शब्दकल्पद्रुमः/अम्लरुहा

विकिस्रोतः तः
Jump to navigation Jump to search

शब्दकल्पद्रुमः


पृष्ठ १/०९०

अम्लरुहा, स्त्री, (अम्लाय रोहति, अम्ल + रुह् +

क ।) मालवदेशजनागवल्लीभेदः । अस्या गुणाः ।
सुतीक्ष्णत्वं । मधुरत्वं । रुचिकारित्वं । हिमत्वं ।
दाहनाशित्वं । पित्तोद्रेकहरत्वं । अग्निबलसुखा-
मोदश्रीसौभाग्यविवर्द्धनत्वं । मदकारित्वं । गुल्मा-
ध्मानविबन्धनाशित्वञ्च । इति राजनिर्घण्टः ॥
(“नाम्ना याऽम्लरुहा सुतीक्ष्णमधुरा रुच्या हिमा
दाहनुत् पित्तोद्रेदकहरा सुदीपनकरी बल्या सुखा
मोदिनी । स्त्रीसौभाग्यविवर्द्धिनी मदकरी ज्ञेया
सदा वल्लभा गुल्माध्मानविबन्धजित् च कथिता
सा मालवे तु स्मृता” ।)

अम्ललोणिका, स्त्री, (अम्लं रसं लाति गृह्णाति

अम्ललः तम् ऊनयति हीनयति, अम्लल +
ऊन + ण्वुल्, णत्वम् ।) क्षुद्रवृक्षविशेषः । आम-
रुल । इति भाषा । तत्पर्य्यायः । चाङ्गेरी २
चुक्रिका ३ दन्तशठा ४ अम्बष्ठा ५ । इत्यमरः ॥
अस्या गुणाः । कफवायुनाशित्वं । अग्निदीपनत्वं ।
ग्रहणीरोगे हितकारित्वञ्च । इति राजवल्लभः ॥
वस्त्रादिलग्नलौहचिह्नकषायरागनाशकगुणोऽप्य --
स्ति । राजनिर्घण्टोक्तगुणपर्य्यायौ क्षुद्राम्लिका-
शब्दे द्रष्टव्यौ । तत्पर्य्यायगुणाः ।
“चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका ।
अश्मन्तकस्तु शफरी कुशली चाम्लपत्रकः” ॥
क्वचित् पुस्तके कुशलीस्थाने शकली इति च
पाठः ।
“चाङ्गेरी दीपनी रुच्या लघूष्णा कफवातनुत् ।
पित्तलाम्ला ग्रहण्यर्शःकुष्ठातीसारनाशिनी” ॥
इति भावप्रकाशः ॥
(“दीपनी चोष्णवीर्य्या च ग्राहिणी कफमारुते ।
प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा” ॥
इति चरकः ॥
“चाङ्गेरी कफवातघ्नी वह्निकृद् ग्रहणी हिता” ।
इति वैद्यकद्रव्यगुणः ॥
“चाङ्गेर्य्यम्लाग्निदीपनी” ।
“ग्रहण्यर्शोऽनिलश्लेष्महितोष्णा ग्राहिणी लघुः” ॥
इति च वाभटः ॥
“ग्रहण्यर्शोविकारघ्नी साम्ला वातकफे हिता ।
उष्णा कषायमधुरा चाङ्गेरी चाग्निदीपनी” ॥
इति सुश्रुतश्च ।)

अम्ललोणी, स्त्री, अम्ललोणिका । चाङ्गेरी । इत्य-

मरटीका ॥

अम्लवती, स्त्री, (अम्लो रसो विद्यतेऽस्याः, अम्ल +

मतुप् मस्य वत्वम् ।) क्षुद्राम्लिका । इति राज-
निर्घण्टः ॥ आमरुल । इति भाषा ।

अम्लवर्गः, पुं, (अम्लानां अम्लरसप्रधानानां वर्गः ।)

अम्लगणः । यथा । चाङ्गेरी । लकुचं । अम्लवेतसं ।
जम्वोरकं । वीजपूरकं । नागरङ्गं । दाडिमं ।
कपित्थं । अम्लं । वीजाम्लकं । अम्बष्ठा । कर-
मर्दकं । निम्बूकं । इति राजनिर्घण्टः ॥ (मता-
न्तरे यथा, --
“आम्र आम्रातको धात्री लकुचं च कपित्थकं ।
नारङ्गं द्विविधा जम्बूः करमर्दं प्रियारकं ॥
दाडिमं पार्ब्बती द्राक्षा द्विधा वदरतूदकं ।
वीजपूरं च जम्बीरं निम्बल्मीकाम्लवेतसं ॥
वृक्षाम्लं हरिमन्थञ्च चाङ्गेरीत्यम्लवर्गकः” ॥)
“अम्लवेतसजम्बीरलुङ्गाम्लचणकाम्लकाः ।
नागरङ्गं तिन्तिडी च चिञ्चापत्रञ्च निम्बुकं ॥
चाङ्गेरी दाडिमञ्चैव करमर्द्दन्तथैव च ।
एष चाम्लगणः प्रोक्तो वेतसाम्लं सदोत्तमम्” ॥
इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥
“दाडिमामलकमातुलुङ्गाम्रातक-कपित्थ-करमर्द्द-
वरकोल-प्राचीनामलक-तिन्तिडीक-कोशाम्र-
भव्य-पारावत-वेत्रफल-लकुचाम्ल-वेतस-दन्तशठ-
दधि-तक्र-सुरा-शुक्त-सौवीरक-तुषोदक-धान्याम्ल-
प्रभृतीनि समासेनाम्लोवर्गः” ॥ इति सुश्रुतश्च ॥)

अम्लवल्ली, स्त्री, (अम्लरसवती वल्ली ।) त्रिपर्णिका-

नामकन्दविशेषः । इति राजनिर्घण्टः ॥

अम्लवाटिका, स्त्री, (अम्लस्य वाटिका स्थानमिव ।)

नागवल्लीभेदः । अस्या गुणाः । कटुत्वं । अम्लत्वं ।
तिक्तत्वं । रूक्षत्वं । उष्णत्वं । मुखपाककारित्वं ।
विदाहपित्तरक्तप्रकोपकारित्वं । विष्टम्भदातृत्वं ।
वायुनाशित्वञ्च । इति राजनिर्घण्टः ॥ (उक्तञ्च, --
“स्यादम्लवाटी कटुकाम्लतिक्ता
रूक्षा तथोष्णा मुखपाककर्त्री ।
विदाहपित्ताम्रविकोपिनी च
विष्टम्भदा वातनिवर्हणी च” ॥)

अम्लवास्तूकं, क्ली, (अम्लरसान्वितं वास्तूकं शाक-

भेदः ।) चुक्रं । इति राजनिर्घण्टः ॥

अम्लवीजं, क्ली, (अम्लस्य वीजं कारणं ।) वृक्षाम्लं ।

इति राजनिर्घण्टः ॥

अम्लवृक्षं, क्ली, (अम्लरसो वृक्षे यस्य ।) वृक्षाम्लं ।

इति राजनिर्घण्टः ॥ तेँतुल इति भाषा ।

अम्लवेतसः, पुं, स्वनामप्रसिद्धः अम्लरसवृक्षविशेषः ।

चुकाशाक इति ख्यात इति केचित् । अम्ल-
कुचाइ इति ख्यात इति केचित् । इत्यमर-
टीकायां भरतः ॥ तत्पर्य्यायः । अम्लः २ बेधी ३
रसाम्लः ४ आम्लवेतसः ५ वेतसाम्लः ६ अम्ल-
सारः ७ शतबेधी ८ बेधकः ९ भीमः १० भेदनः ११
भेद्री १२ राजाम्लः १३ अम्लभेदनः १४ अम्ला-
ङ्कुशः १५ रक्तसारः १६ फलाम्लः १७ अम्ल-
नायकः १८ सहस्रबेधी १९ वीराम्लः २० गुल्म-
केतुः २१ वराभिधा २२ शङ्खद्रावी २३ मांस-
द्रावी २४ । इति राजनिर्घण्टः ॥ वराङ्गी २५ ।
इति रत्नमाला ॥ चुक्रः २६ । इत्यमरः ॥ तत्फल-
गुणाः । अत्यम्लत्वं । कषायत्वं । उष्णत्वं । वायु-
कफार्शःश्रमगुल्मनाशित्वं । अरुचिहारित्वञ्च ।
इति राजनिर्घण्टः ॥ छागमांसलौहसूचीद्रव-
कारित्वं । चणकाम्लवत् गुणकारित्वञ्च । इति
भावप्रकाशः ॥ आनाहरोगनाशित्वं । तत्पक्व-
फलगुणाः । दोषविनाशित्वं । गुरुत्वं । धारकत्वञ्च ।
इति राजवल्लभः ॥ तत्पर्य्यायगुणाः ।
“स्यादम्लवेतसश्चुक्रः शतबेधी सहस्रजित् ।
अम्लवेतसमत्यम्लं भेदनं लघु दीपनं ॥
हृद्रोगशूलगुल्मघ्नं पित्तलोहितदूषणं ।
रूक्षं विण्मद्यदोषघ्नं प्लीहोदावर्त्तनाशनं ॥
हिक्कानाहारुचिश्वासकासाजीर्णवमिप्रणुत् ।
कफवातामयध्वंसि छागमांसद्रवत्वकृत् ॥
चणकाम्लगुणं ज्ञेयं लौहसूचीद्रवत्वकृत्” ।
इति भावप्रकाशः ॥
(“अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः ।
गुणैस्तैरेव संयुक्तं भेदनन्त्वम्लवेतसम्” ॥
इति च चरकः ॥)

अम्लशाकं, क्ली, (अम्लः शाको यस्य तत् ।) वृक्षाम्लं ।

चुक्रं । इति राजनिर्घण्टः ॥ (वृक्षाम्लशब्देऽस्य-
विशेषो द्रष्टव्यः ॥)

अम्लशाकः, पुं, (अम्लः शाको यस्य सः ।) अम्लद्रव्य-

विशेषः । तत्पर्य्यायः । शाकाम्लं २ शुक्ताम्लं ३
अम्लचुक्रिका ४ चिञ्चाम्लं ५ अम्लचूडः ६ चिञ्चा-
सारः ७ । अस्य गुणाः । अतिशयाम्लत्वं । वात-
नाशित्वं । कफदाहहारित्वञ्च । समशर्करा-
मिश्रितस्यास्य गुणः । दाहपित्तकफार्त्तिनाशित्वं ।
इति राजनिर्घण्टः ॥ (यदुक्तं, --
“अम्लशाकस्त्वतीवाम्लो वातघ्नः कफदाहनुत् ।
साम्येन शर्करामिश्रो दाहपित्तकफार्त्तिनुत्” ॥)

अम्लसारं, क्ली, (अम्लरस एव सारः यस्य तत् ।)

काञ्जिकं । इति राजनिर्घण्टः ॥

अम्लसारः, पुं, (अम्लरस एव सारः यस्य सः ।)

अम्लवेतसः । निम्बूकः । हिन्तालः । इति राज-
निर्घण्टः ॥

अम्लहरिद्रा, स्त्री, (अम्लरसयुक्ता हरिद्रा ।) शटी ।

इति राजनिर्घण्टः ॥

अम्लाङ्कुशः, पुं, (अम्लं अङ्कुशाकारं अग्रं यस्य ।)

अम्लवेतसः । इति राजनिर्घण्टः ॥

अम्लातकः, पुं, (न म्लायति, म्लै + तन् स्वार्थे कन्,

नञ्समासः ।) अम्लानवृक्षः । इति राजनिर्घण्टः ॥
अस्य गुणपर्य्यायौ राजतरुणीशब्दे ज्ञेयौ ॥

अम्लानः, पुं, (म्लै + क्तः ततो नञ्समासः ।) महा-

सहावृक्षः । इत्यमरभरतौ ॥ आँयला इति
ख्यातः ।

अम्लानः, त्रि, (म्लै + क्तः, न म्लानः नञ्समासः ।)

म्लानिरहितः । यथा, --
“अम्लानपङ्कजां मालां शिरस्युरसि चापरां” ।
इति देवीमाहात्म्यं ॥ (स्वच्छः । परिष्कृतः ।
निर्म्मलः । उज्ज्वलः । प्रसन्नः । विशदः । प्रत्यग्रः ।
अपर्य्युषितः । अशुष्कः ।)

अम्लानिनी, स्त्री, (अम्लानानां पद्मानां समूहः ।

इनि ।) पद्मसमूहः । पद्मिनी । इति त्रिकाण्ड-
शेषः ॥

अम्लिका, स्त्री, (अम्लैव, स्वार्थे कन् ।) तिन्तिडी ॥

इत्यमरः ॥ पलाशीलता । श्वेताम्लिका । क्षुद्रा-
म्लिका । इति राजनिर्घण्टः ॥ अम्लोद्गारः । इति इति वाभटः ।
मेदिनी ॥
(“दीपनं भेदनं शुष्कमम्लिकाकोलयोः फलं” ।
“अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः” ॥
इति चरकः ।
“अम्लिकायाः फलं पक्वं तद्वद्भेदि तु केवलं” ॥
इति सुश्रुतः ।)
पृष्ठ १/०९१

अम्लिकावटकः, पुं, (अम्लिकाया वटकः ।) अम्लिकां

स्वेदयित्वा जलेन सह मर्दयित्वा तत्सं स्कृतजले
मग्नवटकः । अम्लवडा इति भाषा । अस्य गुणाः ।
रुच्यग्निकारित्वं । वटकगुणतुल्यगुणत्वञ्च । इति
भावप्रकाशः ॥
(“अम्लिकां स्वेदयित्वा तु जलेन सह मर्दयेत् ।
तन्नीरे कृतसंस्कारे वटकान् मज्जयेज्जनः ।
अम्लिकावटकास्ते तु रुच्या वह्निप्रदीपनाः ।
वटकस्य गुणैः पूर्ब्बैरेतेऽपि च समन्विताः” ॥)

अम्लीका, स्त्री, अम्लिका । इत्यमरटीकायां राय-

मुकुटः ॥

अम्लोटकः, पुं, (अम्लं उटं पत्रं यस्य सः ।) अश्म-

न्तकवृक्षः । अम्लकुचाइ इति ख्यातः । इति
रत्नमाला ॥

अय ङ गतौ । (इति कविकल्पद्रुमः ॥) ङ अयते ।

इति दुर्गादासः ॥

अयः, पुं, (एति सुखमनेन, इण + करणे अच् ।)

शुभावहविधिः । मङ्गलानुष्ठानं । इत्यमरः ॥
(कल्याणदायकं दैवं ।
“स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः” ।
इति रघुवंशे । नरकभेदः । अयःपानमप्यत्र ।
इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥)

अयः, [स्] क्ली, (इणगतौ, असुन् ।) लौहं । इत्यमरः ॥

(गुडूच्यादिलौहं ॥
“आयुःप्रदाता बलवीर्य्यधाता,
रोगापहर्त्ता मदनस्य कर्त्ता ।
अयःसमानं न हि किञ्चिदस्ति,
रसायनं श्रेष्ठतमं नराणां” ॥ * ॥
“गुडूचीसारसंयुक्तं त्रिकत्रयसमन्त्वयः ।
वातरक्तं निहन्त्याशु सर्व्ववातहरं परं” ॥)

अयनं, क्ली, (अय + भावे ल्युट् ।) शास्त्रं । यथा, --

“ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते” ।
इति तिथ्यादितत्त्वं ॥ पन्थाः । सूर्य्यस्य उत्तर-
दक्षिणदिग्गमनं । तद्यथा । माघादिषण्मासाः
उत्तरायणं । श्रावणादिषण्मासाः दक्षिणायनं ।
इत्यमरः ॥ गमनं । गत्थर्थायधातोर्भावेऽनट् ॥
रविसंक्रान्तिविशेषः । यथा भविष्यमात्स्यज्यो-
तिषेषु ।
“मृगकर्कटसंक्रान्ती द्वे तूदक्दक्षिणायने ।
विषुवती तुला मेषे गोलमध्ये तथापराः” ॥
मृगो मकरः । गोलो राशिचक्रं । देवीपुराणे,
“यावद्विंशकला मुक्ता तत्पुण्यं चोत्तरायणे ।
निरंशे भास्करे दृष्टे दिनान्तं दक्षिणायने” ॥
तत्र स्नानदानादौ कोटिगुणफलं भवति । यथा
मात्स्ये ।
“अयने कोटिगुणितं लक्षं विष्णुपदीषु च ।”
इत्वादि ।
“अयने विषुवे चैव शयने बोधने हरेः ।
अनध्यायस्तु कर्त्तव्यो मन्वादिषु युगादिषु” ॥
इति तिथ्यादितत्त्वं ॥ * ॥ सूर्य्यगतिविशेषः ।
यथा, --
“मृगसंक्रान्तितः पूर्ब्बं पञ्चात्तारादिनान्तरे ।
एकवर्षे चतुःपञ्चपलमानक्रमेण तु ॥
षट्षष्टिवत्सरानेकदिनं स्यादयनं रवेः ।
एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥
व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवं ।
कर्क्किसंक्रमणे तद्वदभितो दक्षिणायनं” ॥
इति ज्योतिस्तत्त्वं ॥

अयनांशः, पुं, (अयनस्य अंशः भागः ।) सूर्य्यगतिवि-

शेषस्य भागः । अथायनांशलग्नसाधनं ।
“लग्नं लग्नान्तरं कृत्वा अयनांशैः प्रपूरयेत् ।
खानलैर्हरते भागं मिश्रयित्वा दिने दिने” ॥
अस्यार्थः । लग्नं रामोगवेदैरित्याद्युक्तं लग्नान्तरं
कृत्वा यथा मेषलग्नं ३ । ४७ लग्नान्तरं वृषलग्नं
४ । १७ अत्रान्तरेण द्वयोराधिक्येन ३० त्रिंशत्पलं
तञ्चायनांशैः पूरयेत् ॥ अयनांशस्तु जातकार्णवोक्तः ।
यथा, --
“शाकमेकाक्षिवेदोनं द्विः कृत्वा दशभिर्हरेत् ।
लब्धं हीनञ्च तत्रैव षष्ट्याप्ताश्चायनांशकाः” ॥
इति । लब्धस्थाने लब्धेन इति पाठः सिद्धान्त-
रहस्ये ॥ ते च इदानीं चैत्रस्यैकादशाहे सम्भवात्
ऊनविंशतिसंख्यकाः । ते च पुनःखानलैः ३० त्रिं-
शता हरेत् । भागलब्धिस्तु ऊनविंशतिः १९ ।
तञ्च मेषलग्ने मिश्रयित्वा ४ । ६ षट्पलाधिक-
दण्डचतुष्टयात्मकं मेषलग्नं भवति । एवं वृषादिक-
मूह्यं । किन्तु लग्नान्तरेण यत्राधिकं लभ्यते तत्रा-
धिकं लग्नं भवति । एवं यत्र लग्नान्तरेण हानि-
स्तत्र लग्नेऽपि हानिरिति निष्कर्षः ॥ * ॥ इदानीं
स्पष्टज्ञानार्थं पद्येन लिख्यते । बाणैवदो ४ । ५-
ऽष्टवैदैः श्रुति ४ । ४८-रिभनयनैरिन्द्रियं ५ । २८
-खाम्बुनेषु ५ । ४०-र्बाणो वेदानलैः ५ । ३४
-खाग्निमिरिषु ५ । ३०-रिषुरङ्गाग्निने ५ । ३६
षुःकुवेदै ५ । ४१-र्बाणोनागेन्दुभिस्तु ५ । १८
श्रुतिरपि रसरामै ४ । ३६-र्गुणाः सप्तबाणैः ३ । ५७
रामोऽश्वाद्भिस्तु ३ । ४७-सिद्धान्तजमतमयनांशा-
दिदं लग्नमानं ॥ एतञ्च तमोलिप्तादिदेशीयं
प्रागुक्तायनांशसाधितं ॥ * ॥ अङ्गेन वेदो ४ । ६
मेषः स्यात् वसुवेदैः सुखं ४ । ४८ वृषः । मुनियुग्मैः
शरो ५ । २७ द्वन्द्वः व्योमाब्धिबाण ५ । ४०-कर्कटः ॥
वेदरामैः शरः ५ । ३४ सिंहः कन्याङ्कयुम्मपञ्चकः
५ । २९ । तुला ऋषिरामपञ्च ५ । ३७-वृश्चिकः
खाब्धिपञ्चकः ५ । ४० ॥ नवचन्द्रबाण ५ । १९ --
धनुर्वेदरामैः सुखं ४ । ३४ मृगः । वसुपञ्च-
त्रयः ३ । ५८ कुम्भः ऋषिवेदत्रयो ३ । ४७ झषः
॥ * ॥ शत्रुर्वेदश्च ४ । ६ मेषो नवसुखसुख
४-४९ । -गौर्मृत्युयुम्मैः शिवास्यो ५ । २८ द्वन्द्यो-
ऽङ्काप्यित्तवाणो ५ । ३९ हिमकरभवनो राम-
रामैः कलम्बः ५ । ३३ । सिंहः कन्याब्जरामैरिषु
५ । ३१-रिषुजसुखाग्नीषु ५ । ३४-यूकोऽलिपृथ्वी
५ । ४१ वेदेशास्योऽष्टपृथ्वीस्मरहरमुख ५ । १८
कोदण्डमाहुर्वराहाः ॥ बन्धू रामश्च वेदो ४ । ३४
रविसुतभवनः पर्ब्बतः पञ्चरामः ३ । ५७ कुम्भो
मीनश्च भुङ्क्ते गिरिसुखदहनं ३ । ४७ प्रत्यहं
प्रक्रमेण । अस्तं यामित्रराशावनुदिनमवसाद्यञ्च
राजीवनाथो यद्यातिस्म द्रुतं स्यादुदयमनुदिवा-
रात्रमाहुर्वराहाः ॥ * ॥ लग्नं लग्नान्तरं कृत्वेति
प्रकारान्तरेण यदुक्तं तदपि पद्येन लिख्यते यथा ।
वेदोऽङ्गै ४ । ६-रिभवेदैः श्रुति ४ । ४८-रिषुरिभ-
पक्षैः ५ । २८ कुवेदैश्च बाणो ५ । ४१ बाणो
रामानलै ५ । ३३-रिन्द्रियमपि नवाक्षै ५ । २९
रिषुः सप्तरामैः ५ । ३७ बाणः शून्याब्धिने ५ । ४०
षुर्धृतिभि ५ । १८ -- रिषुगुणैरब्धि ४ । ३५-रष्टेष-
णाग्नी ३ । ५८ रामोऽश्वाद्भिस्तु ३ । ४७ सिद्धान्त-
जमतमयनांशादिदं लग्नमानं ॥
“चैत्रस्यैकादशाहे तु विषुवारम्भणं यदा ।
तदैतल्लग्नमानं हि ज्ञेयमन्यत्र साधनात्” ॥
इति ज्योतिषसंग्रहः ॥ (गतिः । गमनं । मार्गः ।
“अगस्त्यचिह्नादयनात् समीपं
दिगुत्तरा भास्वति सन्निवृत्ते” ।
इति रघुवंशे । स्थानं । भूमिः । समरसमार-
म्भकाले योधानां यथाप्रधानं यूद्धभूमौ पूर्ब्बाप-
रादिदिग्विभागेनावस्थितिस्थानं । सेनासन्निवेश-
विशेषरूपव्यूहप्रवेशमार्गः ।
“अयनेषु च सर्व्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व्व एव हि” ॥
इति भगवद्गीता । आश्रयः । विश्रामस्थानं ।
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्ब्बं तेन नारायणः स्मृतः” ॥
इति मनुः । गृहं । वसतिः । वासस्थानं । शास्त्रं ।
भावसाधनो ग्रन्थः ।
“शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चयः ।
ज्योतिषामयनञ्चैव वेदङ्गानि षडेव तु ॥
छन्दः पादौ तु वेदस्य हस्तः कल्पोऽथ कथ्यते ।
ज्योतिषामयनं नेत्रं निरुक्तं श्रोत्रमुच्यते” ॥
इति कूर्म्मपुराणे ।)

अयानयीनः, पुं, शारः । यथा । अनुपदसर्व्वान्नायानयं

बद्धा भक्षयति नेयेषु । अयानयः स्थलविशेषः ।
तन्नेयः । अयानयीनः शारः । इति सिद्धान्त-
कौमुदी ॥

अयन्त्रितः, त्रि, (न यन्त्रितः, नञ्समासः ।) अबाधः ।

अनर्गलः । इति हेमचन्द्रः ॥ (अनियन्त्रितः ।
अनियमितः । स्वाधीनः ।
“सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितस्त्रिवेदोऽपि सर्व्वाशी सर्व्वविक्रयी” ॥
इति मनुः ।)

अयस्कान्तः, पुं, (अयस्सु कान्तः रमणीयः ।) लौह-

विशेषः । कान्तलोह इति ख्यातः । तत्प-
र्य्यायः । कान्तलोहं २ कान्तं ३ लौहकान्तकं
४ कान्तायसं ५ कृष्णलोहं ६ महालोहं ७ ।
अस्य गुणाः । तीक्ष्णत्वं । उष्णत्वं । रूक्षत्वं ।
पाण्डुशोथकफपित्तहरत्वं । रसायनत्वं । अनु-
त्तमत्वञ्च । स चतुर्व्विधः । भ्रामकः १ चुम्बकः
२ रोमकः ३ स्वेदकः ४ । एते रसायने उत्त-
रोत्तरगुणिनः ।
“क्रमेण दार्ढ्याङ्गकान्तिकार्त्स्न्येनीरोगदायिनः” ।
इति राजनिर्घण्टः ॥ चुम्बकप्रस्तरोऽप्ययं । (चुम्बक
पृष्ठ १/०९२
:इति ख्यातः प्रस्तरभेदः । चुम्बकपाथर इति
भाषा ।
“उमारूपेण ते यूयं संयमस्तिमितं मनः ।
शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लौहवत्” ॥
इति कुमारसम्भवे ।)
(“ततः कोटिसहस्रैर्वा कान्तलौहं महागुणं” ।
इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥)

