ्रमावहाः ॥
तैरार्त्तो ग्रथितं स्तोकं सशब्दं सप्रवाहिकं ।
रुक्फेनपिच्छानुगतं विड्बद्धमुपवेश्यते ॥
कृष्णत्वङ्नखविण्मूत्रनेत्रवक्त्रञ्च जायते ।
गुल्मप्लीहोदराष्ठीलासम्भवस्तत एव च” ॥
बह्वनिलाः वातोल्वणाः । गुदाङ्कुराः अर्शांसि ।
चिमिचिमान्विताः चिमिचिमा व्यथाविशेषः
चरचराव इति लोके तदन्विताः । श्यावारुणाः
श्यावा धूम्रवर्णाः । अरुणा ईषद्रक्ताः । स्तब्धाः
कठिनाः । विशदाः अपिच्छिलाः । परुषाः गो-
जिह्वावत् स्पर्शे कर्कशाः । खराः कर्क्कोटकफल-
वत् सूक्ष्मानेककण्टकाचिताः । विम्बादिफल-
सन्निभाः आकृत्याः । अत्र विकल्पबोधकं वक्ष्यमाणं
केचित् केचिदिति पदं सग्वन्धनीयं ।
“कदम्बपुष्पाभाः स्थूला अनेकसूक्ष्मशिखराः ।
सिद्धार्थकोपमाः पीतसूक्ष्मपिडकाश्रिताः” ॥
तैरार्त्त इति अर्शोभिः पीडितः । तैरार्त्तो विडुप-
वेश्यत इत्यार्त्तस्य प्रयोज्यकर्त्तुः कर्म्मतार्थत्वात् ।
ग्रथितं मलगुटिकाग्रथितविड्वर्त्तिरूपं । पिच्छा
पिच्छिलो द्रवभागः । बद्धं संहतं । विष्शब्दो-
नपुंसकेऽप्यस्ति । उपवेश्यते त्यज्यते । अतएव
वातार्शस एव गुल्मादीनां सम्भवः । अष्ठीला
नाभेरधोभागे पाषाणपिण्डिकावद्वातव्याधिविशेषः
॥ * ॥ अथ पित्तार्शोलक्षणमाह ॥
“पित्तोत्तरा नीलमुखा रक्तपीतासितप्रभाः ।
तन्वस्रस्राविणो विस्रास्तनवो मृदवः श्लथः ॥
शुष्कजिह्वायकृत्खण्डजलौकोवक्त्रसन्निभाः ।
दाहपाकज्वरस्वेदतृष्णामूर्च्छारतिप्रदाः ॥
सोष्माणो द्रवनीलोष्णपीतरक्तामवर्च्चसः ।
यवमध्या हरित्पीतहारिद्रत्वङ्नखादयः” ॥
पित्तोत्तराः पित्तोल्वणाः । तनु अघनं । श्लथाः
लम्बिनः । सन्निभाः आकृत्या । पाको गुदस्य ।
सोष्माणः उष्णस्पर्शाः । हरिच्छाकवर्णं । पीतं
हरितालवर्णं । हारिद्रं हरिद्रावर्णं । आदि-
शब्दान्मलमूत्रमुखानां ग्रहणं ॥ * ॥ अथ केचि-
द्रुधिरस्यापि दोषत्वं मन्यन्ते तन्मतमाश्रित्य रक्ता-
र्शोलक्षणमाह ।
पृष्ठ १/११०
:“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः ।
वटप्ररोहसदृशा गुञ्जाविद्रु मसन्निभाः ॥
तेऽत्यर्थं दुष्टमुष्णञ्च गाढविट्कप्रपीडिताः ।
स्रवन्ति सहसा रक्तं तस्य चातिप्रवृत्तितः ॥
भेकाभः पीड्यते दुःखैः शोणितक्षयसम्भवैः ।
हीनवर्णबलोत्साहो हतौजाः कलुषेन्द्रियः ॥
विट् श्यावं कठिनं रूक्षमधोवायुर्न वर्त्तते ।
तनु चारुणवर्णञ्च फेनिलञ्चासृगर्शसां ॥
कट्यूरुगुदशूलञ्च दौर्ब्बल्यं यदि वाधिकं ।
तत्रानुबन्धो वातस्य हेतुर्यदि च रूक्षणं ॥
शिथिलं श्वेतपीतञ्च विट् स्निग्धं गुरु शीतलं ।
यद्यर्शसां घनञ्चासृक् तन्तुमत् पाण्डु पिच्छिलं ॥
गुदं सपिच्छं स्तिमितं गुरु स्निग्धञ्च कारणं ।
श्लेष्मानुबन्धो विज्ञेयस्तत्र रक्त्वार्शसां बुधैः” ॥
गुदे कीला अर्शांसि । पित्ताकृतिसमन्विताः
पित्तार्शोलक्षणयुक्ताः । आकारेण च वटप्ररो-
हादिसदृशाः । दुःखै रोगैः । त्वक्पारुष्याम्बु-
शीतप्रार्थनादिभिः । कलुषेन्द्रियः व्याकुलसर्वेन्द्रियः
॥ ० ॥ रक्तजस्यापि वातोल्वणस्य लक्षणमाह ॥
तत्र रक्तार्शसि । अनुबन्धः उल्वणत्वं । रूक्षणं
रूक्षयतीति रूक्षणं रूक्षं द्रव्यं । पित्तोल्वणस्य तु
लक्षणं ।
“रक्तोल्वणा गुदे कीलाः पित्ताकृतिसमन्विताः” ।
इत्यादिनैवोक्तं । रक्तपित्तयोः समानलिङ्गत्वात् ॥
॥ * ॥ कफोल्वणस्य लक्षणमाह । सपिच्छं पिच्छि-
लार्द्रं । स्तिंमितमार्द्रचर्म्मावगुण्ठितमिव ॥ * ॥ अथ
श्लेष्मार्शोलक्षणमाह ।
“श्लेष्मोल्वणा महामूला घना मन्दरुजः सिताः ।
उत्पन्नोपचिताः स्निग्धाः स्तब्धवृत्तगुरुस्थिराः ॥
पिच्छिलास्तिमिताः श्लक्ष्णाः कण्ड्वाढ्याः स्पर्शनप्रियाः
करीरपनसास्थ्याभास्तथा गोस्तनसन्निभाः ॥
वङ्क्षणानाहिनः पायुवस्तिनाभिविकर्षिणः ।
सकासश्वासहृल्लासप्रसेकारुचिपीनसाः ॥
मेहकृच्छ्रशिरोजाड्यशिशिरज्वरकारिणः ।
क्लैव्याग्निमार्द्दवच्छर्द्दिरामप्रायविकारदाः ॥
वसाभसकफप्राज्यपुरीषाः सप्रवाहिकाः ।
न स्रवन्ति न भिद्यन्ते पाण्डुस्निग्धत्वगादयः” ॥
उत्पन्नाः उन्नताः । उपचिताः स्थूलाः । स्निग्धा ।
सस्नेहाः । स्थिरा निश्चलाः । पिच्छिलाः कफा-
रब्धत्वात् । स्तिमिताः आर्द्रवस्त्रगुण्ठिता इव ।
श्लक्ष्णा मणिवन्मसृणाः । करीरो वंशाङ्कुरः ।
पनसास्थिगोस्तनाः तदाकृतयः । वङ्क्षणानाहिनः
वङ्क्षणयोरानाहकारिणः । पाष्वादिष्वाकर्षणवत्
पीडाकारिणः । कृच्छ्रं मूत्रकृच्छ्रं । शिरोजाड्यं
शिरसो भाराक्रान्तत्वमिव । क्लैव्यं स्त्रीष्वनिच्छा ।
अत्र छर्द्दिशब्दः सान्त आर्षत्वात् । आमप्राय-
विकारदाः आमबहुला व्याधयोऽतीसारग्रहण्या-
दग्रः तान् ददाति ॥ * ॥ अथ द्वन्द्वजार्शोलक्षण-
माह ।
“हेतुलक्षणसंसर्गाद्विद्यात् द्वन्द्वोल्वणानि च” ॥ * ॥
अत्र त्रिदोषार्शसः सहजार्शसश्च लक्षणमाह ।
“सर्व्वैः सर्व्वात्मकान्याहुर्लक्षणैः सहजानि च” ।
सर्व्वैर्लक्षणैर्वातपित्तश्लेष्मार्शोलक्षणैः प्रागुक्तैः । स-
र्व्वात्मकानि सान्निपातिकान्यर्शांस्याहुः । तथा
तरेव लक्षणैः सहजानि चार्शांस्याहुः ॥ * ॥ तन्त्रा-
न्तरे सहजार्शोलक्षणं पृथगाह ।
“अर्शांसि सहजातानि दारुणानि भवन्ति हि ।
दुर्दर्शनानि पाण्डूनि परुषाण्यरुणानि च ॥
अन्तर्म्मुखानि तैरार्त्तः क्षीणः क्षीणस्वरो भवेत् ।
क्षीणानलः क्षीणरेताः शिरासन्ततविग्रहः ॥
अल्पप्रजः क्रोघशीलः सन्ततान्त्रस्वनान्वितः ।
शिरोदृक्कर्णनासासु रोगी हृल्लेपसेकवान्” ॥ * ॥
अथ सुखसाध्यार्शोलक्षणमाह ।
“वाह्यायान्तु बलौ जातान्येकदोषोन्त्वणानि च ।
अर्शांसि सुखसाध्यानि न चिरोत्पतितानि च” ॥
वाह्यायां वलौ संवरण्यां । न चिरोत्पतितानि
अनतिक्रान्तसंवत्सराणि । एतानि लक्षणानि
मिलितानि सुखसाध्यत्वबोधकानि ॥ * ॥ अथ ।
कष्टसाध्यार्शोलक्षणमाह ।
“द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च ।
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च” ॥
द्वितीयायां वलौ विसर्जन्यां । परिसंवत्सराणि
परिगतः सवत्सरो येषां तानि । अतिक्रान्त-
संवत्सराणि इति यावत् । एतानि प्रत्येकं कष्ट-
साध्यलक्षणानि ॥ * ॥ अथासाध्यार्शोलक्षणमाह ।
“सहजानि त्रिदोषाणि यानि चाभ्यन्तरां वलिं ।
जायन्तेऽर्शांसि संगृह्य तान्यसाध्यानि निर्दिशेत्” ॥
अभ्यन्तरां वलिं प्रवाहिणीं । एतान्यपि प्रत्येक-
मसाध्यलक्षणानि ।
“शेषत्वादायुषस्तानि चतुष्पादसमन्वये ।
याप्यन्ते दीप्तकायाग्नेः प्रत्याख्येयान्यतोऽन्यथा” ॥
यद्यायुषः शेषो वर्त्तते चिकित्सायाश्चत्वारः पा-
दास्ते यथा । वद्यवचनकारी धनवानुदारो जिते-
न्द्रियो रोगी । १ । शास्त्रे कर्म्मणि च कुशलो
वैद्यः । २ । अनलस आप्तः प्रियः परिचारकः । ३ ।
नवं रसवीर्य्यादियुक्तमौषधं । ४ । एषां समन्वये
संयोगे सति दीप्तकायाग्रेः पुरुषस्य । तानि अ-
र्शांसि । याप्यन्ते चिकित्सया । अतोऽन्यथा प्रत्या-
ख्येयानि न चिकित्स्यानीत्यर्थः ॥ * ॥ अथार्शो-
ऽरिवृमाह ।
“हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा ।
शोथो हृत्पार्श्वशूलञ्च यस्यासाध्योऽर्शसो हि सः ॥
असाध्यः सन्निहितमरणो बोद्धव्यः । अर्शसः
अर्शोरोगयुक्तः । एतन्मिलितमरिष्टलक्षणं ।
“हृत्पार्श्वशूलं संमोहच्छर्द्दिरङ्गस्य रुग्ज्वरः ।
तृष्णा गुदास्यपाकश्च निहन्युर्गुदजातुरं ॥
गुदस्य यदास्यमोष्ठदेशस्तस्य पाकः । हृत्पार्श्व-
शूलादिसमस्तं व्यस्तं चारिष्टलक्षणं ॥
“तृष्णारोचकशूलार्त्तमतिप्रस्रुतशोणितं ।
शोथातिसारसंयुक्तमर्शांसि क्षपयन्ति हि” ॥ * ॥
अथ मेढ्रादिजार्शोलक्षणमाह ।
“मेढ्रादिष्वपि वक्ष्यन्ते यथास्वं नाभिजानि च ।
गण्डूपदास्यरूपाणि पिच्छिलानि मृदूनि च” ॥
यथास्वं यथात्मीयलक्षणं । न चात्रोक्तनिदान-
पूर्ब्बरूपसंप्राप्तिलक्षणयुक्तं । तत्र तत्रार्शःपदं तु
मांसाङ्कुरसाम्यात् । गण्डूपदः किञ्चुलकः ॥ * ॥
अत्र मांसाङ्कुरसाम्यादत्राधिकारे चर्म्मकीलस्य
संप्राप्तिपूर्ब्बकं लक्षणमाह ।
“व्यानो गृहीत्वा श्लेष्माणं करोत्यर्शस्त्वचो वहिः ।
कीलोपमं स्थिरखरञ्चर्मकीलन्तु तद्विदुः” ॥
चर्म्मा इति लोके । खरं कर्कशं ॥ * ॥ तस्यैव
वातादिभेदेन लक्षणमाह ।
“वातेन तोदपारुष्यं पित्तादसितरक्तता ।
श्लेष्मणा स्निग्धता तस्य ग्रथितत्वं सवर्णता” ॥
सवर्णता शरीरसमानवर्णता ॥ * ॥ अथ सामा
न्यतः अर्शसश्चिकित्सा ।
“यद्वायोरानुलोम्याय यदग्निबलवृद्धये ।
अन्नपानौषधं सर्वं तत्सेव्यं नित्यमर्शसैः” ॥
अर्शसैः अर्शोरोगयुक्तैः ।
“शालियष्टिकगोधूमयवान्नानि घृतैः सह ।
अजाक्षीरेण वा निम्बपटोलानां रसेन वा ॥
कन्दैर्व्वार्त्ताकुमूलोत्थै रसैर्मांसरसेन वा ।
जीवन्त्युपोदिकाशाकैस्तण्डुलीयकवास्तुकैः” ॥ १ ॥
कन्दोऽत्र शूरणः । अत्र मूलं मूलकं ।
“अन्यैश्च सृष्टविन्मूत्रमरुद्भिर्वह्निदीपनैः ।
अर्शांसि भिन्नवर्चांसि हन्याद्वातातिसारवत् ॥
सतक्रं लवणं दद्याद्वातवर्चोऽनुलोमनं ।
न प्ररोहन्ति गदजाः पुनस्तक्रसमाहताः ॥
तक्राम्यासोऽर्शसैः कार्य्यो बलवर्णाग्निवृद्धये ।
स्रोतःसु तक्रशुद्धेषु सम्यक् चलति यद्रसः ॥
तेन पुष्टिस्तथा तुष्टिर्बलं वर्णश्च जायते ।
वातश्लेष्मविकाराणां शतञ्च विनिवर्त्तयेत् ॥
मृल्लिप्तं शौरणं कन्दं पक्त्वाग्नौ पुटपाकवत् ।
अद्यात् सतैललवणं दुर्नामविनिवृत्तये ॥ २ ॥
चिरिविल्वाग्निसिन्धूत्थनागरेन्द्रयवारलून् ।
तक्रेण पिबतोऽर्शांसि निपतन्त्यसृजा सह” ॥
चिरिविल्वः करञ्जः तस्य फलस्यात्र मज्जा ग्राह्या ।
अरलुः श्योनकः । करञ्जादिचूर्णं ॥ ३ ॥
“लेपं रजनिचूर्णेन सुधादुग्धयुतेन च ।
अर्शोरोगनिवृत्त्यर्थं कारयेत्तच्चिकित्सकः ॥ ४ ॥
पिप्पलीसैन्धवं कुष्ठं शिरीषस्य फलं तथा ।
स्नुग्दुग्धमर्कदुग्धं वा लेपोऽयं गुदजान् हरेत् ॥ ५ ॥
हरिद्राजालिनीचूर्णं कटुतैलसमन्वितं ।
एष लेपो वरः प्रोक्तो ह्यर्शसामन्तकारकः” ॥
जालिनी कटुतुरै इति लोके ॥ ६ ॥
“असितानां तिलानान्तु पलं शीतजलेन तु ।
खादतोऽर्शांसि शाम्यन्ति दृढादन्ता भवन्तिहि ॥ ७ ॥
शस्त्रैर्व्वाथ जलौकोभिः प्रोच्छूनकठिनार्शसः ।
शोणितं सञ्चितं दृष्ट्वा हरेत् प्राज्ञः पुनः पुनः ॥ ८ ॥
कासीसं सैन्धवं कृष्णा शुण्ठी कुष्ठञ्च लाङ्गली ।
शिलाभिदश्वमारश्च दन्तीजन्तुघ्नचित्रकं ॥
तालकं कुनटी स्वर्णक्षीरी चैतैः पचेद्भिषक् ।
तैलं स्नुह्यर्कपयसा गवां मूत्रे चतुर्गुणे ॥
एतदभ्यङ्गतोऽर्शांसि क्षारेणैव पतन्ति हि ।
क्षारकर्म्मकरं ह्मेतन्न च संदूषयेद्वलिं” ॥
कासीसं कौसीस इति लोके । लाङ्गली करहारी
पृष्ठ १/१११
:इति लोके । शिलाभित् पाषाणभेदः । अश्वमारः
कनैल इति लोके । स्वर्णक्षीरी चोक इति लोके ।
वृहत्कासीसाद्यं तैलं ॥ ९ ॥
“शुण्ठीकणामरिचनागदलत्वगेलं
चूर्णीकृतं क्रमविवर्द्धितमूर्द्ध्वमन्त्यात् ।
खादेदिदं समसितं गुदजाग्निमान्द्यं
गुल्मारुचिश्वसनकण्ठहृदामयेषु” ॥
तद्यथा । एलात्र सूक्ष्मा ग्राह्या । यत आह मदन-
पालः ।
“एला सूक्ष्मा कफश्वासकासार्शोमूत्रकृच्छ्रहृत्” ।
इत्यादि । तस्या वीजभागः १ तजभागः २ दलं
पत्रं । यत आह निघण्टौ धन्वन्तरिः ।
“तमालपत्रकं पत्रं स्यात् पलाशं दलाह्वयम्” ।
इति तस्य भागः ३ । नागो नागकेशरं । यत
आह निघण्टौ धन्वन्तरिः ।
“नागपुष्पं मतं नागं केशरं नागकेशरम्” ॥
इत्यादि । तस्य भागः ४ मरीचभागः ५ पिपरि-
भागः ६ शुण्ठीभागः ७ चिनिभागः २८ । सम-
शर्करचूर्णं ॥ १० ॥
“त्रिपलं शृङ्गवेरस्य चतुष्क मारचस्य च ।
पिप्पल्याः कुडवार्द्धञ्च चव्यायाः पलमेव च ॥
तालीशपत्रस्य पलं पलार्द्धं केशरस्य च ।
द्विपलं पिप्पलीमूलमर्द्धकर्षञ्च पत्रकात् ॥
सूक्ष्मैलाकर्षमेकन्तु कर्षञ्च त्वङ्मृणालयोः ।
गुडात् पलानि त्रिंशच्च चूर्णमेकत्र कारयेत् ॥
अङ्कप्रमाणगुटिका प्राणदा चेति सा स्मृता ।
पूर्ब्बं भक्ष्यञ्च पश्चाच्च भोजनस्य यथाबलं ॥
मद्यं मांसरसं यूषं क्षारतोयं पिबेदनु ।
हन्यादर्शांसि सर्व्वाणि सहजान्यस्रजानि च ॥
वातपित्तकफोत्थानि सन्निपातोद्भवानि च ।
पानात्यये मूत्रकृच्छ्रे उरोरोगे गलग्रहे ॥
विषमज्वरपित्ते च पाण्डुरोगे तथैव च ।
कृमिहृद्रोगिणाञ्चैव गुल्मशूलार्त्तिनां तथा ॥
छर्द्यतीसाररोगाणां कामलाहिक्किनां तथा ।
शुण्ठीस्थानेऽभया देया हृद्ग्रहे पित्तजे गदे ॥
प्राणदेयं सितां दत्त्वा गुडमानाच्चतुर्गुणां ।
अम्लपित्ताग्निमान्द्यादौ प्रयोज्या गुदजातुरे ॥
अनुपाने प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलं ।
पलद्वयं त्वनिलजे पित्तजे तु पलत्रयं ॥
फलाम्लधान्याम्लरसास्यशस्ता
मद्यं मरुद्रोगिणि चानुपानं ।
इक्षो रसक्षारहिमाम्बु पित्ते
उष्णाम्बुयूषौ कफजे विदध्यात् ॥
गण्डूषमात्रमादेयं मृदौ क्रूरे च पञ्च वा ।
अनुपानं प्रयोक्तव्यं देशकालमवेक्ष्य वा” ॥
इति प्राणदा गुटिका ॥ ११ ॥
“त्रिकत्रयं वचा हिङ्गु पाठाक्षारौ निशाद्वयं ।
चव्यतिक्ता कलिङ्गानि शताह्वा लवणानि च ॥
ग्रन्थिविल्वाजमोदा च गणोऽष्टाविंशतिर्मतः ।
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ॥
चूर्णं विडालपदकं पिबेदुष्णेन वारिणा ।
एरण्डतैलयुक्तं वा लिह्याच्चूर्णमिदं नरः ॥
हन्यादर्शांसि सर्व्वाणि श्वासशोषभगन्दरान् ।
हृच्छूलं पार्श्वशूलञ्च वातगुल्मं तथोदरं ॥
हिक्कां कासं प्रमेहांश्च पाण्डुरोगं सकामलं ।
आमवातमुदावर्त्तमन्त्रवृद्धिं गुदक्रिमीन् ॥
अन्ये च ग्रहणीदोषा भिषग्मिर्ये प्रकीर्त्तिताः ।
विजयो नाम चूर्णोऽयं तान् सर्व्वानाशु नाशयेत् ॥
महाज्वरोपसृष्टानां भूतोपहतचेतसां ।
अप्रजानाञ्च नारीणां हितमेतद्धि भेषजं ॥
त्रिकत्रयं त्रिफलात्रिकटुत्रिसुगन्धीनि ।
क्षारौ स्वर्ज्जिका यवक्षारश्च । लवणानि पञ्च ।
ग्रन्थिः पिप्पलीमूलं । विडालपदकं कर्षं । विजय-
चूर्णं ॥ १२ ॥
“मरिचमहौषधचित्रकशूरण-
भागा यथोत्तरं द्विगुणाः ।
सर्व्वसमो गुडभागः
सेव्योऽयं मोदकः प्रसिद्धफलः ॥
ज्वलनं ज्वलयति जाठर-
मुन्मूलयति शूलगुल्मगदान् ।
निःशेषयति श्लीपद-
मर्शांसि विनाशयत्याशु” ॥
तद्यथा । मरिचभागः १ शुण्ठीभागः २ चिता-
भागः ४ शूरणभागः ८ गुडभागः १५ । लघु-
शूरणमोदकः ॥ १३ ॥
“षोडशशूरणतोऽंशा वह्नेरष्टौ महौषधस्याथ ।
अर्द्धेन भागयुक्तिर्मरिचस्य ततोऽपि चार्द्धेन ॥
त्रिफला कणा समूला तालीशारुस्करकृमिघ्नानां ।
भागा महौषधसमा दहनांशतालमूली च ॥
भागः शूरणतुल्यो दातव्यो वृद्धदारकस्यापि ।
भृङ्गैले मरिचांशे सर्व्वाण्येकत्र कारयेत् चूर्णं ॥
द्विगुणेन गडेन युतः सेव्योऽयं मोदकः प्रकामधनैः ।
गुरुवृष्यभोज्यनिरतैरितरेषूपद्रवं कुर्य्यात् ॥
भस्मकमनेन जनितं पूर्ब्बमगस्त्यस्य योगराजेन ।
भीमस्य मारुतेरपि महाशनौ येन तौ जातौ ॥
अग्निबलमात्रहेतुर्न केवलं शूरणो महावीर्य्यः ।
हन्ता शस्त्रक्षारानलैर्विनाप्यर्शसामेषः ॥
श्वयथुश्लीपदगदहृद्ग्रहणीञ्च कफानिलोद्भुतां ।
नाशयति वलीपलितं मेधां कुरुते जरां हरते ॥
हिक्कां कासं श्वासं सराजरोगान् प्रमेहांश्च ।
प्लीहानञ्च तथोग्रं हन्यादाशु रसायनं पुंसां” ॥
एषां भागो यथा । शूरणभागः १६ चिताभागः ८
सोठिभागः ४ मरिचभागः २ । हररे वहेरा
अवरा । पीपर पिपरामूल । तालीशं तालीश-
पत्रं । अरुस्करं भल्लातकं । तदसह्यत्वे रक्तचन्दनं ।
विडङ्गं प्रत्येकं भागः ४ तालमूली मूषली तस्याः
भागः ८ विधाराभागः १६ तजभागः २ एलाइच-
छोटीवीजभागः २ गुडभागः ४ । ७२ । वृहच्छू-
रणो मोदकः ॥ १४ ॥
“त्रिवृत्तेजोवती दन्ती श्वदंष्ट्रा छित्रकं शटी ।
गवाक्षीमुस्तविश्वाह्वविडङ्गानि हरीतकी ॥
पलोन्मितानि चैतानि पलान्यष्टावरुस्करात् ।
वृद्धदारात् पलान्यष्टौ शूरणस्य तु षोडश ॥
जलद्रोणद्वये क्वात्थ्यं चतुर्भागावशेषितं ।
पूत तु तं रसं भूयः क्वाथेभ्यः त्रिगुणं गुडं ॥
लेहं पचेत् पुनस्तावद्यावद्दर्व्वीप्रलेपनं ।
अवतार्य्य ततः पश्चात् चूर्णानीमानि दापयेत् ॥
त्रिवृत्तेजोवतीकन्दचित्रकान् द्विपलांशिकान् ।
एलात्वङ्मरिचं चापि नागाह्वं चापि षटपलं ॥
द्वात्रिंशच्च पलान्यत्र चूर्णयित्वा निधापयेत् ।
ततो मात्रां प्रयुञ्जीत जीर्णे क्षीररसाशिनः” ॥
तेजोवती तेजवती तेजवल्कल इति च ।
कन्दः शूरणः ।
“हन्यादर्शांसि सर्व्वाणि तथा सर्व्वोदराण्यपि ।
गुल्मानपि प्रमेहांश्च पाण्डूरोगं हलीमकं ॥
दीपयेदनलं मन्दं यक्ष्माणं चापकर्षति ।
आद्यवाते प्रतिश्याये पीनसेऽयं हितो मतः ॥
भवन्त्यनेन पुरुषाः शतं वर्षाण्यनामयाः ।
दीर्घायुषः प्रजनना वलीपलितवर्ज्जिताः ॥
गुडः श्रीबाहुशालोऽयं रसायनवरो मतः ।
दुर्न्नामान्तकरो ह्येष दृष्टो वारसहस्रशः ॥
यावद्दर्व्वीप्रलेपः स्याद्यावद्वा तण्डुली भवेत् ।
तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ॥
क्षिप्तस्तु निश्चलस्तिष्ठेत् पतितस्तु न शीर्य्यति ।
एष पाकः समस्तानां गुडानां परिकीर्त्तितः ॥
सार्द्धं पलं पलञ्चार्द्धं भक्षयेद्गुडखण्डयोः ।
श्रेष्ठा तु मध्यमा हीना मात्रोक्ता मुनिभिस्त्रिधा” ।
बाहुशालो गुडः ॥ १५ ॥
“तिला भल्लातकं पथ्या गुडश्चेति समांशकं ।
दुर्न्नामश्वासकासघ्नं प्लीहपाण्डूज्वरापहं ॥
पित्तश्लेष्मप्रशमनी कच्छुदद्रुरुजापहा ।
गुदजान्नाशयत्याशु भक्षिता सगुडाभया” ॥ १६ ॥ * ॥
“प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरं ।
जीवितारोगमन्विच्छन्नारदोऽपृच्छदीश्वरं ॥
सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्व्विना ।
चिकित्सामर्शसां नॄणां कारुण्याद्वक्तुमर्हसि ॥
नारदस्य वचः श्रुत्वा नराणां हितकाम्यया ।
अर्शसां नाशनं श्रेष्ठं भैषज्यं शङ्करोऽवदत् ॥
पाण्ड्यवज्रादिलोहानामादायान्यतमं शुभं ।
कृत्वा निर्म्मलमादौ तु कुनट्या माक्षिकेण च ॥
पत्तूरमूलकल्केन लिम्पेद्रसयुतेन च” ।
कुनटी मनःशिला । माक्षिकं सुवर्णमाक्षिकं ।
पत्तूरं वकम इति लोके । शालिञ्चा इति रसेन्द्र-
चिन्तामणौ । रसः पारदः ।
“वह्नौ निःक्षिप्य विधिवत् साराङ्गारेण निर्धमेत् ।
ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन वा” ॥
सारः काष्ठसारः । शालाङ्गारेण इति रसेन्द्र-
चिन्तामणौ पाठः ।
“ततो विज्ञाय गलितं शङ्कुनोर्द्ध्वं समुत्क्षिपेत् ।
त्रिफलाया रसे पूते तदाकृष्य तु निर्व्वपेत् ॥
न सम्यग्गालितं यत्तु तेनैव विधिना पुनः ।
ध्मातं निर्व्वापयेत्तस्मिन् लोहं तत् त्रिफलारसे ॥
यल्लोहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ब्बवत् ।
मारणान्न मृतं यच्च तत्त्यक्तव्यमलोहवत् ॥
ततः संशोष्य विधिवत् चूर्णयेल्लोहभाजने ।
लोहेनैव तथा वत्स दृषदा सूक्ष्मचूर्णितं ॥
पृष्ठ १/११२
:कृत्वा लोहमये पात्रे मार्द्दे वा लिप्तरन्ध्रके ।
रसैः पङ्कोपमं कृत्वा तं पचेद्गोमयाग्निना ॥
पुटानि क्रमशो दद्यात् पृथगेषां विधानतः ।
त्रिफलार्द्रवभृङ्गाणां केशराजस्य बुद्धिमान् ॥
माणकन्दकभल्लातवह्नीनां शूरणस्य च ।
हस्तिकणंपलाशस्य कुलिशस्य तथैव च” ॥
भृङ्ग भङ्गरिया । केशराजः भृङ्गराज इति द्विः ।
कुलिशं स्नुहीक्षीरं ।
“पुटे पुटे चूर्णयित्वा लोहात् षोडशिकं पलं ।
तन्मानं त्रिफलायाश्च पलेनाधिकमाहरेत् ॥
अष्टभागावशिष्टे तु रसे तस्याः पचेद्बुधः ।
अष्टौ पलानि दत्त्वा च सर्पिषो लोहभाजने ॥
ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्ब्बकं ।
ततः पाकविधानज्ञः स्वच्छे चोर्द्ध्वे च सर्पिषि ॥
मृदुमध्यादिभेदेन गृह्णीयात् पाकमाज्यतः ।
आरभेत विधानज्ञः कृतकौतुकमङ्गलः ॥
भ्रामरं घृतसंयुक्तं विलिह्याद्रक्तिकक्रमात् ।
वर्द्धमानानुपानञ्च गव्यक्षीरेण संयुतं ॥
गव्याभावे त्वजायाश्च स्निग्धवृष्यादिभोजनं ।
सद्योवह्विकरञ्चैव भस्मकञ्च नियच्छति ॥
हन्ति वातं तथा पित्तं कुष्ठानि विविधं ज्वरं ।
गुल्माक्षिपाण्डुरोगांश्च निद्रालस्यमरोचकं ॥
शूलञ्च परिणामञ्च प्रमेहमवबाहुकं ।
अयथुं रुधिरस्रावं दुर्न्नामानं विशेषतः ॥
बलकृद्वृंहणञ्चैव कान्तिदं स्वरवर्द्धनं ।
शरीरलाघवकरमारोग्यं पुष्टिवर्द्धनं ॥
आयुष्यं श्रीकरञ्चैव वयस्तेजस्करं शुभं ।
सश्रीकपुत्रजननं वलीपलितनाशनं ॥
दुर्न्नामारिरयं नाम्ना दृष्टो वारसहस्रशः ।
अनेनार्शांसि दह्यन्ते यथा तूलञ्च वह्निना ॥
सौकुमार्य्याल्पकायत्वात् मद्यसेवी यथा नरः ।
जीर्णमद्यादियुक्तादिभोजनैः सह दापयेत्” ॥
रसेन्द्रचिन्तामणौ यथास्थाने यदा तृतीयचरण-
स्थाने जीर्णे मद्ये प्रयोक्तव्यमिति पाठः ।
“लावतित्तिरवर्त्तीरमयूरशशकादयः ।
चटकः कलविङ्कश्च वर्त्तका हरितालकः ॥
श्येनकश्च वृहल्लावो वनविष्करकादयः ।
पारावतमृगादीनां मांसं जाङ्गलकं शुभं ॥
वर्त्तीरः वगेरा इति लोके । चटको वन्यचटकः ।
कलविङ्को गृहचटकः । वर्त्तका वटई इति लोके ।
हरितालकः हरिताल इति लोके । विष्किरा-
वर्त्तकादयः ।
“मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः ।
मत्स्यराजा इमे प्रोक्ता हितमत्स्याय देहिने ॥
वृन्ताकम्य फलं शस्तं पटोलं वृहतीफलं ।
प्रलम्बाभीरुवेत्राग्रं तालकस्तण्डुलीयकं” ॥
प्रलम्बा लम्बालावुः । अभीरुः शतावर्य्याः पत्रशाकं ।
तालकः देवदालो । तथा च निघण्टौ धन्वन्तरिः ।
“जीमूतको देवताडो वृत्तकोशो गरा गरी ।
प्रोक्ताखुविष हृद्वेणी देवदाली च ताडकः ॥
देवदाली रसे तिक्ता कफार्शःशोयपाण्डुताः”
नशयेदित्यादि ॥
“वास्तूकं धान्यशाकञ्च केमुकं चक्रवर्त्तनं” ।
चक्रवर्त्तनं चकवतशाकं ।
“नारिकेलञ्च खर्ज्जूरं दाडिमं लवलीफलं ।
शृङ्गाटकञ्च पक्वाम्रं द्राक्षा तालफलानि च ।
जातीकोशं लवङ्गञ्च पूगं ताम्बूलपत्रकं ॥
हितान्येतानि वस्तूनि लोहमेतत् समश्नतां ।
नाश्नीयाल्लकुचं कोलं कर्क्कन्धुवदराणि च ।
जम्बीरं वीजपूरञ्च तिन्तिडीं करमर्द्दकं” ॥
कोलं क्षुद्रवदरं । कर्क्कन्धुवदराणि महान्ति ।
“आनूपानि च मांसानि क्रकरं पुण्ड्रकानपि ।
हंससारसदात्यूहशङ्कुकङ्कबलाकिकाः ॥
माणकन्दकरीराणि कतकञ्च कलिङ्गकं ।
कुष्माण्डकञ्च कर्क्कोटं केमुकञ्च विशेषतः ॥
कटुकं कालशाकञ्च कशेरुं कर्क्कटीं तथा ।
ककारादीनि सर्व्वाणि द्विदलानि च वर्जयेत् ॥
शङ्करेण समाख्यातश्चूर्णराजोऽनुकम्पया ।
जगतामुपकाराय दुर्नामारिरयं ध्रुवं ॥
स्थानादपैति मेरुश्च पृथ्वी पर्य्येति वायुना ।
पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवं ॥
ब्रह्मघ्नाश्च कृताघ्नाश्च क्रूरा येऽसत्यवादिनः ।
वर्ज्जनीयाः स्वधर्म्मेण भिषजा गुरुनिन्दकाः ॥
मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरस्थितं घर्मे ।
द्रावयति लोहदोषान् वह्निर्नवनीतपिण्डमिव” ॥
मुनिरत्रागस्तिः ।
“काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे ।
अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥
कृमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य ।
क्षपयत्यचिरात्त्रितयं लोहाजीर्णोद्भवं शूलं” ॥
वङ्गसेनस्य अगस्तेः ।
“जीर्णे लोहे पतति चूर्णं भुञ्जीत सिद्धसाराख्यं ।
लोहव्यापन्नश्यति विवर्द्धते जाठरो वह्निः” ॥
तद्यथा, --
“पथ्यासैन्धवशुण्ठीमागधिकानां पृथक् समो भागः ।
त्रिवृतो भागौ निम्बू भाव्यं तत् सिद्धसाराख्यं” ॥
“भवेद्यद्यतिसारस्तु दुग्धं पीत्वा रुजं जयेत् ।
गुञ्जाद्वादशकादूर्द्ध्वं वृद्धिरस्य भयप्रदा” ॥
शङ्करप्रणीतं लोहं । इति सामान्यक्रिया ॥ १७ ॥ * ॥
अथ रक्तार्शसां चिकित्सा ।
“रक्तार्शसामुपेक्षेत रक्तमादौ स्रवद्भिषक् ।
दुष्टास्रे निगृहीते स्युः शूलानाहासृगामयाः ॥
चन्दनकिराततिक्तकधन्वयवासाः सनागराः क्व-
थिताः । रक्तार्शसां प्रशमना दार्व्वीत्वगुशीरनिम्बा
वा” ॥ चन्दनमत्र रक्तचन्दनं । चन्दनादिक्वाथः ॥ १ ॥
नवनीततिलाभ्यासात् २ । केसरनवनीतशर्करा-
म्यासात् ३ । दधिसरमथिताभ्यासात् ४ । गुदजाः
शाम्यन्ति रक्तावहाः ॥
“दध्नस्तूपरि यो भागो घनः स्नेहयुतः सरः” ।
मथितं सररहितं निर्ज्जलं वस्त्रपूतं दधि ।
सपत्रकेसरं क्षौद्रं नवनीतं त्वचं लिहन् ।
सिताकेशरसंयुक्तं रक्तार्शसः सुखीभवेत् ॥ ५ ॥
पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणां ।
ओदनमद्यादम्लैर्मधुरैरीषत्सुगन्धैश्च ॥ ६ ॥
समङ्गोत्पलमोचाह्वतिरीटतिलचन्दनैः ।
सिद्धं छागीपयो दद्याद् गुदजे शोणितात्मके” ॥
समङ्गा लज्जालुः । मोचाह्वो मोचरसः । तिरीटो
लोध्रः । चन्दनमत्र रक्तं । समङ्गादिदुग्धं ॥ ७ ॥
“भावितं रजनीचूर्णं स्नुहीक्षीरैः पुनः पुनः ।
बन्धनात् सुदृढं सूत्रं छिनत्त्यर्शोभगन्दरं” ॥
क्षारसूत्रं ॥ ८ ॥
“नासानाभिसमुत्थेषु तथा मेढ्रादिजेष्वपि ।
क्रियामर्शःसु कुर्व्वीत तत्र तत्र यथोदितां ॥
चर्म्मकीलन्तु संछिद्य दहेत् क्षारेण चाग्निना ।
वेगावरोधस्त्रीपृष्ठयानान्युत्कटकाशनं ॥
यथास्वं दोषलञ्चान्नमर्शसः परिवर्ज्जयेत्” ।
इत्यर्शोऽधिकारः ॥ * ॥ इति भावप्रकाशः ॥

