सामग्री पर जाएँ

शब्दकल्पद्रुमः/अभियोगः

विकिस्रोतः तः

शब्दकल्पद्रुमः


पृष्ठ १/०७५

अभियोगः, पुं, (अभि + युज् + भावे घञ् ।) अप-

राधादियोजनं । अन्येन विरोधे स्वार्थसम्बन्धितया
राजसमीपे कथनं । आद्दास नालिश इति
ख्यातः । यथा, --
“अभियोगमनिस्तीर्य्य नैनं प्रत्यभियोजयेत्” ।
इति याज्ञवल्क्यः ॥ युद्धार्थाह्वानं । इति राय-
मुकुटः ॥ अपकारकरणेच्छापूर्ब्बकाक्रमणं । तत्प-
र्य्यायः । अभिग्रहः २ । इत्यमरः ॥ उद्योगः ।
इति हेमचन्द्रः ॥
(“स प्रापदप्राप्तपराभियोगं
नरेन्द्रगुप्तं नगरं महूर्त्तात्” ।
इति कुमारसम्भवे ।)

अभिरामः, त्रि, (अभिरमते मनोऽत्र, अभि + रम् +

आधारे घञ् ।) रुचिरः । सुन्दरः । इति हेम-
चन्द्रः ॥ (मनोहरः । मनोज्ञः । रमणीयः । आन-
न्दकरः ।
“मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” ।
इति रघुवंशे ।)

अभिरूप, पुं, (अभिलक्ष्यं रूपमस्य ।) पण्डितः । इति

हेमचन्द्रः ॥ कामदेवः । चन्द्रः । शिवः । विष्णुः ।
इति शब्दरत्नावली ॥

अभिरूपः, त्रि, (अभिरूपयति शास्त्रार्थं निरूप-

यति, अभिरूप + णिच् + अच् ।) मनोहरः ।
पण्डितः । इति मेदिनी ॥ (“इयं हि रसभाव-
विशेषदीक्षागुरोः विक्रमादित्यस्याभिरूपभूयिष्ठा
परिषद्” । इति शाकुन्तले ।)

अभिलापः, पुं, (अभिलप्यते मानसं कर्म्म कथ्यते-

ऽनेन, अभि + लप् + करणे घञ् ।) शब्दः । इति
त्रिकाण्डशेषः ॥ सङ्कल्पाङ्गवाक्यं । यथा । “काम्या-
भिलापसहितः कुशतिलजलत्यागरूपः सङ्कल्पः
शास्त्रार्थः” । इति प्रक्रमाधिकरणं ॥ (वचनं ।
कथनं । वाक्यं ।
“तथाभिलापसंसर्गयोग्यत्वविरहान्न च ।
सविकल्पकसंवेद्यः” । इति साहित्यदर्पणे ।)

अभिलावः, पुं, (अभि + लू + भावे घञ् ।) छेदनं ।

इत्यमरः ॥

अभिलाषः, पुं, (अभि + लष + भावे घञ् ।) लोभः ।

तत्पर्य्यायः । इच्छा २ आकाङ्क्षा ३ स्पृहा ४ ईहा
५ तृट् ६ वाञ्छा ७ लिप्सा ८ कामः ९ तर्षः १०
मनोरथः ११ । इत्यमरः ॥ काङ्क्षा १२ कान्तिः १३
रुक् १४ रुचिः १५ दोहदः १६ अभिलासः १७ ।
इति शब्दरत्नावली ॥ श्रद्धा १८ तृष्णा १९ मतिः २०
छन्दः २१ । इति जटाधरः ॥ (“भव हृदय साभि-
लाषं सम्प्रति सन्देहनिर्णयो जातः” । इति शाकु-
न्तले । “अतोऽभिलाषे प्रथमं तथाविधे” । इति
रघुवंशे ।) सङ्गमेच्छा २२ । इति रसमञ्जरी ॥

अभिलाषी, [न्] त्रि, (अभि + लष् + णिनि ।)

अभिलाषयुक्तः । यथा, --
“जलाभिलाषी जलमाददानां
छायेव तां भूपतिरन्वगच्छत्” ।
इति रघुवंशे ॥

अभिलाषुकः, त्रि, (अभि + लष् + शीलार्थे उकञ् ।)

अभिलाषयुक्तः । तत्पर्य्यायः । लुब्धः २ गृध्नुः ३
गर्द्धनः ४ तृष्णक् ५ । इत्यमरः ॥ लोभी ६
विलासविभवानसः ७ । इति जटाधरः ॥
(“जयमत्रभवान् नूनमरातिष्वभिलाषुकः” ।
इति भारविः ।)

अभिलासः, पुं, (अभि + लस् + भावे घञ् ।) अभि-

लाषः । इच्छा । इत्यमरटीकासारसुन्दरी ॥

अभिवादः, पुं, (अभि + वद + भावे घञ् ।) अप्रिय-

वाक्यं । तत्पर्य्यायः । पारुष्यं २ । इत्यमरः ॥
(वन्दना । प्रणतिः । प्रणामः ।
“अभिवादात्परं विप्रो ज्यायांसमभिवादयन् ।
असौनामाहमस्मीति स्वं नाम परिकीर्त्तयेत्” ॥
इति मनुः ।)

अभिवादकः, त्रि, (अभि + वद् + णिच् + ण्वुल् ।)

वन्दनशीलः । तत्पर्य्यायः । वन्दारुः २ । इत्यमरः ॥
अप्रियवक्ता । पारुष्यार्थाभिपूर्ब्बवदेः कर्त्तरि णकः ॥
(प्रणामकारी । अभिवादनकारी ।
“आगतोऽस्मीत्युवाचैनं भवन्तमभिवादकः” ।
इति नलोपाख्यानं ।)

अभिवादनं, क्ली, (अभिमुखीकरणाय वादनं नामो-

च्चारणपूर्ब्बकनमस्कारः, अभि + वद् + णिच् भावे
ल्युट् ।) नामोच्चारणपूर्ब्बकनमस्कारः । अभि-
वादये भो अमुकशर्म्माहमित्येवंरूपः । तत्तु पाद-
स्पर्शपूर्ब्बकनमस्कारः । तत्पर्य्यायः । पादग्रहणं २ ।
इत्यमरः ॥
(“अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्द्धन्ते आयुर्विद्यायशोबलं” ॥
इति मनुः ।)

अभिव्याप्तिः, स्त्री, (अभि + वि + आप् + भावे

क्तिन् ।) सर्व्वत्रावस्थानं । सर्व्वतोवृत्तिः । तत्पर्य्यायः ।
संमूर्च्छनं २ । इत्यमरः ॥

अभिशपनं, क्ली, (अभि + शप् + भावे ल्युट् ।)

मिथ्याभिशंसनं । अभिशापः । अभिपूर्ब्बशपधातो-
र्भावेऽनट् ॥

अभिशप्तः, त्रि, (अभि + शप् + क्तः ।) प्राप्ताभि-

शापः । शापग्रस्तः । यथा, --
“न नामग्रहणं कुर्य्यात् कृपणस्य गुरोस्तथा ।
भार्य्याया अभिशप्तस्य जनकस्य विशेषतः” ॥
इति मेघदूतटीका ॥
(“न क्रुध्यत्यपिशप्तोऽपि क्रोधनीयानि वर्ज्जयन्” ।
इति रामायणे । “अथ तेन निगृह्य विक्रिया-
मभिशप्तः फलमेतदन्वभूत्” । इति कुमारसम्भवे ।)

अभिशस्तः, त्रि, (अभि + शन्स + क्तः ।) परस्त्रियां

परपुरुषे वा मैथुनं प्रति मिथ्यादूषितः । मैथुनं
प्रति आहूतः । इति केचित् । उपपन्नपातकः ।
इति केचित् । मिथ्यादूषितमात्रं । इति केचित् ।
इति भरतः ॥ तत्पर्य्यायः । आक्षारितः २ क्षारितः
३ । इत्यमरः ॥ (प्राप्तापवादः । अभिपक्रुष्टः ।
“वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
नाग्निर्ददाह रोमाणि सत्येन जगतः स्पृशः” ॥
इति मनुः । विनिन्दितः । विगर्हितः । पातक-
कर्त्ता ।
“पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयीः” । इति मनुः ।)

अभिशस्तिः, स्त्री, (अभि + शन्स + भावे क्तिन् ।)

लोकापवादः । इति हेमचन्द्रः ॥ (“स्यमन्तकं
च सत्राजिताय दत्त्वा मिथ्याभिशस्तिविशुद्धम्
अवाप” । इति विष्णुपुराणे ।) याच्ञा । इत्य-
मरः ॥

अभिशापः, पुं, (अभि + शप् + घञ् वृद्धिः ।) स्वर्ण-

स्तेयंत्वया कृतमित्यादिमिथ्यादूषणं वाक्यं । मिथ्या-
पवादः । तत्पर्य्यायः । मिथ्याभिशंसनं २ । इत्य-
मरः ॥ क्रोधात् द्विजादिभिर्दुःखाभिधारणं । इति
पुराणं ॥ ब्राह्मणगुरुवृद्धसिद्धानां अनिष्टाभिशं-
सनं । इति विजयरक्षितः ॥
(“यस्याभिशापात् दुःखार्त्तो दुःखं विन्दति नैषधः” ।
इति नलोपाख्याने ।)

अभिषङ्गः, पुं, (अभि + सन्ज + घञ् उपसर्गादिति

षः ।) पराजयः । आक्रोशः । शपथः । इति मेदिनी ॥
मिथ्यापवादः । इति मथुरानाथः ॥ आलिङ्गनं ।
इत्यमरटीकायां रायमुकुटः ॥ सर्व्वतोभावेन
सङ्गः । इति हलायुधः ॥ भूताद्यावेशः । यथा, --
“अभिघाताभिचाराभ्यामभिषङ्गाभिशापतः” ।
इति माधवकरः ॥ (पराभवः । परिभूतिः ।
“जाताभिषङ्गो नृपतिर्निषङ्गा-
दुद्धर्त्तुमैच्छत् प्रसभोद्धृतारिः” ।
इति रघुवंशे ।
“तीव्राभिषङ्गप्रभवेन वृत्तिं
मोहेन संस्तम्भयतेन्द्रियाणां” ।
इति कुमारसम्भवे । शोकः । दुःखं । “अभि-
षङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोध-
यत्” । इति रघुः ।)

अभिषवः, पुं, (अभि + सु + अप्, गुणः षत्वञ्च ।

यज्ञः । स्नानं । मद्यसन्धानं । तत्तु चिरस्थापित
मदोत्पादकद्रव्यं । इति मेदिनी ॥ यज्ञस्नानं
सोमलतापानञ्च । तत्पर्य्यायः । सूत्या २ सवनं ३ ।
इत्यमरः ॥
(“भवेदभिषवः स्नाने मद्ये सन्धानयज्ञयोः” ।
इति मेदिनी)

अभिषवं, क्ली, काञ्जिकं । इति हलायुधः ॥ काँजि

इति भाषा ।

अभिषुतं, क्ली, (अभि + सु + क्तः षत्वं ।) काञ्जिकं ।

इत्यमरः ॥

अभिषेकः, पुं, (अभि + सिच् + भावे घञ् ।) स्नानं ।

इति त्रिकाण्डशेषः ॥
(“एकदा सोऽभिषेकार्थमाजगाम महानदों” ।
इति विष्णुपुराणे ।
“निर्वृत्तपर्य्यन्यजलाभिषेकां ।
वासोवसानामभिषेकयोग्यं” ।
इति कुमारसम्भवे ।)
अथ ँदोलयात्राभिषेकद्रव्याणि लिख्यन्ते । शी-
तलजलं १ गोमयं २ गोमूत्रं ३ दुग्धं ४ दधि ५
घृतं ६ कुशोदकं ७ शङ्खोदकं ८ चन्दनोदकं ९
कुङ्कुमोदकं १० फलोदकं ११ पुष्पोदकं १२ चन्दन-
पिष्टामलक्युद्वर्त्तनं १३ सुगन्धिजलं १४ तेनाष्ट-
वारस्नानं तत्र द्वितीयसप्तमाष्टमवारेषु दुग्धघृत-
पृष्ठ १/०७६
:मधुयोजनं । गन्धोदकं १५ । तेन पञ्चधा स्नानं ।
तीर्थजलं १६ गङ्गोदकं १७ वल्मीकतोयं १८
सर्व्वौषधिजलं १९ सहस्रधाराजलं २० घटो-
दकं २१ केषाञ्चिन्मते अष्टोत्तरशतघटोदकं ।
इति उत्कलखण्डं ॥ * ॥ अथ वृहन्नन्दिकेश्वरपुरा-
णोक्तानि ँदुर्गापूजाभिषेकद्रव्याणि लिख्यन्ते ।
पिष्टामलकीयुक्तहरिद्रा १ । तया दर्पणप्रतिविम्बे
देवीमुद्वर्त्त्य यथाक्रमं वक्ष्यमाणप्रत्येकद्रव्येण मन्त्रं
पठित्वा स्नापयेत् । शुद्धजलं २ शङ्खजलं ३ गङ्गा-
जलं ४ गन्धोदकं ५ पञ्चगव्यं प्रत्येकं यथा --
गोमूत्रं ६ गोमयं ७ दुग्धं ८ दधि ९ घृतं १०
कुशोदकं ११ पञ्चामृतं १२ शिशिरोदकं १३
मधु १४ पुष्पोदकं १५ इक्षुरससागरोदके १६
सर्व्वौषधिमहौषधिजलं १७ पञ्चकषायोदकं १८
अष्टमृत्तिकाः १९ फलोदकं २० उष्णोदकं २१
सहस्रधाराजलं २२ अष्टकलसोदकं यथा । व्योम-
गङ्गाम्बुपूर्णाद्यकलसः २३ मेघतोयपूर्णद्वितीयक-
लसः २४ सारस्वततोयपूर्णतृतीयकलसः २५ सा-
गरोदकपूर्णचतुर्थकलसः २६ पद्मरेणुमिश्रितजल-
पूर्णपञ्चमकलसः २७ निर्झरोदकपूर्णषष्ठकलसः २८
सर्व्वतीर्थाम्बुपूर्णसप्तमकलसः २९ शुद्धजलपूर्णा-
ष्टमकलसः ३० ॥ * ॥ नानापद्धतिषु द्रव्याणां व्युत्-
क्रमपुनरुक्त्याधिक्यानि सन्ति यत्र यान्युक्तातिरि-
क्तद्रव्याणि तानि लिख्यन्ते । यथा । नदी १ नारि-
केल २ रत्न ३ वृष्टि ४ कर्पूर ५ चन्दन ६ अगुरु ७
स्वर्ण ८ रजत ९ गोरोचना १० कुङ्कुम ११ श्रीफल
१२ धान्य १३ दूर्व्वा १४ शर्करा १५ सरोवर १६
अस्त्र १७ गङ्गासागर १८ पञ्चशस्य १९ तिल २०
ह्रद २१ पुष्करिणी २२ कूप २३ फलमूल २४
अर्घ्य २५ घटचतुष्टय २६ -- जलानि । शीतलज-
लञ्च २७ ॥ तिलतैलं १ गन्धतैले २ ॥ नदीकूल १
वराहदन्त २ वेश्याद्वार ३ राजद्वार ४ वृषशृङ्ग ५
वल्मीक ६ चतुष्पथ ७ पारावार ८ देवद्वार ९
गङ्गा १० -- मृत्तिकाः ॥ गजदन्त ११ नद १२ उभय-
कूल १३ नागर १४ गोष्ठ १५ त्रिपथ १६ --
मृत्तिका इति केचित ॥ पञ्चामृतं प्रत्येकं सर्व्वौ-
षधिमहौषधी पृथक् ॥ पञ्चकषायाः प्रत्येकं ॥
पञ्चामृतातिरिक्तमधुघृतदुग्धानि ॥ उद्वर्त्तनद्रव्ये
केवलहरिद्रा इति केचित् ॥ तैलहरिद्रा इति
केचित् ॥ गन्धपिष्टपञ्चशस्यचूर्णमिति केचित् ॥
कालीपुराणदेवीपुराणोक्तपद्धतिष्वपि तथा । तासां
मध्ये पूर्ब्बोक्तातिरिक्तद्रव्याणि लिख्यन्ते । यथा ।
प्रबाल १ मरकत २ पद्मराग ३ मुक्ता ४ मा-
णिक्य ५ वैदूर्य्य ६ पद्म ७ कह्लार ८ कुमुद ९
खण्ड १० अलक्त ११ वापी १२ रक्तचन्दन १३
नानातीर्थ १४ हरिद्रा १५ पिष्ट १६ शालि-
तण्डुल १७ सिद्धार्थ १८ -- जलानि ॥ पञ्चतीर्थ-
मृत् १ ॥ विष्णुतैलं १ ॥ उद्वर्त्तनद्रव्यं तैलहरिद्रा-
युक्तामलकी १ ॥ * ॥ अथ वृहन्नन्दिकेश्वरदेवी-
कालोपुराणपद्धत्युक्ताष्टकलसस्नानकालीनरागिणी
रागवाद्यानि ॥
प रागरागिण्यौ । वाद्यं ।
वृं । मालसी १ मङ्गलोत्सवः १
दें । वाराडी १ इन्द्रविजयः १
कां । मालवः १ विजयः १
वृं । देवकीरी २ भुवनविजयः २
दें । मालवगौडः २ मङ्गलविजयः २
कां । ललिता २ दुन्दुभिः २
वृं । वाराडी ३ विजयः ३
दें । मालवः ३ देवोत्सवः ३
कां । विभाषा ३ दुन्दुभिः ३
वृं । देशालः ४ राजाभिषेकः ४
दें । देशालः ४ घनतालः ४
कां । भैरवी ४ वंशी ४
वृं । धानुषी ५ मधुरी ५
दें । मालवी ५ मधुकरः ५
कां । कोडा ५ इन्द्राभिषेकः ५
वृं । भैरवी ६ करतालः ६
दें । भैरवी ६ ढक्का ६
कां । वाराडी ६ शङ्खः ६
वृं । गुज्जरी ७ वंशी ७
दें । वसन्तः ७ शङ्खः ७
कां । वसन्तः ७ पञ्चशब्दः ७
वृं । वसन्तः ८ पञ्चशब्दः ८
दें । कोडा ८ मृदङ्गः ८
कां । धानुषी ८ विजयः ८
अथ देवप्रतिष्ठाभिषेकद्रव्याणि । नदी १ नद २
सागर ३ निर्झर ४ -मेघजलानि ५ पञ्चामृतं ६
कुशोदकसहितपञ्चगव्यं ७ अश्वखुर ८ गजदन्त ९
पर्ब्बत १० कुश ११ वल्मीकमृत्तिकाः १२ तिलतैलं
१३ घृतं १४ पञ्चकषायोदकं १५ आम्र १६ चम्पक
१७ शमी १८ पद्म १९ -- करवीरपुष्पाणि २०
तुलसी २१ कुन्द २२ -- श्रीफलपत्राणि २३ तिल-
कल्कशालितण्डुलविल्वपत्रामलकचूर्णान्यतममार्ज-
नद्रव्यं २४ उष्णोदकं २५ तीर्थोदकं २६ अष्टो-
त्तरशतकुम्भाः तदर्द्धंवा विंशतिर्व्वा एको वा २७ ।
बैदिकाष्टोत्तरशतपलेन लौकिकषष्ट्यधिकशत-
त्रयतोलकमितेन जलेन पृथक् पृथक् घटेन द्रव्य-
मालोड्य कार्य्यं ॥ अशक्तौ तु । वल्मीकमृत्तिका ।
गोमयं । शुष्कगोमयं । भस्मयुक्तपरिमितजलं ।
गन्धयुक्तजलञ्च । इति देवप्रतिष्ठातत्त्वं ॥ * ॥ अथ
राजाभिषेकद्रव्याणि । मृगचर्म्मास्तीर्णालङ्कृत-
स्वर्णभद्रासनं १ गङ्गायमुनासङ्गमजलं २ यावत्-
पुण्यनदीजलं ३ पूर्ब्बमुखनदीजलं ४ पश्चान्मुखनदी-
जलं ५ तिर्य्यङ्नदीजलं ६ सर्व्वसमुद्रजलं ७ क्षी-
रिवृक्षप्रबालयुक्तपठ्मोत्पलविमिश्रितालङ्कृतकाञ्चन-
पूर्णकुम्भाः ८ रुचकः ९ रोचना १० घृतं ११
मधु १२ दुग्धं १३ दधि १४ पुण्यतीर्थमृत्तिका १५
पुण्यतीर्थजलं १६ मङ्गलद्रव्यं १७ मणिदण्डश्वेत-
चामरव्यजनं १८ माल्यभूषितश्वेतच्छत्रं १९ श्वेत-
वृषः २० श्वेताश्वः २१ महागजवरेः २२ वराभ-
रणभूषिताष्टकन्याः २३ सर्व्ववादित्राणि २४ अ-
लङ्कृतवन्दी २५ । इति वाल्मीकरामायणे अयो-
ध्याकाण्डं ॥ * ॥ अथ राजाभिषेकविधिः । पुरो-
हितो राज्ञः प्रजापालनाधिकारसिद्ध्यर्थं परदिने-
ऽभिषेके कर्त्तव्ये पूर्ब्बदिने गणेशमातृकापूजन-
पुण्याहवाचननान्दीप्रभृति पूर्ब्बाङ्गं कुर्य्यात् । राजा
राज्ञी च नियमं कृत्वा उपवासं कुर्य्यात् । पर-
दिने अमात्यसामन्तसहितः पुरोहितः कृतमङ्गल-
स्नानौ राज्ञीराजानौ मणिकाञ्चनपृथिवीपुष्पाणि
स्पर्शयित्वा नानारत्नचन्द्रातपोपशोभितमण्डप-
मध्ये व्याघ्रचर्म्माच्छादितासने उपवेशयेत् । ततः
पूर्ब्बोत्तरनीचां वेदीं कृत्वा तत्र स्वगृह्योक्तविधि-
नाग्निं संस्थाप्य घृताक्ताः पलाशाश्वत्थशमीसमिधो
वैदिकैर्म्मन्त्रैर्जुहुयात् । तत औडुम्बरस्रुवेण वैदि-
कमन्त्रैर्घृताहुतीर्जुहुयात् । ततः सर्व्वतोभद्रम-
ण्डपे स्थापितस्वर्णरजतताम्रमृण्मयकलसस्थसर्व्वौ-
षधिपल्लवैलालवङ्गादि-सुगन्धिद्रव्यसंवासितपुण्य-
नदीतोयं सुवर्णविभूषितशङ्खेन ऋत्विग्भिः सह
गृहीत्वा तूर्य्यघोषैर्मङ्गलपाठैः राजसूयवाजपेय-
महाभिषेकोक्तसूक्तमन्त्रैः सस्त्रीकं राजानं प्राङ्-
मुखं मूर्द्ध्नि कन्याभिः सहाभिषिञ्चेत् । ततोऽमा-
त्यादयः सर्व्वे अभिषिञ्चेयुः । ततः पुरोहित-
मन्त्रिसामन्तप्रकृतिपुरुषा अलङ्कृताभिः कन्याभिः
सह सुवासोगन्धमाल्याद्यलङ्कृतराज्ञीराज्ञोर्ललाटे
कुङ्कुमागुरुकस्तूर्य्यादिद्रव्यैस्तिलकं दद्युः । ततो
राज्ञो मूर्द्ध्नि किरीटं दत्त्वा छत्रचामरादिराज-
चिह्नद्रव्याणि समुपकल्पेयुः । ततो दुन्दुभिस्वस्ति-
पुण्याहचतुर्व्वेदधोषैः स्वकुलक्रमागतनाम्ना अमुक
त्वं राजा भव इत्युक्त्वा राजोपरि श्वेतकुसुम-
लाजाक्षतादि विकिरेयुः । ततो वन्दिनो माग-
धाश्च स्तुतिं कुर्य्युः । ततो ब्राह्मणा आशिषं
कुर्य्युः । ततः अमात्यादयः राज्ञे उपायनानि दत्त्वा
नमस्कुर्य्युः । इति महाभारतादयः ॥ * ॥