अयस्कार, पुं, (अयोविकारं करोति, क्त + अण्

उपपदसमासः ।) प्रजङ्घाग्रः । जङ्घाग्रभागः ।
इति त्रिकाण्डशेषः ॥ लौहकारः । अयस्करोतीति
व्युत्पत्त्या ॥

अयाः, [स्] पुं, (इन् + असुन् ।) अग्निः । इत्यु-

णादिकोषः ॥

अयाचकः, त्रि, (याच + ण्वुल्, ततो नञ्समासः ।)

याच्ञारहितः । यथा । “यदि भवति स दाता
याचकायाचकेषु” । इत्युद्भटः ॥ (भिक्षापराङ्मुखः ।
प्रार्थनाविमुखः ।)

अयाचितं, त्रि, (याच् + क्तः, नञ्समासः ।) याच्-

ञां विना लब्धवस्तु । अप्रार्थितं । इत्यमृतशब्दार्थे
मेदिनी ॥ (अनर्थितं । “अयाचितोपस्थितमम्बु
केवलं” । इति कुमारसम्भवे । “अमृतं स्याद-
याचितं” । इति मनुः । “अयाचिताहृतं ग्राह्य-
मपि दुष्कृतकर्म्मणः” । इति स्मृतिः ।)

अयाचितः, पुं, (याच् + क्तः, ततो नञ्समासः ।)

मुनिविशेषः । तत्पर्य्यायः । उपवर्षः २ हलभृतिः
३ कृतकोटिः ४ । इति त्रिकाण्डशेषः ॥

अयानं, क्ली, स्वभावः । इति हारावली ॥ अगमनं ।

गत्यर्थयाधातोर्भावेऽनट् ततो नञ्समासः ॥

अयि, व्य, प्रश्नः । (इण + इन् ।) अनुनयः । सम्बो-

धनं । इति मेदिनी ॥ अनुरागे । (“अयि
कठोर ! यशः किल ते प्रियं” । इति उत्तर-
चरिते । “अयि घनोरु ! पदानि शनैः शनैःः” ।
इति वेणीसंहारे । “अयि जीवितनाथ ! जीव-
सीत्यभिधायोत्थितया तया पुरः” । इति कुमार
सम्भवे ।)

अयुक्छदः, पुं, (अयुग्माः सप्त सप्त छदा अस्य ।)

सप्तपर्णवृक्षः । इति हेमचन्द्रः ॥

अयुक्तं, त्रि, (युज् + क्तः, नञ्समासः ।) अमि-

श्रितं । अनुचितं । यथा, --
“अयुक्तं यदिह प्रोक्तं प्रमादेन भ्रमेण वा” ।
इति दुर्गादासः ॥ (असंसक्तः । संयोगरहितः ।
अनियोजितः । यथा,
“अयुक्तचारा राजानो भविष्यन्ति कथं नु ते” ।
इति रामायणे । सर्व्वदा विषयासक्तचित्ततया
कर्त्तव्येष्वनवहितः ।
“परावमन्ता विषयेषु सङ्गवान्,
न देशकालप्रविभागतत्त्ववित् ।
अयुक्तबुद्धिर्गुणदोषनिश्चये,
विपन्नराज्यो न चिरात् विपत्स्यसे” ॥
इति रामायणे ।)

अयुग्मच्छदः, पुं, (अयुग्माः सप्त सप्त छदा अस्य ।)

विषमच्छदः । सप्तपर्णवृक्षः । इत्यमरटीकायां
भरतः ॥ (छातिम इति ख्यातः सप्तच्छदवृक्षः ।
“अनेकराजन्यरथाश्वसङ्कुलं
तदीयमास्थाननिकेतनाजिरं ।
नयत्ययुग्मच्छदगन्धिरार्द्रतां
भृशं नृपोपायनदन्तिनां मदः” ॥
इति किरातार्ज्जुनीये ।)

अयुतं, क्ली, (न युतं, नञ्समासः ।) दशसहस्रसंख्या ।

इति हेमचन्द्रः ॥ १०००० दशहाजार इति
भाषा । (“नागानामयुतं तुरङ्गनियुतं सार्द्धं
रथानां शतं” । इति रामायणे ।)

अयुतः, त्रि, (न युतः, नञ्समासः ।) अमिश्रितः ।

अयुक्तः । यथा । अपृथग्भावोऽयुतासिद्धिः ।
इति चरकटीका ॥ (असंयुक्तः । असंश्लिष्टः ।
संयोगरहितः । पुसि स्वनामख्यातः राधिकस्य
पुत्रः स च क्रोधनस्य पिता ।)

अये, व्य, (इण + एच् ।) कोपः । विषादः । सम्भ्रमः ।

स्मरणं । इति मेदिनी ॥ सम्बोधनं । इति शब्द-
रत्नावली ॥ (कोमलामन्त्रणे । “अये कान्ते मुग्धे-
चटुलनयने चन्द्रवदने” । इत्युद्भटः । “अये कथं
तातसारथिरश्वसेनः” । इति वेणीसंहारे ।)

अयोगः, पुं, (युज् + घञ्, नञ्समासः ।) विश्लेषः ।

विधुरः । कूटः । कठिनोद्यमः । इति मेदिनी ॥
वमनविरेचनादीनां प्रतिलोमप्रवृत्तिरल्पप्रवृ-
त्तिर्व्वा । यथा, --
“योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्त्तनं ।
अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्त्तनं” ॥
इति वैद्यकं ॥ (“तत्रासात्म्येन्द्रियार्थसंयोगो-
ऽयोगातियोगमिथ्यायोगादियुक्ता रूपरसादयः” ॥
इति माधवकरकृतरोगविनिश्चयग्रन्थे विजय-
रक्षितः ॥
“त्रीण्यायतनानीति अर्थानां कर्म्मणः कालस्य
चातियोगायोगमिथ्यायोगाः तत्रातिप्रभावतां
दृश्यानामतिमात्रं दर्शनमतियोगः ॥ सर्व्वशो-
ऽदर्शनमयोगः अतिसूक्ष्मातिश्लिष्टातिविप्रकृष्ट-
रौद्रभैरवाद्भुतद्विष्टबीभत्सविकृतादिरूपदर्शनं ।
मिथ्यायोगः” ॥ इति चरकः ॥) योगो ध्यानं
तदभावः । योगो भेषजं तदभावश्च ॥ (विच्छेदः ।
मिथः संरूढगाढानुरागयोर्नायकनायिकयोर्गुरु-
जनपराधीनतया दैवगत्या वा विप्रकर्षादन्योन्याद-
र्शनरूपदशाविशेषः, यदुक्तं दशरूपादर्शे ।
“तत्रायोगोऽनुरागेऽपि नवयोरेकचित्तयोः ।
पारतन्त्र्येण दैवाद्वा विप्रकर्षादसङ्गमः” ॥
अयञ्च पूर्ब्बराग इत्युच्यते । यदुक्तं दर्पणकारैः ।
“श्रवणाद्दर्शनाद्वापि मिथः संरूढरागयोः ।
दशाविशेषो योऽप्राप्तौ पूर्ब्बरागः स उच्यते” ॥)

अयोगवः, त्रि, (अयैव कटिना गौर्वाणी यस्य

सः, अच् । अयोगं दुष्टयोगं वाति वा + कः ।)
वैश्यकन्यायां शूद्रादुत्पन्नसन्तानः । इति जटाधरः ॥
(“शूद्रादयोगवः क्षत्ता चाण्डालश्चाधमो नृणाम् ।
वैश्यराजन्यविप्रास जायन्ते वर्णसङ्कराः” ॥
इति मनुः ।
शूद्रात् वैश्यायां जातः प्रतिलोमजः सङ्कीर्णवर्णः ।
“प्रसाधनोपचारज्ञमदासं दासजीवनं ।
सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे” ॥
इति मनुः ।)

अयोगुडः, पुं, (अयसा निर्म्मितो गुडः पिण्डः ।) लौह-

गुलिका । यथा, --
“वरमाशीविषविषं क्वथितं ताम्रमेव वा ।
पीतमत्यग्निसन्तप्ता भक्षिता वाप्ययोगुडाः” ॥
इति चरकः ॥

अयोग्रं, क्ली, (अयोऽग्रे मुखे यस्य तत् ।) मुषलं ।

इत्यमरः ॥

अयोघनः, पुं, (अयांसि हन्यन्ते ताड्यन्तेऽनेन, हन +

अप् + घनादेशश्च ।) एकीभूतलौहपुञ्जः । हातुडी
इति भाषा । तत्पर्य्यायः । लौहकूटं २ । इति
हेमचन्द्रः ॥
(“अयोघनेनाय इवाभितप्तं
वैदेहिबन्धोर्हृदयं विदद्रे” ।
इति रघुवंशे ।
“कुरु करे गुरुमेकमयोघनं
वहिरितो मुकुरुञ्च कुरुष्व मे” ।
इति नैषधं ।)

अयोध्या, स्त्री, (योद्धुमशक्या, युध + ण्युत्, नञ्-

समासः ।) श्रीरामनगरी । पश्चिमदेशे अओद्
इति प्रसिद्धा । तत्पर्य्यायः । साकेतं २ कोशला
३ । इति हेमचन्द्रः ॥ उत्तरकोशला ४ । इति
त्रिकाण्डशेषः ॥ सा तु मोक्षदा पुरी । यथा, --
“अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः ॥
एतास्तु पृथिवीमध्ये न गण्यन्ते कदाचन ।
श्रीरामधनुरग्रस्था अयोध्या सा महापुरी” ॥
इति भूतशुद्धितन्त्रं ॥ * ॥ तद्वर्णनं यथा, --
“कोशलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्म्मिता स्वयम् ॥
आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥
राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥
तान्तु राजा दशरथो महाराष्ट्रविवर्द्धनः ।
पुरीमावासयामास दिवि देवपतिर्यथा ॥
कपाटतोरणवतीं सुविभक्तान्तरापणां ।
सर्व्वयन्त्रायुधवतीमुषितां सर्व्वशिल्पिभिः ॥
सूतमागधसम्बाधां श्रीमतीमतुलप्रभां ।
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलां ॥
बधूनाटकसंघैश्च संयुक्तां सर्व्वतः पुरीं ।
उद्यानाम्रवणोपेतां महतीं शालमेखलां ॥
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदां ।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥
सामन्तराजसङ्घेश्च बलिकर्म्मभिरावृतां ।
नानादेशनिवासैश्च बणिग्भिरुपशोभितां ॥
प्रासादैः रत्नविकृतैः पर्ब्बतैरिव शोभितां ।
कूटागारैश्च सम्पर्णामिन्द्रस्येवामरावतीं ॥
पृष्ठ १/०९३
:चित्रामष्टापदाकारां वरनारीगणैर्युतां ।
सर्व्वरत्नसमाकीर्णां विमानगृहशोभितां ॥
गृहगाढामविच्छिद्रां समभूमौ निवेशितां ।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकां ॥
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमां ॥
विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृतां ॥
ये च बाणैर्न बिध्यन्ति विविक्तमपरापरं ।
शब्दबेध्यञ्च विततं लघुहस्ता विशारदाः ॥
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि ॥
तादृशानां सहस्रैस्तामभिपूर्णां महारथैः ।
पुरीमावासयामास राजा दशरथस्तदा ॥
तामग्निमद्भिर्गुणवद्भिरावृतां
द्विजोत्तमैर्व्वेदषडङ्गपारगैः ।
सहस्रदैः सत्यरतैर्महात्मभि-
र्महर्षिकल्पैरृषिभिश्च केवलैः” ॥
इत्यार्षे रामायणे बाल्मीकीये बालकाण्डे पञ्चमः
सर्गः ॥ * ॥
“तस्यां पुर्य्यामयोध्यायां वेदवित् सर्व्वसंग्रहः ।
दीर्घदर्शी महातेजाः पौरजानपदप्रियः ॥
इक्ष्वाकूणामतिरथो यज्वा धर्म्मपरो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः ॥
बलवान्निहतामित्रो भित्रवान् विजितेन्द्रियः ।
धनैश्च सञ्चयैश्चान्यैः शक्रवैश्रवणोपमः ॥
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा लोकस्य परिरक्षिता ॥
तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता ।
पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती ॥
तस्मिन् पुरवरे हृष्टा धर्म्मात्मानो बहुश्रुताः ।
नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥
नाल्पसन्निचयः कश्चित्तदा तस्मिन् पुरोत्तमे ।
कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥
कामी वा न कदर्य्यो वा नृशंसः पुरुषः क्वचित् ।
द्रष्टं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः ॥
सर्व्वे नराश्च नार्य्यश्च धर्म्मशीलाः सुसंयताः ।
मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान् ।
नामृष्टो न न लिप्ताङ्गो नासुगन्धश्च विद्यते ॥
नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक् ।
नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान् ॥
नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः ।
कश्चिदासीदयोध्यायां न चावृत्तो न सङ्करः ॥
स्वकर्म्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः ।
दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥
नास्तिको नानृतो वापि न कश्चिदबहुश्रुतः ।
नासूयको न चाशक्तो नाविद्वान् विद्यते क्वचित् ॥
नाषडङ्गविदत्रास्ति नाव्रतो नासहस्नदः ।
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन ॥
कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् ।
द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥
वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः ।
कृतज्ञाश्च वदान्याश्च शूरा विक्रमसंयुताः ॥
दीर्घायुषो नराः सर्व्वे धर्म्मं सत्यञ्च संश्रिताः ।
सहिताः पुत्त्रपौत्त्रैश्च नित्यं स्त्रीभिः पुरोत्तमे ॥
क्षत्त्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्त्रमनुव्रताः ।
शूद्राः स्वकर्म्मनिरतास्त्रीन् वर्णानुपचारिणः ॥
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता ।
यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता ॥
योधानामग्निकल्पानां पेषलानाममर्षिणां ।
सम्पूर्णा कृतविद्यानां गुहा केशरिणामिव ॥
काम्बोजविषये जातैर्व्वाह्लीकैश्च हयोत्तमैः ।
वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः ॥
विन्ध्यपर्ब्बतजैर्मत्तैः पूर्णा हैमवतैरपि ।
मदान्वितैरतिबलैर्मातङ्गैः पर्ब्बतोपमैः ॥
ऐरावतकुलीनैश्च महापद्मकुलैस्तथा ।
अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ॥
भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥
नित्यमत्तैः सदा पूर्णा नागैरचलसन्निभैः ।
सा योजने द्वे च भूयः सत्यनामा प्रकाशते ॥
तां पुरीं स महातेजा राजा दशरथो महान् ।
शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः ॥
तां सत्यनामां दृढतोरणार्गलां
गृहैर्व्विचित्रैरुपशोभितां शिवां ।
पुरीमयोध्यां नृसहस्रसंकुलां
शशास वै शक्रसमो महीपतिः” ॥
इत्यार्षे रामायणे वाल्मीकीये बालकाण्डे षष्ठः
सर्गः ॥ युद्धायोग्ये त्रि ॥

अयोमलं, क्ली, (अयसो मलमिव ।) लौहमलं ।

इति राजनिर्घण्टः ॥ लोहार गु इति भाषा ।
तत्पर्य्यायः । मण्ड्ररं २ लौहकिट्टं ३ । तस्य गुणाः ।
“शतोर्द्ध्वमुतमं किट्टं मध्यञ्चाशीतिवर्षकं ।
अधमं षष्टिवर्षीयं ततो हीनं विषोपमं ॥
यल्लौहं यद्गुणं प्रोक्तं तत्किट्टञ्चापि तद्गुणं” ।
इति वैद्यकं ॥
(अस्य शोधनमारणं यथा, --
“दग्ध्वाक्षकाष्ठैर्मलमायसन्तु,
गोमूत्रनिर्व्वापितमष्टवारान् ।
विचूर्ण्य लीढं मधुना चिरेण,
कुम्भाह्वयं पाण्डुगदं निहन्ति” ॥
इति वैद्यकरसेन्द्रसारसङ्ग्रहः ॥)

अरं, क्ली, (इयर्त्ति गच्छत्यनेन, ऋ + अच् ।) शीघ्रं ।

चक्राङ्गं । चाकार पाकि इति भाषा । शीघ्रगे
त्रि । इति मेदिनी ॥

अरः, पुं, (ऋ + अच् ।) जिनानां कालचक्रस्य द्वाद-

शांशः । स तु अवसर्पिण्याः षष्ठभागः ॥ जिना-
नामष्टादशतीर्थङ्करः । इति हेमचन्द्रः ॥

अरकः, पुं, (अ + ऋकन् ।) शैवालं । इति हारा-

वली ॥ पर्पटः । इति राजनिर्घण्टः ॥

अरग्बधः, पुं, आरग्बधवृक्षः । सोदालि इति

ख्यातः । इत्यमरटीकायां भरतः ॥ (अस्य गुणादयः
आरग्बधशब्दे ज्ञेयाः ।)

अरघट्टः, पुं, (अरं शीघ्रं घट्यते चाल्यतेऽसौ, अर +

घट्ट + अच् ।) महाकूपः । इत्यमरजटाधरौ ॥ (कूपात्
जलनिःसारणार्थं घटीयन्त्रभेदः । कूपोपरिनिबद्ध-
जलोत्तोलककाष्ठभेदः । “स कदाचिद्दायादैरुद्वे-
जितोऽरघट्टघाटिकामारुह्य कूपात् क्रमेण नि-
ष्क्रान्तः” । इति पञ्चतन्त्रे ।)

अरघट्टकः, पुं, (अरघट्ट + स्वार्थे कन् ।) महाकूपः ।

तत्पर्य्यायः । पादावर्त्तः २ । इति हेमचन्द्रः ॥

अरजाः, [स्] स्त्री, (रन्ज + असुन्, नलोपः नञ्-

समासः ।) कन्या । कुमारी । इति हेमचन्द्रः ॥
रजोगुणरहिते त्रि ॥ (निर्म्मलः । धौतः । परि-
ष्कृतः ।)

अरटुः, पुं, (अरं शीघ्रं अटति, अट् + उन् ।) अर-

लुवृक्षः । इत्यमरटीकायां रायमुकुटः ॥

अरणिः, पुं, (ऋ + अनि ।) गणिकारिकावृक्षः ।

इति मेदिनी । सूर्य्यः । इति काशीखण्डं ॥

अरणिः, पुं, स्त्री, (ऋ + अनि ।) निर्म्मन्थ्यदारु ।

अग्निसाधनीभूतकाष्ठं । धर्षणद्वाराग्निजनककाष्ठं ।
इत्यमरः ॥ (अग्निमन्थनकाष्ठं । अग्न्युत्पादनाय
यत्काष्ठं काष्ठान्तरेण घृष्यते तदरणिनामकं काष्ठं ।
“विपक्षवक्षोऽरणिमन्थनोत्थः
प्रतापवह्नेरिव धूमलेखा” ।
इति धनञ्जयविजयव्यायोगे ।)

अरणी, स्त्री, अरणिः । इत्यमरटीकायां भरतः ॥

(“विधिना मन्त्रयुक्तेन रूक्षाऽपि मथिताऽपि च ।
प्रयच्छति फलं भूमिररणीव हुताशनम्” ॥
इति पञ्चतन्त्रे ।)

अरणीकेतुः, पुं, (अरणी केतुरस्य सः ।) अग्निमन्थ-

वृक्षः । इति राजनिर्घण्टः ॥

अरण्यं, क्ली, (अर्य्यते मृगैः, ऋ गतौ, अर्त्तेर्निश्चेति

अन्यः ।) वनं । इत्यमरः ॥ (मोक्षप्रदं दण्ड-
कादिकं नवारण्यं । यदुक्तं, --
“दण्डकं सैन्धवारण्यं जम्बुमार्गञ्च पुष्करं ।
उत्पलावर्त्तकारण्यं नैमिषं कुरुजाङ्गलं ॥
हिमवानर्व्वुदश्चैव नवारण्यं विमुक्तिदं” ।)

अरण्यः, पुं, कट्फलवृक्षः । इति शब्दचन्द्रिका ॥

(स्वनामख्यातो रैवतस्य मनोः पुत्त्रः । यदुक्तं
हरिवंशे, --
“अरण्यश्च प्रकाशश्च निर्मोहः सत्यवान् कृती ।
रैवतस्य मनोः पुत्त्राः पञ्चमञ्चैतदन्तरं” ।)

अरण्यकदली, स्त्री, (अरण्यस्यैव कदली, षष्ठीतत्-

पुरुषः ।) गिरिकदली । इति राजनिर्घण्टः ॥
(वनकदली । इयं ग्रामादौ न जायते ।)

अरण्यकार्पासी, स्त्री, (अरण्ये कार्पासी, सप्तमी-

तत्पुरुषः ।) वनकार्पासी । तत्पर्य्यायः । वनजा २
भारद्वाजी ३ वनोद्भवा ४ । अस्या गुणाः ।
हिमत्वं । रूक्षत्वं । व्रणशस्त्रक्षतनाशित्वञ्च ।
इति राजनिर्घण्टः ॥

अरण्यकुलत्थिका, स्त्री, (अरण्यस्य कुलत्थिका, षष्ठी-

तत्पुरुषः ।) कुलत्था । इति राजनिर्घण्टः ॥ वन-
कुलथी इति भाषा ।

अरण्यकुसुम्भः, पुं, (अरण्यस्य कुसुम्भः, षष्ठीतत्-

पृष्ठ १/०९४
:पुरुषः ।) वनकुसुम्भः । तत्पर्य्यायः । कौसुम्भः २
अग्निसम्भवः ३ । अस्य गुणाः पाके कटुत्वं । श्लेष्म-
नाशित्वं । अग्निवृद्धिकारित्वञ्च । इति राज-
निर्घण्टः ॥

अरण्यघोली, स्त्री, (अरण्यजा घोलो, कर्म्मधारयः ।)

वनघोली । पत्रशाकविशेषः । इति राजनिर्घण्टः ॥

अरण्यचटकः, पुं, (अरण्यस्य चटकः, षष्ठीतत्पुरुषः ।)

वनचटकः । तत्पर्य्यायः । धूसरः २ भूमिशयः ३ ।
अस्य गुणाः । शीतत्वं । लघुत्वं । शुक्रवृद्धि-
कारित्वं । बलप्रदत्वञ्च । इति राजनिर्घण्टः ॥
(अस्य मांसगुणा यथा राजनिर्घण्टे, --
“चटकास्रजं तु शीतं लघु वृष्यं बलप्रदं ।
तद्वञ्चारण्यचटकं तत्तूष्णं लघुपथ्यदम्” ॥)

अरण्यजार्द्रका, स्त्री, (अरण्य जायते या, अरण्य +

जन् + ड, अरण्यजा आर्द्रका, कर्म्मधारयः ।)
वनार्द्रका । इति राजनिर्घण्टः । वन आदा इति
भाषा । अस्य गुणपर्य्यायौ ऐन्द्रशब्दे द्रष्टव्यौ ॥

अरण्यजीरः, पुं, (अरण्यस्य जोरः, षष्ठीतत्पुरुषः ।)

वनजीरः । इति राजनिर्घण्टः ॥ वनजीरा इति
भाषा ।

अरण्यधान्यं, क्ली, (अरण्यस्य धान्यं, षष्ठीतत्पुरुषः ।)

नीवारः । इति राजनिर्घण्टः ॥ उडी धान इति
भाषा ।

अरण्यमक्षिका, स्त्री, (अरण्यस्य मक्षिका, षष्ठी-

तत्पुरुषः ।) दंशः । इति शब्दरत्नावली ॥ डाँश
इति भाषा ।

अरण्यमुद्गः, पुं, (अरण्यस्य मुद्गः, षष्ठीतत्पुरुषः ।)

मकुष्टकः । इति राजनिर्घण्टः ॥ वनमुग इति
भाषा । (अस्य गुणाः मुकुष्टकशब्दे द्रष्टव्याः ।)

अरण्यवायसः, पुं, (अरण्यस्य वायसः, षष्ठीतत्-

पुरुषः ।) द्रोणकाकः । इति राजनिर्घण्टः ॥ दाँड
काक इति भाषा ।

अरण्यवासिनी, स्त्री, (अरण्ये वसति या, अरण्य +

वस् + णिनि, स्त्रियां ङीप् ।) अत्यम्लपर्णी लता ।
इति राजनिर्घण्टः ॥

अरण्यवास्तूकः, पुं, (अरण्यस्य वास्तूकः, षष्ठीतत्-

पुरुषः ।) वनवास्तूकः । इति राजनिर्घण्टः ॥ वन
वेतो इति भाषा । अस्य गुणपर्य्यायौ कुणञ्जर-
शब्दे द्रष्टव्यौ ॥

अरण्यशालिः, पुं, (अरण्यभवः शालिः, कर्म्मधारयः

मध्यपदलोपश्च ।) नीवारः । वनधान्यं । इति
राजनिर्घण्टः ॥

अरण्यशूरणः, पुं, (अरण्यजातः शूरणः, कर्म्म-

धारयः ।) वनशूरणः । इति राजनिर्घण्टः ॥ वन-
ओल इति भाषा ।

अरण्यश्वा, [न्] पुं, (अरण्ये श्वेव हिंस्रः ।) वृकः ।

इति हेमचन्द्रः ॥ नेक्डे वाघ इति भाषा ।

अरण्यषष्ठी, स्त्री, (अरण्याय गन्तुं षष्ठी, चतुर्थीतत्-

पुरुषः ।) ज्यैष्ठशुक्लषष्ठी । वाँटाषष्ठी इति भाषा ।
यथा राजमार्त्तण्डे, --
“ज्यैष्ठे मासि सिते पक्षे षष्ठी चारण्यसंज्ञिता ।
व्यजनैककरास्तस्यामटन्ति विपिने स्त्रियः ॥
तां विन्ध्यवासिनीं स्कन्धषष्ठीमाराधयन्ति च ।
कन्दमूलफलाहारा लभन्ते सन्ततिं शुभां” ॥
कन्दं शूरणादि । मूलं तदितरत् । इति तिथ्या-
दितत्त्वं ॥

