शब्दकल्पद्रुमः/अनियमः

विकिस्रोतः तः
Jump to navigation Jump to search

शब्दकल्पद्रुमः

पृष्ठ १/०४७

अनियमः, पुं, (न नियमः, नञ्समासः ।) नियमा-

भावः । अनिश्चयः । अनिर्द्धारः । यथा, --
“गुरुषष्ठञ्च पादानां शेषेष्वनियमो मतः” ।
इति छन्दोमञ्जरी ॥ तद्विशिष्टे त्रि ॥

अनिराकृतः, त्रि, (निर् + आ + कृ कर्म्मणि क्तः,

ततो नञ्समासः ।) अनिवारितः । यथा, --
“अनिराकृततापसम्पदं
फलहीनां सुमनोभिरुञ्झितां” ।
इति माघः ॥

अनिरुद्धं, क्ली, (नि + रुध् + भावे क्तः, नास्ति निरुद्धं

यस्मात् तत् ।) सन्दानं । पश्वादिबन्धनरज्जुः ।
इति त्रिकाण्डशेषः ॥

अनिरुद्धः, पुं, (न निरुध्यतेऽसौ नि + रुध् + कर्म्मणि

क्तः, ततो नञ्समासः ।) कामदेवपुत्त्रः । तत्-
पर्य्यायः । उषापतिः २ ब्रह्मसूः ३ विश्वकेतुः ४ ।
इत्यमरः ॥ स तु भगवतश्चतुर्व्यूहान्तर्गतादिव्यूहः ।
तस्मात् सृष्टिर्भवति यथा, --
“तमसो ब्रह्मसम्भूतं तमोमूलामृतात्मकं ।
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितं ॥
सोऽनिरुद्ध इति प्रोक्तस्तत् प्रधानं प्रचक्षते ।
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥
विद्यासहायवान् देवो विश्वक्सेनो हरिः प्रभुः ।
अप्स्वेव शयनञ्चक्रे निद्रायोगमुपागतः ॥
जगतश्चिन्तयन् सृष्टिं महानात्मगुणः स्मृतः” ।
इति महाभारते मोक्षधर्म्मः ॥

अनिरुद्धः, त्रि, (नि + रुध् + कर्म्मणि क्तः, ततो

नञ्समासः ।) रोधशून्यः । अप्रतिबद्धः । चरः ।
इति विश्वः ॥

अनिरुद्धपथं, क्ली, (अनिरुद्धः प्रतिबन्धरहितः पन्था

यत्र सः ।) आकाशं । इति शब्दचन्द्रिका ॥ अरुद्ध-
वर्त्म ॥

अनिरुद्धभाविनी, स्त्री, (अनिरुद्धस्य कामपुत्त्रस्य

भाविनी पत्नी, षष्ठीतत् ।) उषा । सा च काम-
पुत्त्रपत्नी । बाणराजकन्या । इति शब्दरत्नावलो ॥

अनिर्णयः, पुं, (निर् + नी + भावे अच्, ततो नञ्-

समासः ।) अनिर्द्धारः । अनिश्चयः । निर्पूर्ब्बक-
नीञ्धातोरलि नञ्समासः ॥

अनिर्धारितः, त्रि, (निर् + धृ + णिच् कर्म्मणि क्तः,

ततो नञ्समासः ।) अकृतनिर्धारणः । अनि-
श्चितः । यथा । “अनिर्धारितैकत्वानेकत्वविशेषस्य
पूर्ब्बरूपमात्रस्य व्यक्तस्य व्याधिलिङ्गत्बं” । इति
रोगपूर्ब्बरूपलक्षणे रक्षितः ॥

अनिर्म्मलः, त्रि, (न निर्म्मलः परिष्कृतः नञ्-

समासः ।) मलिनः । आविलः । अपरिष्कृतः ।
निर्म्मलाभावे क्ली ॥

अनिर्म्माल्या, स्त्री, (निर् + मल् + ण्यत् स्त्रियां टाप्,

ततो नञ्समासः ।) पृक्कानामकौषधिः । इति
शब्दरत्नावली ॥

अनिर्व्वचनीयः, त्रि, (निर् + वच् + कर्म्मणि अनीयः,

ततो नञ्समासः ।) निर्व्वचनायोग्यः । अनि-
र्व्वाच्यः । वाक्यागम्यः । यथा, “सदसद्भ्यामनिर्व्वच-
नीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्-
किञ्चिदिति वदन्ति” । इत्यज्ञानलक्षणे वेदान्त-
सारः ॥

अनिर्व्वाहः, पुं, (निर् + वह् + भावे घञ्, ततो

नञ्समासः ।) निर्व्वाहाभावः । अनिष्पत्तिः ।
असङ्गतिः । यथा । मुख्यार्थबाधे तद्योगे इति
कारिकायां मुख्यार्थस्यान्वयबाधोऽपि तात्पर्य्य-
विषयस्यान्वयस्य मुख्यार्थतावच्छेदकरूपेणानिर्व्वाह
एव । इति काव्यप्रकाशटीकायां महेश्वरः ॥

अनिर्व्विण्णः, त्रि, (निर् + विद् + क्तः, ततो नञ्-

समासः ।) निर्व्वेदशून्यः । वव्रे निर्व्विण्णमानस
इत्यत्र निर्व्विण्णं विरक्तं इति देवीमाहात्म्यटीका
तद्भिन्नः अविरक्तः विषयासक्त इति यावत् ॥
निर्व्विण्णोतिममत्वेन इत्यत्र निर्व्विण्णो दुःखितः
इति देवीमाहात्म्यटीका तद्भिन्नः अदुःखितः ॥
बहुव्रीहौ तु अतिदुःखितः ॥

अनिर्वृतिः, स्त्री, (नि निर्वृतिः, स्वाच्छन्द्यं, नञ्-

समासः ।) निर्वृत्यभावः । दरिद्रता । यथा ।
“अनिर्वृतिनिशाचरी मम गृहान्तरालं गता” ।
इत्युद्भटः ॥

अनिलः, पुं, (अनिति जीवत्यनेन अन् + इलच् ।)

वायुः । इत्यमरः ॥ वसुविशेषः । इति मेदिनी ॥
(शरीरस्थप्राणादिवायुः । वातरोगः । स्वाति-
नक्षत्रं ।)

अनिलघ्नकः, पुं, (अनिलं वातरोगं हन्ति इति,

अनिल + हन् + टक् + स्वार्थे कन् ।) विभीतक-
वृक्षः । इति राजनिर्घण्टः ॥

अनिलसखः, पुं, (अनिलस्य सखा इति राजाहः-

सखिभ्यष्टच् इति समासान्तः टच् ।) अग्निः ।
इति हेमचन्द्रः ॥

अनिलान्तकः, पुं, (अनिलस्य अन्तकः ।) इङ्गुदी-

वृक्षः । इति राजनिर्घण्टः ॥

अनिलामयः, पुं, (अनिलः वात एव आमयः रोगः,

रूपकसमासः ।) वातरोगः । इति राजनिर्घण्टः ॥

अनिर्लोचितः, त्रि, (न निर्लोचित इति नञ्समासः,

निर् + लोचि + क्त ।) अनालोचितः । अविवे-
चितः । यथा, --
“अनिर्लोचितकार्य्यस्य वाग्जालं वाग्मिनो वृथा” ।
इति माघः ॥

अनिशं, क्ली, (निशा रात्रिः, उपचारात् व्यापार-

राहित्यम्, नास्ति निशा यस्मिन् तत्, क्रिया-
विशेषणत्वे अस्य क्लीवत्वं, द्रव्यविशेषणत्वे तु
त्रिलिङ्गत्वं ।) अनवरतं । सततं । इत्यमरः ॥
(“निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीर-
मशरीरशरैः” । इति माघे ।)

अनिश्चितः, त्रि, (निर् + चि + कर्म्मणि क्तः, न

निश्चित इति नञ्समासः ।) निश्चयरहितः ।
अनिरूपितः । अनिर्णीतः । यथा, “कवय
आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः” ।
इति श्रीभागवतं ॥

अनिष्टः, त्रि, (इष् + कर्म्मणि क्तः, न इष्ट इति नञ-

समासः ।) अनभिलषितः । अवाञ्छितः । यथा,
“इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत्” ।
इति साहित्यदर्पणं ॥

अनिष्टा, स्त्री, (इष् + क्त, + टाप्, नञ्समासः ।)

नागबला । इति राजनिर्घण्टः ॥

अनिष्णातः, त्रि, (नि + स्ना + कर्त्तरि क्तः, न

निष्णात इति नञ्समासः ।) अकुशलः । अप्र-
वीणः । अनभिज्ञः । अकृती । निपूर्ब्बात् स्नाल
शोधने इत्यस्मात् कर्त्तरि क्ते नञ्समासः ॥

अनिष्पन्नः, त्रि, (पाणिनिमते तु नि + स्ना + कर्त्तरि

क्तः, निनदीभ्यां स्नातेः कौशले इति षत्वं, ततो
नञ्समासः ।) निष्पत्तिरहितः । असमाप्तः ।
असम्पूर्णः । निर्पूर्ब्बकपदधातोः कर्म्मणि क्ते
निष्पन्नः पश्चान्नञ्समासः ॥

अनिक्षुः, पुं, (इक्षुसदृशः नञ्समासः, नञत्र सादृश्ये ।

“तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः” ॥
इति कारिकायां ।)
इक्षुविशेषः । आनाखु । खाकडा इति ख्यातः ।
तत्पर्य्यायः । इक्षुतुल्या २ इक्षुरालिका ३ इक्ष्वा-
लिका ४ । इति रत्नमाला ॥

अनीकः, पुं, क्ली, (नास्ति नीः स्वर्गप्रापको यस्मात् ।

कप्, अर्द्धर्च्चादित्बात् पुंस्त्वं क्लीवत्वञ्च ।) युद्धं,
सैन्यं । इति मेदिनी ॥

अनीकस्थः, पुं, (अनीके युद्धे तिष्ठति, अनीक +

स्था + कर्त्तरि डः, उपपदसमासः ।) रणगतः ।
संग्रामस्थः । हस्तिशिक्षाविचक्षणः । राजरक्षकः ।
चिह्नं । वीरमर्द्दलकः । इति मेदिनी ॥ जयढाक
इति भाषा ।

अनीकिनी, स्त्री, (अनीको रणोऽस्ति प्रयोजनत्वेन

अस्या इति, अनीक + इनि + स्त्रियाम् ।) सैन्य-
संख्याविशेषः । तद्यथा । ६५६१ अश्वाः । २१८७
हस्तिनः । १०९३५ पदातयः । २१८७ रथाः ।
समुदायेन सप्तत्यधिकाष्टशताधिकसहस्राधिका-
युतद्वयं । २१८७० अक्षौहिणोदशमांशेयं । इत्य-
मरभरतौ ॥

अनीचिदर्शी, [न्] पुं, (नीचात् नीचकार्य्यात्

अन्यत्, नञ्समासः, तदेव विद्यतेऽस्य अनीच +
इन्, तादृशसत्कर्म्मशालिजनवत् पश्यति अनीची
+ दृश + णिनि, उपपदसमासः ।) बुद्धभेदः ।
इति त्रिकाण्डशेषः ॥

अनीतिः, स्त्री, (न नीतिः, नञ्समासः ।) दुर्नीतिः ।

अन्यायः । अत्याचारः । यथा, --
“विष्टयो व्यतिपाताश्च ये चान्येऽनीतिसम्भवाः” ।
इति वामनपुराणं ॥

अनीशः, पुं, (नास्ति ईशः नियन्ता यस्य सः ।)

विष्णुः । इति तस्य सहस्रनाममध्ये पठितः ॥
ईश्वरभिन्ने त्रि । यथा, --
“अनीशो वा कुर्य्याद्भुवनजनने कः परिकरं” ।
इति पुष्पदन्तः ॥

अनु, व्य, उपसर्गविशेषः । अस्यार्थाः । पश्चात् ।

सादृश्यं । लक्षणं । वीप्सा । इत्थम्भावः । भागः ।
पृष्ठ १/०४८
:हीनः । सहार्थः । आयामः । समीपं । परिपाटी ।
इति मेदिनी ॥ पुनरर्थः । इति मुग्धबोधटीकायां
दुर्गादासः ॥

अनुकः, त्रि, (अनु कामयते, अनु + कन् । का-

मुकः । कामी । इत्यमरः ॥

अनुकम्पा, स्त्री, (अनु + कम्प् + भावे अः, स्त्रियां

टाप् ।) दया । कृपा । इत्यमरः ॥ (“भूतानुकम्पा
तव चेदियं गौरेका भवेत् स्वस्तिमती त्वदन्ते” ।
इति रघुवंशे ।)

अनुकम्प्यः, त्रिः (अनुकम्पामर्हति अनुकम्पा +

अर्हार्थे यत् । अथवा अनु + कम्प् णिच् + कर्म्मणि
यत् ।) तरस्वी । वेगवान् । इति हारावली ॥
कृपायोग्यः । दयापात्रं ।
“अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति” ।
इति काव्यप्रकाशः ॥
(“दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्यां” ।)
इति कुमारसम्भवे ।)

अनुकरणं, क्ली, (अनु + कृ + ल्युट् ।) अनुकारः ।

सदृशीकरणं । व्याकरणमते तत् द्विविधं । यत्रार्थ-
रहितकेवलशब्दस्य सदृशकरणं तत् शब्दानु-
करणं १ । यत्रार्थविशिष्टस्य सदृशकरणं तदर्थानु-
करणं २ । इति गोयीचन्द्रदीकोपरि विद्यालङ्कार-
टीप्पनी ॥

अनुकर्षः, पुं, (अनुकृष्यते स्वसम्बद्धेन चक्रेण, अनु +

कृष + घञ् ।) रथाधःस्थितकाष्ठं । इत्यमरः ॥
रथेर तला इति भाषा । रथस्याधस्तनभागे यद्द्वा-
रुधारणकाष्ठं तिष्ठति यतोऽधश्चक्रं उपरि पट्ट-
कर्म्म यत्र चक्रं तदनुकर्षशब्दवाच्यं । इति भरतः ।
आकर्षणं । इति मेदिनी ॥

अनुकर्षणं, क्ली, (अनु + कृष् + भावे ल्युट् ।) अव-

कर्षणं । आकर्षणं । इति मेदिनी ॥

अनुकर्षा, [न्] पुं, (अनु + कृष् + अन् ।) अनु-

कर्षः । रथाधःस्थितकाष्ठं । इत्यमरटीकायां
रायमुकुटः ॥

अनुकल्पः, पुं, (अनुकल्प्यते गौणत्वेन विधीयते,

अनु + कृप् + णिच् + अच् ।) मुख्यकल्पादधमः ।
गौणकल्पः । मुख्यस्थानापन्नप्रतिनिधिः । यथा,
“व्रीह्यभावे नीवारैर्यजेत” । इत्यमरभरतौ ॥
(“प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते ।
न साम्परायिकं तस्य दुर्म्मतेर्विद्यते फलं” ॥
इति मनुः ।)

अनुकामीनः, त्रि, (कामस्य इच्छायाः सदृशं, सादृ-

श्यार्थे अव्ययीभावः, ततो गच्छतीत्यर्थे खः तस्य
ईनः ।) कामङ्गामी । स्वेच्छागमनशीलः । इत्य-
मरः ॥

अनुकारः, पुं, (अनु + कृ + घञ् ।) सदृशीकरणं ।

सदृशरूपवेशभाषाद्याविष्करणं । तत्पर्य्यायः ।
अनुहारः २ । इत्यमरः ॥ उपमा ३ । इति हेम-
चन्द्रः ॥
(“भवेदभिनयोऽवस्थानुकारः स चतुव्विधः” ।
इति साहित्यदर्पणे ।)

अनुकूलः, त्रि, (अनुकूलं करोति, अनुकूल + करो-

त्यर्थे णिच् पचाद्यच् ।) अप्रतिकूलः । दक्षिणः ।
सहायः । यथा, “मयानुकूलेन नभस्वतेरितं” ।
इति श्रीभागवतं ॥

अनुकूलः, पुं, (अनुकूलयति केवलस्वपत्नीं सुखयति,

अनुकूल + करोत्यर्थे णिच् अच् ।) पतिभेदः ।
तस्य लक्षणं ।
“सदा पराङ्गनापराङ्मुखत्वे सति स्वस्त्र्यनुरक्तत्वं” ।
इति रसमञ्जरी ॥ (यथा साहित्यदर्पणे, --
“एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः ।
किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो
नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्या-
महे दुःस्थितं” ।)

अनुकूलता, स्त्री, (अनुकूलस्य भावः, अनुकूल +

भावे तल् स्त्रियां टाप् ।) आनुकूल्यं । तत्पर्य्यायः ।
दाक्षिण्यं २ । इति हेमचन्द्रः ॥ (अनुग्रहः ।
दया । प्रसादः । “सुहृदिव प्रकटय्य सुखप्रदां
प्रथममेकरसामनुकूलतां” । इति उत्तरचरिते ।)

अनुकूला, स्त्री, (अनुकूल + स्त्रियां टाप् ।) दन्ती-

वृक्षः । इति राजनिर्घण्टः ॥

अनुक्रमः, पुं, (क्रममनुगतः, प्रादिसमासः ।) यथा-

क्रमं । तत्पर्य्यायः । आनुपूर्ब्बी २ परिपाटी ३
आवृत् ४ पर्य्यायः ५ । इत्यमरः ॥ प्रतिसंक्रमणं ।
अनुक्रमणिका । यथा, --
“द्वादशे तु पुराणोक्तसर्व्वार्थानुक्रमः कृतः ।
प्रथमस्कन्धमारभ्य प्राधान्येन समासतः” ॥
इति श्रीभागवते १२ स्कन्धे १२ अध्यायटीकायां
श्रीधरस्वामी ॥
(“कनिंष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात्”
इति याज्ञवल्क्यः ।)

अनुक्रमणिका, स्त्री, (अनुक्रम्यते उत्तरोत्तरं परि-

पाट्या आरभ्यतेऽनया, अनु + क्रम + करणे ल्युट्,
स्त्रियां ङीप्, ततः स्वार्थे कन् स्त्रियां टाप् ।)
भूमिका । ग्रन्थादेर्मूखबन्धः । पुराणादेरुक्तविव-
रणस्य संक्षेपेण पुनः कथनं । इति पुराणं ॥
(“अनुक्रमणिकाध्यायं वृत्तान्तानां सपर्ब्बणाम्” ।
इति महाभारते ।)

अनुक्रोशः, पुं, (अनु + क्रुश् + घञ् ।) करुणा । दया ।

इत्यमरः ॥ (“सौहार्दाद्वा विधुर इति वा मय्यनु-
क्रोशबुद्ध्या” । इति मेघदूते ।)

अनुगः, त्रि, (अनुगच्छति, अनु + गम् + डः ।)

पश्चाद्गामी । अनुचरः । अनुसरः । तत्पर्य्यायः ।
अन्वक् २ अन्वक्षः ३ अनुपदः ४ । इत्यमरः ॥
सेवकः ५ । दासः ६ । इति हलायुधः ॥
(“येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत” ।
इति महाभारते ।)

अनुगतः, त्रि, (अनुगच्छति अनु + गम् + कर्त्तरि

क्तः ।) अनुगः । आश्रितः । अधीनः । पश्चाद्गतः ।
यथा, --
“आगच्छद् यत्र काकुत्स्थः स्वर्गाय समुपस्थितः ।
विमानवरकोटीभिर्देवैरनुगतस्तदा” ॥
इति रामायणं ॥ नियतः । यथा, “न च तदनु-
गतमेव अभिधावलम्बने नापि तस्य भावात्” ।
इति पञ्चमोल्लासे काव्यप्रकाशकारः ॥

अनुगवीनः, पुं, (गोः पश्चात् अव्ययीभावः अनुगु +

खः, तस्य ईनः ।) गोपः । गोरक्षकः । गोः पश्चात्
यथेष्टगामी । इति संक्षिप्तसारव्याकरणपरिशिष्टं ।

अनुगमः, पुं, (अनु + गम् + भावे अप् ।) पश्चाद्ग-

मनं । उपसर्पणं । यथा, --
“कृते तु दीयते गत्वा त्रेतायामाहुताय वै ।
द्वापरे याचमानाय कलौ त्वनुगमान्विते” ॥
इति स्मृतिः ॥ न्यांयमते येन रूपेण तावत्पदार्थ-
ग्रहः तदेव रूपं तावत्पदार्थानुगमकं तस्य
क्रिया ॥

अनुगमनं, क्ली, (अनु साहित्येन गमनं, अनु + गम् +

भावे ल्युट् ।) सहगमनं । यथा, “अष्टौ लोक-
पाला आदित्यचन्द्रानिलाग्न्याकाशभूमिजलहृद-
यावस्थितान्तर्यामिपुरुषयमदिनरात्रिसन्ध्याधर्म्माः !
यूयं साक्षिणो भवत ज्वलच्चितारोहणेन भर्तृ-
शरीरानुगमनमहं करोमि” । इति शुद्धितत्त्वं ॥

अनुगामी, [न्] त्रि, (अनुगच्छति, अनु + गम् +

णिनि ।) कामंगामी । इति हेमचन्द्रः ॥ सह-
चरः २ । पश्चाद्गामी ३ । यथा, --
“दृष्ट्वा श्रियमिवायान्तीं ब्रह्माणमनुगामिनी” ।
इति रामायणं ॥

