शब्दकल्पद्रुमः/अत्यालः

विकिस्रोतः तः

शब्दकल्पद्रुमः


पृष्ठ १/०३२

अत्यालः, पुं, (अति अत्याशयेन आ चतुर्द्दिक्षु अलति

भूषति अति + आ + अल + कर्त्तरि अच् ।
लालचिता इतिभाषा) रक्त्वचित्रकवृक्षः । इति
राजनिर्घण्टः ॥

अत्याशा, स्त्री, (अतिशयेन आशा) अतिशयाशा ।

अत्यन्तस्पृहा । असम्भावनीयवाञ्छा, । यथा, --
“अत्याशाभिरुपागताध्वगगणान् धन्वावनौ ता-
पितान्नोयत्तर्पयितुं क्षमोऽस्मि मम तद्दुःखेर्मनो
दूयते” । इत्युद्भटः ॥

अत्याहारी [न्] त्रि, अतिपूर्ब्बाङ्पूर्ब्बहृधातोः

कर्त्तरि णिन् प्रत्ययनिष्पन्नः । अतिशयाहारकर्त्ता ।
बह्वाशी । अपरिमितभोजी ॥

अत्याहितं, क्ली, (अत्यन्तमाधीयते तन्निवारणाय

चित्तं निधीयते ऽत्र अति आ + धा + क्तोऽधि-
करणे द्रव्यगतिप्रत्यवसानार्थेभ्यश्च इति सूत्रेण क्त
अघिकरणे) महाभीतिः । अतिशयभयं । जीवा-
नपेक्षि कर्म्म । जीवनाशारहितसाहसकर्म्म । इत्य-
मरः ॥ (अत्याहितं किमपि राक्षसकर्म्म कुर्य्यात् ।
इति रामायणं ।)

अत्युक्तिः, स्त्री, (अतिशयेन उक्तिः कथनम् अति +

वच् + भावे क्तिन्) आरोपितकथनं । अति-
शयोक्तिः । असम्भवोक्तिः । अलङ्कारविशेषः । यथा ।
“अत्युक्तिरद्भुतातथ्यशौर्य्योदार्य्यादिवर्णनं ।
त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः” ॥
इति चन्द्रालोकः ॥

अत्युहः, पुं, (अतिशयेन ऊहते रवजनितकृष्ण-

वर्ण्णकण्ठं यथा तथा शब्दायते यः अति + ऊह +
कर्त्तरि अच् । अतिशयितः ऊहस्तर्कः प्रादीति
समासः, अतितर्कः) कालकण्ठः । दात्यूहपक्षी ।
इति मेदिनी ॥ अतिशयवितर्कः ॥ (अत्यूहा
नीलिकायां स्त्री कलकण्ठखगे पुमान् ॥ इति-
मेदिनी ॥)

अत्युहा, स्त्री, (अतिशयितः ऊहः पुष्पोत्कर्षेण तर्को

यस्याः सा स्त्रियां टाप्) नीलिका । शेफालिका ।
इति मेदिनी ॥

अत्र, व्य, एतद् + सप्तम्यर्थे त्रल् एतद्शब्दस्य अशा-

देशः) एतस्मिन् । एखाने इति भाषा । एतच्छब्दस्य
सप्तप्यास्त्रादेशे रूपोऽयं ॥ (अपि सन्निहितोऽत्र
कुलपतिः ॥ इति शाकुन्तले ॥)

अत्रभवान्, [त्], त्रि, (एतद् + अन्येभ्योऽपीति प्रथ-

मार्थे त्रल् अत्र अयुं भव न् व र्म्मधारयः ।) पूज्यः ।
श्लाघ्यः । मान्यः । नाटकेऽस्य प्रचुरप्रयोगः ।
इति हेमचन्द्रः ॥ (नूनमत्रभवतः शराकृतिं सर्व्व-
थायमनुयाति सायकः ॥ इति भारविः ॥)

अत्रिः, पुं, (अत्ति स्म एकगण्डूषेणैव सर्व्वमेव गङ्गा-

जलं पीतवान् अद् + कर्त्तरि तृन् दस्य तः ।
“मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
ब्रह्मणोः मानसाः पुत्त्राः वशिष्ठश्चेति सप्त ते” ॥
इति) सप्तर्षिमध्ये ऋषिविशेषः । स च ब्रह्मण-
श्चक्षुषो जातः । तस्य भार्य्या कर्दममुनिकन्या
अनसूया । पुत्त्रः दत्तः १ दुर्व्वासाः २ चन्द्रश्च ३ ।
इति श्रीभागवतं ॥ (यथा मनुः, --
“मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुं ।
प्रचेतसं वशिष्टञ्च भृगुं नारदमेव च” ॥)

अत्रिजातः, पुं, (अत्रेर्जात उत्पन्नः पञ्चमीतत्पुरुषः ।)

चन्द्रः । द्विजन्मा । यथा, --
“अत्रिजातस्य या मूर्त्तिः शशिनः सज्जनस्य च ।
क्व सा चैवात्रिजातस्य तमसो दुर्जनस्य च” ॥
इति त्रिविक्रमभट्टः ॥

अत्रिदृग्जः, पुं, (अत्रेः दृक् चक्षुः षष्ठीतत्पुरुषः तस्या

जातः अत्रि दृक् + जन् + ड उपपदसमासः ।)
चन्द्रः । इति हेमत्रन्द्रः ॥

अत्रिनेत्रजः, (पुं,) चन्द्रः । इति जटाधरः ॥

अत्रिनेत्रप्रसूतः, पुं, (अतिनेत्रात् प्रसूतः पञ्चमी-

तत्पुरुषः) चन्द्रः । इति हलायुधः ॥

अत्रिनेत्रभूः, पुं, (अत्रिनेत्रात् भवति यः अत्रिनेत्र +

भू + कर्त्तरि क्विप्) चन्द्रः । इति त्रिकाण्डशेषः ॥

अत्रिभारद्वाजिका, स्त्री, अत्रिश्च भरद्वाजश्च द्वन्द्वः

तयीः स्त्रीपुंसयोर्म्मैथुनात् जाता अत्रि भर-
द्वाज + “द्वन्द्वाद्वुन् वैरमैथनयोरिति” वुन् तस्य
अकः स्त्रियां टाप्) अत्रिभारद्वाजी विवाहः ।
इति शब्दरत्नावली ॥

अथ, व्य, (अर्थ + ड पृषोदरादित्वात् रस्य लीपः ।)

मङ्गलं । अनन्तरं । आरम्भः । प्रश्नः । कार्त्स्न्यं ।
इत्यमरः ॥ अधिकारः । संशयः । विकल्पः । समु-
च्चयः । इति मेदिनी ॥ (अथ तस्य विवाहकौतकं
ललितं बिभ्रत एव पार्थिवः ॥ इति रघुवंशे ॥)

अथकिं (अर्थं पूर्ब्बोक्तं वाक्यं कवते स्वीकरोति अर्थ +

कु + डिम् पृषोदरादित्वात् वस्य लोपः । अर्थो
ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु इत्यमरः ।) व्य,
स्वीकारः । इति शब्दरत्नावली ॥

अथर्व्व [न्] क्ली, (अथ लोकमङ्गलाय अर्ब्ब्यते प्रस्तू-

यते यत् अथ + अर्ब्ब + कर्म्मणि अनिप् शकान्ध्वा-
दित्वात् पररूपं । मङ्गलानन्तरारम्भप्रश्नकार्य्ये-
ष्वथो अथ इत्यमरः) वेदविशेषः । इति मेदिनी ॥
तत्तु चतुर्थवेदः नवशाखायुक्तः । अस्य विवरणं
वेदशब्दे द्रष्टव्यं ॥

अथर्व्वणः, पुं, (अथर्ब्ब विद्यतेऽस्य न प्रत्ययः ।) शिवः ।

इति त्रिकाण्डशेषः ॥

अथर्व्वणिः, पुं, (अथर्व्ववेदं नयति ज्ञानविषयं प्राप-

यति अथर्व्वन् + नी + कर्त्तरि क्विप् । पृषोदरा-
दित्वात् ह्रस्वः) अथर्ब्बवेदज्ञब्राह्मणः । पुरोहितः ।
इति मेदिनी ॥

अथर्व्वा [न्] पुं, (अथ लोकमङ्गलाय अर्ब्बति वेदवि-

शेषं प्रस्तौति अथ + अर्ब्ब + अनिप् शकन्ध्वादि-
त्वात् पररूपं) ब्राह्मणः । इति मेदिनी ॥ (कृतपद-
पंक्तिरथर्वणेव वेदः ॥ इति भारविः) ॥

अथो, व्य, (अर्थ + डो पृषीदरादित्वात् रलोपः)

मङ्गलं । आनन्तर्य्यं । समुच्चयः । प्रश्नः । आरम्भः ।
कार्त्स्न्यं । अधिकारः । संशयः । विकल्पः । इति
मेदिनी ॥
(“स्त्रियो रत्नान्यथो विद्या धर्म्मः शौचं सुभाषितं ।
विविधानि च शिल्पानि समादेयानि सर्व्वतः” ॥
इति मनुः ॥)

अद इ बन्धे । (भ्वादि परस्मैपदी सेट् इदित्) इति

कविकल्पद्रुमः ॥ इ अन्द्यते । इति दुर्गादासः ॥

अद ल औ भक्षणे (अनिट् परस्मेपदी अदादि ।)

इति कविकल्पद्रुमः ॥ ल अत्ति । औ अत्ता ।
गणकृतमनित्यमिति न्यायात् शपःस्थितौ अद-
तीत्यपीति वररुचिः । इति दुर्गादासः ॥

अदः [स्] त्रि, (न दस्यते अङ्गु इदन्तया अङ्गलिरुत्-

क्षिप्यते यत्र न + दस् + बाहुल्यात् क्विप् त्रि-
लिङ्गत्वञ्च ।) एतत् । पुरोवर्त्ति । एइ इति भाषा ।
परं । परोक्षभूतं । इति मेदिनी । सेइ इति
भाषा ।

अदत्तं, त्रि, (न दत्तम् उत्सृष्टं नञ्समासः नञत्र

अप्राशस्त्ये यथा कारिकायां ।
“तत् सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञ्र्थाः षट् प्रकीर्त्रिताः” ॥
इति ।) अन्यायेन दत्तं । यथा । यत् पुनरन्या-
येन दत्तं तददत्तं । षोडशप्रकारमपि प्रत्याहर्त्त-
व्यमेव इत्यर्थादुक्तं भवति । नारदेन च । दत्तं
सप्तविधं प्रोक्तमदत्तं षोडशात्मकमिति प्रतिपाद्य
दत्तादत्तयोः स्वरूपं विवृतं ।
“अदत्तन्तु भयक्रोधशोकवेगरूजान्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्जितं ।
कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रमित्युक्ते कार्य्य वा धर्म्मसंहिते ।
यद्दत्तं स्यादविज्ञानाददत्तमिति तत् स्मृतमिति ॥
अयमर्थः । भयेन वन्दिग्राहादिभ्यो दत्तं । क्रोधेन
पुत्त्रादिवैरनिर्यातनायान्यस्मै दत्तं । पुत्त्रवियोगा-
दिनिमित्तशोकाविष्टेन दत्तं । उत्कोचेन कार्य्य-
प्रतिबन्धनिरासार्थमधिकृतेभ्यो दत्तं । परिहासे-
नोपहासेन दत्तं । एकः स्वद्रव्यमन्यस्भै ददात्यन्यो-
ऽपि तस्मै ददातीति दानव्यत्यासः । छलयोगतः
शतदानमभिसन्धाय सहस्रमिति परिभाष्य
ददाति । बालेनाप्राप्तषोडशवर्षेण । मूढेन लोक-
वेदानभिज्ञेन । अस्वतन्त्रेण पुत्त्रदासादिना ।
आर्त्तेन रोगाभिभूतेन मत्तेन मदनीयप्रमत्तेन ।
उन्मत्तेन वातिकाद्युन्मादग्रस्तेन । अपवर्जितं दत्तं ।
तथायं मदीयमिदं कर्म्म करिष्यतीति प्रतिलाभे-
च्छया दत्तं । अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते
दत्तं । यज्ञं करिष्यामीति धनं लबध्वा द्यूतादौ
विनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्त-
मदत्तमित्युच्यते । प्रत्याहरणीयत्वात् । आर्त्त-
दत्तस्यादत्तत्वं धर्म्मकार्य्य व्यतिरिक्तविषयं ।
“सुस्थेनार्त्तेन बा दत्तं श्रावितं धर्म्मकारणात् ।
अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥
इति कात्यायनस्मरणात् । यः पुनः षोडश-
प्रकारमप्यदत्तं गृह्णाति यश्चादेयं प्रयच्छति ।
तयोर्दण्डो नारदेनोक्तः ।
“गृह्णात्यदत्तं यो लोभात् यश्चादेयं प्रयच्छति ।
अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छकः” ॥
इति मिताक्षरा ॥ कन्यकानां त्वदत्तानां । इति
कात्यायनः ॥
“नह्यदत्तां महीं पित्रा भरतः शास्तु मिच्छति”
इति रामायणं ।)
पृष्ठ १/०३३

अदत्ता, स्त्री, (न दत्ता नोत्सृष्टा नञ्समासः, नञत्र

निषेधार्थः ।) अविवाहिता । इति स्मृतिः ।

अदनं, क्ली, (अद् भोजने भावे ल्युट् ।) भक्षणं ।

भोजनं । इति हेमचन्द्रः ॥
(“इन्धनार्थमशुष्काणां द्रुमाणामवपातनं ।
आत्मार्थञ्च क्रियारम्भो निन्दितान्नादनं तथा” ॥
इति मनुः ।)

अदभ्रः, त्रि, (दन्भ + रक् । दभ्रमल्पं नदभ्रं नञ्-

समासः ।) प्रचुरः । बहुः । इत्यमरः ॥ (अदभ्र-
दर्भामविशय्य स स्थलीं जहासि निद्रामशिवैः शि-
वारुतैः ॥ इति किरातार्ज्जुनीयं ॥)

अदर्शनं, क्ली, (दृश् दर्शने, भावे ल्युट्, नञ्समासः ।)

दर्शनाभावः । (अदर्शनञ्च ते वीर भूयो मां ताप-
यिष्यति ॥ इति रामायणं ।) असाक्षात् । दृष्ट्य-
गोचरं । तत्पर्य्यायः । विनाशः २ । इत्यमरः ।
(व्याकरणमते लोपः यथा ऋग्वेदप्रातिशाख्ये, --
“विवृत्तिषु प्रत्ययादेरदर्शनम्” । इति ।)

अदलः, पुं, (न दल्यते भिद्यते यत्, न दल् + घञर्थे

कन् ।) हिज्जलवृक्षः । इति शब्दचन्द्रिका ॥ दल-
रहिते त्रि ॥

अदला, स्त्री, (नास्ति दलं पत्रं यस्याः सा ।) घृत-

कुमारी । इति शब्दचन्द्रिका ॥

अदाता, त्रि, (न दाता नञ्समासः । दा + तृच् ।)

कृपणः । दानशक्तिरहितः । यथा, --
“अदाता पुरुषस्त्यागी स्वधनं त्यज्य गच्छति” ।
इति प्राचीनाः ॥
(“कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
मृते भर्त्तरि पुत्रस्तु वाच्योमातुररक्षिता” ॥
इति मनुः ॥)