अभिषेणनं, क्ली, (सेनया अभियानम् । सेना-

शब्दात् णिच्, ल्युट् । उपसर्गात् सुनोतीति
षत्वम् ।) शत्रुं प्रति सेनासहितगमनं । सेनया
सह करणभूतया वा विजिगीषोः शत्रोराभि-
मुख्येन गमनं । इत्यमरभरतौ ॥ (“यत् सेनयाभि-
गमनमरौ तदभिषेणनम्” । इत्यमरः ।)

अभिष्टुतं, त्रि, (अभि + स्तु + कर्म्मणि क्तः ।)

वर्णितं । स्तुतं । इत्यमरः ॥ (“अभिष्टुतो विश्वसृजा
प्रसूनैः” । इति भागवतपुराणे ।)

अभिष्यन्दः, पुं, (अभि + स्यन्द + घञ् । “अनुविप-

र्य्यभिनिभ्यः स्यन्दतेरप्राणिषु” इति षत्वं ।) अति-
वृद्धिः । आस्रावः ।
“अलकामतिवाह्यैव वसतिं वसुसम्पदाम् ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्” ॥
इति कुमारसम्भवे ।) चक्षूरोगविशेषः । इति
मेदिनी ॥ तस्य निदानं सम्प्राप्तिश्च । यथा, --
“उष्णाभितप्तस्य जलप्रवेशाद्-
दूरेक्षणात् स्वप्नविपर्य्ययाच्च ॥
स्वेदाद्रजोधूमनिषेवणाच्च
पृष्ठ १/०७७
:छर्देर्विघाताद्वमनातियोगात् ॥
द्रवात्तथान्नान्निशि सेविताच्च
विण्मूत्रवातक्रमनिग्रहाच्च ।
प्रसक्तसंरोदनशोककोपा-
च्छिरोऽभिघातादतिमद्यपानात् ॥
तथा ऋतूनाञ्च विपर्य्ययेण
क्लेशाभिघातादतिमैथुनाच्च ।
वाष्पग्रहात् सूक्ष्मनिरीक्षणाच्च
नेत्रे विकारान् जनयन्ति दोषाः” ॥
स च चतुर्व्विधः । यथा, --
“वातात् पित्तात् कफाद्रक्तादभिष्यन्दश्चतुर्व्विधः ।
प्रायेण जायते घोरः सर्व्वनेत्रामयाकरः ॥
निस्तोदनस्तम्भनरोमहर्ष-
संघर्षपारुष्यशिरोऽभितापाः ।
विशुष्कभावः शिशिराश्रुता च
वाताभिपन्ने नयने भवन्ति ॥
दाहप्रपाकौ शिशिराभिनन्दा
धूमायनं वाष्पसमुच्छ्रयश्च ।
उष्णाश्रुता पीतकनेत्रता च
पित्ताभिपन्ने नयने भवन्ति ॥
उष्णाभिनन्दा गुरुताक्षिशोथः
कण्डूपदेहावतिशीतता च ।
स्रावो बहुः पिच्छिल एव चापि
कफाभिपन्ने नयने भवन्ति ॥
ताम्राश्रुता लोहितनेत्रता च
राज्यः समन्तादतिलोहिताश्च ।
पित्तस्य लिङ्गानि च यानि तानि
रक्ताभिपन्ने नयने भवन्ति” ॥
इति माधवकरः ॥ तस्य चिकित्सा यथा, --
“द्वे पादमध्ये पृथुसन्निवेशे
शिरो गते द्वे बहुधा हि नेत्रे ।
ताः प्रोक्षणोत्सादनलेपनादीन्
पादप्रयुक्तान्नयनं नयन्ति” ॥
प्रोक्षणं सेचनं । उत्सादनं उद्वर्त्तनं ।
“मलोष्मसंघट्टनपीडनाद्यै-
स्ता दूषयन्ते नयनानि दुष्टाः ।
भजेन्महादृष्टिहितानि तस्मा-
दुपानदभ्यञ्जनधावनानि” ॥
मलं धूल्यादि । मलादिभिर्दुष्टाः ताः शिरानय-
नानि दूषयन्ते इत्यन्वयः ॥
“चक्षुष्याः शालयो मुद्गा यवा मांसन्तु जाङ्गलं ।
पक्षिमांसं विशेषेण वास्तूकं तण्डूलीयकं ॥
पटोलकर्कोटककारवेल्ल-
फलानि सर्पिःपरिपाचिताति ।
तथैव वार्त्ताकुफलं नवीनं
दृशोर्हितः स्वादु तथापि तिक्तः ॥
कट्वम्लगुरुतीक्ष्णोष्णमाषनिष्पावमैथुनं
मद्यवल्लूरपिण्याकमत्स्यशाकविरूढजं ।
विदाहीन्यन्नपानानि न हितान्यक्षिरोगिणः ॥
सेक आश्चोतनं पिण्डी विडालस्तर्पणं तथा ।
पुटपाकोऽञ्जनं चैभिः कल्कैर्नेत्रमुपाचरेत्” ॥ * ॥
कल्कविधिः । तत्र सेकविधिः ।
“सेकस्तु सूक्ष्मधाराभिः सर्व्वस्मिन्नयने हितः ।
मीलिताक्षस्य मर्त्यस्य प्रदेयश्चतुरङ्गुलः ॥
स चापि स्नेहनो वाते पित्ते रक्ते च रोपणः ।
लेखनस्तु कफे कार्य्यस्तस्य मात्रा विधीयते ॥
षडभिर्वाचां शतैः स्नेहे चतुर्भिस्तैस्तु रोपणे ।
तैस्त्रिभिर्लेखने कार्य्यः सेको नेत्रप्रसादने ॥
निमेषोन्मेषणे पुंसामङ्गल्याच्छोटिका तथा ।
गुर्व्वक्षरोच्चारणं वा वाङ्मात्रेयं स्मृता बुधैः” ॥
छोटिका टुटकी इति लोके ।
“सेकस्तु दिवसे कार्य्यो रात्रौ चात्यन्तिके गदे” ।
स यथा, --
“एरण्डदलमूलत्वक्शृतमाजं पयो हितं ।
सुखोष्णं नेत्रयोः सिक्तं वाताभिष्यन्दनाशनं ॥
पथ्याक्षामलखस्खसवल्कलकल्केन सूक्ष्मवस्त्रेण ।
कृत्वा पोटलिकां तामहिफेनोत्थद्रवेणाक्तां ॥
निदधीत लोचने स्यात् सर्व्वाभिष्यन्दसंक्षयः शीघ्रं ।
योगोऽयमृषिभिरुक्तो जगदुपकाराय कारुणिकैः ॥
भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।
अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥
स्नानं कृष्णतिलैश्चापि चक्षुष्यमनिलापहं ।
आमलैः सततं स्नानं परं दृष्टिबलावहं ॥
त्रिफलायाः कषायस्तु धावनान्नेत्ररोगजित् ।
कवलान्मुखरोगघ्नः पानतः कामलापहः” ॥ * ॥
अथाश्चोतनविधिः ।
“क्वाथक्षीरद्रवस्नेहविन्दूनां यत्तु पातनं ।
द्व्यङ्गुलोन्मीलिते नेत्रे प्रोक्तमाश्चोतनञ्च तत् ॥
विन्दवोऽष्टौ लेखनेषु रोपणे दशविन्दवः ॥
स्नेहने द्वादश प्रोक्तास्ते शीते कोष्णरूपिणः ।
उष्णे तु शीतरूपाः स्युः सर्व्वत्रैवैष निश्चयः ॥
वाते तिक्तं तथा स्निग्धं पित्ते मधुरशीतलं ।
कफे तिक्तोष्णरूक्षं स्यात् क्रमादाश्चोतनं हितं ॥
आश्चोतनानां सर्व्वेषां मात्रा स्याद्वाक्षतोन्मिता ।
ततः परं लोचनाभ्यां भेषजाय नयो मतः ॥
अश्चोतनं न कर्त्तव्यं निशायां केनचित् क्वचित्” ।
तद्यथा, --
“विल्वादिपञ्चमूलेन वृहत्येरण्डशिग्रुभिः ।
क्वाथ आश्चोतने कोष्णो वाताभिष्यन्दनाशनः ॥
त्रिफलाश्चोतनं नेत्रे सर्व्वाभिष्यन्दनाशनं” ॥ * ॥
अथ पिण्डीविधिः ।
“उक्तभेषजकल्कस्य पिण्डी च कोलमात्रया ।
वस्त्रखण्डेन संबद्धाभिष्यन्दव्रणनाशिनी ॥
स्निग्धोष्णा पिण्डिका वाते पित्ते सा शीतला मता ।
रूक्षोष्णा श्लेष्मणि प्रोक्ता विधिरुक्तो बुधैरयं” ॥
सा यथा, --
“एरण्डपत्रमूलत्वङिनिर्म्मिता वातनाशिनी ।
धात्री विरचिता पित्ते शिग्रुपत्रकृता कफे ॥
निम्बपत्रकृता पिण्डी पित्तश्लेष्महरी भवेत् ।
शुण्ठी निम्बदलैः पिण्डी सुखोष्णा स्वल्पसैन्धवा ॥
धार्य्या नेत्रेऽनिलश्लेष्मशोथकण्डूव्यथाहरी ।
त्रिफला पिण्डिका नेत्रे वातपित्तकफापहा” ॥
“पथ्याक्षामलखस्खसवल्कलकल्कोऽहिफेनजलयुक्तः ।
तेनविरचिता पिण्डी शमयति सकलानभिष्यन्दान्” ॥
इति भावप्रकाशः ॥

अभिष्यन्दिरमणं, क्ली, (अभिष्यन्दः प्रधाननगर-

स्यातिवृद्ध्या तत्सन्निधाने स्थापनं स एव विद्यते
ऽत्र इनि, रमतेऽत्र रम + आधारे ल्युट्, ततः
कर्म्मधारयः ।) प्रधाननगरसन्निहितनगरं । तत्प-
र्य्यायः । शाखानगरं २ । इति जटाधरः ॥

अभिसन्तापः, पुं, (अभिसन्ताप्यतेऽत्र, अभि + सम्

+ तप् + णिच् + आधारे अच् ।) युद्धं । इति
हलायुधः ॥
(“जन्यं स्यादभिसन्तापः संमदोविग्रहस्तथा” ।
इति हलायुधः ।)

अभिसन्धानं, क्ली, (अभि + सम् + धा + भावे ल्युट् ।)

वञ्चनं । प्रतारणं । इति हेमचन्द्रः ॥
(“पराभिसन्धानपरं यद्यप्यस्य विचेष्टितं ।
जिगीषोरश्वमेधाय धर्म्म्यमेव बभूव तत्” ॥
इति रघुवंशे ।)

अभिसन्धिः, पुं, (अभिसन्धानं अभि + सम + धा +

भावे किः ।) अभिसन्धानं । उद्देशः । यथा, --
“पितॄन्नमस्ये दिवि ये च मूर्त्ताः,
स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां,
विमुक्तिदा येऽनभिसंहितेषु” ॥
इति रुचिस्तवः ॥
(“अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरं ।
स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे” ॥
इति कुमारसम्भवे ।)

अभिसम्पातः, पुं, (अभिसम्पात्यते योद्धा यत्र, अभि

+ सम् + पत् + आधारे घञ् ।) युद्धं । इत्यमरः ॥

अभिसरः, पुं, (आभिमुख्येन सरति, अभि + सृ +

पचाद्यच् ।) सहायः । अनुचरः । इत्यमरः ॥
(“राजा राज्यवर्द्धनं महासामन्तैः कृत्वा साभि-
सरम् उत्तरापथं प्राहिणोत्” । इति हर्ष-
चरिते ।)

अभिसर्ज्जनं, क्ली, (अभि + सृज् + भावे ल्युट् ।)

दानं । बधः । इति धरणी ॥

अभिसारः, पुं, (अभि + सृ + आधारे घञ् ।) बलं ।

युद्धं । सहायः । साधनं । इति धरणी ॥ स्त्री-
पुंसयोरन्यतरस्यान्यतरार्थं सङ्केतस्थलगमनं । इत्य-
लङ्कारशास्त्रं ॥ (“रतिसुखसारे गतमभिसारे
मदनमनोहरवेशं” । इति गीतगोविन्दे । “एवं
कृताभिसाराणां पुंश्चलीनां विनोदने” । इति
साहित्यदर्पणे ।)

अभिसारिका, स्त्री, (अभिसरति कान्तनिर्द्दिष्ट-

संकेतस्थानं गच्छति या, अभि + सृ + ण्वुल्,
स्त्रियां टाप् ।) स्वीयादिषोडशनायिकामध्ये अष्टा-
वस्थाविशिष्टाष्टनायिकान्तर्गतनायिकाभेदः अस्या
लक्षनं । सङ्केतस्थले स्वयं गमनकर्त्री एवं प्रिय-
गमनकारयित्री । अस्याश्चेष्टा । समयानुरूप-
भूषनं । शङ्का । बुद्धिनैपुण्यं । कपटसाहसादिः ।
सा त्रिविधा । दिवाभिसारिका १ ज्योत्स्नाभि-
सारिका २ अन्धकाराभिसारिका ३ । इति रस-
मञ्जरी ॥
पृष्ठ १/०७८
:(“कान्तार्थिनी तु या याति संकेतं साभिसारिका”
इत्युक्तलक्षणा कान्तप्रार्थनया स्वयं संकेतस्थान-
गामिनीस्वस्थाने वाकान्तानयनकारिणी नायिका ।
यदुक्तं दर्पणकारैः ।
“अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका” ॥)

अभिहारः, पुं, (अभि + हृ + घञ् ।) चौर्य्यं । सम्मुखे

हरणं । तत्पर्य्यायः । अभिग्रहणं २ । इत्यमरः ॥
सन्नहनं । कवचधारणं । अभियोगः । अपचिकीर्ष-
याभिगम्याक्रमणं । इति मेदिनी ॥ (साहसं ।
अपहरणं ।
“यस्याभिहारं कुर्य्याच्च स्वयमेव नराधिपः” ।
इति महाभारते ।)

अभिहितं, त्रि, (अभि + धा + कर्म्मणि क्तः ।)

उक्तं । कथितं । इत्यमरः ॥
(“अर्थिनाभिहितोयोऽर्थः प्रत्यर्थी यदि तं तथा ।
सम्भोजिनी साभिहिता पैशाची दक्षिणा द्विजैः” ॥
इति मनुः ।)

अभीकः, पुं, (अभि + कन्, “अनुकाभिकाभीकाः

कामयिता” इति पाणिनिसूत्रम् ।) कविः । इति
मेदिनी ॥ स्वामी ॥ इति हलायुधः ॥ (पतिः ।
कामुकः । कामी ।
“ददृशे पर्णशालायां राक्षस्याभीकयाथ सः” ।
इति भट्टिकाव्ये ।
उत्सुकः । क्रूरः । निष्ठुरः । निर्भयः । निःशङ्कः ।
(“अभीकः कामुके क्रूरे निर्भये त्रिषुना कवौ” ।
इति मेदिनी ।)

अभीकः, त्रि, (अभि + कन् ।) कामुकः । क्रूरः ।

उत्सुकः । निर्भयः । इति शब्दरत्नावली ॥

अभीप्सितं, त्रि, (अभ्याप्तुं प्राप्तुमिष्टं, अभि + आप्

+ सन् कर्म्मणि क्तः ।) वाञ्छितं । अभीष्टं ।
इत्यमरः ॥
(“मेने मेनापि तत्सर्व्वं पत्युः कार्य्यमभीप्सितं” ।
इन्ति कुमारसम्भवे ।)

अभीरः, पुं, (अभीरयति गा अभिमुखीकृत्य गोष्ठं

नयति, अभि + ईर + णिच् + अच् ।) आभीरः ।
गोपः । इत्यमरटीकायां रमानाथः ॥

अभीरुः, पुं, (भी + कर्त्तरि शीलार्थे क्रुः ततो नञ्-

समासः ।) भैरवः । यथा, --
“अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः” ।
इति वटुकभैरवस्तवः ॥ निर्भये त्रि ॥ (निर्भीकः ।
भयहीनः । निःशङ्कः । “स्थाने युद्धे च कुशलान-
भीरूनविकारिणः” । इति मनुः ।)

अभीरुः, स्त्री, (भी + कर्त्तरि क्रु शीलार्थे, नञ्-

समासः ।) शतमूली । इत्यमरः ॥

अभीरुपत्री, स्त्री, (भी + कर्त्तरि क्रु शीलार्थे, नञ्-

समासः, वा स्त्रियां ऊङ् असंकुचितपत्रत्वात्
तस्यास्तथात्वं, न भीरूणि पत्राणि यस्याः सा,
स्त्रियां ङीप् ।) शतमूली । इत्यमरः ॥

अभीशुः, पुं, (अभितः श्यति मुखं तनूकरोति, अभि

+ शो + कु, पृषोदरादित्वात् दीर्घः ।) प्रग्रहः ।
वाग्डोर इति भाषा । (“स्थिरा वसन्तु नेयोरथो
अश्वा स एषां सुसंस्कृता अभीशवः” । इति ऋक् ।
वेदेऽस्य प्रचुरप्रयोगः ॥ किरणं । इति हलायुधः ॥

अभीशुः, स्त्री, (अभितः अश्नुते व्याप्नोति, अभि +

अश + कर्त्तरि उन्, पृषोदरादित्वात् अलोपो
दीर्घः ।) अङ्गुलिः । वेदेऽस्य प्रचुरप्रयोगः ॥

अभीषङ्गः, पुं, (अभि + सन्ज घञ्, दीर्घः ।) आ-

क्रोशः । इत्यमरः ॥

अभीषुः पुं, (अभि + इष् + उ ।) किरणः । इत्यमरः ॥

कामः । अनुरागः । इति शब्दरत्नावली ॥

अभीष्टं, त्रि, (अभि + इष् + कर्म्मणि क्तः ।)

वाञ्छितं । तत्पर्य्यायः । अभीप्सितं २ हृद्यं ३
दयितं ४ वल्लभं ५ प्रियं ६ । इत्यमरः ॥
(“प्राणायथात्मनोऽभीष्टा भूतानामपि ते तथा” ।
इति हितोपदेशः ।
“अभीष्टायामभूद्ब्रह्मन् पितुरत्यन्तवल्लभः” ।
इति विष्णुपुराणं ।)

अभीष्टा, स्त्री, (अभि + इष् + क्त, स्त्रियां टाप् ।)

रेणुकानामगन्धद्रव्यं । इति शब्दचन्द्रिका ॥
(“ताम्बूलवल्ली ताम्बूली नागवल्लप्यथ द्विजा ।
हरेणुः रेणुका कौन्ती कपिला भस्मगन्धिनी ॥
ताम्बूल्यां कटुकाभीष्टा देवाभीष्टा गृहाशया” ।
इति शब्दचन्द्रिका ।)

अभीक्ष्णं, क्ली, (क्षणमभिगतं, प्रादिसमासः पृषो-

दरादित्वात् दीर्घः अलोपश्च ।) भृशं । नित्यं ।
तद्युक्तक्रिययोऽस्त्रि । इति मेदिनी ॥ (पुनः पुनः ।
शश्वत् । अविरतं । निरन्तरं । “उदीर्णरागप्रति-
रोधंकं जनैरभीक्ष्णमक्षण्णतयातिदुर्गमः” । इति
माघः ॥
“इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि
न ज्ञातयस्तुल्यकुलस्य लक्ष्मीं” ।
इति भट्टिकाव्ये ।)

अभीक्ष्णं, व्य, (अभि + क्ष्णु तेजने डमु, पृषोदरा-

दित्वात् दीर्घः “स्वरादिनिपातमव्ययम्” इति
अव्ययं ।) पुनः पुनः । अनारतं । इत्यमरः ॥

अभुक्तः, त्रि, (भुज् + भावे क्तः अर्श आद्यच् विद्य-

मानार्थे, नञ्समासः, वा भुज + कर्म्मणि क्तः,
नञ्समासः ।) उपवासी । यथा, --
“अभुक्तस्य दिवानिद्रा पाषाणमपि जीर्य्यति” ।
इति वैद्यकं ॥ अकृतभोजनं वस्तु ॥ (भुक्ता ब्राह्मणाः
पीता गाव इति पाणिनिभाष्यम् । ‘नाभुक्तं क्षीयते
कर्म्म कल्पकोटिशतैरपि’ । इति पुराणम् ।)

अभूमिः, स्त्री, (न भूमिः, नञ्समासः ।) स्थाना-

भावः । अनाधारः । आश्रयाभावः । यथा । “अभूद-
भूमिः प्रतिपक्षजन्मनां भियाम्” इति माघः ॥
“नाभूदभूमिः स्मरशायकानाम्” इति नैषधं ॥

अभेदः, त्रि, (नास्ति भेदो यस्य सः ।) भेदरहितः ।

अविशेषः । यथा, -- “अभेदः शिवरामयोः” इति
पुराणं ॥ (तादात्म्यम् ।
“काकः कृष्णः पिकः कृष्णः स्त्वभेदः पिककाकयोः ।
वसन्ते समुपायाते काकः काकः पिकः पिकः” ॥
इति नीतिरत्ने । “भेदेऽप्यभेदः सम्बन्धे सम्बन्ध-
स्तद्विपर्य्ययौ” । इति साहित्यदर्पणे ।)

अभेद्यं, क्लीं, (भेत्तुं न शक्यते, भिद् + शक्यार्थे ण्यत्,

नञ्समासः ।) हीरकं । इति राजनिर्घण्टः ॥
अभेदनीयवस्तुनि त्रि । यथा, --
“अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनं” ।
इति देवीमाहात्म्यं ॥

अभोजनं, क्ली, (भुज् + भावे ल्युट्, नञ्समासः ।)

भोजनाभावः । उपवासः । यथा, --
“अजीर्णे भोजनं येषां जीर्णे येषामभोजनं ।
रात्रावभोजनं येषां तेषां नश्यन्ति धातवः” ॥
इति वैद्यकं ॥ (अनशनं ।
“वेदोदितानां नित्यानां कर्म्मणां समतिक्रमे ।
स्नातकव्रतलोपे च प्रायश्चित्तमभोजनं” ॥
इति मलमासतत्त्वं ।)

अभ्यग्रं, त्रि, (अभिमुखमग्रं यस्य तत् ।) समीपं ।

निकटं । इत्यमरः ॥

अभ्यङ्गः, पुं, (अभि + अन्ज घञ् कुत्वं ।) तैलमर्दनं ।

तत्पर्य्यायः । स्नेहनं २ । इति राजनिर्घण्टः ॥
यथा, --
“तैलमल्पं यदङ्गेषु न च स्याद्बाहुतर्पणं ।
सा मार्ष्टिः पृथगम्यङ्गो मस्तकादौ प्रकीर्त्तितः ॥
अभ्यङ्गमाचरेन्नित्यं स जराश्रमवातहा ।
शिरःश्रवणपादेषु तं विशेषेण शीलयेत्” ॥
इत्यायुर्व्वेदः ॥ * ॥ अस्य गुणाः । मार्दवकारित्वं ।
कफवातनाशित्वं । धातुपुष्टिजनकत्वं । त्वग्वर्णबल-
प्रदत्वञ्च ॥ पादाभ्यङ्गगुणाः । निद्राचक्षुर्हितकारित्वं ।
पादरोगनाशित्वञ्च ॥ पादगते द्वे शिरे चक्षुषि
सम्बद्धे स्तः अतश्चक्षुर्हितार्थिना पादाभ्यङ्गः कर-
णीयः ॥ कफग्रस्तकृतभेदवमनाजीर्णिभिर्नाभ्यङ्गः
करणीयः । इति राजवल्लभः ॥ * ॥ अपरञ्च ।
“मूर्द्ध्नि दत्तं यदा तैलं भवेत् सर्व्वाङ्गसङ्गतं ।
स्रोतोभिस्तर्पयेद्बाहू स चाभ्यङ्ग उदाहृतः” ॥
तत्पर्य्यायः । अम्यञ्जनं २ । इति शुद्धितत्त्वधृता-
युर्व्वेदः ॥ आभां इति भाषा ।