अर्शसः, त्रि, (अर्शस् + अस्त्यर्थे अच् ।) अर्शोरोग-

युक्तः । इत्यमरः ॥
(“हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम्” ।
इति मनुः ।
“अन्नपानौषधं सर्व्वं तत्सेव्यं नित्यमर्शसाम् ।
हस्ते पादे मुखे नाभ्यां गुदे वृषणयोस्तथा ।
शोथो हृत्पार्श्वशूलञ्च यस्यासाध्योऽर्शसो हि सः” ॥
इति भावप्रकाशः ।)

अर्शसानः, पुं, (ऋ + असानच्, शुट् ।) अग्निः ।

इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (“अर्श-
सानाय शत्रूणां हिंसित्रे” । इति वेदभाष्यम् ।)

अर्शी, [न्] त्रि, (अर्शमस्त्यस्य, अर्श + इनि ।)

अर्शोरोगयुतः । इति शब्दरत्नावली ॥

अर्शोघ्नः, पुं, (अर्शो हन्ति, अर्श + हन् + ट ।)

ओल्लः । तत्पर्य्यायः । शूरणः २ कन्दः ३ । इत्य-
मरः ॥ सूरणः ४ । इति तट्टीका ॥ ओल इति
भाषा । (अर्शोरोगविनाशकः ।
“अर्शोघ्नं कारभं मूत्रं मानुषन्तु विषापहम्” ।
इति सुश्रुते ।)

अर्शोघ्नी, स्त्री, (अर्शस् + हन् + ट + ङीप् ।) ताल-

मूली । इति मेदिनी ॥

अर्शोहितः, पुं, (अर्शसि हितः, सेवनेन तन्नाशक-

त्वात् ।) भल्लातकः । इति त्रिकाण्डशेषः । भेला
इति भाषा ।

अर्ह योग्यत्वे । (भ्वादिं-परं-सकं-सेट् ।) पूजने ।

इति कविकल्पद्रुमः ॥ अर्हति विप्रो वेदं पठितुं ।
सकर्म्मकोऽपि ।
“यज्ञदानतपांस्यस्य कलां नार्हन्ति षोडशीं” ।
इति दुर्गादासः ॥
(“अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति” ।
इति मनुः ।
“द्वित्राण्यहान्यर्हसि सोढुमर्हन्” ।
इति रघुवंशे ।
“गुरोर्गुरौ सन्निहिते गुरुवन्मानमर्हति” ।
इति मनुः ।)

अर्ह क पूजने । (चुरां-उभं-सकं-सेट् ।) इति

कविकल्पद्रुमः ॥ क अर्हयति । इति दुर्गादासः ॥
(“राजार्ज्जिहत्तं मधुपर्कपाणिः” । इति । भट्टि-
काव्ये ।)
पृष्ठ १/११३

अर्हः, पुं, (अर्ह + अच् ।) इन्द्रः । इति शब्दरत्ना-

वली ॥

अर्हः, त्रि, (अर्ह + अच् ।) योग्यः । उपयुक्तः ।

यथा, --
“तस्मान्नार्हा वयं हन्तुं धार्त्तराष्ट्रान् सबान्धवान्” ।
इति श्रीमगवद्गीता ॥

अर्हणा, स्त्री, (अर्ह + युच् + टाप् ।) पूजा । इत्यमरः ॥

(“अर्हाणामर्हते चक्रर्मुनयो नयचक्षुषे” ।
इति रघुवंशे ।)