अदान्तः, त्रि, (न दान्तः नज्समासः ।) तपःक्लेशा-

सहिष्णुः । अकृतवाह्येन्द्रियनिग्रहः । इति
पुराणं ॥

अदितिः, स्त्री, (दितिभिन्ना अदितिः । नञो दाञो

डितिरिति शाकटायनोक्तेर्डितिप्रत्ययान्तो वा ।
अदनाददितिः वा ।) दक्षप्रजापतिकन्या । सा
कश्यपपत्नी । देबमाता च । इति त्रिकाण्डशेषः ॥
भूमिः । अखण्डः । इति शब्दरत्नावली ॥

अदितिनन्दनः, पुं, (अदितेर्नन्दनः पुत्त्रः, षष्ठीतत्-

पुरुषः ।) देवता । इत्यमरः ॥

अदृक्, [श्] त्रि, (नास्ति दृक् चक्षुर्यस्य सः ।)

दृष्टिरहितः । अन्धः । इत्यमरः ॥

अदृश्यं, त्रि, (दृश् + कर्म्मणि क्यप् न दृश्यं, नञ्-

समासः ।) अदर्शनीयं । अद्रष्टव्यं । “यथा, --
कन्याद्रेरतिकोमला त्रिभुवनव्याप्ताप्यदृश्याजनैः” ।
इत्युद्भटः ॥

अदृष्टं, क्ली, (न दृष्टं नञ्समासः ।) अग्निजलादि-

द्वारा जातं भयं । इत्यमरः ॥ जन्मान्तरीय-
संस्कारः । भाग्यं । यथा । “अदृष्टमप्यर्थमदृष्ट-
वैभवात् करोति सुप्तिर्जनदर्शनातिथिं ॥ इति
श्रीहर्षः ॥ तत्तु आत्मनोऽतीन्द्रियगुणः । इदं
वासनाजन्यं । तत्त्वज्ञाननाश्यं । भोगनाश्यञ्च ।
धर्म्माधर्म्मभेदेन तत् द्विविधं । धर्म्मस्तु स्वर्गादि-
कारणं । गङ्गास्नानयागादिजन्यः । कर्म्मनाशाज-
लादिस्पर्शनाश्यश्च । अधर्म्मस्तु नरकादिकारणं ।
प्रायश्चित्तादिनाश्यश्च । इति भाषापरिच्छेदः ॥

अदृष्टः, त्रि, (न दृष्टः ।) अकृतदर्शनः । अवीक्षितः ।

“अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता” ।
इति रसतरङ्गिण्यां भानुदत्तः ॥

अदृष्टवान्, [त्] त्रि, (अदृष्टं भाग्यं विद्यतेऽस्य,

अदृष्टं मतुप् ।) भाग्यवान् । कपालिया इति
भाषा । (स्त्रियां ङीप् अदृष्टवती) ।

अदृष्टिः, स्त्री, (न दृष्टिः नञ्समासः ।) प्रतिकूला

दृष्टिः । कुत्सिता दृष्टिः । सरोषवक्रदृष्टिः । कुटि-
लचक्षुः । असौम्याक्षि । वक्रदृष्टियुक्तचक्षुः ।
इत्यमरः ॥

अदृष्टिका, स्त्री, (विरुद्धा दृष्टिः नञ्समासः ।

नञत्र विरोधार्थे, स्वार्थे कन् स्त्रियां टाप् ।)
सरोषवक्रदृष्टिः । इति शब्दरत्नावली ॥

अदेवमातृकः, पुं, (देवो वृष्ट्यम्बु माता मातृतुल्यो

यत्र सः, समासान्तः कः, ततो नञ्समासः ।)
देवमातृकभिन्नदेशः । नदीमातृकदेशः । यथा ।
(वितन्वति क्षेममदेवमातृकाः ॥ इति भारविः ॥)

अद्गः, पुं, (अद्यते भुज्यते यत्, अद् कर्म्मणि गन् ।)

घृतं । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

अद्टङ ङ अतिक्रमे बधे । इति कविकल्पद्रुमः ॥

दन्त्यवर्गतृतीयोपधः । (अट्टितुं अतिक्रमितु-
मिच्छति -- अद्ट् + सन् + लट् ते ।) ङ अट्टि-
टिषते । इति दुर्गादासः ॥

अद्ड, अभियोगे । इति कविकल्पद्रुमः ॥ दन्त्यवर्ग-

तृतीयोपधः । (अड्डितुं अभियोक्तुमिच्छति
अद्ड् + सन् + लट् तिप् ।) अड्डिडिषति । क्विपि
संयोगान्तलोपे अद् । अभियोगः समाधानं ।
अड्डति पक्षं विद्धान् । अभि समन्तात् योगो-
ऽभियोगः इति गोविन्दभट्टः ॥ इति दुर्गादासः ॥

अद्धा, व्य, (अतं सततं गमनं ज्ञानं वा दधाति अत् +

धा + क्विप् ।) यथार्थं । तत्पर्य्यायः । तत्त्वं २
अञ्जसा ३ । इत्यमरः ॥ (अद्धा श्रियं पालित-
सङ्गराय प्रत्यर्पयिष्यत्यनघां स साधुः ॥ इति रघुः ।)