अनुग्रहः, पुं, (अनु + ग्रह् + अप् ।) दुःखदूरकर-

णेच्छा । अनिष्टवारणपूर्ब्बकेष्टसाधनं । तत्पर्य्यायः ।
अभ्युपपत्तिः २ । इत्यमरः ॥
(“विजपोन्मत्तनिःस्वानामकुत्सापूर्ब्बकं हि यत् ।
पूरणं दानमानाभ्यामनुग्रह उदाहृतः” ॥
इत्युक्तलक्षणा दारिद्र्यादिजनितदुःखहरणेच्छा ।
(“महाननुग्रहो मे स्यादाज्ञप्तस्य महात्मना” ।
इति रामायणे ।)

अनुचरः, त्रि, (अनु साहित्येन चरति गच्छति,

अनु + चर + ट ।) सहचरः । सहायः । इत्य-
मरः ॥ दासः । इति हलायुधः ॥ (“अनुचरेण
धनाधिपतेरथो” । इति भारविः ।
“पैतृकं वाञ्छतो राज्यं पार्थस्यानुचरा व्यधुः” ।
इति रामायणं ।)

अनुच्छिष्टः, त्रि, (उत् + शिष् + क्त, नञ्समासः ।)

उच्छिष्टभिन्नः । पवित्रः । इति हलायुधः ॥
(“लक्ष्म्या निमन्त्रयाञ्चक्रे तमनुच्छिष्टसम्पदा” ।
इति रघुवंशे ।)

अनुजं, क्ली, प्रपौण्डरीकनामसुगन्धिद्रव्यं । इति

राजनिर्घण्टः ॥

अनुजः, पुं, (अनु पश्चात् जायते, अनु + जन् + ड ।)

कनिष्ठभ्राता । तत्पर्य्यायः । जघन्यजः २ कनिष्ठः ३
यवीयान् ४ अवरजः ५ । इत्यमरः ॥ कनीयान् ६
यविष्ठः ७ । इति जटाधरः । जघन्यः ८ । इति
शब्दरत्नावली ॥

अनुजा, स्त्री, (अनु पश्चात् जाता, अनु + जन् + ड +

स्त्रियां टाप् ।) कनिष्ठा भगिनी । यथा, --
“भ्रातस्तवानुजाताहं भुङ्क्ष्व भक्तमिदं पयः” ।
इति तिथ्यादितत्त्वं ॥
पृष्ठ १/०४९

अनुजीवी, [न्] त्रि, (अनुजीवति, अनु + जीव् +

णिनि ।) दासः । तत्पर्य्यायः । सेवकः २ अर्थी ३ ।
इत्यमरः ॥ अनुचरः । इति हलायुधः ॥ (“अनु-
जीविना पराधिकारचर्च्चा न कर्त्तव्या” । इति
हितोपदेशः ।)

अनुज्ञा, स्त्री, (अनु + ज्ञा + भावे अङ् ।) आज्ञा ।

अनुमतिः । यथा, “नाग्न्योर्न ब्राह्मणयोर्न गुरु-
शिष्ययोरन्तरा व्यपेयात् अनुज्ञया तु व्यपेयात्” ।
इति तिथ्यादितत्त्वं ॥

अनुतरं, क्ली, (अनुतीर्य्यते नदी उत्तीर्य्यते अनेन,

अनु + तॄ + अप् ।) आतरः । तरपण्यं । इत्यमर-
टीकायां रायमुकुटः ॥ पाराणी कडी । इति
भाषा ।

अनुतर्षः, पुं, (अनु + तृष् + भावे घञ् ।) तृष्णा ।

अभिलाषः । मद्यपानपात्रं । इति मेदिनी ॥

अनुतर्षणं, क्ली, (अनु + तृष् + करणे ल्युट् ।) चषकः ।

सुरापानपात्रं । इत्यमरः ॥

अनुतापः, पुं, (अनु + तप् + भावे घञ् ।) पश्चा-

त्तापः । इत्यमरः ॥ पस्तान इति भाषा ।
(“चिरसम्मोहशयनादुत्थितस्य य आत्मनः ।
हाहाकारोऽनुतापः स्यात् स्वकर्म्मस्मृतिसम्भवः” ॥
इति सद्भावे ।)
(“ख्यापनेनानुतापेन तपसाध्ययनेन च ।
पापकृन्मुच्यते पापात् तथा दानेन चापदि” ॥
इति मनुः ।)

अनुत्तमः, त्रि, (नास्ति उत्तमः उत्कृष्टो यस्मात् सः ।)

श्रेष्ठः । प्रधानः । इत्यमरः ॥
(“श्रुतिस्मृत्युदितं धर्म्ममनुतिष्ठन् हि मानवः ।
इह कीर्त्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्” ।
इति मनुः ।) नञ्समासे तु अधमः ॥

अनुत्तरं, त्रि, (नास्ति उत्तरं प्रधानं यस्मात्, न

उत्तरं इति नञ्समासो वा ।) मुख्यं । इति
हेमचन्द्रः ॥ श्रेष्ठं । प्रतिजल्पविवर्जितं । प्रत्युत्तर-
हीनं । इति मेदिनी ॥ स्थिरं । इति धरणी ॥
अधः । दक्षिणदिक् । इत्यमरटीकायां स्वामी ॥
प्रत्युत्तराभावे क्ली । यथा, “भवत्यवज्ञा च भव-
त्यनुत्तरात्” । इति नैषघं ॥

अनुदग्रः, त्रि, (नास्ति उदग्रं उन्नतं यस्मात्, न उदग्रः

इति वा ।) अनुच्चः । बहुव्रीहौ तु अत्युच्चः ॥

अनुदात्तः, पुं, (उत् + आ + दा + क्त, न उदात्तः

इति नञ्समासः ।) वेदगाने नीचस्वरः । यथा,
“उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः” ।
इति शब्दरत्नावली ॥
(“उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरितः”
इति पाणिनिः ।)

अनुदारः, त्रि, (न उदार इति नञ्समासः नास्ति

उदारो यस्मात् इति वा ।) अतिशयदाता ।
अदाता । अतिमहान् । अमहान् । अनुगत-
दारः । यथा, “यस्मिन् प्रसीदसि पुनः स भव-
त्युदारोऽनुदारश्च” । इति मम्मटभट्टः ॥

अनुदिनं, क्ली, (दिने दिने इनि वीप्सायामव्ययी-

भावः ।) प्रतिदिनं । प्रत्यहं । यथा, --
“पारावत खलु शिलाकणमात्रभोगी
कामी भवेदनुदिनं वद कोऽत्र हेतुः” ।
इति श्रीचैतन्यदेवः ॥

अनुद्रुतं, क्ली, (अनु + द्रु + क्तः ।) तालविशेषः । स

तु द्रुतार्द्धो मात्राचतुर्थभागो वा । यथा, --
“अर्द्धमात्रं द्रुतं ज्ञेयं द्रुतार्द्धञ्चाप्यनुद्रुतं” ।
इति शब्दरत्नावली ॥ अनुधाविते त्रि । यथा, --
“अनुद्रुतः संयति येन केवलं
बलस्य शत्रुः प्रशशंस शीघ्रतां” ।
इति माघः ॥

अनुधावनं, क्ली, (अनु + धाव् + भावे ल्युट् ।) पश्चा-

द्धावनं । अनुसन्धानं । यथा, --
“तस्मिन् कुरङ्गशावाक्षी मुहुश्चित्तं निवारय ।
न तन्मनस्तवाधीनं वृथा तत्रानुधावनं” ॥
इत्युद्भटः ॥

अनुनयः, पुं, (अनु + नी + भावे अच् ।) विनयः ।

(“कथं नु शक्योऽनुनयोमहर्षे-
र्विश्राणनाच्चान्यपयस्विनीनाम्” ।
इति रघुवंशे ।) तत्पर्य्यायः । प्रणिपातः २ प्र-
णतिः ३ । इति हेमचन्द्रः ॥ (सदाचारः । क्रोधो-
पनयः ।
“एवं रामवचः श्रुत्वा लक्ष्मणानुनयं तथा” ।
इति रामायणं ।)

अनुपदं, क्ली, (अनु पश्चात् पद्यते गच्छति, अनु +

पद् + पचाद्यच् ।) अनुगः । पश्चाद्गामी । इत्य
मरः ॥ (व्य, पदस्य पश्चात् इति अव्ययीभावे
अन्वक् । अनन्तरं । अव्यवहितोत्तरकालं ।
“अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः ।
आशिषामनुपदंसमस्पृशत्
दर्भपाटिततलेन पाणिना” ।
इति रघुवंशे ।)

अनुपदी, [न्] त्रि (अनुपदमन्वेष्टा अनुपद + इन् ।)

अन्वेष्टा । अन्वेषणकर्त्ता । इति हलायुधः ॥

अनुपदीना, स्त्री, (अनुपद + अनुपदं बद्धा इत्यर्थे

खः तस्य ईनः स्त्रियां टाप् ।) पदायतोपानत् ।
इत्यमरः ॥ वुट् इत्यादिभाषा ।

अनुपमः, त्रि, (नास्ति उपमा सादृश्यं यस्य सः ।)

उपमाशून्यः । उत्तमः । इति मेदिनी ॥ (सर्व्वोत्-
कृष्टः । सादृश्यरहितः ।
“बलं प्रमाणं शक्तिश्च परैरनुपमं मम” ।
इति रामायणे ।)

अनुपमा, स्त्री, (नास्ति उपमा सादृश्यं यस्याः सा ।)

कुमुदनामदिग्गजयोषा । इत्यमरः ॥ सुप्रतीक-
नामदिग्गजस्त्री । “भवेदनुपमा सुप्रतीकिन्यां
स्त्री त्रिषूत्तमे” । इति मेदिनी ॥

अनुपातः, पुं, (अनु + पत् + भावे घञ्, अनुरूपः

त्रैराशिकेन पातः । पाटिगणितोक्तेन त्रैराशिकेन
युक्तः संख्यापातः ।) पश्चात्पतनं । पूर्ब्बाङ्कपातानु-
सारेण अपराङ्कपातः । यथा, --
“पुरान्तरं चेदिदमुत्तरं स्यात्
तदक्षविश्लेषलवैस्तदा किं ।
चक्रांशकैरित्यनुपातयुक्त्या
युक्तं निरुक्तं परिधेः प्रमाणं” ॥
इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥

अनुपातकं, क्ली, (पातयति निरयं प्रेरयति, पत् +

णिच् + ण्वुल् । पातकं ब्रह्महत्यादि तत्सदृशं
प्रादिसमासः । वेदनिन्दादिजन्यपापविशेषः ।
तानि च विष्णुना दर्शितानि, यथा, -- “यागस्थस्य
क्षत्त्रियस्य वैश्यस्य च रजस्वलायाश्चान्तर्व्वत्न्याश्चा-
त्रिगोत्रायाश्चाविज्ञातस्य गर्भस्य शरणागतस्य च
घातनं ब्रह्महत्यासमानमिति” ।) महापातक-
सदृशपापविशेषः ।
तत् पञ्चत्रिंशत्प्रकारं, यथा, --
समुत्कर्षे मिथ्यावचनं १
तत् द्विविधं । आत्मगामि ।
असूयापूर्ब्बकपरगामि च ।
राजगामि पैशुन्यं १
पितुर्मिथ्यादोषकथनं १
एतत्त्रयं ब्रह्महत्यासमं ॥ ३
वेदत्यागः । स तु अधीतवेदविस्मरणं । १
वेदनिन्दा १
कौटसाक्ष्यं १
तद्द्विविधं । ज्ञातस्याकथनं । मिथ्याकथनञ्च ।
सुहृद्बधः १
स तु ब्राह्मणव्यतिरिक्तमित्रबधः ।
ज्ञानपूर्ब्बकाभ्यासेन गर्हितान्नस्य अर्थात् अन्त्य-
जान्नस्य भक्षणं १
ज्ञानपूर्ब्बकाभ्यासेन गर्हिताद्यस्य अर्थात् छत्रा-
कादेर्भक्षणं १
एतत् षड्विधं सुरापानसमं ॥ ६
निक्षेपहरणं १
नरहरणं १
अश्वहरणं १
रजतहरणं १
भूमिहरणं १
हीरकहरणं १
मणिहरणं १
एतानि सप्त स्वर्णस्तेयसमानि ॥ ७
सपीण्डस्त्रीगमनं १
कुमारीगमनं १
अन्त्यजागमनं १
सख्युः स्त्रीगमनं १
औरसेतरपुत्त्रस्त्रीगमनं १
पुत्त्रस्यासवर्णस्त्रीगमनं १
एतानि षट् विमातृगमनसमानि ॥ ६
मातृष्वसृगमनं १
पितृष्वसृगमनं १
श्वश्रूगमनं
मातुलानीगमनं
शिष्यस्त्रीगमनं
पृष्ठ १/०५०
:भगिनीगमन १
आचार्य्यभार्य्यागमनं १
शरणागतागमनं १
राज्ञीगमनं १
प्रव्रजितागमनं १
धात्रीगमनं १
साध्वीगमनं १
वर्णोत्तमागमनं १
एतानि त्रयोदश गुर्व्वङ्गना-
गमनसमानि ॥ १३
इति प्रायश्चित्तविवेकसङ्ग्रहः ॥ ३५

अनुपानं, क्ली, (अनु + पा + कर्म्मणि ल्युट् ।) औष-

धाङ्गपेयविशेषः । औषधेन सह तत्पश्चाद्वा
पीयते यत् । यथा, --
“अनुपानविशेषेण करोति विविधान् गुणान्” ।
इति वैद्यकं ॥

अनुपुष्पः, पुं, (पुष्पमनुगतः तत्पुष्पविकसनेनैव तत्प्र-

काशात् प्रादिसमासः ।) शरः । इति शब्द-
चन्द्रिका ॥

अनुप्रासः, पुं, (रसाद्यनुगतत्वेन प्रकर्षेण वर्णानामासः

न्यासः, अनु + प्र + अस् + घञ् ।) तुल्यवर्ण-
विन्यासः । यथा, -- “वर्णसाम्यमनुप्रासः” इति
काव्यप्रकाशः ॥
“वर्णावृत्तिरनुप्रासः पदे पादे विधीयते” ।
इति काव्यचन्द्रिका । अस्य विवरणं अलङ्कार-
शब्दे द्रष्टव्यम् ॥ (“वर्णसाम्यरूपः शब्दालङ्कार-
विशेषः, अत्र वर्णानामेव सादृश्यं ज्ञेयं, स्वर-
मात्रेऽपि सादृश्यं वैचित्र्याभावात् न गणितं । स
तु पञ्चविधः, छेकानुप्रासो वृत्त्यनुप्रासः श्रुत्यनु-
प्रासोऽन्त्यानुप्रासो लाटानुप्रासश्चेति । अनुप्रासः
शब्दसाम्यं वैषग्येऽपि स्वरस्य यत्” । इति सा-
हित्यदर्पणे ।)

अनुप्लवः, पुं, (अनु साहित्येन प्लवते गच्छति, अनु +

प्लु + पचाद्यच् ।) सहायः । अनुचरः । इत्यमरः ॥
(“सानुप्लवः प्रभुरपि क्षणदाचराणाम्” । इति
रघुवंशे ।)

अनुबन्धः, पुं, (अनु + बन्ध् + यथासम्भवं भावादौ

घञ् ।) दोषोत्पत्तिः । प्रकृत्यादिः । आदिशब्देन
प्रत्ययागमादेशाः । विनश्वरः । उच्चरितप्रध्वंसी
इत्संज्ञको वर्णः ॥ मुख्यानुयायिशिशुः । विवाहा-
मन्त्रणयात्रादिषु मुख्यं पित्रादिकमनुयाति यः ।
मुख्यानुयायी शिशुश्चेति द्वयं स्वतन्त्रमिति स्वामी ।
प्रकृतस्यानुवर्त्तनं । प्रक्रान्तस्य अनिवर्त्तनं । इत्य-
मरभरतौ ॥ दोषोत्पादे यथा, --
“अनुबन्धं बुद्ध्वास्य दण्डो विधीयतामिति” ।
विनश्वरे यथा । औट् टकारानुबन्धे लोपः ॥
प्रकृतस्यानुवर्त्तने यथा । भोक्तुमनुबन्धः कृतः ।
शिशौ यथा । “बालकानुबन्धेन यात्राभङ्गो
माभूत्” । इत्यमरटीकासारसुन्दरी ॥ * ॥ बन्धः ।
इति मेदिनी ॥ आरम्भः । इति शब्दरत्नावली ॥
लेशः । इति त्रिकाण्डशेषः ॥ * ॥ वेदान्तमते
अधिकारिविषयसम्बन्धप्रयोजनानि । वैद्यकमते
वातादिदोषाणामप्राधान्यं ॥

अनुबन्धी, स्त्री, (अनुबध्यते अतिनिश्वासेन व्याप्रि-

यतेऽनया, अनु + बन्ध + करणे घञ्, ततो गौरा-
दित्वात् ङीष् ।) हिक्वा । तृष्णा । इति मेदिनी ॥
(“अनुबन्धः शिशौ दोषे पादे मुख्यानुयायिनि ।
विनश्वरे प्रकृत्यादौ प्रवृत्तस्यानुवर्त्तने ॥
अनुबन्धी तु हिक्वायां तृष्णायामपि योषिति” ।
इति मेदिनी ।)

अनुबोधः, पुं, (अनु + बुध् + णिच् + भावे अच् ।)

गन्धोद्दीपनं न्यूनपूर्ब्बगन्धस्य चन्दनादेः प्रयत्न-
विशेषेण पुनः पूर्ब्बसौगन्धोत्पादनं । तत्पर्य्यायः ।
प्रबोधनं २ । इत्यमरः ॥ पश्चाद्बोधः ॥

अनुभवः, पुं, (अनु + भू + भावे अप् ।) स्मृतिभिन्न-

ज्ञानं । अनुमानादि । धारावाहिज्ञानं । तत्प-
र्य्यायः । उपलम्भः २ इत्यमरः ॥

अनुभावः, पुं, (अनुभावयति बोधयत्यनेन, अनु + भू

+ णिच् करणे अच् ।) प्रभावः । कोषदण्डजं
तेजः । सतां मतिनिश्चयः । सतां अभिप्रायस्य
निश्चयः । निश्चयमात्रेऽपि । भावबोधकः । रत्यादि-
सूचकगुणक्रियादिः । स च लोचनचातुर्य्यभ्रूक्षेप-
मुखरागादिरूपः । एवमन्यत्रापि । इत्यमरभरतौ ॥
(स्थिरता । निर्द्धारः । अवश्यम्भाविता । तेजः ।
यथा, --
“नरपतिकुलभूत्यैर्गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावैः” ।
इति रघुवंशे ।)

अनुभूतिः, स्त्री, (अनुभवनं अनु + भू + क्तिन् ।)

अनुभवः । सा चतुर्व्विधा । प्रत्यक्षं १ अनुमितिः २
उपमितिः ३ शाब्दबोधः ४ । इति भाषा रिच्छेदः ॥

अनुभूताद्यविस्मृतिः, स्त्री, (अनुभूतादीनिव्याकरणा-

दीनां पदपदार्थप्रभृतीनि न विस्मर्य्यन्तऽनया, न
+ वि + स्मृ + करणे क्तिन् ।) संस्कारः । अनु-
भूतानां स्मृतानाञ्च अविस्मृतिर्यस्मात् स भाव-
नाख्यसंस्कार इति यावत् ॥

अनुमतकर्म्मकारी, [न्] त्रि, (अनुमतमनुज्ञातं

कर्म्म कर्म्मधारयः, तत्करोति यः अनुमतकर्म्म +
कृ + णिनि उपपदसमासः ।) लिखितपत्राद्यनु-
सारेण कर्म्मकर्त्ता । आज्ञया कार्य्यकर्त्ता च ॥ इति
व्यवहारकाण्डं ॥ अछी इति आरवी भाषा ।

अनुमतिः, स्त्री, (अनु + मन् + भावे क्त्विन् । कला-

हीनत्वेऽपि पूर्णिमाविहितयागादिकरणाय अनु-
ज्ञायतेऽस्यां अनु + मन् + अधिकरणे क्तिन् ।)
सम्मतिः । अनुज्ञा । न्यूनेन्दुकला पूर्णिमा । चतु-
र्द्दशीयुक्ता पूर्णिमा । इति मेदिनी ॥
(“कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
सहद्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः” ॥
इति मनुः ।)

अनुमरणं, क्ली, (अनु + मृ + भावे ल्युट् ।) पश्चा-

न्मरणं । भर्त्तरि मृते तत्पादुकादिकमादाय ज्वल-
च्चितारोहणपूर्ब्बकं स्त्रिया मरणं । यथा --
“देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वयं ।
निधायोरसि संशुद्धा प्रविशेत् जातवेदसं” ॥
इति ब्रह्मपुराणं ॥ ब्राह्मण्या निषेधमाह, स्मृतिः ।
“पृथक् चितिं समारुह्य न विप्रा गन्तुमर्हति” ॥
सहमरणं । मृतभर्त्त्रा सह ज्वलच्चितारोहण-
पूर्ब्बकं स्त्रिया मरणं । यथा, --
“भर्त्रानुमरणं काले याः कुर्व्वन्ति तथाविधाः ।
कामात्क्रोधाट्भयान्मोहात्सर्व्वाः पूता भवन्ति ताः” ॥
इति महाभारतं ॥