अरण्यानी, स्त्री, (अरण्य + आनुक् + स्त्रियां ङीष् ।

महत् अरण्यम् इत्यस्मिन् अर्थे इन्द्रवरुणेति
सूत्रस्थेन हिमारण्ययोर्महत्वैति वार्त्तिकेन अर-
ण्यशब्दस्य आनुगागमः, ततो ङीष् ।) महावनं ।
इत्यमरः ॥ (“अस्ति मगधदेशे चम्पकवती नामा-
रण्यानी” । इति हितोपदेशे ।)

अरतत्रपः, पुं, स्त्री, (अरता विरता त्रपा यस्य ।)

कुक्कुरः । इति त्रिकाण्डशेषः ॥ रत्यलज्जे त्रि ॥
(नास्ति रते शृङ्गारे त्रपा लज्जा यस्य सः ।)

अरतिः, पुं, (ऋ + अति ।) क्रोधः । इत्युणादिकोषः ॥

अरतिः, स्त्री, (रम् + क्तिन्, नञ्समासः ।) अनव-

स्थितचित्तत्वं । इति रक्षितः ॥ क्रीडाभावः । इति
कार्त्तिकः ॥ रतिविरहः । रतिशून्ये त्रि ॥
(विरक्तिः । प्रीतिविरहः । अनुरागराहित्यं ।
उत्साहहीनता । उद्यमाभावः । उद्योगराहित्यं ।
निश्चेष्टता । सुखाभावः । दुःखं । क्लेशः । औत्-
सुक्यं । उद्वेगः । इष्टवियोगात् चित्तस्याकुलीभावः ।
यदुक्तं, --
“स्वाभीष्टवस्त्वलाभेन चेतसो यानवस्थितिः ।
अरतिः सा तु विज्ञेया” । सुष्ठुताभावः । अस्वास्थ्यं ।
“श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः” ।
इति सुश्रुते ।)

अरत्निः, पुं, (ऋ + कत्निः, रत्निः बद्धमुष्टिकरः, स

नास्ति यस्य ।) विस्तृतकनिष्ठाङ्गुलिमुष्टिकहस्तः ।
कुर्परः । इति मेदिनी ॥
(“एकविंशतियूपास्ते एकविंशत्यरत्नयः” ।
इति रामायणे । कफोणिः । हस्तः । करतल-
पार्श्वः । बद्धमुष्टिहस्तः । कील, घुसी इत्यादि
भाषा ।
“पदा मूर्ध्नि महाबाहुः प्राहरत् विलपिष्यतः ।
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना” ॥
इति महाभारते ।)

अरन्धनं, क्ली, (न रन्धनं, अत्र अभावे नञ् ।) पाका-

भावः । तत्तु कन्यासंक्रान्त्यां कृतञ्चेत् वृद्धारन्धनं
कथ्यते । सौरभाद्रस्य यस्मिन् कस्मिन् दिने कृत-
ञ्चेत् इच्छारन्धनमित्युच्यते । इति लोकप्रसिद्धं ।
तत्र प्रमाणं ।
“कर्कान्नमद्यात् सिंहाहे सिंहान्नं सिंहकन्ययोः ।
मनसाशेषनागेभ्यो दत्त्वा सर्व्वं निशोधितं” ॥
इत्याचारमार्त्तण्डधृतवचनं ॥

अरमः, त्रि, (न रम्यतेऽत्र, आधारे घञ् ।) अवमः ।

अधमः । इत्यमरटीकासारसुन्दरी ॥ (नीचः ।
निकृष्टः । हीनः ।)

अररं, त्रि, (ऋ + अरच् ।) कवाटं । इत्यमरः ॥

करीरकोषः । आच्छादनं । इति विश्वः ॥ (पुंसि
चर्म्मकर्त्तनच्छुरिकाभदः । यज्ञाङ्गं । युद्धं । रणः ।)

अररिः, पुं, क्ली, (ऋच्छति ऋ + विच्, अरमियर्त्ति

ऋ इनि ।) कपाटं । इति हेमचन्द्रः ॥

अररुः, पुं, (ऋ + अरु ।) शत्रुः । इति सिद्धान्त-

कौमुद्यामुणादिवृत्तिः ॥ (अस्त्रभेदः । स्वनाम-
ख्यातोऽसुरभेदः ।)

अररे, व्य, (अरं शीघ्रं राति, रा + के ।) त्वरान्वित-

सम्बुद्धिः । शीघ्रसम्बोधनं । इति शब्दरत्नावली ॥
(शीघ्रं प्रत्युत्तरलाभेच्छया कृते अतिव्यग्रतया
सम्बोधने ।
“अरे विकारसम्बोधे अररे त्वरयान्विते” ।
इति शब्दरत्नावली ।)

अरलुः, पुं, (अरं लाति, ला + कु, ऋ + अरु +

रस्य ल ।) श्योनाकवृक्षः । इत्यमरः ॥ शोनागाछ
इति भाषा ।

अरविन्दं, क्ली, (अराकाराणि दलानि तत्सा-

दृश्यात् अराः, तान् विन्दति लभते इत्यर्थे विद्
+ श ।) पद्मं । सारसपक्षी । इत्यमरः ॥ ताम्रं ।
रक्तकमलं । नीलोत्पलं । इति राजनिर्घण्टः ॥
(“उन्मीलितं तूलिकयेव चित्रं सूर्य्यांशुभिर्भिन्न-
मिवारविन्दम्” । इति कुमारसम्भवे ।
“अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलं ।
स्मरामि वदनं तस्याश्चारुचञ्चललोचनम्” ॥
इति साहित्यदर्पणे ।)

अरविन्दिनी, स्त्री, (अरविन्द + इनि, ङीप् ।)

नलिनी । इति शब्दरत्नावली ॥ पद्मसमूहः ।
पद्माकरः । इति रत्नमाला ॥

अरसिकः, त्रि, (रसं वेत्ति, रस + ठन्, नञ्-

समासः ।) अरसज्ञः । अविदग्धः । यथा । “अर-
सिकेषु रसस्य निवेदनं शिरसि मा लिख मा
लिख मा लिख” ॥ इत्युद्भटः ॥

अराजकः, त्रि, (नास्ति राजा यत्र सः, कप् ।)

राजशून्यदेशादिः । यथा, --
“चौरप्रायं जनपदं हीनसत्वमराजकं” ।
इति श्रीभागवतं ॥ (नियन्तृहीनः । शासनकर्तृ-
रहितः ।
“अराजके जनपदे दोषा जायन्ति वै सदा ।
उद्वृत्तं सततं लोकं राजा दण्डेन शास्ति वै” ॥
इति महाभारते ।)

अराजकः, पुं, (नास्ति राजा यत्र सः कप् ।) राज-

शून्यदेशादिः । यथा, --
“अराजके हि लोकेऽस्मिन् सर्व्वती विद्रुते भयात् ।
रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः” ॥
इति मानवे ७ अध्याये ३ श्लोकः ॥

अरातिः, पुं, (न राति ददाति सुखं, रा + क्तिच्,

नञ्समासः ।) शत्रुः । इत्यमरः ॥
(“अरातिविक्रमालोकविकस्वरविलोचनः” ।
इति साहित्यदर्पणे ।
“अनेकयुद्धविजयी सन्धानं यस्य गच्छति ।
तत्प्रभावेन तस्याशु वशं गच्छन्त्यरातयः” ॥
इति पञ्चतन्त्रे ।)

अरालं, त्रि, (ऋ + विच्, अरमालाति, आ + ला

+ क ।) कुटिलं । वक्रं । इत्यमरः ॥
(“अरालैः स्वाभाव्यादलिकरभकश्रीभिरलकैः” ।
इति आनन्दलहरी ।)
पृष्ठ १/०९५

अरालः, पुं, (ऋ + विच्, अरमालाति, आ + ला

+ क ।) सर्ज्जरसः । मत्तहस्ती । इति मेदिनी ॥
वक्रहस्तः । इति शब्दरत्नावली ॥

अराला, स्त्री, (अराल + स्त्रियां टाप्) अधृष्टा ।

कुलटा । इति शब्दरत्नावली ॥

अरिः, पुं, (ऋ + इन् ।) शत्रुः । इत्यमरः ॥

(“उपकर्त्रारिणा सन्धिर्न मित्रेणापकारिणा” । इति मनुः ।)
इति हितोपदेशे ।
“अनन्तरमरिं विद्यादरिसेविनमेव च” ।
चक्रं । इति त्रिकाण्डशेषः ॥ खदिरभेदः । तत्प-
र्य्यायः । सन्दानिका २ दाली ३ खदिरपत्रिका ४ ।
अस्य गुणाः । कषायत्वं । कटुत्वं । तिक्तत्वं ।
रक्तार्त्तिपित्तनाशित्वञ्च । इति राजनिर्घण्टः ॥

अरित्रं, क्ली, (ऋच्छत्यनेन, ऋ + इत्र ।) कर्णः ।

हालि इति भाषा । तत्पर्य्यायः । केनिपातकः २ ।
इत्यमरः ॥ केनिपातः ३ । इति भरतः ॥ (“लोलै-
ररित्रैश्चरणैरिवाभितः” । इति माघः ।)

अरिन्दमः, त्रि, (अरीन् शत्रून् कामादीन् वा दाम्यति

दमयति, दम् + अन्तर्भूतण्यर्थे खच् मुम्, उपपद-
समासः ।) शत्रुदमनकारकः । इति मुग्धबोध-
व्याकरणं ।
(“यथाकामं यथोत्साहं यथाकालमरिन्दम ।
सेविता विषयाः पुत्र यौवनेन मया तव” ॥
“ज्ञात्वा तु तद्गृहं सर्व्वमादीप्तं पाण्डुनन्दनाः ।
सुरङ्गां विविशुत्तूर्णं मात्रा सार्द्धमरिन्दमाः” ॥
इति महाभारते ।)

अरिमर्दः, पुं, (अरिं रोगरूपं शत्रुं मृद्नाति, मृद्

+ अण्, उपपदसमासः ।) कासमर्दवृक्षः । इति
राजनिर्घण्टः ॥ (त्रि, शत्रुमर्द्दनकारी ।)

अरिमेदः, पुं, (अरेर्विट्खदिरस्येव मेदः सारः

यस्य सः ।) वृक्षविशेषः । गुइया वावला इति
भाषा । तत्पर्य्यायः । इरिमेदः २ रिमेदः ३
गोधास्कन्दः ४ अरिमेदकः ५ अहिमारः ६ पूति-
मेदः ७ अहिमेदकः ८ विट्खदिरः ९ । अस्य
गुणाः । कषायत्वं । उष्णत्वं । तिक्तत्वं । भूत-
विनाशित्वं । शोथातिसारकासविषवैसर्पनाशि-
त्वञ्च । इति राजनिर्घण्टः ॥
(अस्य व्यवहारो यत्र तदौषधं यथा, --
“तुलां धृतां नीलसहाचरस्य,
द्रोणेऽम्भसः संश्रपयेद्थथावत् ।
पूर्त्त्वा चतुर्भागरसे तु तैलं,
पचेच्छनैरर्द्धपलप्रयुक्तैः ॥
कल्कैरनन्ताखदिरारिमेद-
जम्बाम्रयष्टीमधुकोत्पलानां ।
तत्तैलमाश्वेव धृतं मुखेन,
स्थैर्य्यं द्विजानां विदधाति सद्यः” ॥ * ॥
महासहचरं तैलं ॥ इति वैद्यकचक्रपाणिसंग्रहः ॥)

अरिष्टं, क्ली, (रिष हिंसायां कर्त्तरि क्त, नञ्-

समासः ।) सूतिकागृहं । (“अरिष्टशय्यां परितो
विसारिणा सुजन्मनस्तस्य निजेन तेजसा” । इति
रघुवंशे ।) अशुभं । तक्रं । मरणचिह्नं । (यदुक्तम्,
“रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते ।
तल्लक्षणमरिष्टं स्याद् रिष्टमप्यभिधीयते” ॥)
शुभं । इति मेदिनी ॥ उपद्रवः । तत्पर्य्यायः । उप-
लिङ्गः २ उपसर्गः ३ अजन्यं ४ ईतिः ५ उत्पातः ६ ।
इति हेमचन्द्रः ॥ (मद्यं । यथा । द्राक्षारिष्टं ।
दशसूलारिष्टं । वव्वूलारिष्टं ।
“अरिष्टं लघुपाकेन सर्व्वतश्च गुणाधिकम् ।
अरिष्टस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ॥
इति वैद्यके ।)
(“मरणचिह्नार्थे लक्षणं यथा । नियतमरणा-
ख्यापकलिङ्गं ॥ इति माधवसंगृहीतरोगविनि-
श्चयग्रन्थटीकाकृद्विजयरक्षितः ॥ * ॥ तत्र प्रकृत-
वर्णोऽर्द्धशरीरे विकृतवर्णोऽर्द्धशरीरे द्वावपि वर्णौ
मर्य्यादाविभक्तौ दृष्ट्वा यद्येवं सव्यदक्षिणविभा-
गेन यद्येवं पूर्ब्बपश्चिमविभागेन यद्युत्तराधर-
विभागेन यद्यन्तर्वहिर्विभागेनातुरस्यारिष्टमिति
विद्यात्” ॥ इति चरकः ।
“शरीरशीलयोर्यस्य प्रकृतेर्विकृतिर्भवेत् ।
तत्त्वरिष्टं समासेन व्यासतस्तु निबोध मे” ॥
इति च सुश्रुतः ॥)

अरिष्टः, पुं, (रिष हिंसायां कर्त्तरि क्त, नञ्समासः ।)

लशुनः । निम्बः । फेनिलवृक्षः । काकः । कङ्क-
पक्षी । इति मेदिनी । वृषभासुरः । इत्यनेकार्थ-
ध्वनिमञ्जरी ॥ मद्यविशेषः । इक्षुविकारसहिता-
भयाचित्रकदन्तीपिप्यल्यादिभूरिभेषजक्वाथादिसं-
स्कारवान् अरिष्टोऽभिधीयते । इति सुश्रुतटीका ॥
अस्य गुणः । अर्शःशोथग्रहणीकफरोगनाशित्वं ।
इति राजवल्लभः ॥
(“द्रवेषु चिरकालस्थं द्रव्यं यत्संहितं मवेत् ।
आसवारिष्टभेदैस्तत् प्रोच्यते भेषजोचितं ॥
यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः ।
अरिष्टः क्वाथसिद्धः स्यात्तयोर्मानिं पलोन्मितं” ॥
इति शार्ङ्गधरः ॥ गुणोऽस्य यथा चरकेणोक्तः ॥
“शोकार्शोंग्रहणीदोषपाण्डुरोगारुचिज्वरान् ।
हन्त्यरिष्टः कफकृतान्रोगान् रोचनदीपनः ॥ * ॥
दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः ।
भागान् पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥
त्रिफलाया दलानाञ्च प्रक्षिप्य त्रिपलं ततः ।
रसे चतुर्थशेषे तु पूते शीते समावपेत् ॥
तुलां गुडस्य तत्तिष्ठेत् मासार्द्धं घृतभाजने ।
तन्मात्रया पिबेन्नित्यं अर्शोभ्योऽपि प्रमुच्यते ॥
ग्रहणीपाण्डुरोगघ्नं वातवर्ञ्चोऽनुलोमनं ॥
दीपनञ्चारुचिघ्नञ्च दन्त्यरिष्टमिदं विदुः” ॥
इति दन्त्यरिष्टः । इति चरकः ॥
“अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ।
बहुदोषहरश्चैव दोषाणां शमनश्च सः ॥
दीपनः कफवातघ्नः सरः पित्तविरोधनः ।
शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः” ॥
इति सुश्रुतश्च ॥)

अरिष्टकः, पुं, (अरिष्ट एव स्वार्थेक ।) फेनिलवृक्षः,

इति शब्दरत्नावली ॥ रीठाकरञ्ज इति ख्यातः ।
अरिष्टशब्दार्थोऽप्यत्र ॥ रिठा इति भाषा । (अस्य
गुणा यथा, --
“अरिष्टकस्त्रिदोषघ्नो ग्रहजिद्गर्भपातनः” ।
इति । एतत्फलचूर्णौर्हि कुतपानां नेपालदेशीय-
कम्बलानामित्यर्थः प्रक्षालनात् शुद्धिर्भवतीति शा-
स्त्रविदां मतम् । यदुक्तं मनुना,
“कौषेयाविकयोरूषैः कुतपानामरिष्टकैः ।
श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः” ॥ इति ।)

अरिष्टतातिः, त्रि, (अरिष्ट + तातिल् ।) क्षेमङ्क-

रः । शुभङ्करः । इति भूरिप्रयोगः ॥ (स्त्री, शुभा-
शंसनं । सौभाग्यबुद्धिः । कुशलातिशय्यं । “तदत्र-
भवता निष्पन्नाशिषां काममरिष्टतातिमाशा-
स्महे” । इति महावीरचरिते ।)

अरिष्टदुष्टधीः, त्रि, (अरिष्टेन मरणसूचकनिमित्तेन

दुष्टा धीरस्य ।) आसन्नमरणसूचितलक्षणेन दू-
षितबुद्धिः । मरणकुबुद्धियुक्तः । तत्पर्य्यायः ।
विवशः २ । इत्यमरः ॥

अरिष्टनेमिः, पुं, (अरिष्टस्य नेमिः, षष्ठीतत्पुरुषः ।)

जिनानां चतुर्व्विंशत्यन्तर्गतद्वाविंशतितीर्थङ्करः ।
इति हेमचन्द्रः ॥ (विनतागर्भसम्भूतः स्वनामख्यातः
कश्यपमुनिपुत्त्रः, यथा हरिवंशे,
“तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्च महाबलः ।
अरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” ॥
वृष्णेः प्रपौत्रश्चित्रकस्य पुत्रः स्वनामख्यातो राजा,
यथा, हरिवंशे,
“चित्रकस्याभवन् पुत्राः पृथुर्विपृथुरेव च ।
अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ ।
अरिष्टनेमिरश्वश्च सुधर्म्मा धर्म्मभृत्तथा” ॥
स्वनामख्यातः प्रजापतिः । यथा रामायणे,
आदिकाले महाबाहो ये प्रजापतयोऽभवन् ।
दक्षो विवस्वानपरोऽरिष्टनेमिस्तथैव च ।
कश्यपश्च महाभागस्तेषामासीदपश्चिमः” ॥)

अरिष्टसूदनः, पुं, (अरिष्टं तन्नामानमसुरं सूदयति

यः, अरिष्टस्य सूदनः नाशक इति वा ।) विष्णुः ।
इति त्रिकाण्डशेषः ॥ शुभाशुभनाशके त्रि ॥
(कृष्णः । स खलु माथुरे कल्पे अरिष्टनामानमसुरं
सूदितवान् ।)

अरिष्टा, स्त्री, (अरिष्ट + स्त्रियां टाप् ।) कटुका ।

इति राजनिर्घण्टः ॥ कट्की इति भाषा । (स्वनाम-
ख्याता कश्यपपत्नी, सा हि सर्व्वान् गन्धर्व्वान्
जनयामास । यथा, --
“अरिष्टा तु महासत्वान् गन्धर्व्वानामितौजसः” ॥
इति हरिवंशे ।)

अरुः, [स्] पुं, (ऋ + उसि ।) सूर्य्यः । इत्युणादि-

कोषः ॥ रक्तखदिरः । इति राजनिर्घण्टः ॥

अरुः, [स्] पुं, क्ली, (ऋ + उस् ।) व्रणं । क्षतं ।

इत्यमरः ॥

अरुः, [स्] व्य, (ऋ + उसि ।) मर्म्म । सन्धि-

स्थानं । इत्युणादिकोषः ॥

अरुचिः, पुं, (न रुचिर्यत्र सः ।) रोगभेदः ।

स च सत्यभिलाषेऽभ्यवहारासामर्थ्यरूपः । इति
रक्षितः ॥ तत्पर्य्यायः । अरोचकः २ अश्रद्धा ३
अनभिलाषः ४ । इति राजनिर्घण्टः ॥
(“दोषैः पृथक् सह च चित्तविपर्य्ययाञ्च,
पृष्ठ १/०९६
:भक्तायनेषु हृदि चावतते प्रगाढं ।
नान्ने रुचिर्भवति तं भिषजो विकारं,
भक्तोपघातमिह पञ्चविधं वदन्ति” ॥
इति सुश्रुतः । अलङ्कारशास्त्रोक्तदशविधस्मर-
दशामध्ये परिगणितो वस्तुवैराग्यरूपः स्मरदशा-
विशेषः, यथा साहित्यदर्पणे, --
“अङ्केष्वसौष्ठवं तापः पाण्डुता कृशताऽरुचिः ।
अरुचिर्वस्तुवैराग्यं सर्व्वत्रारागिता धृतिः” ॥

अरुजः, पुं, (रुजति, रुज् + क, नञ्समासः ।) आर-

ग्बधवृक्षः । इति राजनिर्घण्टः ॥ सोँदालि इति
भाषा । (स्वनामख्यातदानवविशेषः ।
“प्रह्लादोऽश्वशिराः कुम्भः संह्रादो गगनप्रियः ।
अनुह्रादो हरिहरौ वराहः संहरोऽरुजः” ॥
इति हरिवंशे ।)

अरुणं, क्ली, (ऋ + उनन् ।) कुङ्कुमं । सिन्दूरं । इति

राजनिर्घण्टः ॥

अरुणः, पुं, (ऋ + उनन् ।) सूर्य्यसारथिः । स तु

विनतापुत्रः गरुडज्येष्ठभ्राता च । तत्पर्य्यायः ।
सूरसूतः २ अनूरुः ३ काश्यपिः ४ गरुडाग्रजः ५
सूर्य्यः । अर्कवृक्षः । अव्यक्तरागः । ईषद्रक्तवर्णः ।
इत्यमरः । सन्ध्यारागः । शब्दरहितः । कपिल-
वर्णः । कुष्ठभेदः । अरुणगुणविशिष्टे तु वाच्य-
लिङ्गः । इति मेदिनी ॥ पुन्नागवृक्षः । गुडः ।
इति राजनिर्घण्टः ॥ (कपिलवर्णयुक्तः । कृष्ण-
मिश्रितरक्तवर्णविशिष्टः ।
“कपोताङ्गारुणो धूमो दृश्यते विमलाम्बरे” ।
इति रामायणे ।)

अरुणकमलं, क्ली, (कृष्णसर्पैत्यादिवत् नित्यकर्म्म-

धारयः ।) रक्तोत्पलं । इति राजनिर्घण्टः ॥

अरुणलोचनः, पुं, (अरुणे रक्ते लोचने यस्य सः ।)

पारावतः । इति राजनिर्घण्टः ॥

अरुणसारथिः, पुं, (अरुणः गरुडाग्रजः सारथिर्यस्य

सः ।) सूर्य्यः । इति हेमचन्द्रः ॥

अरुणा, स्त्री, (अरुण + स्त्रियां टाप् ।) अतिविषा ।

श्यामा । मञ्जिष्ठा । त्रिवृता । इति मेदिनी ॥
इन्द्रवारुणी । गुञ्जा । इति राजनिर्घण्टः ॥ मुण्डि-
तिका । इति रत्नमाला ॥

अरुणात्मजः, पुं, (अरुणस्य आत्मजः, षष्ठीतत्पुरुषः ।)

जटायुपक्षी । इति त्रिकाण्डशेषः ॥

अरुणावरजः, पुं, (अरुणस्य अवरजः षष्ठीतत्पुरुषः ।)

गरुडः । इति हेमचन्द्रः
(“अरुणावरजं श्रीमानारुरोह रणे हरिः ।
सुवर्णं स्वेन वपुषा सुपर्णं खेचरोत्तमम्” ॥
इति हरिवंशे ।)

अरुणोदयः, पुं, (अरुणस्य बालादित्यस्य उदयो यत्र

सः ।) सूर्य्योदयात् पूर्ब्बं मुहूर्त्तद्वयकालः । यथा, --
“चतस्रो घटिकाः प्रातररुणोदय उच्यते ।
यतीनां स्नानकालोऽयं गङ्गाम्भःसदृशः स्मृतः” ॥
इति ब्रह्मवैवर्त्तपुराणं ॥ (यदुक्तं, --
“रजनीशेषयामस्य शेषार्द्धमरुणोदयः” । इति ।
“मॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये” ।
इति मनुः ।)