अद्भुतं, क्ली, अपूर्ब्बं । तत्पर्य्यायः । विस्मयः २

आश्चर्य्यं ३ चित्रं ४ । तद्विशिष्टे वाच्यलिङ्गं ।
इत्यमरः ॥

अद्भुतं, त्रि, (अततीति अत् + क्विप् आकस्मिकार्थ-

मव्ययं तथा भाति-भा + डुतच् ।) आश्चर्य्यं ।
तत्पर्य्यायः । इङ्गं २ । इति जटाधरः ॥ * ॥ अथा-
द्भुतं । अद्भुतसागरे आथर्व्वणाद्भुतवचनं । प्रकृति-
विरुद्धमद्भुतमापदः प्राक् प्रबोधाय देवाः सृज-
न्तीति । तेन आपज्ज्ञानाय भूम्यादीनां पूर्ब्बं
स्वभावप्रच्यवोदेवकर्तृकोऽद्भुत इति ॥ एवञ्च बुधो-
दयपर्ब्बग्रहणादीनां गणितागतत्वेन प्रकृतानामपि
यदुत्पातत्वं तद्भाक्तं ।
तत्कारणञ्च गर्गसंहितावार्हस्पत्ययोः ॥
“अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्म्मतः ।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥
ततोऽपचारान्नियतमपवर्ज्जन्ति देवताः ।
ताः सृजन्त्यद्भुतां स्तांस्तु दिव्यनाभसभूमिजान् ॥
त एव त्रिविधा लोके उत्पाता देवनिर्म्मिताः ।
विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च” ॥
तांश्च परं न दर्शयेदित्याह विष्णुः ॥ नोत्पातं
दर्शयेदिति ॥ * ॥ तत्र वेलानक्षत्रमण्डलनिरूपणं ।
यथा दीपिकायां ॥
“प्राक्द्वित्रिचतुर्भागेषु द्युनिशोरद्भुतेषु सर्व्वेषु ।
अनिलाग्निशक्रवरुणा मण्डलपतयः शुभाशुभैश्च ॥
बेलामण्डलं ॥ * ॥
“अर्य्यम्नादिचतुष्कचन्द्रतुरगादित्येषु वायुर्भवेत् ।
देवेज्याजविशाखयाम्ययुगले पित्रद्वये चानलः ॥
विश्वादित्रयधातृमैत्रयुगलेष्विन्द्रो भवेन्मण्डलः ।
सर्पोपान्त्यमृगान्त्यमूलयुगलेशानेष्वपामीश्वरः ॥
पवनदहनौ नेष्टौ योगस्तयोरतिदुष्करः ।
सुरपवरुणौ शस्तौ योगस्तयोरतिशोभनः ॥
सवरुणमरुन्मिश्रः शक्रस्तथाग्निसमायुतः ।
फलविरहितः सेन्द्रो वायुस्तथाग्नियुतोऽम्बु पः ॥
यन्मण्डलेऽद्भुतं जातं शान्तिस्तद्देवताश्रया ।
तथा शान्तिद्वयं कार्य्यं मण्डलद्वयजाद्भुते” ॥ * ॥
विष्णुधर्म्मोत्तरे ।
“ग्रहर्क्षवैकृतं दिव्यं आन्तरीक्षं निबोध मे ।
उल्कापातो दिशां दाहः परिवेशस्तथैव च ॥
गन्धर्व्वनगरञ्चैव वृष्टिश्च विकृता तथा ।
एवमादीनि लोकेऽस्मिन् नाभसानि विनिर्द्दिशेत् ॥
चरस्थिरभवं भौमं भूकम्पमपि भूमिजं ।
जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितं ॥
भौमञ्चाल्पफलं ज्ञेयं चिरेण परिपच्यते ।
नाभसं मध्यफलदं मध्यकालफलप्रदं ॥
दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च ॥ * ॥
शीतोष्णता विपर्य्यासऋतूनां रिपुजं भयं ॥
पुष्पे फले च विकृते राज्ञो मृत्युं तथादिशेत् ।
अकालप्रभवा नार्य्यः कालातीताः प्रजास्तथा ॥
विकृताः प्रसवाश्चैव युग्मप्रसवनं तथा ।
हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा त्रयः ॥
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।
विनाशं तस्य देहस्य कुलस्य च विनिर्दिशेत् ॥ * ॥
प्रदोषे कुक्कुटारावो हेमन्ते चापि कोकिलाः ।
अर्कोदयेऽर्काभिमुखश्वारावो नृभयं दिशेत् ॥
उलूको वसते यत्र निपतेद्वा तथा गृहे ।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥
गृध्रः कङ्कः कपोतश्च उलूकः श्येन एब च ।
चिल्लश्च चर्म्मचिल्लश्च भासः पाण्डर एव च ॥
गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते ।
पक्षान्मासात्तथा वर्षान्मृत्युः स्याद्गृहमेधिनः ॥
पत्न्याः पुत्त्रस्य वा मृत्युर्द्रव्यञ्चापि विनश्यति ।
ब्राह्मणाय गृहं दत्त्वा दत्त्वा तन्मूल्यमेव वा ॥
गृह्णीयाद्यदि रोचेत शान्तिञ्चेमां प्रयोजयेत् ।
मांसास्थीनि समादाय श्मशानाद्गृध्रवायसाः ॥
श्वा श्टगालोऽथ वा मध्ये पु रस्य प्रविशन्ति चेत् ।
विकिरन्ति गृहादौ च श्मशानं सा मही भवेत् ॥
पृष्ठ १/०३४
:चौरेण हन्यते लोकः परचक्रसमागमः ।
संग्रामश्च महाघोरो दुर्भिक्षं मरकं तथा ॥
अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः ।
अकाले फलपुष्पाणि देशविद्रवकारणं” ॥ * ॥
मत्स्यपुराणे ।
“अतिवृष्टिरनावृष्टिर्दुर्भिक्षादिभयं मतं ।
अनृतौ तु दिनादूर्द्ध्वं वृष्टिर्ज्ञेया भयाय च ॥
निरभ्रे वाथ रात्रौ वा श्वेतं याम्योत्तरेण तु ।
इन्द्रायुधं ततो दृष्ट्वा उल्कापातं तथैव च ॥
दिग्दाहपरिवेशौ च गन्धर्व्वनगरं तथा ॥
परचक्रभयं विद्यात् देशोपद्रवमेव च” ॥
भासो वनकुक्कुटः ॥ * ॥ कंसनिधनसूचनेहरिवंशः, --
“वक्रमङ्गारकश्चक्रे चित्रायां घोरदर्शनः ।
चलत्यपर्ब्बणि मही गिरीणां शिखराणिच” ॥ * ॥
बाणोत्पाते स एव ।
“दक्षिणां दिशमास्थाय धूमकेतुः स्थितो भवेत् ।
वक्रमङ्गारकश्चक्रे कृत्तिकासु भयङ्करः” ॥ * ॥
कृत्यचिन्तामणौ ।
“त्थक्ताशौचविवेकतत्त्ववसुधा लोकाः क्षुधापीडिताः ।
विप्रा वेदहतास्तथा प्रचलिता बह्वाशिनोदुःखिताः ।
क्षौणी मन्दफला नृपाश्च विकलाःसंग्रामघोरा मही
प्रेताघातदुरन्तपीडिततरा देवेज्यराह्वोर्युतौ ॥
रक्ते शस्त्रोद्योगो मांसास्थिवसादिभिर्मरकः ।
धान्यहिरण्यत्वकफलकुसुमाद्ये वर्षिते भयं विद्यात् ॥
अङ्गारपांशुवर्षे विनाशमुपयाति तन्नगरं ।
उपलं विना जलधरैर्विकृता वा यदा प्राणिनो वृष्ट्या ॥
छिद्रं वाप्यतिवृष्टिं शस्यानामीतिसंजननं” ॥ * ॥
बुधकौशिकसम्बादे ।
“पल्ल्याः प्रपाते च फलं शरटस्य प्ररोहणे ।
शीर्षे राजश्रियोऽव्याप्तिर्भाले चैश्वर्य्यमेव च ।
कर्णयोर्भूषणावाप्तिर्नेत्रयोर्बन्धुदर्शनं ॥
नासिकायाञ्च सौगन्ध्यं वक्त्रे मिष्टान्नभोजनं ।
कण्ठे चैव श्रियोऽवाप्तिर्भुजयोर्विभवो भवेत् ॥
धनलाभो बाहुमूले करयोर्धनवृद्धयः ।
स्तनमूले च सौभाग्यं हृदि सौख्यविवर्द्धनं ॥
पृष्ठे नित्यं महीलाभः पार्श्वयोर्बन्धुदर्शनं ।
कटिद्वये वस्त्रलाभो गुह्ये मृत्युसमागमः ॥
जङ्घे चार्थक्षयो नित्यं गुदे रोगभयं भवेत् ।
उर्व्वोस्तु वाहनावाप्तिर्जानुजङ्घेऽर्थसंक्षयः ॥
वामदक्षिणयोः पादोर्भ्रमणं नियतं भवेत् ।
पल्ल्याः प्ररोहणे चैव पतने शरटस्य च ॥
व्यत्यासाच्च फलञ्चैव तद्वदेवं प्रजायते ।
पल्ल्याः प्ररोहणं रात्रौ शरटस्य प्रपातनं ॥
निधनार्थाय भवति व्याधिपोडाविपर्य्यये ।
पतनानन्तरञ्चैवारोहणं यदि जायते ॥
पतने फलमुत्कृष्टं रोहणेऽन्यत् फलं भवेत् ।
आरोहणञ्चोर्द्ध्वक्त्रे अधोवक्त्रे च पातनं ॥
भवेदिष्टफलं तस्य तत्फलं जायते ध्रुवं ।
स्पृष्टमात्रेण यः मद्यः सचेलं जलमाविशेत् ॥
पञ्चगव्यप्राशनञ्च कुर्य्यादर्कावलोकनं ।
पल्लीरूपं सुवर्णस्य रक्तवस्त्रेण वेष्टयेत् ॥
पूजयेद्गन्धपुष्पाद्यैस्तदग्रे पूर्णकुम्भके ।
पञ्चगव्यं पञ्चरत्नं पञ्चामृतं सपल्लवं ॥
पञ्चवृक्षकषायञ्च निःक्षिप्यावाहयेत् ततः ।
पूजयेद्गन्धपुष्पाद्यैर्लोकपालांस्तथा ग्रहान् ॥
मृत्युञ्जयेन मन्त्रेण समिद्भिः खादिरैः शुभैः ।
तिलैर्व्याहृतिभिर्होममष्टोत्तरसहस्रकं” ॥
पल्ली गृहगोधिका । मृत्युञ्जयमन्त्रस्त्र्यम्बकमन्त्रः ।
इति विद्याकरः ॥ * ॥ गर्गसंहितावार्हस्पत्ययोः ।
“ये तेषु शान्तिं कुर्व्वन्ति न ते यान्ति पराभवं ।
ये तु न प्रतिकुर्व्वन्ति क्रियया श्रद्धयान्विताः ॥
दाम्भिक्याद्वाविमोहाद्वा विनश्यन्त्येवतेऽचिरात्” ॥ * ॥
अत्र निमित्तनिश्चयवतोऽधिकारः । अन्यथा
दोषः । इत्याह मत्स्यपुराणं, --
“भिन्नमण्डलवेलायां ये भवंन्त्यद्भुताः क्वचित् ।
तत्र शान्तिद्वयं कार्य्यं निमित्ते सति नान्यथा ।
निर्निमित्तकृता शान्तिर्निमित्तमुपपादयेत् ।
एतच्च तत्तद्विशेषविहितशान्तिविषयं । अन्यथा
वेलामण्डलसन्देहे शान्तिर्न स्यात् साधारण-
शान्तिश्च निर्विषया स्यात् । अतएवोक्तं योगि-
याज्ञवल्क्येन, --
“यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर्होमो गायत्र्या समुदाहृतः ॥
गायत्र्या प्रयतः शुद्धः सर्व्वपापैः प्रमुच्यते ।
शान्तिकामश्च जुहुयात् गायत्रीमक्षतैः शुचिः ॥
हन्तुकामश्च नृपतेर्घृतेन जुहुयात् शुचिः ।
सावित्र्याशान्तिहोमांश्च कुर्य्यात् पर्ब्बसु नित्यशः ॥
प्रणवब्याहृतिभ्याञ्च स्वाहान्ता होमकर्म्मणि ।
प्रतिलोमा प्रयोक्तब्या फट्कारान्ताभिचारके ॥ * ॥
विश्वामित्रेणापि निमित्तसन्देहे कृच्छ्रादीन्युक्तानि ।
यथा, --
“कृच्छ्रचान्द्रायणादीनि शुद्ध्यभ्युदयकारणं ।
प्रकाशे च रहस्ये च संशयेऽनुक्तकेऽस्फुटे ॥ * ॥
मार्कण्डेयपुराणं ।
“दिग्देशजनसामान्यं नृपसामान्यमात्मनि ।
नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभं ॥
परस्पराभिवादश्च ग्रहदोषेषु जायते” ॥
तथा, --
“तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ॥
लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत् ।
भूदोहानुपवासांश्च शस्तं चैत्याभिवन्दनं ॥
कुर्य्यात् होमं तथा दानं श्राद्धं क्रोधविवर्जनं ।
अद्रोहं सर्व्वभूतेषु मैत्रीं कुर्य्याच्च पण्डितः ॥
वर्जयेदुषतीं वाचमतिवादांस्तथैव च ।
ग्रहपूजाञ्च कुर्व्वीत सर्व्वपीडासु मानवः ॥
एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम ।
प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यनेकशः” ॥ * ॥
लोकवादाश्च तत्रैवोक्ताः । यथा, --
“आकाशाद्देवतानाञ्च देव्यादीनाञ्च सौहृदात् ।
पृथिव्यां प्रतिलोके च लोकवादा इति स्मृताः ॥”
ते च सर्व्वभूतडाकिन्याद्यभिभवशान्त्यर्थं लौकि-
कौषधमन्त्रादयः विषहरीमङ्गलचण्डिकागीतादयः
चैत्यवृक्षादौ क्षेत्रपालदेवतापूजा च । तथा-
चापस्तम्बः । स्त्रीभ्योऽवरवर्णेभ्यो धर्म्मशेषान्
प्रतीयादित्येक इति । धर्म्मशेषान् श्रुतिस्मृति-
सदाचारेष्वप्रसिद्धानिति नारायणोपाध्यायाः ।
भूदोहश्च पात्रं विना भूमौ गोस्तनं निष्पोड्य
दुग्धोत्सर्गः । चैत्यः पूज्यत्वेन ख्यातो ग्रामस्य
वृक्षः । तथा च बाणोत्पाते हरिवंशः, --
“अनेकशाखश्चैत्यश्च निपपात महीतले ।
अर्च्चितः सर्व्वकन्याभिर्दानवानां महात्मनां ॥”
उषतीमकल्याणीं । अतिवादश्च पूज्यमतिक्रम्य
भाषणं ॥ * ॥ मत्स्यपुराणं, --
“काकस्यैकरवश्रावः प्रभाते दुःखदायकः ।
काको मैथुनकासक्तः श्वेतो वा यदि दृश्यते ॥
उलूको वसते यत्र निपतेद्वा तथा गृहे ।
ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥ * ॥”
वराहसंहितायां, --
क्रीडानुरक्तो रतिमांसलुब्धो
भीतो रुजार्त्तः पतितो विहङ्गः ।
नासौ गृहस्थस्य विनाशहेतु-
र्दोषः समुत्पद्यत आहुरार्य्याः ॥ * ॥
अद्भुतशान्तिमाह मात्स्ये, --
“गृहे पक्षिविकारेषु कुर्य्याच्चामरतर्पणं ।
देवाः कपोता इति वा जप्तव्यं सप्ततिर्द्विजैः ॥
गावश्च देया विविधा द्विजानां
सकाञ्चना वस्त्रयुगोत्तरीयाः ।
एवं कृते पापमुपैति शान्तिं
मृगैर्द्विजैर्व्वा विनिवेदितं यत् ॥”
द्विजैः पक्षिभिः । अपिवा अन्यैरपि ॥ * ॥ भुज-
बलभीमे ।
“एको वृषस्त्रयो गावः सप्ताश्वा नव दन्तिनः ।
सिंहप्रसूतिका गावः कथिताः स्वामिघातकाः ॥ * ॥”
मत्स्यपुराणे ।
“अङ्गे दक्षिणभागे तु शस्तं विष्फुरणं भवेत् ।
अप्रशस्तं तथा वामे पृष्ठस्य हृदयस्य च ॥
लाञ्छनं पिटकं चैव ज्ञेयं विष्फूर्जितं तथा ।
विपर्य्ययेण विहितं सर्व्वं स्त्रीणां फलं तथा” ॥ * ॥
अनिष्टचिह्नोपगमे द्विजानां काय्यं सुवर्णेन च
तर्पणं स्यात् । शङ्खः । “दुःस्वप्नानिष्टदर्शनादौ घृतं
हिरण्यञ्च दद्यात्” इति । मात्स्ये ।
“नमस्ते सर्व्वलोकेश नमस्ते भृगुनन्दन ।
कवे सर्व्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तुते ॥
एवं शुक्रोदये कुर्व्वन् यात्रादिषु च भारत ।
सर्व्वान् कामानवाप्नोति विष्णुलोके महीयते ॥
नमस्तेऽङ्गिरसां नाथ वाक्पतेऽथ वृहस्पते ।
क्रूरग्रहैः पीडितानाममृताय नमो नमः ॥
संक्रान्तावपि कौन्तेय यात्रास्वभ्युदयेषु च ॥
कुर्व्वन् वृहस्पतेः पूजां सर्व्वान् कामान् समश्नुते” ॥
वैष्णवामृते व्यासः ।
“ग्रहयज्ञैः शान्तिकैश्च किं क्लिश्यन्ति नरा द्विज ।
महाशान्तिकरः श्रीमांस्तुलस्या पूजितो हरिः ॥
उत्पातान् दारुणान् पुंसां दुर्निमित्ताननेकशः ।
तुलस्या पूजितो भक्त्या महाशान्तिकरो हरिः ॥”
अत्र ब्रह्मपुराणीयो मन्त्रः ।
“नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहा”
पृष्ठ १/०३५
:इति ॥ * ॥ छन्दोगपरिशिष्टं । अथातो रज-
स्वलाभिगमने गोऽश्वभार्य्यासु गमने यमजजनने
विजातीयजनने वा काककङ्कगृध्रवकश्येनभास-
चिल्लकपोतानां गृहप्रवेशे मानुषस्योपरि विश्रा-
मणे एषामेव क्रियमाणे गृहद्वारारोहणे वाद्भु-
तेषु कल्पदृष्टेन विधिनाग्निमुपसमाधाय प्राय-
श्चित्ताज्याहुतीर्ज्जुहोति अद्भुताय अग्नये स्वाहा
सोमाय विष्णवे रुद्राय वायवे सूर्य्याय मृत्यवे
विश्वेभ्यो देवेभ्यः स्वाहेति स्थालीपाकवृतान्य
दिति ॥ * ॥ कपोतं विशेषयति शौनकः ।
“रक्तपादः कपोताख्यः अरण्यौकाः शुकच्छविः ।
स चेच्छालां विशेच्छालासमीपञ्च व्रजेद्यदि ॥
अन्येषु गृहमध्ये वा वल्मीकस्योद्गमादिषु” ।
कल्पदृष्टेन विधिना गृह्योक्तेन । प्रायश्चित्ताः
ज्याहुतीः अद्भुतदोषप्रशमनार्था सप्ताज्याहुतीः ।
अद्भुताय अग्नये स्वाहा इत्यादिमन्त्रैः । तत्र
स्थालीपाकेतिकर्त्तव्यतायां पायसचरुभिरेतेभ्यो
देवेभ्यो जुहुयात् । छन्दोगपरिशिष्टं । पश्चात्
घृतपायसेन ब्राह्मणान् भोजयित्वा गोवरं दत्त्वा
शान्तिर्भवतीति । गोवरं गोश्रेष्ठं दक्षिणां तां गां
कृत्वा दोषशान्तिर्भवतीति । तथाचोक्तं, --
“गौर्विशिष्टतमा लीके वेदेष्वपि निगद्यते ।
न ततोऽन्यद्वयं यस्मात् तस्माद्गौर्वरमुच्यते” ॥ * ॥
छन्दोगपरिशिष्टं । यस्त्वेषामन्यतममापन्नः प्राय-
श्चित्तं न कुर्य्यात् तस्य गृहपतेर्म्मरणं सर्व्वस्वनाशो
वा भवति तस्मात् प्रायश्चित्तं कर्त्तव्यं कर्म्मापवर्गे
वामदेव्यगानं शान्तिः शान्तिरिति । अपवर्गे
समाप्तौ । वामदेव्यगानं शान्तिः कर्त्तव्या आवृत्ति-
प्रकरणसमाप्त्यर्था । वार्हस्पत्ये । शमयन्त्यासप्ता-
हात् कम्पादिकृतं निभित्तमाश्वेव । अतिवर्षणोः
पवासव्रतदीक्षाजप्यहवनानि ॥ * ॥ वराहः ।
ये च न दोषं जनयन्त्युत्पातांस्तानृतुस्वभावकृतान् ।
ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेभिः समासोक्तैः ॥
तथा च मत्स्यपुराणं ।
“वज्राशनिमहीकम्पसन्ध्यानिर्घातनिस्वनाः ।
परिवेशरजोधूमरक्तार्कास्तमयोदयाः ॥
द्रुमेभ्योऽथ रसस्नेहमधुपुष्पफलोद्गमाः ।
गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ * ॥
तारोल्कापातकलुषं कपिलार्केन्दुमण्डलं ।
अनग्निज्वलनं स्फोटं धूमरेणुनिराकुलं ॥
रक्तपद्मारुणा सन्ध्या नभः क्षुब्धार्णवोपमं ।
सरिताञ्चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ * ॥
शक्रायुधपरीवेशौ विद्युच्छुष्कविरोहणं ।
कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥
नद्युदपानसरसां वृष्ट्यर्द्ध्या भवनप्लवाः ।
पतनञ्चाद्रिगेहानां वर्षासु न भयावहं” ॥
हरिवंशे वर्षावर्णनायां, --
“क्वचित् कन्दरहासाढ्यं शिलीन्ध्राभरणं क्वचित्” ।
इति दर्शनात् वर्षासु शिलीन्ध्रोद्गमो न भया-
वहः ॥ * ॥
“दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनं ।
ग्रहनक्षत्रताराणां दर्शनञ्च दिवाम्बरे ॥
गीतवादित्रनिर्घोषो वनपर्ब्बतसानुषु ।
शस्यवृद्धिरसोत्पत्तिरपापाः शरदि स्मृताः ॥ * ॥
शीतानीलतुषारत्वं नर्द्दनं मृगपक्षिणां ।
रक्षोयक्षादिसत्त्वानां दर्शनं वागमानुषी ॥-
दिशो धूमान्धकाराश्च शलभा वनपर्ब्बताः ।
उच्चैः सूर्य्योदयास्तत्वं हेमन्ते शोभना मताः ॥ * ॥
हिमपातानिलोत्पातविरूपाद्भुतदर्शनं ।
दृष्ट्वाञ्जनाभमाकाशं तारोल्कापातपिञ्जरं ॥
चित्रा गर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिणां ।
पत्राङ्कुरलतानाञ्च विकाराः शिशिरे शुभाः ॥
ऋतुस्वभावजा ह्येते दृष्टाः स्वर्त्तौ शुभावहाः ।
ऋतावन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः” ॥ * ॥
उन्मत्तानाञ्च या गाथाः शिशूनाञ्चेष्टितञ्च यत् ।
स्त्रियो यच्च प्रभाषन्ते तत्र नास्ति व्यतिक्रमः ॥
पूर्ब्बं चरति देवेषु पश्चाद्गच्छति नुइषान् ।
नादेशिता वाग्वदति सत्या ह्येषा सरस्वती ॥ * ॥
वृहस्पतिः, --
“ज्योतिर्ज्ञानं तथोत्पातमविदित्वा तुये नृणां ।
श्रावयन्त्यर्थलोभेन विनेयास्तेऽपि यत्नतः ॥
विनेया दण्डनीयाः । इति ज्योतिस्तत्त्वं ॥

अद्भुतः, पुं, शृङ्गारादिनवरसानां मध्ये रसविशेषः ।

तस्य स्थायिभावो विस्मयः । देवता गन्धर्ब्बः ।
वर्णः पीतः । आलम्बनं लोकातीतवस्तु । उद्दीपनं
तद्गुणमहिमा । अनुभावाः स्तम्भस्वेदरोमाञ्च-
गद्गदस्वरविभ्रमनेत्रविकाशादयः । अस्य व्यभि-
चारिभावाः वितर्कावेगसम्भ्रान्तिहर्षादयः । इति
साहित्यदर्पणं ॥

अद्भुतस्वनः, पुं, (अद्भुतः अतिशयितः स्वनः शब्दो

यस्य सः ।) महादेवः । इति त्रिकाण्डशेषः ।
(अद्भुतः स्वन इति कर्म्मधारये आश्चर्य्यशब्दः) ।

अद्भुतसारः, पुं, (अद्भुतः अतिकठिनः सारः स्थिरांशो

यस्य सः ।) खदिरसारः ॥ इति केचित् ॥

अद्मनिः, पुं, (अत्ति भक्षयति सर्व्वान् अदेर्मुट्

चेत्यनिः ।) अग्निः । इत्युणादिकोषः ॥

अद्मरः, त्रि, (अद् भक्षणे, सृघस्यदः क्मरच् ।)