अर्हन्, [त्] पुं, (अर्हः प्रशंसायां शतृ ।) क्षपणकः ।

बुद्धः । इति मेदिनी ॥ शेषस्य पर्य्यायः ।
जिनः २ पारगतः ३ त्रिकालवित् ४ क्षीणाष्ट-
कर्म्मा ५ परमेष्ठी ६ अधीश्वरः ७ शम्भुः
८ स्वयम्भूः ९ भगवान् १० जगत्प्रभुः ११
तीर्थङ्करः १२ तीर्थकरः १३ जिनेश्वरः १४
वादी १५ अभयदः १६ सार्व्वः १७ सर्व्वज्ञः १८
सर्व्वदर्शी १९ केवली २० देवाधिदेवः २१ बो-
धदः २२ पुरुषोत्तमः २३ वीतरागाप्तः २४ ।
इति हेमचन्द्रः ॥

अर्हन्, (त्) त्रि, (अर्ह + शतृ ।) पूज्यः । मान्यः ।

इति मेदिनी ॥ स्तुतः । इति शब्दरत्नावली ॥
(“यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते” ।
इति कुमारसम्भवे ।
“त्वमर्हतामग्रसरः स्मृतोऽसि नः” ।
इति शाकुन्तले ।)

अर्हन्तः, पुं, (अर्ह + बाहुलकात् झच् ।) बुद्धः ।

क्षपणकः । मान्ये त्रि । इति जटाधरः ॥ शिवः ।
इति शब्दरत्नावली ॥

अर्हितः, त्रि, (अर्ह + क्त ।) पूजितः । इत्यमरः ॥

अल ञ वारणपर्य्याप्तिभूषासु (भ्वादिं-उभं-सकं ।)

इति कविकल्पद्रुमः ॥ ञ अलति अलते पापं
गङ्गा निवारयतीत्यर्थः । पर्य्याप्तिः सामर्थ्यं ।
“पर्य्याप्तन्तु यथेष्टं स्यात् तृप्ते शक्ते निवारणे” ।
इति विश्वप्रकाशात् । अलति घोटको धावितुं
समर्थः स्यादित्यर्थः । अलति हारो जनं भूष-
यति इत्यर्थः । इति दुर्गादासः ॥

अलं, क्ली, (अल + अच् ।) वृश्चिकपुच्छकण्टकः ।

इति हेमचन्द्रः । विछार हुल इति भाषा ।
हरितालं । इति रत्नमाला अमरटीका च ॥

अलं, व्य, भूषणं । पर्य्याप्तिः । वारणं । निरर्थकं ।

शक्तिः । इति मेदिनी ॥ अत्यर्थं । यथा, --
“सर्वं मे विमलं वदामलमलं गोलं विजानासि
चेत्” । इति लीलावती ॥

अलकः, पुं, क्ली, (अलति भूषयति मुखं, अल +

क्वुन् ।) भङ्गियुतः केशः । कर्पूरादेः क्षोदश्चूर्णं
तस्य कुन्तलाश्चूर्णकुन्तलाः तद्धि तत्र न्यस्यते
इत्यन्ये । अलति भूषयति मुखं इत्यलकं । इति
भरतः ॥ कुटिलकुन्तलः । इति सुभूतिः । इति
सारसुन्दरी ॥ तत्पर्य्यायः । चूर्णकुन्तलः २ ।
इत्यमरः ।
(“कर्णेषु योग्यं नवकर्णिकारं
स्तनेषु हारा अलकेष्वशोकः” ।
इति ऋतुसंहारे ।
“हस्ते लीलाकमलमलके बालकुन्दानुविद्धं” ।
इति मेघदूते ।)

अलकः, पुं, (अल + क्वुन् ।) अलर्कः । क्षिप्तकुक्कुरः ।

इत्थमरटीकायां रायमुकुटः ॥

अलकनन्दा, स्त्री, (अलति पर्य्याप्नोति, अल + क्वुन्,

अलका, नन्दयति इति अच् नन्दा, अलका चासौ
नन्दा चेति इति इति कर्म्मधारयः ।) कुमारी ।
इति त्रिकाण्डशेषः ॥ भारतवर्षीयगङ्गा । इति
शब्दमाला ॥ “तथैवालकन्दा दक्षिणेन तु ब्रह्म-
सदनाद्बहूनि गिरिकूटान्यतिक्रम्य निषध-हेमकूट-
हिमकूटान्यतिरभसतररंहसा लुठन्ती भारत-
मपि वर्षं दक्षिणस्यां दिशि लवणजलधिमभि-
प्रविशति” । इति श्रीभागवतं ॥
(हिमालयादुत्पन्ना श्रीनगरस्यादूरे गङ्गया सह
मिलिता स्वनामख्याता नदी । गङ्गैव देवलोके
अलकनन्देत्युच्यते । इति महाभारते । यदुक्तं, --
“देवेषु गङ्गा गन्धर्ब्ब ! प्राप्नोत्यलकनन्दताम् ।
तथैवालकनन्दापि दक्षिणेनैति भारतं ।
प्रयाति सागरं भूत्वा सप्तभेदा महामुने” ॥
इति भागवतपुराणे ।)

अलकप्रभा, स्त्री, (अलका पर्य्याप्ता प्रभा यस्याः सा ।)

कुवेरपुरी । इति शब्दरत्नावली ॥

अलकप्रियः, पुं, (अलकान् प्रीणाति अलक + प्री +

क ।) वृक्षविशेषः । इति जटाधरः ॥

अलका, स्त्री, (अल + क्वुन् + टाप् ।) कुवेरनगरी ।

इत्यमरः ॥ अष्टवर्षावधिदशवर्षपर्य्यन्तवयस्का
कन्या । इति शब्दरत्नावली ॥

अलकाधिपः, पुं, (अलकाया अधिपः, षष्ठीतत्पुरुषः ।)

कुवेरः । इति जटाधरः ॥

अलकाधिपतिः, पुं, (अलकाया अधिपतिः, षष्ठी-

तत्पुरुषः ।) कुवेरः । इति शब्दरत्नावली ॥

अलक्तः, पुं, (न रक्तोऽस्मात्, रस्य लत्वं ।) वृक्षनि-

र्यासविशेषः । लाहा । जौ इति च भाषा ।
तत्पर्य्यायः । राक्षा २ लाक्षा ३ जतु ४ यावः ५
द्रुमामयः ६ । इत्यमरः ॥ रक्षा ७ । इति भरतः ।
अरक्तः ८ । इत्यमरटीकायां भरतः ॥ जतुकं ९
यावकः १० अलक्तकः ११ रक्तः १२ । इति
शब्दरत्नावली ॥ पलङ्कषा १३ कृमिः १४ वर-
वर्णिनी १५ । इति जटाधरः ॥ तस्य गुणादिः ।
“लाक्षा पलङ्कषालक्ती यावो वृक्षामयो जतु ।
लाक्षा वर्ण्या हिमा बल्या स्निग्धा च तुवरालघुः ॥
अनुष्णा कफपित्तास्रहिक्काकासज्वरप्रणुत् ।
व्रणोरक्षतवीसर्पकृमिकुष्ठगदापहा ॥
अलक्तको गुणैस्तद्वद्विशेषाद्व्यङ्गनाशनः” ।
इति भावप्रकाशः ॥ * ॥ लाक्षारसः । आल्ता इति
भाषा । तत्पर्य्यायः । अलक्तकः २ जतुरसः ३
रागः ४ निर्भर्त्सनः ५ जननी ६ जनकरी ७ सम्पद्या
८ चक्रवर्त्तिनी ९ । अस्य गुणाः । तिक्तत्वं । उष्णत्वं ।
कफवातरोगब्रणदोषनाशित्वं । कण्ठरोगशम-
नत्वं । रुचिकारित्वञ्च । इति राजनिर्गण्टः ॥

अलक्तकः, पुं, (अलक्त एव, अलक्तः स्वार्थे कन् ।)

निर्भर्त्सनं । अलक्तः । इति हलायुधो हारावली
च ॥ लाक्षा । इति राजनिर्घण्टः ॥ (“अलक्त-
काङ्क्षानि पदानि पादयोः” । इति कुमारसम्भवे ।
“पादालक्त्वकरक्तमौक्तिकशिलःसिद्धाङ्गनानाङ्गतैः”
इति नागानन्दे ।)

अलगर्दः, पुं, (लगति स्पृशति, क्विप्, लग्, अर्द्दयति,

अर्द्द + अच्, अर्दः, लग् चासौ अर्दश्चेति इति
लगर्दः, लग्नः सन् पीडक इत्यर्थः, निर्व्विषत्वात्
तद्भिन्नः ।) जलसर्पः । जलवोडा इति केचित् ।
अलाध इति केचित् । इत्यमरटीकायां भरतः ॥
(सविषो जलव्यालभेदः । विलकेउटिया इति
भाषा, “तत्र सविषाः कृष्णाः कर्वुरा अलगर्द्दा
इन्द्रायुधाः सामुद्रिका गोचनन्दाः चेति” । सुश्रुते ।)

अलगर्द्धः, पुं, (अलं गृध्यति इति गृध + अच्, पृषी-

दरादित्वात् साधुः ।) जलव्यालः । इत्यमरः ॥
केउटिया इति ख्यातः । जलवोडा इति केचित् ।
अलाध इति केचित् । इति भरतः ॥

अलङ्करणं, क्ली, (अलम् + कृ + भावे ल्युट् ।) भूषणं ।

इति शब्दरत्नादली ॥

अलङ्करिष्णुः, त्रि, (अलम् + कृ + इष्णुच् ।) अलङ्कार-

कर्त्ता । भूषणशीलः । इति रघुनाथचक्रवर्त्त्या-
दयः ॥ तत्पर्य्यायः । मण्डनः २ । इत्यमरः ॥
अलङ्कर्त्ता ३ । इति शब्दरत्नावली ॥ * ॥ अलङ्कार-
युक्तव्यक्तिः । इति सारसुन्दर्य्यादयः ॥ तत्पर्य्यायः ।
अलंकर्त्ता २ मण्डितः ३ प्रसाधितः ४ अलङ्कृतः ५
भूषितः ६ परिष्कृतः ७ । इत्यमरः ॥