अभ्यङ्क्षः, पुं, (अभि + अक्ष + अच्, पृषोदरादित्वात्

साध ।) तिलकल्कः । इति ऋग्वेदिश्राद्धप्रयोगः ॥

अभ्यञ्जनं, क्ली, (अभि + अन्ज + कर्म्मणि ल्युट् ।)

तैलं । इति हेमचन्द्रः ॥ अभ्यङ्गः । इति राज-
निर्घण्टः ॥ (तैलादिना शिरःसहितदेहमर्द्दनम् ।
“भोजनाभ्यञ्जनाद्दानात् यदन्यत् कुरुते तिलैः ॥
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति” ॥
इति मनुः ।)

अभ्यन्तरं, क्ली, (अन्तरमभिगतं प्रादिसमासः ।)

मध्यं । तत्पर्य्यायः । अन्तरालं २ । इत्यमरः ॥
अन्तः ३ अन्तरं ४ अन्तरालकं ५ । इति राज-
निर्घण्टः ॥
(“प्राणापाणौ समौ कृत्वा नासाभ्यन्तरचारिणौ” ।
इति भगवद्गीता ।)

अभ्यमितः, त्रि, (अभि + अम् + क्तः ।) रोगी ।

इत्यमरः ॥

अभ्यमित्रीणः, पुं, (अमित्रस्याभिमुख्यं अव्ययीभाव-

समासः, अलङ्गामीत्यधिकारे अभ्यमित्र + ख
तस्य ईनः ।) अभ्यमित्र्यः । इत्यमरः ॥
पृष्ठ १/०७९
:(“हरामि रामसौमित्री मृगी भूत्वा मृगद्युवौ ।
उद्योगमभ्यमित्रीणो यथेष्टं त्वञ्च सन्तनु” ॥
इति भट्टिः ।)

अभ्यमित्रीयः, पुं, (अमित्रस्य शत्रोराभिमुख्यं अव्य-

यीभावः, अभ्यमित्रमलङ्गामीत्यधिकारे अभ्यमित्र
+ छ तस्य ईयः ।) अभ्यमित्र्यः । इत्यमरः ॥

अभ्यमित्र्यः, पुं, (अभ्यमित्र + पूर्ब्बवत् यत् ।) स्वसा-

मर्थ्यवशेन शत्रुसम्मुखगमनकर्त्ता । युद्धस्थले
शत्रुसम्मुखगामी । तत्पर्य्यायः । अभ्यमित्रीयः २
अभ्यमित्रीणः ३ । इत्यमरः ॥
(“तमुद्यतनिशातासिं प्रत्युवाच जिजीविषुः ।
मारीचोऽनुनयंस्त्रासादभ्यमित्र्यीभवामि ते” ॥
इयि भट्टिकाव्ये ।)

अभ्यर्णं, त्रि, (अभि + अर्द्द + क्तः, आविदूर्य्ये इड-

भावः णत्वश्च ।) निकटं । इत्यमरः । (आसन्नः ।
निकटवर्त्ती । “तीव्रः स्मरसन्तापो न तथादौ बा-
धते यथासन्ने । तपति प्रावृषि नितरामभ्यर्ण-
जलागमो दिवसः” । इति रत्नावली । “उच्यन्तां
सैनिकाः न कैश्चिदाश्रमाभ्यर्णभूमयः परिक्रा-
म्यन्तां” । इति महावीरचरिते । समीपं । सन्नि-
धानं । अन्तिकं । “अभ्यर्णे परिरभ्य निर्भरमुरः
प्रेमान्धया राधया” । इति गीतगीविन्दे ।)

अभ्यवकर्षणं, क्ली, (अभि + अव + कृष् + भावे ल्युट् ।)

शल्यादेरुत्पाटनं । तत्पर्य्यायः । निर्हारः २ ।
इत्यमरः ॥

अभ्यवस्कन्दः, पुं, (अभि + अव + स्कन्द + घञ् ।)

निःशक्तीकरणाय शत्रुभिर्दीयमानः प्रहारः ।
तत्पर्य्यायः । अभ्यासादनं २ प्रपातः ३ धाटी ४ ।
इति हेमचन्द्रः ॥

अभ्यवस्कन्दनं, क्ली, (अभि + अव + स्कन्द + भावे

ल्युट् ।) निःशक्तीकरणाय शत्रुभिर्दीयमानः प्रहारः ।
शत्रुसम्मुखगमनं । इत्यमरभरतौ ॥

अभ्यवहारः, पुं, (अभि + अव + हृ + भावे घञ् ।)

भक्षणं । आहारः । इति हेमचन्द्रः ॥

अभ्यवहृतं, त्रि, (अभि + अव + हृ + क्तः ।) भुक्तं ।

खादितं । इत्यमरः ॥

अभ्यसनं, क्ली, (अभि + अस + ल्युट् ।) अभ्यास-

करणं । पौनःपुन्येन करणं चिन्तनञ्च । यथा, --
“स्यादभ्यासोऽभ्यसनेऽन्तिके” । इति मेदिनी ॥
(अभ्यासः । पौनःपुन्येनैकक्रियाकरणं । पुनःपुनः
व्यावर्त्तनम् ।
“विद्यामभ्यसनेनेव प्रसादयितुमर्हसि” ।
इति रघुः ।
“स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते” ।
इति गीता ।)

अभ्यसूया, स्त्री, (असू उपतापे हिंसायाञ्च, कण्ड्वा-

दित्वात् यक् + भावे अ स्त्रियामाप् ।) असूया ।
गुणेषु दोषारोपणं । यथा । “चैत्रस्य दानं ता-
मसं” । इत्यमरटीकायां भरतः ॥ (“अनिर्वृतं
भूतिषु गूढवैरं सत्कारकालेऽपि कृताभ्यसूयम्” ।
इति भट्टिकाव्ये” । ईर्ष्या । विद्वेषः । औद्धत्या-
दन्यगुणर्द्धोनामसहिष्णुता ।
“केनाभ्यसूया पदकाङ्क्षिणा ते ।
नितान्तदीर्घैर्जनिता तपोभिः” ।
इति कुमारसम्भवे ॥
“प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः” ।
इति मेघदूते ।)

अभ्याकाङ्क्षितं, क्ली, (अभि + आ + काङ्क्षि + भावे

क्तः, इदित्वान्नुम् ।) मिथ्याभियोगः । इति शब्द-
रत्नावली ॥ मिछादाओया इति भाषा ।

अभ्याख्यानं, क्ली, (अभि + आ + ख्या + ल्युट् ।)

मिथ्याभियोगः । मिथ्याविवादः । शतं मे धारय-
सीत्यादि मिथ्योद्भावनं । इत्यमरभरतौ ॥

अभ्यागतः, पुं, (अभि + आ + गम् + कर्त्तरि क्तः ।)

अतिथिः । इति हेमचन्द्रः ॥ “स च ज्ञातपूर्ब्ब-
गृहागतः” इति श्रीधरस्वामी ॥
“बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्व्वत्राभ्यागतो गुरुः” ॥
इति हितोपदेशे ।)

अभ्यागमः, पुं, (अभि + आ + गम् + अप् ।) समीपं ।

मारणं । युद्धं । वैरं । अभ्युत्थानं । इति विश्वः ॥
(घातः । प्रहारः । शत्रुता । विरोधः । समीपं ।
अन्तिकं । सन्निधानं ।
“अभ्यागमो विरोधाजिघाताभ्युद्गमनान्तिके” ।
इति मेदिनी ॥ सम्मुखागमनं । उपस्थितिः ।
“का त्वं शुभे कस्य परिग्रहो वा
किं वा मदभ्यागमकारणं ते” ।
इति रघुवंशे ।)

अभ्यागारिकः, त्रि, (अभ्यागारे तद्गतकर्म्मणि व्या-

पृतः, ठन् तस्य इकः ।) कुटुम्बव्यापृतः । पुत्र-
दारादिपोषणव्यग्रः । इत्यमरः ॥

अभ्यादानं, क्ली, (अभि + आ + दा + भावे ल्युट् ।)

आरम्भः । इत्यमरः ॥ प्रथमारम्भः । इति राय-
मुकुटः ॥

अभ्यान्त, त्रि, (अभि + आ + अम + कर्त्तरि क्तः

इडभावः, पक्षे अभ्यामितः ।) रोगी । इत्यमरः ॥

अभ्यामर्दः, पुं, (अभ्यामृद्यतेऽत्र, अभि + आ + मृद्

+ आधारे घञ् ।) संग्रामः । इत्यमरः ॥

अभ्याशः, त्रि, (आभिमुख्येनाश्यते व्याप्यतेऽनेन,

अशू व्याप्तौ करणे घञ् ।) समीपं । इत्यमरटी-
कायां रायमुकुटः ॥

अभ्यासः, पुं, (आभिमुख्येनास्यते क्षिप्यते, असुक्षेपे

कर्म्मणि घञ् ।) अभ्यसनं । आवृत्तिः । इति मे-
दिनी ॥ शराभ्यासः । तत्पर्य्यायः । खुरली २ योग्या
३ । इति त्रिकाण्डशेषः ॥ समीपे त्रि । इत्यमरः ।
चित्तस्यैकस्मिन्नभ्यन्तरे वाह्ये वा प्रतिमादावालम्बने
सर्व्वतः समाहृत्य पुनः पुनः स्थापनमभ्यासः ॥
यथा, --
“अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय” ।
इति भगवद्गीताटीकायां नीलकण्ठः ॥

अभ्यासादनं, क्ली, (अभि + आ + सद् + णिच् +

ल्युट् ।) निःशक्तीकरणाय शत्रुभिर्दीयमानः प्रहारः ।
शत्रुसम्मुखगमनं । इत्यमरभरतौ ॥

अभ्याहारः, पुं, (अभि + आ + हृ + भावे घञ् ।)

अभिहारः । चौर्य्यं । इत्यमरटीका ॥ (अभि-
ग्रहणं । भोजनं । आहारः ।)

अभ्युत्थानं, क्ली, (अभि + उत् + स्था + भावे ल्युट् ।)

गौरवं । इति हेमचन्द्रः ॥ आसनादेरुत्थानं ।
यथा, --
“यदा यदा च धर्म्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्म्मस्य तदात्मानं सृजाम्यहं” ॥
इति श्रीभगवद्गीता ॥ (ख्यातिः । कीर्त्तिः । यशः ।
गौरवेणोत्थानादिना प्रत्थुद्गमनं । “अलमलम-
भ्युत्थानेन, ननु सर्व्वस्याभ्यागतोगुरुरिति भवाने-
वास्माकं पूज्यः” । इति नागानन्दः ।
“नाभ्युत्थानं क्रिया यत्र नालापा मधराक्षराः ।
गुणदोषकथा नैव तस्य हर्म्ये न गम्यते” ॥
इति पञ्चतन्त्रे । अभ्युदयः । अभ्युन्नतिः ।
“नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः” ॥
इति रघुवंशे । सूर्य्योदयः । उदयः । उद्भवः ।)

अभ्युदयः, पुं, (अभि + उत् + इन् + अच् ।) इष्ट-

लाभः । विवाहादिः । इति आभ्युदयिकशब्दार्थे
श्राद्धतत्त्वं ॥ सर्व्वतोभावेनोदथः । अर्थाद्धनजनादि-
वृद्धिः । यथा, --
“राजन्नभ्युदयोऽस्तु वल्लनकवे हस्ते किमास्ते तव
श्लोकः कस्य कवेरमुष्य कृतिनस्तत् पट्यतां पद्यते ।
किन्त्वासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-
दुद्वेल्लद्भजवल्लिकङ्कणझणत्कारः क्षणं वार्य्यंतां” ॥
इत्यस्य पूर्ब्बार्द्धं वल्लनकविकर्णाटराजयोर्वाक्यं
शेषार्द्धं कालिदासस्य ॥ (उन्नतिः । समृद्धिः ।
“विपदि धैर्य्यमथाभ्युदये क्षमा सदसि वाकपटुता
युधि विक्रमः” । इति हितोपदेशे । पराक्रमः ।
वीर्य्यं । प्रभावः । “यद्बाहुदण्डाभ्युदयानुजीविनो
यदुप्रवीराः” । इति भागवतपुराणं ।)

अभ्युदितः, त्रि, (अभि + उत् + इन् + क्तः ।) यस्मिन्

सुप्ते सूर्य्य उदेति सः । सूर्य्योदयकालशायी ।
इत्यमरः ॥ उदयप्राप्तः । यथा, --
“माघे मासि रटन्त्यापः किञ्चिदभ्युदिते रवौ ।
ब्रह्मघ्नमपि चाण्डालं कं पतन्तं पुनीमहे” ॥
इति तिथ्यादितत्त्वं ॥ (अभितः सर्व्वतः उदति-
शयेन इतं गतं प्रातर्विहितं कर्म्मास्मादिति व्युत्-
पत्या सूर्य्योदयकाले निद्रया अननुष्ठिततत्कालो-
चितक्रियाकलापः ।)

अभ्युपगतः, त्रि, (अभि + उप + गम् + क्तः ।) स्वी-

कृतः । अङ्गीकृतः । इति हेमचन्द्रः ॥
(“प्रियाभ्युपगते राज्ये पाण्डवा मधुसूदन ।
जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतं” ॥
इति महाभारते । समीपागतः । अन्तिक-
समागतः । अनुमितः । निर्द्धारितः । सिद्धान्त-
तया निरूपितः । सदृशीभूतः । सन्निकृष्टः ।)

अभ्युपगमः, पुं, (अभि + उप + गम् + भावे अप् ।)

स्वीकारः । इत्यमरः ॥ निकटागमनं । इति
मेदिनी ॥ (अङ्गीकारः । प्रतिज्ञा । “प्रसीदेति
ब्रुयामिदमसति कोपे न घटते करिष्याम्येवं नो
पुनरिति भवेदभ्युपगमः” । इति रत्नावली । अनु-
मतिः । अनुमोदनं ।
पृष्ठ १/०८०
:“सर्व्वदोषानभिष्वङ्गादान्मायसमतां गताः ।
युष्माकमभ्युपगमाः प्रमाणं पुण्यपापयोः” ।
इति महावीरचरिते ।)

अभ्युपपत्तिः, स्त्री, (अभि + उप + पद् + क्तिन् ।)

अनुग्रहः । इत्यमरः ॥ (अनिष्टनिवारणपूर्ब्बका-
भीष्टसम्पादनरूपोऽनुग्रहः । प्रसादः । “तदर्ह-
स्याभ्युपपत्या जीवितमस्या अवलम्बितुम्” । इति
शाकुन्तले । रक्षा । परित्राणं ।
“कामिनीषु विवाहेषु गवाम्भक्ष्ये तथेन्धने ।
ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्” ।
इति मनुः ।)

अभ्युपायः, पुं, (अभि + उप + इण + भावे अच् ।)

अङ्गीकारः । स्वीकारः । इति हेमचन्द्रः ॥ उपायः ।
यथा । “तत्स्वीकृतिव्यतिकरे क इहाभ्युपायः” ।
इति काव्यप्रकाशः ॥ (कौशलं ।
“अनेकैरभ्युपायैस्ते जिघांसन्ति स्म पाण्डवान्” ।
“निपुणेनाभ्युपायेन नगरं वारणावतं” ।
“निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु” ॥
इति महाभारते ।)

अभ्युपायनं, क्ली, (अभि + उप + इण् + ल्युट् ।) उपा-

यनं । उपढौकनद्रव्यं । यथा, --
“तावानय समं गोपैर्नन्दाद्यैः साभ्युपायनैः” ।
इति श्रीभागवतं ॥

अभ्युपेतं, त्रि, (अभि + उप + इण् + कर्म्मणि क्तः ।)

स्वीकृतं । उपगतं । यथा, --
“अहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः” ।
इति रघुः ॥ (अङ्गीकृतः ।
“मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः” ।
इति मेघदूते ।)

अभ्युषः, पुं, (अभ्युष्यते अग्निना दह्यतेऽसौ अभि +

उष् + बाहुल्यात् कर्म्मणि कः ।) अभ्यूषः ।
पौलिः । इत्यमरटीकायां भरतः ॥

अभ्यूषः, पुं, (अभि + ऊष + बाहुल्यात् कर्म्मणि कः ।)

पाकावस्थागतकलायादिः । आरब्धपाकयवसर्ष-
पादिः । वह्निना ईषद्दग्धः चुट चुट शब्दवान् इति
केचित् ॥ दरदग्ध इति श्रीधरः ॥ तत्पर्य्यायः ।
आपक्कं २ पौलिः ३ । इत्यमरः ॥ अभ्युषः ४
अभ्योषः ५ । इति भरतः ॥ * ॥ पोलिका । रोटी
इति प्रसिद्धा । अस्या गुणाः । मधुरत्वं । गुरुत्वं ।
रोचकत्वं । बलकारित्वं । श्लेष्मवृद्धिजनकत्वं । पित्त-
रक्तप्रदायित्वञ्च ॥ * ॥ अङ्गारकृतायास्तस्या गुणाः ।
अग्निदीपनत्वं । वायुवृद्धिकारित्वं । लघुत्वं ।
बलकारित्वञ्च ।
“सा स्नेहयुक्ता चेत् घनाघनगुणान्विता” ।
इति राजनिर्घण्टः ॥ ईषत्पक्कं । यथा, --
“आपक्कमवपक्कं स्यादाभ्युषः पौलिपौलिके ।
अभ्यूषोऽभ्यौष इत्येते ईषत्पक्कयवादिषु” ॥
इति शब्दरत्नावली ॥

अभ्योषः, पुं, (अभ्युष्यते अग्निना दह्यतेऽसौ, अभि

+ ऊष + कर्म्मणि घञ् ।) अभ्यूषः । इत्यमरटी-
कायां भरतः ॥

अभ्र गत्यां । इति कविकल्पद्रुमः ॥ ओष्ठवर्गचतु-

र्थोपधः । अभ्रति । इति दुर्गोदासः ।

अभ्रं, क्ली, (अपोबिभर्त्ति इति अप + भृ + क ।)

मेघः । आकाशं । स्वर्णं । अभ्रकघातुः । इति
मेदिनी ॥ उपधातुविशेषः । तस्योत्पत्तिनाम-
लक्षणगुणाः ।
“पुरा बधाय वृत्रस्य वज्रिणा वज्रमुद्धृतं ।
विस्फुलिङ्गास्ततस्तस्य गगने परिसर्पिताः ॥
ते निपेतुर्घनघ्वानाच्छिखरेषु महीभृतां ।
तेभ्य एव समुत्पन्नं तत्तद्गिरिषु चाभ्रकं ॥
तद्वज्रं वज्रजातत्वादभ्रमभ्ररवोद्भवात् ।
गगनाद्विलितं यस्माद्गगनञ्च ततो मतं ॥
विप्रक्षत्त्रियविट्शूद्रभेदात्तत् स्याच्चतुर्व्विधं ।
क्रमेणैव सितं रक्तं पीतं कृष्णञ्च वर्णतः ॥
प्रशस्यते सितं तारे रक्तं तत्तु रसायने ।
पीतं हेमनि कृष्णन्तु गदेषु भूतयेऽपि च ॥
पिनाकं दर्दुरं नागं वज्रञ्चेति चतुर्विधं ।
मुञ्चत्यग्नौ विनिःक्षिप्तं पिनाकं दलसञ्चयं ॥
अज्ञानाद्भक्षणात्तस्य महाकुष्ठप्रदायकं ।
दर्दुरं स्वग्निनिःक्षिप्तं कुरुते दर्दुरध्वनिं ॥
गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः ।
नागन्तु नागवद्वह्नौ फुत्कारं परिमुञ्चति ॥
तद्भक्षितमवश्यन्तु विदधाति भगन्दरं ।
वज्रन्तु वज्रवत्तिष्ठेत्तन्नाग्नौ विकृतिं व्रजेत् ॥
सर्व्वाभ्रेषु वरं वज्रं व्याधिवार्द्धक्यमृत्युहृत् ।
अभ्रमुत्तरशैलोत्थं बहुसत्वं गुणाधिकं ॥
दक्षिणाद्रिभवं स्वल्पसत्वमल्पगुणप्रदं” ॥ * ॥
मारिताभ्रगुणाः ।
“अभ्रं कषायं मधुरं सुशीत-
मायुष्करं धातुविवर्द्धनञ्च ।
हन्यात्त्रिदोषं व्रणमेहकुष्ठं
प्लीहोदरग्रन्थिविषकृमींश्च ॥”
“रोगान् हन्ति द्रढयति वपुर्वीर्य्यवृद्धिं विधत्ते
तारुण्याढ्यं रमयति शतं योषितां नित्यमेव ।
दीर्घायष्कान् जनयति सुतान्विक्रमैः सिंहतुल्यान्
मृत्योर्भीतिं हरति सततं सेव्यमानं मृताभ्रं” ॥ * ॥
अशोधिताभ्रदोषाः ।
“पीडां विधत्ते विविधां नराणां
कुष्ठं क्षयं विदञ्च शोथं ।
हृत्पार्श्वपीडाञ्च करोत्यशुद्ध-
मभ्रं ह्यसिद्धं गुरुतापदं स्यात्” ॥ * ॥
अस्य शोधनविधिर्यथा ।
“कृष्णाभ्रकं धमेद्वह्नौ ततः क्षीरे विनिःक्षिपेत् ।
भिन्नपत्रन्तु तत् कृत्वा तण्डुलीयाम्लजैर्द्रवैः ॥
भावयेदष्टयामं तदेवमभ्रं विशुध्यति” ॥ * ॥
तस्य मारणं यथा ॥
“कृत्वा धान्याभ्रकं तच्च शोधयित्वाथ मर्दयेत् ।
अर्कक्षीरैर्दिनं खल्ले चक्राकारञ्च कारयेत् ॥
वेष्टयेदर्कपत्रैश्च सम्यग्गजपुटे पचेत् ।
पुनर्म्मर्द्यं पुनः पाच्यं सप्तवारान् पुनः पुनः ॥
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयं ।
म्रियते नात्र सन्देहः प्रयोज्यं सर्व्वकर्म्मसु ॥
तुल्यं धृतं मृताभ्रेण लौहपात्रे विपाचयेत् ।
घृते जीर्णे तदभ्रन्तु सर्व्वयोगेषु योजयेत्” ॥ * ॥
तत्र धान्याभ्रस्य विधिः ।
“पादांशसलिलं युक्तमभ्रं बद्ध्वाथ कम्बले ।
त्रिरात्रं स्थापयेन्नीरे तत् क्लिन्नं मर्दयेत् करैः ॥
कम्बलाद्गलितं सूक्ष्मं बालुकारहितञ्च यत् ।
तद्धान्याभ्रमिति प्रोक्तमभ्रमारणसिद्धये” ॥
इति भावप्रकाशः ॥

अभ्रंलिहः, पुं, (अभ्रं लेढि स्पृशति, अभ्र + लिह

कर्त्तरि खश्, मुमागमः ।) वायुः । इति पाणिनिः ॥
(मेघस्पर्शी । अत्युच्चः ।
“अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः” ॥
इति मेघदूते ।)