भक्षकः । भक्षणपरः । इत्यमरः ॥

अद्य व्य, (सद्यपरुत् पराय्यैषम इति इदमोऽश्-

भावो द्यश्च निपात्यते ॥) वर्त्तमानदिनं । आजि
इति भाषा । इत्यमरः ॥

अद्यतनः, पुं, (सायञ्चिरमित्यादिना ट्युट्युलौ तुटच् ॥)

कालविशेषः । स च भाष्यमते दुर्गसिंहमते च
पूर्ब्बरात्रिशेषदण्डचतुष्टयावधिकपररात्रिसार्द्धया-
मपर्य्यन्तः । पूर्ब्बरात्रिशेषार्द्धावधिपररात्रिप्रथमा-
र्द्धपर्य्यन्तो वा । भर्तृहरिक्रमदीश्वरमते पूर्ब्बरात्रि-
शेषप्रहरावधिपररात्रिप्रथमप्रहरपर्य्यन्तः । अद्य
जातवस्तनि त्रि ॥

अद्यश्वीनं, त्रि, (अद्य श्वस् + ख तस्य ईन टिश्चलोप ।)

आसन्नमरणादि । अद्य श्वो वा भवति अद्यश्वीनं
मरणं । इति संक्षिप्तसारव्याकरणपरिशिष्टं ॥

अद्यश्वोना, स्त्री, (अद्यश्वस् + “अद्यश्वीनावष्टब्धे”

इति सूत्रेण ख तस्य ईन टिलोपश्च स्त्रियां
टाप् ।) आसन्नप्रसवा अद्यश्वो वा सूते अद्यश्वीना-
गौः इति संक्षिप्तसारपरिशिष्टं ।

अद्यावधि, क्ली, (अद्य अवधिः सीमा यस्य तत् ।) अ-

द्यारभ्य । आजि इस्तक । इति भाषा । वर्त्तमान-
दिवसपर्य्यन्तं । आजि नागाइत इति भाषा ॥

अद्रिः, पुं, (अदिशदीति क्रिन् ॥) सूर्य्यः । पर्ब्बतः ।

वृक्षः । इत्यमरः ॥ परिमाणविशेषः । इति शब्द-
रत्नावली ॥ (शाखी । मानभेदः । सप्ताङ्कः ।
पर्ब्बतमूषिका ॥)

अद्रिकर्णी, स्त्री, (पर्ब्बतमूषिकायाः कर्णवत् पुष्प-

मध्यस्थपत्रं यस्याः सा स्त्रियां ङीप् ।) अपराजिता ।
इति राजनिर्घण्टः ॥

अद्रिकीला, स्त्री, (अद्रयः कीलाः स्तम्भवत् यस्या

सा पृथिवो ।) भूमिः । इति त्रिकाण्डशेषः ॥

अद्रिजं, क्ली, (अद्रौ जातं इति जनेर्डः ।) शिलाजतु

इति रत्नमाला ॥ पर्ब्बतजातवस्तुनि त्रि ॥

अद्रिजा, स्त्री, (अद्रेर्जाता इति जनेर्ड ततष्टाप्,

पार्ब्बती ।) दुर्गा । इति हेमचन्द्रः ॥ सैंहलीवृक्षः ।
इति राजनिर्घण्टः ॥

अद्रितनया, स्त्री, (अद्रेः तनया ।) पार्ब्बतो । यथा --

एषोऽहमद्रितनयामुखपद्मजन्मेति काव्यप्रकाशः ॥
(अथैनमद्रेस्तनया शुशोच ॥ इति रघुः ॥)

अद्रिनन्दिनी, स्त्री, (अद्रेर्नन्दिनी । पार्ब्बती ।) दुर्गा ॥

हिमालयाद्रिजातत्वात् ॥

अद्रिभिद्, पुं, (अद्रीन् पर्ब्बतान् भिनत्ति अद्रि +

भिद् + क्विप् तुक् ।) इन्द्रः । इति त्रिकाण्डशेषः ॥

अद्रिभूः, पुं, (त्रि, अद्रौ भवति अद्रि + भू + क्विप् ।

पर्ब्बतजातमात्रे ।) आखुकर्णीलता । इति राज-
निर्घण्टः ॥

अद्रिराजः, पुं, (अद्रीनां राजा इति समासे राजाह ॥

खखिभ्यष्टच् ।) हिमालयपर्ब्बतः । इति हेमचन्द्रः ।

अद्रिसारः, पुं, (अद्रेः सारः स्थिरांशः ।) लौहः ।

इति रत्नमाला ॥

अद्रीशः, पुं, (अद्रेः ईशः) शिवः । हिमालयः । इति

धरणी ॥

अद्वयः, पुं, (नास्ति द्वयं द्वित्वं यस्य ।) बुद्धः ।

इति हेमचन्द्रः ॥ (आत्मा । अद्वैतवादी ।)

अद्वयवादी, [न्] पुं, (अद्वयं सर्व्वमेव चित्-

स्वरूपं नात्मनोऽन्यत् किञ्चनेति वदति अद्वय +
वद् + णिनि । वैदान्तिकः ।) बुद्धः । इत्यमरः ॥

अद्वारं, क्ली, (अप्रशस्तं प्रवेशायोग्यं द्वारं ।) द्वार-

व्यतिरिक्तप्रदेशः । यथा --
“अद्वारेण च नातीयाद् ग्रामं वा वेश्म बावृतं ।
रात्रौ च वृक्षमूलानि दूरतः परिवर्ज्जयेत् ॥”
इति मानवे ४ अध्याये ७३ श्लोकः ॥ प्राचीराद्या-
वृतं ग्रामं गृहञ्च द्वारव्यतिरिक्तप्रदेशेन प्राका-
रादिलङ्घनं कृत्वा न विशेत् । रात्रौ च वृक्ष-
मूलावस्थानं दूरतस्त्यजेत् । इति तट्टीकायां
कुल्लूकभट्टः ॥ द्वाररहिते त्रि ॥

अद्वितीयः, त्रि, (न विद्यते द्वितीयं यस्य ।) द्वितीय-

रहितः । (सदेव सौम्येदमग्रआसीदेकमेवा-
द्वितीयं इति श्रुतेः ।) अतुल्यः । यथा, --
एकमेवाद्वितीयं ब्रह्म । इति वेदान्तः ॥ नचाश्वि-
पृष्ठ १/०३६
:नेयः सहि नाद्वितोयः । इति नैषधं ॥

अद्वैतः, त्रि, (द्विधाभेदमितः प्राप्तः । द्वित + स्वार्थे

अण् न द्वेतः । द्वितीयरहितः ।) एकः । यथा, --
यदद्वैतं ब्रह्मोपनिषदि तदप्यस्य तनुभा । इति
श्रीचैतन्यचरितामृतं ॥

अद्वैतः, पुं, (द्विधाभेदमितः प्राप्तः तृतीयातत्, प्रज्ञा-

दित्वात् स्वार्थे अण् ततोभिन्नः नञ्समासः ।) द्वैत-
रहितः विष्णः । यथा, --
“विष्णुमानन्दमद्वैतं विज्ञानं सर्व्वगं प्रभुं ।
प्रणमामि सदा भक्त्या चेतसा हृदयालयं ॥”
इति गारुडे २३८ अध्यायः ॥ * ॥ शिवावतार-
विशेषः । यथा, --
“नित्यानन्दो भक्तरूपो व्रजे यः श्रीहलायुधः ।
भक्तावतार आचार्य्योऽद्वैतो यः श्रीसदाशिवः ॥ * ॥”
तत्पित्रादिविवरणं यथा, --
“महादेवस्य मित्रं यः कुवेरो गुह्यकेश्वरः ।
कुवेरपण्डितः सोऽद्य जनकोऽस्य विदांवरः ॥
पुरा कुवेरः कैलासे सिध्यसाध्यनिषेविते ।
जजाप परमं मन्त्रं शैवं श्रीशिववल्लभः ॥
ततो दयालुर्भगवान् वरं वृण्विति सोऽब्रवीत् ।
ततः कुवेरो वरयामास त्वं मे सुतो भव ॥
प्रार्थितस्तेन देवेशो वरदेशः सदाशिवः ।
जन्मजन्मान्तरे पुत्त्र प्राप्स्यामि पुत्त्रतां तव ॥
इति प्राप्य वरं कष्टं कियन्तं कालमास्थितः ।
कार्य्यादीशवशात् सोऽद्याद्वैतस्य जनकोऽभवत् ॥
योगमाया भगवती गृहिणी तस्य साम्प्रतं ।
सीतारूपेणावतीर्णा श्रीनाम्नी तत्प्रकाशतः ॥
तस्य पुत्त्रोऽच्युतानन्दः कृष चैतन्यवल्लभः ।
श्रीमत्पण्डितगोस्वामिशिष्यप्रिय इति श्रुतं ॥
यः कार्त्तिकेयः प्रागासीदिति जल्पन्ति केचन” ।
इति गौरगणोद्देशदीपिका ॥

अद्वैतवादी, [न्] त्रि, (अद्वैतं “चिदेव सत्यं नान्यत्

किञ्चिन” इति वदति, अद्वैत + वद् + णिनि उप-
पदसमासः ।) एकब्रह्मवादी । तस्य मतं यथा, --
ब्रह्मैव सत्यं प्रत्यक्षादिसिद्धं विश्वं ब्रह्मणि आरो-
पितं । यथा रज्जुः रज्जुस्वरूपाज्ञानात् सर्पवत्
प्रतिभाति । तथा ब्रह्मस्वरूपाज्ञानात् विश्वं
वस्तुवत् प्रतिभाति प्रकृतिर्ज्जोवश्चापि पर्य्यवसाने
ब्रह्मैव ब्रह्मान्यत् सद्वस्तु नास्ति । अत्र प्रमाणं
शारीरिकसूत्रस्य शङ्कराचार्य्यकृतभाष्यतट्टीकाक-
ल्पतरुभाषरत्नप्रभादि ॥

अधः [स्] व्य, (अधरस्य अधादेशः ततः असिच् ।)

तलं । नीचं । अधोभागः । यथा, --
“लोकानुपर्य्युपर्य्यास्तेऽधोऽधोऽध्यधि च माधवः” ।
इति वोपदेवः ॥ पातालं । योनिः । इति त्रिकाण्ड-
शेषः ॥

अधःपुष्पी, स्त्री, (अधः अधोमुखं पुष्पं यस्याः ।

अधस् + पुप्प + ङीप् ।) गोजिह्वा । इति राज-
निर्घण्ठः ॥ तृणविशेषः । हेठाहुली । चोर-
खडिका । भाँटुइ इति भाषा । तत्पर्य्यायः । अवाक्-
पुष्पो २ मङ्गल्या ३ अमरपुष्पिका ४ । इति रत्न ।
माला ॥

अधःक्षिप्तः, त्रि, (अधंः अधोभागे क्षिप्तः पतितः ।)

अधस्त्यक्तवस्तु । इति जटाधरः ॥

अधमः, त्रि, (अव पालने + अम, वस्य धादेशः ।)

न्यूनः । निन्दितः । अपकृष्टः । तत्पर्य्यायः । निकृष्टः २
प्रतिकृष्टः ३ अर्व्वा ४ रेफः ५ याप्यः ६ अवमः ७
कुत्सितः ८ अवद्यः ९ कुपूयः १० खेटः ११ गर्ह्यः १२
अणकः १३ । इत्यमरः ॥ रेपः १४ अरमः १५
अणकः १६ अनकः १७ । इति तट्टीका ॥ (या-
च्ञा मोघा वरमधिगुणे नाधमे लब्धकामा । इति
मेघदूते) ॥

अधमः, पुं, (अव पालने + अम, वस्य धादेशः ।) उप-

पतिभेदः । तस्य लक्षणं । भयदयालज्जाशून्यत्वं ।
कामक्रीडाविषये कर्त्तव्याकर्त्तव्याविचारकत्वञ्च ।
इति रसमञ्जरी ॥

अधमभृतकः, त्रि, (अधम + भृ + क्त + स्वार्थे कन् ।)

(अधमः । निकृष्टः । भृतकः । भृत्यः ।) अधम-
भृत्यः । नीचदासः । दौवारिकभारवाहकादयः ॥

अधमर्ण, त्रि, (अधम + ऋण ऋणविषये अवश्य

देयविषये अधमः निन्दितः राजदन्तादित्वात्
परनिपातः । वा अधमं ऋणमवश्यदेयत्वेन विद्यते
यस्य ।) ऋणगृहीता । ऋणी । इत्यमरः ॥ खा-
तक इति भाषा ।
(“अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः ।
दापयेत् धनिकस्यार्थमधमर्णात् विभावितं ॥
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि ।
अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत्” ॥
इति मनुः ।) ॥

अधमर्णिकः, त्रि, (अधममवश्यदेयत्वेन निन्दितं

ऋणं । तदेव दातृत्वेन विद्यते अस्य । अधमर्ण +
अत इनिठनाविति ठन् । तस्य इक ।) अधमर्णः ।
यथा, --
“ग्रहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः ।
दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरं ॥”
इति मिताक्षरा ॥
(“यै यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ।
तैस्तैरुपायैः संगृह्य दापयेदधमर्णिकं” ॥
इति मनुः ।) ॥

अधमा, स्त्री, (अधम + स्त्रियां टाप् ।) स्वीयाद्यन्त-

र्गतनायिकाभेदः । अस्या लक्षणं । हितकारि-
प्रियतमे अहितकारित्वं । अस्याः क्रिया अधमा ।
अस्या निष्कारणकोपत्वात् चण्डीति नाम । इति
रसमञ्जरी ॥

अधमाङ्गं, क्ली, (अधमम् अङ्गं कर्म्मधारयः ।)

पादः । चरणः । इति शब्दचन्द्रिका ॥

अधरं, क्ली पुं, (न ध्रियते कामुकस्य धैर्य्यं न तिष्ठति

यत्र, न + धृ + पुंसि संज्ञायां घः प्रायेणेति
अधिकरणे घः ।) स्मरागारं । रतिगृहं । योनि-
रिति यावत् । इति शब्दरत्नावली त्रिकाण्ड-
शेषश्च ॥

अधरः, पुं, (न ध्रियतेऽसौ धृ + अच् ततो नञ्-

समासः ।) मुखावयवविशेषः । नावो ठोँट । इति
भाषा । ओष्ठः । उपर ठोँट । इति भाषा । तयोः
पर्य्यायः । रदनच्छदः २ दशनवासः ३ । इत्यमरः ॥
परन्तु द्वयोरपि ओष्ठाधरप्रयोगः यथा । रदन-
च्छदौ दशनवाससी उभयत्र वर्त्तेते तथा ओष्ठा-
धरावपि उभयत्रेति नयनानन्दः ॥ रायमुकुटो-
ऽप्याह उपरिवर्त्ती अधोवर्त्ती च ओष्ठः अधरो-
ऽप्येवं । पुरुषस्य रक्ताधरः प्रशस्तः । यथा, --
“पाणिपादतलौ रक्तौ नेत्रान्तरनखानि च ।
तालुकोऽधरजिह्वा च सप्त रक्तं प्रशस्यते ॥”
स्त्रियास्तु यथा, --
“पाटलावर्त्तुलः स्निग्धो रेखाभूषितमध्यभूः ।
सीमन्तिनीनामधरो राज्ञां चैव प्रियो भवेत् ॥
श्यामः स्थ्रलोऽधरोष्ठः स्यात् वैधव्यकलहप्रदः ।
मसृणो मत्तकाशिन्याश्चोत्तरोष्ठः सुभोगदः ॥”
इति सामुद्रकं ॥