अनुमा, स्त्री, (अनु + मा + भावे अङ् ।) अनु-

मितिः । अनुमानं । इति त्रिकाण्डशेषः ॥

अनुमानं, क्ली, (अनु + मा + ल्युट् ।) अनुमिति-

करणं । अनुमितिः । इति चिन्तामणिः ॥ तत्पर्य्या-
यः । अनुमा २ इति त्रिकाण्डशेषः ॥

अनुमानोक्तिः, स्त्री, (अनुमानेन उक्तिः कथनं तत्-

पुरुषः ।) तर्कः । ऊहः । इति हलायुधः ॥

अनुमितिः, स्त्री, (अनु + मा + क्तिन् ।) अनुभव-

विशेषः । व्याप्तिविशिष्टपक्षधर्म्मताज्ञानजन्यज्ञानं ।
यथा, -- “धूमदर्शनाद्वह्निमान् पर्व्वत इत्याकार-
ज्ञानं । अस्या व्यापारकारणं परामर्शः । अस्याः
कारणं व्याप्तिज्ञानं” । इति भाषापरिच्छेदः ॥

अनुमोदितं, त्रि, (अनु + मुद् + णिच् + कर्म्मणि

क्तः ।) कृतानुमोदनं । अनुमतं । यथा, --
“भवता यद्व्यवसितं तन्मे साध्वनुमोदितं” ।
इति श्रीभागवतं ॥
(“गान्धर्व्वेण विवाहेन बह्व्योऽथ मुनिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चानुमोदिताः” ॥
इति शाकुन्तले ।)

अनुयायी, [न्] त्रि, (अनुयाति पश्चात् गच्छति,

अनु + या + णिनि ।) सदृशः । पश्चाद्गामी ।
यथा । मुख्यानुयायिनि शिशावित्यनुबन्धशब्दार्थे
अमरः ॥

अनुयुक्तः, पुं, (अनु + युज् + क्तः ।) भृतकाध्येता ।

इति महाभारतं । (अभियुक्तः । निन्दितः । जिज्ञा-
सितपदार्थः । कृतप्रश्नः ।)

अनुयोक्ता, [ऋ] पुं, (अनु + युज् + तृच् ।) भृत-

काध्यापकः । इति महाभारतं ॥ (प्रश्नकर्त्ता ।)

अनुयोगः, पुं, (अनु + युज् + घञ् ।) प्रश्नः । इत्यमरः ॥

अनुयोगकृत्, पुं, (अनुयोगं प्रश्नविषयसन्देहं कृन्तति

छिनत्ति, अनुयोग + कृत् + क्विप् ।) आचार्य्यः ।
इति हेमचन्द्रः ॥

अनुयोजनं, क्ली, (अनु + युज् + णिच् + ल्युट् ।) प्रश्नः ।

इति हेमचन्द्रः ॥

अनुयोज्यं, त्रि, (अनुयुज्यते नियुज्यते, अनु +

युज् + शक्यार्थे ण्यत् ।) निन्दार्हं । अनुपूर्ब्बक-
निन्दार्थयुजधातोः कर्म्मणि यप्रत्ययः ॥ (प्रष्टव्यः ।
जिज्ञास्यः ।
“ममेदमिति यो ब्रूयात् सोऽनुयोज्यो यथाविधिः”
इति मनुः ।)

अनुरक्तः, त्रि, (अनु + रन्ज + कर्त्तरि क्तः ।) आ-

सक्तः । अनुरागयुक्तः । यथा, --
“अनुरक्तो गुणान् ब्रूते विरक्तो दूषणानि च” ।
इत्युद्भटः ॥
पृष्ठ १/०५१

अनुरञ्जनं, क्ली, (अनु + रन्ज + भावे ल्युट् ।)

अनुरागः । हर्षजननं । यथा, -- विश्वेषामनु-
रञ्जनेन जनयन्नानन्दमिन्दीबरेति जयदेवः ॥
(प्रीतिजननं । आह्लादनं । आराधनं । “युक्तः
प्रजानामनुरञ्जने स्यास्तस्मात् यशो यत् परमं धनं
वः” । इति उत्तरचरिते ।)

अनुरतः, त्रि, (अनु + रम् + कर्त्तरि क्तः ।) अनु-

रागविशिष्टः । प्रीतः । अनुरक्तः । अनुपूर्ब्बरम-
धातोः कर्त्तरि क्तः ॥
(“धर्म्मानुरतमत्यर्थं शान्तं सूनृतभाषिणम्” ।
इति भारते) ॥

अनुरतिः, स्त्री, (अनु + रम् + भावे क्तिन् ।) अनु-

रागः । इति हेमचन्द्रः ॥

अनुरागः, पुं, (अनु + रन्ज + भावे घञ् ।) प्रीतिः ।

आसक्तिः । तत्पर्य्यायः । रतिः २ रागः ३ अनु-
तिः ४ । इति हेमचन्द्रः ॥
(“कण्टकितेन प्रथयति मय्यनुरागं कपोलेन” ।
इति शाकुन्तले ।)

अनुरागी, [न्] त्रि, (अनु + रन्ज + कर्त्तरि घिनुण

कुत्वं निपातनात् नलोपश्च ।) अनुरागविशिष्टः ।
अनुरक्तः । इति शब्दरत्नावली ॥

अनुराधा, स्त्री, (राधां विशाखामनुगता, कुगति-

प्रादयैति सूत्रेण समासः ।) सप्तदशनक्षत्रं ।
तस्या रूपं । सर्पाकृतिसप्ततारामयं । इति कालि-
दासः । “बलिनिभताराचतुष्टयात्मकं” । इति
दीपिकाटीका ॥ अस्या अधिदेवता मित्रः । तत्र
जातफलं । यथा, --
“सत्कीर्त्तिकान्तिश्च सदोत्सवः स्या-
ज्जेता रिपूणाञ्च कलाप्रवीणः ।
स्यात्सम्भवे यस्य किलानुराधा
सम्पत्प्रमादौ विविधौ भवेतां ॥”
इति कोष्ठीप्रदीपः ॥

अनुरूपः, त्रि, (रूपमनुगतः प्रादिसमासः ।) तुल्य-

रूपः । सदृशः । यथा, --
“देबानामनुरूपा हि चरन्त्येते महीतले” ।
इति रामायणं ॥ (तुल्यगुणः । योग्यः ।
“तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः” ।
इति रघुवंशे ।) ॥

अनुरोधः, पुं, (अनु + रुध् + घञ् ।) आराध्या-

देरिष्टसम्पादनं । उपरोधः । (“तदनुरोधात्
कठोरगर्भामपि बधूं जानकीं विमुच्य गुरुजन-
स्तत्र गतः” । इति उत्तरचरिते ।) तत्पर्य्यायः ।
अनुवर्त्तनं २ । इत्यमरः ॥

अनुलापः, पुं, (अनु वारं वारं लपनं, अनु + लप् +

भावे घञ् ।) पुनः पुनः कथनं । पुनरुक्तिः ।
इत्यमरः ॥

अनुलेपनं, क्ली, (अनु + लिप् + भावे ल्युट् ।) पात्रे

गन्धद्रव्यादिलेपनं । तद्द्रव्यञ्च । तस्य गुणाः ।
प्रीत्योजःशुक्रवृद्धिकारित्वं । घर्म्मदौर्गन्ध्यतन्द्रा-
तापश्रमनाशित्वञ्च । इति राजवल्लभः ॥ (“निर-
स्तमाल्याभरणानुलेपनाः” । इति ऋतुसंहारे ।)

अनुलोमः, पुं, (अनुपूर्ब्बात् लोमशब्दात् अच्, प्रत्यन्व-

वेति अच् ।) यथाक्रमं । अविलोमः । यथा, --
“वर्णमाला समाख्याता अनुलोमविलोमिका” ।
इति तन्त्रसारे नारदवचनं ॥ (क्रमानुगतः । अनु-
कूलः ।
“जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः” ।
इति शिशुपालबधे ।)

अनुलोमजः, त्रि, (अनुलोमेन यथाक्रमेण जातः,

अनुलोम + जन + डः, उपपदसमासः) । अनु-
लोमजातः । अप्रतिलोमजः । यथा । ब्राह्मणात्
क्षत्त्रियागर्भजातः । क्षत्त्रियात् वैश्यायां जातः ।
इत्यादि उत्तमादधमायां जातः । यथा, --
“सङ्कीर्णयोनयो ये तु प्रतिलोमानुलीमजाः ।
अन्योऽन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः” ॥
इति मनुः ॥

अनुवत्सरः, पुं, (अनुकूलोवत्सरः, दानादिविशेषाय ।)

वर्षः । इति हेमचन्द्रः ॥ संवत्सरादिपञ्चकान्तर्गत-
वत्सरविशेषः । अस्मिन् वर्षे धान्यदाने महाफलं ।
शकाब्दात् पञ्चभिर्हृते यः शेषस्तिष्ठति तेन
एकादिक्रमेणसं-परि-इदा-अनु-उदा-पूर्ब्बकवत्सर-
संज्ञका वत्सरा भवन्ति । इति मलमासतत्त्वं ॥

अनुवर्त्तनं, क्ली, (अनु + वृत् + भावे ल्युट् ।) अनु-

रोधः । इत्यमरः ॥ व्याकरणमते पूर्ब्बलक्षण-
स्थितषदादेरनुवृत्तिः ॥ (पश्चाद्गमनं । अनुसरणं ।
“इदानीं तदाज्ञानुवर्त्तनं उचितम्” । इति हि-
तोपदेशः ।)

अनुवाकः, पुं, (अनूच्यते अनु + वच् + घञ्, कुत्वं ।)

ऋग्यजुःसामसमूहः । इत्यमरः ॥ वेदविशेषः ।
इति सुभूतिः ॥ (“जेतुं जैत्रानथ खलु जपन् सूक्त-
सामानुवाकान्” । इति महावीरचरिते ।)

अनुवादः, पुं, (अनु + वद् + घञ् ।) कुत्सितार्थवाक्यं ।

इति शब्दरत्नावली ॥ पुनरुक्तिः । उक्तस्य पुनः-
कथनं । यथा, --
“विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः” ॥
इति शुद्धितत्त्वटीका ॥ वाचारम्भनमात्रं । यथा, --
“विनानुवादं न च तन्मनीषितं
सम्यग्यतस्त्यक्तमुपाददत् पुमान्” ।
इति श्रीभागवतं ॥

अनुवासनं, क्ली, (अनु + वास + सौरभ्ये भावे ल्युट् ।)

स्नेहनं । धूपनं । इति हेमचन्द्रः ॥ स्नेहवस्तिः ।
यथा, --
“अथानुवासनं स्नेहवस्तिधूपनयोरपि” ।
इति मेदिनी ॥
“द्विधा वस्तिः परिज्ञेयो निरूहश्चानुवासनं ।
कषायाद्यैर्निरूहः स्यात् स्नेहाद्यैरनुवासनं” ॥
इति वैद्यकं ॥

अनुवृत्तिः स्त्री, (अनु + वृत् + क्तिन् । अनुवर्त्तनं ।

अनुरोधः । इति । हेमचन्द्रः । व्याकरणमते, --
“पूर्ब्बसूत्रस्थितपदस्य परसूत्रेषूपस्थितिः” । तत्प-
र्य्यायः । अधिकारः २ । सा त्रिविधा यथा, --
“सिंहावलोकिताख्यश्च मण्डूकप्लुतिरेव च ।
गङ्गास्रोत इति ख्यातः अधिकारास्त्रयो मताः” ॥
सिंहावलोकितो यथा । वावगोर्दान्ते इत्यस्मात्
दान्त इति पदस्य ऋक्यगित्यन्तेषूपस्थितिः ॥
मण्डूकप्लुतिर्यथा । टा भिस् ङे ङसीत्यस्मात्
अत इति पदस्य आक्तिमभवीत्यत्रोपस्थितिः ॥
गङ्गास्रोतो यथा । लेः सि औ जसित्यस्मात्
लेरिति पदस्य तद्धितपर्य्यन्तेषूपस्थितिः ॥ इति
मुग्धबोधटीकायां दुर्गादासः ॥ (अनुवर्त्तनं । अनु-
सरणं । अनुमोदनं । अनुरञ्जनं ।
“अमङ्गलाभ्यासरतिं विचिन्त्यतं
तवानुवृत्तिं न च कर्त्तुमुत्सहे” ।
इति कुमारसम्भवे । अनुकरणं । “यासां सत्यपि
सद्गुणानुसरणे दोषानुवृत्तिः परा” । इति सा-
हित्यदर्पणे ।
“कान्तानुवृत्तिचातुर्य्यमपि अनुशिक्षितं वत्सेन” ।
इति उत्तरचरिते ।)

अनुव्रजनं, क्ली, (अनु + व्रज + भावे ल्युट् ।) अनु-

व्रज्या । गृहागतानां शिष्टानां गमनसमये किय-
द्दूरपर्य्यन्तपश्चाद्गमनरूपशिष्टाचारः । आग वा-
डान इति भाषा । यथा, --
“आयान्तमग्रतो गच्छेत् गच्छन्तं तमनुव्रजेत्” ।
इति तन्त्रसारे निगमकल्पद्रुमः ॥

अनुशयः, पुं, (अनु + शी + भावे अच्, शयं हस्त-

मनुगतः प्रादिसमासः, हस्तानुगते त्रि ।) दीर्घ-
द्वेषः । पूर्ब्बवैरता । अनुतापः । इत्यमरः । (“अनु-
शयादनुरोदिमि चोत्सुकः” । “अनुशयदुःखायेदं
हतहृदयं सम्प्रति विबुद्धम्” । इति शाकुन्तले ।)
द्वेषः । अनुबन्धः । इति मेदिनी ॥ (क्रोधः । पश्चा-
त्तापादिकारणात् विप्रतिपत्तिः । यथा, --
“क्रयविक्रयानुशयो विवादः स्वामिपालयोः” ।
इति मनुः ।)

अनुशयाना, स्त्री, (अनु + शी + शानच्, अनुताप-

कर्त्तरि त्रि ।) परकीयान्तर्गतनायिकाभेदः ।
तस्या लक्षणं । इष्टहानिजनितानुतापवती । सा
त्रिधा । वर्त्तमानसङ्केतस्थानविघट्टनेन १ भावि-
सङ्केतस्थानाभावशङ्कया २ स्वानधिष्ठितसङ्केतस्थाने
भर्त्तुर्गमनानुमानेन ३ । इति रसमञ्जरी ॥

अनुशयी, स्त्री, (अनुशय्यते अनुतप्यतेऽनया, अनु +

शी + अच्, गौरादित्वात् ङीष् ।) क्षुद्ररोगान्त-
र्गतपादरोगविशेषः । तस्य लक्षणं ।
यथा, --
“गम्भीरामल्पसंरम्भां सवर्णामुपरिस्थितां ।
पादस्यानुशयीं तान्तु विद्यादन्तःप्रपाकिनीं” ॥
इति माधवकरः ॥ तच्चिकित्सा यथा, --
“हरेदनुशयीं वैद्यः क्रियया श्लेष्मविद्रधेः” ।
इति भावप्रकाशः ॥

अनुशयी, [न्] त्रि, (अनु + शी + इनि ।) दण्ड-

वत्प्रणामैश्चरणमूले शेते यः । यथा । “यं संपद्य
जहात्यजामनुशयी सुप्तः कुलायं यथा” । इति
श्रीभागवतं ॥ (अत्यर्थमासक्तः । अनुरक्तः । पश्चा-
त्तापयुक्तः । अनुशोचनपरः ।)

अनुशरः, पुं, (अनुशृणाति हिनस्ति, अनु + शृ +

पचाद्यच् ।) राक्षसः । इति शब्दमाला ॥
पृष्ठ १/०५२

अनुशासनं, क्ली, (अनु + शास् + भावे ल्युट् ।) आ-

देशः । आज्ञा । यथा, --
“इत्येते ब्रह्मणः पुत्त्रा आश्रुत्यात्मानुशासनं” ।
इति श्रीभागवतं ॥ व्युत्पादनं । यथा नामलिङ्गानु-
शासनमित्यमरः ॥ (उपदेशः । नियोगकरणं ।
“अहिंसयैव भूतानां कार्य्यं श्रेयोनुशासनम्” ।
इति मनुः ।)

अनुशीलनं, क्ली, (अनु पौनःपुन्येन शीलनमभ्यासः,

अनु + शीलि + भावे ल्युट् ।) पुनःपुनरभ्यासः ।
मुहुः सेवनं । यथा, --
“आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्तमा” ।
इति भक्तिरसामृतसिन्धुः ॥

अनुशोचनं, क्ली, (अनु + शुच् + भावे ल्युट् ।)

अनुशोचना । तत्पर्य्यायः । मन्युः २ शोकः ३
शुक् ४ । इति जटाधरः ॥

अनुषङ्गः, पुं, (अनु + सन्ज + भावे घञ् ।) कारुण्यं ।

दया । इति हलायुधः ॥ एकत्रान्वितपदस्यान्य-
त्रान्वयः । यथा । कोषोबलञ्चापहृतमित्यादौ
बलान्वितापहृतस्य कोषेऽन्वयः ॥ न्याये उपनय-
स्थायम्पदस्य निगमनेऽनुषङ्गः । यथा । बह्निव्याप्य-
धृमवांश्चायं तस्माद्वह्निमान् ॥ प्रसङ्गः । अन्योद्देशेन
प्रवृत्तावन्यस्यापि सिद्धिः । यथा, --
“नित्यक्रियां तथा चान्ये ह्यनुषङ्गफलां श्रुतिं” ।
इति स्मृतिः ॥

अनुष्टुप्, [भ्] स्त्री, (अनु सततं स्तुभ्यतेऽनया,

अनु + स्तुन्भ + क्विप् षत्वं ।) सरस्वती । इति
शब्दरत्नावली ॥ अष्टाक्षरपदं छन्दः । सा तु
समार्द्धसमविषमवृत्तभेदेन त्रिधा तत्र शेषस्य
प्रायिकप्रयोगः । तस्य लक्षणं ।
“पञ्चमं लघु सर्व्वत्र सप्तभं द्विचतुर्थयोः ।
गुरु षष्ठन्तु पादानां शेषेष्वनियमो मतः” ॥
इति छन्दोमञ्जरी ॥ अस्याः प्रस्ताराः २५६ । इति
पिङ्गलः ॥

अनुष्ठानं, क्ली, (अनु + स्था + भावे ल्युट्) । कर्म्मा-

रम्भः । करणं । यथा, --
“कृता श्रीभवदेवेन कर्म्मानुष्ठानपद्धती” ।
(उपपादनं । व्यवस्थापनं । उपयोगिता । आनु-
रूप्यं । कार्य्यकरणं । अभ्यासः । अनुशीलनं ।
चर्च्चा ।
“उपपत्तिपरित्यक्तशास्त्रानुष्ठानमोहितैः” ।
इति राजतरङ्गिणी ।
“अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादतन्द्रित” ।
इति मनुः । शास्त्रविहितकर्त्तव्यादिसम्पादनम् ।
“किन्त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति” ।
इति उत्तरचरिते ।)

अनुष्णं, क्ली, (न उष्णं नञ्समासः ।) उत्पलं ।

इति राजनिर्घण्टः ॥

अनुष्णः, त्रि, (न उष्णः, नञ्समासः ।) अलसः ।

इत्यमरः ॥ उष्णभिन्नः शीतलः बहुव्रीहौ तु
अत्युष्णः ॥

अनुष्णवल्लिका, स्त्री, (अनुष्णा शीतला वल्लीव कर्म्म-

धारयः ।) नीलदूर्व्वा । इति राजनिघण्टः ॥

अनुसन्धानं, क्ली, (अनु + सम् + धा भावे ल्युट् ।)

अन्वेषणं । चेष्टा । इत्यादिकाव्यानुसन्धानबला-
दिति काव्यप्रकाशः ॥

अनुसारः, पुं, (अनु + सृ + भावे घञ् ।) अनुसरणं ।

अनुयानं । अनुक्रमः । यथा, --
“अथ लौहविधिं वक्ष्ये लौहशास्त्रानुसारतः” ।
इति वैद्यकसुखबोधः ॥

अनुहार, पुं, (अनु + हृ + घञ् ।) अनुकारः । सदृशी-

करणं । सदृशरूपवेशभाषाद्याविष्करणं । इत्य-
मरः ॥ उपमा । इति हेमचन्द्रः ॥
(“तद्रूपाननुहारस्तु हेतौ सत्यप्यतद्गुणः” ।
इति साहित्यदर्पणे ।)

अनुक्षणं, क्ली, (क्षणे क्षणे वीप्सायामव्ययीभावः ।)

प्रतिक्षणं । सर्व्वदा । अनवरतं । क्षणशब्दस्य
वीप्सार्थानुपसर्गेणाव्ययीभावसमासः ॥

अनूकं, क्ली, (अनु + उच् + घञर्थे कः, न्यङ्क्वादीनाञ्च

इति कुत्वम् ।) कुलं । वंशः । शीलं । स्वभावः ।
इति मेदिनी ॥

अनूकः, पुं, (अनु + उच् + घञर्थे कः, न्यङ्क्वादीनाञ्च

इति कुत्वम् ।) गतजन्म । पूर्ब्बजन्म । इति मेदिनी ॥
(वंशः । कुलं । स्वभावः । शीलं ।
“अनूकं तु कुले शीले पुंसि स्यात् गतजन्मनि” ।
इति मेदिनी ।)

अनूचानः, पुं, (अनु + ब्रु + लिट् तस्य कानच् ।)