अरुणोदयसप्तमी, स्त्री, (अरुणोदयकाले पुण्य-

विशेषजनिका या सप्तमी ।) माघशुक्लसप्तमी ।
माकरी सप्तमी । यथा । भविष्ये ।
“सूर्य्यग्रहणतुल्या हि शुक्ला माघस्य सप्तमी ।
अरुणोदयवेलायां तस्यां स्नानं महाफलं ॥
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा ।
दद्यात् स्नानार्घदानाभ्यामायुरारोग्यसम्पदः ॥
अरुणोदयवेलायां शुक्ला माघस्य सप्तमी ।
गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा” ॥
कोटिभास्करा कोटिसप्तमीतुल्या । सूर्य्यग्रहण-
फलं स्नानजं सन्निहिते बुद्धिरन्तरङ्गा इति
न्यायात् । तेन बहुशतसूर्य्यग्रहणकालीनगङ्गा-
स्नानजन्यफलसमफलप्राप्तिः फलमत्र ज्ञेयं । अत्र
बहुशतसूर्य्यग्रहाणां प्रत्येकाधिकरणतासंसर्गे-
णान्वयात् कालानां स्नानानां तत्फलानामपि बहु-
शतत्वं लभ्यते । अतो नाप्रसिद्धिः ॥ * ॥ पूर्ण-
सप्तम्यां पूर्ब्बापरयोर्यत्रारुणोदयकाले सप्तमी तत्र
पूर्ब्बदिने तत्काले स्नानं ।
“चतस्रो घटिकाः प्रातरुणोदय उच्यते ।
यतीनां स्रानकालोऽयं गङ्गाम्भःसदृशः स्मृतः ॥
त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टयं ।
नाडीनां तदुभे सन्ध्ये दिवसाद्यन्तसंज्ञिते” ॥
इति कालमाधवीयधृतब्रह्मवैवर्त्तीयेन पूर्ब्बस्य तत्-
कालस्य पूर्णतिथिसम्बन्धिदिनकर्त्तव्यकर्म्माङ्गत्वेन
इतरस्य चेतराङ्गत्वेनाभिधानात् । अतएव दक्षेण
तत्कालमारभ्याह्निककृत्यमभिहितं ॥ * ॥ अत्रा-
रुणोदयकाले मुहूर्त्तान्यूनतिथिलाभ एव स्नानं ।
“व्रतोपवासस्नानादौ घटिकैका यदा भवेत् ।
उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” ॥
इति विष्णुधर्म्मोत्तरात् । अत्र घटिका मुहूर्त्तं
श्राद्धयोग्यकालानुरोधादिति वक्ष्यते । ब्रह्मवैवर्त्त-
वचने घटिका दण्डरूपा । षरवचने नाडीनामा-
द्यन्तचतुष्टयमित्येकवाक्यत्वात् ॥ * ॥ ये तु सूर्य्यो-
दयात् प्रागपि प्रातःस्नानविधानात् तत्रैव माघ-
सप्तम्याख्यगुणफलविधिर्लाघवादित्याहुस्तच्चिन्त्यं ।
प्रकरणान्यत्वे प्रयोजनान्यत्वं इति जैमिनिसूत्रेण
प्रकरणमेदे गुणविध्यसिद्धेः । अतएव कल्पतरु-
रत्नाकरयोः ।
“य इच्छेद्विपुलान् भीगान् चन्द्रसूर्य्यग्रहोपमान् ।
प्रातःस्नायी भवेन्नित्यं द्वौ मासौ माघफाल्गुनौ” ॥
इति । विष्णुस्मृतौ । “यथाहनि तथा प्रातर्नित्यं
स्नायादनातुरः” । इति नित्यस्नानप्रकरणात् प्रक-
रणान्तरास्नानात् प्रकरणान्तराधिकरणन्यायेन
काम्यस्नानान्तरमिदमप्युक्तं । न तु गुणफलविधिः ।
किन्तु काम्यकरणे प्रसङ्गान्नित्यसिद्धिरिति ॥ * ॥
अत्र माघमासनिमित्तकमाघसप्तमीनिमित्तक-
काम्यस्नानयोः प्रातर्विधानात् नैमित्तिकत्वेन प्राय-
श्चित्तवत् सकृदनुष्ठानं । “प्रधानस्याक्रिया यत्र
साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तु
नावृत्तिर्न च तत्क्रिया” ॥ इति कात्यायनवचनात् ।
“न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न वासोमिः सहाजस्रं नाविज्ञाते जलाशये” ॥
इति मनुवचनेनैकदाजस्रस्नाननिषेधात् ।
“धर्म्मविन्नाचरेत् स्नानमाह्निकञ्च पुनः पुनः” ॥
इति मनुवचनाच्च । अतएव नान्दीमुखप्रकरण-
शेषे प्रधानानामपि काम्यानां तत्तद्देशकाल-
विहितानां तन्त्रेणैव सिद्धिरिति श्राद्धचिन्ता-
मणिः ॥ निष्कामविष्णुप्रीतिकामयोः सुतरां सकृ-
दनुष्ठानं । गुणतारतम्यात् फलतारतम्यं इति
न्यायेन फलं बोध्यं । तत्तु इक्षुक्षीरगुडादिमाधुर्य्य-
भेदवन्निर्द्देष्टुमशक्यं ।
“पक्षान्तरेऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यत ।
कन्यागते पञ्चमे तु विशेषेणैव कारयेत्” ॥
इति हेमाद्रिधृतादित्यपुराणोक्तवत् । एतद्वचन-
प्रागर्द्धं कार्त्तिकमलमासाब्दविषयं ।
“देशकालाश्रमक्षेत्रद्रव्यदातृमनोगुणाः ।
सुकृशस्यापि दानस्य फलातिशयहेतवः” ॥
इति ब्रह्मपुराणोक्तवच्च ॥ * ॥ तीर्थभेदे त्वेकदापि
नानास्नानं ।
“विषुवद्दिवसे प्राप्ते पञ्चतीर्थी विधानतः” ।
इति ब्रह्मपुराणादिवचनात् । “तीर्थभेदे तन्त्र-
प्रसङ्गयोरसम्भवाच्च” । अतएव गङ्गावाक्यावली-
तीर्थचिन्तामण्योः । यत्तु प्रयागे त्र्यहस्नाने क्रोडी-
कृतेऽपि माघसप्तमीस्नानादावसाधारणसङ्कल्पेन
पुनस्तथैव प्रातःस्नानाचरणं तद्युक्तं तदा सकृत्-
स्नानस्यैव विहितत्वात् । अन्यथा तत्त्र्यहफल-
कामनायां तदानन्त्यापत्तेरित्युक्तं ॥ * ॥ स्नाने
परिपाटीमाह कृत्यकल्पलतायां विष्णुः । सप्त-
वदरपत्राणि सप्तार्कपत्राणि च शिरसि निधाय ।
“यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ।
तन्मे रोकञ्च शोकञ्च माकरी हन्तु सप्तमी” ॥
इत्युच्चार्य्य स्नायादितिशेषः । रोकं छिद्रं । तिथि-
कृत्यस्य पौर्णमास्यन्तमासाङ्गकत्वात् माकरीपदं
मकरार्कारब्धचान्द्रमासीयतिथिपरं ।
“तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च ।
विवाहादौ च सौरादिं मासं कृत्ये विनिर्द्दिशेत्” ॥
इति ब्रह्मपुराणान्मन्वन्तरादित्वेन तथा युक्त-
त्वाच्च । यथा मत्स्यपुराणे ।
“यस्मान्मन्वन्तरादौ तु रथमापुर्द्दिवाकराः ।
माघमासस्य सप्तम्यां तस्मात् सा रथसप्तमी ॥
अरुणोदयवेलायां तस्यां स्नानं महाफलं” ।
अतएव नारसिंहे रथ्याख्यायामित्युक्तं । यथा, --
“महानवम्यां द्वादश्यां भरण्यामपि चैव हि ।
तथाक्षयतृवीयायां शिष्यान्नाध्यापयेद्बुधः ॥
माघमासे तु सप्तम्यां रथ्याख्यायान्तु वर्ज्जयेत्” ।
द्वादश्यां शयनोत्थानद्वादश्यां । भरण्यां शक्रध्वज-
पातभरण्यामिति कल्पतरुः ॥ अत्र महानवम्यादि-
साहचर्य्याच्चान्द्रत्वं प्रतीयते । अतएव चतुर्द्दश-
मन्वन्तरादिगणने क्वापि न राश्युल्लेखः । यथा ।
भविष्यमत्स्ययोः ।
“अश्वयुक् शुक्लनवमी द्वादशी कार्त्तिकी तथा ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥
फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।
आषाढस्यापि दशमी तथा माघस्य सप्तमी ॥
पृष्ठ १/०९७
:श्रावणस्याष्टमी कृष्णा तथाषाढस्य पूर्णिमा ।
कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥
मन्वन्तरादयस्त्वेता दत्तस्याक्षयकारिकाः” ।
अत्र अमावास्याष्टमीव्यतिरिक्ताः शुक्लाः पुनः-
पुनस्तथापदोपाकीर्त्तनादानात् । उपक्रमोपसंहा-
रयोः शुक्लत्वकीर्त्तनाच्च ॥ अत्र कामधेनौ तृतोया
चैव माघस्येति । कल्पतरौ तु तृतीया चैत्रमास-
स्येति लिखितं । अत्र पाठद्वैधे श्रीपतिरत्नमा-
लायां । “अश्वयुजि शुक्लनवमी द्वादश्यूर्ज्जे मधौ
तृतीया च” । इति पाठाच्चैत्रतृतीयैव ग्राह्या ।
श्रीदत्तोऽप्येवं । माघसप्तम्याश्चान्द्रत्वं सौरागमेऽपि ।
“अर्कपत्रैः सवदरैर्दूर्व्वाक्षतसचन्दनैः ।
अष्टाङ्गविधिना चार्घ्यं दद्यादादित्यतुष्टये ॥
माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी ।
माकरीति च यत्प्रोक्तं तत्प्रायोवृत्तिदर्शनात्” ॥
अष्टाङ्गविधिना ।
“योऽष्टाङ्गमर्घ्यमापूर्य्य भानोर्मूर्ध्नि निवेदयेत् ।
ताम्रपात्रार्घ्यदानेन पुण्यं दशगुणं स्मृतं” ॥
इति भविष्यपुराणीयेन । आदित्यपुराणे ।
“ऋक्षराशिविशेषेण यत्कर्म्म विहितं नरैः ।
दैवं वाप्यथवा पैत्र्यं तदन्यत्रापि दृश्यते” ॥ * ॥
अर्घ्यमन्त्रस्तु ।
“जननी सर्व्वभूतानां सप्तमी सप्तसप्तिके ।
सप्तव्याहृतिके देवि ! नमस्ते रविमण्डले” ॥
प्रणाममन्त्रस्तु ।
“सप्तसप्तिवहप्रीत सप्तलोकप्रदीपन ।
सप्तम्यां हि नमस्तुभ्यं नमोऽनन्ताय वेधसे” ॥
सप्तिरश्वः । इति तिथ्यादितत्त्वं ॥

अरुणोपलः, पुं, (अरुणः उपलः, कर्म्मधारयः ।)

रक्तवर्णमणिविशेषः । चुनी इति भाषा । तत्प-
र्य्यायः । पद्मरागः २ लोहितकः ३ लक्ष्मीपुष्पः ४ ।
इति हेमचन्द्रः ॥

अरुन्तदः, त्रि, (अरूंषि मर्म्माणि तुदति, तुद् +

खश् + मुम् च ।) मर्म्मपीडकः । तत्पर्य्यायः ।
मर्म्मस्पृक् २ । इत्यमरः ॥ (परुषः । कठोरः ।
श्रवणकटुः । “माकन्दं मकरन्दतुन्दिलममुं गा-
हस्व काकः स्वयं कर्णारुन्तुदमन्तरेण रुणितं
त्वां मन्महे कोकिलं” । इति भामिनीविलासे ।
मर्म्मपीडाकरः । हृदयग्रन्थिरूपमर्म्मस्थानस्पर्श-
कारी । यथा,
“नारुन्तुदः स्यादार्त्तोऽपि न परद्रोहकर्म्मधीः” ।
इति मनुः ।
“तीक्ष्णा नारुन्तुदा बुद्धिः कर्म्म शान्तं प्रतापवत्” ।
इति माघः
“अरुन्तुदमिवालानमनिर्व्वाणस्य दन्तिनः” ।
इति रघुवंशे ।)

अरुन्धती, स्त्री, (न रुन्धती ।) वशिष्ठपत्नी । तत्प-

र्य्यायः । अक्षमाला २ । इति हेमचन्द्रः ॥ सा
कर्दममुनिकन्या महासाध्वी । इति श्रीभागवतं ॥
आकाशे सप्तर्षिमध्ये वशिष्ठसन्निधौ तस्या उदयः ।
गतायुषस्तां नं पश्यन्ति । (यदुक्तं, --
“दीपनिर्व्वाणगन्धञ्च सुहृद्वाक्यमरुन्धतीं ।
न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः” ॥
यथा च सुश्रुते, --
“न पश्यति स नक्षत्रां यश्च देवीमरुन्धतीं ।
ध्रुवमाकाशगङ्गां वा तं वदन्ति गतायुषं” ॥)
सप्तपदीगमनानन्तरं जामाता मन्त्रं पाठयन् बधूं
तां दर्शयति च ॥

अरुन्धतीजानिः, पुं, (अरुन्धती जाया यस्य सः,

निङ् ।) वशिष्ठमुनिः । इति हेमचन्द्रः ॥

अरुन्धतीनाथः, पुं, (अरुन्धत्या नाथः, षष्ठीतत्-

पुरुषः ।) वशिष्ठमुनिः । इति त्रिकाण्डशेषः ॥

अरुष्कः, पुं, (अरुर्म्मर्म्मस्थानं कायति पीडयति,

कै + क ।) भल्लातकवृक्षः । इति शब्दरत्नावली ॥

अरुष्करं, क्ली, (अरुः करोति अरुः + कृ + ट, उप-

पदसमासः षत्वं ।) भल्लातकफलं । इति हेम-
चन्द्र ॥

अरुष्करः, पुं, (अरुः करोति, अरुः + कृ + ट, षत्वं

उपपदसमासः ।) भल्लातकवृक्षः । इति शब्द-
रत्नावली ॥

अरुष्करः, त्रि, (अरुः करोति, अरुः + कृ + ट,

षत्वं, उपपदसमासः ।) व्रणकरः । क्षतकारकः ।
इति मेदिनी ॥

अरुहा, स्त्री, (रोहति, रुह + क, नञ्समासः ।)

भूधात्री । इति राजनिर्घण्टः ॥ भूमि आमला
इति ख्याता ।

अरूपः, त्रि, (नास्ति रूपमस्य ।) रूपशून्यः ।

यथा । “अरूपवातातीसारादाविवारुण्यं” । इति
रक्षितः ॥ कुत्सितरूपः ।
(“इमामरूपामसतीं भक्षयिष्याम मानुषीम्” ।
इति रामायणे ।)

अरूषः, पुं, (ऋ + ऊषन् ।) सर्पविशेषः । इत्युणादि-

कोषः ॥ सूर्य्यः । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

अरे, व्य, (ऋ + ए ।) नीचसम्बोधनं । इति हेम-

चन्द्रः ॥ ओरे इति भाषा । अपाकृतिः । असूया ।
इति मेदिनी ॥ (रोषाह्वाने । अपकृतौ । “अरे
चेतोमीन ! भ्रमणमधुना यौवनजले त्यज त्वं
स्वच्छन्दं युवतिजलधौ पश्यसि न किम्” । इति
शान्तिशतके । “अरे अनुड्वन् ! निरपराधराज-
कुलकदन महापातकिन् अशिष्टविकृतचेष्ट !”
इति महावीरचरिते ।)

अरेरे, व्य, (अरे + वीप्सायां द्विरुक्तिः ।) अधम-

सम्बोधनं । इति जटाधरः ॥ सक्रोधाह्वानं । इति
शब्दमाला ॥

अरोकः, त्रि, (रुच् + घञ्, नञ्समासः ।) निष्प्रभः ।

दीप्तिरहितः । इत्यमरः ॥ रोकश्छिद्रन्तद्रहितश्च ॥

अरोचकः, पुं, (न रोचयति प्रीणयति, रुच् +

णिच् + ण्वुल्, नञ्समासः ।) रोगविशेषः ।
अरुचिरोग इति भाषा । तस्य निदानरूपे ।
“वातादिभिः शोकभयातिलोभ-
क्रोधैर्मनोघ्नाशनरूपगन्धः ।
अरोचकाः स्युः परिशिष्टदन्तः
कषायवक्त्रोऽस्य मतोऽनिलेन ॥
कद्वम्लमुष्णं विरसञ्च पूति
पित्तेन विद्याल्लवणञ्च वक्त्रं ।
माधुर्य्यपैच्छिल्यगुरुत्वशैत्य-
विबद्धसम्बन्धयुतं कफेन” ॥ इति माधवकरः ॥
अरोचकाः न भोजने रुचिमुत्पादयन्तीत्यरोचका
व्याधयः पञ्च वातजादिभेदैः ॥ * ॥ वातिकस्य ल-
क्षणमाह । परिहृष्टदन्तः अम्लभक्षणेनेव परि-
हृष्टो दन्तो यत्र सः । तथा कषायवक्त्रः । कषाय-
रसं वक्त्रं यत्र सः ॥ * ॥ पैत्तिकमाह ।
“कट्वम्लमुष्णं विरसञ्च पूति
पित्तेन विद्याल्लवणञ्च वक्त्रं” ।
कट्वम्लमित्यादिना विद्यादित्यन्तेन पैत्तिकस्य ल-
क्षणं ॥ * ॥ श्लैष्मिकमाह । लवणञ्च वक्त्रं कफज-
लक्षणेन पठनीयः । यतो विदग्धः श्लेष्मा लवण-
भावमुपैति ।
“माधुर्य्यपैच्छिल्यगुरुत्वशैत्य-
स्निग्धत्वदौर्गन्धयुतं कफेन” ।
पैच्छिल्यं मुखस्याभ्यन्तरे । स्निग्धत्वं वहिः ॥ * ॥
आगन्तुजमाह ।
“अरोचके शोकभयातिलोभात्
क्रोधाद्यहृद्याशुचिगन्धजे स्यात् ।
स्वाभाविकं चास्यमथारुचिश्च
त्रिदोषजे नैकरसम्भवेच्च” ॥
क्रोधादित्यादिशब्देनाहृद्ययोरशनरूपयोर्ग्रहणं ।
स्वाभाविकं । अविकृतरसं ॥ * ॥ त्रिदोषजमाह ।
नैकरसं अनेकरसमास्यं स्यात् । वातजादिभेदेन
मुखे विकृतिमभिधायान्यदेशे विकृतिमाह ।
“हृच्छ्रलपीडनयुतं पवनेन पित्तात्
तृड्दाहचोषबहुलं सकफप्रसेकं ।
श्लेष्मात्मकं बहुरुजं बहुभिश्च विद्यात्
वैगुण्यमोहजडताभिरथापरञ्च” ॥
हृच्छलपीडनयुतं हृदि शूलेन पीडनं तेन युतं ।
चोषः पार्श्वस्थिताग्निनेव सन्तापः । बहुभिस्त्रिभि-
र्दोषैः । बहुरुजं उक्तवातादिरोगयुक्तं । वैगुण्यं
मनसो व्याकुलत्वं । जडता शून्याङ्गता । अपरं
आगन्तुजं । भक्तद्वेषाभक्तच्छन्दौ चरकसुश्रुताभ्या-
मरोचकत्वेनैव संगृहीतौ ॥ * ॥ वृद्धभोजस्त्वेषां
लक्षणानि पृथगाह ।
“प्रक्षिप्तन्तु मुखे चान्नं यत्र नास्वादते नरः ।
अरोचकः स विज्ञेयो भक्तद्वेषमतः शृणु” ॥
आस्वादते अन्नस्य मिष्टतां न प्राप्नोति । तदन्नं
मिष्टं न लगति इति यावत् ।
“चिन्तयित्वा तु मनसा दृष्ट्वा स्पुष्ट्वा च भोजनं ।
द्वेषमायाति योजन्तुर्भक्तद्वेषः स उच्यते ॥
कुपितस्य भयार्त्तस्य तथा भक्तनिरोधतः ।
यत्र नान्ने भवेच्छुद्धः सोऽभक्तच्छन्द उच्यते” ॥ * ॥
अथारोचकस्य चिकित्सा ।
“भोजनाग्रे सदा पथ्यं लवणार्द्रकभक्षणं ।
रोचनं दीपनं वह्नेर्जिह्वाकण्ठविशोधनं ॥ १ ॥
शृङ्गवेररसञ्चापि मधुना सह योजयेत् ।
अरुचिश्वासकासघ्नं प्रतिश्यायकफापहं ॥ २ ॥
पक्वाम्लिका सिता शीतवारिणा वस्त्रगालिता ।
पृष्ठ १/०९८
:एलालवङ्गकर्पूरमरिचैरवधूलिता ॥
पानकस्यास्य गण्डूषं धारयित्वा मुखे मुहुः ।
अरुचिं नाशयत्येव पित्तं प्रशमयेत्तथा” ॥
अम्लिकापानं ॥ ३ ॥
“राजिका जीरको भृष्टो भृष्टं हिङ्गु सनागरं ।
सैन्धवं दधि गोः सर्व्वं वस्त्रपूतं प्रकल्पयेत् ॥
तावन्मात्रं क्षिपेत्तत्र यथा स्याद्रुचिरुत्तमा ।
तक्रमेतद्भवेत् सद्व्यो रोचनं वह्निवर्द्धनं” ॥
तक्रं ॥ ४ ॥
“गव्यमावर्त्तितं दुग्धं निबद्धं दधि माहिषं ।
एकीकृत्य पटे घृष्टं शुभ्रशर्क्करया समं ॥
एलालवङ्गकर्पूरमरिचैश्च समन्वितं ।
नाम्ना शिखरिणी कुर्य्यात् रुचिं सकलवल्लभा ॥
शिखरिणी ॥ ५ ॥
द्वे पले दाडिमादष्टौ खण्डाद्व्योषंपलत्रयं ।
त्रिसुगन्धिपलञ्चैकं चूर्णमेकत्र कारयेत् ॥
तच्चूर्णं मात्रया भुक्तमरोचकहरं परं ।
दीपनं पाचनञ्च स्यात् पीनसज्वरकासजित्” ॥
दाडिमादिचूर्णं ॥ ६ ॥
“लवङ्गकक्कोलमुशीरचन्दनं
नतं सनीलोत्पलकृष्णजीरकं ।
जलं सकृष्णागुरुभृङ्गकेसरं
कणा सविश्वा नलदं सहैलया ॥
तुषारजातीफलवंशरोचना-
सिताभ्रभागाः सकलं विचूर्णितं ।
सुरोचनं तर्पणमग्निदीपनं
बलप्रदं वृष्यतमन्त्रिदोषजित् ॥
उरोविबन्धं तमकं गलग्रहं
सकासहिक्कारुचियक्ष्मपीनसं ।
ग्रहण्यतीसारमुरक्षतं तृषां
तथा प्रमेहान्निखिलान्निहन्ति हि” ॥
कक्कोलं फलं सुगन्धविशेषः । नतं तगरं । जलं
बालकं । भृङ्गं त्वक् । नलदमुशीरं । तुषारः कर्पूरः ।
लवङ्गादिचूर्णं ॥ ७ ॥ इत्यरोचकाधिकारः । इति
भावप्रकाशः ॥
(“यवागूः पञ्चकोलस्य कुलत्थाढक्ययूषकं ।
मुद्गयूषेण वा सम्यक् भक्तानां भोजनं हितं ॥
सहिङ्गुत्र्युषणाढ्यञ्च व्यञ्जनं संप्रशस्यते ।
अगस्तिघृतवत् श्रेष्ठं भोजनारोचकेष्वपि ॥
कारवेल्लं पटोलञ्च पलाण्डुः शुरणं शठी ।
लवणं धान्यकं श्रेष्ठं प्रलेहञ्च कटुत्रिकं ॥
शठीसर्षपवास्तूकं शतपुष्पा यमानिका ।
तुण्डीरकस्य मूलानां शाकं श्रेष्ठं प्रशस्यते ॥
गोधूमपुलिका श्रेष्ठा भृष्ट्वाङ्गारैररोचके ।
जाङ्गलानि च मांसानि भोजयेद्भिषगूत्तमः” ॥
इति हारीतोक्तपथ्यादिनियमः ॥ * ॥
“अरुचौ कवलो ग्राह्यो धूमाः समुखधावनाः ।
मनोज्ञमन्नपानञ्च हर्षणाश्वासनानि च ॥
कुष्ठसौवर्च्चलाजाजी शर्करामरिचं विडं ।
धात्रेलापद्मकोशीरपिप्पल्युत्पलचन्दनं ॥
लोध्रं तेजोवती पथ्या त्र्यूषणं सयवाग्रजं ।
आर्द्रा दाडिमनिर्य्यासाश्चाजाजी शर्करायुतः ॥
सतैलमाक्षिकास्त्वेते चत्वारः कवलग्रहाः ।
चतुरोऽरोचकान् हन्युर्व्वाताद्येकजसर्व्वजान् ॥
कारवी मरिचाजाजी द्राक्षावृक्षाम्लदाडिमं ।
सौवर्ञ्चलं गुडं क्षौद्रं सर्व्वारोचकनाशनं ॥
वस्तिः समीरणे पित्ते विरेकं वमनं कफे ।
कुर्य्याद्धृद्यानुकूलानि हर्षणञ्च मनोघ्नजे” ॥
इति चरकोक्तास्यचिकित्सा । सनिदानलक्षणां चि-
कित्साञ्चाह ॥ * ॥ सुश्रुतः ।
“दोषैः पृथक् सह च चित्तविपर्य्ययाञ्च,
भक्तायनेषु हृदि चावतते प्रगाढं ।
नान्नेऽरुचिर्भवति तं भिषजो विकारं,
भक्तोपघातमिह पञ्चविधं वदन्ति ॥
हृच्छूलपीडनयुतं विरसाननत्वं,
वातात्मके भवति लिङ्गमरोचके तु ।
हृद्दाहचोषबहुता मुखतिक्तता च,
मूर्च्छा सतृड् भवति पित्तकृते तथैव ॥
कण्डूगुरुत्वकफसंस्रवसादतन्द्राः,
श्लेष्मात्मके मधुरमास्यमरोचके तु ।
सर्व्वात्मके पवनपित्तकफा बहूनि,
रूपाण्यथास्य हृदये समुदीरयन्ति ॥
संरागशोकभयविप्लुतचेतसस्तु,
चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च” ॥ * ॥
चिकित्सा यथा, --
“वाते वचाम्बु वमनं कृतवान् पिबेच्च,
स्नेहैः सुराभिरथवोष्णजलेन चूर्णं ।
कृष्णाविडङ्गयवभस्महरेणुभार्गी,
रास्नैलहिङ्गुलवणोत्तमनागराणां ॥
पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं,
स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ।
निम्बाम्बुवामितवतः कफजेऽनुपानं,
राजद्रुमाम्बुमधुना तु सदीप्यकं स्यात् ॥
चूर्णं यदुक्तमथवानिलजे तदेव,
सर्व्वैश्च सर्व्वकृतमेवमुपक्रमेत ॥
द्राक्षापटोलविडवेत्रकरीरनिम्ब-
मूर्व्वाभयाक्षवदरामलकेन्द्रवृक्षैः ।
वीजैः करञ्जनृपवृक्षभवैश्च पिष्टै-
र्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ॥
मुस्तां वचां त्रिकटुकं रजनीद्वयञ्च,
भार्गीञ्च कुष्ठमथ निर्दहनीञ्च पिष्ट्वा ।
मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा,
पाठान्तगामतिविषां रजनीञ्च मुख्यां ॥
मण्डूकिमर्कममृताञ्च सलाङ्गलाख्यां,
मूत्रे पचेत्तु महिषस्य विधानविद्वा ।
एतान्न सन्ति चतुरो लिहतस्तु लेहान्,
गुल्मारुचिश्वसनकण्ठहृदामयाश्च ॥
सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्,
पानानि मूलफलषाडवरागयोगान् ।
अद्याद्रसांश्च विविधान् विविधैः प्रकारै-
र्भुञ्जीत वापि लघुरूक्षमनःसुखानि ॥
आस्थापनं विधिवदत्र विरेचनञ्च,
कुर्य्यान्मृदूनि शिरसश्च विरेचनानि ।
त्रीण्यूषणानि रजनीत्रिफलायुतानि,
चूर्णीकृतानि यवशूकविमिश्रितानि ॥
क्षुद्रायुतानि वितरेन्मुखधावनार्थ-
मन्यानि तिक्तकटुकानि च भेषजानि ।
मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः,
क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः ॥
मूत्रासवैर्गुडकृतैश्च तथात्वरिष्टैः,
क्षारासवैश्च मधुमाधवतुल्यगन्धैः ।
स्यादेषएव कफवातहते विधिश्च,
शान्तिं गते हुतभुजि प्रशमाय तस्य ॥
इच्छाभिघातभयशोकहतेऽन्तरग्नौ,
भावान् भवाय वितरेत् खलु शक्यरूपान् ।
अर्थेषु चाप्यपचितेषु पुनर्भवाय,
पौराणिकैः श्रुतिपथैरनुमानयेत्तं ॥
दैन्यं गते मनसि बोधनमत्र शस्तं,
यद्यत् प्रियं तदुपसेव्यमरोचके तु ॥ * ॥
रसगन्धौ समौ शुद्धौ दन्तीक्वाथेन भावयेत् ।
जम्बीरस्य रसैर्वापि आर्द्रकस्य रसेन वा ॥
मातुलुङ्गस्य तोयेन तस्य मज्जरसैर्बुधः ।
पश्चाद्विशोष्य सर्व्वांस्तान् टङ्गणञ्चावचारयेत् ॥
देवपुष्पं बाणमितं रसपादं मृतामृतं ।
मासमात्रञ्च तत् सर्व्वं नागरेण गुडेन वा ॥
सर्व्वारोचकशूलार्त्तिमामवातं सुदारुणं ।
सोऽयं निवारयत्याशु केशरी करिणं यथा” ॥
सुधानिधिरसः ॥ * ॥ इति वैद्यकरसेन्द्रसार-
संग्रहः ॥)