अधरः, त्रि, (न धरः नञ्समासः । नीचः ।) अधः ।

तलं । हीनः । अपकृष्टः । इति मेदिनी ॥ हीन-
वादी । इति हेमचन्द्रः ॥ (यथा शाकुन्तले ।
पिबसि रतिसर्व्वस्वमधरं ।) ॥

अधरतः, व्य, [स्] (अधर + तसिल् प्रथमापञ्चमीसप्त-

म्यर्थवृत्तौ ।) अधस्तात् । अधोभागः । इति
हलायुधः ॥

अधरमधु, क्ली, (अधरस्य मधु षष्ठीतत् ।) वक्त्रासवः ।

अधरामृतं । अधररसः । इति त्रिकाण्डशेषः ॥

अधरस्तात् व्य, अधरतः । इति हलायुधः ॥

अधरस्मात्, व्य, (अधर + अस्ताति विकल्पे अधरस्य

अधादेशः ।) अधस्तात् । अधरात् । दिग्वाचक-
शब्दात् दिग्देशकालवाच्ये प्रथमापञ्चमीसप्तमीनां
स्थाने तात् प्रत्ययोभवति । इति व्याकरणं ॥

अधरा, स्त्री, (न धरा नञ्समासः ।) अधोदिक्

इति व्याकरणं ॥ नीचा । यथा । अधराथ कृता
ययैव सा । इति नैषधं ॥

अधरात्, व्य, अधरतः । अधरेण । अधरस्तात् ।

इत्यमरटीका ॥

अधरामृतं, क्ली, (अधरस्य अमृतम् ।) अधरसुधा ।

यथा, --
“सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण
हासावलोककलगीतजहृच्छयाग्निं ।
नो चेद्वयं विरहजाग्न्युपयुक्तदेहा
ध्यानेन याम पदयोः पदवीं सखे ते ॥”
इति श्रीभागवते १० स्कन्धे २९ अध्यायः ॥

अधरीणः, त्रि, (अधरःकृतः तिरस्कृतः अधर +

ख तस्य ईन ।) धिक्कृतः । तिरस्कृतः । इति
जटाधरः ॥

अधरेण, व्य, (अधरे देशे अधरस्यां दिशि वा

अधर + एनप् ।) अधोदिग्देशकालः । अधो-
दिक्देशकाले । इति व्याकरणं ॥

अधरेद्यु, [स्] व्य, (अधरे परे दिवसे अधर +

एद्युस् ।) अधरदिवसः । परदिनं । इति शब्द-
रत्नावली ॥

अधर्म्मः, पुं, (ध्रियतेऽनेन धृ + मनिन् ततो नञ्-

समासः, नञत्र विरोधार्थः ।) धर्म्मविरोधो । स
तु ब्रह्मणः पृष्ठाज्जातः । इति श्रीभागवतं ॥ पापं ।
पृष्ठ १/०३७
:अपराधः । श्रुतिस्मृतिविरुद्धाचारः । यथा, --
“अधर्म्मेणैधते राजन् ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति समूलस्तु विनश्यति ॥”
इति महाभारतम् ।
(“अधर्म्ममिदमत्यन्तं कथं भीष्मोऽनुमन्यते” ।
इति महाभारतं ॥)

अधर्म्मी, [न्] त्रि, (अधर्म्मः पापं विद्यतेऽस्य ।)

अधार्म्मिकः । अधर्म्मात्मा । अधर्म्मशब्दादस्त्यर्थे
इन् ॥

अधश्चरः, पुं, (अधश्चरति इति अधस् + चर + अच् ।)

चौरः । इति हारावली ॥ अधोगामिनि त्रि ॥

अधश्चौरः, पुं, (अधः चौरः । अधस् + चुर +

अच् + स्वार्थे अण्) नीचचौरः । सिँदालचोर
इति भाषा । इति केचित् ॥

अधस्तात् व्य, (अधर + अस्ताति ।) अधोभागः ।

इति हलायुधः ॥ (तस्याधस्तात् वयमपि रता-
स्तेषु पर्णोटजेषु । इति उत्तरचरितं ।) (तथा
“निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ” ॥ इति
मनुः ।) पश्चाद्भागः । इत्यमरटीका ॥ रतिगृहं ।
भगं । इति त्रिकाण्डशेषः ॥

अधामार्गवः, पुं, (न धीयतेऽसौ अधाः न + धा +

क्विप् । तादृशं मार्गं वाति गच्छति । अधा + मार्ग +
वा + कः ।) (अपामार्गः । इति क्षीरस्वामी ।)
धामार्गववृक्षः । इत्यमरटीकायां रायमुकुटः ॥

अधार्म्मिकः, त्रि, (धर्म्मं चरति । धर्म्म + ठक् ।

न धार्म्मिकः ।) अधर्म्मी । अधर्म्मात्मा । पापी ।
तत्पर्य्यायः । आधार्म्मिकः २ । इति त्रिकाण्ड-
शेषः ॥ यथा, --
“यस्तु पञ्च महायज्ञविहीनः स निराकृतः ।
अधार्म्मिकः स्याद्वृषलः अवकीर्णी क्षतव्रती” ॥
इति जटाधरः ॥ अतो नाधार्म्मिके वसेद्ग्रामे ।
इति कुल्ल्रकभट्टश्च ॥

अधि व्य, (न धीयते धार्य्यते । नञ् + धा + कि ।)

प्रादिविंशत्युपसर्गमध्ये उपसर्गविशेषः । अ-
स्यार्थः । उपरिभागः । इति दुर्गादासः ॥ अधि-
कारः । ईश्वरः । इति मेदिनी ॥ अधिकं । यथा
अधिमासः अधिको मासः इत्यर्थः । इति स्मृतिः ॥

अधिः, पुं, आधिः । मनःपीडा । इत्यमरटीकायां

भरतः ॥

अधिकं, क्ली, (अधि + स्वार्थे कन् ।) काव्यालङ्कार-

भेदः । तस्य लक्षणं । अधिकं पृथुलाधारादाधे-
याधिक्यवर्णनं । उदाहरणं यथा । ब्रह्माण्डानि
जले यत्र तत्र मान्ति न ते गुणाः ॥ इति कुव-
लयानन्दे अप्पेयदीक्षितः ॥

अधिकः, त्रि, (अध्यारूढ एव अधि + स्वार्थे कन् ।)

अतिरिक्तः । अनेकः । इति हेमचन्द्रः । (पुमान्
पुंसोऽधिके शुक्रे । स्त्री भवत्यधिके स्त्रियाः । इति
मनुः ।)

अधिकरणं, क्ली, (अधि + कृ + अधिकरणे ल्युट् ।)

एकन्यायोपपादनं । इति हेमचन्द्रः ॥ अधि-
क्रियते अत्र । विषयादिपञ्चावयवविवेचनोपेत-
ग्रन्थः । यथा, --
“विषयो विशयश्चैव पूर्ब्बपक्षस्तथोत्तरं ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतं” ॥
विषयो विचारार्हवाक्यं । विशयोऽस्यायमर्थो न
वेति संशयः । पूर्ब्बपक्षः प्रकृतार्थविरोधितर्कोप-
न्यासः । उत्तरं सिद्धान्तानुकूलतर्कोपन्यासः ।
निर्णयो महावाक्यार्थतात्पर्य्यनिश्चयः । एवं क्रमेण
विवेचनमत्राधिक्रियते इत्यधिकरणं । इति ति-
थ्यादितत्त्वं ॥ अधिक्रियतेऽर्थाद्विचारोऽस्मिन्नने-
नेति वा अधिकरणं वेदविचारग्रन्थात्मिका मी-
मांसा । सा च द्विधा कर्म्ममीमांसा ब्रह्ममी-
मांसा चेति । कर्म्मकाण्डवेदविचारग्रन्थः कर्म्म-
मीमांसा जैमिनिप्रणीता सैव मीमांसात्वेन प्र-
सिद्धा पूर्ब्बमीमांसा इत्युच्यते । ब्रह्मकाण्डवेद-
विचारग्रन्थश्च ब्रह्ममीमांसा वेदव्यासप्रणीता सा
च वेदान्तत्वेन प्रसिद्धा उत्तरमीमांसा इत्युच्यते ।
इत्थञ्च मीमांसापदमपि करणाधिकरणव्युत्पत्त्या
ग्रन्थपरं ज्ञेयं । भावव्युत्पत्त्या तु विचारपूर्ब्बक-
निर्णयपरमिति । यत्तु अधिक्रियते विचारोऽस्मै
इति व्युत्पत्त्या अधिकरणं मीमांसासिद्धान्त
इत्युदीच्येनाभिहितं तन्न । सिद्धान्तस्याधिकरण-
चरमावयवत्वेनाधिकरणाङ्गत्वात् अधिकरणत्वा-
नुपपत्तेः । यथा न्यायमते निगमनस्य न्यायाव-
यवत्वं न तन्मात्रस्य न्यायत्वं तथेहापीति सुधीभि-
र्भाव्यं । तस्य चाधिकरणस्य पञ्चाङ्गानि । तदुक्तं, --
“विषयोऽविषयश्चैव पूर्ब्बपक्षस्तथोत्तरं ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतं” ॥
विषयो विचारार्हवाक्यं । यथा । खादिरे पशुं
बध्नाति खादिरं वीर्य्यकामस्य यूपं कुर्व्वीत
इत्यादि संयोगपृथक्त्वाधिकरणादेः । एवं विषयो
निश्चयस्तद्भिन्नस्तद्विरोधी वा अविषयः संशयः ।
तदुक्तं, --
“विशब्दश्च विशेषार्थः सिनोतिर्बन्धनार्थकः ।
विशेषेण सिनोतीति विषयोऽर्थनियामकः” ॥
नियामकः कोटिनिश्चायकतया विशेषदर्शनात्मक-
व्याप्यवत्त्वादिनिश्चय एव । एवमेव न्यायगुरु-
न्यायवागीशभट्टाचार्य्यचरणाः ॥ अन्ये तु विशय
इति विपूर्ब्बस्य शेतेः संशयार्थकत्वमालोच्य ता-
लव्यमध्यपाठं वदन्तः विशयः संशयः इति व्याच-
क्षते तत्र विपूर्ब्बशेतेः संशयार्थकत्वे मानमनु-
सन्धेयं । संशयः अस्यायमर्थो न वेत्याकारकः ।
पूर्ब्बपक्षः सिद्धान्तविरुद्धतर्कोपन्यासेन सिद्धान्त-
विरुद्धसंशयैककोटिव्यवस्थापनं । उत्तरं प्रकृत-
सिद्धान्तानुकूलतर्कोपन्यासेन प्रकृतसिद्धान्तसिद्ध-
संशयापरकोटिव्यवस्थापनं । निर्णयः सिद्धान्तसिद्ध-
विचार्य्यवाक्यतात्पर्य्यावधारणं । कर्म्ममीमांसा-
धिकरणानि सहस्रसंख्यकानि जैमिनिप्रणीतानि
शास्त्रदीपिकादौ पार्थसारथिमिश्रादिभिर्बहुधा
विवृतानि । इति चन्द्रशेखरकृततत्त्वसम्बोधिनी ॥ * ॥
व्याकरणमते आधाररूपकारकं । तच्चतुर्व्विधं ।
सामीप्यं १ यथा गङ्गायां घोषः । कालिन्द्यां
रेमे ॥ आश्लेषः २ यथा दिवि देवाः । कानने
रेमे ॥ विषयः ३ यथा शास्त्रे निपुणः । केलौ
कुशलः ॥ व्याप्तिः ४ यथा तिलेषु तैलं । सकले
स्थितः ॥ * ॥

अधिकर्द्धिः, त्रि, (अधिका ऋद्धिः सम्पत्तिर्यस्य

सः ।) अतिशयसम्पत्तियुक्तः । तत्पर्य्यायः । स-
मृद्धः २ । इत्यमरः ॥

अधिकर्म्मिकः, पुं, (अधिकृत्य हट्टं कर्म्मणि प्रभवति

अधिकर्म्मन् + ठन् तस्य इक) हट्टाध्यक्षः । इति
हेमचन्द्रः ॥ हाटेर दारोगा इति भाषा ।

अधिकाङ्गं, क्ली, (अङ्गादधिकं मयूरव्यंसकादित्वात्

समासः ।) सकञ्चुकाः मध्ये यद्बध्नन्ति तत् । क-
ञ्चुकादिदार्ढ्यार्थं शूरैर्मध्यकाये निबध्यपट्टिकादि ।
तत्पर्य्यायः । सारसनं २ । इत्यमरः ॥ विंशत्य-
ङ्गुल्याद्यतिरिक्ताङ्गविशिष्टे त्रि ॥ (यथा मनुः । --
“नोद्वहेत् कपिलां कन्यां
नाधिकाङ्गीं न रोगिणीं” ॥)

अधिकारः, पुं, (अधि + कृ + घञ् ।) राजादीनां

चामरधूननच्छत्रधारणादिव्यापारः । तत्पर्य्यायः ।
प्रक्रिया २ । इत्यमरः ॥ प्रकरणं । यथा नैमि-
त्तिकोऽयं प्रायश्चित्ताधिकार इति मिताक्षरा ॥
स्वामित्वं । यथा “सर्व्वे स्युरधिकारिणः” इति
स्मृतिः ॥ अधिकृतदेशादिः । यथा निजाधिकारः
भिन्नाधिकारः इत्यादि बहवः शिष्टप्रयोगाः ॥
(यथा मनुः । --
“तस्य शास्त्रेऽधिकारोऽस्मिन्
ज्ञेयो नान्यस्य कस्यचित्” ॥)

अधिकारी, [न्] त्रि, (अधिकरोति अधि + कृ +

नन्द्यादित्वात् णिनि ।) प्रभुः । स्वामी । अधि-
पतिः । अधिकारविशिष्टः । स्वत्ववान् । इति
स्मृतिः ॥ यथा, --
“इष्टापूर्त्तं द्विजातीनां धर्म्मः सामान्य उच्यते ।
अधिकारी भवेत् शूद्रः पूर्त्ते धर्म्मे न वैदिके” ॥
इति मलमासतत्त्वं ॥ अपिच ।
“स्नातोऽधिकारी भवति दैवे पैत्रे च कर्म्मणि” ।
इत्याह्निकाचारतत्त्वं ॥ वेदान्तमते विधिवदधीत-
वेदाङ्गत्वेन आपाततोऽधिगताखिलवेदार्थोऽस्मिन्
जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुरःसरं
नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन निर्गत-
निखिलकल्मषतया नितान्तनिर्म्मलस्वान्तः साधन-
चतुष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ * ॥
धनाधिकारिणो दायभागशब्दे द्रष्टव्याः ॥ * ॥
श्रीमूर्त्त्यादीनां वेशकर्त्ता । इति लोकप्रसिद्धं ॥

अधिकारी, [न्] पुं, (अधिकरोति अधि + कृ +

नन्द्यादित्वात् णिनि ।) वेदान्तशास्त्रवेत्ता । अधि-
गताखिलवेदार्थनितान्तनिर्म्मलस्वान्तः साधनचतु-
ष्टयसम्पन्नः प्रमाता । इति वेदान्तसारः ॥ पुरुषः ।
इति राजनिर्घण्टः ॥

अधिकृतः, पुं, (अधि + कृ + क्तः ।) अध्यक्षः । आय-

व्ययावेक्षकः ॥ इत्यमरः ॥ (आचार इत्यधिकृतेन
मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
इति शाकुन्तले ।) कृताधिकारद्रव्ये वाच्यलिङ्गः ।