साङ्गवेदविचक्षणः । शिक्षादिषडङ्गसहितवेद-
वेत्ता । इत्यमरः ॥
(“इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः” ।
इति कुमारसम्भवे ।
“ऋषयश्चक्रिरे धर्म्मं योऽनूचानः स नो महान्” ।
इति मनुः ।)

अनूचानः, त्रि, (अनु + वच् + लिट् तस्य कानच् ।

वेदस्यानुवचनं कृतवान्, उपेयिवानित्यादिना
साधु ।) विनीतः । सविनयः । इति मेदिनी ॥
(साङ्गवेदविचक्षणः ।
“अनूचानो विनीते स्यात् साङ्गवेदविचक्षणेः” ।
इति मेदिनी ॥
शिक्षाकल्पादिषडङ्गसहितवेदाध्ययनकारी, यथा,
“इदमूचुरनूचानाः प्रीतिकण्ठकितत्वचः” ।
इति कुमारसम्भवे ।
“ऋषयश्चक्रिरे धर्म्मं योऽनूचानः स नो महान्” ।
इति मनुः) ॥

अनूढः, त्रि, (वह + कर्म्मणि क्तः संप्रसारणं ततो

नञ्समासः ।) अविवाहितः । आइवड इति
भाषा । यथा, --
“परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात्” ।
इत्यमरः ॥

अनूद्यं, त्रि, (अनु + वद् + क्यप् संप्रसारणं ।) अनु-

वाद्यं । अनुवदनीयं । अवदनीये ह्रस्वमध्यं । इति
संक्षिप्तसारव्याकरणं ॥

अनूनं, त्रि (न ऊनं, नञ्समासः ।) अखण्डं । समग्रं ।

पूर्णं । इति जटाधरः ॥ (अहीनः । अन्यूनः ।
“इमामनूनां सुरभेरवेहि” । इति रघुवंशे ।)

अनूनकं, त्रि, (नऊनं, नञ्समासः, ततः स्वार्थे कन् ।)

सकलं । पूर्णं । अखण्डं । इत्यमरः ॥

अनूपं, त्रि, (अनुगता आपोऽत्र, समासान्त अच्,

अस्य उत्वं ।) जलबहुलदेशः । जलप्लावितस्थानं ।
तत्पर्य्यायः । जलप्रायं २ । इत्यमरः ॥ अस्य गुणाः ।
शीतलत्वं । स्निग्धत्वं । वातश्लेष्मकारित्वं । गुरुत्वञ्च ।
इति राजवल्लभः ॥ एतद्देशीयजलगुणाः । गुरुत्वं ॥
घनत्वं । पिच्छिलत्वं । मधुरत्वं । श्लेष्मजनकत्वं ।
स्निग्धत्वं । अग्निनाशित्वं । प्रमेहगलगण्डश्लीप-
दच्छर्द्दिप्रभृतिरोगकारित्वञ्च । इति राजनिर्घण्टः ।

अनूपः, पुं, (अनुगता आपोऽत्र, प्रादिभ्यो धातुजस्य

वाच्योवाचोत्तरपदलोपश्चेति बहुव्रीहिः) महिषः ।
इति त्रिकाण्डशेषः ॥ (जलप्रायः । जलबहुलः ।
बह्वम्बुयुक्तः । “अनूपो महिषे नाम्बुप्रायदेशे तु
वाच्यवत्” । इति मेदिनी ॥)

अनूपजं, क्ली, (अनूपे जलप्रायदेशे जायते, अनूप +

जन् + डः उपपदसमासः ।) आर्द्रकं । इति राज-
निर्घण्टः ॥

अनूपदेश, पुं, (अनूपः जलप्रायः देशः कर्म्मधारयः ।)

जलप्रायदेशः । तस्य लक्षणं यथा, --
“नदीपल्वलशैलाद्यफुल्लोत्पलकुलैर्युतः ।
हंससारसकारण्डचक्रवाकादिसेवितः ॥
सरोवराहमहिषरुरुरोहिकुलाकुलः ।
प्रभूतद्रुममुख्याढ्यो नानाशस्यफलान्वितः ॥
अनेकशालिकेदारकदलीक्षुविभूषितः ।
अनूपदेशो ज्ञातव्यो वातश्लेष्ममयार्त्तिमान्” ॥
इति भावप्रकाशः ॥

अनूरुः, पुं, (नास्ति ऊरू यस्य सः ।) सूर्य्यसारथिः ।

अरुणः । इत्यमरः ॥ (ऊरुहीनः ।) ॥

अनूरुसारथिः, पुं, (अनूरुः अरुणः सारथिः रथ-

चालको यस्य सः ।) सूर्य्यः । यथा, --
“गतं तिरश्चीनमनूरुसारथेः” ।
इति माघः ॥

अनृजुः त्रि, (न ऋजुः सरलः, नञ्समासः ।) अस-

रलः । शठः । इत्यमरः ॥
(“न पाणिपादचपलो न नेचचपलोऽनृजुः” ।
इति मनुः ।)

अनृणी, [न्] त्रि, (ऋणं विद्यतेऽस्य, ऋण + इनि

ऋणी, नञ्समासः ।) अऋणी । अधारी । यथा, --
“एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत्” ॥
इत्याह्निकतत्त्वं ॥ ऋणाभावविशिष्टः । यथा
यक्ष उवाच ।
“को मोदते किमाश्चर्य्यंकः पन्थाः का च वार्त्तिका ।
वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः” ॥
युधिष्ठिर उवाच ।
“पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वे गृहे ।
अनृणी चाप्रवासी च स वारिचर मोदते ॥
अहन्यहनि भूतानि गच्छन्तीह यमालय ।
शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्य्यमतःपर ॥
तर्कोऽप्रतिष्ठः श्रतयो विभिन्ना
नैको मुनिर्यस्य मतं प्रमाण ।
पृष्ठ १/०५३
:धर्म्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥
अस्मिन् महामोहमये कटाहे
सूर्य्याग्निना रात्रिदिवेन्धनेन ।
मासर्त्तुदर्व्वीपरिघट्टनेन
भूतानि कालः पचतीति वार्त्ता” ॥
इति मुद्राङ्कितमहाभारते वनप्रर्व्वणि ३१२ अ-
ध्यायः ॥ अपि च ।
“देवानामनृणी जन्तुर्यज्ञैर्भवति मानवः” ।
इत्यादि शुद्धतत्त्वं ।

अनृतं, क्ली, (न ऋतं नञ्समासः ।) कृषिः ।

मिथ्या । इत्यमरः ॥ विवाहादिपञ्चकेष्वनृतं न
पापजनकं । यथा, --
“विवाहकाले रतिसंप्रयोगे
प्राणात्यये सर्व्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेत
पञ्चानृतान्याहुरपातकानि” ॥
इति महाभारते कर्णपर्ब्बणि अर्जुनं प्रति श्रीकृष्ण-
वचनं ॥

अनेकं, त्रि, (एकस्मात् अन्यत् नञ्समासः ।) एक-

त्वातिरिक्तसंख्यानं तद्विशिष्टञ्च । बहु । यथा, --
“अनेकराजन्यरथाश्वसङ्कुलं” ।
इति भारविः ॥

अनेकजः, पुं, (अनेकं जायते, अनेक + जन् + डः

उपपदसमासः ।) पक्षी । इति त्रिकाण्डशेषः ॥
बहुजाते त्रि ॥

अनेकधा, व्य, (अनेक + प्रकारार्थे धा ।) अनेक-

प्रकारं । बहुधा । यथा, --
“पाटीसूत्रोपमं वीजं गूढमित्यवभाषते ।
नास्ति गूढमगूढानां नैव षोढेत्यनेकधा” ॥
इति लीलावती ॥ अनेकवारार्थेऽपि क्वचित्प्रयोगः ॥

अनेकपः, पुं, (अनेककाभ्यां मुखशूण्डाभ्यां पिबति,

अनेक + पा + कः, उपपदसमासः ।) हस्ती
इत्यमरः ॥

अनेकाश्रितगुणः, पुं, (अनेकानि आश्रितः, द्वितीया-

श्रितातीत इत्यादिना समासः, तादृशः गुणः
कर्म्मधारयः ।) बहुनिष्ठगुणः । तद्यथा । संयोगः १
विभागः २ द्विपृथक्त्वादिः ३ एकत्वान्यसङ्ख्या ४ ।
इति सिद्धान्तमुक्तावली ॥
(“संयोगश्च वियोगश्च सङ्ख्या द्वित्वादिकास्तथा ।
द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणाः” ।
इति भाषापरिच्छेदे ।)

अनेडमूकः, त्रि, (नास्ति एडः वधिरः मूकः वाक्-

शक्तिरहितश्च यस्मात् सः ।) धूर्त्तः । शठः ।
श्रुतिवाग्विहीनः । इति मेदिनी ॥ काला वोवा
इति भाषा ।

अनेहाः, [स्] पुं, (न हृन्यते, न + हन् + असुन्

पृषोदरादित्वात् हन् स्थाने एहादेशः, ततः
सौकृते अनङादेशः ।) कालः । समयः । इत्यमरः ॥
(“तस्थुस्तस्यान्तिके द्रोहश्छिद्रानेहःप्रतीक्षिणः” ।
इति राजतरङ्गिणी ।)

अनैक्यं, क्ली, (न एक भावे व्यञ् ।) ऐक्याभावः । अने-

कता । एकस्य भावः ऐक्यं पश्चान्नञ्समासः ॥

अनो, व्य, (न नी डो) निषेधार्थः । अभावः । इत्य-

मरटीकायां नीलकण्ठः ॥

अनोकहः, पुं, (अनसः शकटस्य अकं गमनं षष्ठी-

तत्, तत् हन्ति अनोक + हन् + डः ।) वृक्षः ।
इत्यमरः ॥
(“पृक्तस्तुषारैर्गिरिनिर्झराणा-
मनोकहाकम्पितपुष्पगन्धी” ।
इति रघुवंशे ।)

अन्च उ गतिपूजनयोः । इति मुग्धबोधे वोपदेवः ॥

अन्च उ पूजने । गमने । म्लिष्टोक्तौ । इति कवि-

कल्पद्रुमः ॥ उ अञ्चित्वा अङ्क्त्वा । म्लिष्टोक्तिर-
व्यक्तशब्दः । इति दुर्गादासः ॥

अन्च क व्यक्तौ । इति कविकल्पद्रुमः ॥ व्यक्तिरिह

विशेषणं । क अञ्चयति बुद्धिं सुधीः । विशिनष्टी-
त्यर्थः । इति दुर्गादासः ॥

अन्ज उ ध ञि व्यक्तौ । गतौ । म्रक्षणे । इति कवि-

कल्पद्रुमः ॥ उ अञ्जिष्यति अङ्क्ष्यति । ध अनक्ति ।
ञि अक्तोस्ति । व्यक्तिः स्फुटीकरणं ।
“शरीरभाजां भवदीयदर्शनं
व्यनक्ति कालत्रितयेऽपि योग्यतां” ।
इति माघः ॥ अनक्ति गात्रं तैलेन जनः । इति
दुर्गादासः ॥

अन्तं, क्ली, (अम् + तन् ।) स्वरूपं । स्वभावः । इति

मेदिनी त्रिकाण्डशेषश्च ॥

अन्तं, क्ली, पुं, (अम् + तन् ।) शेषः । इति मेदिनी ॥

तत्पर्य्यायः । जघन्यं २ चरमं ३ अन्त्यं ४ पाश्चात्यं ५
पश्चिमं ६ । इत्यमरः ॥

अन्तः, पुं, (अम् + तन् ।) नाशः । इत्यमरः ॥ स्वरूपः ।

प्रान्तः । सीमा । निश्चयः । अवयवः । इति
हेमचन्द्रः ॥

अन्तः, त्रि, (अम् + तन् ।) अन्तिकः । निकटः ।

इति मेदिनी ॥ अतिमनोहरः । इति विश्वः ॥

अन्तःकरणं, क्ली, (अन्तर्मध्यवर्त्ति करणं ज्ञानसाधनं,

कर्म्मधारयः, कृ + करणे ल्युट् ।) अन्तरिन्द्रियं ।
धीन्द्रियं । तत्पर्य्यायः । मनः २ निगुः २ । इति
त्रिकाण्डशेषः ॥ अस्य कार्य्यभेदान्नामचतुष्टयं,
यथा, --
“मनो बुद्धिरहङ्कारश्चित्तं करणमान्तरं ।
संशयो निश्चयो गर्व्वः स्मरणं विषया अमी” ॥
इति वेदान्तः ॥ (अस्योत्पत्तिर्यथा, -- “मिलितैस्तु
तैः अन्तःकरणमेकं स्यात्” इति । तैः पञ्चभूतस्थ-
सत्त्वांशैर्मिलितैः अन्तःकरणं भवतीत्यर्थः ।
“धनुर्भृतोऽप्यस्य दयार्द्रभाव-
माख्यातमन्तःकरणैर्विशङ्कैः” ।
इति रघुवंशे ।)

अन्तःकुटिलः, पुं, (अन्तरभ्यन्तरे कुटिलः वक्रः ।)

शङ्खः । इति राजनिर्घण्टः ॥ कुटिलान्तःकरणे त्रि ॥

अन्तःपुरं, क्ली, (अन्तर्मध्यवर्त्ति पुरं मृहं, कर्म्म-

धारयः ।) राज्ञः स्त्रीगृहं । तत्पर्य्यायः । अव-
रोधनं २ अवरोधः ३ शुद्धान्तः ४ । इत्यमरः ॥
अन्तःपुरादयो राजदारेष्वपि तात्स्थ्यात् वर्त्तन्ते ।
यथा । “शुद्धान्तसम्भोगनितान्ततुष्टे” । इति
नैषधम् । इति भरतः ॥ “दाक्षिण्येन ददाति
वाचमुचितामन्तःपुरेभ्यो यदा” । इत्यभिज्ञान
शकुन्तलम् ॥

अन्तःपुराध्यक्षः, पुं, (अन्तःपुरस्य अध्यक्षः रक्षकः,

षष्ठीतत्पुरुषः ।) राज्ञामन्तःपुररक्षकः । तल्ल-
क्षणं यथा, --
“वृद्धः कुलोद्गतः शक्तः पितृपैतामहः शुचिः ।
राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते” ॥
इति युक्तिकल्पतरुः ॥

अन्तःसत्वा, स्त्री, (अन्तर्मध्ये सत्त्वं प्राणी सारो वा

यस्याः सा, स्त्रियां टाप् ।) भल्लातकः । इति
शब्दचन्द्रिका ॥ गर्ब्भवती । अन्तरुदरमध्ये सत्वं
प्राणी यस्याः सा ॥

अन्तःस्वेदः, पुं, (अन्तः मध्ये स्वेदः मदजलं यस्य सः ।)

हस्ती । इति त्रिकाण्डशेषः ॥

अन्तकः, पुं, (अन्तं विनाशं करोति, अन्त + करो-

त्यर्थे णिच् ततो ण्बुल् ।) यमः । इत्यमरः ।
(“ऋषिप्रभावात् मयि नान्तकोऽपि प्रभुः प्रहर्तुं
किमुतान्यहिंस्राः” । इति रघुवंशे ।)

अन्तगः, त्रि, (अन्तं पारं गच्छति, अन्त + गम् + डः,

उपपदसमासः ।) अन्तगामी । पारगः । यथा,
“वेदान्तगोब्राह्मणः स्यात् क्षत्रियो विजयी भवेत्”
इति महाभारते विष्णुसहस्रनामफलं ॥ मृतः ।
अन्तं नाशं गच्छतीति ॥

अन्ततः, [स्] व्य, (अन्त + तस् ।) सम्भावना ।

अवयवः । पञ्चम्यर्थं । शासनं । इति विश्वः ॥
(शेषादारभ्य । प्रान्तभागेन । अग्रभागेन ।
“वैश्योऽद्भिः प्राशिताभिश्चशूद्रः स्पृष्टाभिरन्ततः”
इति मनुः ।)

अन्तर्, व्य, (अम् + अरन् तुडागमश्च ।) मध्यं ।

प्रान्तं । स्वीकारः । इति विश्वः ॥

अन्तरं, क्ली, (अन्तं राति ददाति, अन्त + रा + कः,

उपपदसमासः ।) अवकाशः । अवधिः । परि-
धानं । अन्तर्धानं । भेदः । तादर्थ्यं । अवसरः ।
मध्यं । अन्तरात्मा । छिद्रं । आत्मीयः । विना ।
वहिः । इत्यमरः ॥ सदृशः । इति तट्टीका मेदिनी
च ॥ * ॥ अवकाशे यथा । “मृणालसूत्रान्तरमप्य-
लभ्यं” । इति कुमारसम्भवे ॥ अवधौ यथा ।
“निरन्तराभ्यन्तरवातवृष्टिषु” ॥ परिधाने यथा ।
अन्तरे शाटकाः परिधानीया इत्यर्थः ॥ अन्तर्द्धौ
यथा, “पर्ब्बतान्तरितो रविः” ॥ भेदे यथा, --
“यदन्तरं सर्षपशैलराजयो-
र्यदन्तरं वायसवैनतेययोः” ।
इति रामायणं ॥ तादर्थ्ये यथा । त्वामन्तरेण ऋणं
गृहीतं त्वदर्थमित्यथेः ॥ छिद्रेयथा । “प्रहरेदन्तरे
रिपुं” ॥ आत्मीये यथा । “अयमत्यन्तरो मम” ॥
विनार्थे यथा । “हरे त्वदालोकनमन्तरेण” ॥
वहिरर्थे यथा । अन्तरे चण्डालगृहा वाह्या
इत्यर्थः ॥ अवसरे यथा । “अत्रान्तर च कुलटा
कुलवर्त्मपातेत्थादि” ॥ मध्येयथा । “आवयोर-
न्तरे जाताः पर्ब्बताः परितो द्रुमाः” ॥ सदृशे
पृष्ठ १/०५४
:यथा “हकारस्य घकारोऽन्तरतमः” । इति
भरतः ॥

अन्तरङ्गः, त्रि, (अन्तः सदृशं अङ्गं यस्य सः ।)

आत्मीयः । स्वसम्पर्कः । यथा, --
“चरमगिरिकुरङ्गी शृङ्गकण्डूयनेन
स्वपिति सुखमिदानीमन्तरङ्गः कुरङ्गः” ।
इति कालिदासः ॥

अन्तरा, व्य, (अन्तरेति अन्तर + इन् + डा, टिभाग-

लोपः ।) वर्ज्जनं । विना । यथा, --
(“न द्रक्ष्यामः पुनर्जातु धार्म्मिकं राममन्तरा” ।
इति रामायणे ।) मध्यं । निकटं । इति मेदिनी ॥

अन्तरापत्या, स्त्री, गर्ब्भिणी । अन्तरे उदरमध्ये

अपत्यं यस्याः सा ॥

अन्तरायः, पुं, (अन्तरं व्यवधानं एति, अन्त + इन्

+ अच्, षष्ठीतत्पुरुषः ।) विघ्नः । इत्यमरः ॥
(“स चेत् स्वयं कर्म्मसु धर्म्मचारिणां
त्वमन्तरायो भवसि च्युतो विधिः” ।
इति रघुवंशे ।)

अन्तरालं, क्ली, (अन्तरा मध्यं लाति, अन्तरा + ला

+ कः ।) मध्यप्रदेशः । अभ्यन्तरं । इत्यमरः ॥
(“मुहुरन्तरालभुवमस्तगिरिः सवितुश्च योषिद-
मिमीत दृशा” । इति माघः । “उदेति भानुर्ग-
गनान्तराले” । इति पद्यमाला ।)

अन्तरालकं, क्ली, (अन्तराल + स्वार्थे कन् ।)

अभ्यन्तरं । इति राजनिर्घण्टः ॥

अन्तरितं, त्रि, (अन्तरं इतं प्राप्तं द्वितीयातत्,

अथवा अन्तरं व्यवधानं जातमस्य, अन्तर + तार-
कादित्वात् इतच् ।) अन्तर्द्धानप्राप्तं । व्यवहितं ।
तत्पर्य्यायः । प्रसृतं २ । इति त्रिकाण्डशेषः ।
व्यवकलिताङ्कः । वाकि इति भाषा । इति लीला-
वती ॥

अन्तरिक्षं, क्ली, (अन्तर्मध्ये ऋक्षाणि नक्षत्राणि यस्य

तत्, पृषोदरादित्वात् ऋकारस्य इकारः । अन्त-
रीक्षमिति पाठे ऋकारस्य ईकारः ।) अन्त-
रीक्षं । आकाशं । इति छान्दसं । इत्यमरटीकायां
पुरुषोत्तमजातरूपसुभूतिरायादयः ॥
(“अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत्” ।
इति मनुः ।)

अन्तरीपं, क्ली, पुं, (अन्तर्गता आपोऽत्र, तत्, समा-

सान्तः अः, द्वन्तरुपसर्गेभ्य इति अपईदादेशः ।)
द्वोपं । इत्यमरः ॥

अन्तरीयं, क्ली, (अन्तरस्य परिधानस्य इदं अन्तर्

+ छः तस्य ईयः ।) अधोवस्त्रं । परिधानवस्त्रं ।
इत्यमरः ॥
(“नाभौ धृतञ्च यद्वस्त्रं आच्छादयति जानुनी ।
अन्तरीयं प्रशस्तं तत् अच्छिन्नमुभयोस्तयोः” ॥
इत्येवं लक्षणं)