अलङ्कर्त्ता, [ऋ] त्रि, (अलम् + कृ + तृच् ।) अल-

ङ्करिष्णुः । इत्यमरः ॥

अलङ्कर्म्मीणः, त्रि, (अलं समर्थः कर्म्मणे, खः ।) कार्य्य-

कुशलः । कर्म्मक्षमः । इत्यमरः ॥

अलङ्कारः, पुं, (अलम् + कृ + भावे घञ् ।) भूषणं ।

तत्पर्य्यायः । आभरणं २ परिष्कारः ३ विभूषणं
४ मण्डनं ५ । इत्यमरः ॥ अलङ्क्रिया ६ भूषा ७
अलङ्करणं ८ । इति शब्दरत्नावली । कलापः ९
इति जटाधरः ॥ * ॥ अथालङ्कारयुक्तिः । तद्धा-
रणदिनमुच्यते ।
“रेवत्यश्विधनिष्ठासु हस्तादिष्वपि पञ्चसु ।
गुरुशुक्रबुधस्याह्नि वस्त्रालङ्कारधारणं ॥
अनिष्टेष्वपि निर्दिष्टं बस्त्रालङ्कारधारणम् ।
उद्वाहे राजसम्माने ब्राह्मणानाञ्च सम्मते ॥
शिरस्त्रं मुकुटं हारः कुण्डलञ्चाङ्गदन्तथा ।
कङ्कणं बालकञ्चैव मेखलाष्टाविति क्रमात् ॥
प्रधानभूषणान्येषु यथासंख्यानि निश्चयः ।
पद्मरागश्च वज्रञ्च विजयो गोविदास्तथा ॥
मुक्ता वैदूर्य्यनीलञ्च तथा मरकतं क्रमात् ।
आदित्यादिदशाजानां सर्व्वसम्पत्तिदायकाः ॥
सुवर्णेनापि घटना सर्व्वेषामुपयुज्यते ।
प्रधानभूषणेष्वेवमप्रधाने न निर्णयः ॥
प्रधानभूषणं प्रायः शिरसो ह्यभिधीयते ।
तस्य प्रधानभूषत्वादित्याह भृगुनन्दनः ॥
सुखदा मणयः शुद्धा दुःखदा दोषशालिनः ।
अतो मणीनां वक्ष्यामि लक्षणानि यथाकम” ॥
पृष्ठ १/११४
:इति युक्तिकल्पतरुः ॥ * ॥ मणिविशेषाणां लक्ष-
णानि तत्तच्छन्दे द्रष्टव्यानि ॥ * ॥ काव्यालङ्कारः ।
स द्विविधः । शब्दालङ्कारः १ । अर्थालङ्कारश्च २ ।
तस्य लक्षणं । काव्यशोभाकरधर्म्मः । इति काव्या-
दर्शः ॥ वैचित्र्यमलङ्कार इत्यलङ्कारसामान्यलक्षणं ।
अथालङ्कारनामानि
अक्रमातिशयोक्तिः -- १
अतद्गुणः -- २
अत्यन्तातिशयोक्तिः -- ३
अत्युक्तिः -- ४
अधिकं -- ५
अनन्वयः -- ६
अनुकूलं -- ७
अनुगुणः -- ८
अनुज्ञा -- ९
अनुप्रासः -- १०
अनुप्रासस्तु पञ्चविधः । एकस्य लक्षणोदाहरणे
उक्ते ।
अपरेयथा, वृत्त्यनुप्रासः --
श्रत्यनुप्रासः --
अन्त्यानुप्रासः --
लाटानुप्रासः --
अनुमानं -- ११
अन्योन्यं -- १२
अपह्नवातिशयोक्तिः -- १३
अप्रस्तुतप्रशंसा -- १४
अभिधाहेतुः -- १५
अर्थान्तरन्यासः -- १६
अर्थापत्तिः -- १७
वैचित्र्यञ्च भङ्गीविशेषः प्रतीतिसाक्षिकः । इति
काव्यप्रकाशटीकायां महेश्वरः ॥ अङ्गदादिवत्
शब्दार्थशोभातिशयजनको रसाद्युपकारकोऽस्थि-
रधर्म्मः । इति साहित्यदर्पणं ॥ अस्य विवरणं
दण्डि-काव्यप्रकाश-साहित्यदर्पणालङ्कारकौस्तुभ-
तल्लक्षणानि
“अक्रमातिशयोक्तिः स्यात् सहत्वे हेतुकार्य्ययोः । १
“सङ्गतानुगुणासङ्गीकारमाहुरतद्गुणं” । २
“अत्यन्तातिशयोक्तिस्तु कार्य्ये हेतुप्रशक्तिजे” । ३
“अत्युक्तिरद्भुतातथ्यशौर्य्यौदार्य्यादिवर्णनं” । ४
“अधिक पृथुलाधारादाधेयाधिक्यवर्णनं” । ५
“उपमानोपमेयत्वं यदेकस्यैव वस्तुनः” । ६
“अनुकूलं प्रातिकूल्यमनुकूलानुबन्धि चेत् । ७
“प्राक्सिद्धः स्वगुणोत्कर्षोऽनुगुणः परसन्निधेः” । ८
“दोषस्याभ्यर्थनानुज्ञा तत्रैव गुणदर्शनात्” । ९
“अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्” । १०
“अनेकस्यैकधा साम्यसकृद्वाप्यनेकधा ।
एकस्य सकृदप्येष वृत्त्यनुप्रास इष्यते” ॥
“उच्चार्य्यत्वाद्यदेकत्र स्थाने तालुरदादिके” ।
सादृश्यं व्यञ्जनस्यैतत् श्रुत्यनुप्रास उच्यते ॥
व्यञ्जनञ्चेद्यथावस्थं सहाद्येन स्वरेण तु ।
आवर्त्त्यतेऽन्त्ययोज्यत्वादनुप्रासः स एव तत्” ।
“शब्दार्थयोः पौनरुक्तं भेदे तात्पर्य्यमात्रतः ।
लाटानुप्रास इत्युक्तः” ॥
“अनुमानन्तु विच्छित्त्या ज्ञानं साध्यस्य साध-
नात्” । ११
“अन्योन्यं नाम यत्र स्यादुपकारः परस्परं” । १२
“रूपकातिशयोक्तिः स्यान्निगीर्य्याध्यवसानतः ।
यदापह्नुतिगर्भत्वं सैव सापह्नवा मता” । १३
“अप्रस्तुतप्रशंसा स्यात् सा यत्र प्रस्तुताश्रया” । १४
“अभेदेनाभिधाहेतुर्हेतोर्हेतुमता सह” । १५
“उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः” । १६
“दण्डापूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते ।
क्वचित् प्राकरणिकादप्राकरणिकार्थस्यापतर्न ।
क्वचित् अप्राकरणिकात् प्राकरणिकार्थस्येति द्वौ
भेदौ” । १७
चन्द्रालोकोज्ज्वल-नीलमणि-काव्यचन्द्रिका-कुबल-
यानन्द-सरस्वतीकण्ठाभरणादिग्रन्थेषु ज्ञेयं । अल-
ङ्काराणां मध्ये ये ये प्रसिद्धास्तेषां नामलक्षणोदा-
हरणानि चन्द्रालोकधृतानि तदतिरिक्तानि सा-
हित्यदर्पणोक्तानि च लिख्यन्ते ॥
तदुदाहरणानि
“आलिङ्गन्ति समं देव ज्यां शराश्च परांश्चते” ॥ १
“चिरं रागिणि मच्चित्तेनिहितापि न रज्यसि” ॥ २
“यास्यामीत्युदिते तन्व्या बलयोऽभवदूर्म्मिका” ॥ ३
“त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः” ॥ ४
“ब्रह्माण्डानि जले यत्र तत्र मान्ति न ते गुणाः” ॥ ५
“इन्दुरिवेन्दुः श्रीमानित्यादौ तदनन्वयः” ॥ ६
“कुपितासि यदा तन्वि निधाय करजक्षतं ।
बधान भुजपाशाभ्यां कण्ठमस्य दृढं तदा” ॥ ७
“नीलोत्पलानि दधते कटाक्षैरतिनोलतां” ॥ ८
“मय्येव जीर्णतां यातु यत्त्वयैव कृतं हरे ।
नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति” ॥ ९
“आदाय वकुलगन्धानन्धीकुर्व्वन् पदे पदे भ्रमरान् ।
अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः” ॥ १०
“उन्मीलन्मधुगन्धलूब्धमधुपव्याधूतचूताङ्कुरक्रीडत्-
कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण-
प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः” ॥
“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुमो वामलोचनाः” ॥
“केशः काशस्तवकविकाशः कायः प्रकटितकरभ-
विलासः । चक्षुर्दग्धवराटककल्पं त्यजति न चेतः
काममनल्पं” ॥
“स्मेरराजीवनयने नयने किं निमीलिते ।
पश्य निर्जितकन्दर्पं कन्दर्पवशगं प्रियं” ॥
“जानीमहेऽस्याः किल सारसाक्ष्या विराजतेऽन्तः-
प्रियवक्त्रचन्द्रः । तत्कान्तिजालैः प्रसृतैस्त्वदङ्गेष्वा-
पाण्डुता कुट्मलताक्षिपद्मे” ॥ ११
“त्रियामा शशिना भाति शशी भाति त्रिया-
मया” ॥ १२
“त्वत्सूक्तिषु सुधा, राजन् भ्रान्ताः पश्यन्ति तां
विधौ” ॥ १३
“एकः कृती स कृत्येषु योऽन्यं शक्रान्न याचते” ॥ १४
“तारुन्यविलासः । इत्यत्र वशीकरणहेतुर्नायिका-
वशीकरणत्वेनोक्ता । विलासहासयोस्त्वध्यवसाय-
मूलोऽयमलङ्कारः” ॥ १५
“हनूमानब्धिमतरत् दुस्तरं किं महात्मनां ॥
गुणवद्वस्तुसंसर्गात् याति स्वल्पोऽपि गौरवं ।
पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्य्यते” ॥ १६
“हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डलें ।
मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः” ॥
“विललाप सवाष्पगद्गदं सहजामप्यपहाय धी-
रतां । अतितप्तमयोऽपि मार्द्दवं भजते कैव कथा
शरीरिणां” ॥ १७
पृष्ठ १/११५
:अथालङ्कारनामानि
अल्पं -- १८
अवज्ञालङ्कृतिः -- १९
असङ्गतिः -- २०
तस्य त्रीणि लक्षणानि ।
असदर्थनिदर्शना -- २१
असम्भवः -- २२
आवृत्तिदीपकं -- २३
तत् त्रिविधं । पदावृत्तिः । अर्थावृत्तिः । उभया-
वृत्तिः ।
आक्षेपः -- २४
अस्य त्रीणि लक्षणानि लक्ष्याणि च ।
उत्प्रेक्षा -- २५
सा वस्तुहेतुफलात्मतागोचरत्वेन त्रिविधा
वस्तूत्प्रेक्षा । हेतूत्प्रेक्षा । फलोत्प्रेक्षा । तत्राद्या
उक्तविषया अनुक्तविषया चेति द्विविधा । परे
हेतुफलोत्प्रेक्षे सिद्धासिद्धविषयतया प्रत्येकं द्वि-
विधे । एवमुत्प्रेक्षा षड्विधा ।
उत्तरं -- २६
उदात्तं -- २७
उपमा -- २८
उपमेयोपमा -- २९
उल्लासः -- ३०
उल्लखः -- ३१
लक्षणभेदेन स द्विविधः ।
एकावली -- ३२
कारकदीपकं -- ३३
कारणमाला -- ३४
सा पूर्ब्बपूर्ब्बपदार्थानां कारणत्ववर्णनेन एवमुत्त-
रोत्तरपदार्थानां कारणत्ववर्णनेन च द्विधा ।
काव्यलिङ्गं -- ३५
काव्यार्थापत्तिः -- ३६
कैतवापह्नुतिः -- ३७
गूढोक्तिः -- ३८
चपलातिशयोक्तिः -- ३९
चित्रं -- ४०
तल्लक्षणानि
“अल्पन्तु सूक्ष्मादाधेयाद्यदाधारस्य सूक्ष्मता” । १८
“ताभ्यां तौ यदि न स्यातामवज्ञालङ्कृतिस्तुसा” । १९
“विरुद्धभिन्नदेशत्वं कार्य्यहेत्वोरसङ्गतिः ।
अन्यत्र करणीयस्य ततोऽन्यत्र कृतिश्च सा ॥
अन्यत् कर्त्तुं प्रवृत्तस्य तद्विरुद्धकृतिश्च सा” । २०
“अपरांबोधनं प्राहुः क्रिययासत्सदर्थयोः” । अस्यार्थः ।
कस्यचित् किञ्चित् क्रियाविशिष्टस्य स्वक्रियया-
परान् प्रति असतः सतो वार्थस्य बोधनंवर्णनं । २१
“असम्भवोत्थनिष्पत्तेरसम्भाव्यत्ववर्णनं” । २२
“त्रिविधं दीपकावृत्तौ भवेदावृत्तिदीपकं” । २३
“आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणात् ।
निषेधाभास आक्षेपं बुधाः केचन मन्वते ॥
आक्षेपोऽन्यो व्रिधौ व्यक्ते निषेधेच तिरोहिते” । २४
“सम्भावनाः स्युरुत्प्रेक्षा वस्तुहेतुफलात्मता ।
उक्तानुक्तास्पदाद्यात्र सिद्धासिद्धास्पदे परे” । २५
“किञ्चिदाकूतसहितं स्याद्गूढोत्तरमुत्तरं” । २६
“उदात्तमृद्धिरचितं श्लाघ्यमाल्योपलक्षणं” । २७
“उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः” । २८
“पर्य्यायेण द्वयोस्तच्चेदुपमेयोपमा मता” । २९
“एकस्य गुणदोषाभ्यामुल्लासोऽन्यस्य तौ यदि” । ३०
“बहुभिर्बहुधोल्लेखादेकस्योल्लेख ईष्यते ।
एकोनबहुधोल्लेखोऽप्यसौ विषयभेदतः” । ३१
“गृहीतमुक्तरीत्यार्थश्रेणीरेकावली मता” । ३२
“क्रमिकैकगतानान्तु गुम्फः कारकदीपकं” । ३३
“गुम्फः कारणमाला स्याद्यथा प्रक्रान्तकारणैः” । ३४
“समर्थनीयस्यार्थस्य काव्यलिङ्गं समर्थनं” । ३५
“कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते” । ३६
“कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः” । ३७
“गूढोक्तिरन्योद्देश्या गीर्यदन्यं प्रति कथ्यते” । ३८
“चपलातिशयोक्तिस्तत्पौर्ब्बापर्य्यव्यतिक्रमः” । ३९
“पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते” । ४०
तदुदाहरणानि
“मणिमालोर्म्मिका तेऽद्य करे जपवटायते” ॥ १८
“स्वल्पमेवाम्बु लभते पान्थः प्राप्यापि सागरं ।
मीलन्ति यदि पद्मानि का हानिरमृतद्युतेः” ॥ १९
“विषं जलधरैः पीतं मूर्च्छिता पथिकाङ्गना ।
अपारिजातां वसुधां चिकीर्षन् द्यां तथाकृथाः ।
गोत्रोद्धारप्रवृत्तो हि गोत्रोद्धारं पुराकरोः” ॥ २०
“नश्येद्राजविरोधीति क्षीणं चन्द्रोदये पुनः” ॥ २१
“को वेद गोपशिशुकः शैलमुत्पाटयिष्यति” ॥ २२
“वर्षत्यम्बुदमालेयं वर्षत्येषा च शर्व्वरी ॥
उन्मीलन्ति कदम्बानि स्फुटन्ति कुटजोद्गमाः ।
माद्यन्ति चातकास्तृप्ता माद्यन्ति च शिखाबलाः” ॥ २३
“चन्द्र सन्दर्शयात्मानमथवास्ति प्रियामुखं ।
नायं दूति तनोस्तापस्तस्याः कालानलोपमः ।
गच्छ गच्छसि चेत्कान्त तत्रैव स्याज्जनिर्म्मम” ॥ २४
“धूमस्तोमं तमः शङ्के कोकीविरहलक्षणं ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ॥
रक्तौ तवाङ्घ्री मृदुलौ भुवि विक्षेपणाद्ध्रुवं ।
तन्मुखाभेच्छया नूनं पद्मैर्व्वैरायते शशी ॥
मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः ।
प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तुं तोये तपस्यति” ॥ २५
“यत्रासौ वेतसी पान्थ तत्रेयं सुतरां सरित्” ॥ २६
“सासौ यत्राभवद्युद्धं तव धूर्ज्जटिनाऽर्ज्जुनः” ॥ २७
“हंसीव भूपतेः क्रीर्त्तिः स्वर्णदीमवगाहते” ॥ २८
“धर्म्मोऽर्थ इव पूर्णश्रीरर्थो धर्म्म इव त्वयि” ॥ २९
“अपि मां पावयेत् साध्वी स्नात्वेतीच्छति जाह्नवी ॥
काठिन्यं कुचयोर्दृष्टं वाञ्छन्त्यः पादपद्मयोः ।
निम्दन्ति विश्वधातारं त्वद्धाटीष्वरियोषितः ॥
तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनं ॥
लाभोऽयमेव भूपाल सेवकानां न चेद्बधः” ॥ ३०
“स्त्रीभिः कामोऽर्थिभिः स्वद्रुः कालः शत्रुभिरैक्षि सः ।
गुरुर्वचस्यर्जुनोऽयं कीर्त्तौ भीष्मः शरासने” ॥ ३१
“नेत्रे कर्णान्तविश्रान्ते कर्णौ दोःस्तम्भशासनौ ।
दोःस्तम्भौ जानुपर्य्यन्तप्रलम्बनमनोहरौ ।
जानुनी रत्नमुकुराकारे तस्य महीभुजः” ॥ ३२
“गच्छत्या गच्छति पुनः पान्थः पश्यति पृच्छति” ॥ ३३
“नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः ॥
भवन्ति नरकाः पापाः पापं दारिद्र्यसम्भवं ।
दारिद्र्यमप्रदानेन तस्माद्द्वानपरो भव” ॥ ३४
“जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः” ॥ ३५
“स जितन्त्वन्मुखेनेन्दुः का वार्त्ता सरसीरुहां” ॥ ३६
“निर्यान्ति स्मरनाराचा बालादृक्पातकैतवात्” ॥ ३७
“वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः” ॥ ३८
“अग्रे मानो गतः पश्चादनुनीता प्रियेण सा” ॥ ३९
“मारमासुषमा चारुरुचा मारबधूत्तमा ।
मात्तधूर्त्ततमावासा सा वामा मेऽस्तु मारमा” ॥ ४०
पृष्ठ १/११६
:अथालङ्कारनामानि
चित्रकाव्यमनेकविधं यथा । पद्म-च्छत्र-धनुः-खड्ग-
नागपाश-कवाट-नौका-बन्धाः । अश्वगति-त्रिपदी-
गोमूत्रिकादयः ।
छेकापह्नुतिः -- ४१
तद्गुणः -- ४२
तुल्ययोगिता -- ४३
सा त्रिधा ।
प्रथमा यथा --
द्वितीया यथा --
तृतीया यथा --
दीपकं -- ४४
दृष्टान्तः -- ४५
निदर्शना -- ४६
सा त्रिधा ।
निरुक्तिः -- ४७
परिकरः -- ४८
परिकराङ्कुरः -- ४९
परिणामः -- ५०
परिवृत्तिः -- ५१
परिसंख्या -- ५२
पर्य्यस्तापह्नुतिः -- ५३
पर्य्यायः -- ५४
स द्विविधः ।
पर्य्यायोक्तं -- ५५
तत् द्विविधं ।
पिहितं -- ५६
पुनरुक्तवदाभासः -- ५७
पूर्ब्बरूपः -- ५८
स द्विविधः ।
प्रतिवस्तूपमा -- ५९
प्रतिषेधः -- ६०
प्रतीपं -- ६१
तल्लक्षणभेदेन पञ्चविधं । न तु नामभेदेन ।
प्रत्यनीकं -- ६२
प्रस्तुताङ्कुरः -- ६३
प्रहर्षणं -- ६४
तत् त्रिविधं ।
प्रौढोक्तिः -- ६५
भाविकं -- ६६
भाषासमावेशः -- ६७
तल्लक्षणानि
“छेकापह्नुतिरन्यस्य शङ्कातस्तस्य निह्नवे” । ४१
“तद्गणः स्वगुणत्यागादन्यदीयगुणग्रहः” । ४२
“वर्ण्यानामितरेषां वा धर्म्मैक्यं तुल्ययोगिता” ।
“हिताहिते वृत्तितौल्यमपरा तुल्ययोगिता ।
गुणोत्कृष्टेः समीकृत्य वचोऽन्या तुल्ययोगिता” । ४३
“वदन्ति वर्ण्यावर्ण्यानां धर्म्मैक्यं दीपकं बुधाः” । ४४
“चेद्विम्बप्रतिविम्बत्वं दृष्टान्तस्तदलङ्कृतिः” । ४५
“वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना ।
पदार्थगर्भामप्यन्ये वदन्त्यन्यां निदर्शनां ॥
अपरां बोधनं प्राहुः क्रिययासत्सदर्थयोः” । ४६
“निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनं” । ४७
“अलङ्कारः परिकरः साभिप्रायविशेषणे” । ४८
“साभिप्रायविशेष्यश्चेद्भवेत् परिकराङ्कुरः” । ४९
“परिणामः क्रियार्थश्चेद्विषयी विषयात्मना” । ५०
“परिवृत्तिर्व्विनिमयो न्यूनाभ्यधिकयोर्म्मिथः” । ५१
“परिसंख्या निषिध्यैकमेकस्मिन् वस्तुयन्त्रणं” । ५२
“अन्यत्र तस्यारोपार्थः पर्य्यस्तापह्नुतिस्तु सा” । ५३
“पर्य्यायो यदि पर्य्यायेणैकस्यानेकसंश्रयः ।
“एकस्मिन् यस्यनेकं वा पर्य्यायः सोऽपि सम्मतः” ॥ ५४
“पर्य्यायोक्तं तु गम्यश्चेद्वचोभङ्ग्यान्तराश्रयः ।
पर्य्यायोक्तं तदप्याहुर्यद्व्याजेनेष्टसाधनं” ॥ ५५
“पिहितं परवृत्तान्तज्ञातुः साकूतचेष्टितं” । ५६
“आपाततो यदर्थ स्य पौनरुक्तावभाषणं ।
पुनरुक्तवदाभासः स भिन्नाकारशब्दगः” ॥ ५७
“पुनः स्वगुणसंप्राप्तिः पूर्ब्बरूपमुदाहृतं ।
पूर्ब्बावस्थानुवृत्तिश्च विकृते सति वस्तुनि” ॥ ५८
“वाक्ययोरेकसामान्ये प्रतिवस्तूपमा मता” । ५९
“प्रतिषेधः प्रसिद्धस्य निषेधस्यानुकीर्त्तनं” । ६०
“प्रतीपमुपमानस्याप्युपमेयत्वकल्पनं ।
अन्योपमेयलाभेन वर्ण्यस्यानादरश्च तत् ॥
वर्ण्योपमानलाभेन तथान्यस्याप्यनादरः ।
वर्ण्येनान्यस्योपमाया अनिष्पत्तिर्वचश्च तत् ॥
प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वते” । ६१
“प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः” । ६२
“प्रस्तुतेनं प्रस्तुतस्य द्योतने प्रस्तुताङ्कुरः” । ६३
“उत्कण्ठितार्थसंसिद्धिर्व्विना यत्नं प्रहर्षणं ।
वाञ्छितादधिकार्थस्य संसिद्धिश्च प्रहर्षणं ॥
यत्नादुपायसिद्धार्थात् साक्षाल्लाभः फलस्य तत्” ॥ ६४
“प्रौढोक्तिरुत्कर्षहेतौ तद्धेतुत्वप्रकल्पनं” । ६५
“भाविकं भूतभाव्यर्थसाक्षात्कारस्य वर्णनं” । ६६
“शब्दैरेकविधैरव भाषासु विविधास्वपि ।
वाक्यं यत्र भवेत् सोऽयं भाषासम इतीष्यते” ॥ ६७
तदुदाहरणानि
“प्रजल्पन् मत्पदे लग्नः कान्तः किं न हि नूपुरः” ॥ ४१
“पद्मरागायते नासामौक्तिकं तेऽधरत्विषा” ॥ ४२
“सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च ।
त्वदङ्गमार्दवे दृष्टे कस्य चित्ते न भासते ।
मालतीशशभृल्लेखा कदलीनां कठोरता ॥
प्रदीयते पराभूतिर्मित्रशात्रवयोस्त्वया ॥
लोकपालो यमः पाशी श्रीदः शक्रो भवानपि” ॥ ४३
“मदेन भाति कलभः प्रतापेन महीपतिः” ॥ ४४
“त्त्वमेव कीर्त्तिमान्राजन् विधुरेव हि कन्तिमान्” ॥ ४५
“या दातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता ॥
त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः ॥
नश्यद्राजविरोधीति क्षीणं चन्द्रोदये तमः” ॥ ४६
“ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान्” ॥ ४७
“सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः” ॥ ४८
“चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः” ॥ ४९
“प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा” ॥ ५०
“ययावेकं शरं मुक्त्वा कटाक्षान् स रिपुस्त्रियाः” ॥ ५१
“स्नहक्षयः प्रदीपेषु न स्वान्तेषु नतभ्रुवां” ॥ ५२
“नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखं” ॥ ५३
“पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनप्रभा ॥
अधुना पुलिनं तत्र यत्र स्रोतः पुराजनि” ॥ ५४
नमस्तस्मै कृतो येन मुधा राहुबधूकुचौ ॥
यामि चूतलतां द्रष्टुं युवाभ्यामास्यतामिह” ॥ ५५
“प्रिये गृहागते प्रातः कान्ता तल्पमकल्पयत्” ॥ ५६
“भुजङ्गकुण्डलीव्यक्तशशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदा पायादव्याच्चेतोहरः शिवः” ॥ ५७
हरकण्ठांशुलिप्तोऽपि शेषस्त्वकृशशासितः ॥
दीपे निर्व्वापितेऽप्यासीत् काञ्चीरत्नैर्मुहर्मुहुः” ॥ ५८
“तापेन भ्राजते सूर्य्यः शूरश्चापेन राजते” ॥ ५९
“न द्यूतमेतत् कितवाक्रीडनं निशितैः शरैः” ॥ ६०
“तल्लोचनसमं पद्मं तद्वक्त्रसदृशो विधुः ।
अलं गर्व्वेण ते वक्त्रकान्त्या चन्द्रो भवादृशः ।
कः क्रौर्य्यदर्पस्ते मृत्यो त्वत्तुल्याः सन्ति हि स्त्रियः ।
मिथ्यावादो हि मुग्धाक्षि त्वन्मुखाभं किलाम्बुजं ।
दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दना” ॥ ६१
“जैत्रनेत्रानुगौ कर्णवुत्पलाभ्यामधःकृतौ” ॥ ६२
“किं भृङ्ग सत्यां मालत्यां केतक्या कण्टकस्थया” ॥ ६३
“तामेव ध्यायते तस्मै विसृष्टा सैव दूतिका ॥
दीपमुद्दीपयेद्यावत्तावदभ्युदितो रविः ॥
निध्यञ्जनौषधीमूलं खनतासादितो निधिः” ॥ ६४
“कचाः कलिन्दजातीरतमालस्तोममेचकाः” ॥ ६५
“अहं विलोकयेऽद्यापि युध्यन्तेऽत्र सुरासुराः” ॥ ६६
“गुञ्जन्मणिमञ्जीरे कलगम्भीरे विहारसरसीतीरे ।
विरसासि केलिकीरे किमालि धीरे च गन्धसार-
समीरे” ॥ ६७
पृष्ठ १/११७
:अथालङ्कारनामानि
भेदकातिशयोक्तिः -- ६८
भ्रान्तापह्नुतिः -- ६९
भ्रान्तिमान् -- ७०
मालादीपकं -- ७१
मिथ्याध्यवसितिः -- ७२
मीलितं -- ७३
मुद्रा -- ७४
यथासंख्यं -- ७५
यमकं -- ७६
युक्तिः -- ७७
रत्नावली -- ७८
रूपकं -- ७९
तत् द्विविधं । अभेदरूपकं । ताद्रूप्यरूपकञ्च ।
तच्च समन्यूनाधिक्यकथनद्वारा प्रत्येकं त्रिविधं ।
समाभेदरूपकं । न्यूनाभेदरूपकं । अधिकाभेद-
रूपकं । समताद्रूप्यरूपकं । न्यूनताद्रूप्यरूपकं ।
अधिकताद्रूप्यरूपकं । एतेन षड्विधं ।
रूपकातिशोक्तिः -- ८०
ललितं -- ८१
लुप्तोपमा -- ८२
सा चाष्टधा । वाचकलुप्ता । धर्म्मलुप्ता । उपमान-
लुप्ता । धर्म्मवाचकलुप्ता । वाचकोपमेयलुप्ता ।
वाचकोपमानलुप्ता । धर्म्मोपमानलुप्ता । धर्म्मो-
पमानवाचकलुप्ता ।
लेशः -- ८३
लोकोक्तिः -- ८४
वक्रोक्तिः -- ८५
विकल्पः -- ८६
विकस्वरः -- ८७
विचित्रं -- ८८
विधिः -- ८९
विनोक्तिः -- ९०
लक्षणभेदेन सा द्विविधा ।
विभावना -- ९१
अस्या लक्षणाण्युदाहरणानि च षट् ।
विरोधः -- ९२
स दशधा ।
तल्लक्षणानि
“भेदकातिशयोक्तिः स्यात् तस्यैवान्यत्वकल्पनं” । ६८
“भ्रान्तापह्नुतिरन्यस्य शङ्कायां भ्रान्तिवारणे” । ६९
“स्यात् स्मृतिर्भ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयं” । ७०
“दीपकैकावलीयोगान्मालादीपकमुच्यते” । ७१
“किञ्चिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरकल्पनं” । ७२
“मीलितं यदि सादृश्याद्भेद एव न दृश्यते” । ७३
“सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः” । ७४
“यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः” । ७५
“सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते” । ७६
“युक्तिः पराभिसन्धानं क्रियया मर्म्मगुप्तये” । ७७
“क्रमिकाप्रकृतार्थानां न्यासं रत्नावलीं तिदुः” । ७८
“विषय्यभेदताद्रूप्यरञ्जनं विषयश्च यत्” ।
“रूपकं तत् त्रिधाधिक्यन्यनत्वानुभयोक्तिभिः” ॥ ७९
“रूपकातिशयोक्तिः स्यात् निगीर्य्याध्यवसानतः” ।
अस्यार्थः । विषयसम्बन्धेन उल्लेखनं विना विषयि-
वाचकशब्देन ग्रहणं विषयनिगरणं तत्पूर्ब्बकं
विषयस्य विषयिरूपतया अध्यवसानं तस्मिन्
सति रूपकातिशयोक्तिः” । ८०
“प्रस्तुते वर्ण्यवाक्यार्थप्रतिविम्बस्य वर्णनं” । ८१
“वर्ण्योपमानधर्म्माणामुपमावाचकस्य च ।
एकद्वित्र्यनुपादानात् भिन्ना लुप्तोपमाष्टधा” ॥ ८२
“लेशः स्याद्दोषगुणयोर्गुणदोषत्वकल्पनं” । ८३
“लोकप्रवादानुकृतिं लोकोक्तिरिति कथ्यते” । ८४
“वक्रोक्तिः श्लेषकाकुभ्यामपूर्ब्बार्थप्रकल्पनं” । ८५
“विरोधे तुल्यबलयोर्व्विकल्पालङ्कृतिर्म्मता” । ८६
“यस्मिन् विशेषसामान्यविशेषाः स विकस्वरः” । ८७
“विचित्रं तत्प्रयत्नश्चेत् विपरीतफलेच्छया” । ८८
“सिद्धस्यैव विधानं यत्तामाहुर्व्विध्यलङ्कृतिं” । ८९
“विनोक्तिः स्याद्विना किञ्चित् प्रस्तुतं हीनमुच्यते ।
तच्चेत् किञ्चिद्विना रम्यं विनोक्तिः सापि कथ्यते” ॥ ९०
“विभावना विनापि स्यात्कारणं कार्य्यजन्म चेत् ।
हेतूनामसमग्रत्वे कार्य्योत्पत्तिश्च सा मता ॥
कर्य्योत्पत्तिस्तृतीया स्यात् सत्यपि प्रतिबन्धके ।
अकारणात् कार्य्यजन्म चतुर्था स्याद्विभावना ॥
विरुद्धात् कार्य्यसम्पत्तिर्दृष्टा काचिद्विभावना ।
कार्य्यात् कारणजन्मापि दृष्टा काचिद्विभावना” ॥ ९१
“जातिश्चतुर्भिर्ज्जात्याद्यैर्गुणो गुणादिभिस्त्रिभिः ।
क्रियाक्रियाद्रव्याभ्यां यत् द्रव्यं द्रव्येण वा मिथः ।
विरुद्धमिव भासेत विरोधोऽसौ दशाकृतिः” ॥ ९२
तदुदाहरणानि
“अन्यदेवास्य गाम्भीर्य्यमन्यद्धैर्य्यञ्च भूपतेः” ॥ ६८
“तापं करोति सोत्कम्पं ज्वरः किन्नु सखे स्मरः” ॥ ६९
“अयं प्रमत्तो मधुपस्त्वन्मुखं वेत्ति पङ्कजं” ॥ ७०
“स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः” ॥ ७१
“मिथ्याध्यवसितिर्व्वेश्यां वशयेत् खस्रजं वहन्” ॥ ७२
“रसो नालक्षि लाक्षायाश्चरणे सहजारुणे” ॥ ७३
“नितम्बगुर्व्वी तरुणी दृग्युग्मविपुला च सा” ॥ ७४
“शत्रुं मित्रं विपत्तिञ्च जय रञ्जय भञ्जय” ॥ ७५
“नवपलाशपलाशवनं पुरःस्फुटपरागपरागतपङ्कजं ।
मृदुलतान्तलतान्तमलोकयत् स सुरभिं सुरभिं सु-
मनोभरैः” ॥ ७६
“त्वामालिखन्तिदृष्ट्वान्यां धनुः पौष्पंकरेऽलिखत्” ॥ ७७
“चतुरास्यः पतिर्लक्ष्म्याः सर्व्वज्ञस्त्वं महीपते” ॥ ७८
“अयं हि धूर्ज्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् ।
अयमास्ते विना शम्भुस्तार्त्तीयैकं विलोचनं ॥
शम्भुर्व्विश्वमवत्यद्य स्वीकृत्य समदृष्टितां ।
अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥
साध्वीयमपरा लक्ष्मीरसुधासागरोत्थिता ।
अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते” ॥ ७९
पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति सिताः शराः” ॥ ८०
“ललितं निर्गते नीरे सेतुमेषा चिकीर्षति” ॥ ८१
“तडिद्गौरीन्दुतुल्यास्या कर्पूरन्ती दृशोर्म्मम ।
कान्त्या स्मरवधूयन्ती दृष्टा तन्वी रहो मया ॥
यत् त्वया मेलनं तत्र लाभो मे यश्च तद्रतेः ।
तदेतत् काकतालीयमवितर्क्कितसम्भवं” ॥ ८२
“अखिलेषु विहङ्गेषु हन्त स्वच्छन्दचारिषु ।
“शुक पञ्जरबन्धस्ते मधुराणां गिरां फलं” ॥ ८३
“सहस्व कतिचिन्मासान्मीलयित्वा विलोचने” ॥ ८४
“मुञ्च मानं दिनं प्राप्तं नेह नान्दी हरान्तिके” ॥ ८५
“सद्यः शिरांसि चापान् वा नमयन्तु महीभुजः” ॥ ८६
“स न जिग्ये महान्तो हि दुर्द्दशाः सागरा इव” ॥ ८७
“नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिं” ॥ ८८
“पञ्चमोदञ्चने काले कोकिलः कोकिलोऽभवत्” ॥ ८९
“विद्या हृद्यापि सा विद्या विना विनयसम्पदं ।
विना खलैर्व्विभात्येषा राजेन्द्र भवतः सभा” ॥ ९०
“अपलाक्षारसासिक्तं रक्तं ते चरणद्वयं ।
अस्त्रैरतीक्ष्णकठिनैर्ज्जगज्जयति मन्मथः ॥
नरेन्द्रानेव ते राजन् दशत्यसिभुजङ्गमः ।
शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतः ॥
शीताङ्गकिरणास्तन्वीं हन्त सन्तापयन्ति तां ।
यशःपयोराशिरभूत् करकल्पतरोस्तव” ॥ ९१
“तव विरहे मलयमरुद्दावानलः शशिरुचोऽपि
शोषमणिः । हृदयमनिरुतमपि भिन्ते नलिनी-
दलमपि निदाघरविरस्याः ॥ सन्ततमुषलासङ्गा-
द्बहुतरगृहकर्म्मघटनाया नृपते । द्विजषत्नीनां
पृष्ठ १/११८
:अथालङ्कारनामानि
विरोधामाषः -- ९३
विवृतोक्तिः -- ९४
विशेषः -- ९५
स त्रिविधः ।
विशेषोक्तिः -- ९६
विषमं -- ९७
तत् त्रिविधं ।
विषादनं -- ९८
व्याघातः -- ९९
स द्विविधः ।
व्याजनिन्दा -- १००
व्याजस्तुतिः -- १०१
स द्विविधः ।
व्याजोक्तिः -- १०२
व्यतिरेकः -- १०३
शुद्धापह्नुतिः -- १०४
श्लेषः -- १०५
स च त्रिविधः । प्रकृतानेकावषयः १ अप्रकृता-
नेकविषयः २ प्रकृताप्रकृतानेकविषयः ३ ।
सदर्थनिदर्शना -- १०६
सन्देहः -- १०७
समं -- १०८
तत् त्रिविधं ।
समाधिः -- १०९
समासोक्तिः -- ११०
समुच्चयः -- १११
स द्विविधः ।
सम्बन्धातिशयोक्तिः -- ११२
लक्षणभेदेन सा द्विधा ।
सम्भावनं -- ११३
सहोक्तिः -- ११४
सामान्यं -- ११५
सारः -- ११६
सूक्ष्मं -- ११७
न्तोकोक्तिः -- ११८
स्वभावोक्तिः -- ११९
तल्लक्षणानि
“आभाषत्वं विरोधस्य विरोधाभाष इष्यते” । ९३
“विवृतोक्तिः श्लेषगुप्तं कविनाविष्कृतं यदि” । ९४
“विशेषः ख्यातमाधारं विनाप्याधेयवर्णनं ।
विशेषः सोऽपि यद्येकं वस्त्वनेकत्र वर्ण्यते ॥
किञ्चिदारम्भतोऽशक्यवस्त्वन्तरकृतिश्च सः” । ९५
“कार्य्याजनिर्विशेषोक्तिः सति पुष्कलकारणे” । ९६
“विषमं वर्ण्यते यत्र घटनाननुरूपयोः ।
विरूपकार्य्यस्योत्पत्तिरपरं विषमं मतं ॥
अनिष्टस्याप्यवाप्तिश्चेत्तदिष्टार्थसमुद्यमात्” । ९७
“इष्यमाणविरुद्धार्थसंप्राप्तिश्च विषादनं” । ९८
“स्याद्व्याघातोऽन्यथाकारि तथाकारि क्रियेत चेत् ।
सौकार्य्येण निबद्धापि क्रियाकार्य्यविरोधिनः” । ९९
“निन्दाया निन्दया व्यक्तिर्व्याजनिन्देति गोयते” । १००
“उक्तिर्व्याजस्तुतिर्निन्दास्तुतिभ्यांस्तुतिनिन्दयोः” । १०१
“व्याजोक्तिरन्यहेतूक्त्या यदाकारस्य गोपनं” । १०२
“व्यतिरेको विशेषश्चेदुपमानोपमेययोः” । १०३
“शुद्धापह्नुतिरन्यस्यारोपार्थो धर्म्मनिह्नवः” । १०४
“नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयाश्रयः” । १०५
“विभावनं समृद्धानां फलं सुहृदनुग्रहः” । १०६
“स्यात् स्मृतिभ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयं” । १०७
“समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयोः ।
सारूप्यमपि कार्य्यस्य कारणेन समं विदुः ।
विना यत्नेन तत्सिद्धिर्यदर्थः कर्त्तुमुद्यमः” । १०८
“समाधिः कार्य्यसौकर्य्यं कारणान्तरसन्निधेः” । १०९
“समासोक्तिः परिस्फूर्त्तिः प्रस्तुते प्रस्तुतस्य चेत्” । ११०
“बहूनां युगपद्भाजां भावगुम्फः समुच्चयः ।
अहं प्रथमिकाभाजामेककार्य्यान्वयोऽपि सः” । १११
“सम्बन्धातिशयोक्तिः स्यादयोगे योगकल्पनं ।
योगेप्ययोगसम्वन्धातिशयोक्तिरितीर्य्यते” । ११२
“सम्भावनं यदीदं स्यादित्यूहोऽन्यस्य सिद्धये” । ११३
“सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः” । ११४
“सामान्यं प्रकृतस्यान्यतादात्म्यं सदृशैर्गुणैः” । ११५
“उत्तरोत्तरमुत्कर्षः सार इत्यभिधीयते” । ११६
“सूक्ष्मं पराशयाभिज्ञे तरसाकूतचेष्टितं” । ११७
“स्तोकोक्तिर्यत्र लोकोक्तेः स्यादर्थान्तरगर्भिता” । ११८
“स्वभावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनं” । ११९
तदुदाहरणानि ।
कठिनाः सति भवति कराः सरोजकुमाराः ॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्व-
पतो जागरूकस्य याथार्थ्यं वेद कस्तव ॥ वल्लभोत्-
सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरी-
जानिर्व्विषज्वालाकुलो भवेत् ॥ नयनयुगासेचनकं
मानसवृत्त्यापि दुष्प्रापं । रूपमिदं मदिराक्ष्या
मदयति हृदयं दुनोति च मे” ॥ ९२
“विनापि तन्वि हारेण वक्षोजौ तव हारिणौ” ॥ ९३
“वृषापेहि परक्षेत्रादिति वक्ति स सूचनं” ॥ ९४
“गते सूर्य्येऽपि द्वीपस्थास्तमश्छिन्दन्ति तत्कराः ।
अन्तर्वहिः पुरः पश्चात् सर्व्वदिश्यपि सैव मे ॥
त्वां पश्यता मया लब्धं कल्पवृक्षनिरीक्षणं” ॥ ९५
“हृदि स्नेहक्षयो नाभूत् स्मरदीपे ज्वलत्यपि” ॥ ९६
“क्वेयं शिरीषमृद्वङ्गी क्व तादृङ्मदनज्वरः ।
कीर्त्तिं प्रसूते धवलां श्यामा तव कृपाणिका ॥
भक्षाशया हि मञ्जूषां दृष्ट्याखुस्तेन भक्षितः” ॥ ९७
“दीपमुद्दीपयेद्यावत्तावन्निर्व्वाण एव सः” ॥ ९८
“यैर्जगत् प्रीयते हन्ति तैरेव कुसुमैः स्मरः ।
दया चेद्बाल इति मय्यपरित्यज्य एव ते” ॥ ९९
“विधे स निन्द्यो यस्ते प्रागेकमेवाहरच्छिरः” ॥ १००
“कः स्वर्धुनि विवेकस्ते नयसे पापिनो दिवं ॥
साधु दूति पुनः साधु कर्त्तब्यं किमतः परं ।
यन्मदर्थे विलूनासि दन्तैरपि नखैरपि” ॥ १०१
“सखि पश्य गृहारामपरागैरस्मि धूसरा” ॥ १०२
“शैला इवोन्नताः सन्तु किन्तु प्रकृतिकोमलाः” ॥ १०३
“नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहं” ॥ १०४
“सर्व्वतो माधवः पायात् स यो गङ्गामदीधरत् ॥
अब्जेन त्वन्मुखं तुल्यं हरिणा हतशक्तिना ।
उच्चरद्भूरिकोलालः शुशुभे वाहिनीपतिः” ॥ १०५
“उदयन्नेव सविता पद्मेष्वर्पयति त्विषं” ॥ १०६
“पङ्कजं वा सुधांशुर्व्वेत्यस्माकन्तु न निर्णयः” ॥ १०७
“स्वानुरूपं कृतं पठ्महारेण कुचमण्डलं ॥
नीचप्ररमता लक्ष्मि जलजायास्तवोचिता ॥
युक्तो वारणलाभोऽयं भूपतेर्वारणार्थिनः” ॥ १०८
“उत्कण्ठिता च कुलटा जगामास्तञ्च भानुमान्” ॥ १०९
“अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः” ॥ ११०
“नश्यन्ति पश्चात् पश्यन्ति भ्रश्यन्ति च तव द्विषः ॥
लं शीलं वयो विद्या धनञ्च मदयत्यमुं” ॥ १११
“सौधाग्राणि पुरस्यास्य स्पृशन्ति विधुमण्डलं ।
त्वयि दातरि राजेन्द्र स्वर्द्रुमान्नाद्रियामहे” ॥ ११२
“यदि शेषोऽभवद्वक्ता कथिताः स्युर्गुणास्तव” ॥ ११३
“दिगन्तमगमत्तस्य कीर्त्तिः प्रत्यर्थिभिः सह” ॥ ११४
“मल्लिकाचितधम्मिल्लाश्चारुचन्दनचर्च्चिताः ।
अविभाव्याः सुखं यान्ति चन्द्रिका अभिसारिकाः” ॥ ११५
“मधुरं मधु पीयूषं तस्मात् तस्मात् कवेर्वचः” ॥ ११६
“मयि पश्यति सा केशैः सीमन्तमणिमावृणोत्” ॥ ११७
“भुजङ्ग एव जानीते भुजङ्गाचरणं सखे” ॥ ११८
“कुरङ्गैरन्तराङ्गाक्षैः स्तब्धकर्णैः समीक्ष्यते” ॥ ११९
पृष्ठ १/११९
:अथालङ्कारनामानि
स्मतिमान् -- १२०
हेतुः -- १२१
स द्विविधः ।
हेत्वपह्नुतिः -- १२२