अधिक्रमः, पुं, (अधि + क्रम् + घञ् वृद्ध्यभावः ।)

आक्रमणं । इति हेमचन्द्रः
पृष्ठ १/०३८

अधित्यका, स्त्री, (अधिरूढा पर्ब्बतोपरिभागम्

अधि + त्यकन् स्त्रियां टाप् ।) पर्ब्बतोपरिभूमिः ।
इत्यमरः ॥ (उपत्यकाद्रेरासन्ना भूमिरूर्द्धमधि-
त्यका ॥ अमरकोषः । यथा रघुवंशे, -- “अधि-
त्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्र-
फुल्लं” ॥)

अधिपः, त्रि, (अधिपाति रक्षति अधि + पा + क ।)

अधिपतिः । स्वामी । इत्यमरः ॥ राजा । इति
त्रिकाण्डशेषः ॥ (यथा रघुवंशे -- अथ प्रजा-
नामधिपः प्रभाते ॥)

अधिपतिः, पुं, (अधिपाति रक्षति अधि + पा +

डति ।) प्रभुः । स्वामी । इति हलायुधः ॥ (यथा
रघुवंशे । “वचो निशस्याधिपतिर्दिवौकसां” ॥)

अधिभूः, पुं, (अधि + भू + कर्त्तरि क्विप ।) स्वामी ।

प्रभुः । इत्यमरः ॥

अधिमासः, पुं, (मासात् रविसंक्रान्तिमासादधिक

मयूरव्यंसकादित्वात् समासः ।) रविसंक्रान्ति-
द्वयमध्यवर्त्तिचान्द्रमासः । रविसंक्रान्तिशून्यशुक्ल-
प्रतिपदादिदर्शान्तमासः । तत्पर्य्यायः । अधिक-
मासः २ असंक्रान्तमासः ३ मलमासः ४ मलि-
म्लुचः ५ विनामकः ६ नपुंसकः ७ । इति मल-
मासतत्त्वं ॥

अधिमांसकः, पुं, (अधिकं मांसं यत्र सः, समासान्तः

कः ।) दन्तरोगविशेषः । यथा, --
“दन्तरुक् पश्चिमे दन्ते
महान् शोथो महान् रुजः ।
लालास्रावी कफकृतो
विज्ञेयः सोऽधिमांसकः” ॥
इति भावप्रकाशः ॥ अस्य चिकित्सा दन्तरोग-
शब्दे द्रष्टव्या ॥

अधिरथः, पुं, (रथमधिरूढः अत्यादीति समासः ।)

कर्णपिता । स तु सूतजातिः । तस्य कर्म्म
सारथ्यं । यथा । विवेशाधिरथो रङ्गं यष्टिप्राणो
ह्वयन्निव । इति महाभारतं ॥ (यथा हरिवंशे ।
“सत्यकर्म्मसुतश्चापि सूतस्त्वधिरथस्तु वै ।
यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः” ॥)

अधिराज्यभाक्, पुं, (अधिकं राज्यं कर्म्मधारयः, तत्-

भजते अधिराज्य + भज् + ण्वि उपपदसमासः ।)
अधिराट् । यथा । अत्यन्यान् पृथिवीपालान्
पृथिव्यामधिराज्यभाक् । इति महाभारतं ।

अधिराट्, [ज्] पुं, (आधिक्येन राजते अधि +

राज् + कर्त्तरि क्विप् ।) सम्राट् । चक्रवर्त्तो । इति
महाभारतं ॥ (यथा रघुवंशे । इति प्रगल्मं
पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।)

अधिरोहिणी, स्त्री, (अधिरोहः आरोहणं तदेव

साधनत्वेन विद्यदेऽस्य अधि + रोह + इन् स्त्रियां
ङीप् ।) (अधिरोहणी इति पाठे अधिरुह्यते
अनया अधि + रुह + करणे ल्युट् स्त्रियां ङीप् ।)
वंशकाष्ठादिनिर्म्मितारोहणमार्गः । सिँडि इति
भाषा । तत्पर्य्यायः । निःश्रेणिः २ । इत्यमरः ॥
निःश्रेणी ३ । इति तट्टीका ॥ अधिरोहणो इत्यपि
पाठः ॥

अधिवचनं, क्ली, (अधि + वच् + ल्युट् । पक्षपातेन

कथनं । “अधिकं वचनं पक्षपातेन वचनं” इति
माधवाचार्य्यः ।) नाम । संज्ञा । इति त्रिकाण्ड-
शेषः ॥

अधिवासः, पुं, (अधि + वस् + घञ् ।) निवासः ।

धूपनादिभिः संस्कारः । इति मेदिनी ॥ तद्-
द्रव्याणि । मृत्तिका १ गन्धः २ शिला ३ धान्यं ४
दूर्व्वा ५ पुष्पं ६ फलं ७ दधि ८ घृतं ९ स्वस्तिकं
१० सिन्दूरं ११ शङ्खः १२ कज्जलं १३ रोचना १४
श्वेतसर्षपः १५ स्वर्णं १६ रौप्यं १७ ताम्रं १८
चामरं १९ दर्पणं २० दीपः २१ प्रशस्तपात्रं २२ ।
इति भवदेवः ॥ क्वचित् पुस्तके श्वेतसर्षपस्थाने
सिद्धान्नं क्वचिच्च चामरस्थाने । तत्रानुष्ठानं ।
ँदुर्गापूजादोलयात्रायागादौ पूर्ब्बदिने सायंकाले
आचारात् संस्कारकर्म्मणि तद्दिने पूर्ब्बाह्ने मन्त्रं
पठित्वा क्रमेणोक्तद्रव्याणि आदौ देवादीनां ललाटे
पश्चाद्भूमौ स्पर्शयित्वा प्रशस्तपात्रे स्थापयित्वा
तत्पात्रं पूब्बाक्तक्रमेण वारत्रयं स्पर्शयेत् । द्रव्य-
विशेषेण संस्कारः । तत्र यजुर्व्वेदोक्तमन्त्रा-
स्त्रयोविंशतिद्रव्याणि च यथा । तैलहरिद्रां
गृहीत्वा, --
“ॐ कोसि कतमोसि कस्मै त्वा काय त्वा सुश्लोकः
सुमङ्गलः सत्यराजन् । अनया तैलहरिद्रया
अस्य शुभाधिवासनमस्तु । एवं सर्व्वत्र” । १ ।
गन्धं गृहीत्वा, --
“ॐ गन्धद्वारां दुराधषां नित्यपुष्णां करीषिणीं ।
ईश्वरीं सर्व्वभूतानां त्वामिहोपाह्वये श्रियं” । २ ।
महीं गृहीत्वा, --
“ॐ भूरसि भूमिरस्य दितिरसि विश्वधाया
विश्वस्य भुवनस्य धत्रों पृथिवीं यच्छ पृथिवीं
दृ¤ह पृथिवीं माहि¤सीः” । ३ ।
पुनर्गन्धेन गन्धद्वारामिति ।
शिलां गृहीत्वा, --
“ॐ प्रपर्ब्बतस्य वृषभस्य पृष्ठान्नावश्चरन्ति स्वसि
च इत्यानाः ता आवृत्र नधरा गुदक्ता अहिं
बुध्न्यमनुरीयमानाः । विष्णोर्विक्रमणमसि विष्णो-
र्विक्रान्तमसि विष्णोः क्रान्तमसि” । ४ ।
धान्यं गृहीत्वा, --
“ॐ धान्यमसि धिनुहि देवान् धिनुहि यज्ञं
धिनुहि यज्ञपतिं धिनुहि भां यज्ञन्यं” । ५ ।
दूर्व्वां गृहीत्वा, --
“ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषः
परिएवानो दूर्ब्बे प्रतनु सहस्रेण शतेन च” । ६ ।
पुष्पं गृहीत्वा, --
“ॐ श्रीश्च ते लक्ष्मीश्च पत्न्या अहोरात्रे पार्श्वे
नक्षत्राणि रूपमश्विनौ व्याप्तं इष्णुन्निशान मुम्म-
इशान सर्व्वलोकम्मैशान” । ७ ।
फलं गृहीत्वा, --
“ॐ याः फलिनीर्या अफला अपुष्पा याश्च
पुष्पिणीः वृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व¤-
हसः” । ८ ।
दधि गृहीत्वा, --
“ॐ दधिक्राव्नोऽकार्षं जिष्णोरश्वस्य वाजिनः ।
सुरभिणो मुखाकरोत् प्रणतायुंषितार्षत्” । ९ ।
घृतं गृहीत्वा, --
“ॐ तेजोसि शुक्रमस्यमृतमसि धामनामासि
प्रियं देवानामनाधृष्टं देवयजनमसि” । १० ।
स्वस्तिकं गृहीत्वा, --
“ॐ स्वस्तिन इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा
विश्ववेदाः स्वस्तिन स्तार्क्ष्यो रिष्टनेमिः स्वस्ति-
नो वृहस्पतिर्दधातु” । ११ ।
सिन्दूरं गृहीत्वा, --
“ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमीय
पतयन्तु घृतस्य धारा अरुषोण वाजी काष्ठा-
भिन्दन्नुतिमिभिः पिन्नमानः” । अत्र “वातप्रमीय
पतयन्ति जह्वा” । इत्यपि पठन्ति । १२ ।
शङ्खं गृहीत्वा, --
“ॐ प्रतिश्रुत्काया अर्त्तनं घोषाय भयमन्ताय
बहुवादिनमनन्ताय मूकं शब्दायाडम्बराघातं
महसे वीणावादं क्रोशाय तूणबद्धमवरस्पराय
शङ्खध्वं वनाय वनपमन्यतोऽरण्याय दावपं” । १३ ।
कज्जलं गृहीत्वा, --
“ॐ समिद्धोऽञ्जन क्रदरं मतीनां घृतमग्ने मधु-
मत् पिन्नमानः वाजीवहन् वाजिनं जातवेदो
देवानां वक्षिप्रियमासधस्थं” । १४ ।
रोचनां गृहीत्वा, --
“ॐ युञ्जन्ति ब्रध्नमरुषं चरन्तं परितस्थुषः रोचन्ते
रोचना दिवि” । १५ ।
सिद्धान्नं गृहीत्वा, --
“ॐ अन्नपते अन्नस्य नो धेह्यनमीवस्य शुष्मिणः ।
प्रदातारं तार्य्यऊर्जं नो धेहि द्विपदे शं चतु-
ष्पदे । सिद्धान्नमत्र आतपतण्डुलाः” । १६ ।
काञ्चनं गृहीत्वा, --
“ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः
पतिरेक आसीत् । सदाधारः पृथिवीं द्यामु-
तैषां कस्मै देवाय हविषा विधेम । १७ ।”
रजतं गृहीत्वा, --
“ॐ तेजोसि शुक्रमस्यमृतमसि धामनामासि
प्रियं देवानामनाधृष्टं देवयजनं” । १८ ।
ताम्रं गृहीत्वा, --
“ॐ असौ यस्ताम्रोरुण उतवभ्रुः सुमङ्गलः ये
चैनं¤ रुद्रा अभितो दिक्षु श्रिताः सहस्रशो
वैषा¤ हेलैमहे” । १९ ।
सिद्धार्थं गृहीत्वा, --
“ॐ रक्षोहनो बलगहनः प्रोक्षामि वैष्णवान्
रक्षोहनो बलगहनो बलयामि वैष्णवान् रक्षो-
हनो बलगहनोऽवस्तृणामि वैष्णवान् रक्षोहनौ
वनगहना उपधामि वैष्णवी रक्षोहनौ वनगहनौ
पर्य्यहामि वैष्णवी वैष्णवमसि वैष्णवास्थ” । २० ।
दर्पणं गृहीत्वा, --
“ॐ आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं
मर्त्त्यञ्च हिरण्ययेन सविता रथेना देवोयाति
भुवनानि पश्यन्” । २१ ।
दीपं गृहीत्वा, --
पृष्ठ १/०३९
:“ॐ अग्न आयाहि वीतये गृणानो हव्यदातये
निहोता सत्सु वर्हिषि” । २२ ।
सर्व्वद्रव्ययुक्तडल्लकं गृहीत्वा, --
“ॐ प्रतिपदसि प्रतिपदे त्वा अनुपदसि अनुपदे
त्वा सम्पदसि सम्पदे त्वा तेजोसि तेजसे त्या । २३ ।
इति यजुर्व्वेदीयदुर्गोत्सवपद्धतिः ॥ * ॥ सामवेदि-
नामधिवासमन्त्रास्तत्तद्द्रव्याणि च यथा । प्रथमं
गन्धेन, --
“ॐ भद्रा इन्द्रस्य रातयः योऽस्य कामं विधतो
नरोषति मनोदानाय चोदयन्” । १ ।
“ॐ महित्रीणामवरस्तु द्युक्षमित्रस्यार्यम्नः दुरा-
धर्षं वरुणस्य” । २ ।
इति मह्या ।
पुनर्गन्धेन, --
“ॐ भद्रा इन्द्रस्य रातयः इत्यादि” । ३ ।
“ॐ वित्वदापो न पर्ब्बतस्य पृष्ठादुक्थेभिरग्रे
जनयन्त देवाः तत्वागिरः ॥ सुष्टुतयो वाजयत्या
जिन्नगिर्व्वर्वहो जिग्युरस्वाः” । ४ ।
इति शिलया ।
“ॐ धानावन्तं करम्भिण मपूप्यवन्तमुक्थिनं
इन्द्रप्रातर्जुषस्वनः” । ५ ।
इति धान्येन ।
“ॐ जज्जायथा मपूर्ब्ब्य मघवन् वृत्रहत्याय ।
तत्पृथिवी मप्रथयस्तदस्तभ्ना उतो दिवम्” । ६ ।
इति दूर्व्वया ।
“ॐ पवमान व्यश्नुहि रश्मिभिर्व्वाजसातमः ।
दधत्स्तोत्रे सुवीर्य्यम्” । ७ ।
इति पुष्पेण ।
“ॐ इन्द्रन्नरोने मधिता हवन्ते यत्पार्य्या युञ्जते
धियस्ताः शूरो नृषाता श्रवसश्च कामत्वा गोमति
व्रजे भजात्वन्नः” । ८ ।
इति फलेन ।
“ॐ दधिक्राव्नोऽकारिषं जिष्णोरश्वस्य वाजिनः
सुरभिणो मुखाकरोत् प्रणतायुंषि तारिर्षत्” । ९ ।
इति दध्ना ।
“ॐ घृतवती भुवनानामधिश्रियोव्वी पृथ्वी म-
धुदुघे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणा
विष्कभितेऽजरे भूरिरेतसा” । १० ।
इति घृतेन ।
“ॐ अस्ति सोमोऽयं सुतः पिबन्त्यस्य मरुतः
उतस्वराजोऽश्विना” । ११ ।
इति स्वस्तिकेन ।
“ॐ सिन्धीरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावा
पशुमप्सु गृभ्नते” । १२ ।
इति सिन्दूरेण ।
“ॐ स्वसुन्वयो वसूनां यो राया मानेता य इ-
डानां सोमो यः सुक्षितीनां” । १३ ।
इति शङ्खेन ।
“ॐ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वा-
भ्यञ्जते” । १४ ।
इति कज्जलेन ।
“ॐ श्रायन्त इव सूर्य्यं विश्वेदिन्द्रस्य भक्षत वसूनि
जातो जनिमान्योजसा प्रतिभागन्नदीधिमः” । १५ ।
इति रोचनया ।
“ॐ प्रणीउषा अपूर्ब्बा व्युत्सति प्रिया दिवस्तुषे
वा मश्विना वृहत्” । १६ ।
इति सिद्धार्थेन ।
“ॐ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं । सनिं
मेधा मयासिषं” । १७ ।
इति काञ्चनेन ।
“ॐ यद्वर्च्चोहिरण्यस्य यद्वा वर्च्चो गवामुत । सत्यस्य
ब्रह्मणो वर्च्चस्तेन मा संसृजामसि” । १८ ।
इति रौप्येण ।
“ॐ रन्महांसि सूर्य्य वडादित्य महां असि
महस्ते सतो महिमापनिष्ट समह्ना देवमहां
असिः” । १९ ॥
इति ताम्रेण ।
“ॐ मनज्योतिर्जुषतामाज्यस्य वृहस्पतिर्यज्ञमिमं
तनोत्वरिष्टं । यज्ञं समिमं दधातु विश्वे देवाः स
इह मादयन्ता मों प्रतिष्ठ” । २० ।
इति दीपेन ।
“ॐ आदित्य प्रयतस्य वेत्तसो ज्योतिः पश्यन्ति
वासरं पावाय दिव्यं तोदिवि” । २१ ।
इति दर्पणेन ।
“ॐ उद्यल्लोकानरोचय प्रभभूतमरोचय होइ
इमान् लोकानरोचय होइ विश्वभूतमरोचय ।
होहा ऐवात्र धर्म्मो ज्योतीषि” । २२ ।
इति प्रशस्तपात्रेण । प्रशस्तपात्रं पूर्ब्बोक्तसर्व्वद्रव्य-
स्थापितैकपात्रं । इति सामवेदीयदुर्गोत्सव-
पद्धतिः ॥