अन्तरीक्षं, क्ली, (अन्तर्मध्ये ऋक्षाणि नक्षत्राणि यस्य

तत्, पृषोदरादित्वात् ऋकारस्य ईकारः ।)
गगनं । इत्यमरः ॥ अभ्रकधातुः । इति राज-
निर्घण्टः ।

अन्तरीक्षजल, क्ली, (अन्तरीक्षस्य आकाशस्य जलं

षष्ठीतत् ।) आकाशजलं । दिव्योदकं । इति
राजनिर्घण्टः ॥

अन्तरे, व्य (अन्तरेति अन्तर + इण् + विच् तस्य

लोपः ।) मध्यं । अभ्यन्तरं । इत्यमरः ॥

अन्तरेण, व्य (अन्तरेति अन्तर + इण + णः तस्य

नेत्वं पृषोदरादित्वात् ।) मध्यं । विना । व्यति-
रेकः । इत्यमरः ॥

अन्तर्गडः, त्रि, (अन्तर्मध्ये गडुः ग्रीवाप्रदेशजातगल-

मांसपिण्डमिव निरर्थकः ।) निरर्थकः । वृथा ।
इति हेमचन्द्रः ॥
(“काव्यान्तर्गडुभूता या सा तु नेह प्रशस्यते” ।
इति साहित्यदर्पणे ।)

अन्तर्गतं, त्रि, (अन्तः अन्तकरणात् गतं, अथवा

अन्तर्मध्ये गतं प्राप्तम् ।) विस्मृतं । मध्यप्राप्तं ।
इति हेमचन्द्रः ॥ (“अन्तर्गतशवे ग्रामे” । इति मनुः ।
“सागरान्तर्गताः केचित्केचित् पर्ब्बतमाश्रिताः” ।
इति रामायणम् । आभ्यन्तरः । हृदयमध्यस्थितः ।
अन्तःकरणस्थः । “अन्तर्गतप्रार्थनमन्तिकस्थं” ।
इति शाकुन्तले ।
“आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः” ॥
इति मनुः ।)

अन्तर्गृहं, क्ली, (गृहस्य मध्ये, अव्ययीभावः ।) गृह-

मध्यं । इति नानार्थेकोष्ठशब्दार्थे अमरः ॥ घरेर
भितर इति भाषा । (वाराणसीस्थे सप्तावरणवति
स्थानविशेषे ।
“अन्यस्थाने कृतं पापं वाराणस्यां विनश्यति ।
वाराणस्यां कृतं पापं पञ्चक्रोश्यां विनश्यति ॥
पञ्चक्रोश्यां कृतं पापं अन्तर्गृहे विनश्यति” ।
इति काशीमाहात्म्यम् ।)

अन्तर्जठरं, क्ली, (जठरस्य उदरस्य मध्ये अव्ययी-

भावः ।) कुक्षिमध्यं । कोष्ठं । इत्यमरः ॥

अन्तर्दधनं, क्ली, (अन्तर्मध्ये दध्यते मत्तता क्रियते-

ऽनेन, अन्तर् + दध् + करणे ल्युट् ।) सुरावीजं ।
इति शब्दचन्द्रिका ॥

अन्तर्दाहः, पुं, (अन्तर्मध्ये दाहः सन्तापः ।) कोष्ठसन्ता-

पः । शरीराभ्यन्तरज्वाला । इति राजनिर्घण्टः ॥

अन्तर्द्धा, स्त्री, (अन्तर्द्धानं, अन्तर् + धा + भावे

अङ् स्त्रियां टाप् ।) अन्तर्द्धानं । इत्यमरः ॥

अन्तर्द्धानं, क्ली, (अन्तर्धानं, अन्तर् + धा +

भावे ल्युट् ।) आच्छादनं । इति शब्दरत्नावली ॥
तत्पर्य्यायः । अन्तर्द्धा २ व्यवधा ३ अन्तर्द्धिः ४
अपवारणं ५ अपिधानं ६ तिरोधानं ७ पिधानं ८
छदनं ९ । इत्यमरः ॥
(“अन्तर्द्धानं स्मृतिः कान्तिर्दृष्टिः श्रोतज्ञता तथा”
इति याज्ञवल्क्यः ।)

अन्तर्द्धिः, पुं, (अन्तर्द्धानम् अन्तर् + धा + भावे कि ।)

अन्तर्द्धानं । इत्यमरः ॥

अन्तर्द्वारं, क्ली, (अन्तर्गृहमध्यस्थं द्वारं ।) प्रकोष्ठ-

द्वारं । इति भरतः ॥ गृहाभ्यन्तरद्वारं । गृहा-
भ्यन्तरप्रकोष्ठादिद्वारं जालद्वारं वा । इति स्वामी ॥
तत्पर्य्यायः । प्रच्छन्नं २ । इत्यमरः ॥ पक्षद्वारं
खड्किकाद्वारं । यथा, --
“प्रच्छन्नमन्तर्द्वारञ्च पक्षद्वारं तदुच्यते” ।
इति शवरस्वामी ॥

अन्तर्भूतः, त्रि, (अन्तर्मध्ये भूतः स्थितः, अन्तर् +

भू + कर्त्तरि क्तः ।) गुणीभूतः । अन्तःस्थः । अन्त-
रस्थः । अन्तर्गतः । यथा, --
“स एव भगवान् विष्णुरन्तर्भूतः सनातनः” ।
इति पद्मपुराणे माघमाहात्म्यं ॥

अन्तर्म्मनाः, [स्] त्रि, (वाह्यव्यापारशून्यतया अन्त-

र्गमनः चेतो यस्य सः ।) दुर्म्मनाः । विमनाः ।
व्याकुलचेताः । इत्यमरः ॥

अन्तर्यामी, [न्] पुं, (अन्तर्मध्ये यमयति स्वस्व-

कार्य्येषु इन्द्रियादीनि नियोजयति, अन्तर् +
यम् + णिच् + उपपदसमासः ।) अन्तःकरण-
नियामकः । तत्पर्य्यायः । आत्मा २ जीवः ३ पुरुषः ४
पुद्गलः ५ ईश्वरः ६ । इति त्रिकाण्डशेषः ॥ विशु-
द्धसत्वप्रधानाज्ञानोपहितचैतन्यं । इति वेदान्त-
सारः ॥ मनोगतज्ञे त्रि ॥
(“अन्तराविश्य भूतानि योबिभर्त्त्यात्मकेतुभिः ।
अन्तर्यामीश्वरः साक्षात् पातु नो यद्वशे स्फुटम्” ।

अन्तर्वंशिकः, पुं, (वंशः स्वावलम्बनयष्टिर्विद्यतेऽस्य,

वंश + ठक् तस्य इकः, अन्तः नृपान्तःपुरे वंशिक
यष्टिधारी नियुक्तः पुरुषः ।) अन्तःपुराधिकृतः
अन्तःपुराध्यक्षः । इत्यमरः ॥

अन्तर्व्वत्नी, स्त्री, (अन्तर्गर्भमध्यस्थमपत्यं विद्यते-

ऽस्याः, अन्तर् + मतुप्, अन्तर्व्वत्पतिवतोर्नुक्
इति ङीप्नुगागमौ ।) गर्भिणी । इत्यमरः ॥
(“तस्यामेवास्य यामिन्यामन्तर्वत्नी प्रजावती ।
सुतावसूत सम्पन्नौ कोषादण्डाविव क्षितिः” ॥
इति रघुवंशे ।)

अन्तर्व्वमिः, पुंः (अन्तः कुक्षिमध्यात् वमयति उद्गार-

यति अन्तर् + वम् + णिच् + इक् कृष्यादिभ्य
इति बाहुल्यात् इक् ।) अपाकः । अजीर्णः ।
इति त्रिकाण्डशेषः ॥

अन्तर्व्वाणिः, त्रि, (अन्तः अन्तःकरणे वाणी शास्त्र-

विहिता वाक् यस्य सः, ह्रस्वः ।) शास्त्रवित् ।
शास्त्रज्ञः । इत्यमरः ॥

अन्तर्व्विगाहनं, क्ली, (अन्तर्मध्ये विगाहनं प्रवेश,

अन्तर् + वि + गाह् + ल्युट् ।) प्रवेशनं । इति
हेमचन्द्रः ॥

अन्तर्व्वेदी, स्त्री, (अन्तः पृथ्वीमध्यस्थतया वेदीव ।

अन्तर्वेदि इति पाठे अन्तर्मध्ये वेदिर्यत्र देशे सः ।)
ब्रह्मावर्त्तदेशः । गङ्गायमुनयोर्म्मध्यदेशः । आ-
प्रयागहरिद्वारपर्य्यन्तदेशः । दोयाव इति पश्चिम-
देशे ख्याता । तत्पर्य्यायः । शशस्थली २ । इति
त्रिकाण्डशेषः ॥

अन्तर्हासः, पुं, (अन्तरव्यक्तोहासः हास्यं ।) अव्यक्त-

हासः । गूढहास्यं । तत्पर्य्यायः । उद्वर्द्धनं २ । इति
त्रिकाण्डशेषः ॥ तद्वति त्रि ॥ (“ततोऽन्तर्हासविका-
समुखः स तदुचितमाचचार” । इति पञ्चतन्त्रं ।
“सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे” ।
इति मेघदूतम् ।)
पृष्ठ १/०५५

अन्तर्हितं, त्रि, (अन्तर् + धा + क्तः ।) लुक्कायितं ।

गुप्तं । तत्पर्य्यायः । संवीतं २ रुद्धं ३ आवृतं ४
संवृतं ५ पिहितं ६ छन्नं ७ स्थगितं ८ अपवारितं
९ तिरोधानं १० । इति हेमचन्द्रः ॥ (“अन्तर्हिते
शशिनि सैव कुमुद्वतीमे दृष्टिं न नन्दयति संस्मर-
णीयशोभा” । इति शाकुन्तले ।)

अन्तवासी, [न्] पुं, (अन्तेऽध्येतुमध्यापकसमीपे

वसति, अन्त + वस् + णिनि उपपदसमासः ।)
अन्तेवासी । शिष्यः । इत्यमरटीकायां भरतः ॥

अन्तशय्या, स्त्री, (अन्ताय नाशाय शय्या शयनं शी

+ भावे क्यप् । स्त्रियां टाप्) भूमिशय्या । मृत्युः ।
श्मशानं । इति मेदिनी ॥
(“अन्तशय्या मृतौ भूमिशय्यायां पितृकानने” ।
इति मेदिनी ।)

अन्तावशायी, [न्] पुं, (अन्ते नीचजातितया ग्राम-

सीमायामवशेते तिष्ठति, अन्त + अव + शी +
णिनि उपपदसमासः ।) चण्डालः । मुनिविशेषः ।
इति हेमचन्द्रः ॥ नापितः । इत्यमरः ॥

अन्तिः, स्त्री, (अन्त्यते ज्येष्ठभगिनीत्वेन सम्बध्यते-

ऽसौ, अन्त + करोत्यर्थे णिच् + इक् । अन्तिकेति-
पाठे स्वार्थे कन् स्त्रियां टाप् ।) नाट्योक्तौ ज्येष्ठा
भगिनी । इति शब्दरत्नावली ॥ (अन्तिका भगिनी
ज्येष्ठेत्यमरः ।) समीपे व्य । यथा । “मुग्धप्रभीत-
वदुपेयतुरन्तिमात्रोः” । इति श्रीभागवतं ॥

अन्तिकं, त्रि, (अन्तः सामीप्येन विद्यतेऽस्य, अन्त +

ठन् तस्य इकः ।) निकटं । इत्यमरः ॥ सामीप्ये
क्ली । इति धरणी ॥ (“अन्तर्गतप्रार्थनमन्ति-
कस्थं” । “स्वनसि मृदुकर्णान्तिकचरः” । इति
शाकुन्तले । “ननु मां प्रापय पत्युरन्तिकम्” ।
इति कुमारसम्भवे ।)

अन्तिकतमः, त्रि, (अतिशयेन अन्तिकः, अन्तिक +

तम ।) अतिनिकटः । तत्पर्य्यायः । नेदिष्ठः २ ।
इत्यमरः ॥ नेदीयान् ३ अन्तितमः ४ । इति
जटाधरः ॥

अन्तिका, स्त्री, (अन्तः नाट्याय अभिनेतृसामीप्य-

मस्याः अस्ति, अन्त + ठन् तस्य इकः स्त्रियां
टाप् ।) नाट्योक्तौ ज्येष्ठा भगिनी । इत्यमरः ॥
तत्पर्य्यायः । अत्तिका २ अर्त्तिका ३ । इति
तट्टीका । चुल्ली । शातलानामौषधं । इति मे-
दिनी ॥ चामारकषा इति ख्याता ।
(“अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधौ ।
चुल्यां ज्येष्ठभगिन्याञ्च नाट्योक्त्या कथ्यतेऽन्तिका” ॥
इति मेदिनी ।)

अन्तिकाश्रयः, पुं, (अन्तिकस्य आश्रयः अवलम्बनं,

षष्ठीतत्पुरुषः ।) निकटाश्रयः । समीपस्थावल-
म्वनं । तत्पर्य्यायः । उपघ्नः २ । इत्यमरः ॥

अन्तिमः, त्रि, (अन्त + डिमच् ।) अन्ते भवः ।

चरमः । अन्त्यः । इति जटाधरः ॥
(“अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृत् दुःखकरावाद्यावन्तिमस्तु पदे पदे” ॥
इति हितोपदेशः ।) अतिनिकटः । इत्यमर-
टीकायां नीलकण्ठः ॥

अन्तेवासी, [न्] पुं, (अन्ते विद्यामध्येतुमध्यापक-

समीपे वसति । चण्डालपक्षे तु नीचजातितया
ग्रामप्रान्ते वसति शयवासेत्यलक्, अन्त + वस्
+ णिनि ।) शिष्यः ।
(“कृशाश्वान्तेवासी कुशिकपतिराज्ञापयति वः” ।
इति महावीरचरिते ।
“तात ! प्राचेतसान्तेवासी लवोऽभिवादयते” ।
इति उत्तरचरिते ।) चण्डालः । इत्यमरः ॥ प्रान्त-
स्थायिनि त्रि ॥ इति विश्वः ॥

अन्त्यं, क्ली, (अन्ते भवं, अन्त + यत् ।) दशसागर-

संख्या । सहस्रलक्षकोटिः । इति लीलावती ॥
द्वादशलग्नं । इति ज्योतिषं ॥

अन्त्यः, त्रि, (अन्ते भवः, अन्त + यत् ।) अन्ते भवः ।

शेषोत्पन्नः । अधमः । जघन्यः । इति मेदिनी ॥
(अन्तिमः । चरमः । शेषः ।
“असह्यपीडं भगवन् ऋणमन्त्यमवेहि मे” ।
इति रघुवंशे ।)

अन्त्यः, पुं, (अन्ते भवः अन्त + यत् ।) मुस्ता । इति

मेदिनी ॥ मुता घास इति भाषा । म्लेच्छः । इति
प्रायश्चित्ततत्त्वं ॥

अन्त्यजः, पुं, (अन्त्यो भूत्वा जायते, अन्त्य + जन् +

डः ।) शूद्रः । इति हलायुधः ॥ रजकादिसप्त-
जातयः । यथा, --
“रजकश्चर्म्मकारश्च नटो वरुड एव च ।
कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः स्मृताः” ॥
इति यमवचनं ॥ जघन्यजे त्रि ॥

अन्त्यजन्मा, [न्] पुं, (अन्त्यं ब्राह्मणक्षत्त्रियविशां

जन्मानन्तरं जन्म यस्य सः ।) चतुर्थवर्णः । शूद्रः ।
इति रत्नावली ॥
(“प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः” ।
इति मनुः ।)

अन्त्यजातिः, पुं, (अन्त्या जातिर्जन्म यस्य सः ।)

चाण्डालादिः । यथापस्तम्बः ।
“अन्तजातिरविज्ञातो निवसेद्यस्य वेश्मनि ।
स वै ज्ञात्वा तु कालेन कुर्य्यात्तत्र विशोधनं ॥
चान्द्रायणं पराको वा द्विजातीनां विशोधनं ।
प्राजापत्यन्तु शूद्राणां तथा संसर्गदूषणे ॥
यैस्तत्र भुक्तं पक्वान्नं कृच्छ्रं तेषां विनिर्दिशेत् ।
तेषामपि च यैर्भुक्तं तेषामर्द्धं विधीयते” ॥
इति प्रायश्चित्ततत्त्वं ॥

अन्त्यभं, क्ली (अन्त्यं शेषस्थितं भं नक्षत्रं कर्म्म-

धारयः ।) रेवतीनक्षत्रं । मीनराशिः । इति
ज्योतिषं ॥

अन्त्यवर्णः, पुं, (अन्त्यः वर्णः जातिः कर्म्मधारयः ।)

शूद्रः । इति हेमचन्द्रः ॥

अन्त्यावसायी, [न्] पुं, (अन्त्यः सन् अवस्यति,

अन्त्य + अव + सो + णिनि उपपदसमासः ।)
चाण्डालादिसप्तजातयः । यथा, --
“चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस्तथा ।
मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिनः” ॥
इति अङ्गिराः ॥ (निषादस्त्रियां चण्डालजातो
मुद्दाफरास इति ख्यातः संकीर्णजातिविशेषः ।
“निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसायिनं ।
श्मशानगोचरं सूते वाह्यानामपि गर्हितम्” ॥
इति मनुः ।)

अन्त्येष्टिः, स्त्री, (अन्त्या अन्ते भवा इष्टिः, कर्म्म-

धारयः ।) चरमसंस्कारः । स तु शवदाहादि-
रूपः । यथा, --
“सपिण्डादिभिदाशौचसंक्षेपोऽन्त्येष्टिपद्धतिः” ।
इति शुद्धितत्त्वप्रतिज्ञायां स्मार्त्तभट्टाचार्य्यः ॥ तत्-
प्रयोगो दाहशब्दे द्रष्टव्यः ॥ तदनन्तरं पूरकपिण्ड-
प्रमाणं पिण्डशब्दे द्रष्टव्यं ॥ तस्य प्रयोगोऽत्र
लिख्यते । ततः पिण्डदानं तत्र क्रमः । तण्डुल-
प्रसृतिद्वयं द्विः प्रक्षाल्य ऐशान्यां दिशि सुखिन्नं
पचेत् । ततः पवित्रपाणिः प्राचीनावीती पातित-
वामजानुर्दक्षिणामुखो हस्तप्रमाणां चतुरङ्गुलो-
च्छ्रायां दक्षिणप्लवां पिण्डिकां कृत्वा तदुपरि
रेखां कृत्वा दर्भानास्तीर्य्य तिलान् प्रक्षिप्य ।
ॐ अमुकगोत्रप्रेतामुकदेवशर्म्मन्नवनेनिक्ष्व इत्या-
स्तीर्णकुशोपरि सतिलजलेनावनेजयेत् । तत-
स्तिलमधुघृतादिमिश्रं तप्तपिण्डं गृहीत्वा अद्या-
मुकगोत्रस्य प्रेतस्यामुकदेवशर्म्मणः एतत् प्रथम-
पिण्डं पूरकं इत्यवने जनस्थाने दद्यात् । ततः
पिण्डपात्रक्षालनजलेन पुनरवनेजयेत् । ॐ अमुक-
गोत्रप्रेतामुकदेवशर्म्मन्नेतत्ते ऊर्णातन्तुमयं वासः ।
ततः आममृण्मयपात्रे जलाञ्जलिं पिण्डसमीपे
स्थापयेत् । गन्धं माल्यञ्च यथाशक्ति दद्यात् ।
वाष्पपर्य्यन्तं पिण्डं पश्यंस्तिष्ठेत् । ततः पिण्डा-
दिकं जले क्षिपेत् । कालेऽप्यकृतचूडोपनयनानां
अनूढकन्यानाञ्च कुशास्तरणं विनेति शेषः । एवं
कृतचूडानामुपनयनकालात् प्राक् दर्भोपरि पिण्ड-
दानं । उपनयनकाले आगते त्वकृतोपनयनानां
दर्मोपरि पिण्डदानं । एवं अष्टवर्षविवाहकाले
आगते ऊढस्त्रीणां दर्भोपरि पिण्डदानं । रात्रा-
वाचम्य दक्षिणामुखः प्राचीनावीती पातितवाम-
जानुः त्रिकाष्ठिकोपरि मृण्मयपात्रे उदकं तथा
पात्रान्तरे क्षीरं निधाय प्रेतात्र स्नाहि पिब
चेदं क्षीरमिति ब्रूयात् । तदेकरात्रमावश्यकं
दशरात्रं फलभूयस्त्वार्थमिति । द्वितीयपिण्डादिषु
द्वितीयं पिण्डं पूरकं इत्यादिविशेषः । द्वितीय-
पिण्डे मृण्मयपात्रद्वये जलाञ्जलिद्वयं । तृतीयादि-
पिण्डे पात्रादिवृद्धिः । येन पञ्चपञ्चाशत् पा-
त्राण्यञ्जलयश्च तावन्ति । त्र्यहाशौचप्रथमदिने
पिण्डानां त्रयं । द्वितीयदिने चतुष्टयं । तृतीये
त्रयं । प्रथममेकं द्वितीये चतुष्टयं । तृतीये पञ्चमं
वा कल्पः । चतुरहाशौचे प्रथमचतुर्थयोर्द्वौ द्वौ ।
द्वितीयतृतीययोस्त्रयस्त्रयः । पञ्चाहाशौचे तु प्र-
थमपञ्चमदिनयोरेकैकशः पिण्डः । द्वितीयचतु-
र्थयोर्द्वौ द्वौ । तृतीये चत्वारः । षडहाशौचे द्वि-
तीयचतुर्थदिनयोस्त्रयस्त्रयः । शेषेष्वेकैकः । सप्ता-
हाशौचे तृतीयचतुर्थपञ्चमदिनेषु द्वौ द्वौ । शेषे-
ष्वेकैकः । अष्टाहाशौचे चतुर्थपञ्चमदिनयोर्द्वौ
द्वौ । शेषेष्वेकैकः । नवाहाशौचे तु पञ्चमदिने
द्वौ । शेषेष्वेकैकः । पक्षिणीद्व्यहाशौचयोस्त
पृष्ठ १/०५६
:आद्यद्वितीयदिनयोः पञ्च पञ्च पिण्डाः । द्वादशा-
हाद्यशौचे नवदिनेषु नवपिण्डाः । शेषदिने दशमः ।
सद्यः शौचैकाहयोरेकाह एव दशपिण्डाः । अशौ-
चान्तमध्ये पिण्डो देयः रात्रावपि ॥ * ॥
गङ्गाम्भस्यस्थिप्रक्षेपप्रयोगस्तु । ततः स्नात्वा-
चम्य उदङ्मुखः कुशत्रयजलान्यादाय ॐ तत्सदित्यु-
च्चार्य्य अद्यामुकेत्यादि अमुकस्य एतदस्थिसम-
संख्यकवर्षसहस्रावच्छिन्नस्वर्गाधिकरणकमहीय-
मानत्वकामोऽमुकस्यैतान्यस्थिखण्डानि गङ्गायां प्र-
क्षिपामीति सङ्कल्प्यापसव्यं कृत्वास्थीनि पञ्चगव्येन
सिक्त्वा हिरण्यमध्याज्यतिलैः संयोज्य मृत्तिकापुटे
स्थापयित्वा दक्षिणहस्तेन तत्पुटकमादाय दक्षिणां
दिशं पश्यन् ॐ नमोऽस्तु धर्म्मराजायेति वदन्
जलं प्रविश्य स मे प्रीतो भवत्वित्युक्त्वास्थि प्रक्षि-
पेत् । ततो मज्जनं कृत्वोत्थाय सूर्य्यं दृष्ट्वा दक्षि-
णामुत्सृजेत् । इति शुद्धितत्त्वं ॥ * ॥ किञ्च शातातपः ।
“जलमेकाहमाकाशे स्थाप्यं क्षीरञ्च मृण्मये” ।
पारस्करः । मृण्मये तां रात्रिं क्षीरोदके विहा-
यसि निदध्युः । प्रेतात्र स्नाहीत्युदकं पिब चेदं
क्षीरं । इदं रात्राविति गौडाः । गारुडे तु ।
“अपक्वे मृण्मये पात्रे दुग्धं दद्यात् दिनत्रयम्” ।
इत्युक्तं । हेमाद्रौ पाद्मे तु दशाहमुक्तं ।
“तस्मान्निधेयमाकाशे दशरात्रं पयो जलं ।
सर्व्वतापोपशान्त्यर्थमध्वश्रमविनाशनं” ॥
देवजानीये कारिकायां ।
“तत्र प्रेतोपकृतये दशरात्रमखण्डितं ।
कुर्य्यात् प्रदीपं तैलेन वारिपात्रञ्च मार्त्तिकं ॥
भोज्यात् भोजनकाले तु भक्तमुष्टिञ्च निर्व्वपेत् ।
नाभगोत्रेण सम्बुध्य धरित्र्यां पितृयज्ञवत्” ॥
इति निर्णयसिन्धौ ५ परिच्छेदः ॥