अलङ्क्रिया, स्त्री, (अलम् + कृ + भावे श ।) भू-

षितकरणं । तत्पर्य्यायः । भूषा २ । इत्यमरः ॥

अलङ्कृतः, त्रि, (अलम् + कृ + कर्म्मणि क्तः ।) अल-

ङ्कारयुक्तः । तत्पर्य्यायः । भूषितः २ प्रसाधितः ३
परिष्कृतः ४ मण्डितः ५ । इत्यमरः ॥
(“अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम्” ।
इति महाभारते ।)

अलञ्जरः, पुं, (अलम् + जॄ + अच् ।) मृण्मयबहु-

जलधरपात्रं । जाला इति ख्यातः । तत्पर्य्यायः ।
अलिञ्जरः २ मणिकं ३ । इत्यमरटीकायां भरतः ॥

अलतिः, पुं, (अल + बाहुलकात् अतिच् ।) गीत-

विशेषः । इत्युणादिकोषः ॥

अलन्धूमः, पुं, (अलमत्यर्थो धूमः ।) धूमसमूहः ।

इति जटाधरः ॥

अलम्, व्य, भूषणं । पूर्णता । सामर्थ्यं । निषेधः ।

इत्यमरः ॥ निरर्थकं । इति भरतः ॥

अलम्बुषः, पुं, (अलं पुष्णाति, पुष + क, पृषोदरा-

दित्वात् पस्य बः ।) प्रहस्तः । वमनं । राक्षस-
विशेषः ॥ इति मेदिनी ॥ (कुरुक्षेत्रयुद्धे कौरवाणां
सहायः स्वनामख्यातो राक्षसः ।
“सात्यकिश्चापि संक्रुद्धो राक्षसं क्रूरमाहवे ।
अलम्बुषं शरैर्घोरैर्विव्याध बलिनां बली” ॥
इति महाभारते ।)

अलम्बुषा, स्त्री, (अलं पुष्णाति, पुष + क, पस्य बः,

ततः स्त्रियां टाप् ।) मुण्डीरी । स्वर्गवेश्याभेदः ।
इति मेदिनी ॥
(“अलम्बुषा मिश्रकेशी पुण्डरीका तिलोत्तमा ।
सुरूपा लक्षणा क्षेमा तथा रम्भा मनोरमा” ॥
इति महाभारते ।) अन्यप्रवेशवारणार्थदत्तरे-
खादिः ॥ लज्जालुभेदः । तत्पर्य्यायः । खरत्वक् २
मेदः ३ गला ४ । अस्या गुणाः । लघुत्वं । स्वादुत्वं ।
कृमिपित्तकफनाशित्वञ्च । इति राजनिर्घण्टः ॥
(भावप्राकाशश्च ॥
“अलम्बुषा गोक्षुरकं त्रिफला नागरा मृताः ।
यथोत्तरं भागवृद्ध्या श्यामाचूर्णन्तु तत्समं ॥
पिवेन्मस्तुसुरातक्रकाञ्जिकोष्णोदकेन वा ।
पीतं जयत्यामवातं सशोथं वातशोणितं ॥
त्रिकजानूरुसन्धिस्थं ज्वरारोचकनाशनं ।
पथ्याक्षधात्र्यस्त्रिफला भागवृद्धावयं क्रमः” ॥ * ॥
अलम्बुषाद्यं चूर्णम् ॥ * ॥ इति वैद्यकचक्रपाणि-
संग्रहः ॥
“अलम्बुषा गोक्षुरकं मूलं वरुणकस्य च ।
गुडूची नागरञ्चेति समभागानि कारयेत् ॥
तल्लक्षणानि
“स्यात् स्मृतिभ्रान्तिसन्देहैस्तदङ्कालङ्कृतित्रयं” । १२०
“हेतोहतुमता सार्द्ध वर्णनं हेतुरुच्यते ।
हेतुर्हेतुमतोरैक्यवर्णनं हेतुरुच्यते” । १२१
“शुद्धापह्नुतिरन्यस्यारोपार्थो धर्म्मनिह्नवः ।
स एव युक्तिपूर्ब्बश्चेदुच्यते हेत्वपह्नुतिः” । १२२
काञ्जिकेन तु तत्पेयं विडालपदमात्रकं ।
आमवाते प्रवृद्धे च योगोऽयममृतोपमः ॥ * ॥
अपरालम्बुषाद्यं चूर्णं ॥ * ॥ इति च भावप्रकाशे ॥)

अलर्कः, पुं, (अलमर्कतेऽर्च्यते वा, अर्क + अच्, अर्च

+ घञ् वा ।) क्षिप्तकुक्कुरः । (“आलर्कं विष-
मिव सर्व्वतः प्रसुप्तम्” । इति उत्तरचरिते ।)
श्वेतार्कवृक्षः । शादा आकन्द इति भाषा ।
(अस्य पर्य्यायान्तरं गुणान्तरञ्च यथा --
“अलर्को गुणरूपः स्यान्मन्दारो वसुकोपि च ।
श्वेतपुष्पः सदापुष्पः सबालार्कः प्रतापसः ॥
रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः ।
रक्तपुष्पः शुक्लफलस्तथास्फोटः प्रकीर्त्तितः ॥
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् ।
निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरशकृत्क्रिमीन् ॥
अलर्ककुसुमं वृष्यं लघुदीपनपाचनं ।
अरोचकप्रसेकार्शःकासश्वासनिवारणम्” ॥
इति भावप्रकाशः ॥
“दुष्टकर्द्दमसंस्पर्शाः कण्डूक्लेदान्वितान्तराः” ।
अङ्गुल्योऽलस मित्याहुः ॥ इति वाभटः ॥)
तत्पर्य्यायः । प्रतापसः २ राजार्कः ३ गणरूपी ४ ।
इति रत्नमालामरौ ॥ शूकराकाराष्टपादतीक्ष्ण-
दन्तसूच्याकृतिलोमजन्तुविशेषः । दंशनामासुरो
भृगुशापात् अयं जन्तुर्भूत्वा कर्णस्योरुं भित्त्वा
परशुरामदृष्टिपातात् शापमुक्तः पूर्ब्बरूपो बभूव ।
इति महाभारते राजधर्म्मे ॥
(“ददर्श रामस्तं चापि कृमिं शूकरसन्निभं ।
अष्टपादं तीक्ष्णदंष्ट्रं सूचीभिरिव संवृतं ॥
रोमभिः संनिरुद्धाङ्गमलर्कं नाम नामतः ।
सोऽब्रवीदहमासं प्राग्दंशो नाम महासुरः ।
पुरा देवयुगे तात ! भृगोस्तुल्यवया इव ।
सोऽहं भृगोः सुदयितां भार्य्यामपहरं बलात् ॥
महर्षेरभिशापेन कृमिभूतोऽपतं भुवि” ।
स्वनामख्यातो नृपतिः ।
“शैव्यः शेनकपोतीये स्वमांसं पक्षिणे ददौ ।
अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम्” ॥
इति रामायणे । स्वनामख्यातः काशिराजः, स हि
वत्सराजस्य पुत्त्रः सन्नतेश्च पिता, यथा हरिवंशे, --
“वत्सपुत्त्रस्त्वलर्कस्तु सन्नतिस्तस्य चात्मजः ।
अलर्कः काशिराजस्तु ब्रह्मण्यः सत्यसङ्गरः ॥
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च ।
तस्यासीत् सुमहद्राज्यं रूपयौवनशालिनः” ।)

अलले, व्य, पिशाचभाषायां सम्बोधनं । तत्पर्य्यायः ।

अले २ अलेले ३ । इति शब्दरत्नावली ॥
तदुदाहरणानि
“पङ्कजं पश्यतः कान्ता मुखं मे गाहते मनः” ॥ १२०
“असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवां ॥
लक्ष्मीविलासो विदुषां कटाक्षावेङ्कटप्रभोः” ॥ १२१
“नेन्दुस्तीव्रो न निश्यर्कः सिन्धोरौर्व्वोऽयमुत्थितः” ॥ १२२

अलवालं, क्ली, (लवमालाति, ला + क, ततो नञ्-

समासः ।) आलवालं । वृक्षमूले जलधारणार्थ-
कृतालिः । चारमादा इति ख्यातः । इत्यमर-
टीकायां भरतादयः ॥

अलवालकं, क्ली, (अलवाल एव, अलवाल + स्वार्थे

कन् ।) आलवालं । इति शब्दरत्नावली ॥

अलसः, त्रि, (न लसति व्याप्रियते, लस + अच् ।)