अधिवासनं, क्ली, (अधिवासयति स्थापयति देवता

अनेन अधि + वस् + णिच् + करणे ल्युट् ।) अधि-
वासः । गन्धमाल्यादिभिः संस्कारकरणं । इत्य-
मरः ॥ (अनया तैलहरिद्रया अस्याः शुभाधि-
वासनमस्तु ॥ इति दुर्गोत्सवपद्धतिः ॥)

अधिविन्ना, स्त्री, (अधिविद्यते लभ्यतेऽसौ, अधि +

विद् + कर्म्मणिक्तः स्त्रियां टाप् ।) अध्यूढा । प्रथम-
विवाहिता स्त्री । कृतानेकविवाहस्वामिनः आ-
पेक्षिकप्रथमोढा भार्य्या । इत्यमरः ॥
(“अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समं” ॥
इति मनुः ।)

अधिश्रयणी, स्त्री, (अधि श्रियते पच्यतेऽत्र अधि +

श्रि + अधिकरणे ल्युट् स्त्रियां ङीप् ।) चुल्ली ।
इत्यमरः ॥ चुला इति भाषा ।

अधिष्ठानं, क्ली, (अधिष्ठीयतेऽत्र अधि + स्था +

अधिकरणे ल्युट् ।) नगरं । चक्रं । प्रभावः । अ-
ध्यासनं । अवस्थानं । इत्यमरः ॥ (यथा रामा-
यणे, --
“यद्भयात् सम्परित्यज्य स्वमधिष्ठानमृद्धिमत् ।
कौलासं पर्ब्बतश्रेष्ठमध्यास्ते नरवाहनः” ॥)

अधिक्षिप्तः, त्रि, (अधि + क्षिप् + कर्म्मणि क्तः ।)

प्रतिक्षिप्तः । इत्यमरः ॥ प्रेरितः । इति भरतः ॥
प्रणिहितः । स्थापितः । कुत्सितः । भर्त्सितः । इति
मेदिनी ॥

अधीतः, त्रि, (अधि + इङ् + कर्म्मणि क्तः ।) कृता-

ध्ययनः । पठितः । यथा, --
“अधीते शतसाहस्रमनन्तं वेदपारगे” ।
इति स्मृतिः ॥ पठितशास्त्रं । पाठे क्ली ॥

अधीतिः, स्त्री, (अधि + इङ् + भावे क्तिन् ।) अध्य-

यनं । पठनं । इति जटाधरः ॥

अधीती, [न्] त्रि, (अधीतमनेन अधीत + इन् ।)

अध्ययनविशिष्टः । कृताध्ययनः । इति व्याक-
रणं ॥

अधीनः, त्रि, (इनं प्रभुमधिगतः अत्यादीति समासः ।)

परवशः । तत्पर्य्यायः । निघ्नः २ आयत्तः ३-
अस्वच्छन्दः ४ गृह्यकः ५ । इत्यमरः ॥ (यथा
कुमारसम्भवे, --
“त्वदधीनं खलु देहिनां सुखं” ॥)

अधीरः, त्रि, (न धीरः स्थिरः नञ्समासः ।) चञ्चलः ।

इति हलायुधः ॥ कातरः । इत्यमरः ॥ (यथा
नागानन्दे, --
“निर्व्याजं विधुरेष्वधीर इति
मां येनाभिधत्ते भवान्” ॥)

अधीरा, स्त्री, (न धीरा क्षणस्थायिनी, नञ्समासः ।)

विद्युत् । इति हारावली ॥ मानावस्थायां मध्या-
प्रगल्मनायिकयोर्भेदः ॥ तस्या लक्षणं । अव्यङ्ग-
कोपप्रकाशकत्वं । मध्याधीरायाः परुषवाक् कोप-
प्रकाशिका ॥ प्रौढाधीरायास्तर्ज्जनताडनादिकं
कोपप्रकाशं । सा द्विधा । ज्येष्ठा कनिष्ठा च ।
इति रसमञ्जरी ॥

अधीशः, त्रि, (अधिक ईशः कर्म्मधारयः ।) अधि-

पतिः । प्रभुः । इति हलायुधः ॥ (यथा पञ्चतन्त्रे, --
“चन्द्रे मण्डलसंस्थेविगृह्यते राहुणा दिनाधीशः ॥)

अधीश्वरः, त्रि, (अधिक ईश्वरः कर्म्मधारयः ।) प्रण-

ताशेषसामन्तः । महाराजः । चक्रवर्त्ती । इत्य-
मरः ॥

अधुतं, त्रि, अकम्पितं । धुञ्नकम्पे इत्यस्मात्

कर्म्मणि क्तः, पश्चान्नञ्समासः । दीर्घमध्योऽपि ॥

अधुना, व्य, (अस्मिन् काले इदम्शब्दस्य रूपमिति

निपातनात् ।) अम्मिन्काले । इदानीं । सम्प्रति ।
इत्यमरः ॥

अधुनातनं, त्रि, (अधुना भवम् अधुना + ट्यु तुट्च ।)

इदानीन्तनं । वर्त्तमानकालवृत्ति । एतत्कालीनं ।
इति व्याकरणं ॥

अधृतः, पुं, (धृ क्तः, न धृतः नञ्समासः ।) विष्णुःः ।

इति तस्य सहस्रनाममध्ये पठितः । अकृतधारण-
वस्तुनि त्रि ॥

अधृष्टः, त्रि, (धृष् + क्तः, न धृष्टः नञ्समासः ।)

सलज्जः । तत्पर्य्यायः । अप्रगल्मः २ । इति शब्द-
रत्नावली ॥ शारदः ३ अप्रतिभः ४ । इति जटा-
धरः ॥ शालीनः ५ । इत्यमरः ॥

अधृष्यः, त्रि, (धृष् + कर्म्मणि क्यप् ।) प्रगल्मः ।

अधर्षणीयः । इति मेदिनी ॥ (यथा रघुवंशे, --
“भीमकान्तैर्नृपगुणैः स बभूवोपजीविनां ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः” ।)

अधृष्या, स्त्री, (न + धृष् + संज्ञायां क्यप् । यस्यां

पृष्ठ १/०४०
:स्नाने पराभवो न भवति तादृशी नदी ।) नदी-
विशेषः । इति मेदिनी ॥

अधैर्य्यः, त्रि, (नास्ति धैर्य्यं यस्य सः ।) धीरताशून्यः ।

धैर्य्याभावे क्ली । यथा, --
“धैर्य्याधैर्य्यपरिग्रहग्रहिलयोरेणीदृशोः प्रीतये” ।
इति भानुभट्टः ॥

अधोऽंशुकं, क्ली, (अधः नीचदेशस्थम् अंशुकं वस्त्रं,

कर्म्मधारयः ।) परिधानवस्त्रं । इत्यमरः ॥

अधोघण्टा, स्त्री, (अधः अधोदेशादारभ्य घण्टेव

फलं यस्याः सा ।) अपामार्गः । इति रत्नमाला ॥

अधोजिह्विका, स्त्री, (अल्पा जिह्वा कन् स्त्रियां टाप्,

अधः अधरा जिह्विका कर्म्मधारयः ।) तालु-
मूलस्थक्षुद्रजिह्वा । इति हारावली ॥ आल्जिव
इति भाषा ।

अधोभुवनं, क्ली, (अधः नीचदेशस्थं भुवनं लोकः

कर्म्मधारयः ।) पातालं । इत्यमरः ॥

अधोमर्म्म, [न्] क्ली, (अधः अधरं मर्म छिद्रं ।)

गुह्यद्वारं । इति हेमचन्द्रः ॥

अधोमुखः, त्रि, (अधोमुखं यस्य सः ।) अधोवदनः ।

पातालमुखः । तत्पर्य्यायः । अवाङ्मुखः २ । इत्य-
मरः ॥ अवाचीनः ३ । इति जटाधरः ॥ अधो-
मुखनक्षत्रगणो यथा, --
“अश्लेषवह्नियमपित्र्यविशाखयुक्तं
पूर्ब्बत्रयं शतभिषा च नवाप्युडूनि ।
एतान्यधोमुखगणानि शुभानि नित्यं
विद्यार्घ्यभूमिखननेषु च शोभितानि” ॥
इति ज्योतिःसारसंग्रहः ।

अधोमुखा, स्त्री, (अधोमुखं यस्याः सा, स्त्रियां

टाप् ।) गोजिह्वावृक्षः । इति राजनिर्घण्टः ॥

अधोवायुः, पुं, (अधः अधरः वायः कर्म्मधारयः ।)

अपानवायुः । यथा, --
“क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सजेत्” ।
इति तन्त्रसारे योगिनीहृदयं ॥

अधोक्षजः, पुं, (अधः ज्ञातृत्वाभावात् हीनम् अक्षजं

प्रत्यक्षज्ञानं यस्य सः । अक्षात् इन्द्रियात् जायते
अक्ष + जन् ड, पञ्चमीतत् ।) विष्णुः । इत्यमरः ॥
(यथा महाभारते । अधो न क्षीयते जातु यस्मा-
त्तस्मादधोक्षजः ।)

अध्यग्नि, क्ली, (अग्नेः समीपे अव्ययीभावः ।) विवाह-

काले अग्निसमीपे स्त्रियै दत्तं धनादि । यथा, --
“विवाहकाले यत् स्त्रीभ्यो दीयते ह्यग्निसन्निधौ ।
तदध्यग्निकृतं सद्भिः स्त्रीधनन्तु प्रकीर्त्तितं” ॥
इति दायभागे कात्यायनः ॥

अध्यण्डा, स्त्री, (अधिकमण्डं वीजं यस्याः सा,

स्त्रियां टाप्) कपिकच्छुः । इत्यमरः ॥ आल्कुशी
इति भाषा । भूम्यामलकी । इति रत्नमाला ॥

अध्ययनं, क्ली, (अधि + इङ् + भावे ल्युट् ।) गुरुमुखा-

दानुपूर्ब्बीश्रवणं । पठनं । ब्राह्मणस्य षट्कर्म्मा-
न्तर्गतमिदं । इति शब्दरत्नावली ॥

अध्यवसायः, पुं, (अधि + अव + सो + भावे घञ् ।)

उत्साहः । इत्यमरः ॥ कर्म्मसु सुकरः प्रत्ययः ।
इति मधुः ॥ कर्म्मसु दृढयत्नकारको भावः । इति
रमानाथः ॥ कर्म्मसु प्रत्ययः इति नयनानन्दः ॥
अशक्ये बलोद्यमः । इति केचित् ॥ उद्योगोद्यमौ
चात्र । इति भरतः ॥

अध्यशनं, क्ली, (अधिकमशनं भोजनं कर्म्मधारयः ।)

अजीर्णे भोजनं । यथा । अजीर्णे भुज्यते यत्तु
तदध्यशनमुच्यते । इति भावप्रकाशः ॥

अध्यक्षः, पुं, (अध्यक्ष्णोति समन्तात् व्याप्नोति

अधि + अक्ष् + अच् ।) (छत्रधारणादि व्यवहारे-
ष्वधिकृतः । व्यापकः ।) क्षीरिकावृक्षः । इति
शब्दरत्नावली ॥

अध्यक्षः, त्रि, (अक्षमिन्द्रियमधिगतः प्रादि-

समासः ।) प्रत्यक्षः । इन्द्रियजन्यज्ञानं ।
(यदध्यक्षेण जगतां वयमारोपितास्त्वया ॥
इति कुमारसम्भवे ।) अधिकृतः ।
आयव्ययादिनिरीक्षकः । इत्यमरः ॥

अध्यापकः, त्रि, (अधि + इङ् + णिच् + ण्वुल् ।)

अध्यापनकर्त्ता । पाठगुरुः । अध्यापयिता । तत्प-
र्य्यायः । उपाध्यायः २ । इत्यमरः ॥

अध्यापनं, क्ली, (अधि + इङ् + णिच् + भावे ल्युट् ।)

पाठनं । विद्यादानं । ब्राह्मणानां षट्कर्म्मान्तर्गत-
कर्म्मेदं । इति शब्दरत्नावली ॥ (यथा मनुः, --
“अध्यापनमध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रश्चैव षटकर्म्माण्यग्रजन्मनः” ॥)

अध्यायः, पुं, (अधि + इङ् + भावे घञ् अध्ययनम् ।)

वेदपुराणादिपरिच्छेदः । ग्रन्थसन्धिः । तन्नामान्त-
राणि यथा । सर्गः । वर्गः । परिच्छेदः । उद्घातः ।
अङ्कः । संग्रहः । उच्छूआसः । परिवर्त्तः । पटलः ।
काण्डं । स्थानं । प्रकरणं । पर्व्व । आह्निकं । इति
त्रिकाण्डशेषः ॥ स्कन्धः । स्तवकः । उल्लासः ।
पादः । उद्योतः । विरचनं । इत्याद्यपि ॥
यदुक्तम् ।
(“सर्गोवर्गपरिछेदोद्घाताध्यायाङ्कसंग्रहाः ।
उच्छूआसः परिवर्त्तश्च पटलः काण्डमेव च ॥
स्यानं प्रकरणं चैव पर्व्वोल्लासाह्णिकानि च ।
पुराणादौ परिच्छेदा अनेके परिकीर्त्तिताः ॥”)

अध्यारूढः, त्रि, (अधि + आङ् + रुह् + क्तः ।)

समारूढः । कृतारोहणः । अभ्यधिकः । अति-
शयः । इति मेदिनी ॥

अध्यारोपः, पुं, (अधि + आ + रह् + णिच्भावे अच् ।)

वस्तुन्यवस्तुत्वारोपः । सच्चिदानन्दानन्ताद्वयब्रह्मणि
अज्ञानादिसकलजडसमूहस्यारोपणमित्यर्थः । अ-
सर्पभूतरज्जौ सर्पारोपवत् । इति वेदान्तसारः ॥