अभ्रकं, क्ली, (अभ्र गतौ + ण्वुल्, तस्य अक ।)

स्वनामख्यातधातुः । आभ इति भाषा । तत्प-
र्य्यायः । गिरिजं २ अमलं ३ । इत्यमरः ॥
गिरिजामलं ४ गौर्य्यामलं ५ । इति स्वामी ॥
गिरिजावीजं ६ गरजध्वजं ७ । इति वाचस्पतिः ॥
शुभ्रं ८ । इति जटाधरः ॥ घनं ९ व्योम १०
अब्दं ११ । इति रत्नमाला ॥ अभ्रं १२ भृङ्गं १३
अम्बरं १४ अन्तरीक्षं १५ आकाशं १६ बहु-
पत्रं १७ खं १८ अनन्तं १९ गौरीजं २० गौरी-
जेयं २१ । इति राजनिर्घण्टः ॥ अस्य गुणाः ।
रसायनत्वं । स्निग्धत्वं बलवर्णाग्निवर्द्धकत्वञ्च ।
इति राजवल्लभः ॥ अपि च । गुरुत्वं । हिमत्वं ।
बल्यत्वं । कुष्ठमेहत्रिदोषनाशित्वञ्च ॥ * ॥ तच्चतु-
र्व्विधं यथा, --
“श्वेतं पीतं लोहितं नीलमभ्रं
चातुर्व्विध्यं चातिभिन्नक्रियार्हं ।
श्वेतं तारे काञ्चने पीतरक्ते
नीलं व्याधिव्यग्रमग्र्यं गुणाढ्यं” ॥
इति मदनविनोदः ॥
(“अभ्रकस्तव वीजन्तु मम वीजन्तु पारदः ।
अनयोर्मेलनं देवि मृत्युदारिद्र्यनाशनं” ॥
इति चक्रदत्तः ।)

अभ्रङ्कषः, पुं, (अभ्रमाकाशं कषति गच्छति धातूना-

मनेकार्थत्वात् अभ्र + कष् + खच् + मुम् ।) वायुः ।
इति पाणिनिः ॥ (मेघस्पर्शी । अत्युन्नतः । अभ्रं-
लिहः ।
“सर्व्वङ्कषयशःशाखं रामकल्पतरुं कपिः ।
आदायाभ्रङ्कषं प्रायान्मङ्गलं फलशालिनं” ॥
इति भट्टिकाव्ये ।)

अभ्रपिशाचः, पुं, (अभ्रे आकाशे पिशाच इव । तस्य

छायात्मकत्वेन नीलवर्णतया पिशाचतुल्यत्वं ।)
राहुग्रहः । इति त्रिकाण्डशेषः ॥

अभ्रपिशाचकः, पुं, (अभ्रे पिशाच इव इवार्थे कन् ।)

राहुग्रहः । इति हारावली ॥

अभ्रपुष्पं, क्ली, (अभ्रं मेघ एव पुष्पं जलरूपफलस्य

निदानं यस्य तत्, तस्य मेघप्रभवत्वात् तथात्वं ।)
जलं । यथा, --
“अभ्रपुष्पमपि दित्सति शीतं
सार्थिना विमुखता यदभाजि” । इति नैषधं ॥
पृष्ठ १/०८१

अभ्रपुष्पः, पुं, (अभ्रमिव शुभ्रं पुष्पं यस्य सः ।)

वेतसवृक्षः । इत्यमरः ॥

अभ्रमः, त्रि, (न भ्रमः भ्रान्तिः, नञ्समासः ।)

(भ्रमाभावः ।) भ्रमरहितः । अभ्रान्तः । नास्ति
भ्रमो यस्येति बहुव्रीहिः ॥

अभ्रमांसी, स्त्री, (अभ्रमिव जटायां मांसमस्याः

सा गौरादीत्वात् ङीष् ।) आकाशमांसीलता ।
इति राजनिर्घण्टः ॥ (जटामांसी ।)

अभ्रमातङ्गः, पुं, (अभ्रस्य मेघस्य अधिष्ठाता

मातङ्गः, शाकपार्थिवादित्वात् समासः, मध्यपद-
लोपश्च ।) ऐरावतः । इन्द्रहस्ती । इत्यमरः ॥
(स च समुद्रजातः पूर्ब्बदिङ्नागः ।)

अभ्रमाला, स्त्री, (अभ्राणां माला श्रेणी, षष्ठीतत्-

पुरुषः ।) मेघश्रेणी । मेघसमूहः । इति हला-
युधः ॥ (घनघटा । कादम्बिनी ।)

अभ्रमुः, स्त्री, (न भ्राम्यति, भ्रम + उञ्, नञ्-

समासः, मान्तत्वात् वृद्ध्यभावः ।) ऐरावतस्त्री ।
सा पूर्ब्बदिघस्तिनी । इत्यमरः ॥

अभ्रमुप्रियः, पुं, (अभ्रमोः पूर्ब्बदिखस्तिन्याः प्रियः ।)

ऐरावतहस्ती । इति हेमचन्द्रः ॥ (अभ्रमातङ्गः ।)

अभ्रमुवल्लभः, पुं, (अभ्रमोः वल्लभः प्रियः ।) ऐरा-

वतहस्ती । इत्यमरः ॥

अभ्ररोहं, क्ली, (अभ्रात् मेघात् रोहः जन्म यस्य

तत्, तस्य मेघशब्दोत्पन्नत्वात् तथात्वं ।) वैदूर्य्य-
मणिः । इति राजनिर्घण्टः ॥

अभ्रवाटिकः, पुं, (अभ्रस्येव वाटी वक्रता यस्याः सा,

समासान्तः कः, ह्रस्वः ।) आम्रातकः । इति
राजनिर्घण्टः ॥

अभ्रान्तः, त्रि, (भ्रम् + कर्त्तरि क्तः, नञ्समासः ।)

भ्रान्तिशून्यः । यथा ।
“आप्ताः शिष्टा विबुद्धास्ते तेषां वाक्यमसशयम्”
इत्यत्र “यतोऽभ्रान्तबुद्धयः” । इति चरकटीका-
कारः ॥ (यथार्थज्ञानयुक्तः । भ्रमणशून्यः ।
स्थिरश्च ।)

अभ्रिः, स्त्री, (अपो बिभर्त्ति, नौकामार्ज्जनार्थं धार-

यति, अप् + भृ + कर्त्तरि किः ।) काष्ठकुद्दालः ।
नौकामार्ज्जनार्थकुद्दालाकृतिकाष्ठं । इत्यमरः ॥
(तीक्ष्णाग्रो लोहदण्डः ।
“अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वाद्विजोत्तमः” ।
इति मनुः ।)

अभ्रियः, त्रि, (अभ्रे भवः, अभ्र + घ तस्य इय ।)

अभ्रोद्भववस्तु । तत्पर्य्यायः । मेघभवः २ । इत्य-
मरः । (घनसम्भूतः । विद्युत् । मेघजलं । वज्रं ।
कुलिशं ।)

अभ्री, स्त्री, (अभ्रति मलं गच्छति अभ्र + इन्,

कृदिकारादिति पक्षे ङीष् ।) काष्ठकुद्दालः ।
इत्यमरटीकायां भरतः ॥

अभ्रेषः, पुं, (भ्रेष् चलने + घञ्, नञ्समासः ।)

उचितः । न्यायः । इत्यमरः ॥

अभ्रोत्थं, क्ली, (अभ्रात् मेघात् उत्तिष्ठति उद्भवति,

अभ्र + उत् + स्था + क ।) वज्रं । इति त्रिकाण्ड-
शेषः ॥

अम क् रोगे । क आमयति व्याधिर्लोकं । इति

दुर्गादासः ॥

अम गतौ । भजने । शब्दे । अमति । इति दुर्गा-

दासः ॥

अम्, व्य, (अम् + क्विप्, स्वरादित्वादव्ययत्वमस्य ।)

शीघ्रता । अल्पं । इति व्याडिः ॥

अमं, त्रि, (अम् + भावे घञ्, मान्तत्वान्न वृद्धिः,

अमो रोगो विद्यते अस्मात्, अर्शआद्यच्,
प्रायेण अपक्वफलभक्षणेनरोगोत्पत्ते स्तस्य तथात्वं ।)
अपक्वफलादि । इति शब्दरत्नावली ॥ रोगे पुं ।
इति मुग्धबोधव्याकरणं ॥

अमङ्गलं, क्ली, (नास्ति मङ्गलं शुभं यस्मात् तत् ।)

अशुभसूचकं । तद्यथा --
“सार्द्धं सैन्यसमूहैश्च वाद्यभाण्डैरसङ्ख्यकैः ।
ददर्शामङ्गलं राजा पुरो वर्त्मनि वर्त्मनि ॥
ययौ तथापि समरं न जगाम गृहं पुनः ।
मुक्तकेशीं छिन्ननासां रुदन्तीञ्च दिगम्बरां ॥
कृष्णवस्त्रपरीधानामपरां विधवामपि ।
मुखदुष्टां योनिदुष्टां व्याधियुक्ताञ्च कुट्टिनीं ।
पतिपुत्त्रविहीनाञ्च डाकिनीं पुंश्चलीमहो ।
कुम्भकारं तैलकारं व्याधं सर्पोपजीविनं ॥
कुचेलमतिरूक्षाङ्गं नग्नं काषायवासिनं ।
अङ्गविक्रयिणञ्चैव कन्याविक्रयिणं तथा ॥
चितां दग्धशवं भस्म निर्व्वाणाङ्गारमेव च ।
सर्पक्षतनरं सर्पं गोधाञ्च शशकं विषं ॥
श्राद्धपात्रञ्च पिण्डञ्च मोटकं वानरं तथा ।
देवलं वृषवाहञ्च शूद्रश्राद्धान्नभोजिनं ॥
शूद्रान्नपाचकं शूद्रयाजकं ग्रामयाजकं ।
कुशपुत्तलिकाञ्चैव शवदाहनकारिणं ॥
शून्यकुम्भं भग्नकुम्भं तैलं लवणमस्थि च ।
कार्पासं कच्छपं चूर्णं कुक्कुरं शब्दकारिणं ॥
दक्षिणे च शृगालञ्च कुर्व्वन्तं भैरवं रवं ।
कपर्द्दकञ्च क्षौरञ्च छिन्नकेशं नखं मलं ॥
कलहञ्च विलापञ्च विलापकारिणं जनं ।
अमङ्गलं वदन्तञ्च रुदन्तं शोककारिणं ॥
मिथ्यासाक्षिप्रदातारं चौरञ्च नरघातिनं ।
पुंश्चलीपतिपुत्त्रञ्च पुंश्चल्योदनभोजिनं ॥
देवतागुरुविप्राणां वस्तुवित्तापहारिणं ।
दत्तापहारिणं दस्युं हिंसकं सूचकं खलं ॥
पितृमातृविरक्तञ्च द्विजाश्वत्यविधातिनं ।
सत्यघ्नञ्च कृतघ्नञ्च स्थाप्यापहारिणं जनं ॥
विप्रद्रोहं मित्रद्रोहं क्षतं विश्वासघातकं ।
गुरुदेवद्विजानाञ्च निन्दकं स्वाङ्गघातकं ॥
जीवानां घातकञ्चैव स्वाङ्गहीनञ्च निर्द्दयं ।
व्रतोपवासहीनञ्च दीक्षाहीनं नपुंसकं ॥
गलितव्याधिगात्रञ्च काणं वधिरमेव च ।
पुक्कसं छिन्नलिङ्गञ्च सुरामत्तं सुरां तथा ॥
क्षिप्तं वमन्तं रुधिरं महिषं गर्द्दभं तथा ।
मूत्रं पुरीषं श्लेष्माणं कन्थिनं नृकपालिनं ॥
झञ्झावातं रक्तवृष्टिं वात्याञ्च वृक्षपातनं ।
वृकञ्च शूकरं गृव्रं श्येनं कङ्कञ्च भल्लुकं ॥
पाशञ्च शुष्ककाष्ठञ्च बायसं गन्धकं तथा ।
अग्रदानिब्राह्मणञ्च तन्त्रमन्त्रोपजीविनं ॥
वैद्यञ्च रक्तपुष्पञ्चैवौषधं तुषमेव च ।
कुवार्त्तां मृतवार्त्ताञ्च विप्रशापञ्च दारुणं ॥
दुर्गन्धवातं दुःशब्दं राजा संप्राप वर्त्मनि ।
मनश्च कुत्सितं प्राणाः क्षुभिताश्च निरन्तरं ॥
वामाङ्गस्पन्दनं देहजाड्यं राज्ञो बभूव ह ।
तथापि राजा निःशङ्को दर्शं दर्शममङ्गलं” ॥
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः ॥

अमङ्गलः, पुं, (नास्ति मङ्गलं यस्य) एरण्डवृक्षः ॥

इति शब्दचन्द्रिका ॥

अमङ्गलः, त्रि, (न मङ्गलः, नञ्समासः ।) मङ्गल-

शून्यः । अकुशलः । यथा । “अमङ्गलं रूपमिदं
दधत् कथं” । इति विद्वन्मोदतरङ्गिणी ॥ मङ्गला-
भावे क्ली । यथा । “अमङ्गलाभ्यासरतिं विचिन्त्य
तं” । इति कुमारसम्भवः ॥

अमङ्गल्यः, त्रि, (मङ्गलाय हितः, मङ्गल + यत् ततो-

नञ्समासः ।) अमङ्गलजनकः । यथा, --
“अमङ्गल्यं शीलं तव भवतु नामैवमखिलं” ।
इति पुष्पदन्तः ॥ (अशुभकरः । अशिवसूचकः
“देवि ! मैवममङ्गल्यवादिनी भव” । इति नागा-
नन्दः ।)

अमण्डः, पुं, (नास्ति मण्डो भक्तावशिष्टं भूषा वा

यस्य सः ।) एरण्डवृक्षः । इत्यमरः ॥ (मण्डहीन-
भक्तादि । भूषणहीनश्च ।)

अमतः, पुं, (अम् रोगे + अतच्, अथवा मन् +

भावे क्तः, नास्ति मतमभिप्रायो यत्र सः । अथवा
मन् + कर्म्मणि क्तः, नञ्समासः ।) रोगः । मृत्युः ।
कालः । इत्युणादिकोषः ॥

अमतिः, पुं, (अम् + अति ।) कालः । चन्द्रः । इति

मेदिनी ॥ दुष्टे त्रि । इति शब्दरत्नावली ॥
“अमतिः पुंसि काले च दुष्टे हिमकरेऽपि च” ।
इति शब्दरत्नावली । अबुद्धिः । अज्ञानं । अन-
भिसन्धिः ।
“भुक्त्वातोऽन्नतमस्यान्नममत्या क्षपणं त्र्यहं ।
मत्या भुक्त्वा चरेत् कृच्छ्रं रेतोविण्मूत्रमेव च” ॥
इति मनुः ।)

अमत्रं, क्ली, (अमति भुङ्क्तेऽन्नमत्र, अम् भोजने

आधारे अत्रन् ।) पात्रं । अस्य भाषा अमिर्त्ति ।
इत्यमरः ॥ (भाजनं । स्थानं । भोजनपात्रं ।)

अमत्सरः, पुं, अन्यशुभद्वेषाभावः । अत्र नञ्समासः ॥

मात्सर्य्यरहिते त्रि । अत्र बहुव्रीहिसमासः ॥

अमनिः, स्त्री, (अमति यात्यत्र, अम + आधारे

अनि ।) वर्त्म । पन्थाः । इत्युणादिकोषः ॥

अमन्दः, पुं, (न मन्दः विरोधे नञ्समासः ।) वृक्षः ।

इति शब्दचन्द्रिका ॥ मन्दभिन्ने त्रि । यथा ।
“पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना-
न्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु
वः ।” इति श्रीभागवतं ॥ (भीषणः । घोरः ।
अतिगभीरः ।
“आगुञ्जद्गिरिकुञ्जकुञ्जरघटाविस्तीर्णकर्णंज्वरम्
ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुज्जृम्मयन्” ।
इति उत्तरचरिते । प्रचुरः । बहुलः । अनल्पः ।
पृष्ठ १/०८२
:“क्वणत्कनककिङ्किणीझणझणायितस्यन्दनै-
रमन्दमददुर्द्दिनद्विरदवारिदैरावृतः” ॥
इति उत्तरचरिते । “आनन्दममन्दमिमं कुवलय-
दलनोचने ददासि त्वं” । इति काव्यप्रकाशः ।
अजडः । कुशलः । उद्योगी ।)

अममः, पुं, (नास्ति ममेत्यभिमानो गृहादिषु यस्य ।)

भाविजिनविशेषः । इति हेमचन्द्रः ॥ ममताशून्ये
त्रि । (संसारमायारहितः । विषयासक्तिशून्यः ।
“अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।
शरणेव्वममश्चैव वृक्षमूलनिकेतनः” ॥
इति मनुः ।)

अमरः, पुं, (मृ + कर्त्तरि अच् नञ्समासः ।) देवः ।

इत्यमरः ॥
(“विबभौ देवशङ्काशो वज्रपाणिरिवामरैः” ।
इति महाभारते ।
“फलं कर्म्मायत्तं किममरगणैः किञ्च विधिना” ।
इति शान्तिशतके ।)
कुलिशवृक्षः । अस्थिसंहारवृक्षः ॥ इति मेदि-
नी ॥ पारदः । इति राजनिर्घण्टः ॥ मृत्युरहि-
ते त्रि । यथा, --
“अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिन्तयेत्” ।
इति हितोपदेशः ॥ अमरसिंहः । स चादिशा-
ब्दिकः नामलिङ्गानुशासननामककोषकारः विक्र-
मादित्यराजसभीयनवरत्नान्तर्गतरत्नविशेषश्च ।
यथा, --
“इन्द्रश्चन्द्रः काशकृस्ना पिषली शाकटायनः ।
पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥
इति कविकल्पद्रुमः ॥
“धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य” ॥
इति नवरत्नं ॥ स एव बौद्धमतावलम्बीति केचित् ॥

अमरजः, पुं, (अमर इव जायते, अमर + जन् +

डः ।) दुष्खदिरवृक्षः । इति राजनिर्घण्टः ॥
(कालस्कन्धः । पत्रतरुः ।)

अमरदारुः, पुं, (अमराणां दारुः, षष्ठीतत्पुरुषः ।)

देवदारुवृक्षः । इति राजनिर्घण्टः ॥

अमरद्विजः, पुं, (अमरपूजकोद्विजः शाकपार्थिवादि-

त्वात् समासः, मध्यपदलोपश्च ।) देवलब्राह्मणः ।
इति त्रिकाण्डशेषः ॥ (देवाजीवः । देवपूजकः ।)

अमरपुष्पकः, पुं, (अमरमविशीर्णं पुष्पं यस्य समा-

सान्तः कः ।) काशतृणं । इति रत्नमाला ॥ केश्या ।
इति भाषा ।

अमरपुष्पिका, स्त्री, (अमरमशीर्णं पुष्पं यस्याः सा-

जातित्वात् स्त्रियां ङीप्, स्वार्थे कन् ।) अधः-
पुष्पीवृक्षः । इति रत्नमाला ॥

अमररत्नं, क्ली, (अमराणां रत्नमिव ।) स्फटिकः ।

इति राजनिर्घण्टः ॥

अमरवल्लरी, स्त्री, (अमरा छेदनेऽपि न म्रियमाणा

वल्लरी वल्ली ।) आकाशवल्ली । इति वैद्यकं ॥

अमरा, स्त्री, (न म्रियते मृ + कर्त्तरि अच्, नञ्-

समासः ।) दूर्व्वा । गुडूची । इन्द्रपुरी । स्थूणा ।
जरायुः । इति मेदिनी ॥ इन्द्रवारुणीवृक्षः ॥ वटी-
वृक्षः । महानीलीवृक्षः । गृहकन्या । घृतकुमारी
इति ख्याता । इति राजनिर्घण्टः ॥ नाभिनाला ।
इति त्रिकाण्डशेषः ॥

अमराद्रिः, पुं, (अमराणां देवानामद्रिः पर्ब्बतः,

देवालयत्वात् तस्य तथात्वं ।) सुमेरुः । इति
जटाधरः ॥

अमरावती, स्त्री, (अमरा विद्यन्तेऽस्यां, अमर +

मतुप् मस्थाने व दीर्घश्च ।) इन्द्रनगरी । इत्यमरः ॥
अमराः सन्ति अस्यामिति मोङ्मझपादिति वतुः
नाम्न्यस्त्यर्थे इति दीर्घः । इति भरतः ॥ तत्प-
र्य्यायः । पूषभासा २ देवपूः ३ । इति जटाधरः ॥
महेन्द्रनगरी ४ अमरा ५ सुरपुरी ६ । इति
शब्दरत्नावली ॥ तद्वर्णनं यथा । शिवशर्म्मोवाच ।
“रमयन्ती मनोऽतीव केयं कस्येयमीशितुः ।
नयनानन्दसन्दोहदायिनी पूरनुत्तमा” ॥
गणावूचतुः ।
“शिवशर्म्मन् महाभाग सुतीर्थफलितद्रुम ।
लोकोऽत्र रमते विप्र सहस्राक्षपुरी त्वियं ॥
तपोबलेन महता निर्म्मिता विश्वकर्म्मणा ।
दिवापि कौमुदी यस्याः सौधश्रेणीश्रियं श्रयेत् ॥
यदा कलानिधिः क्वापि दर्शेऽदृश्यत्वमावहेत् ।
तदा स्वप्रेयसीं ज्योत्स्नां सौधेष्वेषु निगूहयेत् ॥
यदच्छभित्तौ वीक्ष्य स्वमन्ययोषिद्विशङ्किता ।
मुग्धानाशु विशेच्चित्रमपि स्वां चित्रशालिकां ॥
हर्म्येषु नीलमणिभिर्न्निर्म्मितेष्वत्र निर्भयं ।
स्वनीलिमानमाधाय तमोऽहःस्वपि तिष्ठति ॥
चन्द्रकान्तशिलाजालस्रुतमत्रामलं जलं ।
तत्र चादाय कलसैर्न्नेच्छन्त्यन्यजलं जनाः ॥
कुविन्दा न च सन्त्यत्र न च ते पश्यतो हराः
चेलान्यलङ्कृतीरत्र यतः कल्पद्रुमोऽर्पयेत् ॥
गणका नात्र विद्यन्ते चिन्ताविद्याविशारदाः ।
यतो जानाति सर्व्वेषां चिन्तां चिन्तामणिर्द्रुतं ॥
सूपकारा न सन्त्यत्र रसकर्म्मविचक्षणाः ।
दुग्धे सर्व्वरसानेका कामधेनुरतोऽनिशं ॥
कीर्त्तिरुच्चैःश्रवा यस्य सर्व्वतो वाजिराजिषु ।
रत्नमुच्चैःश्रवाश्चात्र हयानां पौरुषाधिकः ॥
ऐरावतो दन्तिराजश्चतुर्द्दन्तोऽत्र राजते ।
द्वितीय इव कैलासो जङ्गमः स्फाटिकोज्ज्वलः ॥
तरुरत्नं पारिजातः स्त्रीरत्नं सोर्व्वशी त्विह ।
नन्दनं वनरत्नञ्च रत्नं मन्दाकिनी ह्यपां ॥
त्रयस्त्रिंशत् सुराणां या कोटिः श्रुतिसमीरिता ।
प्रतीक्षते सावसरं सेवायै प्रत्यहं त्विह ॥
स्वर्गेष्विन्द्रपदादन्यन्नविशिष्येत किञ्चन ।
यद्यत् त्रैलोक्यमैश्वर्य्यं न तत्तुल्यमनेन हि ॥
अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत् ।
किन्तेन तुल्यमन्यत् स्यात् पवित्रमथवा महत् ॥
अर्च्चिष्मती संयमनी पुण्यवत्यमलावती ।
गन्धवत्यलकैशी च नैतत्तुल्या महर्द्धिभिः ॥
अयमेव सहस्राक्षस्त्ययमेव दिवस्पतिः ।
शतमन्युरयन्देवो नामान्येतानि नामतः ॥
सप्तापि लोकपाला ये त एनं समुपासते ।
नारदाद्यैर्मुनिवरैरयमाशीर्भिरीड्यते ॥
एतत्स्थैर्य्येण सर्व्वेषां लोकानां स्थैर्य्यमिष्यते ।
पराजयान्महेन्द्रस्य त्रैलोक्यं स्यात् पराजितं ॥
मनुजा दनुजा दैत्यास्तपस्यन्त्युग्रसंयमाः ।
गन्धर्व्वयक्षरक्षांसि महेन्द्रपदलिप्सवः ॥
सगराद्या महीपाला वाजिमेधविधायकाः ।
कृतवन्तो महायत्नं शक्रैश्वर्य्यं जिघृक्षवः ॥
निष्प्रत्यूहं क्रतुशतं यः कश्चित् कुरुतेऽवनौ ।
जितेन्द्रियोऽमरावत्यां स प्राप्नोति पुलोमजां ॥
असमाप्तक्रतुशता वसन्त्यत्र महीभुजः ।
ज्योतिष्टोमादिभिर्यागैर्ये यजन्त्यपि ते द्विजाः ॥
तुलापुरुषदानादिमहादानानि षोडश ।
ये यच्छन्त्यमलात्मानस्ते लभन्तेऽमरावतीं ॥
अक्लीववादिनो धीराः संग्रामेष्वपराङ्मुखाः ।
विक्रान्ता वीरशयने तेऽत्र तिष्ठन्ति भूभुजः ॥
इत्युद्देशात् समाख्याता महेन्द्रनगरीस्थितिः ।
यायजूका वसन्त्यत्र यज्ञविद्याविशारदाः ॥
एतस्या दक्षिणे भागे येयं दृश्येत पूः शुभा ।
इमामर्च्चिष्मतीं वीक्ष्य वीतिहोत्रपुरीं शुभां” ॥
इति स्कान्दे काशीखण्डे १० अध्यायः ॥