अर्क, क, तापे । (चुरादि उभयपदी सेट् ।) स्तुतौ ।

इति कविकल्पद्रुमः ॥ एकककारः प्रकृतिः पश्चा-
द्रेफनिमित्तकद्वित्वं विभाषया वक्तव्यं । तेन क
अर्कयति अर्क्कयति एवं सर्व्वत्र । इति दुर्गादासः ॥

अर्कः, पुं, (अर्च + कर्म्मणि घञ्, कुत्वम् ।) सूर्य्यः ।

इन्द्रः । ताम्रं । स्फटिकः । इति मेदिनी ॥ पण्डितः ।
इति शब्दरत्नावली ॥ ज्येष्ठभ्राता । इति दण्डा-
दिनाथः ॥ लक्षणया रविवारः । इति ज्योतिघं ॥
वृक्षविशेषः । आकन्द इति भाषा । तत्पर्य्यायः ।
क्षीरदलः २ पुच्छी ३ प्रतापः ४ क्षीरकाण्डकः
५ विक्षीरः ६ क्षीरी ७ खर्ज्जुघ्नः ८ शीतपुष्पकः
९ जम्भनः १० क्षीरपर्णी ११ विकीरणः १२
सदापुष्पः १३ सूर्य्याह्वः १४ आस्फोतकः १५ तूल-
फलः १६ शुकफलः १७ । इति राजनिर्घण्टः ॥
वसुकः १८ आस्फोतः १९ गणरूपः २० मन्दारः
२१ अर्कपर्णः २२ । इत्यमरः ॥ * ॥ अथ श्वेता-
र्कपर्य्यायः । अलर्कः १ राजार्कः २ प्रतापसः ३
गणरूपी ४ ॥ * ॥ अथ रक्तार्कपर्य्यायः । विश्वोरः
१ सदापुष्पी २ रूपिका ३ आदित्यपुष्पिका ४
दिव्यपुष्पिका ५ अर्कः ६ । इति रत्नमाला ॥
अस्य गुणाः । कटुत्वं । उष्णत्वं । अग्निकारित्वं ।
वातशोथव्रणार्शःकुष्ठक्रिमिनाशित्वञ्च । इति राज-
निर्घण्टः ॥ कफदोषनाशित्वं । तीक्ष्णत्वञ्च । अस्य
क्षीरगुणाः । क्रिमिदोषव्रणनाशित्वं । कुष्ठार्श-
उदररोगेषु हितकारित्वञ्च । इति राजवल्लभः ॥
तस्य पर्य्यायगुणाः ।
“श्वेतार्को गणरूपः स्यान्मन्दारो वसुकोऽपि च ।
पृष्ठ १/०९९
:श्वेतपुष्पः सदापुष्पः स बालार्कः प्रतापसः ॥
रक्तोऽपरोऽर्कनामा स्यादर्कपर्णो विकीरणः ।
रक्तपुष्पः शुक्लफलस्तथास्फोतः प्रकीर्त्तितः ॥
अर्कद्वयं सरं वातकुष्ठकण्डूविषव्रणान् ।
निहन्ति प्लीहगुल्मार्शःश्लेष्मोदरयकृत्कृमीन् ॥
शुक्लार्ककुसुभं वृष्यं लघु दीपनपाचनं ।
अरोचकप्रसेकार्शःकासश्वासनिवारणं ॥
रक्तार्कपुष्पं मधुरं सतिक्तं
कुष्ठकृमिघ्नं कफनाशनञ्च ।
अर्शो विषं हन्ति च रक्तपित्तं
संग्राहि गुल्मे श्वयथौ हितं तत् ॥
क्षीरमर्कस्य तिक्तोष्णं स्निग्धं सलवणं लघु ।
कुष्ठगुल्मोदरहरं श्रेष्ठमेतद्विरेचनं” ॥
इति भावप्रकाशः ॥ * ॥ निर्यासविशेषः । आरक
इति आरवीभाषा । तस्य विधिर्यथा, --
“द्रव्यकल्पः पञ्चधा स्यात् कल्कचूर्णं रसस्तथा ।
तैलमर्कः क्रमाज्ज्ञेयं यथोत्तरगुणं प्रिये ॥
पृथक् द्वन्द्वे सन्निपाते सङ्करेऽसाध्यरोगिणि ।
क्रमादेते प्रयोक्तव्या अन्यथा नु विनाशकाः ॥
आद्ये गुणा गुणाः सर्व्वे द्वितीयञ्च ततो लघु ।
तृतीयं शीघ्रकारि स्यात् चतुर्थं नातिदोषकृत् ॥
पञ्चमं दोषरहितं गुणसद्यःप्रकाशकं ।
पञ्चमस्य तु सामर्थ्यं स्वयं पञ्चाननोऽब्रवीत् ।
वर्षाणान्तु सहस्राणि कथ्यतेऽहर्निशं मया ।
सम्पूर्णो नैव जायेत कल्पोऽर्कस्य दशानन ॥ * ॥
पुंवारे पुरुषर्क्षे च दिवार्को यस्तु निर्म्मितः ॥
रमणीषु प्रदातव्यो विलोमात् पुंसु योजयेत् ॥
लोहचूर्णं गौरिकञ्च खटिका भृष्टमृत्तिका ।
मृत्तिकास्थिभवं चूर्णं काचं कीकसजं रजः ॥
एतानि समभागानि सर्व्वतुल्या च मृत्तिका ।
भ्रंशनीया पञ्चमूत्रैः खराश्वमहिषोद्भवैः ॥
गजाजसम्भवाभ्याञ्च शटितं तद्विशोषयेत् ।
यथा गन्धविनाशः स्यात् तथा संमर्दयेत्ततः ॥
लघुहस्तः कुलालोऽस्य कुर्य्याद्यन्त्रं सुनिर्म्मलं ।
यथेष्टां स्थालिकां कुर्य्यात् अङ्गुलप्रान्तसारिकां ॥
पृथुबुध्नोदराकारां द्व्यङ्गुलोत्सेधवेष्टनीं ।
सारिकान्ते तु परिधिं त्र्यङ्गुलोत्सेधशोभितां ॥
विनिर्मायाथ सार्य्यन्ते यथा शिल्पविनिर्म्मितां ।
छिद्रं कृत्वा नलं दद्याद्गजशुण्डसमं बुधः ॥
सारिकापरिधेरन्तस्तस्य कुर्य्यात् पिधानकं ।
अर्द्धनिम्बफलसमं परिधिं तस्य चान्ततः ॥
वेदाङ्गुलं मस्तकोर्द्ध्वं कार्य्यं तोयस्य धारणे ।
समर्थां तत्र नलिकां कुर्य्यात्तोयविमोचनीं ॥
तस्यैवान्तरतो लेप्या जीर्णास्थ्नां मृत्तिकाम्बुना ।
अथवा श्वेतकाचं तु सर्व्वदोषापनुत्तये ॥ * ॥
अथ वक्ष्ये तु जीर्णास्थिमृत्तिकाकरणं प्रिये ।
शिलाजतुस्थले कुर्य्यात् दीर्घगर्त्तं मनोहरं ॥
निक्षिपेत्तत्र नानास्थिसञ्चयं द्विचतुष्पदां ।
सर्जिक्षारं महाक्षारं मृत्क्षारं लवणानि च ॥
गन्धकोष्णजलं क्षेप्यं नानामूत्राणि तत्र वै ।
एवं कृत्वा मासषट्कं दद्यात् पाषाणमृत्तिकां ॥
कङ्कास्थ्यूर्द्ध्वं तदूर्द्ध्वन्तु कुर्य्याद्वह्नीष्टिकां शुभां ।
त्रिवर्षाज्जायते सर्व्वमेकीभूतं दृशत्समं ॥
ततो निष्काश्य तच्चूर्णं कृत्वा पात्राणि निर्ममेत् ।
प्रशस्तं भोजनं तत्र सूचयेदन्नदूषणं ॥
महाविषस्य संयोगात्तस्य भङ्गं प्रजायते ।
सूचीविषादिसंयोगात् यत्र स्फोटा भवन्ति च ॥
तत्र क्षिप्तं क्षुद्रविषं पात्रं कृष्णं प्रजायते ।
एवं ज्ञात्वा तत्र दद्यान्न कदाचिद्विषादिकं ॥
विषादीनामर्कसिद्ध्यै कुर्य्यात् पात्रन्तु लोहजं ।
स्वर्णजं रौप्यजं वापि कुर्य्यात् पात्रमकल्मषं ॥
अथवा ताम्रजं कुर्य्यादन्तर्व्वङ्गविलेपितं ।
पात्रन्तु बुद्ध्वा कुर्व्वीत कषायो न भवेद्रसः ॥
द्रव्यान्तरस्य संयोगादर्कं तैलञ्च गर्भतः ।
सर्व्वेषां निःसरत्येव पाषाणस्यापि किं पुनः ॥
अनग्न्यर्कस्तथा तैलं गन्धतालादिसम्भवं ।
बेधकं सर्व्वधातूनां देहस्यापि च सिद्धिदं ॥
यस्तैलकरणे दक्षश्चार्कनिःसारणे क्षमः ।
तत्तत्सेवाकरो नित्यं स रोगैर्नैव बाध्यते ॥ * ॥
कुत्सितार्कस्तु यामेन द्वियामाभ्यान्तु मध्यमः ।
त्रिभिर्यामैर्भवेच्छ्रेष्ठः स एवार्कस्तु सिद्धिदः ॥
द्रव्यादधिकसौगन्ध्यं यस्मिन्नर्के प्रदृश्यते ।
जीर्णास्थिपात्रसङ्क्षिण्णो द्रव्यवर्णः प्रदृश्यते ॥
शङ्खकुन्देन्दुधवलोऽन्यथा पात्रान्तरे स्थितः ।
जिह्वोपरिगतः स्वादं दद्याद्द्रव्यभवन्तु यः ॥
तमेवार्कं विजानीयादन्यज्ज्ञेयं रसादिवत् ।
कृत्वा सुगन्धं दुर्गन्धमर्कं पुष्पादिभिः सुधीः ॥
गुणार्थं पश्चात् सेवेत ह्यन्यथापगुणो भवेत् ।
दुर्गन्धं भक्षयेदर्कं यदि मोहात् कथञ्चन ॥
तदास्य जायते ग्लानिर्व्वान्तिरालस्यकं तृषा ।
तद्दोषस्य विनाशाय कुर्य्याद्वान्तिमतन्द्रितः ॥
द्वीपोद्गमप्रसूनानां पिबेदर्कपलं जनः ।
चम्बेल्यर्कपलं वापि शीतार्त्तो मालतीभवं ॥ * ॥
अर्कनिष्काशनार्थाय क्रमाज्ज्ञेयाः षडग्नयः ।
धूमाग्निश्चैव दीपाग्निर्मन्दाग्निर्मध्यमस्तथा ॥
खराग्निश्च भडाग्निश्च तेषां वक्ष्यामि लक्षणं ।
विज्वालो यो धमशिखो धूमाग्निः स उदाहृतः ॥
ससारमतिशुष्कं यत् मुष्टिमध्ये समेष्यति ।
तत्काष्ठं काष्ठमित्याहुः खदिरादिसमुद्भवं ॥
द्वाभ्यां तस्य चतुर्थाभ्यां योऽग्निर्दीपाग्निरुच्यते ।
चतुरंशेन तेनैव मन्दाग्निः परिकीर्त्तितः ॥
अर्द्धीकृताभ्यां द्वाभ्यान्तु मध्यमाग्निरुदाहृतः ।
अर्द्धैस्तैः पञ्चभिः प्रोक्तः खराग्निः सर्व्वकर्म्मसु ॥
मस्तकावधिपात्रस्यं चतुर्दिक्षु क्रमेण च ।
प्रसरन्ति यदा ज्वालाः स भडाग्निरुदीरितः ॥
सार्द्धयामञ्च यामञ्च याममेकं मुहूर्त्तकं ।
मुहूर्त्तमात्रमित्येवमर्कार्थं वह्नयः स्मृताः ॥ * ॥
जीर्णास्थिपात्रे गृह्णीयादर्कं वा काचसम्भवे ।
पाषाणसम्भवे पात्रे कांस्यजेऽथ हिमस्थले ॥
पिबेदर्कमनिर्व्वापं पीत्वा ताम्बू लभक्षणं ।
कुर्य्यादनुक्तताम्बू ले लवङ्गं भक्षयेत्ततः ॥
मर्दनादिषु सर्व्वत्र द्रव्यतैलं प्रयोजयेत् ।
अर्क एव प्रयोक्तव्यो भक्षणे न तु मर्दने ॥
ये ये द्रव्यगुणाः प्रोक्ताः सर्व्वे तेऽर्कसमाश्रिताः ।
सेवेतार्कं प्रिये तस्माद्राजा परमधार्म्मिकः ॥
स्वस्थेऽपि वा रोगिणे वा याच्यतेऽर्केस्तु येन वा ।
ज्ञात्वा तल्लक्षणं दद्यादन्यथा ब्रह्महा भवेत् ॥ * ॥
वर्णस्वराणां प्रमितिं दूतोक्तस्य तु कारयेत् ।
शकैर्युक्ता विगुणिता त्रिभिर्भागं समाहरेत् ॥
एकशेषे गुणाः शीघ्रं द्विशेषे वर्द्धते गदः ।
त्रिशेषे मरणं वाच्यं स्वार्थं वाचयते यदि ॥
अर्कं तदैतत् विज्ञाय दद्यादर्कं न चान्यथा ।
गदिना तु यदा दूतः प्रेषितश्चेद्विचार्य्यते ॥
नपुंसकान्त्यैरूणास्तु स्वरा एकादश प्रिये ।
वर्णास्तत्सङ्ख्यका लेख्याः कठवाद्याश्च तत्तले ॥
एकादशसु कोष्ठेषु क्रमादङ्कान् प्रविन्यसेत् ।
रसास्त्रयो द्वयं वेदाः पर्ब्बता ऋतवः कृताः ॥
वह्नयः पृथिवी शून्यं चन्द्रमा इति च क्रमात् ।
विहाय जीवं दूतस्य नामाङ्काक्षरयोजनं ॥
एवमेवातुरे कृत्वा द्वयोरष्टावशेषितं ।
कृत्वाङ्कयोगं गदिनोऽधिके शेषे शुभं भवेत् ॥
समशेषे दीर्घरोगः न्यूनशेषे च तन्मृतिः ।
एतद्विचार्य्य दातव्यमन्यदप्यौषधं बुधैः ॥
चक्रद्वयन्तु योऽज्ञात्वा दद्यादर्कं विमोहितः ।
जायते त्वयशस्तस्य यथा मम मृते सति” ॥
इति श्रीलङ्कानाथकृतार्कचिकित्सायां यन्त्रविधि-
शतकं प्रथमं ॥ * ॥
“अथातः संप्रवक्ष्यामि निर्गमोऽर्कस्य भामिनि ।
पञ्चप्रकारद्रव्यस्य कुर्य्यान्निष्काशनं भिषक् ॥
अत्यन्तकठिनं चाद्यं कठिनञ्च द्वितीयकं ।
आर्द्रं तृतीयमुद्दिष्टं चतुर्थं वुल्वुलं भवेत् ॥
पञ्चमञ्च द्रवद्रव्यं तेषां विधिरथोच्यते ॥ * ॥
रसवच्चूर्णयेत् द्रव्यमत्यन्तकठिनन्तु यत् ॥
द्विगुणे निःक्षिपेत्तोये छायायां स्थापयेच्च तत् ।
यावच्छुष्कं भवेत्तोयं द्रव्यञ्च शिथिलं यथा ॥
ततः पुनः क्षिपेत्तोयं पूर्ब्बद्रव्यसमं भिषक् ।
कृत्वाष्टप्रहरं तत्तु सूर्य्यचन्द्रकरैरलं ॥
संपूज्य गणपतिं सूर्य्यं भैरवं कुलदेवतां ।
निःक्षिपेदर्कयन्त्रे तत् क्षिप्त्वास्यार्कं समाहरेत् ॥
वर्षाधिकन्तु यत् द्रव्यमत्यन्तकठिनन्तु तत् ।
चन्दनादीनि सर्व्वाणि अत्यन्तकठिनानि च ॥
कीटैर्भुक्तं घुणैर्युष्टं यच्च गन्धविवर्ज्जितं ।
रहितं स्वरसेनापि नार्ककर्म्मणि योजयेत् ॥
यथार्केसंस्थितं द्रव्यं कुर्य्याद्भोक्तुस्तथा वपुः ।
अर्के तरुणभैषज्यं तस्मात् संयोजयेत् प्रिये ॥ * ॥
यवान्यजाजीत्रिकटुभूनिम्बादिकमौषधं ।
ज्ञेयं तत् कठिनं द्रव्यं तदर्कस्य विधिं शृणु ॥
द्विगुणं निःक्षिपेत्तोयं द्रव्ये तु कठिने मते ।
अष्टप्रहरिकं तच्च कुर्य्यात् पर्य्यायमेककं ॥
रक्षेत् द्रव्यं द्विगुणितं दृष्ट्वा देशे तु कौतुकं ।
पश्चात् दत्त्वार्कयन्त्रे तत् अर्कंनिष्काशयेच्छनैः ॥ * ॥
आर्द्रद्रव्यं द्विधाप्रोक्तं सरसं नीरसं तथा ।
सदुग्धं गुप्तरसकं द्विधा नीरसमुच्यते ॥
वास्तूकं सार्षपं शाकं निर्गुण्ड्येरण्डमार्षकं ।
धत्तूराद्यमिदं सर्व्वमार्द्रं सरसमुच्यते ॥
एषां नालान् चूर्णयित्वा विंशांशं निःक्षिपेज्जलं ।
पृष्ठ १/१००
:मुहूर्त्तमुष्णे संस्थाप्य ग्राह्योऽर्को विबुधोत्तमैः ॥
पत्राणान्तु शतांशेन तुल्यतोयेन सेचयेत् ।
दद्यात् घटीमर्ककरां ततोऽर्कं कलयेच्छनैः ॥
वटाश्वत्थकरीराद्यमार्द्रद्रव्यन्तु नीरसं ।
विंशांशं निःक्षिपेत्तोयं जलं घर्म्मे च धारयेत् ॥
ततो निष्काशयेदर्कं क्रमवृद्ध्याग्निनोक्तवत् ।
सदुग्धन्तु द्विधा प्रोक्तं मृदु तीक्ष्णमिति क्रमात् ॥
सातलावज्रसेहुण्डसौरिण्याद्यास्तु तीक्ष्णकाः ।
खण्डानि तेषां कृत्वाथ निःक्षिपेत् पुष्कले जले ॥
दिनत्रयञ्च निष्काश्य तोयादीषच्च कुट्टयेत् ।
तदा न दृश्यते दुग्धं दद्य्नात्तोयं रदांशकं ॥
निष्काशयेच्छनैरर्कं स तु तीक्ष्णार्कसंज्ञकः ।
दुग्धिकार्कक्षीरिण्याद्या मृदुदुग्धाः प्रकीर्त्तिताः ॥
जले चतुर्गुणे दद्यात्तान् घर्म्मे विनिवेशयेत् ।
यावज्जलस्योष्णता स्यात् ततो यन्त्रे विनिःक्षिपेत् ॥
आदावीषच्चूर्णयित्वा षष्ठांशजलसंयुतं ।
एवं द्रव्यं लक्षयित्वा स्वयुक्त्यार्कं विनिर्हरेत् ॥
खण्डीकृत्य च आमानां फलानां मृदुकायिनां ।
सरसानाञ्च गृह्णीयादर्कं तोयेन वर्ज्जितं ॥ * ॥
काष्ठोडम्बरिकादीनां आमानां दार्य्यभागिनां ।
कृत्वा स्वल्पानि खण्डानि अशीत्यंशं प्रदापयेत् ॥
पृथक् पृथक् च तुवरीं सर्जिक्षारञ्च सैन्धवं ।
दत्त्वा विमर्दयेत् सर्व्वं चत्वारिंशांशकं जलं ॥
क्षिप्त्वा तत्कलसं धर्म्मे यामार्द्धेनोष्णता भवेत्
ततो यन्त्रे तु तद्दत्त्वा गृह्णीयादर्कमुत्तमं ॥
अतिपक्वफलानान्तु वीर्य्यतश्चार्कमाहरेत् ।
पुष्पार्कार्थं षोडशांशं जलं पुष्पेषु दापयेत् ॥
बहुवारफलादीनि चिल्लिकादीनि यानि च ।
क्षेप्याण्युक्तोदके तानि वुल्वुलत्वस्य शान्तये ॥
ततश्चत्वारिंशदंशं जलं दत्त्वा समाहरेत् ।
तेषामर्कमथ द्रावद्रव्यार्कोपाय उच्यते ॥
द्रवद्रव्योत्क्षेपशान्त्यै प्रोच्यते वापकल्पना ॥ * ॥
पिधानानि विचित्राणि तेषामन्तो न विद्यते ॥
शतपत्रप्रसूनैर्व्वा जात्युत्थैर्मालतीभवैः ।
गुलावपारिजातैश्च केतकीजैः समाचरेत् ॥
दुग्धे दध्नि रसे तक्रे क्षौद्रे तैले च सर्पिषि ।
मूत्रादौ देहतोये च चम्बेल्यादिपिधानकं ॥ * ॥
कान्तपाषाणसत्वस्य कृतं यन्त्रमनुत्तमं ।
निष्काशयेत् सर्व्वथार्कं द्रवद्रव्यस्य नान्यथा ॥
अथवा स्तम्भकं द्रव्यं दध्नस्तु नवनीतकं ।
वर्षदल्लीजलस्योक्ता मधूच्छिष्टन्तु सर्पिषः ॥
गोकण्ठकन्तु दुग्धस्य तथा मद्यस्य किण्वकं ।
तैलस्य तस्य पिण्याकं सर्व्वं घृतसमन्वितं ॥
यन्त्र दत्त्वा द्रवद्रव्यं ययोस्थालोनिवेशनं ।
तथा स्थलं स्थापयित्वा द्रवैर्यन्त्रं प्रपूरयेत् ॥
आच्छाद्यं सारकैः पूर्णं स्थालीं दद्यादधोमुखीं ।
तथा चाकर्षितः सर्व्वो द्रवः फेनं परित्यजेत् ॥ * ॥
दुर्गन्धिर्य्यो भवेदर्कन्तं कुर्य्यात् शुचिगन्धकं ।
मर्व्वेषामेव मांसानां दुर्गन्धानाञ्च सर्व्वशः ॥
घृताभ्यक्ता हिङ्गुजीरमेथिका राजिका कृता ।
नवीनायां हण्डिकायां दद्यात् द्रव्यं पुनः पुनः ॥
तत्र दद्यात्तदर्कस्तु यथा दुर्गन्धतां व्रजेत् ।
तथा पुनः पुनः काय्यं जायते गन्धबारणं ॥
आयाति रोचको गन्धो भवेत्तद्वह्णिदीपनं ॥ * ॥
सर्व्वेष्वर्कप्रयोगेषु गन्धपाषाणवासना ॥
अर्काणान्तु प्रदातव्या ते भवन्त्यर्कसम्भवाः ।
सर्व्वत्र वातरोगेषु महिषाक्षादिवासना ॥
महिषाक्षस्तथा रालं निर्य्यासः सर्ज्जकस्य च ।
कृष्णागुरुः कदम्बञ्च महिषाक्षादिपञ्चकं ॥
सर्व्वेषु पित्तरोगेषु चन्दनादिकवासना ।
सर्व्वेषु कफरोगेषु जटामांस्यादिवासनं ॥
चन्दनञ्च तथोशीरं कर्पूरो गन्धवाकुची ।
एलाकर्चूरगोहूलाः सप्तैते चन्दनादयः ॥
जटामांसी नखं पत्री लवङ्गं तगरं रसः ।
शिलाया गन्धपाषाणः सप्त मांस्यादिका अमी ॥
वासयेद्वा दशाङ्गेन त्रिदोषाप्तेन चार्ककं ।
नश्यन्ति यस्य धूपेन अवग्रहपिशाचकाः ॥
पञ्चाशद्गन्धपाषाणात् तावन्महिषगुग्गुलुः ।
चतुरंशं चन्दनञ्च जटामांसी च तावती ॥
त्रिभागः सर्ज्जकः सारस्तावदेव हि रालकं ।
उशीरं तु द्विभागं स्यात् घृतभृष्टं नखं समं ॥
कर्पूरो मृगनाभिश्च एकभागौ प्रकीर्त्तितौ ।
एष दशाङ्गधूपस्तु रुद्रस्यापि मनो हरेत् ॥ * ॥
पलाण्डुलशुनादीनां निर्गन्धीकरणं शृणु ।
उत्पाद्यान्तर्व्विषं सम्यक् तक्रमध्ये विनिःक्षिपेत् ॥
पर्य्यायमेकमत्यम्लमध्येऽस्मिन् विरसे सति ।
दद्यान्निष्काश्यान्यतक्रं कुर्य्यात्तच्चाष्टमांशकं ॥
द्रोणपुष्पीरसेऽप्येवं मूर्व्वापत्ररसेऽपि वा ।
त्रिपर्य्यायोत्तरं तत्तु रसोनं क्षालयेत् सुधीः ॥
हरिद्राराजिकातोये स्थाप्यं पर्य्यायमेककं ।
उष्णोदकेन संक्षाल्य पर्य्यायं वासयेत्ततः ॥
सहस्रपत्रीपुष्पैर्व्वा अभावे पल्लवैरपि ।
आलोडयेद्दशांशेन पञ्चांशेन च मस्तुना ॥
युक्तं कृत्वा याममात्रं स्थापयेत् प्रकटातपे ।
ततो निष्काशयेदक जात्यादिकपिधानितं ॥
अस्यार्कस्य सुगन्धेन एकदा मोहितो हरः ।
को जानाति रसोनस्य ह्यर्कोऽयमिति भूतले ॥
एकतः सर्व्व एवार्का मासार्कस्तु तथैकतः ।
मया स्वर्गे गृहीतस्तु प्राप्तं तत्र च नामृतं ॥
तदा प्रोक्तं शिवस्याग्रे मम धिग् जीवितं प्रभो ।