आलस्ययुक्तः । आल्स्या इति भाषा । तत्पर्य्यायः ।
मन्दः २ तुन्दपरिमृजः ३ आलस्यः ४ शीतकः ५
अनुष्णः ६ । इत्यमरः ॥ शीतलः ७ कुण्ठः ८ मुख-
निरीक्षकः ९ । इति शब्दरत्नावली ॥ (क्रिया-
मन्दः । क्रियाजडः । अवश्यकर्त्तव्येषु अप्रवृत्ति-
शीलः । “अव्यवसायिनमलसं दैवपरं साहसाच्च
परिहीनं । प्रमदेव वृद्धपतिं नेच्छत्युपगृहीतुं
लक्ष्मीः” । इति हितोपदेशे ।)

अलसः, पुं, (लस + अच्, ततो नञ्समासः ।) वृक्ष-

विशेषः । पादरोगभेदः । इति मेदिनी ॥ पाँकुइ
इति भाषा । तस्य निदानरूपे ।
“क्लिन्नाङ्गल्यन्तरौ पादौ कण्डूदाहरुजान्वितौ ।
दुष्टकर्द्दमसंस्पर्शादलसं तं विभावयेत्” ॥
अलसं कादई इति लोके । अथ तस्य चिकित्सा ।
“पादौ सित्कारनालेन लेपनं त्वलसे हितं ।
पटोलकुनटीनिम्बरोचनामरिचैस्तिलैः ॥
क्षुद्रास्वरससिद्धेन कटुतैलेन लेपयेत् ।
ततः कासीसकुनटीतिलचूर्णैर्व्विचूर्णयेत्” ॥
अवधूलयेत् ।
“करञ्जवीजं रजनी कासीसं पद्मकं मधु ।
रोचना हरितालञ्च लेपोऽयमलसे हितः” ॥
इति भावप्रकाशः ॥ (“टुष्टकर्द्दमसंस्पर्शाः कण्डू-
क्लेदान्वितान्तराः । अङ्गुल्योऽलसमित्याहुः” ॥
इति वाभटः ॥)

अलसकः, पुं, (न लस्यति अनेन, लस + करणे वुन् ।)

उदररोगविशेषः । इति माधवकरः ॥ तस्य रूपं
“कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति ।
निरुद्धो मारुतश्चैव कुक्षावुपरि धावति ॥
वातवर्च्चोनिरोधाश्च यस्यात्यर्थं भवेदपि ।
तस्यालसकमाचष्टे तृष्णोद्गारौ तु यस्य च” ॥
तन्त्रान्तरे ।
“प्रयाति नोर्द्ध्वं नाधस्तादाहारो न च पच्यते ।
आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः” ॥
अस्य लक्षणं चिकित्सा च अजीर्णशब्दे द्रष्टव्या ॥
(अलसकमुपदेक्ष्यामः । दुर्ब्बलस्याल्पाग्नेर्बहुश्लेष्मणो
वातमूत्रपुरीषवेगविधारिणः स्थिरगुरुबहुरूक्ष
पृष्ठ १/१२०
:शीतशुष्कान्नसेविनस्तदन्नपानमनिलप्रपीडितं श्ले-
ष्मणा च विबद्धमार्गमतिमात्रप्रलीनमलसत्वान्न
वहिर्मुखी भवति । ततश्छर्द्यतीसारवर्ज्यान्याम-
प्रदोषलिङ्गान्यभिदर्शयति अतिमात्राणि । अति-
मात्रप्रदुष्टाश्च दोषाः प्रदुष्टामबद्धमार्गास्तिर्य्यगा-
गच्छन्तः कदाचित् केवलमेवास्य शरीरं दण्डवत्
स्तम्भयन्ति । ततस्तमलसकमसाध्यं ब्रुवते ।
विरुद्धाध्यशनाजीर्णाशनशीलिनः पुनरेव दोष-
मामविषमित्याचक्षते भिषजो विषसदृशलिङ्ग-
त्वात् । तत्परमसाध्यमाशुकारित्वात् विरुद्धोप-
क्रमत्वाच्चेति । तत्र साध्यमामं प्रदुष्टमलसीभूत-
मुल्लेखयेत् । पाययित्वा सलवणमुष्णवारि । ततः
स्वेदनवर्त्तिप्रणिधानाभ्यामुपाचरेदुपवासयेच्चैनम् ।
इति चरकः ॥)

अलसा, स्त्री, (लस + अच्, ततो नञ्समासः,

स्त्रियां टाप् ।) हंसपदीलता । इति मेदिनी ॥
हंसपदीशब्देऽस्य गुणादयो ज्ञेयाः ॥

अलसेक्षणा, स्त्री, (अलसे ईक्षणे यस्याः सा ।) स्त्री-

विशेषः । सा अलसदृष्टियुक्ता । इति हेमचन्द्रः ॥

अलक्षणं, क्ली, (लक्षणमनुमापकं सुचिह्नं, विरोधे

नञ्, नञसमासः ।) दुर्लक्षणं । मन्दचिह्नं ।
(“आचारात् धनमक्षय्यमाचारो हन्त्यलक्षणम्” ।
इति मनुः ।) तद्विशिष्टे त्रि ॥

अलक्ष्मीः, स्त्री, (न लक्ष्मी, नञत्र विरोधे ।) नरक-

देवता । तत्पर्य्यायः । निरृतिः २ । इत्यमरः ॥
कालकर्णी ३ । इति शब्दरत्नावली ॥ काल-
कर्णिका ४ । इति जटाधरः ॥ ज्येष्ठादेवी ५
इति पाद्मोत्तरखण्डं ॥ तस्या विवरणं ज्येष्ठाशब्दे
द्रष्टव्यं ॥ * ॥ दीपान्वितामावास्यायां तस्याः पूजा-
विधिर्यथा । तत्र प्रदोषे आदौ आचारादलक्ष्मी-
पूजनं । इत्याचार्य्यचूडामणिप्रभृतयः ॥ गोमय-
पुत्तलिकां निर्माय वामहस्तेन कृष्णपुष्पं गृहीत्वा
ध्यायेत् ।
“अलक्ष्मीं कृष्णवर्णां द्विभुजां कृष्णवस्त्रपरीधानां
लौहाभरणभूषितां शर्कराचन्दनचर्च्चितां गृह-
सम्मार्ज्जनीहस्तां गर्दभारूढां कलहप्रियां” । इति
ध्यात्वा विमुखेन “ॐ अलक्ष्म्यै नमः” इत्यनेन
निर्म्माल्येन कृष्णपुष्पेण संपूज्य प्रणमेत् ।
“(ॐ)अलक्ष्मीस्त्वं कुरूपासि कुत्सितस्थानवासिनी ।
सुखरात्रौ मया दत्तां गृह्ण पूजाञ्च शाश्वतीं ॥
दारिद्र्यकलहप्रिये देवि ! त्वं धननाशिनी ।
याहि शत्रोर्गृहे नित्यं स्थिरा तत्र भविष्यसि ॥
यदि त्वं मे महाभागे प्रीता भवसि सर्व्वदा ।
पुत्त्रबन्धुकलत्रेषु कदाचिन्नागमिष्यसि ॥
गच्छ त्वं मन्दिरं शत्रोर्गृहीत्वा चाशुभं मम ।
मदाश्रयं परित्यज्य स्थिरा तत्र भविष्यसि” ॥
ततः शूर्पवाद्येन सीमान्ते तां विसृजेत् ।
इति कृत्यचन्द्रिका ॥ * ॥ किञ्च, --
“एवं गते निशीथे तु नारी च स्वगृहाङ्गनात् ।
अलक्ष्मीश्च वहिष्कार्य्या अमन्त्रञ्च यथाविधि” ॥
इति कृत्यतत्त्वार्णवधृतब्रह्मपुराणं ॥ * ॥
“एवं गते निशीथे तु जने निद्रार्द्धलोचने ।
तावन्नगरनारीभिः शूर्पडिण्डिमवादनैः ॥
निष्काश्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गनात्” ॥
इति निर्णयसिन्धौ मदनरत्नधृतभविष्यपुराणं ॥

अलातं, क्ली, (ला + क्त, नञ्समासः ।) अङ्गारः ।

इत्यमरः ॥ (अर्द्धदग्धकाष्ठः ।
“कुरुतेऽस्मिन्नमोघेऽपि निर्व्वाणालातलाघवम्” ।
इति कुमारसम्भवे ।)

अलावुः, पुं, स्त्री, (न लम्बते, न + लवि ऊर्णित् नलो-

पश्च वृद्धिः ।) लताविशेषः तत्फलञ्च । लाउ इति
ख्याता । तत्पर्य्यायः । तुम्बः २ तुम्बकः ३ तुम्बा ४
तुम्बी ५ पिण्डफला ६ महाफला ७ आलावुः ८
एलावुः ९ लावुः १० लावुका ११ । इत्यमरः
तट्टीका च ॥ तुम्बिका १२ तुम्बिः १३ अलावुः १४ ।
इति शब्दरत्नावली ॥ अस्या गुणाः ।
“अलावुः कथिता तुम्बी द्विधा दीर्घा च वर्त्तुला
मिष्टं तुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु ॥
वृष्यं रुचिकरं प्रोक्तं धातुपुष्टिविवर्द्धनं” ।
इति भावप्रकाशः ॥ भेदकत्वं कफकारित्वं । गुरु-
पाकित्वं । हिमत्वं । पित्तनाशित्वञ्च । तन्नाडी-
गुणाः । गुरुत्वं । मधुरत्वं ॥ मलभेदकत्वं । वात-
श्लेष्मकारित्वं । रूक्षत्वं । शीतलत्वं । पित्त-
नाशित्वञ्च । इति राजवल्लभः ॥
(“वर्च्चोभेदीन्यलावूनि रूक्षशीतगुरूणि च” ।
इति चरकश्च ।
“अलावुर्भिन्नविट्का तु रूक्षागुर्व्यतिशीतलां” ।
इति च सुश्रुतः ॥)

अलारं, क्ली, (अरार्द्यते, ऋ + यङ्लुक् + अच् रस्य

लः ।) कवाटं । इति शब्दरत्नावली ॥

अलिः, पुं, स्त्री, (अलति दंशे समर्थो भवति यः, सः,

अल + इन् ।) भ्रमरः ।
(“अलिपङ्क्तिरनेकशस्त्वया,
गुणकृत्ये धनुषो नियोजिता” ।
इति कुमारसम्भवे ।
“अनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय” ।
इति रघुवंशे ।) वृश्चिकः । इत्यमरः ॥ काकः ।
कोकिलः । इति शब्दरत्नावली ॥ मदिरा । इति
मेदिनी ॥ (वृश्चिकराशिः ।)

अलिकं, क्ली, (अल्यते भूष्यते, अल + कर्म्मणि

इकन् ।) ललाटं । इत्यमरः ॥

अलिकुलसड्कुलः, पुं, (अलिकुलेन सङ्कलः व्याप्तः,

तृतीयातत्पुरुषः ।) कुब्जकवृक्षः । इति राज-
निर्घण्टः ॥

अलिगर्द्धः, पुं, (अलिरिव वृश्चिक इव गृध्नोति, गृध्

+ अच् ।) जलसर्पः । आलाध इति ख्यातः ।
इति शब्दरत्नावली ॥

अलिजिह्वा, स्त्री, (अलिरिव क्षुद्रा जिह्वा, ।) जिह्वो-

परि क्षुद्रजिह्वा । आलजिव इति ख्याता । इति
शब्दरत्नावली ॥

अलिजिह्विका, स्त्री, (अलिजिह्वा एव स्वार्थे कन्;

टाप् ।) अलिजिह्वा । इति शब्दरत्नावली ॥

अलिञ्जरः, पुं, (अल + इन, अलिं सामर्थ्यं जरयति

जृणाति वा, अलि + जृ + अच्, पृषोदरादित्वात्
साधुः ।) मृदादिनिर्म्मितजलाधारविशेषः । जाला
इति ख्यातः । इत्यमरः ॥
(“उदकान्तमुपनीय मत्स्यं वैवस्वतो मनुः ।
अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभं” ॥
इति महाभारते ।)

अलिदूर्व्वा, स्त्री, (अलिरिवाकारेण दूर्व्वा ।) माला-

दूर्व्वा । इति राजनिर्घण्टः ॥

अलिन्दः, पुं, (अलते भूष्यते, अल + कर्म्मणि

बाहुलकात् किन्दच् ।) वहिर्द्वारसंलग्नचतुरस्र-
कृत्रिमभूमिः । तत्पर्य्यायः । प्रघाणः २ प्रघणः ३
वहिर्द्वारप्रकोष्ठः ४ आलिन्दः ५ । इत्यमरः ॥ गृह-
द्वारपिण्डकः । अलिन्दः नाम्नीति अलञ् इन्द
ह्रस्वादिः । यस्यामलिन्देंषु न चक्रुरेवेति माघः ।
स्वार्थे ष्णे आलिन्दो दीर्घादिरपि ।
“गृहैकदेशे आलिन्दः प्रघाणःप्रघणस्तथा” ।
इत्यमरदत्तः । अथ पिण्डक आलिन्द इति हड्डः ।
इह तूभयमेव श्लेषादिति साज्झः ।
इत्यमरटीकायां भरतः ॥ * ॥ अन्यच्च ।
“प्रघाणप्रघणालिन्दा द्वारवाह्यप्रकोष्ठके ।
गृहाभ्यन्तरशय्यार्थपिण्डिकायामपि त्रयं ॥
आलिन्दः स्यादलिन्दोऽपि स्यादलिन्दक इत्यपि” ।
इति शब्दरत्नावली ॥
(“शुकाङ्गनीलोपलनिर्म्मितानां
लिप्तेषु भासा गृहदेहलोनां ।
यस्यामलिन्देषु न चक्रुरेव
मुग्धाङ्गना गोमयगोमुखानि ॥”
इति माघः ।)

अलिपकः, पुं, स्त्री, (कुत्सितवर्णेन लिप्यते, लिप +

बाहुलकात् कर्म्मणि वुन् ।) भ्रमरः । कोकिलः ।
कुक्कुरः । इति मेदिनी ॥ (वृश्चिकः ।)

अलिपत्रिका, स्त्री, (अलिर्वृश्चिक इव पत्रमस्याः,

कपि अत इत्त्वम् ।) वृश्चिकाख्यक्षुपः । इति
राजनिर्घण्टः ॥

अलिपर्णी, स्त्री, (अलिरिव पर्णमस्याः, ङीप् ।)

वृश्चिकालीवृक्षः । इति राजनिर्घण्टः ॥

अलिप्रियं, क्ली, (अलीनां प्रियं षष्ठीतत्पुरुषः ।)

रक्तोत्पलं । रक्तपद्मं । इति त्रिकाण्डशेषः ॥

अलिप्रिया, स्त्री, (अलीनां प्रिया, षष्ठीतत्पुरुषः ।)

पाटलावृक्षः । इति रत्नमाला ॥

अलिमकः, पुं, (अलिरिव मक्कते, मक्क + अच्,

पृषोदरादित्वात्कलोपः ।) भेकः । कोकिलः ।
भ्रमरः । पद्मकेशरः । मधूकवृक्षः । इति मेदिनी ॥

अलिमोदा, स्त्री, (अलीन् मोदयति मुद् + णिच्

+ अच् ।) गणिकारीवृक्षः । इति राजनिर्घण्टः ॥

अलिम्बकः, पुं, (न + लिपि + वुन्) पद्मकेशरः ।

भेकः । भ्रमरः । कोकिलः । इति शब्दरत्नावली ॥
(कुक्कुरः । मधूकवृक्षः ।)

अलिवाहिनी, स्त्री, (अलिं वाहयति गन्धेन, वह

+ णिच् + णिनि + ङीप् ।) केविकापुष्पं । इति
राजनिर्घण्टः ॥

अली, [न्] पुं, (अलं वृश्चिकपुच्छस्थकण्टकं विद्य-

तेऽस्य इनि ।) भ्रमरः ।
पृष्ठ १/१२१
:(“मलिनिमालिनि माधवयोषिताम्” ।
इति माघः ।) वृश्चिकः । इति मेदिनी ॥

अलीकं, क्ली, (अल + ईकन् ।) अप्रियं । (“तद्यथा

स महाराजो नालीकमधिगच्छति” । इति
रामायणे ।) मिथ्या । इत्यमरः ॥ (“ज्ञातेऽलीकनि-
मीलिते नयनयोः” । इति अमरुशतके ।) स्वर्गः ।
इति मेदिनी ॥ ललाटं । इति हेमचन्द्रः ॥

अलीकं, त्रि, (अल + ईकन् ।) मिथ्या । अप्रियं ।

अल्पं । इति शब्दरत्नावली ॥

अलीकमत्स्यः, पुं, अङ्गारखिन्नतिलतैलभृष्टमासपिष्टं ।

तत्र प्रमाणं राजनिर्घण्टे यथा ।
“माषपिष्टिकया लिङ्ग्यनागवल्लीदलैर्महत् ।
तत्तु संस्वेदयेद्युक्त्या स्थाल्यामङ्गारकोपरि ॥
ततो निष्काशितं खण्ड्यं तिलतैलेन भर्ज्जयेत् ।
अलीकमत्स्य उक्तोऽयं प्रकारः पाकपण्डितैः ॥
तं वृन्ताकभटित्रेण वास्तूकेन च भक्षयेत् ॥”

अलुः, स्त्री, (अल + उन् ।) आलुः । क्षुद्रकलसी ।

इत्यमरटीकायां रमानाथः ॥

अलुब्धः, त्रि, (लुभ + क्तः, नञ्समासः ।) लोभ-

रहितः । यथा मनुः ।
“एकोऽप्यलुब्धः साक्षी स्यात् बह्व्यः शुच्योऽपि न
स्त्रियः । स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये
वृताः” ॥
“एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभट्टधृत-
पाठः ।” इति व्यवहारतत्त्वं ॥
(“अलुब्धैः स्निग्धैः प्रबुद्धैश्चामात्यैः परिवृतः” ।
इति कादम्बरी ।)

अले, व्य, पिशाचभाषया सम्बोधनं । इति शब्द-

रत्नावली ॥

अलेले, व्य, पिशाचभाषया सम्बोधनं । इति शब्द-

रत्नावली ॥

अलोभः, पुं, (न लोभः, अभावे नञ् ।) लोभाभावः ।

यथा, --
“इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
अलोभ इति मार्गोऽयं धर्म्मश्चाष्टविधः स्मृतः” ॥
इति महाभारतं ॥

अलोभी, [न्] त्रि, (लोभोऽस्त्यस्य इति लोभी, न

लोभी इति नञ्समासः ।) लोभशून्यव्यक्तिः ।
नास्ति लोभो यस्य इति बहुब्रीहिसमासादिन्-
प्रत्ययनिष्पन्नः ॥

अलोहितं, क्ली, (न लोहितं, नास्ति लोहितं यस्मात्

इति वा ।) रक्तपद्मं । इति रत्नमाला ॥

अलौकिकः, त्रि, (लोके विदितः, लोक + ठक्

ततोनञ्समासः ।) लौकिकप्रत्यक्षाविषयः । अमा,
मुषिकः । लोकातीतः । यथा, --
“अलौकिकत्वादमरः स्वकोषे
न यानि नामानि समुल्लिलेख ।
विलोक्य तैरप्यधुना प्रचार-
मयं प्रयत्नः पुरुषोत्तमस्य” ॥
इति त्रिकाण्डशेषद्वितीयश्लोकः ॥
(“उपसंहर विश्वात्मन्नदोरूपमलौकिकम्” ।
इति भागवतपुराणम् ।)

अल्पं, त्रि, (अल् + प् ।) किञ्चित् । तत्पर्य्यायः । ईषत्

२ मनाक् ३ स्तोकं ४ ।
(“अल्पोऽप्येवं महान् वापि विक्रयस्तावदेव सः” ।
इति मनुः ।) खुल्लकं ५ श्लक्ष्णं ६ दभ्रं ७ कृशं ८
तनुः ९ तनूः १० त्रुटिः ११ त्रुटी १२ मात्रा १३
लवः १४ लेशः १५ कणः १६ कणी १७ कणिका
१८ अणुः १९ सूक्ष्मं २० । इत्यमरः ॥ क्षुल्लं २१
क्षुल्लकं २२ खुल्लं २३ कणा २४ । इति शब्दरत्नावली ।
(अतिसामान्यः ।
“अल्पस्य हेतोर्बहु हातुमिच्छन्
विचारमूढः प्रतिभासि मे त्वम्” ।
इति रघुवंशे । संक्षिप्तं । अदीर्घं ।
“अनन्तपारं किल शब्दशास्त्रं,
स्वल्पं तथायुर्बहवश्च विघ्नाः” ।
इति पञ्चतन्त्रम् ।)

अल्पकः, पुं, (अल्प एव, अल्प + स्वाथ कन् ।)

यवासवृक्षः । इति राजनिर्घण्टः ॥ अस्य गुणाः ॥
“यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः ।
कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित् ॥
तृष्णाविसर्पवातास्रवमिज्वरहरः स्मृतः ।
यवासस्य गुणैस्तुल्या बुधैरुक्ता दुरालभा” ॥
इति भावप्रकाशः ।) (स्वल्पपरिमितः । किञ्चित् ।
“यदावगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।
तदात्वे चाल्पिकां पीडां तदा सन्धिं समाश्रयेत्” ॥
इति मनुः ।)

अल्पकेशी, स्त्री, (अल्पः केशैव पत्रमस्याः सा ।)

भूतकेशीवृक्षः । इति रत्नमाला ॥

अल्पगन्धं, क्ली (अल्पो गन्धो यस्य तत् ।) रक्तकैरवं ।

इति रत्नमाला ॥

अल्पतनुः, त्रि, (अल्पा क्षुद्रापरिमाणा तनुर्यस्य ।)