अन्त्रं, क्ली, (अन्त्यते कायः सम्बध्यतेऽनेन अति बन्धने

करणे ष्ट्रन् ।) पुरीतत् । इत्यमरः ॥ आँत्डी
(आँत् इति भाषा । आँत् इति ख्यातः देहबन्धको
नाडीभेदः ।
उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि सूरिभिः ।
अर्द्धव्यामेन हीनानि स्त्रीणामन्त्राणि निर्दिशेत् ॥
इति वैद्यकम् ।)

अन्त्रवृद्धिः, स्त्री, पुं, (अन्त्रजन्या वृद्धिः, शाक-

पार्थिवादित्वात् समासः मध्यपदलोपश्च ।) रोग-
विशेषः । तन्निदानादि यथा, --
“वातकोपिभिराहारैः शीततोयावगाहनैः ।
धारणे रणभाराध्वविषमाङ्गप्रवर्त्तनैः ॥
क्षोभणैः क्षोभितान्यैश्च क्षुद्रान्तावयवं यदा ।
पवनो द्विगुणीकृत्य स्वनिवेशादधो नयेत् ॥
कुर्य्याद्वंक्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा” ।
धारणं उपस्थितस्य वेगस्य । ईरणं अनुपस्थितस्य
वेगस्य प्रेरणं ।
“विषमाङ्गप्रवर्त्तनं वक्रत्वेनाङ्गमोटनं” ।
अन्यानि क्षोभणानि च बलवद्विग्रहकठोरधनुरा-
कर्षणादीनि । तैः क्षोभितः संदूष्य सञ्चालितः
पवनः यदा क्षुद्रान्त्रावयवं द्विगुणीकृत्य स्वनिवेशा-
दधो नयेत् । तदा वंक्षणसन्धिस्थः सन् वंक्षण-
सन्धौ ग्रन्थिरूपं श्वयथुं कुर्य्यात् इत्यर्थः ॥ * ॥
उपेक्षिताया अन्त्रवृद्धेरवस्थामाह ।
“उपेक्षमाणस्य मरुद्विवृद्धि-
माध्मानरुक् स्तम्भवतीञ्च कुर्य्यात् ।
स पीडितोऽन्तः स्वनवान् प्रयाति
प्रध्मापयन्नेति पुनश्च मुक्तः ॥
उपेक्षमाणस्य वृद्धिमित्यर्थः । मरुद्वृद्धिं मुष्क-
वृद्धिं । आध्मानरुक् स्तम्भवतीं कुर्य्यात् । तत्रा-
ध्मानमुदरे रुक् वृद्धयोर्मुष्कयोः स्तम्भो गात्रे तद्-
युक्तां कुर्य्यात् इत्यर्थः । भोजोऽप्याह ।
“अन्त्रं द्विगुणमादाय वातो नयति वंक्षणं ।
वंक्षणात्तद्रुजा युक्तं फलकोष्यां प्रपद्यते” ॥
स मुष्कवृद्धिः । अन्तः उदरे प्रध्मापयन् आग-
मनमार्गमुच्छूनं कुर्व्वन् एति प्रयाति ॥ * ॥ अ-
साध्यमाह ।
“यश्चान्त्रावयवश्लिष्टान्मुष्कयोर्व्वातसञ्चयात् ।
स्यादन्त्रवृद्धिः सोऽसाध्यो वातवृद्धिसमाकृतिः” ॥
स कीदृक् स्यादित्याकाङ्क्षायामाह । वातवृद्धि-
समाकृतिः ॥ * ॥ सामीप्यादत्रैव ब्रध्नमाह ।
“अत्यभिष्यन्दिगुर्व्वन्नशुष्कपूत्यामिषाशनात् ।
करोति ग्रन्थिवच्छोथं दोषो वंक्षणसन्धिषु ॥
ज्वरशूलाङ्गसादाढ्यं तं ब्रध्नमिति निर्दिशेत्” ॥ * ॥
अथ वृद्धेश्चिकित्सा ।
“वृद्धावत्यासनं मार्गमुपवासं गुरूणि च ।
वेगाघातं पृष्ठयानं व्यायामं मैथुनं त्यजेत् ॥
वातवृद्धौ पिबेत् स्निग्धं यथाप्राप्तं विरेचनं ।
सक्षीरं वा पिबेत् तैलं मासमेरण्डसम्भवं ॥
गुग्गुल्वेरण्डजं तैलं गोमूत्रेण पिबेन्नरः ।
वातवृद्धिं जयत्याशु चिरकालानुबन्धिनीं ॥
पित्तग्रन्थिक्रमेणैनं पित्तवृद्धिमुपाचरेत् ।
जलौकाभिर्हरेद्रक्तं वृद्धौ पित्तसमुद्भवे ॥
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलं ॥
क्षीरपिष्टप्रलेपेन दाहशोथरुजापहं ॥
त्रिकटुः त्रिफलाक्वाथं सक्षारं लवणं पिबेत् ।
विरेचनमिदं श्रेष्ठं कफवृद्धिविनाशनं ॥
लेपनं कटुतीक्ष्णोष्णं स्वेदनं रूक्षमेव च ।
परिषेकोपनाहौ च सर्व्वमुष्णमिहेष्यते ॥
मुहुर्मुहुर्जलौकाभिः शोणितं रक्तजे हरेत् ।
पिबेद्विरेचनं वापि शर्कराक्षौद्रसंयुतं ॥
शीतमालेपनं सर्व्वं सर्व्वं पित्तहरं तथा ।
पित्तवृद्धिक्रमं कुर्य्यादामे पक्वे च रक्तजे ॥
स्वेदोमेदः समुत्थे तु लेपयेत् सुरसादिना ।
शिरो विरेचनद्रव्यैः सुखोष्णैर्मूत्रसंयुतैः ॥
संसेद्य मूत्रप्रभवं वस्त्रपट्टेन वेष्टयेत् ।
सीवन्याः पार्श्वतोऽधस्तात् विध्यद्व्रीहिमुखेन वै ॥
मुष्कशोथमगच्छन्त्यामन्त्रवृद्धौ विचक्षणः” ।
व्रीहिमुखेन शस्त्रविशेषेण । अगच्छन्त्यां अस्र-
वत्यां ॥
“तैलमेरण्डजं पीत्वा बलासिद्धं पयोन्वित ।
आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः ॥
रास्नायष्ट्यमृतैरण्डवलारग्वधगोक्षुरैः ।
पटोलेन वृषेणापि विधिना विहितं मृतं ॥
रुवुतैलेन संयुक्तमन्त्रवृद्धिं व्यपोहति” ।
रास्नादिक्वाथः ॥ * ॥
“गन्धर्व्वहस्ततैलेन वृषेणापि युतं पिबेत् ।
विशालामूलजं चूणं वृद्धिं हन्यान्न संशयः” ॥
विशाला इन्द्रवारुणी ॥ * ॥
“वचासर्षपकल्केन प्रलेपः शोथनाशनः ।
शिग्रुत्वक्सर्षपैः पिष्टैः शोथश्लेष्मानिलापहः ॥
शुद्धसूतं द्विधागन्धं मृतान्येतानि योजयेत् ।
लोहं रङ्गं तथा ताम्रं कांस्यञ्चाथ विशोधितं ।
तालकं तुत्थकं वापि तथा शङ्खं वराटकं ॥
त्रिकटु त्रिफला चव्यं विडङ्गं वृद्धदारकं ॥
कर्च्चूरं मागधीमूलं पाठां सहवुषां वचां ।
एलावीजं देवकाष्ठं तथा लवणपञ्चकं ॥
एलादिसमभागानि चूर्णयेदथ कारयेत् ।
कषायेण हरीतक्या वटिकां टङ्कसम्मितां ॥
एकां तां वटिकां यस्तु निगिलेद्वारिणा सह ।
अण्डवृद्धिरसाध्योऽपि तस्य नश्यति सत्वरं” ॥
वृद्धिवाधिकावटी ॥ * ॥ अथ ब्रध्नस्य चिकित्सा ।
“भृष्टश्चैरण्डतैलेन सम्यक् कल्कोऽभयाभवः ।
कृष्णासैन्धवसंयुक्तो ब्रध्नरोगहरः परः ॥
अजाजीहवुषाकुष्ठं गोमेदवदरान्वितं ।
काञ्जिकेन तु संपिष्टं तल्लेपो ब्रध्नजित् परः” ॥
गोमेदं पत्रं । तथा च निर्घण्टौ धन्वन्तरिः ।
“पत्रं हलाह्वयं रामं गोमेदं वसनाह्वयं” ।
इतिवृद्धिब्रध्नधिकारः । इति भावप्रकाशः ॥

अन्दिका, स्त्री, (अन्दति नाट्याय ज्येष्ठभगिनीत्वं

सम्बध्नाति, अदि + ण्वुल् स्त्रियां टाप् । नाट्योक्तौ
ज्येष्ठभगिनी इत्यमरटीकायां ।) अन्तिका ।
चुल्ली । इत्यमरटीकायां नीलकण्ठः ॥ चुला
इति भाषा ।

अन्दुः, स्त्री, (अन्द्यते बध्यतेऽनेन, अदि + करणे

उण्बाहुल्यात् ।) हस्तिनिगडः । आँदुया इति
भाषा । स्त्रीपादभूषणं । इति हेमचन्द्रो भूरिप्रयो-
गश्च ॥ मल पञ्चम इत्यादि भाषा ।

अन्दुकः, पुं, (अन्द्यते बध्यतेऽनेन, अदि + करणे

उण्, ततः स्वार्थे कन् ।) हस्तिपादबन्धनशृङ्खलः ।
तत्पर्य्यायः । निगडः २ । इत्यमरः ॥ पादालङ्कार-
विशेषः । तत्पर्य्यायः । पादकटकः २ । इति त्रि-
काण्डशेषः ॥

अन्दूः, स्त्री, (अन्द्यते वध्यतेऽनेन, अदि + उण् ततः

ऊङुत इति स्त्रियां ऊङ् ।) हस्तिपादवन्धन-
लौहनिगडः । आन्दुया इति भाषा । स्त्रीपाद-
भूषञं । भल गुजरी इत्यादि भाषा । इति
मेदिनी ॥ (निगडः । शृङ्खला । वन्धनरज्जुः ।
अन्दः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च । इति
मेदिनी ।)

अन्दूकः, पुं, (अन्दू + स्वार्थे कन्, पृषोदरादित्वात्

पक्षे केहण इति ह्रस्वाभावः । स्वार्थिकप्रत्ययाः
प्रकृतितो लिङ्गवचनान्यतिक्रामन्ति इति पुंस्त्व
मन्यथा अन्दूका इति स्यात् ।) अन्दूः । इत्यमर-
टीकायां स्वामी ॥ अन्धत् क दृक्क्षये । इति
कविकल्पद्रुमः ॥ (पाणिनिमते तु अन्धदृष्टि
पृष्ठ १/०५७
:विघाते चुरादि सेट् ।) दृक्क्षयो दृष्टिरहिती-
भावः । तेनाकर्म्मकोऽयं । सत्ताजीवनदर्पभीति-
शयनक्रीडानिवासक्षयाव्यक्तध्वाननभोगतिस्थिति-
जरालज्जाप्रमादोदये । मोहे खोटनवेगयुद्धदहन-
ख्यातिक्षरोन्मादके शुद्धिस्वेदपलायनभ्रमणके
शान्तौ प्लुतौ मज्जने ॥ दृप्तौ जागरशोषवक्रगम-
नोत्साहे मृतौ संशये म्लानौ मन्दगतौ च नृत्य-
पतने चेष्टाक्रुधौ रोदने । वृद्धौ हावकृतौ च
सिद्धिविरतौ हर्षोपवेशे बले कम्पोद्बेगनिमेषभङ्ग-
यतनाद्ये धातवोऽकर्म्मकाः ॥ दौर्बल्यादिषु चा-
र्थेषु वर्त्तमानास्तु धातवः । वाचका भावमात्रस्य
यतस्तस्मादकर्म्मकाः ॥ कौटिल्यादिषु चार्थेषु प्रोक्ता
ये ते तु धातवः । तद्वद्भावेऽकर्म्मकाः स्युस्तद्वत्-
कृत्यां सकर्म्मकाः ॥ इति । अन्धयति अन्धापयति
वृद्धः । इति दुर्गादासः ॥

अन्धं, क्ली, (अन्ध + अच् ।) अन्धकारः ।

(“सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा” ।
इति उत्तरचरिते ।) जलं । इति मेदिनी ।

अन्धः, त्रि, (अन्ध + अच् ।) चक्षुर्द्वयहीनः । आन्धा

आँध्ला इति हिन्दी भाषा । तत्पर्य्यायः । अ-
दृक् २ । इत्यमरः । (“वृद्धोऽन्धः पतिरेष मञ्चक-
गतः” । इति साहित्यदर्पणे ।
“अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।
यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभाङ्गतः” ।
इति मनुः ।)

अन्धः, [स्] क्ली, (अन्ध + असुन् ।) अन्नं । इत्य-

मरः ॥

अन्धकः, पुं, (अन्ध + ण्वुल् ।) देशभेदः । इति

शब्दरत्नावली ॥ नृपभेदः ।
(“सुदंष्ट्रं च सुचारुं च कृष्णमित्यन्धकास्त्रयः” ।
इति हरिवंशे ।) असुरभेदः । इति महाभारतं ॥
(“स व्रजत्यन्धवद्यस्मादनन्धोऽपि हि भारत ।
तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र निवासिनः” ।
इति हरिवंशे ।) मुनिविशेषः । इति याज्ञ-
वल्क्यः ॥ (दृष्टिहीनः । चक्षुर्द्वयहीनः ।
“अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी ।
त्रयोऽप्यन्यायतः सिद्धाः सम्मुखे कर्म्मणि स्थिते” ॥
इति पञ्चतन्त्रे ।)

अन्धकरिपुः, पुं, (अन्धकस्य असुरस्य रिपुः नाशक-

तया शत्रुः, षष्ठीतत्पुरुषः ।) शिवः । इत्यमरः ॥
श्लेषकाव्यादौ अन्धकारनाशकत्वात् सूर्य्याग्नि-
चन्द्रेषु च वर्त्तते ॥

अन्धकारः, पुं, क्ली, (अन्धमन्धकवत् करोति, अन्ध

+ कृ + अण् ।) तेजःसामान्याभावः । आँधार
इति भाषा । तत्पर्य्यायः । ध्वान्तं २ तमिस्रं ३
तिमिरं ४ तमः ५ । इत्यमरः ॥ (“अथान्धकारं
गिरिगह्वराणां” । इति रघुवंशे ।) भूच्छायं ६ ।
इति राजनिर्घण्टः ॥ महान्धकारे अन्धतमसं ।
७ सर्व्वव्यापकान्धकारे सन्तमसं । ८ अल्पान्धकारे
अवतमसं ९ । इत्यमरः ॥ अस्य गुणाः । भयदृष्टि-
तेजोऽवरोधकारित्वं । तिक्तत्वं । सर्व्वव्याधिकर-
त्वञ्च । इति राजवल्लभः ॥

अन्धकासुहृद्, पुं, (अन्धकस्य असुरस्य असुहृत्,

नाशकतया शत्रुः, षष्ठीतत्पुरुषः ।) शिवः । इति
हेमचन्द्रः ॥

अन्धकूपः, पुं, (अन्धमन्धकारं करोति, अन्ध + करो-

त्यर्थे णिच् + पचाद्यच्, तादृशः कूपः ।) सान्ध-
कारकूपः । इति त्रिकाण्डशेषः ॥ आँधुया पात्कुया
इति भाषा ।
(“मज्जत्यात्मा भक्तिहीनो महामोहमये भवे ।
अन्धकूपे निरालम्बश्छिन्नरज्जुर्यथा घटः” ॥
इति सद्भावे ।)

अन्धतमसं, क्ली, (अन्धयति, अन्ध + अच्, अन्धं

तमः कर्म्मधारयः, समासान्त अच् ।) निविडा-
न्धकारं । इत्यमरः ॥
(“प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः” ।
इति शिशुपालबधे ।)

अन्धतामसं, क्ली, (तम एव तामसं प्रज्ञादित्वात्

स्वार्थे अण् ।) निविडान्धकारं । महान्धकारं ।
इत्यमरटीकायां स्वामी ॥

अन्धतामिस्रं, क्लीं, (तमिस्रैव तामिस्रं, स्वार्थे अण्,

अन्धं निविडं तामिस्रं कर्म्मधारयः ।) निविडा-
न्धकारमयनरकविशेषः । पञ्चप्रकाराज्ञानान्तर्ग-
ताज्ञानविशेषः । देहनाशे अहमेव मृतोऽस्मीति
बुद्धिः । इति भारतभागवते, --
(“एकविंशतिविधनरकान्तर्गतद्वितीयनरकवि-
शेषः” स च निविडान्धकारमयः । “तस्यां धर्म्म-
पत्न्यामन्धतामिस्रमभ्यध्यायत्” । इति महावीर-
चरिते ।)

अन्धमूषिका, स्त्री, (अन्ध दृष्टिविघाते, अन्ध + भावे

घञ्, अन्धं दृष्टिविघातं मुष्णाति तत्सेवनेन नाश-
यति, मुष् + ण्वुल् पृषोदरादित्वात् दीर्घः स्त्रियां
टाप् ।) देवताडवृक्षः । इति शब्दचन्द्रिका ॥

अन्धाहिः, पुं, स्त्री, (अन्धः अहिः सर्पैव ।) मत्स्य-

भेदः । इति त्रिकाण्डशेषः ॥ कुँचिया इति ख्यातः ।

अन्धिका, स्त्री, (अन्ध + ण्वुल् स्त्रियां टाप् ।) द्यूत-

विशेषः । रात्रिः । इति मेदिनी ॥ सर्षपी । इति
हेमचन्द्रः ॥ स्त्रीविशेषः । चक्षूरोगविशेषः । इति
शब्दरत्नावली ॥