नीता वाथ प्रभुक्ता वा सुधा देवैर्मया श्रुतं ॥
न दृष्टा तत्र देवेश शिरश्छेदं करोम्यहं ।
ततः प्रसन्नो गिरिशो वाक्यं मां प्रति सोऽव्रवीत् ॥
दत्तं मया समस्तं ते देवाबध्यत्वमेव च ।
किन्ते कार्य्यन्तु सुधया सुधातोऽधिकरोचनं ॥ * ॥
संप्रवक्ष्यामि मांसार्कं मद्यस्यार्कं तथैव च ।
द्रव्याणां विजयादीनां लभ्यते यैः सुखं महत् ॥
मांसन्तु त्रिविधं ज्ञेयं मृदुलं कठिनं घनं ।
तेषामर्कं यथा प्रोक्तं यन्त्रान्निष्काशयेच्छनैः ॥
मृदुलं यद्भवेन्मांसं चत्वारिंशांशकं पटुः ।
स्थूलखण्डीकृते तस्मिन् दत्त्वा तत् क्षालयेच्छनैः ॥
षष्ट्यंशेनाष्टगन्धेन तद्विलोड्य च निःक्षिपेत् ।
रसमिक्षोरष्टमांशं तदभावे पयः क्षिपेत् ॥
जातीपत्रं लवङ्गञ्च त्वगेला नागकेशरं ।
मरिचं मृगनाभिश्च विदुर्गन्धाष्टकं त्विदं ॥
कार्य्यं पुष्पपिधानाद्यमर्कं निष्काशयेत्ततः ।
जायतेऽसौ महास्वादुः सुधासमरसः प्रिये ॥
दृढमांसस्य खण्डानि लघून्येव प्रकल्पयेत् ।
दद्याच्च तुवरीं तत्र लवङ्गं प्रोक्तया द्विशा ॥
क्षालयेदारनालेन त्रिवारं कोष्णवारिणा ।
क्षालयेत् सप्तवाराणि हरेदर्कन्तु पूर्ब्बवत् ॥
दृढमांसस्य खण्डानि कुर्य्यादतिलघूनि च ।
आलोड्य शङ्खद्रावेण क्षालयेत् पयसा पुनः ॥
सप्तवाराणि लवणं चयेत् पूर्ब्बवदेव हि ।
तद्दत्त्वा यन्त्रमध्ये तु हरेत् पूर्ब्बवदर्ककं ॥
सर्ज्जिक्षारं यवक्षारं श्वेतक्षारञ्च टङ्कणं ।
सौभाग्यक्षारकं सौरक्षारं शङ्खभवं तथा ॥
अर्कसेहुण्डपालाशक्षारञ्च तुवरी तथा ।
अपामार्गभवं क्षारं तथाष्टौ लवणानि च ॥
लवणाष्टकमेतच्च सैन्धवञ्च सुवर्च्चलं ।
विडं समुद्रसंजातं उद्भिदं रोमकं गडं ॥
कृत्वा सर्व्वाणि चैकत्र निम्बुनीरेण भावयेत् ।
एकविंशतिवाराणि काचकूप्यां विनिःक्षिपेत् ॥
नखांशनिम्बुरसकैः सर्व्वमार्द्रीकृतञ्च तत् ।
अधःसच्छिद्रपीठरीं मध्ये कूप्यां निवेशयेत् ॥
मृत्कर्पटसमायुक्तां सहेदग्निं यथाविधि ।
तस्याग्रे कूपिका योज्या दीर्घकण्ठा मनोहरा ॥
सा कूपिका तले स्थाप्या मेलयेच्च द्वयोर्म्मुखं ।
जलमुष्णं यथा न स्यात् तथा चापरकूपिका ॥
अग्नयः क्रमतो देया यामं यामञ्च पञ्च च ।
अनेनैव प्रकारेण क्षारार्काणां समुद्भवः ॥
दद्यादस्थीनि मांसानि शङ्खशुक्त्यादिकान्यपि ।
सर्व्वाण्यपि विलीयन्ते शङ्खद्रावे न संशयः ॥ * ॥
पारावताजचटकशशशूकरटिट्टिभाः ।
क्षुद्रमत्स्यादिकाः सर्व्वे मांसेषु मृदुलाः स्मृताः ॥
मृगरोहितकाद्याश्च मत्स्याः शल्लकिसम्बराः ।
एते कठिनमांसाः स्युः पक्षिणो जलचारिणः ॥
गजकुम्भीरघण्टाद्याः सुगन्धा वर्करादयः ।
गोधा गोऽश्वा लुलापाद्याः घनमांसाः प्रकीर्त्तिताः ॥
अन्नादिसम्भवो योऽर्कस्तन्मद्यं परिकीर्त्तितं ।
तस्य भेदान् प्रवक्ष्यामि शटितं तत् समुद्धरेत् ॥
तद्वासनानिवृत्यर्थमष्टगन्धं प्रयोजयेत् ।
पूर्ब्बोक्तैर्धूपयेद्धूपैर्ज्जायते गन्धपर्ज्जितं ॥
अर्द्धं तत्र जलं देयं सिद्धे देयोऽष्टगन्धकः ।
तुषोदकैर्यवैरामैः सतुषैः सकलीकृतैः ॥
सौवीरन्तु यवैरामैः सतुषैः सकलीकृतैः ।
गोधूमैरपि सौवीरं जायते स्वल्पमादकं ॥
आरनालन्तु गोधूमैरामैः स्यान्निस्तषीकृतैः ।
धान्याम्लं शालिचूर्णादिकोद्रवादिकृतं भवेत् ॥
शण्डाकीराजिकायुक्तैः स्यान्मूलकदलद्रवैः ।
सर्षपस्वरसैर्व्वापि शालिपिष्टकसंयुतैः ॥
कन्दमूलफलादींश्च सस्नेहलवणानि च ।
एकीकृत्य कृतोऽर्को यस्तत्सूक्तमभिंधीयते ॥
पक्वौषधाम्बुसंसिद्धो योऽर्कस्तत् स्यादरिष्टकं ।
अरिष्टलघुपाकेन सर्व्वतश्च गुणाधिकं ॥
शालिपिष्टकपिष्टादिकृतौ योऽर्कः सुरा तु सा ।
पृष्ठ १/१०१
:पुनर्नवाशिवापिष्टैर्विहिता वाहनी स्मृता ॥
इक्षोः पक्वैरसैः सिद्धः सीधुः पक्वरसस्य च ।
आमैस्तैरेव यः सिद्धः स च शीतरसः स्मृतः ॥
पर्य्यायावाम्भवेन्मद्यं तामस्यं राक्षसप्रियं ।
मण्डलावाग्राजसन्तु तटूर्द्ध्वं सात्विकं भवेत् ॥
सात्विके गीतहास्यादि राजसे साहसादिकं ।
तामसे निन्द्यकर्म्माणि निद्राञ्च मदिरा चरेत् ॥
भङ्गादिमत्तद्रव्याणां यवानीपादयोगतः ।
अर्कं निष्काशयेद्धीमान् बोधकः स्यान्मदस्य सः ॥
धुस्तूरादिकवीजानि तक्रं पयसि निःक्षिपेत् ।
कण्ठशोषविबन्धादिरहितोऽर्को भवेत् सहि” ॥
इति श्रीलङ्कानाथकृतार्कचिकित्सायां यन्त्रशतकं
द्वितीयं ॥ * ॥
“अथातः संप्रवक्ष्यामि केवलार्कगुणान् प्रिये ।
हरीतक्याः शूलकृच्छ्रकामलानाहनाशनः ॥
विभीतकस्य तृट्छर्द्दिकफकासविनाशनः ।
आमलस्य त्रिदोषास्रपित्तमेहान् विनाशयेत् ॥
पिप्पल्याः श्वासकासामवातार्शोज्वरशूलहृत् ।
मरीचस्य कृमीन् श्वासं हरेत् सर्व्वान् गदानपि ॥
ग्रन्थिकस्य प्लीहगुल्मकफवातोदरापहः ।
चव्यार्कोऽत्यन्तरुचिकृत् विशेषाद्गुदजापहः ॥
अर्कस्तु गजपिप्पल्या वातश्लेष्माग्निमान्द्यनुत् ।
चित्रकस्याग्निकृत् कासग्रहणीकृमिशोथहा ॥
यवान्याः पाचनो रुच्यो दीपनः शुक्रशूलहृत् ।
अजमोदोद्भवो वातकफहा वस्तिशोधनः ॥
पारसीकयवान्यास्तु ग्राही पाचनमादनः ।
जीरकस्य तु संग्राही गर्भाशयविशुद्धिकृत् ॥
कृष्णजीरस्य चक्षुष्यो गुल्मच्छर्द्यतिसारजित् ।
कारव्या बलकृत् ह्यर्को ज्वरघ्नः पाचनः सरः ॥
धान्यार्कस्य तृषादाहवमिश्वासत्रिदोषहृत् ।
शोथज्वरानिलश्लेष्मव्रणशूलाक्षिरोगहृत् ॥
मिश्रेयाया वह्निमान्द्ययोनिशूलकृमीन् हरेत् ।
ज्वालामरीचकस्यापस्मारभूतत्रिदोषहृत् ॥
मेथिकायाः श्लेष्मवातज्वरामकफनाशनः ।
वनमेथ्याः सर्व्वरोगान् हरेत् कुञ्जरवाजिनां ॥
चन्द्रशूरस्य हिक्कासृग्वातहृत् पुष्टिवर्द्धनः ।
हिङ्गुनः पाचनो रुच्यः कृमिशूलोदरापहः ॥
वचाया वह्निवमिकृत् विबन्धाध्मानशूलहृत् ।
पारसीकवचायास्तु भूतोन्मादबलं हरेत् ॥
कुलिञ्जनस्य स्वरकृत् हृत्कण्ठमुखशोधनः ।
स्थूलग्रन्थिभवश्चार्को विशेषात् कफकासनुत् ॥
द्वीपान्तरवचायास्तु हरेच्छूलं फिरङ्गकं ।
हपुषाया हरेत् प्लीहं विषं मोहञ्च दारुणं ॥
हपुषायाः समीरार्शोग्रहणीगुल्मशूलहृत् ।
विडङ्गस्योदरश्लेष्मकृमिवातविबन्धनुत् ॥
तुम्बुरोर्गुरुताश्वासकासप्लीहकृमीन् हरेत् ।
वंशरोचनजस्तृष्णाक्षयकासज्वरान् हरेत् ॥
समुद्रफेनजः शीतो लेखनः कफहृत् सरः ।
जीरकोत्थः शुक्रकफबलकृच्छीतलः समः ॥
आर्षभः पित्तदाहास्रकासवातक्षयापहः ।
महामेदोद्भवोऽर्कस्तु वृष्यस्तन्यः कफावहः ॥
महामेदोद्भवः शीतो रक्तपित्तज्वरप्रणुत् ।
काकोल्याः शुक्रलः शीतः पित्तशोषज्वरापहः ॥
क्षीरकाकोलिकाजातो वृंहणो दाहवातहा ।
ऋद्ध्या बल्यस्त्रिदोषघ्नो रक्तपित्तविनाशनः ।
वृद्ध्या गर्भप्रदः शीतः क्षतकासक्षयापहः ॥
मधुयष्ट्याः केशकरः स्वर्य्यः पित्तानिलास्रजित् ।
जलयष्ट्या विषच्छर्दितृष्णाग्लानिक्षयापहः ॥
कम्पिल्लस्य विरेकी स्यात् मेहानाहविकारनुत् ।
आरम्बधस्य पित्ताम्लवातोदावर्त्तशूलहृत् ॥
कट्व्या मेहश्वासकासकृमिकुष्ठज्वरापहः ।
भूनिम्बस्य तृषाकुष्ठज्वरव्रणकृमिप्रणुत् ॥
भद्राया वस्तुपित्तास्रकृमिवीसर्पकुष्ठनुत् ।
मदनोत्थः छर्द्दनेन चातुर्थज्वरकादिहृत् ॥
रास्रोद्भवः समीरास्रवातशूलोदरापहः ।
नागभिन्नोद्भवो भोगिलुताद्याखुविकारहृत् ॥
माचिकाजस्तु पित्तास्रपक्वातीसारहा लघुः ।
तेजस्विन्याः श्वासकासकफहृद्वह्निदीपनः ॥
ज्योतिष्मत्या वान्तिकरो वह्निबुद्धिस्मृतिप्रदः ।
कुष्ठस्य हन्ति वातास्रकासकुष्ठमहत्कफान् ॥
पौष्करस्यारुचिश्वासान् विशेषात् पार्श्वशूलनुत् ।
हेमाह्वाया रेकवान्तिकरः कण्डूविनाशनः ॥
शृङ्ग्या हरेदूर्द्ध्ववातहिक्कातृष्णाक्षयस्वरान् ।
कट्फलोत्थः श्वासकासप्रमेहार्शोऽरुचोन् हरेत् ॥
भार्ग्या हरेत् कफश्वासपीनसज्वरमारुतान् ।
पाषाणभेदजो योनिरोगकृच्छ्रास्मगुल्महा ॥
धातकीजस्तृषासारविषक्रिमिविसर्पजित् ।
मञ्जिष्ठाजो विषश्लेष्मरक्तातीसारकुष्ठहा ॥
कुसुम्मजो वर्णकरो रक्तपित्तकफापहः ।
लाक्षाजः कृमिवीसर्पव्रणोरक्षतकुष्ठहा ॥
हरिद्राया मेहशोथत्वग्दोषव्रणपाण्डुनुत् ।
आरण्यकहरिद्रायाः कुष्ठवातास्रनाशनः ॥
कर्पूरकहरिद्रायाः सर्व्वकण्डूविनाशनः ।
दार्व्या विशेषतो लेपात् नेत्रकर्णास्यरोगनुत् ॥
रसाञ्जनोद्भवो नेत्रविकारव्रणदोषहृत् ।
वाकुच्याः कृमिविष्टम्भपाण्डुशोथकफापहः ॥
प्रपुन्नाटस्य हन्त्येव कण्डूदद्रुविषानिलान् ।
विषाजो दीप्तिकृत् पाके कफपित्तातिसारहा ॥
लोध्रजः शीतलो ग्राही चक्षुष्यः कफपित्तनुत् ।
वृहत्पत्रोद्भवो नेत्र्योदरातीसारशोथहृत् ॥
भल्लातकोद्भवो हन्यात् ज्वरोदरकृमिव्रणान् ।
गुडूच्या दीपनो ग्राही कासपाण्डुज्वरापहः ॥
ताम्बूल्या मुखदौर्गन्ध्यमलवातश्रमापहः ॥
वैल्वः श्लेष्महरो बल्यो लघुरुष्णश्च पाचनः ॥
गम्भारीजो भ्रमतृष्णाशूलार्शोविषदाहहृत् ।
पाटल्याश्छर्द्दिशोथास्रतृट्श्लेष्मारुचिदाहहा ॥
अग्निमन्थोद्भवः शोथकृमिपाण्डुबलासनुत् ।
श्येनाकजस्तु गुल्मार्शःकृमिहृद्रुचिदीप्तिकृत् ॥
शालिपर्ण्याः क्षतकृमिज्वरच्छर्द्यतिसारहा ।
पृश्निपर्ण्या ज्वरश्वासरक्तातीसारदाहजित् ॥
वार्त्ताक्या ज्वरवैरस्यमलारोचकशूलहा ।
कण्टकार्य्या गर्भकरः पाचनः कफकासहा ॥
गोक्षुरस्याश्मरीमेहकृच्छ्रहृद्रोगवातहा ।
जीवन्त्याः सारहृन्नेत्रदोषत्रितयनाशनः ॥
मुद्गपर्ण्याः शोथदाहग्रहण्यर्शोऽतिसारहृत् ।
माषपर्ण्याः शुक्रकरो वातपित्तज्वरास्रजित् ॥
पञ्चाङ्गुलोद्भवः शूलशिरःपीडोदरापहः ।
रुवुकोत्थो व्रध्नश्वासकासकुष्ठाममारुतान् ॥
मन्दारजो वातकुष्ठकण्डूव्रणविषापहः ।
अर्कार्कः प्लीहगुल्मार्शःश्लेष्मोदरकृमीन् हरेत् ॥
वज्रीजो लेपतो हन्याद्व्रणशोथोदरव्रणान् ।
सातलोत्थः कफानाहपित्तोदावर्त्तशोथहा ॥
लाङ्गल्या लेपतो हन्यात् शोफास्रव्रणरुग्जितः ।
करवीरोद्भवो नेत्रकोपकुष्ठव्रणापहः ॥
चण्डालोत्थस्तु विषवत् भक्षणे लेपने सुहृत् ।
धत्तुरजो हरेत् क्लेशयूकाकृमिविषादिकं ॥
वासोद्भवी ज्वरच्छर्द्दिमेहकुष्ठक्षयापहः ।
पार्पटो हन्ति पित्तास्रभ्रमतृष्णाकफज्वरान् ॥
निम्बजो भ्रमतृट्कासज्वरारुचिवमिप्रणुत् ।
महानिम्बोद्भवो गुल्ममूषिकाविषनाशनः ॥
पारिभद्रोऽनिलश्लेष्मशोथमेदकृमिप्रणुत् ।
काञ्चनारो गण्डमालागुदभ्रंशव्रणापहः ॥
कोविदारस्तु पित्तास्रप्रदरक्षयकासहा ।
शौभाञ्जनार्को रुचिकृत् शुक्रलो ग्राहिदीपनः ॥
मधुशिग्रूद्भवो हन्यात् विद्रधिश्वयथुक्रिमीन् ।
शिग्रुजो विषहृन्नेत्र्यो नस्येनाश्वक्षिरोगहृत् ॥
गिरिकर्ण्याः कुष्ठशूलशोथव्रणविषापहः ।
सिन्धुवारोद्भवो हन्ति शूलशोथाममारुतान् ॥
निर्गुण्ड्यर्को हरेज्जन्तुव्रणकुष्ठारुचीन् लघुः ।
कौटजो दीपनः शीतः कफतृष्णामकुष्ठजित् ॥
कारञ्जः कफगुल्मार्शोव्रणक्रिमिविषापहः ।
घृतकारञ्जको भेदी वातार्शःकृमिकुष्ठजित् ॥
करञ्ज्या वमिवातार्शःकृमिकुष्ठप्रमेहजित् ।
उच्चटार्कः केशकरो वातपित्तकफापहः ॥
गुञ्जाया हरते श्वासमुखशोषभ्रमज्वरान् ।
कपिकच्छूद्भवो वृष्यो वृंहणो वाजिकर्म्मकृत् ॥
मांसरोहिण्युद्भवस्तु वृष्यो दोषत्रयापहः ।
चिह्लः कुर्य्याद्धातुपुष्टिं तत्फलान्मारयेज्जनान् ॥
पुस्तकान्तरे चेल्हुरिति च पाठः ॥
कण्टकार्य्या दीपनः श्लेष्मशोथोदररुजं हरेत् ।
वैतसो हरते दाहं शोथार्शोयोनिरुग्व्रणान् ॥
जलवेतसजो ग्राही शीतो वातप्रकोपनः ॥
इज्जलार्कस्तु हरते चराचरविषं स्फुटं ॥
अङ्कोठकस्य शूलामशोथग्रहविषापहः ।
बलार्को ग्राही वातास्रपित्तास्रक्षतनाशनः ॥
अतिपूर्ब्बबलार्कस्तु मूत्रातीसारनाशनः ।
महाबलार्को हरते कृच्छ्रं वातानुलोमनः ॥
नागपूर्ब्बबलार्कस्तु मूर्च्छामोहहरः परः ।
लक्ष्मणार्कन्तु सेवेत बन्ध्यापि लभते सुतं ॥
स्वर्णवल्ल्याः शिरःपीडात्रिदोषान् हन्ति टुग्धदः
कार्पासार्कः कर्णसंस्थः कर्णरोगान् विनाशयेत् ॥
वंशजः कफपित्तघ्नः कुष्ठास्रव्रणशोथजित् ।
नलार्को वस्तियोन्यर्त्तिदाहपित्तविसर्पहृत् ॥
पाट्या जयेत् ज्वरच्छर्द्दिकुष्ठतीसारहृद्रुजः ।
श्वेतवृक्षोद्भवो रेकी पित्तजार्शोदरापहः ॥
शरपुङ्खोद्भवः प्लीहान् गुल्मव्रणविषापहः ।
पृष्ठ १/१०२
:जवासजो मदभ्रान्तिपित्तासृक्कुष्ठकासजित् ॥
मण्डिजोऽत्यन्तबलकृत् प्लीहमोहानिलार्त्तिजित् ।
अपामार्गभवश्छर्द्दिकफमेदोऽनिलापहः ॥
आरक्तापामार्गभवो धातुस्तम्भनकारकः ।
कोकिलाक्षभवः शीघ्रं सेकाच्छोफान्निवारयेत् ॥
अस्थिसंहारिकायास्तु भग्नसन्धानकृच्छिवे ।
कुमारिकाया उत्थोऽग्रिदग्धविस्फोटकान् जयेत् ॥
पुनर्नवायाः श्वेतायाः सर्व्वनेत्रामयापहः ।
पुनर्नवाया रक्ताया ग्राही पित्तास्रनाशनः ॥
प्रसारिण्या वातहरो वृष्यः सन्धानकृत् सरः ।
सारिवाया वह्निमान्द्यकासामविषनाशनः ॥
भृङ्गराजस्य दत्तोऽर्कः केश्यस्त्वच्यः शिरोऽर्त्तिहृत् ।
शणपुष्पीलतायास्तु अर्कः पित्तकफान्तकः ॥
त्रायन्त्यर्कः शूलविषविलेपीज्वरनाशनः ।
मूर्व्वाया मोहहृद्रोगकण्डूकुष्ठज्वरापहः ॥
काकमाच्या नेत्रहितश्छर्दिहृद्रोगनाशनः ।
काकनासाभवो वामी शोथार्शश्चित्रकुष्ठहृत् ॥
काकजङ्घोद्भवो हन्यात् ज्वरकण्डूविषक्रिमीन् ।
नागिन्यास्तु हरेच्छूलयोनिदोषवमिक्रिर्मीन् ॥
मेषशृङ्ग्याः श्वासकासव्रणश्लेष्माक्षिशूलहा ।
हंसपाद्या हन्ति शूलभूतरक्तविषव्रणान् ॥
सोमवल्ल्यास्त्रिदोषघ्नः क्षीरहृच्च रसायनः ।
आकाशवल्ल्याः शीतोऽर्कः पित्तश्लेष्मामनाशनः ॥
पातालगरुडीजातोऽर्को वृष्यः पवनापहः ।
वृन्दावृक्षोद्भवोऽर्कस्तु विषरक्षोव्रणापहः ॥
वटपत्रीभवश्चोष्णो योनिमूत्रगदापहः ।
हिङ्गुपत्र्या विबन्धार्शःश्लेष्मगुल्मानिलापहः ॥
वंशपत्र्याः पाचनोष्णो हृद्वस्तिगदसंघहृत् ।
मत्स्याक्ष्यर्को ग्राहिशीतकुष्ठपित्तकफास्रजित् ॥
सर्पाक्ष्या रोपणः सर्पवृश्चिकोन्दुरदंशहृत् ।
शङ्खपुष्प्या विषहरः स्मृतिकान्तिबलाग्निदः ॥
अर्कपुष्प्याः कृमिश्लेष्ममेहपित्तविकारजित् ।
लज्जालुकाया भगरुग्रक्तपित्तातिसारहृत् ॥
अलम्बु षासम्भवोऽर्कः कृमिपित्तकफापहः ।
दुग्धिकायाः कफहरो वृष्यस्तम्भी क्रिमिप्रणुत् ॥
भूम्यामल्याः कासतृष्णाकफपाण्डुक्षतापहः ।
ब्राह्म्या बुद्धिप्रदश्चार्कः षण्मासाभ्यासतः कविः ॥
ब्रह्ममण्डुकिका पाण्डुविषशोथज्वरान् हरेत् ।
द्रोणपुष्प्या ज्वरश्वासकामलाशोथजन्तुजित् ॥
सूर्य्यमुख्या हरेत् स्फोटयोनिरुक्कृमिपाण्डुताः ।
बन्ध्याकर्कोटिकाजातः सर्पदर्पव्रणापहः ॥
मार्कण्डिकाया दुर्गन्धविषगल्मोदरापहः ।
देवदाल्याः शूलगुल्मश्लेष्मार्शोवातजित् परः ॥
धत्तूरजो ग्राहिहिमो वह्निकृद्व्रणदाहहा ।
गोजिह्वाया मेहकासव्रणसारज्वरापहः ॥
नागपुष्प्याः सर्पविषसर्व्वग्रहनिवारणः ।
वेल्लन्तरो मूत्रघातास्मरीयोन्यनिलार्त्तिजित् ॥
छिक्कन्या वह्निरुचिकृदर्शःकुष्ठकृमिप्रणुत् ।
कौकुन्दरो ज्वरं रक्तं मुखशोषं कफं हरेत् ॥
सुदर्शनार्कश्चात्युष्णः कफशोथास्रवातजित्” ।
इति श्रीलङ्कानाथकृतार्कचिकित्सायामौषध्यर्क-
विधानं तृतीयशतकं ॥ * ॥ अतःपरं नानौषध-
विधानं चतुर्थशतकं । नानारोगनिवारणार्थं
पञ्चमशतकं । विस्फोटकनिवारणार्थं षष्ठशतकं ।
क्षुद्ररोगादेर्निवारणं सप्तमशतकं । कार्म्मणं ना-
माष्टमशतकं । गणसंख्या नवमशतकं । धातु-
शुद्धिर्दशमशतकं । एतत् सर्व्वं अर्कप्रकाशे
रावणमन्दोदरीसंवादे अस्ति बाहुल्यभिया न
लिखितं ॥
(“अर्कक्षीरं सुधाक्षीरं तिक्ततुम्ब्याश्च पल्लवाः ।
करञ्जो वस्तमूत्रञ्च लेपनं श्रेष्ठमर्शसां” ॥
इति चक्रपाणिसङ्ग्रहः ॥ * ॥
“अर्कानर्ककरञ्जद्वयनागदन्तीमयूरकभार्गीरास्ने-
न्द्रपुष्पीक्षद्रश्वेतामहाश्वेतावृश्चिकाल्यलवणा स्ता
पसवृक्षश्चेति” । इति अर्कादिगणः ॥
“अर्कादिको गणो ह्येष कफमेदोविषापहः ।
क्रिमिकुष्ठप्रशमनो विशेषाद्व्रणशोधनः” ॥
इति सुश्रुतः ॥)