खर्व्वः । दुर्ब्बलः । अल्पास्थियुक्तः । क्षुद्रदेहवान्
तत्पर्य्यायः । पृश्निः २ । इत्यमरः ॥

अल्पपत्रः, पुं, (अल्पं पत्रं यस्य सः ।) क्षुद्रपत्रतुलसी ।

इति रत्नमाला ॥

अल्पपद्मं, क्ली, (अल्पमसम्पूर्णं पद्मं ।) रक्तपद्मं । इति

रत्नमाला ॥

अल्पप्रमाणकः, पुं, (अल्पं प्रमाणमस्य, वा कन् ।)

चेलानं । इति रत्नमाला ॥ चेलो चेला तरमूज
इति ख्यातः । खरमूज इति केचित् ।

अल्पमारिषः, पुं, (अल्पः क्षुद्रः मारिषः नटिया इति

ख्यातः शाकः, कर्म्मधारयः ।) शाकविशेषः ।
क्षुद्रनटिया इति ख्यातः । तत्पर्य्यायः तण्डुलीयः २ ।
इत्यमरः ॥ (तण्डुलीयशब्देऽस्य गुणा ज्ञेयाः ।)

अल्पसरः, [स्] क्ली, (अल्पं क्षुद्रं सरः, कर्म्मधारयः ।)

क्षुद्रसरोवरः । डोवा गेडे इति भाषा । तत्-
र्य्यायः । वेशन्तः २ पल्वलं ३ । इत्यमरः ॥

अल्पायुः, [स्] पुं, (अल्पं संक्षिप्तं आयुर्जीवनकालो

यस्य सः ।) छागः । इति त्रिकाण्डशेषः ॥ अचि-
रजीविते त्रि ॥ (अदीर्घजीवी ।
“दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधितोऽल्पायुरेव च” ।
इति मनुः ।)

अल्पिष्ठः, त्रि, (अतिशयेन अल्पः, अल्प + इष्ठन् ।

अत्यल्पं । इत्यमरः ॥

अल्पीयः, [स्] (अतिशयेन अल्पः, अल्प ईयसुन् ।) अत्यल्पं । इत्यमरः ॥

अल्लः, पुं, (अल् + क ।) परमेश्वरः ।

एतन्नाम्ना यवना उपासन्ते । यथा । “ॐ अस्मल्लां
इल्ले मित्रावरुणो दिव्यानि धत्ते । इलल्ले वरुणो
राजा पुनर्ददुः । हयामि मित्रो इल्लां इल्लल्लेति
इल्लाल्लां वरुणो मित्रो तेजकामाः । होवारमिन्द्रो
होतारमिन्द्रो माहासुरिन्द्राः । अल्लो ज्येष्ठं श्रेष्ठं
परमं पूर्णं ब्रह्माणमल्लां अल्लोरसुर महमदरकं
वरस्य अल्लो अल्लां आदल्लावुकमेककं । अल्लां
वुकं । निखातकं । अल्लो यज्ञेन हुतहुत्वः
अल्ला सूर्य्यचन्द्रसर्व्वनक्षत्राः अल्लो ऋषीणां स-
दिव्या इन्द्राय पूर्ब्बं मायापरमन्त अन्तरिक्षाः ।
अल्लो पृथिव्या अन्तरिक्षं विश्वरूपं दिव्यानि धत्ते
इल्लल्ले वरुणो राजा पुनर्ददुः । इल्लाकवर इल्ला-
कवर इल्लल्लेति इल्लाल्लाः इल्ला इल्लल्ला अनादि-
स्वरूपा अथर्व्वणी शाखां ह्रूँ ह्रीँ जनान् पशून्
सिद्धान् जलचरान् अदृष्टं कुरु कुरु फट् । असुर-
संहारिणीं हुँ अल्लो रसुरमहमदरकं वरस्य
अल्लो अल्लां इल्लल्लेति इल्लल्लः” । इत्याथर्व्वणसूक्तं ।

अल्ला, स्त्री, (अल + क, स्त्रियां टाप् ।) परमेश्वरः ।

एतन्नाम्ना यवना उपासन्ते । यथा । “ॐ अस्मल्लां
इल्ले मित्रावरुणो दिव्यानि धत्ते । इलल्ले वरुणो
राजा पुनर्ददुः । हयामि मित्रो इल्लां इल्लल्लेति
इल्लाल्लां वरुणो मित्रो तेजकामाः । होवारमिन्द्रो
होतारमिन्द्रो माहासुरिन्द्राः । अल्लो ज्येष्ठं श्रेष्ठं
परमं पूर्णं ब्रह्माणमल्लां अल्लोरसुर महमदरकं
वरस्य अल्लो अल्लां आदल्लावुकमेककं । अल्लां
वुकं । निखातकं । अल्लो यज्ञेन हुतहुत्वः
अल्ला सूर्य्यचन्द्रसर्व्वनक्षत्राः अल्लो ऋषीणां स-
दिव्या इन्द्राय पूर्ब्बं मायापरमन्त अन्तरिक्षाः ।
अल्लो पृथिव्या अन्तरिक्षं विश्वरूपं दिव्यानि धत्ते
इल्लल्ले वरुणो राजा पुनर्ददुः । इल्लाकवर इल्ला-
कवर इल्लल्लेति इल्लाल्लाः इल्ला इल्लल्ला अनादि-
स्वरूपा अथर्व्वणी शाखां ह्रूँ ह्रीँ जनान् पशून्
सिद्धान् जलचरान् अदृष्टं कुरु कुरु फट् । असुर-
संहारिणीं हुँ अल्लो रसुरमहमदरकं वरस्य
अल्लो अल्लां इल्लल्लेति इल्लल्लः” । इत्याथर्व्वणसूक्तं ।

अल्ला, स्त्री, (अल्यते इत्यल्, क्विप्, अलें भूषायै

लाति गृह्णाति, ला + क ।) नाट्योक्तौ माता ।
इति वोपदेवः ॥ (अथर्व्ववेदे अल्लाल्लेत्यादि-
ख्यातो यवनोपास्यः परमेश्वरः ।)

अव रक्षणे । (यथायथं सकं-अकं-च, भ्वादिं-

परं-सेट् ।) गतौ । कान्तौ । स्पृहायामिति
यावत् । प्रीतौ । तृप्तौ । द्युतौ । शोभायामिति
यावत् । श्रुतौ । आकर्णने इति यावत् । प्राप्तौ ।
श्लेषे । आलिङ्गने इति यावत् । अर्थने । याच्ञा-
यामिति यावत् । वेशे । प्रवेशे इति यावत् ।
भावे । सत्तायामिति यावत् । वृद्धौ । ग्रहे ।
आदाने इति यावत् । बधे । सामर्थ्ये । अवगमे ।
कृतौ । करणे इति यावत् । कामे । इच्छोत्पादने
इति यावत् । (इति वोपदेवीयकविकल्पद्रुमः
तट्टीका च ॥) “अव रक्षे गतौ कान्तौ प्रीतौ तृप्तौ
द्युतौ स्तुतौ । प्राप्तौ श्लेषेऽर्थने वेशे भागे वृद्धौ
गृहे बधे । सामर्थ्येऽवगमे कामे धृतौ” । ऊन-
विंशतिरर्थाः । कान्तिरिच्छा । द्युतिः शोभा ।
काम इति ञ्यन्ताद्व्युत्पत्तेरिच्छोत्पादाना इति
भेदः । श्लेष आलिङ्गनं । सामर्थ्यं शक्तिः । रक्षणे
प्रसिद्धोऽयं । प्रीतौ तु । “न मामवति सद्वीपा
रत्नसूरपि मेदिनी” । इति रघुः ॥ अन्यत्र विरल-
प्रयोगः । केचित्तु स्तुति-भाग-गृह-काम-धृतीर्न
पठित्वा क्रिया-श्रवण-दहन-भावानाहुः । अवति ।
इति दुर्गादासः ॥

अव, व्य, (अव + अच् ।) उपसर्गविशेषः । अस्यार्थः ।

निश्चयः । असाकल्यं । अनादरः । इति दुर्गादासः ॥
आलम्बनं । विज्ञापनं । व्यापनं । शुद्धिः । अल्पं ।
परिभवः । नियोगः । पालनं । इति शब्दरत्ना-
वली ॥
पृष्ठ १/१२२

अवकटं, क्ली, (अव + स्वार्थे कटच् ।) वैरूप्यं ।

अवात् कुटारश्च वैरूप्ये चकारात् कटश्च । इति
गोयीचन्द्रकृतलक्षणं ॥

अवकरः, पुं, (अव + कृ + अप् ।) सम्मार्ज्जन्यादि-

निःक्षिप्तधूल्यादिः । जञ्जाल इति ख्यातः । तत्-
पर्य्यायः । सङ्करः २ । इत्यमरः ॥ अवस्करः ३ ।
इत्यमरटीकायां मथुरानाथः ॥ सङ्कारः ४ । इति
शब्दरत्नावली ॥ (“अवकरनिकरं विकिरति तत्
किं कृकवाकुरिव हंसः” । इति नीतिशतके ।)

अवकलितः त्रि, (अव + कल + क्त ।) दृष्टः । इति

धरणी ॥

अवकाशः, पुं, (अव + काश + घञ् ।) अवस्थान-

देशः । फाँक इति यावत् । अवसरः । व्याप्ति-
रहितस्थानं । इत्यन्तरशब्दटीकायां भरतः ॥
(“न सूक्ष्मतन्तोरपि तावकस्य
तत्रावकाशो भवतः कथं स्यात्” ।
इति रत्नावलीनाटिकायाम् ।)
अपि च ।
“एवञ्च षडशीत्यादिष्वप्यवकाशमलभमानं” ।
इति तिथ्यादितत्त्वं ॥ अन्यच्च ।
“अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा” ॥
इति मानवे ३ अध्याये २०७ श्लोकः ॥ (प्रशस्त-
प्रदेशः ।
“अवकाशो विविक्तोऽयं महानद्योः समागमे” ।
इति रामायणे । द्रव्यादिसञ्चयस्थानं । अवस्थानं ।
स्थितिः ।
“अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ” ।
इति रघुवंशे ।)

अवकीर्णः, त्रि, (अव + कॄ + क्त ।) अवचूर्णितः ।

तत्पर्य्यायः । अवध्वस्तः २ । इति हेमचन्द्रः ॥
(विस्तृतः । प्रसृतः । विक्षिप्तः ।
“भुक्तानि यौवनसुखानि यशोऽवकीर्णे
राज्ये स्थितं स्थिरधिया चरितं तपोऽपि” ।
इति नागानन्दे । उल्लङ्घितः । अतिक्रान्तः ।)

अवकीर्णो, [न्] त्रि, (अवकीर्णमनेन अव + क

+ क्त + इनि, अवकीर्णं ध्वस्तं व्रतमिति शेषः,
अस्यास्तीति ।) क्षतव्रतः । स्त्रीसंसर्गादिना त्यक्त-
नियमव्यक्तिः । इत्यमरजटाधरौ ।
(“कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।
पौनर्भवश्च काणश्च यस्य चोपपतिर्गृहे” ॥
इति मनुः ।)

अवकुटारं, क्ली, (अव + स्वार्थे अतिशये वा कुटा-

रच् ।) वैरूप्यं । इति संक्षिप्तसारव्याकरणस्य
परिशिष्टं ॥ (अवाचीनत्वं । वैपरीत्यं ।)

अवकृष्टः, त्रि, (अव + कृष् + क्त ।) वहिष्कृतः ।

दूरीकृतः । तत्पर्य्यायः । निष्काशितः २ । इत्य-
मरः ॥ निःसारितः ३ । इति जटाधरः ॥ निर्ग-
मितः ४ । इति शब्दरत्नावली ॥ (वहिष्कारितः ।
निर्गलितः । आकृष्टः ।
“एकाकिनापि हि मया रमसावकृष्ट-
निस्त्रिंशदीधितिसटाभरभासुरेण” ।
इति नागानन्दे । नीचः । निकृष्टः ।
“प्रतिकर्त्तुं प्रकृष्टस्य नावकृष्टेन युज्यते” ।
इति रामायणे । हीनजातीयः ॥ नीचजातीयः ।
अपकृष्टवर्णः ।
“चान्द्रायणं चरेत् सर्व्वानवकृष्टान् निहन्य तु” ।
इति याज्ञवल्क्यः । गृहादिसम्मार्ज्जकोदकवा-
हादिः कर्म्मकरः ।
“पाणौ देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः” ॥
इति मनुः ।)

अवकेशी, [न्] त्रि, (अवच्युतं कं सुखं यस्मात्,

अवकं फलशून्यतामीशितुं शीलमस्य, अवक +
ईश + णिनि ।) फलकालेऽप्यनुत्पन्नफलकवृक्षादिः ।
इत्यमरः ॥ तत्पर्य्यायः । बन्ध्यः २ अफलः ३ ॥

अवक्तव्यं, त्रि, (न वक्तव्यं, नञ्समासः ।) वचना-

योग्यं । अकथनीयं । न वक्तव्यं अवक्तव्यमिति
नञ्समासनिष्पन्नं । यथा, --
“असम्भाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते” ।
इति चाणक्यः ॥

अवक्रयः, पुं, (अवक्रीयते प्रतिरूपदानेन स्वाधीनं

क्रियतेऽनेन, अव + क्री + अच् ।) क्रयसाधनद्रव्यं ।
मूल्यं । इत्यमरः ॥ (राजग्राह्यं द्रव्यं । बणिग्भिः
शुक्लस्थाने प्रतिभाण्डमधिपतये देयं !
“विक्रयावक्रयाधानयाचितेषु पणान् दश” ।
इति याज्ञवल्क्यः । एतावत्कालमुपयोगार्थं भा-
ण्डवस्त्राश्वादिर्म्मया दीयते मह्यं च युष्माभिरेता-
बद्धनं देयमित्येवंविधं भाटकं । भाडा इति भाषा ।)

अवगणितं, त्रि, (अव + गण + कर्म्मणि क्त ।) अव-

ज्ञातं । अवमानितं । इत्यमरः ॥ (तिरस्कृतं ।
“आयासेनालसाङ्ग्योऽप्यवगणितरुजः कानने चन्द-
नानां, अस्मिन् गायन्तु रागादुरगयुवतयः कीर्त्ति-
मेतां तवैव” । इति नागानन्दः ।)

अवगण्डः, पुं, (अव + गम + ड, डकारस्य नेत्वम् ।)

गण्डस्थव्रणः । वयस्फोडा इति यावत् । तत्-
पर्य्यायः । वरण्डः २ । इति त्रिकाण्डशेषः ॥

अवगतं, त्रि, (अव + गम + क्त ।) ज्ञातं । तत्प-

र्य्यायः । बुद्धं २ बुधितं ३ मनितं ४ विदितं ५
प्रतिपन्नं ६ अवसितं ७ । इत्यमरः ॥ प्रमितं ८
मतं ९ प्रतीतं १० । इति जटाधरः ॥

अवगतिः, स्त्री, (अव + गम + भावे क्तिन् ।) ज्ञान-

सामान्यं । इति जटाधरः ॥ (बोधमात्रं । अप
गमः । अपसरणम् ।)

अवगथः, त्रि, (अव + गा + कर्त्तरि थ, निपातनात्

ह्रस्वः ।) प्रातःस्नातः । प्रातःस्नायी । इति सि-
द्धान्तकौमुदी ॥

अवगादः, पुं, (अव + गद + घञ् ।) जलद्रोणी ।

नौकाजलसेचनकाष्ठपात्रं । इति हलायुधः ॥

अवगाहः, पुं, (अव + गाह + घञ् ।) स्नानं । स्नान-

गृहं । इति वोपदेवः ॥
(“प्रचण्डसूर्य्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षमवारिसञ्चयः” ।
इति ऋतुसंहारः ।)

अवगाहनं, क्ली, (अव + गाह + भावे ल्युट् ।) स्नान-

करणं । तत्पर्य्यायः । अवगाहः २ वगाहः ३
मज्जनं ४ (“कन्दर्पबाणानलैर्दग्धानामवगाहनाय
विधिना रम्यं सरो निर्म्मितम्” । इति शृङ्गार-
तिलके ।) निमज्जनं ५ । डुव दिया नाओया
इति भाषा । शिरःस्नानं । अम्भसि मज्जनं । यथा ।
अवगाहनन्तु चक्षुःकर्णनासिकामङ्गुलीमिरा-
च्छाद्य कुर्य्यात् ।
“अङ्गुलीभिः पिधायैवं श्रोत्रदृङ्नासिमामुखं ।
निमज्जेत प्रतिस्रोतस्त्रिः पठेदघमर्षणं” ॥
इति समुद्रकरधृतात । अत्रानुद्धृते वारत्रय-
मेवावगाहनं ।
“नाभिमात्रजले गत्वा कृत्वा केशान् द्विधा द्विजः ।
निरुध्य कर्णौ नासाञ्च त्रिःकृत्वो मज्जनं ततः” ॥
इति वामनपुराणात् । इत्याह्निकाचारतत्त्वं ॥
अन्यत् स्नानशव्दे द्रष्टव्यं ॥ * ॥ श्राद्धीयब्राह्मणस्य
श्राद्धकर्त्तुरपि अवगाहनस्नानकर्त्तव्यत्वं । यथा गो-
भिलः । “स्नातान् शुचीन् आचान्तान्” इत्यादि ।
स्नातान् अवगाहितान् न तु मन्त्रादिस्नातान् ।
स्वयमपि सूतकादिरहितः स्नातः । इति श्राद्ध-
तत्त्वं ॥

अवगीतं, क्ली, (अव + गै + क्त ।) निर्व्वादः ।

लोकापवादः । इति विश्वमेदिन्यौ ॥ (गीतादिना
निन्दाख्यापनम् । असाधुगीतं । अशोभनगानं ।)

अवगीतः, त्रि, (अव + गै + क्त ।) ख्यातगर्हणः ।

निन्दितः । इत्यमरः ॥ (“विधुरं किमतः परं
परैरवगीतां गमिते दशामिमाम्” । इति
भारविः ।) दृष्टः । इति मेदिनी ॥ मुहुर्दृष्टः ।
इति विश्वः ॥

अवगुण्ठनं, क्ली, (अव + गुण्ठ + ल्युट् ।) योषानना-

वरकसरन्ध्रवस्त्रं । स्त्रीमुखाच्छादनवस्त्रं । घोम्टा
इति ख्याता । इति शब्दरत्नावली ॥ मुद्राविशेषः ।
(“अवगुण्ठनसंवीता कुलजाभिसरेद्यदि” ।
इति साहित्यदर्पणे । “जादे ! मुहुत्तअं मा लज्ज,
अवणैस्सं दाव दे अवगुण्ठणम्” । इति शाकु-
न्तले ।) मुद्राविशेषः ।
तथा च तन्त्रसारे ।
“सव्यहस्तकृता मुष्टिदीर्घाधोमुखतर्ज्जनी ।
अवगुण्ठनमुद्रेयमभितो भ्रामिता मता” ॥
धूल्यादिम्रक्षणं ॥

अवगुण्ठिका, स्त्री, (अवगुण्ठयति आवृणोति, अव

+ गुण्ठ + ण्वुल्, स्त्रीत्वात् टापि अत इत्वम् ।)
अवगुण्ठनं । स्त्रीमुखावरकवस्त्रं । इति शब्दरत्ना-
वली ॥

अवगुण्ठितं, त्रि, (अव + गुण्ड + क्त ।) चूर्णितं ।

इति त्रिकाण्डशेषः ॥ गुँडा करा इति भाषा ।

अवगोरणं, क्ली, (अव + गुर उद्यमे + ल्युट् ।)

ताडनार्थदण्डादीनामुद्यम इति ब्राह्मणं ॥ मा-
रिवार निमित्ते ठेङ्गा उठान इति भाषा । यथा
प्रायश्चित्तविवेके । “दण्डनिपातप्रायश्चित्तेनैव गु-
रुणा तन्नान्तरीयकावगोरणप्रायश्चित्तमपि सम्प-
द्यतैत्युक्तं । ननु दण्डनिपातप्रायश्चित्तात् तदन्तः-
पृष्ठ १/१२३
:पातिनोऽवगोरणप्रायश्चित्तस्य कथं सिद्धिः ।
तथाहि मनुः ।
अवगूर्य्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । अव-
गूर्य्य ब्राह्मणताडनार्थं दण्डमुद्यम्य शतयातना-
जनकं यत् पापमुत्पादितं तत्क्षयकामः कृच्छ्र-
प्राजापत्यव्रतं चरेत् । तदुक्तं संयुधिकरणे । शंयोः
प्रजापतेः प्रार्थनया देवैर्ब्राह्मणावगोरणफलत्वेन
शतयातनाभिहिता । तथा च श्रुतिः । शंयुः
प्रजापतिः प्रजाविनेता प्रजाहिते रतश्च देवानां
हविर्वहन् आशिषोऽयाचत । देवास्त्ववगोरणे
शतयातनास्त्वित्याशिषोऽददतेति । शास्त्रदीपि-
कादौ दर्शपौर्णमासप्रकरणे । देवा वै शंयुं वार्ह-
स्पत्यमब्रुवन् हव्यं नो बहेति किं मे प्रजाया इति
तेऽब्रुवन् यो ब्राह्मणायावगुरेत्तं शतेन यातयेत्
यो निहन्यात् तं सहस्रेण यो लोहितमकरोत्
यावतः पांशून् व्यनक्ति तावतः परिवत्सरान् स
स्वर्गात्प्रच्यवेत । तस्मात् ब्राह्मणान् नावगुरेत् न
हन्यात् न लोहितं कुर्य्यात् इति” । इतिहासा-
त्मकं ब्राह्मणञ्च । इति प्रायश्चित्ततत्त्वं ॥