अमर्त्यः, पुं, (न मर्त्त्यः, इति नञ्समासः ।) देवता,

इत्यमरः ॥ (मरणधर्म्मरहितः । अक्षयः । अवि-
नश्वरः ।)

अमर्त्यभुवनं, क्ली, (अमर्त्त्यानां देवानां भुवनं वास-

स्थानं ।) स्वर्गः । इति हलायुधः ॥

अमर्षः, पुं, (मृष + भावे घञ्, नञ्समासः । नास्ति

मर्षः क्रोधो यस्य, त्रि, क्रोधशून्यः ।) क्रोधः ।
इत्यमरः ॥
(“कश्चित्पितृबधामर्षात् पुनर्नोत्सादयिष्यति” ।
इति रामायणे । अक्षमा । असहिष्णुता । इष्ट-
घाते असहिष्णुत्वं ।
“यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः” ॥
इति भगवद्गीता ।)

अमर्षणः, त्रि, (मृष् + बाहुल्यात् कर्त्तरि ल्युट्

नञ्समासः ।) क्रोधी । इत्यमरः ॥ (क्रोधनः ।
कोपनस्वभावः । अतिसंक्रुद्धः । प्रक्रोपितः ।
“रघोवरष्टम्भमयेन पत्रिणा
हृदि क्षतोगोत्रभिदप्यमर्षणः” ।
इति रघुवंशे । असहनः । असहिष्णुः ॥ पर-
कृतापमानादेरसहनशीलः ।
“गत्वा ह्रदे वासुदेवेन सार्द्धं
अमर्षणं धर्षयतः सुतं मे” । इति महाभारते ।
“अमर्षणः शोणितकाङ्क्षया किं
पदा स्पृशन्तं दशति द्विजिह्वः” । इति रघुवंशे ।)

अमलं, क्ली, (नास्ति मलं यस्य तत् ।) अभ्रधातुः ।

निर्म्मले त्रि । इति मेदिनी ॥

अमला, स्त्री, (नास्ति मलं यस्याः सा, अथवा अम्

+ कलच् स्त्रियां टाप् ।) लक्ष्मीः । इति मेदिनी ॥
सातलावृक्षः । इति राजनिर्घण्टः ॥ भूम्यामलकी ।
इत्यमरः ॥ नाभिनाला । इति त्रिकाण्डशेषः ॥
पृष्ठ १/०८३

अमसः, पुं, (अम गतिरोगादौ असच् ।) कालः ।

निर्बोधः । रोगः । इत्युणादिकोषः ॥
(“अमसो वालिशे काले रोगभेदे पुमानयं” ।
इति अमरः ।)

अमा, व्य„ (न मा + का स्वरादित्वादव्ययं ।) सहार्थं ।

निकटं । इत्यमरः ॥

अमा, स्त्री, (न माति क्षयोदयविशेषं परिच्छिनत्ति,

मा + क, नञ्समासः ।) अमावस्या । इति
त्रिकाण्डशेषः ॥ चन्द्रमण्डलस्य षोडशकला । तथा
च स्कन्दपुराणीयप्रभासखण्डे ।
“अमा षोडशभागेन देवि प्रोक्ता महाकला ।
संस्थिता परमा माया देहिनां देहधारिणी” ॥
अस्यार्थः । चन्द्रमण्डलस्य षोडशभागेन परिमिता
आधारशक्तिरूपा क्षयोदयरहितत्वात् नित्या
स्रक्सूत्रवत् सर्व्वानुस्यूता अमा नाम्नी महाकला
पोक्ता । इति रघुनन्दनः ॥ (सह । सार्द्धं । समीपं ।
निकटं । अन्तिकं ।)

अमांसः, त्रि, (नास्ति मांसं यस्य सः ।) दुर्ब्बलः ।

इत्यमरः ॥ अल्पमांसयुक्तः । मांसरहितश्च ॥
(कृशः । क्षीणकायः । निरामिषभक्ष्यवस्तु ।)

अमात्यः, पुं, (अमा सह विद्यते, अमा + त्यप् ।)

मन्त्री । इत्यमरः ॥ तत्परीक्षा । यथा, --
“शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः ।
शास्त्रार्थतत्त्वगोऽमात्यो भवेद्भूमिभुजामिह” ॥ इति
युक्तिकल्पतरुः ॥
(“भृता हि पाण्डुनामात्या बलञ्च सततं भृतं ।
मान्यानन्यानमात्यांश्च ब्राह्मणाश्च तपोधनान्” ॥
इति महाभारते ।)

अमाननं, क्ली, (मन् + णिच् + भावे ल्युट्, नञ्-

समासः ।) अनादरः । न्यक्वारः । इति शब्द-
रत्नावली ॥
(“अतुष्टिदानं कृतपूर्ब्बनाशन-
ममाननं दुश्चरितानुकीर्त्तनं ।
कथाप्रसङ्गेन च नामविस्मृति-
र्विरक्तभावस्य जनस्य लक्षणं” ॥
इति हितोपदेशे ।)

अमानस्यं, क्ली, (मानसाय मनसे हितं मानस + यत्,

नञ्समासः ।) दुःखं । पीडा । व्यथा । तद्युक्ते
त्रि । इत्यमरः ॥ आमनस्यं आमानस्यमपि पाठः ॥

अमान्यः, त्रि, (मन् + कर्म्मणि ण्यत्, नञ्समासः ।)

अमाननीयः । अनादृत्यः । मान्यशब्दस्य नञा
समासः ॥

अमामसी, स्त्री, (अमा सह सूर्य्येण मासो यस्यां,

गौरादित्वात् ङीष् । पृषोदरादित्वात् ह्रस्वः ।)
अमावस्या । इत्यमरटीकायां रमानाथः ॥

अमामासी, स्त्री, (अमा सह सूर्य्येण मासो यस्यां,

गौरादित्वात् ङीष् ।) अमावस्या । इत्यमर-
टीकायां रमानाथः ॥

अमायिकः, त्रि, (न + माया + ठन्, तस्य इक ।)

मायारहितः । माया विद्यते यस्य स मायिकः
ततो नञा समासः ॥

अमावसी, स्त्री, (अमा साहित्येन वसतश्चन्द्रार्कौ

यस्यां, अमा + वस + अधिकरणे गौरादित्वात्
ङीष् ।) अमावास्या । इति शब्दरत्नावली ॥

अमावस्या, स्त्री, (अमा साहित्येन वसतश्चन्द्रार्कौ

यस्यां, अमा + वस + आधारे ण्यत् स्त्रियां टाप् ।)
कृष्णपक्षान्ततिथिः । सा तु चन्द्रमण्डलस्य पञ्च-
दशकलाक्रियारूपा तत्क्रियोपलक्षितः कालो
वा । इति तिथ्यादितत्त्वं ॥ सूर्य्याचन्द्रमसोर्यः परः
सन्निकर्षः सामावस्या । इति गोभिलः ॥ परः
सन्निकर्षश्च उपर्य्यधोभावापन्नसमसूत्रपातन्यायेन
एकराश्यवच्छेदेन सहावस्थानरूपः । इति रघु-
नन्दनः ॥ तत्पर्य्यायः । अमावास्या २ । दर्शः ३ ।
सूर्य्येन्दुसङ्गमः ४ । इत्यमरः ॥ पञ्चदशी ५ । इति
स्मृतिः ॥ अमावसी ६ । अमावासी ७ । इति
शब्दरत्नावली ॥ अमामसी ८ । अमामासी ९ ।
इत्यमरटीकायां रमानाथः ॥ सा दृष्टेन्दुकला
सिनीवाली १० । नष्टेन्दुकला च कुहूः ११ । इत्य-
मरः ॥ तद्व्यवस्थादि यथा । अथामावस्या । सा च
प्रतिपद्युता ग्राह्या युग्मात् । वराहपुराणे
चाण्डालशपथे ।
“षष्ठ्यष्टम्यप्यमावास्या उभे पक्षे चतुर्द्दशी ।
अस्नातानां गतिं यास्ये यद्यहं नागमे पुनः” ॥
अतोऽत्र स्नानमावश्यकं । अतोऽत्र जीवत्पितृके-
णापि स्नातव्यम् ।
“अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनं ।
न जीवत्पितृकः कुर्य्यात् कृते च पितृहा भवेत्” ॥
इति वचनं रागप्राप्तस्नाननिषेधकं ।
“भोगाय क्रियते यत्तु स्नानं यादृच्छिकं नरैः ।
तन्निषिद्धं दशम्यादौ नित्यनैमित्तिके न तु” ॥
इति त्रयोदशीप्रकरणोक्तवचनाच्च ॥ * ॥
पैठिनसिः । “न पर्ब्बसु तैलं क्षौरं मांसमभ्युपे-
यात् नामावास्यायां हरितमपि छिन्द्यात्” ।
इति ॥ * ॥
“पुष्ये तु जन्मनक्षत्रे व्यतीपाते च वैधृतौ ।
अमायाञ्च नदीस्नानं पुनात्यासप्तमं कुलं” ॥
अत्र दहत्याजन्मदुष्कृतमिति ज्योतिषे पाठः ॥ * ॥
व्यासः ।
“अमावास्यां भवेद्वारो यदि भूमिसुतस्य च ।
गोसहस्रफलं दद्यात् स्नानमात्रेण जाह्नवी” ॥
“सिनीवाली कुहूर्व्वापि यदि सोमदिने भवेत् ।
गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम्” ॥
सिनीवाली चतुर्द्दशीयुक्तामावास्या व्यस्तापि
प्रशस्ता एवमन्यत्रापि वारविशिष्टविधौ न युग्मा-
दरः निरवकाशत्वेन संशयायोगात् । एतच्च मौन-
मरुणोदयकालमारभ्य स्नानपर्य्यन्तं । न तु स्नान-
कालमात्रे ।
तत्र,
“उच्चारें मेथुने चैव प्रस्रावे दन्तधावने ।
स्नाने भोजनकाले च षट्सु मौनं समाचरेत्” ॥
इति स्कान्देन तस्य सामान्यतः प्राप्तत्वात् । उच्चारे
पुरीषोत्सर्गे ॥ * ॥ स्मृतिः ।
“करतोयाजलं प्राप्य यदि सोमयुता कुहूः ।
अरुणोदयवेलायां सूर्य्यग्रहशतैः समा” ॥
स्नानमन्त्रः ।
“करतोये सदानीरे सरित्श्रेष्ठे सुविश्रुते ।
पौण्ड्रान् प्लावयसे नित्यं पापं हर करोद्भवे” ॥
पौण्ड्रान् देशविशेषान् ॥ * ॥ मरीचिः ।
“मासे नभस्यमावास्या तस्यां दर्भचयो मतः ।
अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः” ॥
अत्र ।
“दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः ।
अयातयामान्येतानि नियोज्यानि पुनः पुनः” ॥
इति गृह्यपरिशिष्टवचनेनैव सिद्धौ श्रावणा-
मावास्याया उपादानं ।
“वार्षिकांश्चतुरो मासान्नाहरेत् कुशमृत्तिकाः ।
आददीत त्वभावेऽपि सद्यो यस्योपयोजनं” ॥
इति संवत्सरप्रदीपधृतशिवरहस्यीयस्यापवादक-
मिति ॥ विद्याकरधृतं ।
“सङ्ग्रहाद्वत्सरं यावत् शुद्धिः स्यादिध्मवर्हिषां ।
ततः परं न गृह्णीयात् जपादौ यज्ञकर्म्मणि” ॥ * ॥
संवत्सरप्रदीपे ।
“अमावास्यान्तु कन्यार्के तीर्थप्राप्तौ तथा नृप ।
कृत्वा श्राद्धं विधानेन दद्यात् षोडशपिण्डकं” ॥
तत्प्रमाणप्रयोगौ षोडशीशब्दे द्रष्टव्यौ ॥ * ॥
अमावास्यायामपि मलमासे श्राद्धाभावमाह
कौथुमिः ।
“संवत्सरातिरेको वै मासो यः स्यात्त्रयोदशः ।
तस्मिंस्त्रयोदशे श्राद्धं न कुर्य्यादिन्दुसंक्षये” ॥
सम्बत्सरप्रदीपे ।
“एकराशिस्थिते सूर्य्ये यदि दर्शद्वयं भवेत् ।
दर्शश्राद्धं तदादौ स्यान्न परत्र मलिम्लुचे” ॥
यत्तु ।
“जातकर्म्मणि यत् श्राद्धं दर्शश्राद्धं तथैव च ।
मलमासेऽपि तत्कार्य्यं व्यासस्य वचनं यथा” ॥
इति व्यासवचनं तत्पिण्डपितृयज्ञाख्यश्राद्धपरं ॥ * ॥
अमावास्याश्राद्धकालमाह छन्दोगपरिशिष्टं ।
“पिण्डान्वाहार्य्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयांशे नातिसन्ध्यासमीपतः” ॥
पिण्डानां पितॄणां अन्वाहार्य्यं श्राद्धं मासैकतृप्ति-
जनकं यत्तत्तथा । तथा च मनुः ।
“पिण्डानां मासिकं श्राद्धमन्वाहार्य्यं विदुर्बुधाः” ।
राजनि चन्द्रे । शस्यत इत्यनेन क्वचिच्चन्द्रक्षया-
भावेऽपि अमावास्याश्राद्धं सूचितं । एतादृग्-
व्युत्पत्तेः साग्निनिरग्निसाधारणत्वात् वक्ष्यमाण-
कात्यायनोक्तरीत्या क्षीणास्तम्भितावर्द्धमानाभेदः
साधारणः ॥ * ॥ यत्तु, --
“पितृयज्ञन्तु निर्व्वर्त्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्य्यकं श्राद्धं कुर्य्यान्मासानुमासिकं” ॥
इति मनुवचनं तत्साग्निः पिण्डपितृयज्ञं निर्व्वर्त्य
मासानुमासिकं प्रतिमासिकं श्राद्धं कुर्व्वीते-
तिक्रमविधायकं । अत्रानुशब्दस्य वीप्सार्थकत्वं ।
तथा च ।
“लक्षणवीप्सेत्थम्भ्रतेष्वभिर्भागे परिप्रती ।
अनुरेषु सहार्थे च हीने उपश्च कथ्यते” ॥
चन्द्रक्षयेऽमावास्यायां न तु कात्यायनोक्तक्षये
पृष्ठ १/०८४
:तथात्वे वर्द्धमानादौ प्रतिमासानुपपत्तेः । एवमेव
श्राद्धविवेकः । अतएव तत्रैवामावास्याव्यतिरिक्त-
कृष्णपक्षविहितपार्ब्बणश्राद्धे ययास्तमिति वच-
नात् व्यवस्थेत्युक्तं । तत्र साग्निकर्त्तव्यत्वाविशेषिता-
मावास्याव्यतिरेकाभिधानात् क्षीणादिभेदेन व्य-
वस्था साग्निनिरग्निसाधारणीत्यवगम्यते । एवञ्चा-
मावास्यायां मृताहनिमित्तक औरसक्षेत्रजपुत्त्र-
कर्त्तव्यपार्ब्बणे क्षीयमाणादिना न व्यवस्था किन्तु
ययास्तमित्यनेन । एतद्विवृतं मलमासतत्त्वे ॥ * ॥
यत्तु दशममुहूर्त्तस्य मत्स्यपुराणोक्तापराह्णिकत्वेऽपि
श्राद्धे तस्य त्यागः । पिण्डपितृयज्ञार्थ एवेति
वासरतृतीयांशाभिधानं साग्निपरमेवेति परि-
शिष्टप्रकाशोक्तं तन्न युक्तं । पूर्ब्बाह्णोवै देवानां मध्यं
दिनं मनुष्याणां अपराह्णः पितॄणां इति श्रुत्या
तन्मुहूर्त्तस्य मनुष्यकर्म्माङ्गत्वेन बोधनादेव श्राद्धे
परित्यागः । एतच्छ्रुतिमूलकमेव वासरस्य तृती-
यांश इत्युक्तं । वासरस्य तृतीयांशे त्रिधा विभक्तस्य
दिनस्य तृतीयभागे नातिसन्ध्यासमीपत इति
सन्ध्यासमीपैकमुहूर्त्त आपद्यपि वर्ज्जनीय इत्यर्थः ।
तेन ।
“प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु ।
मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततः परं ॥
सायाह्नस्त्रिमुहूर्त्रः स्यात् श्राद्धं तत्र न कारयेत् ।
राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु” ॥
इति मत्स्यपुराणे निषिद्धमुहूर्त्तत्रये आपदि मुहूर्त्त-
द्वयमभ्यनुज्ञातं अतिशब्दस्वरसात् । “त्रिमुहूर्त्तापि
कर्त्तव्या पूर्ब्बा दर्शा च बह्वृचैः” । इति हारीत-
वचनाच्च । तेन पूर्ब्बदिने मुहूर्त्तत्रयमात्रलाभे पर-
दिने वासरस्य तृतीयांशालाभे पूर्ब्बदिने एव
श्राद्धं । एतेन नातिसन्ध्यासमीपत इत्यनेन राक्षसी-
वेलामात्रं निषिध्यत इति मैथिलमतमपास्तं ।
सर्व्वकर्म्मसु स्नानदानादिष्वपि अनापदीत्यर्थः ।
इति श्राद्धविवेकः ॥ तेनाशक्तौ तस्यामपि तत्क-
रणं । अतएव पराशरः ।
“दिवाकरकरैः पूतं दिवास्नानं प्रशस्यते ।
अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात्” ॥
इति ॥ * ॥ दर्शद्वैधे कुत्र श्राद्धमित्याह छन्दोग-
परिशिष्टे कात्यायनः ।
“यदा चतुर्दृशीयामं तुरीयमनुपूरयेत् ।
अमावास्या क्षीयमाणा तदैव श्राद्धमिष्यते” ॥
चतुर्द्दशीयामं चतुर्द्दशीसम्बन्धिदिनयाममिति त-
द्दिनस्यामावास्यासम्बन्धेऽपि चतुर्द्दशीनिर्द्देशो-
ऽधिकेन व्यपदेशा भवन्तीति न्यायात् । तेन यदा
अमावास्याचतुर्द्दशीसम्बन्धिदिनस्य चतुर्थं प्रहरं
कृत्स्नं किञ्चिन्न्यूनं वा अनुपूरयेत् अत्रानुपूरये-
दित्यभिधानात् तुरीययामस्य पादोनदण्डद्वया-
न्यूनप्रथममुहूर्त्तस्य बहुकालत्वं प्रतीयते । एतेन
प्रहरत्रयाभ्यन्तरे किञ्चिदधिकप्रहरत्रये वा चतु-
र्द्दशी प्रतीयते । ततश्चोभयवासरीयतृतीयांश-
सम्बन्धिपञ्चधाविभक्तापराहूमुहूर्त्तयोर्मुहूर्त्तान्यून-
दर्शलाभे द्वैधं न त्वेकदिनमात्रे तल्लाभे । तत्र
पूर्ब्बोक्तेन वासरस्य तृतीयांश इत्यनेनैव द्वैधा-
नुदयात् । अतो यद्दिने वासरतृतीयांशे तादृश-
दर्शलाभस्तत्रैव श्राद्धं । मुहूर्त्तोनतिथेस्तु कर्म्मा-
नर्हत्वान्न द्वैधावसरः । तथा च भविष्ये ।
“व्रतोपवासनियमे घटिकैका यदा भवेत् ।
सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकी” ॥
इति । अत्र च प्रागुक्तजावालिवचनोक्ता मुहूर्त्ता-
त्मिका घटिका ग्राह्या योग्यत्वात् न त्वेकदण्डा-
त्मिका वक्ष्यमाणरौहिणादिग्रहणे तथा दृष्ट-
त्वाच्च । ततश्च पूर्ब्बोक्तद्वैधे तद्द्विवसीयचतुर्द्दश्य-
पेक्षया परदिने अमावास्या क्षीयमाणा न्यूनका-
लव्यापिनी न तु पूर्ब्बापरदिवसीययावच्चतुर्द्दश्य-
पेक्षया अनुपस्थितेः । एवं स्तम्भितावर्द्धमानयो-
रपि । तदैव पूर्ब्बदर्श एव श्राद्धं । स्वोक्तचन्द्र-
क्षयानुरोधात् । यदा त्रिंशद्द्वण्डात्मकदिवसे चतु-
र्द्दश्यधिकचतुर्थयामपूरणे मुख्यापराह्णीयकिञ्चि-
न्न्यूनमुहूर्त्तलाभस्तदापि तदैवेत्यनेन चन्द्रक्षयानु-
रोधात् पूर्ब्बदिने श्राद्धं न तु मुख्यापराह्णीय-
मुहूर्त्तलाभेऽपि परदिने । अत्र चन्द्रक्षयश्चतुर्द्दश्य-
ष्टमयामात् प्रभृति अमावास्यासप्तमयामपर्य्यन्त-
मिति वक्ष्यते । तदैवेत्येव श्रवणात्तिथिद्वैधे खण्ड-
विशेषो नियम्यते कर्म्मणि खण्डान्तरव्युदासाय ।
एवञ्च यत्र पूर्ब्बापरदिने वासरतृतीयांशीयमु-
ख्यापराह्णे मुहूर्त्तोनदर्शलाभस्तत्रापि पूर्ब्बदिन एव
श्राद्धं वासरतृतीयांशचन्द्रक्षयातिशब्दस्वरसात् ।
त्रिमुहूर्त्तापीत्यनुरोधाच्च । यत्र तु पूर्ब्बदिने त्रि-
मुहूर्त्तमात्रव्यापिन्यमावास्या परदिने तृतीयांश-
मुहूर्त्तव्यापिनी सती क्षीयमाणा तत्र परदिने
चन्द्रक्षयाभावेऽपि मुख्यापराह्णलाभात् श्राद्धम् ।
अन्यथा, --
“यदा चतुर्दशीयामं तुरीयमनुपूरयेत्” ।
इति विशेषाभिधानं व्यर्थं स्यात् ॥ * ॥
अथ “यत्र पूर्ब्बाहे श्राद्धं तत्र यदहस्त्वेव चन्द्रमा
न दृश्येत ताममावास्यां कुर्व्वीत” इति गोभिल-
विरोधः । तथाविधचतुर्दशीयुक्तामावास्यायाः
सिनीवालीत्वेन प्रातश्चन्द्रदर्शनात् । तत्राह सएव ।
“यदुक्तं यदहस्त्वेव दर्शनं नेति चन्द्रमाः ।
तत्क्षयापेक्षया ज्ञेयं क्षीणे राजनि चेत्यपि” ॥
“यदहस्त्वेव चन्द्रमा न दृश्येत ताममावास्यां
कुर्व्वीत” इति यद्गोभिलसूत्रं तच्चन्द्रक्षयाभिप्रा-
यिकम् । अन्यथा गोभिलीयतादृशसूत्रान्तरेण
सह पौनरुक्त्यापत्तेः । तस्मात् प्रथमसूत्रं कुहूपरं
तच्च वर्द्धमानापक्षे नियतं । क्षीणास्तम्भितयोस्तु
यथायोग्यमनुसरणीयम् । एवञ्च “यदहस्त्वेव
चन्द्रमा न दृश्येत ताममावास्यां कुर्व्वीत” इति
श्रुतिरेतत्समानार्थकं श्रुत्यन्तरं वा तदपि वर्द्ध-
मानादिपरं न तु कात्यायनवचनात्तत्र क्षयलक्षणा
कल्पतरुप्रभृतिभिरुक्तायुक्ता ।
“श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरीयसि” ।
इति विरोधात् । क्षीण इति कात्यायनेन मया
यत् क्षीणे राजनीत्युक्तं तदपि क्षयाभिप्रायकम् ।
अथैवं दृश्यमानेऽप्येकदा इति यद्गोभिलस्य सूत्रा-
न्तरं तद्व्यर्थम् । “यदहस्त्वेव” इत्यादि द्वितीय-
सूत्रप्राप्ततिथेः सिनीवालीत्वेनैव चन्द्रदर्शनप्राप्ते-
रित्यत आह स एव ।
“यच्चोक्तं दृश्यमानेऽपि तच्चतुर्दश्यपेक्षया ।
अमावास्यां प्रतीक्षेत तदन्ते वापि निर्व्वपेत्” ॥
दृश्यमानेऽप्येकदेति यदुक्तं तच्चतुर्द्दश्यां श्राद्धाय
पूर्ब्बसूत्रममावास्यापदोपादानाच्चन्द्रक्षये सत्यम-
मावास्याविषयं । इदं पुनरित्थम्भतचतुर्द्दशीविष-
यमिति श्राद्धविवेकः । तत् किममावास्यावच्चतु-
र्द्दशीत्यत्राह अमावास्यां प्रतीक्षेत उभयतिथि-
प्राप्तौ श्राद्धायामावास्या प्रतीक्षणीया । यत्र
पूर्ब्बदिने दिवा सार्द्ध्वमुहूर्त्तमात्रे अमावास्या पर-
दिने च सार्द्ध्वदशममुहूर्त्तमात्रे तत्र चोभयदिने
श्राद्धयोग्यामावास्या न प्राप्यते तत्र तदन्त
चतुर्द्दश्यन्ते निर्व्वपेत् दद्यात् ॥ * ॥ अत्रैव विषये
साग्निनिरग्न्योर्व्विशेषमाह कालमाधवीये जा-
बालिः ।
“अपराह्णद्वयाव्यापी यदि दर्शस्तिथिक्षये ।
आहिताग्नेः सिनीवाली निरग्न्यादेः कुहूर्म्मता” ॥
आदिशब्दादनुपनीतशूद्रयोर्ग्रहणं ॥ * ॥ क्षयमाह
कात्यायनः ।
“अष्टमेऽंशे चतुर्द्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याष्टमांशे च ततः किल भवेदणुः” ॥
चतुर्द्दश्यष्टमे यामे चन्द्रमाः क्षीण चतुर्थभागोन-
कलावशिष्टो भवति । “अत्रेन्दुराद्यप्रहरेऽवति-
ष्ठते” इत्यादिस्वरसात् । अमावास्याष्टमे यामे
चाणुर्भवति पुनरुत्पद्यते किलेत्यागमवार्त्तायां तेन
अमावास्यायाः सप्तमे यामे कृत्स्नक्षय इत्यव-
गम्यते । “ततश्चान्त्यकलावयवनाशोत्पत्तिरेव क्षयः
सा च सूक्ष्मतायां विनाशेऽप्यस्तीति” श्राद्धविवेकः ॥
उत्पत्तिराद्यक्षणसम्बन्धः । तेन बिनाशस्यानन्त-
त्वेऽपि नातिव्याप्तिः ॥ * ॥ अत्र विशेषमाह
सएव ।
“आग्रहायण्यमावास्या तथा ज्यैष्ठस्य या भवेत् ।
विशेषमाभ्यां ब्रुवते चन्द्रचारविदो जनाः” ॥
आभ्यामिति ल्यब्लोपे पञ्चमी इमे प्राप्येत्यर्थः ।
चन्द्रचारविदो ज्योतिर्व्विदः । अत्र पौर्णमास्या-
न्तमास इति परिशिष्टप्रकाशः ॥ अत्र तीजं
ब्रह्मपुराणीयतिथिकृत्यं । तथा च श्राद्धमधिकृत्य
ब्रह्मपुराणं ।
“पयोमूलफलैः शाकैः कृष्णपक्ष च सर्व्वदा” ।
अत्र कृष्णपक्षे चतुर्द्दशीव्यतिरिक्तायां यस्यां कस्या-
ञ्चित् तिथौ श्राद्धविधानादमावास्यापि लभ्यत
इति ॥ * ॥ को विशेषैत्यत्राह स एव ।
“अत्रेन्दुराद्ये प्रहरेऽवतिष्ठते
चतुर्थभागोनकलावशिष्टः ।
तदन्त एव क्षयमेति कृत्स्न-
मेवं ज्योतिश्चक्रविदो वदन्ति” ॥
अत्र मासद्वये अमावास्यायां चतुर्थभागोनकला-
वशिष्टः चतुर्थभागोना या कला तयावशिष्टः
कलाभागत्रयमात्रः सन्नाद्ये प्रहरेऽवतिष्ठते । अर्थात्
चतुर्द्दश्यष्टमयामे क्षयारम्भ इति । तदन्त एव
अमावास्यान्तयाम एव क्षयं कृत्स्नमेति । अन्य-
पृष्ठ १/०८५
:त्रामावास्या सप्तमयाम इति विशेषः । तेन मार्ग-
शीर्षज्यैष्ठयोरुभयदिने चन्द्रक्षयलाभे यद्यपि यदा
चतुर्द्देशीयाममिति वचनात् पूर्ब्बदिने एव श्राद्धं
प्राप्नोति तथापि तद्वचनं चन्द्रक्षयानुरोधमूल-
मिति । कृत्स्नक्षयानुरोधात् क्षीणायामपि पर-
त्रापराह्णलाभे श्राद्धं अन्यथैतद्विशेषाभिधानं व्यर्थं
स्यात् ॥ * ॥ अत्रापि विशेषान्तरमाह स एव ।
यस्मिन्नब्दे द्वादशैकश्च यव्यस्तस्मिंस्त्रृतीयया परि-
दृश्यो नोपजायेत । यव्यो मासः । तृतीयया
मात्रया चतुर्थभागोनकलया परिदृश्यश्चन्द्रो न
भवति किन्तु तदधिकन्यूनकलयेति । तेन मल-
मासयुताब्दे अन्यमासवदनयोरपि चतुर्द्दश्यन्तया-
मादि दर्शसप्तमयामपर्य्यन्तं क्षय इति । मलमास-
युताब्दस्तु एकस्मान्मलमासादब्दद्वयानन्तराब्द-
स्तृतीयेऽब्दे मलमासस्यावश्यम्भावादिति ॥ * ॥
चन्द्रक्षयानुरुद्धं क्षीणापक्षमुपसंहरति स एव ।
“एवं चारं चन्द्रमसो विदित्वा
क्षीणे तस्मिन्नपराह्णे च दद्यात्” ।
एवं चारं गतिविशेषं ॥ * ॥ स्तम्भितायां व्यव-
स्थामाह स एव ।
“सम्मिश्रा या चतुर्द्दश्या अमावास्याभवेत् क्वचित् ।
खर्व्वितां तां विदुः केचिदुपेध्वमिति चापरे” ॥
क्षीणायाः पूर्ब्बमुक्तत्वात् । वर्द्ध्वमानायाश्च वक्ष्य-
माणत्वात् अस्य वचनस्य स्तम्भितापरत्वं । खर्व्वितां
नीचां पितृलोकप्रापणानर्हां केचित् यजुर्व्वेदिनः ।
अपरे ऋग्वेदिनः तामेव उपेध्वमुपगच्छत श्राद्धा-
येति शेषः । उपेध्वमित्यत्र गताध्वामितिपाठे
गतः प्राप्तः पितृलोकप्रापणाय अध्वा अनयेति
गताध्वा प्रशस्तेत्यर्थः । “तस्माच्छन्दोगा उभया-
नुरोधादिच्छात उभयादरं कुर्व्वन्ति” इति का-
त्यायनस्वरसः ॥ * ॥ व्यक्तमाह लघुहारीतः ।
“त्रिमुहूर्त्तापि कर्त्तव्या पूर्ब्बा दर्शा च बह्वृचैः ।
कुहूरध्वर्य्युभिः कार्य्या यथेष्टं सामगीतिभिः” ॥
अत्र त्रिमुहूर्त्तेत्युपादानात् स्तम्भितायांः पूर्ब्बदिने
त्रिमुहूर्त्तमात्रलाभेऽपि बह्वृचानां श्राद्धं । न तु
मुख्यापराह्णलाभादपि परदिने । सामगानां तत्रा-
प्यनियमः । एतादृग्विषय एव उमयत्रापराह्णा-
लाभेऽपीयं व्यवस्थेति श्राद्धविवेकः ॥ मुख्या-
पराह्णस्य एकदिनमात्रलाभेऽप्युभयदिनालाभात् ॥
॥ * ॥ वर्द्ध्वमानायां व्यवस्थामाह कात्यायनः ।
“वर्द्ध्वमानाममावास्यां लक्षयेदपरेऽहनि ।
यामांस्त्रीनधिकान् वापि पितृयज्ञस्ततो भवेत्” ॥
यामांस्त्रीनिति पूर्ब्बदिवसीययामत्रयन्यूनचतुर्द्दश्य-
पेक्षया । अथैवं वासरतृतीयांशानुरोधेन श्राद्ध-
विधानात् कथममावास्याश्राद्धे पर्युदस्तरात्र्यादी-
तरकालपरिग्रहः । सत्यं । तिथिद्वैधे क्षीणादि-
भेदेन खण्डविशेषपरिग्रहाय वासरतृतीयांशा-
पेक्षा अन्यथोभयदिने वासरतृतीयांशाप्राप्तौ
श्राद्धलोपापत्तेः । प्रागुक्तनिरग्न्यादेः कुहूर्म्मते-
त्यस्य निर्व्विषयतापत्तेश्च अतः पर्य्युदस्तेतरकाल-
स्यापि परिग्रहः । यदा तु पूर्ब्बापरखण्डयोरन्य-
तरस्यैव परिग्रहस्तदा यथायोग्यं तत्रैव साया-
ह्नमुहूर्त्तद्वयपर्य्युदस्तेतरकालकुतपादिमुहूर्त्तपञ्चक-
रौहिणादिमुहूर्त्तचतुष्टयवासरतृतीयांशीयापरा-
ह्णमुहूर्त्तद्वयकालाः । यथाक्रममापत्सामान्यप्रशस्त-
प्रशस्ततर-प्रशस्ततमत्वेन ज्ञेयाः । एवमखण्डति-
थावपि नातिसन्ध्यासमीपत इति पूर्ब्बोक्तत्वात् ।
“सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत्” ।
इति मत्स्यपुराणात् ।
“रात्रौश्राद्धं न कुर्ब्बीत राक्षसीकीर्त्तिता हि सा ।
सन्ध्ययोरुभयोश्चैव सूर्य्ये चैवाचिरोदिते” ॥
इति मनुवचनाभ्यां ।
“ऊर्द्ध्वं मुहूर्त्तात् कुतपात् यन्मूहूर्त्तचतुष्टयं ।
मुहूर्त्तपञ्चकं वापि स्वधाभवनमिष्यते” ॥
इति मत्स्यपुराणान्मुहूर्त्तपञ्चकमित्यत्र कुतपादिति
ल्यब्लोपे पञ्चमी कुतपमारभ्येत्यर्थः । ततस्तेनैव ।
“अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये ।
यदत्र दीयते जन्तोस्तदक्षयमुदाहृतं” ॥
इत्युक्तं । “पूर्ब्बाह्णो वै देवानां मध्यं दिनं मनुष्याणां
अपराह्णः पितॄणां” । इति श्रुतिः । वासरस्य
तृतीयांश इति कात्यायनवचनं ।
“सायाह्नस्त्रिमुहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत्”
इत्येषामेकवाक्यत्वात् वासरतृतीयांशीयापराह्ण-
मुहूर्त्तद्वयस्य लाभः । इति तिथ्यादितत्त्वं ॥