अर्ककान्ता, स्त्री, (अर्कोऽर्ककिरणः कान्तोऽनुकूलो

यस्याः सा, कम् + क्तः स्त्रियां टाप् ।) आदित्त-
भक्ता । इति राजनिर्घण्टः ॥ हुडहुडिया इति
ख्याता । इति राजनिर्घण्टः ॥ (अस्या गुणा
आदित्यभक्ताशब्दे ज्ञातव्याः ॥)

अर्कचन्दनं, क्ली, (अर्कस्य प्रियं चन्दनं, षष्ठीतत्-

पुरुषः ।) रक्तचन्दनं । इति राजनिर्घण्टः ॥ (रक्त-
चन्दनशब्देऽस्य गुणावली ज्ञेया ॥)

अर्कजौ, पुं, (अर्काज्जायेते यौ, अर्क + जन् ड,

पञ्चमीतत्पुरुषः ।) अश्विनीकुमारौ । नित्यद्विव-
चनान्तशब्दोऽयं । इति हेमचन्द्रः ॥

अर्कतनयः, पुं, (अर्कस्य तनयः, षष्ठीतत्पुरुषः ।)

कर्णराजः । इति हेमचन्द्रः ॥ वैवस्वतमनुः ।
सावर्णिमनुः । शनिः । यमः । यमुनायां तपत्याञ्च
स्त्री । इति महाभारतं ।

अर्कनन्दनः, पुं, (अर्कस्य नन्दनः, षष्ठीतत्पुरुषः ।)

अर्कतनयः । इति त्रिकाण्डशेषः ॥

अर्कपत्रः, पुं, (अर्कः सूर्य्यैव तीक्ष्णं पत्रं यस्य

सः ।) आदित्यपत्रवृक्षः इति राजनिर्घण्टः ॥

अर्कपत्रा, स्त्री, (अर्कः सूर्य्यैव तीक्ष्णं पत्रं यस्याः

सा ।) वृक्षविशेषः । इशेर मूल इति भाषा ।
तत्पर्य्यायः । सुनन्दा २ अर्कमूला ३ विषापहा ४ ।
इति रत्नमाला ॥

अर्कपर्णः, पुं, (अर्क इव रक्तं पर्णमस्य सः ।) अर्क-

वृक्षः । इत्यमरः ॥ आकन्द इति ख्यातः । (अस्य
विशेषोऽर्कशब्दे ज्ञातव्यः ।)

अर्कपादपः, पुं, (अर्कः अर्कवृक्षैव तीक्ष्णः

पादपः ।) निम्बवृक्षः । इति त्रिकाण्डशेषः ॥

अर्कपुष्पिका, स्त्री, (अर्कस्यार्कवृक्षस्य पुष्पमिव पुष्प-

मस्याः सा, जातित्वात् ङीप् कप् ।) वृक्षभेदः ।
अर्कहुली हुलीपुष्पश्चेति ख्याता । तत्पर्य्यायः ।
पयस्या २ सूर्य्यवल्ली ३ सितपर्णो ४ । इति रत्न-
माला ॥

अर्कपुष्पी, स्त्री, (अर्कस्यार्कवृक्षस्य पुष्पमिव पुष्प-

मस्याः सा, जातित्वात् ङीप् ।) कुटुम्बिनीवृक्षः ।
तत्पर्य्यायगुणाः ।
“अर्कपुष्पी क्रूरकर्म्मा पयस्या जलकामुका ।
अर्कपुष्पी कृमिश्लेष्ममेहचित्तविकारजित्” ॥
इति भावप्रकाशः ॥ राजनिर्घण्टोक्तपर्य्यायगुणाः
कुटुम्बिनीशब्दे द्रष्टव्याः ॥

अर्कप्रिया, स्त्री, (अर्कं प्रीणाति, प्री + क, अर्कस्य

प्रिया इति वा ।) जवा । इति राजनिर्घण्टः ॥
(जवाशब्देऽस्य विशेषो ज्ञातव्यः ॥)

अर्कबन्धुः, पुं, (अर्कस्य बन्धुरिव ।) गौतमः । स च

इक्ष्वाकुकुलोद्भवशाक्यवंशीयबुद्धः । इत्यमरः ॥

अर्कबान्धवः, पुं, (बन्धुरेव बान्धवः, बन्धु + स्वार्थे अण्,

अर्कस्य बान्धवः, षष्ठीतत्पुरुषः ।) अर्कबन्धुः
इति हेमचन्द्रः ॥

अर्कभक्ता, स्त्री, (अर्कस्य भक्ता, षष्ठीतत्पुरुषः ।)

आदित्यभक्तावृक्षः । इति राजनिर्घण्टः ॥ हुड्-
हुडिया इति ख्याता ।

अर्कमूला, स्त्री, (अर्क इव विषधराणां दुःसहं मूलं

यस्याः सा ।) अर्कपत्रा । इति रत्नमाला ॥ इशेर-
मूल इति भाषा ।

अर्करेतोजः, पुं, (अर्कस्य रेतसो जायते, अर्करेतस्

+ जन् + ड, उपपदसमासः ।) सूर्य्यपुत्त्रविशेषः ।
तत्पर्य्यायः । रेवन्तः २ प्लगगः ३ हयवाहनः ४ ।
इति हेमचन्द्रः ॥

अर्कवल्लभः, पुं, (अर्कस्य वल्लभः, षष्ठीतत्पुरुषः ।)

बन्धूकवृक्षः । इति राजनिर्घण्टः ॥ (बन्धूकवृक्ष-
शब्देऽस्य गुणादयो ज्ञेयाः ॥)

अर्कवेधं, क्ली, (अर्केण विध्यते, अर्क + व्यध +

पचाद्यच् ।) तालीशपत्रं । इति राजनिर्घण्टः ॥
(तालीशपत्रशब्देऽस्य गुणादिविवरणं ज्ञेयं ।)

अर्कव्रतं, क्ली, (अर्कस्य व्रतं, षष्ठीतत्पुरुषः ।) आ-

रोग्यसप्तम्यादि सूर्य्यव्रतं । इति स्मृतिः ॥ सूर्य्यस्य
जलशोषणवत्प्रजाकरग्रहणं । यथा, --
“अष्टौ मासान् यथादित्यस्तोयं हरति रश्मिभिः ।
तथा हरेत् करान्राष्ट्रान्नित्यमर्कव्रतं हि तत्” ॥
इति मनुः ।

अर्कसूनुः, पुं, (अर्कस्य सूनुः पुत्त्रः ।) यमः । इति

हेमचन्द्रः ॥

अर्कसोदरः, पुं, (अर्कस्य सोदर इव हितकारी ।)

ऐरावतहस्ती । इति हेमचन्द्रः ॥

अर्कहिता, स्त्री, (अर्काय हिता अनुकूला, चतुर्थी-

तत्पुरुषः ।) आदित्यभक्तावृक्षः । इति राज-
निर्घण्टः ॥ हुढुडिया इति ख्याता । (अस्याः
विशेष आदित्यभक्ताशब्दे द्रष्टव्यः ॥)

अर्काश्मा, [न्] पुं, (अर्कस्य अनुगतः अश्मा, मध्य-

पदलोपी कर्म्मधारयः ।) अरुणोपलः । (चुणि
इति ख्यातः प्रस्तरभेदः ।) सूर्य्यकान्तमणिरिति
यावत् । इति हलायुधः ॥

अर्काह्वः, पुं, (अर्केण आहूयते यः, अर्क + आ +

ह्वे + अप् ।) अर्कवृक्षः । इत्यमरः ॥ आकन्द इति
भाषा ।

अर्कोपलः, पुं, (अर्कस्यानुगत उपलः, कर्म्मधारयः ।)

सूर्य्यकान्तमणिः । इति राजनिर्घण्टः ॥ (चुणि
इति ख्यातो रत्नभेदः । स्फटिकमणिः । “अका-
पृष्ठ १/१०३
:पलोल्लसितवह्निभिरह्नि तप्तास्तीव्रं महाव्रतमिवात्र
चरन्ति वप्राः” । इति माघः ।)

अर्गलं, क्ली, स्त्री, (अर्ज + कलच्, कुत्वम् ।) कपाट-

बन्धककाष्ठविशेषः । इत्यमरः ॥ हुड्का तसला
इत्यादि भाषा ।
(“ससम्भ्रमेन्द्रद्रुतपातितार्गला
निमिलिताक्षीव भियामरावती” ।
इति काव्यप्रकाशे ।
“तां सत्यनाम्नीं दृढतोरणार्गलां
गृहैर्विचित्रैरुपशीभितां शिवां” ।
इति रामायणे ।
“अथानपोढार्गलमप्यगारं” । इति रघुः । प्रति-
बन्धः । प्रत्यवायः । अन्तरायः ।
“ईप्सितं तदवज्ञानात् विद्धिसार्गलमात्मनः” ।
इति रघुवंशे ।)
कल्लोले त्रि । इति मेदिनी ॥ देवीमाहात्म्यपाठ-
स्यादौ पाव्यस्तोत्रविशेषः ॥ यथा
मार्कण्डेय उवाच ।
“ब्रह्मन् केन प्रकारेण दुर्गामाहात्म्यमुत्तमं ।
शीघ्रं सिद्ध्यति तत्सर्व्वं कथयस्व महाप्रभो ॥
ब्रह्मोवाच ।
अर्गलं कीलकञ्चादौ पठित्वा कवचं पठेत् ।
जपेत् सप्तशतीं पश्चात् क्रम एष शिवोदितः ॥
अर्गलं दुरितं हन्ति कीलकं फलदं तथा ।
कवचं रक्षते नित्यं चण्डिका त्रितयं दिशेत् ॥
अर्गलं हृदये यस्य स चानर्गलवाक् सदा ।
कीलकं हृदये यस्य वशकीलितमानसः ॥
कवचं हृदये यस्य स वज्रहृदयः खलु ।
ब्रह्मणा निर्म्मितं पूर्ब्बं विनिश्चित्यापि चेतसा” ॥
इत्यादि । तदाद्यश्लोको यथा, --
“जय त्वं देवि चामुण्डे जय भूतापहारिणि ! ।
जय सर्व्वगते देवि ! कालरात्रि नमोऽस्तु ते” ॥
तस्य शेषश्लोको यथा, --
“इदं स्तोत्रं पठित्वा च महास्तोत्रं पठेन्नरः ।
सप्तशतीं समाराध्य वरमाप्नोति सम्पदं” ॥
इत्यर्गलास्तोत्रं ॥

अर्गलिका, स्त्री, (क्षुद्रार्गला, अर्गला गौरादित्वात्

ङीष् स्वार्थे कन् ।) अल्पार्गला । इति हेमचन्द्रः ॥
खिल इति भाषा ।

अर्घ, मूल्ये, (भ्वादि -- परं -- सकं सेट् ।) इति

कविकल्पद्रुमः ॥ अर्घति गां गोपः । इति दुर्गा-
दासः । (“परीक्षका यत्र न सन्ति देशे नार्घन्ति
रत्नानि समुद्रजानि” । इति पञ्चतन्त्रे ।)

अर्घः, पुं, (अर्घ + घञ् ।) मूल्यं ।

(“कुर्य्युरर्घं यथापण्यं ततो विंशं नृपो हरेत्” ।
“मणिमुक्ताप्रबालानां लौहानां तान्तवस्य च ।
गन्धानाञ्च रसानाञ्च विद्यादर्घबलाबलम्” ॥
इति मनुः ।) पूजाविधिः । इत्यमरः ॥ अयं शब्दः
सामगानां सर्व्वत्राभिलापे सयकारो नपुंसकलिङ्गे-
नैव प्रयोज्यः अन्यवेदिनां निर्यकारः पुंलिङ्गेन
प्रयोज्यः । इति श्राद्धतत्त्वं ॥ (दूर्व्वाक्षतसर्षप-
पुष्पादिविरचितोदेवब्राह्मणादिसम्मानार्थः पूजो-
पचारभेदः । “अये वनदेवतेयं फलकुसुमपल्लवा-
र्घेण मामुपतिष्ठते” । इति उत्तरचरिते ।
“स प्रत्यग्रैः कुटजकुसुभैः कल्पितार्घाय तस्मै” ।
इति मेघटूते ।
“टूर्व्वासर्षपपुष्पाणां दत्वाघं पूर्णमञ्जलिम्” ।
इति याज्ञवल्क्यः ।)

अर्घीशः, पुं, (अर्घोऽस्त्यस्य इति अर्घी, तेषु ईशः ।)

शिवः । इति शब्दरत्नावली ॥

अर्घ्यं, त्रि, (अर्ह्यते पूज्यते, अर्ह + ण्यत्, न्यङ्क्वादी-

नाञ्चेति कुत्वं, अर्घमर्हति इति पादार्घाभ्याञ्चेति
यत् वा ।) पूजनयोग्यं । पूज्यं । इति मेदिनी ॥
अर्घ्यार्थं । तत्तु पूजार्थदूर्व्वाक्षतचन्दनपुष्पमिश्रित-
वारि । इत्यमरः ॥
(“अनर्घ्यमर्घ्येण तमद्रिनाथः,
स्वर्गौकसामर्च्चितमर्च्चयित्वा” ।
इति कुमारसम्भवे ।
“अर्घ्यमर्घ्यमितिवादिनं नृपं,
सोऽनवेक्ष्य भरताग्रजो यतः” ।
इति रघुवंशे ।) अर्घार्थजलम् इति अमरटीकायां
भरतः ॥ तत्तु सामान्यविशेषभेदेन द्विविधं ।
तत्राद्यस्य क्रमः । स्ववामे त्रिकोणवृत्तभूविम्बं
विलिख्याधारशक्तिं पूजयित्वा अस्त्रमन्त्रेण पात्रं
प्रक्षाल्य मन्त्रेण जलेनापूर्य्याङ्कुशमुद्रया मन्त्रेण,
सूर्य्यमण्डलात्तीर्थमावाह्य प्रणवेन गन्धपुष्पाभ्यां
संपूज्य धेनुमुद्रां प्रदर्श्य प्रणवमष्टधा दशधा वा
जपेत् ॥ अन्त्यस्य क्रमः । स्ववामे त्रिकोणमण्डलं
कृत्वा तत्र त्रिपदिकामारोप्य अस्त्रेण शङ्खं
प्रक्षाल्य तदुपरि संस्थाप्य मन्त्रेण गन्धपुष्पाक्षत-
दूर्व्वादि तत्र निःक्षिप्य विमलजलेन विलोम-
मातृकया मूलेन च पूरयेत् ततस्त्रिपदिकायां
वह्निमण्डलपूजा शङ्खे सूर्य्यमण्डलपूजा जले
सोममण्डलपूजा ततो मन्त्रेणाङ्गुशमुद्रया सूर्य्यम-
ण्डलात्तीर्थमावाह्य मन्त्रेण स्वहृदयाद्देवतां तत्रा-
वाह्य कूर्च्चमन्त्रेणावगुण्ठ्यास्त्रमन्त्रेण गालिनीमुद्रां
प्रदर्श्य मन्त्रेण तज्जलं वीक्ष्य अङ्गमन्त्रैः सकलीकृत्य
गन्धपुष्पाभ्यां देवतां संपूज्य तदुपरि मत्स्यमुद्रया-
च्छाद्य मूलमन्त्रमष्टधा जप्त्वा धेनुमुद्रां प्रदर्श्या-
स्त्रेण संरक्ष्य तस्मात् किञ्चित् जलं प्रोक्षणीपात्रे
निःक्षिपेत् । इति तन्त्रसारः ॥

अर्घ्यं, क्ली, (अर्घ + यत् ।) जरत्कारुमुनितपोवनतरू-

द्भतमधु । तस्य गुणाः । चक्षुरायुर्हितकारित्वं ।
आमवातकफपित्तनाशित्वञ्च । इति राजवल्लभः ॥

अर्च्च, क, पूजे । (चुरादि -- सक -- सेट् ।) इति

कविकल्पद्रुमः ॥ क अर्च्चयति । गोवर्द्धनस्त्विम-
मात्मनेपदिनं मत्वा विभ्राजसे मकरकेतनमर्च्च-
यन्तीत्यादि स्खलितमित्याह । इति दुर्गादासः ॥

अर्च्च, ञ, पूजे । (भ्वादि -- सक -- सेट् ।) इति कवि-

कल्पद्रुमः ॥ ञ अर्च्चति अर्च्चते । इति दुर्गादासः ॥

अर्च्चकः, त्रि, (अर्च्चति, अर्च्च + ण्वुल् ।) पूजकः ।

अर्च्चनाकारकः । यथा, --
“अर्च्चकस्य तपोयोगात् अर्च्चनस्यातिशायनात् ।
आभिरूप्याच्च विम्बानां देवः सान्निध्यमृच्छति” ॥
इति तिथ्यादितत्त्वं ॥
(“ब्रह्मचारी व्रती च स्यात् गुरुदेवद्विजार्च्चकः” ।
इति मनुः ।)

अर्च्चनं, क्ली, (अर्च्च + भावे ल्युट् ।) पूजनं । यथा, --

“धनधान्यकरं नित्यं गुरुदेवद्विजार्च्चनं” ।
इति राजवल्लभः ॥ पूजाद्रव्येत्रि । यथा, --
“अर्च्चकस्य तपोयोगात् अर्च्चनस्यातिशायनात्” ।
इति तिथ्यादितत्त्वं ।

अर्च्चना, स्त्री, (अर्च्च + युच्, टाप् ।) पूजा । इति

जटाधरः ॥ गुरुदेवद्विजानां नित्यार्च्चनागुणाः ।
स्वर्गयश-आयुर्धनधान्यकारित्वं । अलक्ष्मीपाप-
नाशित्वञ्च । इति राजवल्लभः ॥

अर्च्चा, स्त्री, (अर्च्च + आधारे अङ् ।) पूजा । प्रतिमा ।

इति मेदिनी ॥ (देवादीनां पूजनं । “अर्च्चा चेत्
विधितश्च ते वद तदा किं मोक्षलाभक्लमैः” ॥
इति शिवशतके ।)

अर्च्चिः, स्त्री, (अर्च्च + इन् ।) अग्निशिखा । इति

सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(“आसीदासन्ननिर्व्वाणप्रदीपार्च्चिरिवोषसि” ।
इति रघुवंशे ।)

अर्च्चिः, [स्] स्त्री, क्ली, (अर्च्च + इसि ।) अग्निशिखा ।

किरणाः । इत्यमरः । दीप्तिः । इत्युणादिकोषः ॥
अयं शब्दः सान्त इदन्तश्च ॥ (“हर्म्याणां हेमशृङ्ख-
श्रियमिव निचयैरर्च्चिषामादधानः” । “विरम
विरम वह्ने मुञ्च धूमानुबन्धं प्रकटयसि किमुच्चै-
रर्च्चिषां चक्रवालम्” । इति रत्नावली ।)

अर्च्चितः, त्रि, (अर्च्च + कर्म्मणि क्तः ।) पूजितः ।

इत्यमरः ॥ (पूजाविधिना सम्मानितः ।
“वेश्मन्येवं कृते तत्र गत्वा तान् परमार्च्चितान्” ।
“अर्च्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभ” ।
इति महाभारते ।)

अर्च्चिष्मान्, [त्] पुं, (अर्च्चिर्विद्यतेऽस्य, अर्च्चिस् +

मतुप् ।) अग्निः । इति हेमचन्द्रः ॥ सूर्य्यः । अर्च्चिः-
शब्दात् अतिशये मतुप्रत्ययः ॥ (त्रि, दीप्तः । तेजो-
विशिष्टः । प्रभावान् ।) (स्वनामख्यातो देवर्षिभेदः ।
यदुक्तं, हरिवंशे,
“अर्च्चिष्मांस्तम्बरुश्चैव भारिश्च वदतां वरः ।
नेतारो देवदेवानामेते हि तपसान्विताः” ।)

अर्च्च्यः, त्रि, (ऋच् + स्तुतौ ण्यत्, अर्च्च + यत् वा ।)

अर्च्चनीयः । पूज्यः । इति हेमचन्द्रः ॥
(“मरुत्प्रयुक्ताश्च मरुत्सखाभं,
तमर्च्च्यमारादभिवर्त्तमानम्” ।
इति रघुवशे ।)

अर्ज्ज, अर्ज्जने । (भ्वादि -- परं -- सकं सेट् ।) इति

कविकल्पद्रुमः ॥ अर्ज्जनमलब्धस्य लाभः । यश-
श्चार्ज्जति यः स्थिरमिति हलायुधः । इति
दुर्गादासः ॥

अर्ज्ज, क संस्कारे (चुरादि -- उभं -- सकं -- सेट् ।)

इति कविकल्पद्रुमः ॥ क अर्ज्जयति किमपि
लोकः संस्करोतीत्यर्थः । प्रतियत्ने प्राञ्चः । अर्ज्ज
यति धनं परिजनः । इति रमानाथः । इति
दुर्गादासः ॥
पृष्ठ १/१०४