अन्धुः, पुं, (अन्ध + उण् ।) कूपः । इत्यमरः ॥

अन्धुलः, पुं, (अन्ध + उलच् ।) शिरीषवृक्षः इति

शब्दचन्द्रिका ॥

अन्ध्रः, पुं, (अन्धयति गीतेन मृगान् अन्धवत्

करोति, अन्ध + कर्त्तरि रः ।) व्याधः । मृगया-
जीवी । इति कश्चित् संग्रहकारः । (वैदिहिकात्
कारावरस्त्रियां जातो जातिविशेषः, स तु सततं
ग्रामवहिर्वासी मृगयाजीवी च ।
“कारावरनिषादात् तु चर्म्मकारः प्रसूयते ।
वैदिहिकादन्ध्रमेदौ वहिर्ग्रामप्रतिश्रयौ” ॥
इति मनुः ।)

अन्नं, क्ली, (अद् + कर्म्मणि क्तः ।) स्विन्नतण्डुलं ।

यथा, --
“शस्यं क्षेत्रगतं प्राहुः सतुषं धान्यमुच्यते ।
आमं वितुषमित्युक्तं स्विन्नमन्नमुदाहृतं” ॥
इति श्राद्धतत्त्वधृतवशिष्ठवचनं ॥ तत्पर्य्यायः ।
भक्तं २ अन्धः ३ भिस्मा ४ ओदनं ५ दीदिविः ६ ।
इत्यमरः ॥ भिस्सा ७ । इति तट्टीका ॥ क्रूरं ८ ।
इति राजनिर्घण्टः ॥ अट्टं ९ कसिपुः १० जीवातुः
११ । इति जटाधरः ॥ कूरं १२ आपूपिकं १३
जीवन्तिः १४ प्रसादनं १५ । इति शब्दरत्ना-
वली ॥ * ॥ अस्य गुणाः । बुद्धिशुक्रप्रीतिपुष्टि-
धात्विन्द्रियबलकारित्वं । गुरुत्वं । क्षुधाक्षयरोग-
श्रमकार्श्यनाशित्वञ्च ॥ * ॥ नवान्नगुणाः । श्लेष्म-
कारित्वं । स्वादुत्वं । सुस्निग्धत्वं । वृंहणत्वं । गुरु-
त्वञ्च ॥ * ॥ पुराणान्नगुणाः । विरसत्वं । रूक्षत्वं ।
पथ्यत्वं । अग्निकारित्वञ्च ॥ * ॥ उष्णान्नगुणाः ।
प्रशंसनीयत्वं । हृद्यत्वं । अग्निकारित्वं । वायुश्लेष्म-
नाशित्वं । रक्तपित्तप्रकोपकारित्वञ्च ॥ * ॥ अत्यु-
ष्णान्नगुणः । बलनाशित्वं ॥ * ॥ शीतशुष्कान्नयो-
र्गुणः । दुर्ज्जरत्वं ॥ * ॥ अतिक्लिन्नान्नगुणः । ग्लानि-
कारित्वं ॥ * ॥ तण्डुलान्वितान्नगुणः । दुर्जरत्वं ॥ * ॥
जलधौतसद्योऽन्नगुणाः । शीघ्रपाकित्वं । हिमत्वं ।
लघुत्वञ्च ॥ * ॥ रात्रिस्थितजलयुक्तान्नगुणौ । त्रि-
दोषकोपकारित्वं । रूक्षत्वञ्च ॥ * ॥ भृष्टतण्डुलान्न-
गुणौ । लघुत्वं । अग्निप्रदीपनत्वञ्च । इति राज-
वल्लभः ॥ * ॥ धान्यं । इति राजनिर्घण्टः ॥ विष्णुः ।
इति तस्य सहस्रनामभध्ये पठितं ॥ अदनीयद्रव्य-
मात्रं ॥ अन्नसाधनं यथा, --
“सुधौतांस्तण्डुलान् स्फीतांस्तोये पञ्चगुणे पचेत् ।
तद्भक्तं प्रसृतं चोष्णं विषदं गुणवन्मतं” ॥
तद्गुणाः ।
“भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ।
अधौतमस्रुतं शीतं गुर्व्वरुच्यं कफप्रदं” ॥
इति भावप्रकाशः ॥ * ॥ तद्दानफलं यथा, --
“वारिदस्तृप्तिमायाति सुखमक्षय्यमन्नदः” ॥
अन्नस्य प्रजापतिर्द्देवता । अक्षयसुखप्राप्तिः फलं ।
प्रतिग्रहे मुष्टिग्रहणं । इति शुद्धितत्त्वं ॥ अपि च,
“ब्रह्महत्याकृतं पापं अन्नदानात् प्रणश्यति ।
अन्नदः पापकर्म्मापि पूतः स्वर्गे महीयते” ॥
इति प्रायश्चित्ततत्त्वं ॥ * ॥ अथ प्रजापतिदैवतान्न-
दानावर्त्तः । तत्र अन्नदानस्तुतिः । ब्रह्मपुराणे ।
“अन्ने प्रतिष्ठिता लोका अन्नमाश्वक्षयं परं ।
तस्मादन्नं प्रशंसन्ति सदैव पितृमानवाः ॥
अन्नस्य हि प्रदानेन नरो याति परां गतिं ।
सर्व्वकामसमायुक्तः प्रेत्य चेहाधिकं शुभं” ॥
तथा, --
“अन्नमूर्ज्जस्वलं लोके दत्त्वोर्ज्जस्वी भवेन्नरः ।
सतां पन्थानमाश्रित्य सर्व्वपापैः प्रमुच्यते” ॥
महाभारते ।
“अन्नदः पशुमान् पुत्त्री धनवान् भोगवानपि ।
प्राणवांश्चापि भवति रूपवांश्च तथा नृप” ॥
तथा, --
“अन्नदस्य मनुष्यस्य बलमोजो यशांसि च ।
कीर्त्तिश्च वर्द्धते शश्वत्त्रिषु लोकेषु पाण्डव” ॥
आग्नेयपुराणे । अन्नस्तुत्यनन्तरं ।
“तस्मादन्नं सदा देहि श्रद्धया नृपसत्तम ।
पृष्ठ १/०५८
:ब्रह्महत्यादिकं पापं अन्नदस्य प्रणश्यति” ॥
तथा, --
“अन्नदानात् परं दानं न भूतं न भविष्यति ।
पुण्यं यशस्यमायुध्यं बलपुष्टिविवर्द्धनं ॥
सर्व्वमन्नस्य दानेन भवतीति विनिश्चयः ।
महाकाञ्चनचित्राणि सेवितान्यप्सरोगणैः ॥
अन्नदस्योपतिष्ठन्ति विमानानि सुरालये ।
भक्ष्यभोज्यमयाः शैला दिव्यरूपाद्यलङ्कृताः ॥
हृष्टपुष्टजना नित्यमुपतिष्ठन्ति चाग्रतः ।
हस्त्यश्वरथयानैश्च क्रीडमानाश्च ते नराः” ॥
पद्मपुराणे ।
“आपर्ब्बतनदी वापी पृथिवी सर्व्वकामदा ।
विधिना तेन सा दत्ता योऽन्नं ददाति सर्व्वदा ।
क्षुधिते यः प्रयच्छेत अन्नं श्रद्धासमन्वितः ।
ब्रह्मणो भवने स वै ब्रह्मणा सह मोदते ॥
चान्द्रवारुणलोकाश्च याम्याः कौवेरकास्तथा ।
गोलोको ब्रह्मलोकश्च सर्व्वे चान्ने प्रतिष्ठिताः ॥
ददत् कन्यामलङ्कृत्य हस्त्यश्वञ्च महाधनं ।
अन्नदानस्य चैतानि कलां नार्हन्ति षोडशीं” ॥
विष्णुधर्म्मात्तरे ।
“यावतो ग्रसते ग्रासान् विद्वान् विप्रः सुसंस्कृतः ।
अन्नप्रदस्य तावन्तः क्रतवः परिकीर्त्तिताः” ॥ * ॥
अथान्नदानधर्म्माः । यमः ।
“आदरेण च भक्त्या च यदन्नमुपदीयते ।
तत् प्रीणयति पात्राणि मामृतं मानवर्ज्जितं ॥
दुर्लभस्तु मुदा दाता मुदा भोक्ता च दुर्लभः ।
मुदा दाता च भोक्ता च तावुभौ स्वर्गगामिनौ ॥
योऽन्नं बहुमतं भुङ्क्ते यश्चान्नं नावमन्यते ।
यश्चान्नं प्रीतितो दद्यात् तस्यान्नमुपतिष्ठते ॥
प्रीतितोऽन्नञ्च यो दद्यात् गृह्नीयात्योऽभिपूज्य च ।
प्रीतितोऽक्षयमश्राति पूजितः स्वर्गमश्नुते ॥
यो दद्याद्विप्रियेणान्नं यश्चान्नं नाभिनन्दति ।
तावुभौ नरके मग्नौ वसेतां शरदां शतं” ॥ * ॥
अथान्नदानविशेषफलविशेषपरिभाषा ।
कूर्म्मपुराणे ।
“गृहस्थायान्नदानेन फलं नाप्नोति मानवः ।
आममेवास्य दातव्यं दत्त्वाप्नोति परां गतिं” ॥
अन्नदानेन पक्वान्नदानेन फलं नाप्नोति ।
इति गृहस्थायामान्नदानेन यादृशं फलं तादृशं
पक्वान्नदानेन नाप्नोतीत्यर्थः । गृहस्थस्यामान्नदाने
सति तस्य पञ्चयज्ञनिष्पत्तेः ॥ * ॥
अथ सामान्यान्नदानं नन्दिपुराणे ।
“अन्नाद्भुतानि जातानि देवा ह्यन्नाद्यकाङ्क्षिणः ।
न तस्य पात्रादिविधिर्व्विना श्राद्धं प्रकीर्त्तितः” ॥
तथा, --
“अपि कीटपतङ्गानां शुनां चाण्डालयोनिनां ।
दत्त्वान्नं लोकमाप्नोति प्राजापत्यं समासतः ॥
बान्धवेभ्योऽतिथिभ्योऽन्नं पुत्त्रेभ्योऽन्नं प्रयच्छतः ।
दीनान्धकृपणानाञ्च स्वर्गः स्यादन्नदायिनां ॥
ग्रासमात्रं नरो दत्त्वा अन्नानामन्नगृध्नवे ।
स्वर्गे वसेत् समानान्तु शतं भोगैर्म्मनोरमैः ॥
ग्रासे ग्रासे फलं ह्येतद्विधिवत् परिकीर्त्तितं ।
एतदेवायने प्रोक्तं द्विगुणं पुण्यगौरवं ॥
अन्नं विना कृशाङ्गस्य दत्त्वान्नं देशकालतः ।
फलं पञ्चगुणं प्रोक्तं सर्व्वभावसमन्वित” ॥
सर्व्वभावसमन्वित इति सम्बोधनं । अत्र यज-
मानः प्राणिमात्रेभ्यो गृहीतोदपूर्णताम्रपात्रः
उदङ्मुखः सङ्कल्प्य यथेष्टकालावधि अन्नं दद्यात् ।
तद्यथा । ॐ नन्दिपुराणोक्तप्राणिमात्रान्नदान-
फलप्राप्तिकामोऽहं प्राणिभ्योऽन्नं दास्ये । तदवधि
यथासम्भवं प्राणिमात्रेभ्यः स्वगृहे अन्यत्र वा
भक्तशालां कृत्वा अविच्छिन्नमन्नं देयं । अतएव
धार्म्मिकास्ताम्रपट्टविलिखितां भूमिं समुपकल्प्य
आचन्द्रार्कस्थायिनीं भक्तशालां ददाति ॥ * ॥
वायुपुराणे ।
“क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षिते ।
सव्यञ्जनं सदा स्निग्धं भक्ष्यं सत्कृत्य यत्नतः” ॥
क्षिप्रमतिथिप्राप्त्यनन्तरमेव । अक्लिष्टमनुपहतं ।
भक्ष्यमप्रतिषिद्धं ।
“तरुणादित्यसङ्काशं विमानं हंसवाहनं ।
अन्नदो लभते तिस्रः कल्पकोटीस्तथैव च ॥
अन्नदानात् परं दानं न भूतं न भविष्यति ।
अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ॥
जीवदानात् परं दानं न किञ्चिदपि विद्यते ।
अन्नाज्जीवति त्रैलोक्यं त्रैलोक्यस्येह तत्फलं” ॥
बुभुक्षितेभ्योऽन्नं पूर्ब्बवत् संकल्प्य दद्यात् ।
ॐ वायुपुराणोक्तान्नदानफलप्राप्तिकामोऽहं बुभु-
क्षितेभ्यः सव्यञ्जनं स्निग्धमन्नं दास्ये । एवं सङ्कल्प्य
बुभुक्षितानन्विष्य तेभ्यो यथोक्तमन्नं दद्यात् ॥ * ॥
महाभांरते ।
“श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप ।
स्वायम्भुवं महत् स्थानं स गच्छति नराधिप” ॥
श्रान्ताय क्षुधितायान्नं पूर्ब्बवत् सङ्कल्प्य दद्यात् ।
ॐ स्वायम्भुवस्थानप्राप्तिकामोऽहं श्रान्ताय क्षुधि-
तायान्नं दास्ये । इति सङ्कल्प्य यथाकाले श्रान्तं
क्षुधितमनुसन्धायान्नं तस्मै दद्यात् ॥ * ॥ तथा, --
“सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः ।
न स दुर्गाण्यवाप्नोति ह्येवमाह पराशरः” ॥
अभीष्टसमये सद्ब्राह्मणक्षत्त्रियवैश्यशूद्रेभ्योऽन्नं
पूर्ब्बवत् सङ्कल्प्य दद्यात् । ॐ महाभारतोक्तस-
द्गोचरान्नदानफलप्राप्तिकामोऽहं सद्भ्योऽन्नं दास्ये ।
ततः प्रभृति अभिमतकाले सद्भ्यो ब्राह्मणादि-
भ्योऽन्नं दद्यात् ॥ * ॥ तथा, --
“यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्त्तते ।
श्रान्तायादृष्टपूर्ब्बाय तस्य पुण्यफलं महत्” ॥
अपरिक्लिष्टमनुपहतं । यथोक्तप्राणिनेऽन्नं पूर्ब्ब-
वत् सङ्कल्पयेत् । ॐ महापुण्यफलप्राप्तिकामोऽहं
श्रान्तायाध्वगाय अदृष्टपूर्ब्बायान्नं दास्ये । इति
सङ्कल्प्य यथाकालमध्वगमन्विष्य यथोक्तमन्नं तस्मै
दद्यात् । अत्राध्वनि वर्त्तते इति शतृनिर्द्देशात्
पथि गच्छते पथिकाय वर्त्मनि कुटीं कृत्वा तरु-
तले चान्नं दद्यात् ॥ * ॥ विष्णुधर्म्मोत्तरे ।
“मृष्टान्नं मानवो दत्त्वा मृष्टान्नार्थिनि काङ्क्षितं ।
अक्षयं फलमाप्नोति स्वर्गलोकञ्च गच्छति” ॥
मृष्टं संस्कृतं । सव्यञ्जनमन्नं पूर्ब्बवत् सङ्कल्प्य तद-
र्थिभ्यो दद्यात् । विष्णुधर्म्मोत्तरोक्तमृष्टान्नाकाङ्क्षि-
गोचरमृष्टान्नदानफलप्राप्तिकामोऽहं यथाशक्ति
मृष्टान्नार्थिभ्यो मृष्टमन्नं दास्ये । इति सङ्कल्प्य
मृष्टान्नार्थिनोऽनुसन्धाय तेभ्यो यथाशक्ति मृष्टान्नं
दद्यात् ॥ * ॥ तथान्नदानप्रकरणे ।
“सहस्रपरिवेशस्तु नरकन्तु न गच्छति ।
विमानेनार्कवर्णेन स्वर्गलोके महीयते” ॥
सहस्रपरिवेशः सहस्रायमनुष्येभ्योऽन्नप्रदः ॥ यथा-
सम्भवं सहस्राय मनुष्येभ्यो नित्यमन्नं पूर्ब्बवत्
सङ्कल्प्य दद्यात् । ॐ विष्णुधर्म्मोत्तरोक्तसहस्र-
परिवेशनफलप्राप्तिकामोऽहं यथासम्भवं सहस्राय
मनुष्येभ्यो व्यञ्जनादिसहितमन्नं दास्ये । इति
सङ्कल्प्य यथाशक्ति नानादिनैः सहस्रं मनुष्यान्
भोजयेत् । देवलः ।
“कृत्वापि पातकं कर्म्म यो दद्यादन्नमीप्सितं ।
ब्राह्मणानां विशेषेण स निहन्त्यात्मनस्तमः” ॥
विशेषेण इत्यभिधानात् अब्राह्मणेऽपि फलमेतद्-
भवत्येव । एवञ्च सामान्येनान्नदानमिदं । ईप्सित-
मित्यर्थिनं स्पृष्ट्वा यथायथमभिमतमन्नमुत्पाद्य
तेभ्यःपूर्ब्बवत् सङ्कल्प्य दद्यात् । ॐ ब्राह्मणप्रमुख-
नानावर्णेभ्य आत्मीयतमःक्षयकामोऽहं यथासम्भवं
ईप्सितमन्नं दास्ये । ततः प्रभृति यथायथमुप-
स्थितेभ्य ईप्सितमन्नं दद्यात् । इत्यादि वल्लालसेन-
कृतदानसागरे अन्नदानावर्त्तः ॥

अन्नः, पुं, (अनित्यनेन अन + ननु, अद्यते इति

अद् + क्तः वा ।) सूर्य्यः । इति सिद्धान्तकौ-
मुदी ॥

अन्नः, त्रि, (अनित्यनेन अन + नन् ।) भुक्तः ।

खादितः । इति मेदिनी ॥

अन्नकोष्ठकः, पुं, (कोष्ठमिव, कोष्ठ + कन् अन्नस्य

तण्डुलादेः कोष्ठकः रक्षणस्थानं ।) तण्डुलादि-
रक्षणस्थानं । इति हेमचन्द्रः ॥ गोला करुइ
इत्यादि भाषा ।

अन्नगन्धिः, पुं, (अन्नस्येव अपक्वतया गन्धोयस्य

सः । उपमानाच्च इति पाणिनिसूत्रेण इच्
समासान्तः ।) उदरामयरोगः । इति त्रिकाण्ड-
शेषः ॥