अमावासी, स्त्री, (अमा साहित्येन चन्द्रार्कयोर्वासो

यत्र, गौरादित्वात् ङीष् ।) अमावस्या । इति
शब्दरत्नावली ॥

अमावास्या, स्त्री, (अमा सह चन्द्रार्कौ वसतो यत्र

तिथौ सा, अमा + वस + आधारे ण्यत्, स्त्रियां
टाप् । णित्वात् वृद्धिः ।) अमावसीतिथिः ।
इत्यमरः ॥

अमित्रः, पुं, (अमरोगे इत्रच् ।) शत्रुः । इत्यमरः ॥

(रिपुः । विपक्षः । शत्रुपक्षीयः । प्रतिकूलः ।
“मातृरूपे ममामित्रे नृशंसे राज्यकामुके ।
अमित्रो मित्ररूपेण भ्रातुस्त्वमसि लक्ष्मण” ॥
इति रामायणे ।)

अमिषं, क्ली, (अम् रोगे कर्म्मणि इषन्) लौकिक-

सुखं । इत्युणादिकोषः ॥ छलाभावः ॥ (न मिष-
श्छलं नञ्समासः, छलनाभावः । नास्ति मिषश्छलं
यस्य तत्, छलशून्यः ।)

अमी, [न्] त्रि, (अम् रोगे + भावे घञ्, मान्त-

त्वात् वृद्ध्यभावः, अमो रोगो विद्यतेऽस्य, इन् ।)
रोगी । यथा । अम्ययं । इति वोपदेवः ॥

अमीवं, क्ली, (अम + वन्, ईडागमः ।) पापं । दुःखं ।

यथा, --
“तं त्वाहं भवभीतानां प्रपन्नानां भयापहं ।
आपृच्छे शापनिर्म्मुक्तः पादस्पर्शादमीवहन्” ॥
इति श्रीभागवतं ॥
(“न हि त्वमीदृशं कृत्वा तस्यामीवं दशानन ।
जीवितुं शक्यसि चिरं विषं पीत्वेव दुर्म्मतिः” ॥
इति रामायणे ।)

अमुकं, त्रि, बुद्धिस्थत्वोपलक्षिततत्तत्धर्म्मावच्छिन्नं ।

स्वस्ववृत्तिविशेषधर्म्मपुरस्कारेण तत्तद्वस्तुवाचकं ।
फलना इति भाषा । अदस्शब्दस्य अकि कृते
सोरोत्त्वाभावे अकोऽकारस्य उत्त्वे अमुक इति
भवति अमुक इत्यागमिकं । इति क्रमदीश्वरः ॥
यथा, --
“अमुकामुकगोत्रैतत् तुभ्यमन्नं स्वधा नमः” ।
इति श्राद्धतत्त्वं ॥ (अभिवादये इति शब्दोच्चारणा-
नन्तरं अमुकनामाहमस्मीति स्वं नाम परिकी-
र्त्तयेत् । इति कुल्लूकभदृः ।
“संनिवेशं प्रमाणञ्च स्वहस्तेन लिखेत् स्वयम् ।
मतं मेऽमुकपुत्त्रस्य अमुकस्य महीपतेः” ॥
इति नारदः ।)

अमुक्तं, क्ली, (मुच् + क्तः, न मुक्तः विरोधे नञ्-

समासः ।) छुरिकाविशेषः । इति हलायधः ॥
हातछुरी इति भाषा । मुक्तिरहिते अत्यक्ते च
त्रि ॥ (अप्राप्तमोचनः । अस्वतन्त्रः ।
“अमुक्ता भवता नाथ मुहूर्त्तमपि सा पुरा” ।
इति साहित्यदर्पणे ।
“अमुक्तो मानसैर्दुःखैरिच्छाद्वेषसमुद्भवैः” ।
इति महाभारते । खड्गादिकं । यदुक्तम्, --
“खड्गादिकममुक्तञ्च नियुद्धं विगतायुधम्” ।
इति ।)

अमुत्र, व्य, (अमुष्मिन् अदस् + त्रल् उत्त्वमत्वे ।)

जन्मान्तरं । परलोकः । इत्यमरः ॥ (अमुष्मिन्
इत्यर्थस्य वाचकः ।
“अनेनैवार्भकाः सर्व्वे नगरेऽमुत्र भक्षिताः” ।
इति कथासरित्सागरे । भवान्तरे । जन्मान्तरे ।
“तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति ।
अप्रियः सर्व्वभूतानां सोऽमुत्रेह च नश्यति” ।
“इच्छद्भिः सततं श्रेय इह चामुत्र चोत्तमं” ॥
इति महाभारते ।)

अमुष्यपुत्त्रः, पुं, स्त्री, (अमुष्य पुत्रः निपातनात् अलुक्

समासः ।) प्रख्यातवंशोद्भवः । कुलीनः । इति
जटाधरः ॥
(“स्यादामुष्यायणस्त्वार्य्योऽमुष्यपुत्त्रो महाकुलः” ।
इति जटाधरः ।)

अमूर्त्तः, त्रि, (मूर्च्छ + क्तः, नञ्समासः ।) मूर्त्त-

भिन्नः । मूर्त्तिरहितः । यथा । सुज्ञाना अमूर्त्त-
त्वादिति वोपदेवः ॥ न्यायमते । आकाशं ।
कालः । दिक् । आत्मा । एषां सामान्यगुणाः
संख्या १ परिमितिः २ पृथक्त्वं ३ संयोगः ४
विभागः ५ । आकाशस्य विशेषगुणः शब्दः ।
कालदिशोर्विशेषगुणो नास्ति आत्मनो विशेष-
गुणाः । बुद्धिः १ सुखं २ दुःखं ३ इच्छा ४
द्वेषः ५ यत्नः ६ भावनाख्यसंस्कारः ७ धर्म्मः ८
अधर्म्मः ९ । इति भाषापरिच्छेदः ॥ (रूपहीनः ।
आकृतिरहितः । वायुः । अन्तरीक्षञ्च । यदुक्तं, --
“सन्निवेश्यो नेत्रदृश्यो यस्य तन्मूर्त्तमुच्यते ।
क्षित्यम्ब्बग्नित्रयं मूर्त्तममूर्त्तं त्वितरद्वयं” ॥ इति ।
“क्षितिर्जलं तथा तेजः पवनो मन एव च ।
परापरत्वमूर्त्तत्वक्रियायोगाश्रया अमी” ॥
इति भाषापरिच्छेदः ।)

अमूदृशः, त्रि, (पाणिनिमते तु, अमुमिव पश्यति,

अदस् + दृश् + कञ्, दस्थाने आत्वे कृते ततः
पृष्ठ १/०८६
:ऊत्वमत्वे ।) एवंप्रकारः । एतद्रूपः । इति मुग्ध-
बोधं ॥ यथा, -- “अमूदृशी तत् कविवन्दि-
वर्णितैः” । इति नैषधं ॥

अमूलकं, त्रि, मूलरहितं । प्रमाणशून्यं । नास्ति मूलं

यस्येति बहुव्रीह्यर्थे कप्रत्ययः ॥

अमूला, स्त्री, (नास्ति मूलं शिफा यस्याः सा, स्त्रियां

टाप् ।) अग्निशिखावृक्षः । इति शब्दचन्द्रिका ॥
मूलरहिते त्रि । इति मुग्धबोधं ॥

अमृणालं, क्ली, (मृणालतुल्यं सादृश्ये नञ्समासः,

तस्य मृणालसदृशकोमलत्वात् तथात्वं ।) वीरण-
मूलं । इत्यमरः ॥

अमृतं, क्ली, (मृ + भावे क्तः, नास्ति मृतं मरणं

यस्मात् तत्, तत्पायिनां मरणाभावात् तस्य
तथात्वं ।) समुद्रोद्भवदेवभक्ष्यामरत्वजनकद्रव्यवि-
शेषः । यदा पृथुराजभयेन पृथ्वी गौर्भूता तदा
देवा इन्द्रं वत्सं कृत्वा हिरण्मयपात्रे अमृतरूप-
म्पयोऽदूदुहन् तत्तु दुर्व्वाससः शापात् समुद्रमध्यं
गतं पश्चात् समुद्रमथने अमृतपूर्णकलसं मृहीत्वा
धन्वन्तरिरुत्थितः । इति भारतभागवते ॥ तत्-
पर्य्यायः ॥ पीयूषं २ सुधा ३ । इत्यमरः ॥
पेयूषं ४ । इति तट्टीकासारसुन्दरी ॥ * ॥
निर्जरं ५ । समुद्रनवनीतकं ६ । इति शब्दरत्ना-
वली ॥ जलं । धृतं ॥ यज्ञशेषद्रव्यं ॥ अयाचित-
वस्तु ॥ मुक्तिः । इति मेदिनी ॥ दुग्धं । औषधं ।
विषसामान्यं । वत्सनाभः । पारदः । इति राज-
निर्घण्टः ॥ अन्नं । धनं । स्वर्णं । भक्षणीयद्रव्यं ।
हृद्यं । स्वादुद्रव्यं । इति हेमचन्द्रः ॥

अमृतः, पुं, (मृ + कर्त्तरि क्तः, नञ्समासः ।) धन्व-

न्तरिः । देवता । इति मेदिनी । वाराहीकन्दः ।
वनमुद्गः । इति राजनिर्घण्टः ॥ सुन्दरः । अति-
हृद्यः । इति भरतधृतव्याडिः ॥ (आत्मा, यथा
महाभारते, --
“इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥
महतः परमव्यक्तमव्यक्तादमृतः परः ।
अमृतान्न परं किञ्चित् सा काष्ठा सा परा गतिः” ॥
सूर्य्यः ॥ सुरपतिरिन्द्रः ॥ विष्णोः सहस्रनाममध्ये
परिगणितो नामभेदः ॥) मरणरहिते त्रि ।
यथा । “अमृते जारजः कुण्डः” । इत्यमरः ॥