अर्ज्जकः, पुं, (अर्ज्जयति, अर्ज्ज + ण्वुल् ।) श्वेतपर्णासः ।

वावुइ इति भाषा । तत्पर्य्यायः । श्वेतच्छदः २
गन्धपत्रः ३ पाता ४ कुठेरकः ५ । इति शब्दः-
चन्द्रिका ॥ वर्व्वरीभेदः । आजबलाइ इति
पश्चिमदेशे ख्यातः । तत्पर्य्यायः । क्षुद्रतुलसी २
क्षुद्रपर्णः ३ मुखार्ज्जकः ४ उग्रगन्धः ५ जम्बीरः
६ कुठेरः ७ कठिञ्जरः ८ । अस्य गुणाः । कटुत्वं ।
उष्णत्वं । कफवातामयनेत्ररोगनाशित्वं । रुचि-
कारित्वं । सुखप्रसवकारकत्वञ्च । इति राजनि-
र्घण्टः ॥ सामान्यतुलसी । इति रत्नमाला ॥
(“कफघ्ना लघवो रुक्षाः स्निग्धोष्णाः पित्तवर्द्धनाः ।
कटुपाकरसाश्चैव सुरसार्ज्जकभूस्तृणाः” ॥
इति सुश्रुतश्च ॥)

अर्ज्जकः, त्रि, (अर्ज्जयति, अर्ज्ज + ण्वुल ।) उपार्ज्जन-

कर्त्ता । यथा । “अतएव वशिष्ठेन ज्येष्ठस्यांशद्वय-
मभिधायार्ज्जकस्यांशद्वयमभिहितं” । इति दाय-
भागः ॥

अर्ज्जनं, क्ली, (अर्ज + ल्युट् ।) उपार्जनं । स्वत्वहेतु-

भूतो व्यापारः । यथा । अर्ज्जनं स्वत्वहेतुभूतो
ब्यापारः अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्ध-
मिति दायभागः ॥
(“अर्जयितृव्यापारोऽर्जनमिति जीमूतवाहनः” ।
“स्वामित्वजनकव्यापारत्वम्” इति महेश्वरः ।
“स्वामित्वहेतुभूतव्यापारत्वम् इति । श्रीकृष्णः ।
“पितृनिधनकालीनं वा जीवनमेव पुत्रस्यार्ज्जनं
भविष्यति” । इति दायभागः ।
“अर्थानामर्जने दुःखमर्जितानाञ्च रक्षणे” ।
इति पञ्चतन्त्रे ।
“द्रव्यार्जनञ्च नाशञ्च मित्रामित्रस्य चार्जनम्” ।
इति मनुः ।)

अर्जुनं, क्ली, (अर्ज + उनन् ।) तृणं । नेत्ररोगः ।

इति विश्वमेदिन्यौ ॥ तस्य लक्षणं । “एको यः
शशरुधिरोपमस्तु विन्दुः शुक्रस्थो भवति तदर्जुनं
वदन्ति” । इति माधवकरः ॥
(“नीरुक् श्लक्ष्णोऽर्जुनं विन्दुः शशलोहितलो-
हितः” इति वाभटश्च ।)

अर्जुनः, पुं, (अर्ज + उनन् ।) पाण्डुराजस्य तृतीय-

पुत्रः । स नु इन्द्रात् कुन्तीगर्भे जातः । तत्पर्य्यायः ।
फाल्गुनः २ जिष्णुः ३ किरीटी ४ श्वेतवाहनः ५
बीभत्सुः ६ विजयः ७ कृष्णः ८ सव्यसाची ९
धनञ्जयः १० । इति विराटपर्ब्ब । पार्थः ११
शक्रनन्दनः १२ गाण्डीवी १३ मध्यमपाण्डवः १४
श्वेतवाजी १५ कपिध्वजः १६ राधाभेदी १७
सुभद्रेशः १८ गुडाकेशः १९ वृहन्नलः २० । इति
जटाधरः ॥ ऐन्द्रिः २१ । इति भूरिप्रयोगः ॥ * ॥
स्वनामख्यातवृक्षविशेषः । आजन इति भाषा ।
तत्पर्य्यायः । नदीसर्जः २ वीरतरुः ३ इन्द्रद्रुः ४
ककुभः ५ । इत्यमरः ॥ शम्बरः ६ पार्थः ७
चित्रयोधीः ८ धनञ्जयः ९ वैरातङ्कः १० किरीटी
११ गाण्डीवी १२ शिवमल्लकः १३ सव्यसाची १४
कर्णारिः १५ करवीरकः १६ कौन्तेयः १७ इन्द्र-
सूनुः १८ वीरद्रुः १९ कृष्णसारथिः २० पृथाजः
२१ फाल्गुनः २२ धन्वी २३ । इति राजनिर्घण्टः ॥
तत्पर्य्यायगुणाः ।
“ककुभोऽर्जुननामाख्यो नदीसर्जश्च कीर्त्तितः ।
इन्द्रद्रुर्वीरवृक्षश्च वीरश्च धवलः स्मृतः ॥
ककुभः शीतलो भग्नक्षतक्षयविषास्रजित् ।
मेदोमेहव्रणान् हन्ति तुवरः कफपित्तहृत्” ॥
इति भावप्रकाशः ॥ अस्य गुणाः । क्षतभग्नरक्त-
स्तम्भनमूत्रकृच्छ्ररोगे पथ्यत्वं । इति राजवल्लभः ॥
कषायत्वं । उष्णत्वं । व्रणशोधनत्वं । कफपित्तश्रम-
तृष्णार्त्तिनाशित्वं । वायुरोगप्रकोपकारित्वञ्च ।
इति राजनिर्घण्टः ॥ * ॥ (अस्य व्यवहारो
यथा, --
“अर्ज्जुनस्य त्वचा सिद्धं क्षीरं दद्याद्धृदामये” ॥
इति वैद्यकचक्रपाणिसंग्रहः ॥)
कार्त्तवीर्य्यार्ज्जुनः । माहिष्मती नाम पुरी तस्य
राजधान्यासीत्, स खलु भुजवीर्य्येण सप्तद्वीपां
धरामजयत् । योगाद् बाहुसहस्रञ्च लब्धवान् ।
“तस्य बाहुसहस्रन्तु युध्यतः किल भारतः ! ।
योगात् योगेश्वरस्येव प्रादुर्भवति मायया ॥
तेनेयं पृथिवी सर्व्वा सप्तद्वीपा सपर्ब्बता ।
ससमुद्रा सनगरा उग्रेण विधिना जिता ॥
तेन सप्तसु द्वोपेषु सप्तयज्ञशतानि वै ।
प्राप्तानि विधिना राज्ञा श्रूयन्ते जनमेजय” ॥
“योऽज्जुनेनार्ज्जनस्तुल्यो द्विबाहुर्ब्बहुबाहुना” ।
इति महाभारते ।) मयूरः । मातुरेकसुतः । इति
मेदिनी ॥ श्वेतवर्णः । तद्वति त्रि । इत्यमरः ॥

अर्ज्जुनध्वजः, पुं, (अर्ज्जुनस्य पार्थस्य ध्वजः, रथ-

केतुभूतः, सततं तत्रावस्थानात् ।) हनूमान् ।
इति हेमचन्द्रः ॥

अर्ज्जुनी, स्त्री, (अर्ज्ज + उनन्, गौरादित्वात् ङीष् ।)

गवी । करतोयानदी । कुट्टनी । उषा । इति
विश्वमेदिन्यौ ॥

अर्ज्जुनोपमः, पुं, (अर्ज्जुनः स्वनामख्यातः वृक्षः उपमा

यस्य सः ।) वृक्षभेदः । शेगुन इति भाषा ।
तत्पर्य्यायः । महापत्रः २ शाकवृक्षः ३ अनीलः ४
अर्णः ५ । इति शब्दचन्द्रिका ॥ शाकाख्यः ६
खरपत्रः ७ । इति रत्नमाला ॥

अर्णः, पुं, (अर्त्तेः क्तः ।) शाकवृक्षः । इति शब्द-

चन्द्रिका । अक्षरं । इत्यागमः ॥ वर्णः । यथा, --
“वर्णोऽक्षरं रश्मिरर्णः स्वरास्तु कथिता अचः ।
व्यञ्जनानि हलो वर्गाः कादयोऽष्टौ प्रकीर्त्तिताः” ॥
इति वीजवर्णाभिधानं ॥

अर्णः, [स्] क्ली, (ऋच्छति, ऋ गतौ उदके नुट्

चेत्यर्त्तेरसुन् तस्य च नुट् ।) जलं । इत्यमरः ॥

अर्णवः, पुं, (अर्णांसि जलानि सन्त्यस्मिन्, अर्णसो-

लोपश्चेति वः सलोपश्च ।) समुद्रः । इत्यमरः ॥
(“अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” ।
इति रघुवंशे ।)

अर्णवजः, पुं क्ली, (अर्णवात् जायते, अर्णव + जन +

ड, उपपदसमासः ।) समुद्रफेनः । इति रत्नमाला ॥
(समुद्रफेनशब्देऽस्य विवरणं ज्ञेयं ॥)

अर्णवमन्दिरः, पुं, (अर्णवः मन्दिरमिव यस्य सः ।)

वरुणः । इति हेमचन्द्रः ॥

अर्णवोद्भवः, पुं, (उद्भवत्यस्मात्, उत् + भू + अपा-

दाने अप्, अर्णवः उद्भवो यस्य सः ।) अग्निजार-
वृक्षः । इति राजनिर्घण्टः ॥ । (अग्निजारशब्दे-
ऽस्य गुणा ज्ञातव्याः ॥) (चन्द्रः । अमृतं ।)

अर्णोदः, पुं, (अर्णांसि ददाति, दा + क ।) मुस्तकः ।

मेघः । इति राजनिर्घण्टः ॥

अर्णोभवः, पुं, (अर्णसि जले भवति, अर्णस् + भू +

अप्, उपपदसमासः ।) शङ्खः । इति राज-
निर्घण्टः ॥

अर्त्तगलः, पुं, (आर्त्तैव गलति, गल + अच्, पृषो-

दरादित्वात् वा ह्रस्वः ।) आर्त्तगलः । नील-
झिण्टिका । इत्यमरटीकायांभरतः ॥ (नीलझिण्टि-
शब्देऽस्य गुणो व्याख्येयः ॥)

अर्त्तनं, क्ली, (ऋत + ल्युट्, पक्षे इयङभावः ।)

जुगुप्सा । निन्दा । इत्यमरः ॥

अर्त्तिः, स्त्री, (अर्द्द + क्तिन् ।) पीडा । धनुरग्रभागः ।

इत्यमरः ॥ (पीडार्थे उदाहरणं यथा, --
“चूर्णं समं रुचकहिङ्गुमहौषधानां,
शुण्ठ्यम्बुना कफसमीरणसम्भवासु ।
हृत्पार्श्वपृष्ठजठरार्त्तिबिसूचिकासु
पेयन्तथा यवरसेन च विड्विबन्धे ॥”
इति वैद्यकचक्रपाणिसंग्रहः ॥)

अर्त्तिका, स्त्री, (ऋत + ण्वुल् ।) अन्तिका । नाट्योक्तौ

ज्येष्ठा भगिनी । इत्यमरटीकायां स्वामी ॥

अर्थ त् क ङ याचने । इति कविकल्पद्रुमः ॥ ङ

अर्थयते अर्थापयते । प्रार्थयत्यल्पमूल्यानीत्यादौ
प्रार्थनं प्रार्थः पश्चात् प्रार्थं करोति इति ञौ
परस्मैपदं । इति दुर्गादासः ॥

अर्थः, पुं, (अर्थ + घञ् ।) विषयः । याच्ञा ।

धनं । कारणं । वस्तु । शब्दप्रतिपाद्यः । निवृत्तिः ।
प्रयोजनं । इति मेदिनी ॥ प्रकारः । इति हेम-
चन्द्रः ॥ (धनार्थे यथा, --
“अर्थेन बलवान् सर्व्वः अर्थाद्भवति पण्डितः” ।
इति हितोपदेशे । अयञ्च त्रिवर्गस्यान्तर्गतः ।
“कस्यार्थधर्म्मौ वद पीडयामि
सिन्धोस्तटावोघैव प्रवृद्धः ।” इति कुभारसम्भवे ।
“तमसोलक्षणं कामो राजसस्त्वर्थ उच्यते
सत्त्वस्य लक्षणं धर्म्मः श्रेष्ठ्यमेषां यथोत्तरं” ॥
इति मनुः । शब्दप्रतिपाद्यः । शब्दानामभिधेयः ।
“वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये” ।
इति रधुवंशे । अभिधेये । अलङ्कारशास्त्रादौ
अर्थस्त्रिविधः, वाच्यो लक्ष्यो व्यङ्गश्चेति ।

अर्थना, स्त्री, (अर्थ + युच् ।) याच्ञा । भिक्षा ।

इत्यमरः ॥

अर्थपतिः, पुं, (अर्थानां पतिः, षष्ठीतत्पुरुषः ।)

कुवेरः । राजा । इति मेदिनी ॥
(“अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः” ।
“स नैषधस्यार्थपतेः सुतायाम्” । इति रघुवंशे ।)

अर्थप्रयोगः, पुं, (अर्थानां धनानां प्रयोगः, षष्ठी-

तत्पुरुषः ।) वृद्धिजोविका । इत्यमरः ॥ सुदे
देया वाडी देया इत्यादि भाषा ।
पृष्ठ १/१०५

अर्थवादः, पुं, (अर्थस्य लक्षणया स्तुत्यर्थस्य निन्दा-

र्थस्य वा वादः, वद् + करणे घञ् ।) स्तुतिः ।
प्रशंसा । इति हेमचन्द्रः ॥ स तु त्रिविधः । गुण-
वादः १ अनुवादः २ भूतार्थवादः ३ । यथा, --
“विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥
इति भट्टः ॥ तत्त्वसम्वोधिनीमते सप्तविधः । स्तुत्य-
र्थवादः १ फलार्थवादः २ सिद्धार्थवादः ३ नि-
न्दार्थवादः ४ परकृतिः ५ पुराकल्पः ६ मन्त्रः ७ ।
एषामुदाहरणानि श्रुत्युक्तत्वात् न लिखितानि ॥
विध्यसमभिव्याहृतवाक्यं । यथा । “अर्थवादश्च
विध्यसमभिव्याहृतवाक्यरूपः” सोऽपि त्रिविधः ।
गुणवादानुवादभूतार्थवादभेदात् । यथा --
“विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानावर्थवादस्त्रिधा मतः” ॥
इति ॥ अयमर्थः । विरोधे विशेष्यविशेषणयोः
सामानाधिकरण्येनान्वयविरोधे गुणवादः अङ्ग-
कथनरूपत्वात् । यथा “यजमान स्रस्तरः” इति ।
अत्र स्रस्तरः कुशमुष्टिः तस्य यजमानेऽभेदान्वय-
बाधात् यजमानस्य कुशमुष्टिधारणरूपार्थवाद-
रूपत्वात् गुणवादः । अवधारिते प्रमाणान्तर-
सिद्धेऽर्थे यो वादः । यथा नान्तरीक्षेऽग्निश्चेतव्यः
अग्निंर्हिमस्य भेषजं इत्यादि च । अन्तरीक्षेऽग्नि-
चयनस्यासम्भवेन तदभावस्य अग्नेर्हिमनाशक-
त्वस्य च लौकिकप्रमाणसिद्धत्वात् अनुवादः ।
तद्धानौ तयोर्विरोधावधारनयोरभावे भूतार्थ-
वादः । यथा इन्द्रो वृत्रहन्नित्यादि । सोऽपि
द्विविधः । स्तुत्यर्थवादो निन्दार्थवादश्च । यथा, --
“सन्ध्यामुपासते ये च” इत्यादि स्तुत्यर्थवादः ।
“स्त्रीतैलमांससंभोगी पर्ब्बस्वेतेषुवै पुमान् ॥
विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः” ।
इत्यादि निन्दार्थवादः । इति श्राद्धविवेकटीकायां
श्रीकृष्णतर्कालङ्कारः ॥ * ॥
“प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनं” ।
इति वेदान्तसारः ॥ तद्विवरणं यथा । अथार्थ-
वादाधिकरणं । तत्रार्थवादाश्च बहुषु श्रूयन्ते ते
किं प्रमाणं न वेति संशये पूर्ब्बपक्षसूत्रं । आम्ना-
यस्य प्रवर्त्तकत्वं तदर्थमेव तदवतारादिति । अ-
स्यार्थः । आम्नायस्य वेदस्य प्रवर्त्तकत्वं विधेये इति
शेषः । तदर्थं वेदाभिधानात् । तच्च प्रवर्त्तकत्वं
कार्य्यताज्ञानद्वारैव तद्विना प्रवृत्त्यभावात् । अतः
सिद्धार्थकानां स्तुत्यर्थवादानां कार्य्यतावाच-
कपदाभावात् न कार्य्यताधीजनकत्वं । अतो-
ऽप्रामाण्यमेव । अतस्तेषामर्थवादानां प्रवर्त्तक-
त्वार्थमवश्यं विधिकल्पनं कॢप्तविशेषणत्वं वा
युक्तं अतएव सिद्धान्तसूत्रं । विधिना त्वेकवाक्य-
त्वात् स्तुत्यर्थेन विधीनां स्युरिति । अस्यार्थः ।
अर्थवादानां स्तुतिपरत्वेन विधिना सह एक-
वाक्यत्वात् ते अर्थवादाः प्रमाणानि स्युः । तथा च
विधेयप्रवृत्तावेव तेषां तात्पर्य्यं तत्रैव प्रामाण्यं
यत्परशब्दः स शब्दार्थ इति सिद्धान्तात् न स्वार्थे
स्तुत्यादौ तत्र तात्पर्य्यामावात् । तर्हि यन्न टुःखेन
सम्भिन्नमित्यादेः स्वत्न्त्रार्थवादानां का गतिरित्य-
त्राह भूतार्थानां क्रियार्थेन समाम्नायः । अस्यार्थः ।
भूतार्थानां सिद्धार्थानां क्रियार्थेन कार्य्यबोधकेन
विधिना इति यावत् । समाम्नायः पाठः कार्य्य-
इति शेषः । ततश्च विधिवाक्याकाङ्क्षापूरकत्वेन
कार्य्यान्वितबोधकतया तेषां प्रामाण्यं । यथा ।
लिखिष्यमाणयूपाहवनीयवाक्यानां यूपाहवनीय-
परिचयाय कार्य्यान्वितबोधकत्वेन स्वार्यबोधकत्वे
प्रामाण्यं । तथा स्वर्गकामो यजेतेत्यत्र स्वर्गरूप-
परिचयाय स्वर्गबोधकत्वेन ।
“यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरं ।
अभिलाषोपनीतं यत् तत् सुखं स्वःपदास्पदं” ॥
इत्यादि वाक्यानामपि प्रामाण्यं । अन्यथा यूपा-
दिपदार्थापरिचये च तत्तद्विधिवाक्यानां प्रवृत्तिर्न
स्यादतो विधिनैकवाक्यत्वात् सिद्धार्थकानामपि
प्रामाण्यं । यत्र तु विधिना सह विरोधः तत्र
न स्वार्थे प्रामाण्यं । यथा “अहरहः सन्ध्यामुपा-
सीत” इत्यादौ ।
“सन्ध्यामुपासते ये तु नियतं संशितव्रताः ।
विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्” ॥
इत्याद्यर्थवादानां ॥ अतो नित्ये कर्म्मणि फलश्रुति-
रर्थवादएव सोऽपि रुच्युत्पादनपरः । अतोऽत्र
कार्य्यताज्ञानादेरप्रवृत्तिरिति दिक् । इति धर्म-
दीपिका ॥

अर्थवान्, [त्] पुं, (अर्थोऽस्त्यस्य, अर्थ + मतुप् +

मस्य वः ।) पुरुषः । इति राजनिर्घण्टः ॥ अर्थवि-
शिष्टे त्रि ॥ (ऐश्वर्य्यशाली । “तेनार्थवान् लोभपरा-
ङ्मुखेन” । इति रघुवंशे । अभिधेययुक्तः । सार्थकः ।
“करोति यः सर्व्वजनातिरिक्तां
सम्भावनामर्थवतीं क्रियाभिः” ।
इति किरातार्जुनीये । “अर्थवान् खलु मे राज-
शब्दः” । इति शाकुन्तले ।)

अर्थविज्ञानं, क्ली, (अर्थस्य विज्ञानं, षष्ठीतत्पुरुषः ।)

शुश्रूषाद्यष्टधीगुणान्तर्गतगुणविशेषः । शब्दार्थ-
ज्ञानं । इति हेमचन्द्रः ॥
(“शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
ऊहोऽपहोऽर्थविज्ञानं तत्वज्ञानञ्च धीगुणाः” ॥)

अर्थव्ययज्ञः, त्रि, (अर्थस्य व्ययं तत्प्रकारं जानाति,

ज्ञा + क ।) धनव्ययप्रकारवित् । (किं धनं, कथं,
कुत्र, कियत्, कस्मै वा व्ययितव्यमिति विशेषा-
भिज्ञः ।) तत्पर्य्यायः । सुकुलः २ । इति हेमचन्द्रः ॥

अर्थशास्त्रं, क्ली, (अर्थस्य भूमिधनादेः प्रापकं शास्त्रं,

षष्ठीतत्पुरुषः ।) चाणक्यादिप्रणितं नीतिशास्त्रं ।
तत्पर्य्यायः । दण्डनीतिः २ । इत्यमरः ॥ यथा, --
“वृहस्पतिप्रभृतिभिः प्रणीतञ्चार्थशास्त्रकं ।
तत्रैव दण्डनीतिः स्यादत्र ज्ञेयौ नयानयौ” ॥
इति शब्दरत्नावली ॥ अष्टादशविद्यान्तर्गतविद्या-
विशेषः । यथा विष्णुपुराणं ।
“अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्ब्बश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः” ॥
इति प्रायश्चित्ततत्त्वं ॥ * ॥ धर्म्मशास्त्रेणार्थ-
शास्त्रस्य बाध्यत्वं यथा ॥
“स्मृत्यर्थेन विरोधे हि अर्थशास्त्रस्य बाधनं ।
परस्परविरोधे तु न्याययुक्तं प्रमाणवत्” ॥
अर्थशास्त्रस्य मन्वादिप्रणीतराजनीत्यादिविष
यस्य । यदाह, --
“अनागमन्तु यो भुङ्क्ते बहून्यब्दशतान्यपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥
इत्यनयोर्धर्म्मशास्त्रार्थशास्त्रयोर्विप्रतिपत्तौ धर्म्म
शास्त्रेण दण्डविधायकमर्थशास्त्रं बाध्यते । तत-
श्चार्थशास्त्रस्य त्रिपुरुषीयेतरपरत्वेन सङ्कोचः” ।
इति मलमासतत्त्वं ॥

अर्थसिद्धकः, पुं, (अर्थात् सिद्धः, अर्थः प्रयोजनं

धनं वा सिद्धोऽस्य, समासान्तः कः ।) सिन्दवार-
वृक्षः । इति राजनिर्घण्टः ॥

अर्थागमः, पुं, (अर्थस्य आगमः, षष्ठीतत्पुरुषः ।)

धनागमः । तत्पर्य्यायः । आयः २ । इति हलायुधः ॥
(“अर्थागमो नित्यमरोगिता च
प्रिया च भार्य्या प्रियवादिनी च ।
वश्यश्च पुत्त्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि राजन्” ॥
इति हितोपदेशे ।)

अर्थिकः, पुं, (अर्थयते इत्यर्थी याचकः कुत्सितार्थे

कन् ।) वैतालिकः । निद्राणस्य राजादेर्जागर-
यिता । इति हेमचन्द्रः ॥

अर्थी, [न्] त्रि, याचकः । सहायः । सेवकः ।

विवादी । इति विश्वः ॥ धनी । अर्थो विद्यते-
ऽस्येति इन् ॥

अर्थ्यं, क्ली, (अर्थ + यत् ।) शिलाजतु । इत्यमर-

मेदिनीकरौ ॥ अर्थहिते त्रि ॥

अर्थ्यः, त्रि, (अर्थे साधुः, तत्साधुरिति यत्, अर्था-

दनपेतः, धर्म्मपथ्यर्थन्यायादनपेत इति यत्प्रत्ययः ।)
पण्डितः । धनवान् । न्याय्यः । इत्यमरभरतौ ।
याच्यः । याचनार्थकार्थधातोः कर्म्मणि यः ॥
(अर्थयुक्तः । उदरार्थयुक्तः ।
“अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः” ।
इति रघुवंशे ।
“वागीशं वाम्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे” ।
इति कुमारसम्भवे ।)

अर्द यातनागतियाचनेषु । (गतौ, सकं पीडायां अकं

भ्वादि परं सेट् ।) इति कविकल्पद्रुमः ॥ यातना
ताडनं । अर्द्दति पुत्रं पिता । “शरद्घनं नार्द्दति
चातकोऽपि” । न याचतीत्यर्थः । इति दुर्गादासः ॥

अर्द ञ बधे । (चुरां-उभं-सकं-सेट् ।) इति कविकल्प-

द्रुमः ॥ ञ अर्द्दति अर्द्दते । “रक्षःसहस्राणि चतुर्द्द-
शार्द्दीत्” । अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥

अर्द क बधे । इति कविकल्पद्रुमः ॥ क अर्द्दयति ।

अयमात्मनेपदीत्यन्ये । इति दुर्गादासः ॥

अर्दनं, क्ली, (अर्द + ल्युट् ।) याचनं । पीडनं ।

हननं । गमनं । अर्दधातोर्भावेऽनट्प्रत्ययः ॥
(“सृजस्वेति तदोवाच बलं परबलार्द्दनम्” ।
इति रामायणे ।)