अवग्रहः, पुं, (अव + ग्रह + घञ् ।) वृष्टिरोधः ।

(अनावृष्टिः ।
“वृष्टिर्भवति शस्यानामवग्रहविशोषिणाम्” ।
“नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे” ॥
इति रघुवंशे ।) प्रतिबन्धकः । हस्तिललाटं । इति
मेदिनी ॥ गजसमूहः । इति हारावली ॥ स्वभावः ।
इति त्रिकाण्डशेषः ॥ (यदुक्तं, --
“तौ स्थास्यतस्ते नृपतेर्निदेशे
परस्परावग्रहनिर्विकारौ” ।
इति मालविकाग्निमित्रनाटकम् ।) ज्ञानविशेषः ।
इति हेमचन्द्रः ॥ शापः । इत्यमरटीकायां भर-
तादयः ॥ (ग्रहणं । स्वीकारः । हरणं । अपसारणं ।
निरोधः । अवरोधः ।
“स रोचयामास परैश्च बन्धं
प्रसह्य रक्षोभिवरग्रहञ्च” ।
इति रामायणे । अवान्तरपदसंज्ञां सूचयितुं
पदपाठकाले किञ्चित्कालमवसानम् । अनादरः ।
निन्दासूचकवाक्यप्रयोगः ।)

अवग्रहणं, क्ली, (अव + ग्रह + भावे ल्युट् ।) प्रति-

रोधः । अनादरः । इति मेदिनी ॥

अवग्राहः, पुं, (अव + ग्रह + घञ् ।) ग्रहदोषादि-

जन्यवृष्टिव्याघातः । शुको इति भाषा । तत्प-
र्य्यायः । वृष्टिविघातः २ अवग्रहः ३ । इत्यमरः ॥
हस्तिललाटं । शापः । इति तट्टीका ॥ (यथा, --
“अवग्राहस्ते भूयात्” ।)

अवघट्टः, पुं, (अव + घट्ट + आधारे घञ् ।) भूरन्ध्रं ।

गर्त्तः । इति त्रिकाण्डशेषः ॥

अवघातः, पुं, (अव + हन् + घञ् ।) आघात-

विशेषः । तण्डुलादिकण्डनं । इति हेमचन्द्रः ॥
काँडान यस्य प्रसिद्धिः । यथा । चरुविधौ विद्या-
करवाजपेयी । शास्त्रावधारणवेलायां हि यत्र
प्रयोजनाभावादिनिश्चयस्तत्रैव तदुपादानादिलोपः
शास्त्रार्थः । यथा कृष्णलेऽवघातादिलोपः । यत्र
तदनुष्ठानवेलायामेव पुरुषदोषेण प्रयोजनाभावो
ज्ञायते तदा प्राक् तन्निश्चयाच्छास्त्रप्रापितः पदार्थो
नियमापूर्ब्बमात्रार्थमनुष्ठेयमेव । अतएव प्रकृता-
वपि आलस्यादिना व्रीह्यादिस्थाने तण्डुलादिषु
गृहीतेष्वाघातादि समाचरन्ति याज्ञिकाः ।
“घाते न्यूने तथा छिन्ने सान्नाय्ये मान्त्रिके तथा ।
यज्ञे मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः” ॥
सान्नाय्ये हविषि मान्त्रिके मन्त्रसाध्ये अवघातादौ
तत्काले मन्त्रपाठाभावेऽपि मन्त्राः प्रयोक्तव्याः ।
इति शुद्धितत्त्वं ॥ (अपमृत्युः) ॥

अवचस्करः, त्रि, अवचनस्थः । कथार अवाध्य इति

भाषा । न वचः करोतीत्यर्थे वचःशब्दपूर्ब्बक-
कृधातोः टप्रत्ययेन निष्पन्नः ॥

अवचूर्णितं, त्रि, (अव + चूर्ण + कर्म्मणि क्त ।)

चूर्णीकृतद्रव्यं । गुँडा करा इति भाषा । तत्पर्य्यायः ।
अवध्वस्तः २ अपध्वस्तः ३ । इत्यमरः तट्टीका च ॥

अवचूलः, पुं, (अवनता चूडा यस्य, वा डस्य लः ।)

ध्वजाग्रबद्धाधोमुखवस्त्रं । इति हेमचन्द्रः ॥

अवचूलकं, क्ली, (अवचूलमिव इवार्थे कन्, संज्ञायां

वा कन् ।) चामरं । इति त्रिकाण्डशेषः ॥

अवच्छिन्नं, त्रि, (अव + छिद् + क्त ।) अवच्छेदकता-

निरूपकं । विशिष्टं । इति न्यायभाषा । अवच्छे-
दाश्रयः । यथा । प्रतियोग्यसमानाधिकरणयत्-
सामानाधिकरणात्यन्ताभावप्रतियोगितावच्छेद-
कावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधि-
करण्यंव्याप्तिः । इति सिद्धान्तलक्षणचिन्तामणिः ॥
(“जलाशये महाकाशस्तदवच्छिन्नमेव हि ।
बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ॥
साभासबुद्धेः कर्तृत्वमवच्छिन्ने विकारिणि” ।
इति अध्यात्मरामायणे ।)

अवच्छुरितं, क्ली, (अव + च्छुर + भावे क्त ।) महा-

हास्यं । इत्यमरटीकायां भरतः ॥

अवच्छुरितकं क्ली, (अवच्छुरितमेव, स्वार्थे कन् ।)

महाहास्यं । इति शब्दरत्नाबली ॥

अवच्छेदः, पुं, (अव + छिद् + भावे घञ् ।) परि-

च्छेदः । एकदेशः । विशेषणत्वं ॥
(“शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः” ।
इति साहित्यदर्पणम् ।)

अवच्छेदकं, त्रि, (अवच्छिनत्ति, अव + छिद् +

ण्वुल् ।) न्यायमते अव्याप्यवृत्त्यधिकरणसम्बन्धैक-
देशः । इतरव्यावर्त्तकः । विशेषणं । अवच्छिद्यते-
ऽनेनेति यथा । अव्याप्यवृत्तेरवच्छेदकत्वमपि स्व-
रूपसम्बन्धविशेषः तदाश्रयावच्छेदकः । इति-
न्यायशास्त्रं ॥

अवच्छेदकत्वं, क्ली, (अवच्छेदकस्य भावः, भावार्थे त्व ।)

स्वरूपसम्बन्धविशेषः । यथा । घटकञ्चावच्छेदकत्वं
स्वरूपसम्बन्धविशेषः । इत्यवच्छेदकत्वनिरुक्तौ शि-
रोमणिः ॥ अनतिरिक्तवृत्तित्वं । यथा । अव-
च्छेदकत्वञ्च इहानतिरिक्तवृत्तित्वं । तेन विशिष्ट-
स्यासत्वेपि भ्रमात् प्रतिबन्धेऽपि न क्षतिः । इति
सामान्यनिरुक्तौ शिरोमणिः ॥ अन्यूनानतिरिक्त-
वृत्तित्वं । यथा । ननु तादृशप्रतियोगित्वान्यूना-
नतिरिक्तवृत्तित्वं वाच्यं । वह्नित्वं न घटवृत्ति
तादृशप्रतियोगित्वान्यूनानतिरिक्तवृत्ति अतआह
तार्णतार्णेति । इत्यवच्छेदकत्वनिरुक्तौ जगदीशः ॥
अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वं पारिभाषिकं ।
यथा । तदवच्छिन्नाभाववदसम्बद्धस्वविशिष्टसामा-
न्यकत्वं स्वविशिष्टसम्बन्धिनिष्ठाभावप्रतियोगिता-
नवच्छेदकतत्कत्वं वा तदनतिरिक्तवृत्तित्वं वक्तव्यं ।
इति अवच्छेदकत्वनिरुक्तौ शिरोमणिः ॥ अव्याप्य-
वृत्तेरवच्छेदकत्वमपि स्वरूपसम्बन्धविशेषः तदा-
श्रयावच्छेदकः । तच्चावच्छेदकत्वं इह शिखरिणि
नितम्बे हुताशनो न शिखरे इत्यादि प्रतीति-
बलात् कुत्रचिदव्याप्यवृत्त्यधिकरणदेशविशेषादि-
दानीं गोष्ठे गौर्नतु गृहे इत्यादिप्रतीतिबलात्
कुत्रचित् देशवृत्तितायाः काले कुत्रचित् काल-
वृत्तिताया देशे अप्यस्ति । इति न्यायशास्त्रं ॥

अवच्छेदावच्छेदः, पुं, व्यापकत्वं । इति न्यायभाषा ॥

अवज्ञा, स्त्री, (अव + ज्ञा + अङ् ।) अनादरः ।

अवहेला । इत्यमरः ॥ (“आत्मन्यवज्ञां शिथिली-
चकार” । इति रघुवंशे ।)

अवज्ञातं, त्रि, (अव + ज्ञा + क्त ।) अवमानितं । अना-

दृतं । तिरस्कृतं । इत्यमरः ॥
“अवज्ञाता भविष्यामो लोकस्य जगतीपते” ।
इति महाभारते ।)

अवज्ञानं, क्ली, (अव + ज्ञा + भावे ल्युट् ।) अवज्ञा ।

यथा अवज्ञानं अवज्ञा आतो अन्तःश्रद्गेरिति
ङः । सम्पादित्वात् क्विबिति मधुः । तन्मते
गोपावद्रूपं । इत्यमरटीकायां भरतः ॥ (अवमानः ।
तिरस्कारः । अनादरः ।
“ईप्सितं तदवज्ञानात् विद्धि सार्गलमात्मनः” ।
इति रघुवंशे ।)

अवटः, पुं, (अव + अटन् ।) खिलं । गत्तः । कूपः ।

(“रक्षसां गतसत्त्वानामेष धर्म्मः सनातनः ।
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः” ॥
इति रामायणे ।) कुहकजीवो । इति विश्व-
मेदिन्यौ ॥

अवटिः, पुं, (अव + अटि ।) गर्त्तः । इति हलायुधः ॥

अवटीटः, त्रि, (अवनता नासिका, प्रादिसमासः,

नतार्थे नासायाः टीटादेशः अर्शआदित्वादच् ।)
नतनासिकः । खाँदा छेपडानेको यस्य प्रसिद्धिः ।
तत्पर्य्यायः । अवनाटः २ अवभ्रटः ३ । इत्यमरः ॥

अवटुः, पुं, स्त्री, (अव + टीक + मितद्व्रादित्वात् डुः ।)

ग्रीवापश्चाद्भागः । इत्यमरः ॥ घाड इतिख्यातः ।
कूपः । गर्त्तः । इति हेमचन्द्रः ॥ वृक्षभेदः । इत्यु-
णादिकोषः ॥

अवडङ्गः, पुं, (अवगतो डङ्गः शब्दो यस्मात् ।) हट्टः

इति जटाधरः । कस्यचिन्मते अवद्रङ्क इति पाठः ॥

अवडीनं, क्ली, (अव + डी + भावे क्त ।) पक्षिणाम-

धोगमनं । पक्षिणामवरोहणं । इति जटाधरः ॥

अवतंसः, पुं, क्ली, (अव + तन्स + घञ् ।) कर्णपूरः ।

कर्णभूषणं ।
(“तं मातरो देवमनुव्रजन्त्यः
स्ववाहनक्षोभवचलातंसाः” ।
पृष्ठ १/१२४
:इति कुमारसम्भवे ।) शेखरः । शिरोभूषणं ।
तत्पर्य्यायः । वतंसः २ उत्तंसः ३ । इत्यमरः ॥
मुकुटं ४ मकुटं ५ मौलिः ६ मौलीकः ७ शेखरं
८ उष्णीषकः ९ कौटीरकं १० कोटीरं ११
किरीटं १२ चूडामणिः १३ शिरोरत्नं १४ शिरो-
मणिः १५ । कर्णभूषणं । तत्पर्य्यायः । वतंसः २
कर्णपुरः ३ कुण्डलं ४ कर्णवेष्टनं ५ उत्तंसः ६
दन्तपत्रं ७ कर्णकं ८ । इति शब्दरत्नावली ॥

अवतमसं, क्ली, (अवततं व्याप्तं तमः, प्रादिसमासः,

अच् ।) अल्पान्धकारः । इत्यमरः ॥
(“अवतमसभिदायै भास्वताभ्युद्गमेन
प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः” ।
इति माघः ।)

अवतारः, पुं, (अव + तॄ + करणे घञ् ।) अवतरणं ।

पुष्करिण्यादिः । तीर्थः । इति मेदिनी ॥ (सोपान-
पद्धतिः । प्रस्तावना । आभासः । उपक्रमणिका ।
यथा । “दूरे गुरुप्रथितवस्तुकथावतारः” । इति
शान्तिशतके ।) देवानां विशेषतोविष्णोर्मूर्त्त्यन्तरेण
पूर्णांशावेशरुपेण पृथिव्यामवतरणं । अवतारास्त्र-
संख्येयाः तेष्वेते प्रसिद्धाः । ब्रह्मा १ वराहः २ नारदः
३ नरनारायणौ ४ कपिलः ५ दत्तात्रेयः ६ यज्ञः ७
ऋषभदेवः ८ पृथुः ९ मत्स्यः १० कूर्म्मः ११
धन्वन्तरिः १२ मोहिनी १३ नृसिंहः १४ वामनः
१५ परशुरामः १६ वेदव्यासः १७ रामः १८
बलरामः १९ कृष्णः २० बुद्धः २१ कल्की २२ ॥
इति श्रीभागवते ॥ यथा, --
“सएव प्रथमं देवः कौमारं सर्गमाश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्य्यमखण्डितं ॥
द्वितीयन्तु भवायास्य रसातलगतां महीं ।
उद्धरिष्यन्नुपादत्त यज्ञेशः शौकरं वपुः ॥
तृतीयमृषिसर्गं वै देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्मं कर्म्मणां यतः ॥
तुर्य्ये धर्म्मकला सर्गे नरनारायणावृषी ।
भूत्वात्मोपशमोपेतमकरोद्दुश्चरं तपः ॥
पञ्चमः कपिलोनाम सिद्धेशः कालविप्लुतं ।
प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयं ॥
षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥
ततः सप्तम आकूत्यां रुचेर्य्यज्ञोऽभ्यजायत ।
स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरं ॥
अष्टमे मेरुदेव्यान्तु नाभेर्जात उरक्रमः ।
दर्शयन् वर्त्म धीराणां सर्व्वाश्रमनमस्कृतं ॥
ऋषिभिर्य्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥
रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुं ॥
सुरासुराणामुदधिं मथ्नतां मन्दराचलं ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥
धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत् सुरानन्यान् मोहिन्या मोहयन् स्त्रिया ॥
चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितं ।
ददार करजैरूरावेरकां कटकृद्यथा ॥
पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपं ॥
अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीं ॥
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥
नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्य्याण्यतः परं ॥
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरत् भरं ॥
ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषां ।
बुद्धोनाम्नाञ्जनसुतः कीकटेषु भविष्यति ॥
अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥
अवतारा ह्यसंख्येया हरेः सत्वनिधेर्द्विजाः ।
यथा विदासिनः कुल्याः सरसःस्युः सहस्रशः ॥
ऋ षयो मनवो देवा मनुपुत्रा महौजसः ।
कलाः सर्व्वे हरेरेव सप्रजापतयः स्मृताः ॥
एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयं ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे” ॥
इति श्रीभागवते १ स्कन्धे ३ अध्यायः ॥ (दश-
अवतारा एव प्रधानतया प्रसिद्धाः । ते च यथा, --
“मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च रामश्च बुद्धः कल्की च ते दश” ॥)
(आविर्भावः । जन्म । उत्पत्तिः । यथा, --
“अगच्छदंशेन गुणाभिलाषिणी
नवावतारं कमलादिवोत्पलम्” ।
इति रघुः । अपसारणं । हरणं । यथा, --
“भूमेर्भारावताराय ब्रह्मणाप्रार्थितः पुरा ।
स एव जातो भवने कौशल्यायां तवानघ” ॥
इति अध्यात्मरामायणे ।

अवतारणं, क्ली, (अव + तॄ + णिच् + ल्युट् ।) भूतादि-

ग्रहः । वस्त्राञ्चलं । अर्च्चनं । इति विश्वमेदिन्यौ ॥
(ग्रन्थप्रस्तावना । ऊर्द्ध्वादध आनयनं । यथा, --
“क्रियतां यदि शक्नोषि गङ्गाया अवतारणं” ।
इति रामायणे ।)

अवतीर्णः, त्रि, (अव + तॄ + कर्त्तरि क्तः ।) अवतरण-

विशिष्टः । प्रादुर्भूतः । जलादौ कृतावरोहः ।
यथा । ज्योतिषे ।
“नीलग्रीव शुभग्रीव सर्व्वकामफलप्रद ।
पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोऽस्तु ते” ॥
इति तिथ्यादितत्त्वं ॥

अवतोका, स्त्री, (अवपतितं तोकमस्याः सा ।) पत-

द्गर्भा गौः । तत्पर्य्यायः । स्नवद्गर्भा २ । इत्यमरः ॥
गावडागाइ । गावफेला गाइ । इति भाषा ॥

अवदंश, पुं, (अव + दन्श + घञ् ।) सुरापानरुचि-

जनकचर्व्वणद्रव्यं । गजर इति भाषा । तत्पर्य्यायः ।
भक्षणं २ । इत्यमरः । विदंशः ३ सन्धानं ४
रोचकः ५ । इति राजनिर्घण्टः ॥

अवदातः, पुं, (अव + दै + क्तः ।) श्वेतवर्णः । पीत-

वर्णः । इत्यमरः ॥

अवदातं, त्रि, (अव + दै + क्तः ।) शुक्लगुणविशिष्टं ।

(“कुन्दैः सविभ्रमबघूहसितावदातैः” ॥ इति ऋतु-
संहारे । पीतवर्णयुक्तं । निर्म्मलं ।
“तत्त्वं क्रमेण विदुषां करुणावदाते
श्रद्धावतां हृदि पदं स्वयमादधाति” ।
इति शान्तिशतके ।) मनोज्ञं । इत्यमरहेमचन्द्रौ ॥

अवदानं, क्ली, (अव + दो + ल्युट् ।) वृत्तं कर्म्म ।

प्रशस्तमथच निर्व्यूढं कर्म्म । ये कर्म्मे प्रवृत्तिते
सकले प्रशंसा करे सेइ समाप्तकर्म्म इति भाषा ।
तत्पर्य्यायः । अपदानं २ । इत्यमरः तट्टीका च ।
खण्डनं । इति मेदिनी ॥
(“विश्वावसुप्राग्रहरैः प्रवीणैः
सङ्गीयमानत्रिपुरावदानः” ।
इति कुमारसम्भवे ।) वीरणमूलमिति स्वामी ॥
(पराक्रमः । वीर्य्यं । यथा, --
“नैरृतघ्नमथ मन्त्रवन्मुनेः
प्रापदस्त्रमवदानतोषितात्” ।
इति रघुवंशे ।)

अवदारणं, क्ली, (अवदीर्यतेऽनेन, अव + दॄ + णिच्

करणे ल्युट् ।) खनित्रं । खन्ता इति ख्यातं ।
इत्यमरः ॥ (विदारणं । भेदनं । खननं । यथा, --
“अवदारणकाले तु पृथिवी नावदीर्य्यते” ।
इति रामायणे । अव + घॄ + भावे ल्युट् ।)

अवदाहं, क्ली, (अवशमितोदाहो येन तत् ।) वीर-

णमूलं । इत्यमरः ॥ (उशीरशब्देऽस्य विशेषो
ज्ञेयः ।)

अवदाहेष्टं, क्ली, (अवदाहे इष्टम् अनुकूलम् ।)

वीरणमूलं । इत्यमरटीकायां भरतादयः ॥

अवदाहेष्टकापथं, क्ली, उशीरं । खस् इति भाषा ।)

इति भरतः ॥

अवदीर्णं, त्रि, (अव + दॄ + क्त ।) द्रवीभूतघृतादि ।

तत्पर्य्यायः । द्रुतं २ । इत्यमरः ॥

अवदोहः, पुं, (अव + दुह + घञ् ।) दुग्धं । इति

त्रिकाण्डशेषः ॥

अवद्यं, त्रि, (न वदति परं गुणं, अवद्यावमाधमार्व्व-

रेफाः कुत्सिते इति वदेर्नञि कर्त्तरि यत् ।) अधमं ।
कुत्सितं । गर्हितं । निकृष्टं । इत्यमरः ॥

अवद्यं, क्ली, अनिष्टं । इति वोपदेवः ॥ पापं । इति

पाणिनिः ॥ (“उदवहदनवद्यां तामवद्यादपेतः” ।
इति रघुवंशे ।)

अवधानं, क्ली, (अव + धा + ल्युट् ।) मनोयोगः ।

तत्पर्य्यायः । समाधानं २ प्रणिधानं ३ समाधिः
४ । इति हेमचन्द्रः ॥

अवधारणं, क्ली, (अव + धृ + णिच् + ल्युट् ।) निश्च-

यः । यथा । “हि हेताववधारणे” । इत्यमरः ॥

अवधारितः, त्रि, (अव + धृ + णिच् + क्त ।) कृता-

वधारणः । यथा ।
“त्वया सुमुखि किं प्रोक्तं न मया ह्यवधारितं ।
विवेचय महाभागे सङ्केतो वर्त्तते खलु” ॥
इति व्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २० अध्यायः ॥

अवधार्य्यः, त्रि, (अव + धृ + ण्यत् ।) अवधारणीयः ।

अवपूर्ब्बकधृधातोर्घ्यण् प्रत्ययेन निष्पन्नः । नि-
र्धार्य्यः ॥