अमृतजटा, स्त्री, (अमृतवत् सुस्वादुर्जटा यस्याः

सा ।) जटामांसी । इति राजनिर्घण्टः ॥

अमृततरङ्गिणी, स्त्री, (अमृतस्य पीयूषस्य तरङ्गिणी

नदीव ।) ज्योत्स्ना । इति राजनिर्घण्टः ॥

अमृतदीधितिः, पुं, (अमृतवत् सन्तोषकारिण्यः

दीधितयो यस्य सः ।) चन्द्रः । इति शब्दरत्नावली ॥
(“अमृतदीधितिरेष विदर्भजे भजति तापम-
मुष्य” । इति नैषधे ।)

अमृतफलं, क्ली, पुं, (अमृतमिव स्वादु फलं ।) पारा-

वतवृक्षः । पटोलः । इति राजनिर्घण्टः ॥ नास-
पाती । इति पारस्य भाषा । यथा । अथामृतफलं
यदहकसातकाविलप्रभृतिदेशेषु नासपाती इति
प्रसिद्धं ।
“अमृतफलं लघु वृष्यं सुखादु त्रीन् हरेद्दोषान् ।
देशेषु मुद्गलानां बहुलं तल्लभ्यते लोकैः” ॥
इति भावप्रकाशः ॥

अमृतफला, स्त्री, (अमृतवत् स्वादु फलं यस्याः सा,

स्त्रियां टाप् ।) द्राक्षा । आमलकी । इति राज-
निर्घण्टः ॥ (लघुखर्ज्जूरीवृक्षः । फलविशेषः ।
नासपाती । इति पारस्यभाषा ।

अमृतवल्ली, स्त्री, (अमृतवत् वल्ली, तस्या रोग-

नाशकत्वात् तथात्वं ।) गुडूची । इति रत्नमाला ॥

अमृतरसा, स्त्री, (अमृतवत् स्वादुः रसो यस्याः

सा, स्त्रियां टाप् ।) कपिलद्राक्षा । इति राज-
निर्घण्टः ॥ (पक्वान्नविशेषः ॥ सा च
“तृतीयभागखण्डेन मिश्रितं षष्टिपिष्टकं ।
शुभ्रमीषद्दधियुतं मर्द्दयेद्दृढपाणिना ॥
एवं समुद्धृतं कृत्वा स्थापयेद्रजनीमितं ।
ततोऽन्यस्मिन्नहनि तु चित्रितं निस्त्वचैस्तिलैः ॥
विधायापूपकं तेन तम्बिकायां घृते पचेत् ।
ततोऽमृतरसा जाता वातहृद्बलवर्द्धिनी” ॥
इति भावप्रकाशे ।)

अमृतसम्भवा, स्त्री, (सम् + भू + भावे अप्, अमृ-

तस्य मरणाभावस्य रोगाभावस्य इति यावत्
सम्भव उत्पत्तिर्यस्याः सा, स्त्रियां टाप् ।) गुडूची ।
इति राजनिर्घण्टः ॥

अमृतसारजः, पुं, (अमृतस्य सारः तस्मात् जायते,

अमृतसार + जन् + डः, उपपदसमासः ।) गुडः ।
तवराजोद्भवखण्डः । इति राजनिर्घण्टः ॥

अमृतसूः, पुं, (अमृतं तुषारं सूते, अमृत + सू +

क्विप्, उपपदसमासः ।) (अमृतान् देवान् सूते,
अमृत + सू + क्विप्, उपपदसमासः ।) चन्द्रः ।
इति हेमचन्द्रः ॥ देवमातरि स्त्री । अमृतानां
देवानां सूः प्रसूतिः ॥

अमृतसोदरः, पुं, (अमृतस्य सोदरः सोदर्य्यः

तस्य एकस्थानादुत्पन्नत्वात् तथात्वं ।) घोटकः ।
इति राजनिर्घण्टः ॥ (उच्चैःस्रवा अश्वः ।
“सुरादेवी समुत्पन्ना तुरगः पाण्डरस्तथा” ।
इति भारते ।)

अमृतस्रवा, स्त्री, (स्रवति इति स्रु + अप् । स्त्रियां

टाप् । अमृतस्य स्रवा षष्ठीतत्पुरुषः ।) रुदन्ती-
वृक्षः । लताविशेषः । तत्पर्य्यायः । वृक्षारुहा
२ उपवल्लिका ३ घनवल्ली ४ सितलता ५ ।
अस्या गुणाः । पथ्यत्वं । ईषत्तिक्तत्वं । रसायनत्वं ।
व्रणनाशित्वं । विषकुष्ठामकामलाश्वयथुजयकारि-
त्वञ्च । इति राजनिर्घण्टः ॥
(“उक्तामृतस्रवा पथ्या ईषत्तिक्ता रसायनी ।
व्रणघ्नी विषकुष्ठामं कामलां श्वयथुं जयेत्” ॥
इति राजनिर्घण्टः ।)

अमृता, स्त्री, (नास्ति मृतं मरणं यस्याः सा ।)

गुडूची । मदिरा । इन्द्रवारुणी । ज्योतिष्मती ।
गोरक्षदुग्धा । अतिविषा । रक्तत्रिवृत् । दूर्व्वा ।
आमलकी । हरीतकी । इति राजनिर्घण्टः ॥
तुलसी । इति शब्दमाला ॥ पिप्पली । इति
मेदिनी ॥ चम्पादेशजस्थूलमांसा हरीतकी । सा
विरेचने प्रशस्ता । इति राजवल्लभः ॥ (सूर्य्य-
दीधितिविशेषाः ।
(“सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” ।
इति रघुवंशे ।)

अमृतान्धः, [स्] पुं, (अमृतमन्धः अन्नमिव तृप्ति-

करं यस्य सः ।) देवता । इत्यमरः ॥ (अमृतं सुधा
अन्धो भक्ष्यं यस्य सः ।)

अमृताफलः, पुं, (अमृतमिव फलं यस्य, पृषोदरादि-

त्वात् दीर्घः ।) पटोलः । इति द्रव्याभिधानं ॥

अमृताशनः, पुं, (अमृतं अश्नाति भुङ्क्ते, अश +

बाहुल्यात् कर्त्तरि ल्युट् । अमृतस्य अशनः,
षष्ठीतत्पुरुषः ।) देवता । इति हलायुधः ॥

अमृताष्टकं, क्ली, (अमृताप्रभृति अष्टकं यस्य तत् ।)

हरितक्याद्यष्टद्रव्यं । यथा, --
“अमृता कटुकारिष्टपटोलघनचम्दनं ।
नागरेन्द्रयवञ्चैतदमृताष्टकमीरितं ॥
क्वथितं सकणाचूर्णं पित्तश्लेष्मज्वरापहं ।
हृल्लासारोचकच्छर्द्दितृष्णादाहनिवारणं” ॥
इति भावप्रकाशः ॥

अमृतासङ्गं, क्ली, (अमृतस्येव आसङ्गो यस्य तत् ।)

तुत्थविशेषः । तत्पर्य्यायः । कर्परिकातुत्थं २
अञ्जनं ३ । इति हेमचन्द्रः ॥

अमृताहरणः, पुं, (अमृतमाहरति, मातृदास्याप-

नयनार्थं स्वर्गात् भूलोकं नयति, आ + हृ +
कर्त्तरि ल्युट्, ततः षष्ठीतत्पुरुषः ।) गरुडः ।
इति हारावली ॥ (“पुरा किल गरुडो मातु-
र्विनतायाः सपत्नीदास्यनिवारणार्थं सर्व्वदेवान्
विनिर्जित्य सोमरक्षकच्छेदनयन्त्रादिकञ्चातिक्रम्य
स्वर्गादमृतं नागकुलाय दातुमाहृतवान्” । इति
पौराणिकी कथा । महाभारतस्यादिपर्ब्बणि ।
“श्रुत्वा तमब्रुवन् सर्पा आहरामृतमोजसा ।
ततो दास्याद्विप्रमोक्षो भविता तव खेचर ! ॥
इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ॥
गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुं ॥
. . .
स चक्रं क्षुरपर्य्यन्तमपश्यदमृतान्तिके ।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयं ॥
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् ।
. . .
अच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ॥
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली ।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्य्यवान् ॥
... ... .
एवं तदमृतं तेन हृतमाहृतमेव च ।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना” ॥)

अमृताह्वं, क्ली, (अमृतमाह्वयते स्पर्द्धते, आ

+ ह्वे + कः, तस्य तुल्यस्वादत्वात् तथात्वं ।)
लघुविल्वफलाकृतिखोरासानदेशजनासपातीना-
मफलं । तत्पर्य्यायः । रुचिफलं २ । अस्य गुणाः ।
गुरुत्वं । वातनाशित्वं । स्वादुत्वं । अम्लत्वं ।
रुचिशुक्रकारित्वञ्च ॥ तल्लघुफलगुणाः । वृष्यत्वं ।
सुस्वादुत्वं । त्रिदोषनाशित्वञ्च । तत् मुद्गलदेशे
पृष्ठ १/०८७
:बहुलं लभ्यते । इति भावप्रकाशः ॥

अमृतोत्पन्नं, क्ली, (अमृतं विषमिव उत्पन्नं नीलवर्ण-

त्वात् ।) खर्परीतुत्थं । इति राजनिर्घण्टः ॥

अमृतोत्पन्ना, स्त्री, (अमृतं मधु उत्पन्नं यस्याः सा,

“जातिकालसुखादिभ्यो निष्ठायाः परवचनमिति
निष्ठायाः परनिपातः” ।) मक्षिका । इति राज-
निर्घण्टः ॥

अमृतोद्भवं, क्ली, (अमृतं विषमिव उद्भवति कृष्ण-

वर्णत्वात्, उद् + भू + अप् ।) तुत्थं । खर्परीतुत्थं ।
इति राजनिर्घण्टः ॥

अमेधाः, [स्] पुं, (नास्ति मेधा यस्य सः, समा-

सान्तः असिच् ।) मूढः । मूर्खः । इति हेमचन्द्रः ॥
(“नमः समस्मात् पूर्ब्बस्मा अन्तरस्मा अमेधषाम् ।
सुमेधसामन्तरस्मै सतां स्वस्मै स्वयम्भुवे” ।
इति वोपदेवः ।)

अमेध्यं, क्ली, (न मेध्यं पवित्रं विरोधे नञ्समासः ।)

पुरीषं । इति शब्दरत्नावली ॥ अपवित्रे त्रि ॥
(अपवित्रं । मलमूत्रादिकं वस्त ।
“नाग्निं मुखेनोपधमेत् नग्नां नेक्षेत च स्त्रियं ।
नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत्” ॥
इति मनुः ।)

अमोघः, त्रि, (न मोघो निष्फलः, नञ्समासः ।)

सफलः । अव्यर्थः । इति मेदिनी ॥ नदविशेषे
पुं । इति शब्दरत्नावली ॥ (इष्टफलप्रदः । अबन्ध्यः ।
अविफलः ।
“यदमोघमपामन्तरुप्तं वीजमज त्वया” ।
इति कुमारसम्भवे ।
“अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः” ।
इति रघुवंशे ।

अमोघा, स्त्री, (न मोघा निष्फला, नञ्समासः ।)

पाटलिवृक्षः । विडङ्गं । इत्यमरः ॥ हरीतकी ।
इति मेदिनी ॥

अम्ब गतौ । (इति कविकल्पद्रुमः ।) ओष्ठ्यवर्गशेषो-

पधः । अम्बति । इति दुर्गादासः ॥

अम्बकं, क्ली, (अम्बति नक्षत्रपर्य्यन्तं गच्छति, अम्ब +

ण्वुल् । वा अम्व्यते भूगर्भे प्राप्यते, अम्ब + कर्म्म-
णि घञ् स्वार्थे कन् ।) नेत्रं । इति हेमचन्द्रः ॥
“आसीनमासन्नशरीरपात-
स्त्रियम्बकं संयमिनं ददर्श” ।
इति कुमारसम्भवे ।) ताम्रं । इति राजनिर्घण्टः ॥

अम्बरं, क्ली, (अबि शब्दे + भावे घञ्, अम्बः

शब्दस्तं राति आदत्ते अम्ब + रा + कः ।) वस्त्रं ।
(“एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा” ।
इति रामायणे ।)
आकाशं । (“दावाग्निः कथमम्बरे” इति साहि-
त्यदर्पणे ।) कार्पासः । स्वनामख्यातसुगन्धिद्रव्यं ।
इति विश्वः ॥ अभ्रधातुः । इति राजनिर्घण्टः ॥

अम्बरिषं, क्ली, (अम्ब्यते पच्यतेऽत्र, अबि + अरिष

वा दीर्घः निपातनात् ।) भर्ज्जनपात्रं । भाजना
खोला । इति भाषा । इत्यमरटीकायां रमा-
नाथः ॥

अम्बरीषं, क्ली, (अबि + गतौ + कर्म्मणि घञ्, अम्बा

लब्धा ईर्ष्या यस्मात् तत्, सिंहवत् पृषोदरादि-
त्वात् रवर्णविपर्य्ययेण साधु ।) भ्राष्ट्रः । भर्ज्जन-
पात्रं । इत्यमरः ॥ युद्धं । इति मेदिनी ॥

अम्बरीषः, पुं, (अम्ब्यते पच्यते अत्र, निपातनात्

साधुः ।) विष्णुः । शिवः । इति त्रिकाण्डशेषः ॥
किशोरः । भास्करः । नृपभेदः । स तु सूर्य्य-
वंशीयनाभागराजपुत्त्रः ।
(“भगीरथसुतो राजा श्रुत इत्यभिविश्रुतः ।
नाभागस्तु श्रुतस्यासीत् पुत्त्रः परमधार्मिकः ॥
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताऽभवत्” ॥
इति हरिवंशे ।) नरकभेदः ॥ आम्रातकवृक्षः ।
अनुतापः । इति मेदिनी ॥

अम्बष्ठः, पुं, (अम्बायां मातरि तिष्ठति, अम्बा +

स्था + कः, आम्बाम्बेति षत्वं, ञ्यापोः संज्ञाच्छन्द-
सोर्बहुलमिति ह्रस्वः, असवर्णाजातत्वात् तस्य
तथात्वं ।) देशविशेषः । विप्राद्वैश्यायामुत्पन्नः ।
इति मेदिनी ॥ अयं चिकित्सावृत्तिः वैद्य इति
ख्यातः । इत्यमरटीकायां भरतः ॥ हस्तिपकः ।
यथा, --
“अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्राम मा चिरं” ।
इति श्रीभागवतं ॥ कायस्थजातिविशेषः । इति
पश्चिमदेशे प्रसिद्धः ॥

अम्बष्ठकी, स्त्री, (अम्बष्ठं कायति स्वग्रहणार्थ-

माह्वयति, अम्बष्ठ + कै + कः, गौरादित्वात्
ङीष् ।) लताविशेषः । आकनादि निमुखी इति
च भाषा । तत्पर्य्यायः । पाठा २ अम्बष्ठा ३
कुचेली ४ पापचेलिका ५ एकाष्ठीला ६ वरा ७
तिक्ता ८ प्राचीना ९ एकोशिका १० वृका ११ ।
इति रत्नमाला ॥ विद्धकर्णी १२ स्थापनी १३
श्रेयसी १४ रसा १५ पापचेली १६ वनतिक्तिका
१७ । इत्यमरः ॥ अविद्धकर्णी १८ अविद्धकर्णा
१९ । इति तट्टीका ॥ अम्बष्ठिका २० यूथिका २१
विद्धकर्णिका २२ दीपनी २३ तिक्तपुष्पा २४ वृह-
त्तिक्ता २५ शिशिरा २६ वृकी २७ मालती २८
देवी २९ वृत्तपर्णी ३० । इति राजनिर्घण्टः ॥
अस्या गुणाः । अतीसारशमनत्वं । लघुत्वं । त्रिदोष-
नाशित्वञ्च । इति राजवल्लभः ॥ तिक्तत्वं । गुरुत्वं ।
उष्णत्वं । वातपित्तज्वरपित्तदाहशूलनाशित्वं ।
भग्नसन्धानकारित्वञ्च । इति राजनिर्घण्टः ॥

अम्बष्ठा, स्त्री, (अम्बायां मातरि स्वोत्पत्तिस्थाने इति

यावत्, तिष्ठति, अम्बा + स्था + कः, अम्बेत्यादिना
षत्वम् पूर्ब्बवत् ह्रस्वः, स्त्रियां टाप् ।) क्षुप-
विशेषः । अम्बाडा इति ख्याता । अस्याः पर्य्यायः ।
बालिका २ बाला ३ शठाम्बा ४ अम्बालिका ५
अम्बिका ६ अम्बा ७ माचिका ८ दृढवल्का ९
मयूरिका १० गन्धपत्री ११ चित्रपुष्पी १२
श्रेयसी १३ मुखवाचिका १४ छिम्लपत्री १५ भूरि-
मल्ली १६ । अस्या गुणाः । कषायत्वं । अम्लत्वं ।
कफकण्ठरोगवातरोगवलाशनाशित्वं । रुच्यग्निका-
रित्वञ्च । इति राजनिर्घण्टः ॥ * ॥ पाठा । चाङ्गेरी ।
यूथिका । इत्यमरमेदिनीकरौ ॥

अम्बष्ठिका, स्त्री, (अम्बष्ठा + संज्ञायां कन्, स्त्रियां

टाप् ।) अम्बष्ठा । आकनादि इति भाषा । इति
राजनिर्घण्टः ॥ ब्राह्मणी । वामनहाटी इति
प्रसिद्धा । इति रत्नमाला ॥

अम्बा, स्त्री, (अम्ब्यते स्नेहेनोपगम्यते, अबि गतौ +

घञ्, स्त्रियां टाप् ।) जननी । इति शब्दरत्नावली ॥
“अम्ब ! यत्त्वमिदं प्रात्थ प्रशमाय वचो मम” ।
“नान्यदत्तमभीप्सामि स्थानमम्ब स्वकर्म्मणा” ।
इति विष्णुपुराणे ।)
नाट्योक्तौ सैव । इत्यमरः ॥ पाण्डुराजमातुः स्वसा ।
इतिमहाभारतं ॥ अम्बष्ठा । इति राजनिर्घण्टः ।
दुर्गा । इति केचित् ॥

अम्बालिका, स्त्री, (अम्बेति शब्दं लाति गृह्णाति,

अम्बा + ला + कः, उपपदसमासः, ह्रस्वे अतैत्वं
स्वार्थे कन्, स्त्रियां टाप् ।) माता । इति शब्द-
रत्नावली ॥ अम्बष्ठा । इति राजनिर्घण्टः ॥ पाण्डु-
राजमाता । इति भारतं ॥ (काशीराजस्य कनि-
ष्ठा दुहिता सा च विचित्रवीर्य्यपत्नी ।
“अम्बालिका च राजेन्द्र ! राजकन्या यवीयसी ।
अम्बिकाम्बालिके भार्य्ये प्रादाद्भ्रात्रे यवीयसे ॥
“भीष्मो विचित्रवीर्य्याय विधिदृष्टेन कर्म्मणा” ।
इति महाभारते ।)

अम्बिका, स्त्री, (अम्बा + स्वार्थे कन्, स्त्रियां टाप् ।)

दुर्गा ।
“ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः ।
आशीर्भिरेधयामामुः पुरःपाकाभिरम्बिकाम्ः” ॥
इति कुमारसम्भवे । माता । इति मेदिनी ॥
जैनदेवीविशेषः । इति हेमचन्द्रः ॥ कटुकीवृक्षः ।
इति शब्दचन्द्रिका ॥ अम्बष्ठा । इति राजनिर्घण्टः ॥
काशीराजस्य मध्यमादुहिता । विचित्रवीर्य्यस्य
पत्नी । धृतराष्ट्रस्य माता ।
“अम्वा ज्येष्ठाऽभवत्तासामम्बिकात्वथ मध्यमा ।
अम्बिकाम्बालिके भार्य्ये प्रादाद्भ्रात्रे यवीयसे ॥
भीष्मो विचित्रवीर्य्याय विधिदृष्टेन कर्म्मणा” ।
इति महाभारते ।)

अम्बिकेयः, पुं, (पाणिनिमते तु अम्बिकाया अपत्यं

पुमान्, अम्बिका + ठक् तस्य इयः, वृद्ध्यभावः ।)
गणेशः । कार्त्तिकेयः । धृतराष्ट्रराजः ॥ अम्बि-
काया अपत्यमित्यर्थे ष्णेयः ॥

अम्बिकेयकः, पुं, (अम्बिकेय + स्वार्थे कन् ।) गणेशः ।

इति जटाधरः ॥

अम्बु, क्ली, (अबिशब्दे उण् ।) बालानामौषधिः ।

इत्यमरः ॥ बाला इति भाषा । जलं (“भुक्त्वा मृ-
णालपटली भवता निपीतान्यम्बुनि यत्र नलिनानि
निषेवितानि” । इति भाभिनीविलासे । “अम्बुज-
मम्बुनि जातं क्वचिदपि न जायतेऽम्बुजादम्बु” ।
इत्युद्भटः । “गाङ्गमम्बु सितमम्बु यामुनं” । इति
काव्यप्रकाशे ।)

अम्बुकण्टकः, पुं, (अम्बुनि जले कण्टकैव, सादृ-

श्यार्थे कन् ।) कुम्भीरः । इति त्रिकाण्डशेषः ॥

अम्बुकिरातः, पुं, (अम्बुनि जले किरातः व्याध इव ।)

कुम्भोरः । इति त्रिकाण्डशेषः ॥

अम्बुकीशः पुं, (अम्बनि कीशः वानर इव ।) शिशु-

पृष्ठ १/०८८
:मारजन्तुः । इति हेमचन्द्रः ॥ शुशुक इति भाषा ।

अम्बुकूर्म्मः, पुं, (अम्बुनः कूर्म्म इव) । शिशुमारः ।

इति हेमचन्द्रः ॥

अम्बुकेशरः, पुं, (अम्बुजातः केशरोऽस्य ।) छोलङ्ग-

वृक्षः । इति रत्नमाला ॥

अम्बुचामरं, क्ली, (अम्बुनः चामरमिव ।) शैवालं ।

इति जटाधरः ॥ शेयाला इति भाषा ।

अम्बुजं, क्ली, (अम्बुनि जायते, अम्बु + जन् + डः ।)

पद्मं । इति मेदिनी ॥ “इन्दीवरेण नयनं मुख-
मम्बुजेन” । इति शृङ्गारतिलके । “अम्बुजमम्बुनि
जातं क्वचिदपि न जायतेऽम्बुजादम्बु” । इत्यद्भटः ।)
वज्रं । इति त्रिकाण्डशेषः ॥

अम्बुजः, पुं, (अम्बुसमीपे जातः ।) हिज्जलवृक्षः ।

इत्यमरः ॥ (निचुलवृक्षः ॥
“अम्बुजं कमले क्लीवं हिज्जले तु पुभानयं” ।
इति शब्दरत्नावली
“अम्बुजो निचुले पुंसि कमले तु नपुंसकं” ।
इति मेदिनी ।)

अम्बुजन्म, [न्] क्ली, (अम्बुनो जन्मास्य ।) पद्मं ।

इति राजनिर्घण्टः ॥ (सारसविहङ्गः ॥ शङ्क्षः ।
त्रि, जलजातः । सलिलोद्भवः ।)

अम्बुतालः, पुं, (अम्बुनि जले तालयति प्रतिष्ठां

गच्छति अम्बु + तल + अच् ।) शैवालं । इति
त्रिकाण्डशेषः ॥

अम्बुदः, पुं, (अम्बु जलं ददाति, दा दाने + कः ।)

मेघः । इति रत्नमाला ॥ (“सदा मनोज्ञाम्बुदना-
दसोत्सुकम्” । इति ऋतुसंहारे । “शशाक
निर्व्वापयितुं न वासवः स्वतश्चुऽतं वह्निमिवाद्भिर-
म्बुदः” । इति रघवंशे ।) मुस्तकं । यथा । “कणी-
सविश्वानलदं सहाम्बुदं” । इति वैद्यकं ॥