अन्नपूर्णा, स्त्री, (अन्नं पूर्ण्णं यस्याः सा राजदन्ता-

दित्वात् परनिपातः ।) स्वनामख्यातदेवीविशेषः
तन्मन्त्रादि यथा, --
“माया हृद्भगवत्यन्ते माहेश्वरिपदं ततः ।
अन्नपूर्णे ठयुगलं मनुः सप्तदशाक्षरः” ॥
कल्पे च ।
“प्रणवाद्या यदा देवी तदा सप्तदशाक्षरी ।
अन्नप्रदा मोक्षदा च सदा विभवदायिनी ॥
मायाद्या च यदा देवी तदा सा सकलेष्टदा ।
श्रीवीजाद्यायदा देवी तदा सुखविवर्द्धिनो ॥
वाग्वीजाद्या यदा विद्या वागीशत्वप्रदायिनी ।
कामाद्या च यदा विद्या सर्व्वकामप्रदायिनी ॥
तारमायादिका विद्या भोगमोक्षैकदायिनी ।
माया श्रीयुग्मवीजाद्या सदा विभवदायिनी ॥
पृष्ठ १/०५९
:श्रीमाया युग्मवीजाद्या सर्व्वसम्पत्तिपूरणी” ॥ * ॥
एषां पूजा प्रातःकृत्यादिपीठन्यासान्तं विधाय
हृत्पद्मस्य केशरेषु मध्येषु च भुवनेश्वरीपीठ-
मन्वन्तं पीठशक्तीर्न्यस्य ऋष्यादिन्यासं कुर्य्यात् ।
यथा शिरसि ब्रह्मणे ऋषये नमः । मुखे पङ्क्ति-
च्छन्दसे नमः । हृदि अन्नपूर्णायै देवतायै नमः ।
तत्रैव ।
“एतेषां मन्त्रराशीनां ऋषिर्ब्रह्मा उदाहृतः ।
पङ्क्तिः छन्दः समाख्यातं देवता चान्नपूर्णिका” ॥
ततः कराङ्गन्यासौ । ह्रीँ अङ्गुष्ठाभ्यां नमः । ह्रीँ
हृदयाय नमः । इत्यादि सर्व्वत्र मायावीजेन
कुर्य्यात् । तथा च निबन्धे ।
अङ्गानि मायया कुर्य्यात् ततो देवीं विचिन्तयेत् ।
कल्पे च ।
“यद्वीजाद्या भवेद्विद्या तद्वीजेनाङ्गकल्पना” ॥ * ॥ ।
ततो ध्यानं ।
“रक्तां विचित्रवसनां नवचन्द्रचूडा-
मन्नप्रदाननिरतां स्तनभारनम्रां ।
नृत्यन्तमिन्दुसकलाभरणं विलोक्य
हृष्टां भजे भगवतीं भवदुःखहन्त्री” ॥
एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।
ततः सामान्योक्तपीठपूजां विधाय भुवनेश्वरी-
मन्त्रोक्तजयादिपीठमन्वन्तां पीठपूजां विधाय पुन-
र्ध्यात्वा आवाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं वि-
धाय आवरणपूजामारभेत । यथा केशरेष्वग्नि-
कोणे ह्रीँ हृदयाय नमः । नैरृते ह्रीँ शिरसे
स्वाहा । वायव्ये ह्रीँ शिखायै वषट् । ऐशान्यां
ह्रीँ कवचाय हूँ । मध्ये नेत्रत्रयाय वौषट् । चतु-
र्द्दिक्षु ह्रीँ अस्त्राय फट् । अष्टदलेषु पूर्ब्बादिषु
ब्राह्म्यै माहेश्वर्य्यै कौमार्य्यै वैष्णव्यै वाराह्यै इन्द्राण्यै
चामुण्डायै महालक्ष्म्यै प्रणवादिनमोऽन्तेन पूज-
येत् । तत्रैव ।
“दलेषु पूजयेदेता ब्राह्म्याद्याः क्रमशः सुधीः” ।
शूद्रस्य प्रणवश्चतुर्द्दशस्वरो विन्दुयुक्तः ॥ कालिका-
पुराणे मन्त्रस्य सेतुकरणे उक्तत्वात् । तत इन्द्रा-
दीन् वज्रादींश्च पूजयित्वा धूपादि विसर्ज्जनान्तं
कर्म्म समापयेत् ॥ * ॥ अस्य पुरश्चरणजपः षोड-
शसहस्रसङ्ख्यः । तथा च ।
“यथाविधि जपेन्मन्त्रं वसुयुग्मसहस्रकं ।
साज्येनान्नेन जुहुयात्तद्दशांशमनन्तरं” ॥
अयं मन्त्रः प्रणवादिरष्टादशाक्षरः । मायादिः
श्रीवीजादिश्च । तथा मायां विना प्रणवादिः
कामादिः श्रीवीजादिः वाग्भवादिश्च सप्तदशा-
क्षरः । कवचे तथा प्रतिपादनात् । विशेषस्तु
यद्यद्वीजादिको मन्त्रस्तेनैवाङ्गप्रकल्पना ॥ * ॥
अथान्नपूर्णास्तोत्रं ।
“नमः कल्याणदे देवि नमः शङ्गरवल्लभे ।
नमो भक्तप्रिये देवि अन्नपूर्णे नमोऽस्तु ते ॥
नमो मायागृहीताङ्गि नमः शङ्करवल्लभे ।
माहेश्वरि नमस्तुभ्यमन्नपूर्णे नमोऽस्तु ते ॥
महामाये शिवधर्म्मपत्नीरूपे हरप्रिये ।
वाञ्छादात्रि सुरेशानि अन्नपूर्णे नमोऽस्तु ते ॥
उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।
चन्द्रचूडे महादेवि अन्नपूर्णे नमोऽस्तु ते ॥
विचित्रवसने देवि अन्नदानरतेऽनघे ।
शिवनृत्यकृतामोदे अन्नपूर्णे नमोऽस्तु ते ॥
साधकाभीष्टदे देवि भवदुःखविनाशिनि ।
कुचभारनते देवि अन्नपूर्णे नमोऽस्तु ते ॥
षट्कोणपद्ममध्यस्थे षडङ्गयवतीमये ।
ब्रह्माण्यादिस्वरूपे च अन्नपूर्णे नमोऽस्तु ते ॥
देवि चन्द्रकृतापीडे सर्व्वसाम्राज्यदायिनि ।
सर्व्वानन्दकरे देवि अन्नपूर्णे नमोऽस्तु ते ॥
इन्द्राद्यञ्चितपादाब्जे रुद्रादिरूपधारिणि ।
सर्व्वसम्पत्प्रदे देवि अन्नपूर्णे नमोऽस्तु ते ॥
पूजाकाले पठेद्यस्तु स्तोत्रमेतत् समाहितः ।
तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥
प्रातःकाले पठेद्यस्तु मन्त्रजापपुरःसरं ।
तस्य चान्नसमृद्धिः स्याद्वर्द्धमाना दिने दिने ॥
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।
प्रकाशात् कार्य्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्” ॥
इत्यन्नपूर्णास्तोत्रं समाप्तं ॥ * ॥
अथ अन्नपूर्णाकवचं ॥
“कथिताश्चान्नपूर्णाया या या विद्याः सुटुर्ल्लभाः ।
कृपया कथिताः सर्व्वा श्रुताश्चाधिगता मया ॥
साम्प्रतं श्रोतुमिच्छामि कवचं यत् पुरोदितं ।
त्रैलोक्यरक्षणं नाम कवचं मन्त्रविग्रहं” ॥
ईश्वर उवाच ।
“शृणु पार्ब्बति वक्ष्यामि सावधानावधारय ।
त्रेलोक्यरक्षणं नाम कवचं ब्रह्मरूपकं ॥
ब्रह्मविद्यास्वरूपञ्च महदैश्वर्य्यदायकं ।
पाठनाद्धारणान्मर्त्यस्त्रैलोक्यैश्वर्य्यभाग्भवेत् ॥
त्रैलोक्यरक्षणस्यास्य कवचस्य ऋषिः शिवः ।
छन्दो विराडन्नपूर्णा देवता सर्व्वसिद्धिदा ॥
धर्म्मार्थकाममोक्षेषु विनियोगः प्रकीर्त्तितः ।
ह्रीँ नमो भगवत्यन्ते माहेश्वरिपदं ततः ।
अन्नपूर्णे ततः स्वाहा चैषा सप्तदशाक्षरी ॥
पातु मामन्नपूर्णा सा या ख्याता भुवनत्रये ।
विमाया प्रणवाद्यैषा तथा सप्तदशाक्षरी ॥
पात्वन्नपूर्णा सर्व्वाङ्गं रत्नकुम्भान्नपात्रदा ।
श्रीवीजाद्या तथा चैषा द्विरन्ध्रार्णा तथा मुखं ॥
प्रणवाद्या भ्रुवौ पातु कण्ठं वाग्वीजपूर्ब्बिका ।
कामवीजादिका चेषा हृदयन्तु महेश्वरी ॥
तारं श्रीँ ह्रीँ नमोऽन्ते च भगवति पदं ततः ।
माहेश्वरि पदं चान्नपूर्णे स्वाहेति पातु मे ॥
नाभिमेकोनविंशार्णा पायान्माहेश्वरी सदा ।
तारं माया रमा कामः षोडशार्णास्ततःपरं ॥
शिरःस्था सर्व्वदा पातु विंशत्यर्णात्मिका च या ।
करौ पादौ सदा पातु रमा कामोध्रुवस्तथा ॥
ध्वजञ्च सर्व्वदा पातु विंशत्यर्णात्मिका च या ।
अन्नपूर्णा महाविद्या ह्रीँ पातु भुवनेश्वरी ॥
शिरः श्रीँ ह्रीँ तथा क्लीञ्च त्रिपुटा पातु मे गुदं ।
षड्दीर्घभाजा वीजेन षडङ्गानि पुनन्तु मां ॥
इन्द्रो मां पातु पूर्ब्बे च वह्निकोणेऽनलोऽवतु ।
यमो मां दक्षिणे पातु नैरृत्यां निरृतिश्च मां ॥
पश्चिमे वरुणः पातु वायव्यां पवनोऽवतु ।
कुवेरश्चोत्तरे पातु मामैशान्यां शिवोऽवतु ॥
ऊर्द्ध्वाधः सततं पातु ब्रह्मानन्तो यथाक्रमात् ।
वज्राद्याश्चायुधाः पान्तु दशदिक्षु यथाक्रमात् ॥
इति ते कथितं पुण्यं त्रैलोक्यरक्षणं परं ।
यद्धृत्वा पठनाद्देवाः सर्व्वैश्वर्य्यमवाप्नुयुः ॥
ब्रह्मा विष्णुश्च रुद्रश्च कवचं धारणाद्यतः ।
सृजत्यवति हन्त्येव कल्पे कल्पे पृथक् पृथक् ॥
पुष्पाञ्जल्यष्टकं देव्यै मूलेनैव पठेत्ततः ।
युगायुतकृतायास्तु पूजायाः फलमाप्नुयात् ॥
प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ।
वाणी वक्त्रे वसेत्तस्य सत्यं सत्यं न संशयः ॥
अष्टोत्तरशतं चास्य पुरश्चर्य्याविधिः स्मृतः ।
भूर्ज्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद्यदि ॥
कण्ठे वा दक्षिणे बाहौ सोऽपि सर्व्वतपोमयः ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रं प्राप्य पार्ब्बति ।
माल्यानि कुसुमान्येव भवन्त्येव न संशयः” ॥
इति भैरवतन्त्रे भैरवभैरवीसंवादे अन्नपूर्णाकवचं
समाप्तं । इति तन्त्रसारः ॥ * ॥ तस्याः स्तुत्यन्तरं
यथा । ॐ नमोऽन्नपूर्णायै ।
“ॐ नित्यानन्दकरी वराभयकरी सौन्दर्य्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १ ॥
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मीरागुरुवासिताङ्गसुचरी काशीपुराधीश्वरी ।
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ २ ॥
योगानन्दकरी रिपुक्षयकरी धर्म्मैकनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्व्वैश्वर्य्यकरी तपःफलकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ३ ॥
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ॐकारवीजाक्षरी ।
मोक्षद्वारकवाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ४ ॥
दृश्यादृश्यविभूतिभावनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
विश्वाधीशमनःप्रमोदनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ५ ॥
गुर्व्वी सर्व्वजनेश्वरी जयकरी मातान्नपूर्णेश्वरी
नारीनीलसमानकुन्तलधरी नित्यान्नदानेश्वरी ।
सर्व्वानन्दकरी सदा शिवकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ६ ॥
आदिक्षान्तसमस्तवर्णनकरी चन्द्रप्रभा भास्करी
काश्मीरात्रिपुरेश्वरीत्रिलहरी नित्याङ्कुरी शर्ब्बरी ।
कामाकाङ्क्ष्यकरी महोत्सवकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ७ ॥
चन्द्रार्कानलकोटिपूर्णवदना बालार्कवर्णेश्वरी
चन्द्रार्काग्निसमानकुण्डलधरी चन्द्रार्कविम्बाधरी ।
मालापुस्तकपाशकाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ८ ॥
पृष्ठ १/०६०
:दर्व्वीपाकसुवर्णरत्नघटिका दक्षे करे संस्थिता
वामे चारुपयोधरी रसभरी सौभाग्यमाहेश्वरी ।
भक्ताभीवृकरी फलप्रदकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ ९ ॥
सर्व्वत्राणकरी महाभयहरी माता कृपासागरी
दाक्षानन्दकरी निरामयकरी विश्वेश्वरी श्रीधरी ।
साक्षान्मोक्षकरी सदाशिवकरोकाशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥ १० ॥
अन्नपूर्णे सदा पूर्णे शङ्करप्राणबल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि नमोऽस्तु ते ॥ ११ ॥
इति श्रीशङ्कराचार्य्यविरचितमन्नपूर्णास्तोत्रं स-
माप्तं ॥ क्वचित् पुस्तके शङ्कराचार्य्यस्थाने वेदव्यास
इति पाठः ॥

अन्नप्राशनं, क्ली, (अन्नस्य प्राशनं भोजनं यस्मिन्

तत् । अन्न + प्र + अश + भावे ल्युट् ।) षष्ठे
मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे
वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः । इति
स्मृतिः ॥ तस्य क्रमः । शोभनदिने कृतस्नानः कृत-
वृद्धिश्राद्धः पिता शुचिनामानमग्निं संस्थाप्यं
विरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृत-
कर्म्मारम्भे प्रादेशप्रमाणां धृताक्तां समिधं तूष्णी-
मग्नौ हुत्वा महाव्याहृतिहोमं कुर्य्यात् । ततः
आज्येन तत्तन्मन्त्रैः पञ्चाहुतीर्जुहुयात् । ततः
पञ्चप्राणानां होमः । ततो महाव्याहृतिहोमं
कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ
हुत्वा प्रकृतं कर्म्म समाप्य उदीच्यं शाट्यायन-
होमादिवामदेव्यगानान्तं कर्म्म निर्व्वर्त्य मन्त्रेण
कुमारस्य मुखे अन्नं दद्यात् । ततः कर्म्मकार-
यितृब्राह्मणाय दक्षिणां दद्यात् । इति भवदेव-
भट्टः ॥ तस्य विहितदिनादि यथा, --
“ततोऽन्नप्राशनं षष्ठे मासि कार्य्यं यथाविधि ।
अष्टमे वाथ कर्त्तव्यं यद्वेष्टं मङ्गलं कुले” ॥
षष्ठ इति मुख्यः कल्पः प्रागुक्तन्यायात् । कृत्य-
चिन्तामणौ ।
“अन्नस्य प्राशनं कार्य्यं मासि षष्ठेऽष्टमे बुधैः ।
स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः ॥
द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्ब्बसु ।
बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणं” ॥
भुजबलभीमे ।
“षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ
सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे ।
प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै-
राग्नेयाप्पतिपित्र्यभैश्च नितरामन्नादिभक्षं शुभं” ॥
युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते । तथा-
त्रापि तिथ्यादिविद्धमृक्षं विवर्ज्जयेत् ।
“ष्टषद्वन्द्वधनुर्म्मीनकन्यालग्नेऽन्नभक्षणं ।
त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथाफलं ॥
दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे” ।
मार्कण्डेयः ।
“देवता पुरतस्तस्य पितुरङ्कगतस्य च ।
अलङ्कृतस्य दातव्यमन्नं पात्रे च काञ्चने ॥
मध्वाज्यकनकोपेतं प्राशयेत् पायसं ततः ।
कृतप्राशनमुत्सङ्गे मातुर्ब्बालन्तु तं न्यसेत् ॥
देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्व्वशः ।
शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणं ॥
प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा ।
जीविका तस्य बालस्य तेनैव तु भविष्यति” ॥
इति ज्योतिस्तत्त्वं ॥

अन्नमयकोषः, पुं, (अन्नस्य विकारः अन्न + विका-

रार्थे मयट् । “आनन्दमयोऽभ्यासादिति” शारी-
रकसूत्रे भाष्यकारेणोक्तम् ।) स्थूलशरीरं । इति
वेदान्तसारः ॥

अन्नमलं, क्ली, (अन्नस्य मलं षष्ठीतत्पुरुषः ।) मद्यं ।

यथा, --
“सुरा वै मलमन्नानां पुरीषं मलमुच्यते ।
तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत्” ॥
इति प्रायश्चित्तविवेकः ॥

अन्नविकारः, पुं, (अन्नस्य विकारः षष्ठीतत्पुरुषः ।)

शुक्रं । इति राजनिर्घण्टः ॥ (अन्नकृतशोणित-
मांसादिपरिणामजश्चरमधातुः । रेतः ।)

अन्नादः, पुं, (अन्नमत्ति भुङ्क्ते अन्न + अद् + अण् ।

विष्णुरन्नमन्नखादकश्च जगदभिन्नतया, तथाहि
श्रुतौ “सदेव सौम्येदमग्र आसीदेकमेवाद्वितीय-
मित्युपक्रम्य तदैक्षत बहु स्यां प्रजायेय इत्यादि
शङ्करभाष्ये । “यज्ञान्तकृत् यज्ञगृह्यमन्नमन्नाद
एव च” ।)
विष्णुः । इति तस्य सहस्रनाममध्ये पठितः ॥
अन्नभोक्तरि त्रि ॥ (परान्नभोजनकारी ।)

अन्यः, त्रि, (अन् + बाहुल्यात् यः ।) असदृशः ।

इति मेदिनी ॥ परः ।
(“चातकतापशरण्यो जलधरभिन्नो भवे भवेत्को-
ऽन्यः” । इति नीतिमाला ।
“सोऽयमन्येन वेगादुद्दामेन
द्विरदपतिना सन्निपत्याभियुक्तः” ।
इति उत्तरचरिते ।) तत्पर्य्यायः । भिन्नः । २ अन्य-
तरः । ३ एकः । ४ त्वः । ५ इतरः ६ । इत्यमरः ॥
विलक्षणः । ७ । इति जटाधरः ॥ एकतरः ८ ।
नोमः ९ । इति शब्दरत्नावली ॥

अन्यत्, व्य, (अन् + बाहुल्यात् यत् ।) इतरं । भिन्नं ।

यथा देवदत्त आयातोऽन्यद्यज्ञदत्तः ।
“अन्यदेवास्य गाम्भीर्य्यमन्यद्धैर्य्यं महीयते” ।
इत्यादौ तु क्लीवलिङ्गप्रथमैकवचनान्तान्यशब्द-
स्वीकारेणाप्युपपत्तिरिति बोध्यं ।

अन्यतः, [स्] व्य, (अन्य + “सर्व्वविभक्तिभ्यस्तसि-

लिति” तसिल् ।) अन्यत्र । अन्यस्मात् । यथा --
“एकतो हि धिगमूमगुणज्ञा-
मन्यतः कथमदःप्रतिलम्भः” । इति नैषधं ॥

अन्यतमः, त्रि, (अन्य + डतमच् ।) भिन्नतमः ।

बहूनां मध्ये निर्द्धारितैकः । इति व्याकरणं ॥
अनेकेर मध्ये एक इति भाषा ।
(“एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् ।
आसां महर्षिचर्य्याणां त्यक्त्वान्यतमया तनुम्” ॥
इति मनुः ।) न्यायमते अनेकभेदावच्छिन्नप्रति-
योगिताकभेदः ॥

अन्यतरः, त्रि, (अन्य + डतरच् ।) अन्यः । इत्यमरः ॥

भिन्नतरः । द्वयोर्मध्ये निर्द्धारितैकः । इति व्याक-
रणं ॥ दुयेर मध्ये एक इति भाषा ।
(“अधर्म्मेण च यः प्राह यश्चाधर्म्मेण पृच्छति ।
तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति” ॥
इति मनुः ।) न्यायमते द्वयावच्छिन्नप्रतियोगिता-
कभेदः ॥

अन्यतरेद्युः, [स्] व्य, (अन्यतरस्मिन् दिवसे निपा-

तनात् एद्युसादेशः ।) अन्यतरदिने । दिनद्यययो-
रेकतरदिने । इत्यमरः ॥

अन्यत्र, व्य, (अन्यस्मिन् + अन्य + त्रल् ।) वर्ज्जनं ।

विना । यथा, --
“अन्यत्र निधनात् पत्युः पत्नी केशान्न वापयेद्” ।
इति प्राचीनाः । पत्युर्निधनादन्यत्र पतिमरणं
विनेत्यर्थः । स्थानान्तरं । यथा ।
“अन्यत्र यूयं कुसुमावचायं
कुरुध्वमत्रास्मि करोमि सख्यः” ।
इति काव्यप्रकाशः । (कार्य्यान्तरे । क्रियान्तरे ।
“मधुपर्के च यज्ञे च पितृदैवतकर्म्मणि ।
अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः” ॥
इति मनुः ।
विषयान्तरे । शास्त्रान्तरे ।
“योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमं ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः” ॥
इति मनुः ।)

अन्यथा, व्य, (अन्येन प्रकारेण अन्य + प्रकारार्थे

थाल् ।) परार्थः । मिथ्या । इति मेदिनी ॥ दुष्टं ।
इति शब्दरत्नावली ॥ अन्यप्रकारं । इति व्याक-
रणं ॥
(“स्वभावो नोपदेशेन शक्यते कर्त्तुमन्यथा” ।
इति पञ्चतन्त्रं । अन्यायेन । शास्त्रविरोधेन । अय-
थायथम् ।
“अमात्याः प्राड्विवाको वा यत्कुर्य्युः कार्य्यमन्यथा ।
तत् स्वयं नृपतिः कुर्य्यात् तान् सहस्रञ्च दण्डयेत्” ॥
इति मनुः ।)

अन्यथासिद्धिः, स्त्री, (अन्यथा अन्यप्रकारेण सिद्धिः ।)

कार्य्याव्यवहितपूर्ब्बवर्त्तित्वे सति कार्य्यानुत्पादकत्वं ।
सा पञ्चविधा । यथा । यत्काय्यं प्रति कारणस्य
पूर्ब्बवर्त्तिता येन रूपेण गृह्यते तत्कार्य्यं प्रति
तद्रूपमन्यथासिद्धं । यथा घटं प्रति दण्डत्वं ॥ १ ॥
यस्य स्वातन्त्र्येण अन्वयव्यतिरेकौ न स्तः किन्तु
कारणमादायान्वयव्यतिरेकौ तदन्यथासिद्धं । यथा
घटं प्रति दण्डरूपं ॥ २ ॥ अन्यं प्रति पूर्ब्बवर्त्तितां
गृहीत्वैव यस्य यत्कार्य्यं प्रति पूर्ब्बवर्त्तित्वं गृह्यते
तस्य तत्कार्य्यं प्रति अन्यथासिद्धत्वं । यथा घटा-
दिकं प्रति आकाशस्य ॥ ३ ॥ यत्कार्य्यजनकं प्रति
पूर्ब्बवर्त्तित्वं गृहीत्वैव यस्य यत्कार्य्यं प्रति पूर्ब्बवर्त्तित्वं
गृह्यते तस्य तत्काय्यं प्रति अन्यथासिद्धत्वं । यथा
कुलालपितुर्घटं प्रति ॥ ४ ॥ अवश्यकॢप्तनियत-
पूर्ब्बवर्त्तिनएव कारणत्वसम्भवे तद्भिन्नमन्यथा-
सिद्धं । यथा घटं प्रति रासभादिः ॥ ५ ॥ इति
सिद्धान्तमुक्तावली ॥