अम्बुधिः, पुं, (अम्बूनि धीयन्तेऽत्र, अम्बु + धा +

कर्म्मण्यधिकरणे किः ।) समुद्रः । इति शब्द-
रत्नावली ॥ (“रे चाञ्चल्ययुषो मृगाः श्रितनगाः
कल्लोलमालाकुलामेतामम्बुधिगामिनीं व्यवसिताः
सङ्गाहितुं वा कथम्” । इति भामिनीविलासे ।
“सुरासुराश्च गन्धर्ब्बाः क्षोभयामासुरम्बुधिम्” ।
इति रामायणे ।)

अम्बुधिस्रवा, स्त्री, (अम्बुधि + स्रु + अप्, स्त्रियां

टाप् ।) गृहकन्या । घृतकुमारी इति ख्याता ।
इति राजनिर्घण्टः ॥

अम्बुपः, पुं, (अम्बूनि जलानि पाति पिबति वा,

अम्बु + पा + कः ।) चक्रमर्द्दकवृक्षः । इति शब्द-
चन्द्रिका ॥ (जलेश्वरः । वरुणः ।) शतभिषाख्यं
नक्षत्रं । त्रि, जलपानकारी ।)

अम्बुपत्रा, स्त्री, (अम्बूनि पत्रे यस्याः सा ।) उच्चटा-

वृक्षः । इति रत्नमाला ॥

अम्बुप्रसादः, पुं, (अम्बूनि प्रसादयति स्वच्छतां नयति

अम्बु + प्र + सद + णिच् + अच्, उपपदसमासः ।)
कतकवृक्षः । इति राजनिर्घण्टः ॥ निर्म्मली इति
ख्यातः ।

अम्बुप्रसादनं, क्ली, (अम्बूनि प्रसादयति, प्र + सद्

णिच् + ल्युट् ।) कतकवृक्षः । इति त्रिकाण्डशेषः ॥

अम्बुभृत्, पुं, (अम्बु बिभर्त्ति, अम्बु + भृ + क्विप् ।)

मेघः । मुस्तकं । इत्यमरः ॥ समुद्रः । इति केचित् ॥

अम्बुमात्रजः, पुं, (अम्बुमात्रे अल्पजले जायते, जन

+ डः) शम्बूकः । शामुक इति हेमचन्द्रः ॥ इति
भाषा ।

अम्बुरः, पुं, (अम्बु + उरन् ।) द्वाराधःकाष्ठं । इति

हेमचन्द्रः ॥ गोवराट् इति भाषा ।

अम्बुरुहा, स्त्री, (अम्बुनि रोहति, अम्बु + रुह +

कः, ततष्टाप् ।) स्थलपद्मिनी । इति राज-
निर्घण्टः ॥

अम्बुवाची, स्त्री, (अम्बु तद्वर्षणं वाचयति सूचयति,

वच् + णिच् + अण्, उपपदसमासः, ङीप् ।) ऋतु-
मती पृथ्वी । यथा, --
“यद्वारे यत्काले मिथुनसंक्रमणं भूतं तद्वाराभ्यन्तरे
तावत्कालावधि विंशत्यादिदण्डाधिकदिनत्रयमम्बु-
वाची । तत्राध्ययनं वीजवपनं न कार्य्यं । सर्प-
भयोपशमनाय दुग्धं पेयं” । इति कृत्यतत्त्वं ॥ * ॥
अपिच । ज्योतिषे ।
“रजोयुक् क्ष्माम्बुवाची च रौद्राद्यपादगे रवौ ।
तस्यां पाठो वीजवापो नाहिभीर्दुग्धपानतः ॥
मृगशिरसि निवृत्ते रौद्रपादेऽम्बुवाचो
ऋतुमति खलु पृथ्वी वर्ज्जयेत् त्रीण्यहानि ।
यदि वपति कृषाणः क्षेत्रमासाद्य वीजं
न भवति फलभागी शस्यचाण्डालपाकः” ॥
रजोयुक् क्ष्मा ऋतुमती पृथ्वी । मत्स्यसूक्ते ।
“धरण्यामृतुमत्याञ्च भूमिकम्पे तथैव च ।
अन्तरागमने चैव विद्यां नैव पठेद्बुधः” ॥
ज्योतिषे ।
“यस्मिन् वारे सहस्रांशुर्यत्काले भिथुनं व्रजेत् ।
अम्बुवाची भवेन्नित्यं पुनस्तत्कालवारयोः” ॥
इदन्तु प्रायिकं । इति तित्यादितत्त्वं ॥ * ॥ अन्यच्च ।
“यदार्द्रर्क्षं समादाय भानोर्म्मन्मथगामिता ।
पुनस्तत्स्थेनमादाय यजनं त्रिदिनं त्यजेत् ॥
काम्यनैमित्तिकञ्चैव यात्रां मन्त्रक्रियान्तथा ।
ऋतुमत्यां न कुर्व्वीत पूर्ब्बसङ्कल्पितादृते ॥
न कुर्य्यात् खननं भूमेः सूच्यग्रेणापि शङ्करि ।
वीजानां वपनञ्चैव चतुर्व्विंशतियामकं ॥
प्रमादाद्वपनं कृत्वा गावस्तत्र प्रचारयेत् ।
कृच्छ्रं कुर्य्यात् तत्क्षणाच्च खननात्तिलकाञ्चनं” ॥
इति मत्स्यसूक्ते महातन्त्रे ५८ पटलः ॥ * ॥ अपरञ्च ।
“रवौ रुद्राद्यपादस्थे भूमेः संजायते रजः ।
तस्माद्दिनत्रयं यावत् वीजवापं परित्यजेत् ॥
चत्वारिंशल्लिप्तिकषड्भागयुतो रविर्यदा भवति ।
तत्राम्बुवाची ज्ञेया शिवर्क्षपादस्थितो यावत् ॥
दिग्भागशून्यलिप्तो गणितेन भवति रविर्यदा साप्तः ।
स भवति निर्गुणकालो द्वितीयपादाश्रयाद्रौद्रे” ॥
“न स्वाध्यायं वषट्कारं न देवपितृतर्पणं ।
हलानां वाहनञ्चैव वीजानां वपनं तथा” ॥
इति राजमार्त्तण्डः ॥ * ॥ अत्र पाकनिषेधो
यथा, --
“यतिनो व्रतिनश्चैव विधवा च द्विजस्तथा ।
अम्बुवाचीदिने चैव पाकं कृत्वा न भक्षयेत् ॥
स्वपाकं परपाकं वा अम्बुवाचीदिने तथा ।
भक्षणं नैव कर्त्तव्यं चाण्डालान्नसमं स्मृतं” ॥
इति संवत्सरप्रदीपे विष्णुरहस्यं ॥

अम्बुवासिनी, स्त्री, (अम्बुप्रधाने देशे वसति, वस्

+ णिनि ङीप् ।) पाटलावृक्षः । इति जटाधरः ॥

अम्बुवासी, स्त्री, (अम्बुप्रधाने देशे वासो यस्याः सा,

गौरादित्वात्, ङीष् ।) पाटलावृक्षः । इति राज-
निर्घण्टः ॥

अम्बुवाहः, पुं, (अम्बूनि वहति, अम्बु + वह् + अण्,

उपपदसमासः ।) मेघः । इति रत्नमाला ॥
(“विश्वार्त्तिवारणसमार्चितजीवितोऽयं नाकर्णितः
किमु सखे भवताम्बुवाहः” ॥ इति भामिनी-
विलासे । “बिभ्राणमानीलरुचं पिशङ्गीर्जटास्तडि-
त्वन्तमिवाम्बुवाहं” । इति भारविः ।) मुस्तकं ।
मेघनामा इत्यमरेणोक्तत्वात् ॥

अम्बुवाहिनी, स्त्री, (अम्बूनि वहति स्थानान्तरं

नयति, अम्बु + वह + णिनि, उपपदसमासः,
ङीप् ।) काष्ठाम्बुवाहिनी । काष्ठादिकृतच्छिन्ना-
ग्रनौकाकृतिजलसेचनी । इत्यमरटीकायां मथु-
रानाथः ॥

अम्बुवेतसः, पुं, (अम्बुजातो वेतसः, कर्म्मधारयः,

मध्यपदलोपश्च ।) जलवेतसः । तत्पर्य्यायः । परि-
व्याधः २ विदुलः ३ नादेयी ४ । इत्यमरः ॥

अम्बुशिरीषिका, स्त्री, (अम्बुनि अल्पः शिरीषः,

अल्पार्थे कन् स्त्रीत्वम् ।) जलशिरीषवृक्षः ।
तत्पर्य्यायः । शिरौषिका २ टिण्टिणिका ३
दुर्ब्बला ४ वारिशिरीषिका ५ । अस्या गुणाः ।
त्रिदोषविषकुष्ठार्शोनाशित्वं । इति भावप्रकाशः ॥

अम्बुसर्पिणी, स्त्री, (अम्बुनि सर्पति अम्बु + सृप +

णिनि, उपपदसमासः ।) जलौकाः । इति
त्रिकाण्डशेषः ॥ जोँक् इति भाषा ।

अम्बुसेचनी, स्त्री, (अम्बूनि सिच्यन्ते अनया, अम्बु +

सिच् + करणे ल्युट्, ङीप् ।) अम्बुवाहिनी ।
नौकाजलसेचनपात्रं । इत्यमरटीकायां मथुरा-
नाथः ॥

अम्बूकृतं, त्रि, (अनम्बु अम्बु सम्पद्यमानं कृतं, अम्बु +

कृ + क्त, अभूततद्भावे च्चिः ।) श्लेष्मकणनिर्गम-
सहितवाक्यं । तत्पर्य्यायः । सनिष्ठीवं २ । इत्य-
मरः ॥ सथूत्कारं ३ । इति हेमचन्द्रः ॥ (सनि-
ष्ठीवमुखरावः । “दधति कुहकभाजामत्र भल्लक-
यूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि” । इति
उत्तरचरिते ।)

अम्ब्लः, पुं, (अबि शब्दे क्लः ।) अम्लरसः । इत्यु-

णादिकोषः ॥ अम्बल । टक इति च भाषा ।

अम्भः, [स्] क्ली, (आप्यते, आप् + असुन् ।) जलं ।

बालनामौषधं । इत्यमरः ॥ लग्नादितश्चतुर्थराशिः ।
इति ज्योतिषं ॥ (अङ्कशास्त्रे चतुर्थसंख्या ।
वैदिकच्छन्दोभेदः ।)

अम्भःसारं, क्ली, (अम्भसां सारं ।) मुक्ता । इति

राजनिर्घण्टः ॥ अम्भस्सारमपि पाठः ॥

अम्भःसूः, पुं, (अम्भांसि सूते, सू + क्विप् ।) धूमः ।

इति हेमचन्द्रः ॥ अम्भस्सूरिति च पाठः ॥
पृष्ठ १/०८९

अम्भोजं, क्ली, (अम्भसि जायते, अम्भस् + जन् +

ड ।) पद्मं । इति शब्दरत्नाबली ॥ सारसपक्षी ।
पुष्कराह्व इत्यमरेणोक्तत्वात् । चन्द्रे पुं । यथा ।
“पिबन्तं त्वन्मुखाम्भोजच्युतं हरिकथामृतं” । इति
श्रीभागवतं ॥ जलजाते त्रि ॥

अम्भोजन्मजनिः, पुं, (अम्भोजन्मनि विष्णुनाभिपद्मे

जनिः जन्म यस्य सः ।) ब्रह्मा । यथा, --
“अम्भोजन्मजनिस्तदन्तरगतोवत्सानितोवत्सपान्” ।
इति श्रीभागवतं ॥

अम्भोजयोनिः, पुं, (अम्भोजं नारायणनाभिपद्मं

योनिरुत्पत्तिस्थानं यस्य सः ।) ब्रह्मा । यथा, --
“सदनमुपगतोऽहं पूर्ब्बमम्भोजयोनेः” ॥
इति प्रबोधचन्द्रोदयः ॥

अम्भोजिनी, स्त्री, (अम्भोज + समूहार्थे इनि ततः

ङीप् ।) पद्मलता । पद्मसमूहः । पद्मयुक्तदेशः ।
इति शब्दरत्नाबली । (पद्मिनी । नलिनी । “अ-
म्भोजिनीवननिवासविलासहेतुं हंसस्य हन्तुमप-
रामपि तां विधाता” । इति नीतिशतके ।)

अम्भोदः, पुं, (अम्भो जलं ददाति, अम्भस् + दा +

कः ।) मेघः । मुस्तकं । इति शब्दरत्नावली ॥
(जलदानकर्त्तरि, त्रि ।)

अम्भोधरः, पुं, (अम्भः जलं धरति, धृ + अच् ।)

मेघः । (“सशीकराम्भोधरमत्तकुञ्जरः” । इति
ऋतुसंहारे ।) मुस्तकं । इति शब्दरत्नावली ॥

अम्भोधिः, पुं, (अम्भांसि धीयन्ते अत्र, धा + आधारे

किः ।) समुद्रः । इति शब्दरत्नावली ॥
(“अयं रत्नाकरोऽम्भोधिरित्यसेवि धनाशया ।
धनं दूरेऽस्तु वदनमपूरि क्षारवारिभिः” ॥
इति साहित्यदर्पणे ।
“सम्भूयाम्भोधिमभ्येति महानद्यो नगापगाः” ।
इति माघः ।)

अम्भोधिवल्लभः, पुं, (अम्भोधेः वल्लभः, षष्ठीतत्पुरुषः ।)

प्रबालः । इति राजनिर्घण्टः ॥

अम्भोनिधिः, पुं, (अम्भांसि निधीयन्तेऽत्र, अम्भस् +

नि + धा + किः ।) समुद्रः । इति शब्दरत्नावली ॥
(“असूत सा नागबधूपभोग्यं
मैनाकमम्भोनिधिबद्धसख्यं” ।
इति कुमारसम्भवे । विष्णोः सहस्रनाममध्ये
परिगणितो नामभेदः, अम्भांसि देवमनुष्यादयो
निधीयन्ते अस्मिन् इति व्यत्पत्त्या, नारायणस्य
सर्व्वाश्रयत्वात् । “अम्भोनिधिरनन्तात्मा” । इति
महाभारते ।)

अम्भोराशिः, पुं, (अम्भसां राशिरिव एकत्रोपचित-

त्वात् ।) समुद्रः । इति राजनिर्घण्टः ॥

अम्भोरुहं, क्ली, (अम्भसि रोहति, अम्भस् + रुह

+ कः ।) पद्मं । (“आस्ये पूर्णशशाङ्कता नयन-
योस्तादात्म्यमम्भोरुहां” । इति भामिनीविलासे ।)
सारसपक्षी । इत्यमरः ॥

अम्मयं, त्रि, (अपां विकारादि, अप् + मयट् ।)

जलविकारं । फेनादि । इत्यमरः ॥ जलमये त्रि ।
यथा, --
“न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्युरुकालेन दर्शनादेव साधवः” ॥
इति श्रीभागवतं ॥
(“सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” ।
इति रघुवंशे ।)

अम्रः, पुं, (अमति सौरभेण दूरं गच्छति, अम +

रन् ।) आम्रवृक्षः । फले क्लीवं । इति शब्द-
रत्नावली ॥

अम्रातः, पुं, (अम्लं रसं सर्व्वत्र पत्रपुष्पादौ अतति

व्याप्नोति, अम्ल + अत + अण् वा लस्य रत्वं, पक्षे
अम्लातः ।) आम्रातकवृक्षः ॥ इति शब्दमाला ॥

अम्रातकः, पुं, (अम्लं रसं सर्व्वत्र पत्रपुष्पादौ अतति

व्याप्नोति अम्र + अत + अण् + स्वार्थे कन् ।)
आम्रातकवृक्षः । इति त्रिकाण्डशेषः ॥
(“आम्राम्रातकजम्बूत्वक् कषाये विपचेद्बुधः ।
यवागूं शालिभिर्युक्तां तां भुक्त्वा ग्रहणीं जयेत्” ॥
इति शार्ङ्गधरः ॥)

अम्लं, क्ली, (अम + क्ल ।) तक्रं । इति राजनिर्घण्टः ॥

अम्लः, पुं, (अम + क्ल ।) षड्रसमध्ये रसविशेषः ।

टक इति भाषा । तोयाग्निगुणबाहुल्यादम्लः ।
इति सुश्रुतः । अस्य गुणाः । शाकवद्दोषकारित्वं ।
हृद्यत्वं । रुच्यग्निरक्तमांसकारित्वं । शीतलत्वं ।
वायुनाशित्वं । स्निग्धोष्णत्वं । कटुरसतोऽधिकोष्ण-
वीर्य्यत्वं । जिह्वोद्वेगकारित्वञ्च । इति राजवल्लभः ॥
अस्य दन्तोद्वेगकारित्वगुणोऽप्यस्ति । अपि च ।
प्रीत्यग्निपटुताकारित्वं । प्रपाचनत्वं । इति राज-
निर्घण्टः ॥ * ॥ तदतिशयभक्षणगुणाः । पाचकत्वं ।
पित्तश्लेष्मवान्तिक्लेदकारित्वं । लघुत्वं । उष्णत्वं ।
वहिःशीतत्वं । वायुनाशित्वञ्च । इति राजवल्लभः ॥
भ्रान्तितुष्टिकफपाण्डुदोषकार्श्यकासकारित्वं । इति
राजनिर्घण्टः ॥ तद्वति त्रि । इत्यमरः ॥ * ॥
अम्लवेतसः । इति राजनिर्घण्टः ॥ (यदाह वा-
भटः ॥ “अम्लः क्षालयते मुखम् ।
हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः
अम्लोऽग्निदीप्तिकृत् स्निग्धो हृद्यः पाचनरोचनः ॥
उष्णवीर्य्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः ।
करोति कफपित्तास्रं मूढवातानुलोमनम् ॥
सोऽत्यभ्यस्तस्तनोः कुर्य्याच्छैथिल्यं तिमिरं भ्रमं ।
कण्डुपाण्डुत्ववीसर्पशोफविस्फोटतृड्ज्वरान्” ॥
हारीतेन यदुक्तं तद्यथा, --
“जिह्वाक्लेदं जनयति तथा नेत्रनैर्म्मल्यकारी,
बीभत्सं वा जनयति तथा वातरोगापहारी ।
कण्डूकुष्ठक्षतरुजकरै लोलितः शोफिने स्या-
दम्लः प्रोक्तः पवनशमनोऽसृक्प्रकोपं तनोति” ॥
सुश्रुतश्चाह ॥ “अम्लो जरणः पाचनः पवननिग्रहणो-
ऽनुलोमनः कोष्ठ-विदाही वहिःशीतः क्लेदनः प्रा-
यशोहृद्यश्चेति । सएवंगुणोप्येक एवात्यर्थमुपसेव्य-
मानो दन्तहर्ष-नयन-सम्मीलन-रोमसंवेजनकफ-
विलयन-शरीरशैथिल्यान्यापादयति तथा क्षता-
भिहत-दग्ध-दष्ट-भग्न-रुग्न-शून-प्रच्युतावमूत्रित-वि-
सर्पित-छिन्न भिन्न-विद्धोत्पिष्टादीनि पाचयत्या-
ग्नेयस्वभावात् परिदहति कण्ठमुरोहृदयञ्चेति” ॥ ० ॥
“अम्लोरसो भक्तं रोचयति, अग्निं दीपयति, देहं
वृंहयति, जर्ज्जरयति, मनो बोधयति, इन्द्रियाणि
दृढीकरोति, बलं बर्द्धयति, वातमनुलोमयति,
हृदयं तर्पयति, आस्यं संस्रावयति, भुक्तमपकर्ष-
यति, क्लेदं जनयति, प्रीणयति । लघुरुष्णः स्नि-
ग्धश्च ॥ सएवंगुणोऽप्येकएवात्यर्थमुपयुज्यमानो
दन्तान् हर्षयति, तर्पयति, संमीलयति अक्षिणी,
संवीजयति लोमानि, कफं विलापयति, पित्त-
मभिवर्द्धयति, रक्तं दूषयति, मांसं विदहति,
कायं शिथिलीकरोति, क्षीण-क्षत-कृशदुर्ब्बलानां
श्वयथुमापादयति । अपि च क्षताभिहत-दष्ट-
दग्ध-भग्न-शून -- च्युतावमूत्रित-परिसर्पित-मर्द्दित-
च्छिन्न-विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात्
परिदहति कण्ठमुरोहृदयञ्च” ॥ इति चरकः ॥)

अम्लकः, पुं, (अल्पोऽम्लः अल्पार्थे कन् ।) लकुच-

वृक्षः । इति शब्दरत्नावली ॥ (लकुचशब्देऽस्य
गुणादयो ज्ञातव्याः ॥)

अम्लकाण्डं, क्ली, (अम्लं काण्डं यस्य ।) लवणतृणं ।

इति राजनिर्घण्टः ॥

अम्लकेशरः, पुं, (अम्लः केशरो यस्य ।) मातुलुङ्गः ।

वीजपूरः । इति रत्नमाला ॥ (टावालेवु इति भाषा ।)

अम्लचूडः, पुं, (अम्ला चूडा शिखा यस्य ।) अम्ल-

शाकः । इति राजनिर्घण्टः ॥

अम्लजम्बीरः, पुं, (अम्लो जम्बीरः ।) अम्लनिम्बूकः ।

इति राजनिर्घण्टः ॥

अम्लनायकः, पुं, (अम्लं रसं नयति, नी + ण्वुल् ।)

अम्लवेतसः । इति राजनिर्घण्टः ॥

अम्लनिशा, स्त्री, (अम्लरसे निःशेषेण शेते, अम्ल +

नि + शी + ड + स्त्रियां टाप् ।) शटी । इति रा-
जनिर्घण्टः ॥

अम्लपञ्चफलं, क्ली । अम्लरसयुक्तपञ्चप्रकारफलं ।

तद्यथा । कोलं १ दाडिमं २ वृक्षाम्लं ३
चुक्रिका ४ अम्लवेतसं ५ ॥ मतान्तरे । जम्बीरं १
नारङ्गं २ अम्लवेतसं ३ तिन्तिडीकं ४ वीजपूरं ५ ।
इति राजनिर्घण्टः ॥
(“कोलञ्च दाडिमञ्चैव वृक्षाम्लं चुक्रिका तथा ।
अम्लवेतसमित्येतदम्लपञ्चफलं स्मृतम्” ॥
“जम्बीरं नागरङ्गञ्च तथाम्लवेतसं पुनः ।
तिन्तिडीकं वीजपूरमम्लपञ्चफलं स्मृतम्” ॥)

अम्लपत्रः, पुं, (अम्लं पत्रं यस्य ।) अश्मन्तकवृक्षः ।

इति राजनिर्घण्टः ॥

अम्लपत्री, स्त्री, (अम्लं पत्रं यस्याः सा, ङीप् ।)

पलाशीलता । क्षुद्राम्लिका । इति राजनिर्घण्टः ॥

अम्लपूरं, क्ली, (अम्लेन अम्लरसेन पूर्य्यते, पूर +

कर्म्मणि घञ् ।) वृक्षाम्लं । इति राजनिर्घण्टः ॥

अम्लफलं, क्ली, (अम्लं फलं यस्य ।) वृक्षाम्लं । इति

राजनिर्घण्टः ॥ तेतुल इति भाषा ।

अम्लफलः, पुं, (अम्लं फलं यस्य सः ।) आम्रवृक्षः ।

इति राजनिर्घण्टः ॥

अम्लभेदनः, पुं, (अम्लार्थं भिद्यतेऽसौ, अम्ल + भिद्

+ कर्म्मणि ल्युट् ।) अम्लवेतसः । इति राज-
निर्घण्टः ॥