अध्यावाहनिकं, क्ली, (अध्यावाहनं पितृगृहात्

स्वामिगृहागमनं तत्काले लब्धं अध्यावाहन +
लब्धार्थे ठन् तस्य इकः । अधि + आ + वह् +
णिच् ल्युट् ।) स्त्रीधनविशेषः । यथा, --
“यत् पुनर्लभते नारी नीयमाना हि पैतृकात् ।
अध्यावाहनिकं नाम तत् स्त्रीधनमुदाहृतं ॥”
इति दायभागे कात्यायनः ॥

अध्याहरणं, क्ली, (अधि + आ + हृ + भावे ल्युट् ।)

अध्याहारः । तर्कणं । ऊहनं । इति शब्द-
रत्नावली ॥

अध्याहारः, पुं, (अधि + आ + हृ + भावे घञ् ।)

तर्कः । ऊहः । इत्यमरः ॥ अस्पष्टार्थस्य शब्दा-
न्तरेण स्पष्टीकरणं । आकाङ्क्षासमापकपदानु-
सन्धानं । वाक्यसम्पूर्णार्थपदयोजनं । युक्तिप्राप्तस्य
पदान्तरमुदाहृत्य व्यक्तीकरणं । इति तट्टीका ॥

अध्युष्टः, त्रि, (अधि + वस् + क्तः, आगमशास-

विघेरनित्वात् इडागमाभावः । कृत्तद्धितसमा-
साश्च अभिधाननियामका इति प्रसिद्धेः ।) सार्द्ध-
त्रिसङ्ख्या । ३ ॥ साडे तिन इति भाषा ।
यथा, --
अवाप्य स्वां भूमिं भुजगनिभमध्युष्ठवलयं ।
इति आनन्दलहरी ॥

अध्युष्ट्रः, पुं, (उष्ट्रमधिगतः प्रादिसमासः ।) उष्ट्र-

युक्तरथः । उष्ट्रवाह्यप्रेङ्खा । इति हारावली ॥

अध्यूढः, पुं, (अधि + वह् + क्तः ।) महेश्वरः । इति

मेदिनी ॥ (अधिरोपितः । समृद्धः । अभ्युदय-
शाली ।)

अध्यूढः, त्रि, (आधिक्येन वृद्धिं गतः अधि + वह +

क्तः ।) अधिकवृद्धियुक्तः । समृद्धः । इति धरणी ॥

अध्यूढा, स्त्री, (अधि + वह + कर्म्मणि क्तः, स्त्रियां

टाप् ।) प्रथमविवाहिता स्त्री, कृतसापत्निका ।
कृतानेकविवाहस्य प्रथमोढा स्त्री । इत्यमर-
मेदिनीकरौ ॥

अध्येषणा, स्त्री, (अधि + इष् + णिच् + भावे युच,

स्त्रियां टाप् ।) याच्ञा । इति हेमचन्द्रः ॥ आराध्य-
स्यादरपूर्ब्बकं कर्म्मणि नियुक्तकरणं । गुर्व्वादेः
सत्कारपूर्ब्बकं क्वचिदर्थे नियोजनं । तत्पर्य्यायः ।
सनिः २ । इत्यमरः ॥ सनी ३ । इति तट्टीका ॥

अध्वगः, पुं, (अध्वना पथा गच्छति अध्वन् + गम् +

डः, उपपदसमासः ।) पथिकः । इत्यमरः ॥ उष्ट्रः ।
इति त्रिकाण्डशेषः ॥ सूर्य्यः । इति हेमचन्द्रः ॥
खेसरः । इति राजनिर्घण्टः ॥ खचर इति भाषा ।

अध्वगभोग्यः, पुं, (अध्वगेन पथिकेन भोग्यः, अना-

यासलभ्यफलत्वात्, तृतीयातत्पुरुषः ।) आम्रा-
तकवृक्षः । इति त्रिकाण्डशेषः ॥

अध्वगा, स्त्री, (अध्वन् + गम् + डः, उपपदसमासः ।

स्त्रियां टाप् ।) गङ्गा । इति त्रिकाण्डशेषः ॥

अध्वजा, स्त्री, (अध्वनि जायते अध्वन् + जन् + डः,

उपपदसमासः, स्त्रियां टाप् ।) स्वर्णुलीवृक्षः ।
इति राजनिर्घण्टः ॥

अध्वनीनः, त्रि, (अध्वनि साधुः अध्वन् + ख तस्य

ईण ।) पथिकः । इत्यमरः ॥

अध्वन्यः, त्रि, (अध्वनि साधः अध्वन् + यत् ।)

पथिकः । इत्यमरः ॥ (अध्वन्येन विमुक्तकण्ठमखिलां
रात्रिं तथा क्रन्दित ॥ इति अमरुशतकं ॥)

अध्वरः, पुं, (अध्वानं सन्मार्गं राति ददाति अध्वन् +

रा + कः उपपदसमासः ।) यज्ञः । वसुभेदः ।
सावधानः । इति मेदिनी ॥ (“तमध्वरे विश्वजिति
क्षितीशं” । इति रघुवंशे ।)

अध्वरथः, पुं, (अध्वैव रथो गमनसाधनं यस्य सः ।)

पथरथः । अध्वगमनोपयुक्तरथः । तत्पर्य्यायः ।
परिघातिकः २ । इति हेमचन्द्रः ॥
पृष्ठ १/०४१

अध्वर्य्युः, पुं, (अध्वरं यज्ञं यौति सम्पादयति अध्वर +

यु + कर्त्तरि क्विप्, पृषोदरादित्वात् तुम्भावः
रस्याकारलोपः, होमकारी ऋत्विक् ।) यजुर्वेद-
वेत्ता । इत्यमरः ॥ (यथा कुमारसम्भवे, --
“विवाहयज्ञे विततेऽत्र यूय-
मध्वर्य्यवः पूर्ब्बवृता मयेति” ।)

अध्वशल्यः, पुं, (अध्वनि पथि शल्यमिव आचरति

सकण्टकतया अध्वशल्य + क्विप् ततोऽच् ।) अपा-
मार्गः । इति राजनिर्घण्टः ॥

अध्वा [न्] पुं, (अत्ति गमनेन बलं नाशयति, अद् +

बाहुल्यात् क्वनिप्, पृषोदरादित्वात् दकारस्य धः ।)
पन्थाः । कालः । संस्थानं । अवस्कन्दः । इति
मेदिनी ॥ शास्त्रं । स्कन्धः । इति च पाठान्तरं ॥
अध्वगमनजन्यगुणः । मेदःकफस्थूलतासौकुमार्य्य-
नाशित्वं । इति राजवल्लभः ॥

अध्वान्तशात्रवः, पुं, (अध्वान्तस्य वर्त्मसीमायाः

शात्रवः शत्रुवत्, षष्ठीतत्पुरुषः ।) श्योनाक-
वृक्षः ॥ इति शब्दचन्द्रिका ॥

अन घ लु प्राणने । जीवने । इति कविकल्पद्रुमः ॥

घ लु अनिति लोको जीवति इत्यर्थः । इति दुर्गा-
दासः ॥

अन ङ य प्राणने । जीवने । इति कविकल्पद्रुमः ॥

य ङ अन्यते । इति दुर्गादासः ॥

अनंशुमत्फला, स्त्री, (न अंशुमत् मोचान्तर्व्वर्त्ति-

तया सूर्य्यकिरणशून्यं फलं यस्याः सा ।) अंशु-
मत्फला । कदली । इति जटाधरः ॥

अनः [स्] क्ली, (अनिति जीवत्यनेन जीविको-

पायत्वात् अन् + असुन् ।) शकटं । इत्यमरः ॥
(यथा मनुः, --
“होता वापि हरेदश्वमुद्गाता चाप्यनःक्रये” ।)
अन्नं । इत्युणादिकोषः ॥ जननी । जन्म । जन्मी ।
इति कोषान्तरं ॥

अनकः, त्रि, (अन् + अच् + कुत्सायां कन् ।) अणकः ।

अधमः । इत्यमरटीकायां भरतः ॥

अनगारः, पुं, (नास्ति अगारं गृहं यस्य सः, गृह-

स्थाश्रमशून्यः ।) ऋषिः । मुनिः । इति हेमचन्द्रः ॥
अगारशून्ये वाच्यलिङ्गः ॥

अनग्निः, पुं, (नास्ति श्रौतः स्मार्त्तो वा अग्निर्यस्य

सः ।) श्रौतस्मार्त्तकर्म्महीनः ॥ इति महाभारते
दानधर्म्मः ॥ (अनाहिताग्निर्ब्राह्मणः । यथाह मनुः,
“अग्नीनात्मनि वैतानान् समारोप्य यथाविधि ।
अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः” ॥)

अनघः, त्रि, (नास्ति अघं पापं यस्य सः ।) अपापः ।

निर्म्मलः । मनोज्ञः । इति मेदिनी ॥ (यथा
शाकुन्तले --
“अखण्डं पुण्यानां फलमिव च तद्रूपमनघं” ॥)

अनङ्गं, क्ली, (नास्ति अङ्गमवयवो यस्य तत् ।)

आकाशं । मनः । इति मेदिनी ।

अनङ्गः, पुं, (नास्ति अङ्गं कायो यस्य सः ।) कामदेवः ।

इत्यमरः ॥ (यथा मेदिनी । “अनङ्गो मदनेऽनङ्ग-
माकाशमनसोरपि” ॥) अङ्गरहिते वाच्यलिङ्गः ॥

अनङ्गकं, क्ली, (नास्ति अङ्गमाकारो यस्य तत्,

ततः स्वार्थे कः ।) चित्तं । मनः । इति शब्द-
रत्नावली ॥

अनङ्गासुहृत् [द्] पुं, (अनङ्गस्य कामदेवस्य असु-

हृत् शत्रुः शिवललाटाग्निना तद्देहभस्मीकर-
णात् ।) शिवः । इति हेमचन्द्रः ॥

अनच्छः, त्रि, (न अच्छः निर्म्मलः ।) आविलः । अनि-

र्म्मलः । इत्यमरः ॥

अनञ्जनं, क्ली, (नास्ति अञ्जनं स्वमूर्त्तिप्रकाशो यस्य

तत्, निराकारत्वात्, अन्ज + भावे ल्युट् ।) आ-
काशं । इति शब्दचन्द्रिका ॥ अञ्जनशून्ये त्रि ॥
(यथा साहित्यदर्पणे, --
“नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः” ।)

अनडुज्जिह्वा, स्त्री, (अनडुहो वृषभस्य जिह्वेव जिह्वा

पत्रं यस्याः सा स्त्रियां टाप् ।) गोजिह्वावृक्षः ।
इति राजनिर्घण्टः ॥

अनडुही, स्त्री, (अनडुह् + गौरादित्वात् ङीष् पक्षे

आम् ।) अनड्वाही । इति हेमचन्द्रः ॥ गाइ इति
भाषा ।

अनड्वान्, [डुह्] पुं, (अनडुह् + प्रथमैकवचनम् ।)

वृषः । एँडे इति भाषा । तत्पर्य्यायः । गौः २
भद्रः ३ बलीवर्द्दः ४ दम्यः ५ दान्तः ६ स्थिरः ७
बली ८ उक्षा ९ ककुद्मान् १० ऋषभः ११
वृषभः १२ वृषः १३ धुर्य्यः १४ धुरीयः १५
धौरेयः १६ शाङ्करः १७ शिववाहनः १८ रोहिणी-
रमणः १९ वोढा २० गोनाथः २१ सौरभेयकः २२ ।
इति राजनिर्घण्टः ॥ (यथा मनुः, --
“अजमेषावनड्वाहं खरं हत्वैकहायनम्” ॥)

अनड्वाही, स्त्री, (अनडुह् + गौरादित्वात् ङीष्,

आमागमश्च आमभावपक्षे केवलं ङीष् ।) अन-
डुही । स्त्रीगवी । इति हेमचन्द्रः ॥ गाइ इति
भाषा ।

अनद्यः, पुं, (अद् + कर्म्मणि ण्यत् संज्ञापूर्ब्बकविधे-

रनित्यत्वात् वृद्ध्यभावः, न अद्यः अप्रशस्तखाद्यः,
नञ्समासः, नञत्र अप्राशस्त्ये ।) गौरसर्षपः ।
इति राजनिर्घण्टः ॥

अनधिगतः, त्रि, (अधि + गम् + कर्म्मणि क्तः, न

अधिगतः ज्ञातः, नञ्समासः । गतभिन्नः प्राप्त-
भिन्नः ।) अनवगतः । यथा, -- “अरे विद्वन्मन्या-
ह्यनधिगतवेदार्थविभवाः” । इति भगवद्वाक्य-
मिति प्रामाणिकाः ॥

अनध्यंक्षः, त्रि, (अक्षमिन्द्रियमधिगतः प्रादि-

समासः, प्रत्यक्षः तद्भिन्नः नञ्समासः ।) अप्र-
त्यक्षः । इत्यमरटीकायां रमानाथः ॥ अध्यक्षभिन्नः ॥

अनन्तं, क्ली, (नास्ति अन्तः सीमा यस्य तत् ।)

आकाशं । इत्यमरः ॥ अभ्रकं । इति राज-
निर्घण्टः ॥

अनन्तः, पुं, (नास्ति अन्तः विनाशो यस्य सः, तथाहि

भागवते “लोके नष्टे द्विपरार्द्धावसाने भवानेकः
शिष्यते शेषसंज्ञः” ।) विष्णुः । इति मेदिनी ॥ बल-
देवः । अनन्तजिन्नाम जिनः । इति हेमचन्द्रः ॥
शेषनागः । इत्यमरः ॥ वासुकिः । इति शब्द-
माला ॥ सिन्दुवारवृक्षः । इति राजनिर्घण्टः ॥

अनन्तः, त्रि, (नास्ति अन्तः सीमा विनाशो वा

यस्य सः ।) अन्तरहितः । अनवधिः । अशेषः ।
असीमः । इत्यमरो मेदिनी च ॥ (यथा कुमार-
सम्भवे । -- “अनन्तरत्नप्रभवस्य यस्य” ।)

अनन्तजित्, पुं, (जयतीति जि + कर्त्तरि क्विप्, अ-

नन्तो नाम जित् जयी बौद्धविशेषः शाकपार्थि-
वादित्वात् समासः मध्यपदलोपश्च ।) जिनानां
चतुर्व्विंशत्यन्तर्गतचतुर्द्दशजिनः । तत्पर्य्यायः । अ-
नन्तः २ । इति हेमचन्द्रः ॥

अनन्ततीर्थकृत्, पुं, (अनन्तानि असङ्ख्यानि तीर्थानि

शास्त्राणि कर्म्मधारयः, तानि कृतवान् अनन्त-
तीर्थ + कृ + क्विप्, उपपदसमासः ।) अनन्तजित् ।
इति हेमचन्द्रः ॥ (अनन्तजित् नाम जिनः ॥)

अनन्तरं, त्रि, (नास्ति अन्तरमवकाशो यस्य तत् ।)

अनवकाशं । अन्तररहितं । तत्पर्य्यायः ॥ अव्य-
वहितं २ संसक्तं ३ अपटान्तरं ४ । इति हेम-
चन्द्रः ॥ पश्चादर्थे क्ली ॥ (पश्चात् । ततःपरं । यथा
रघुवंशे, -- “पितुरनन्तरमुत्तरकोशलान्” ॥)

अनन्तविजयः, पुं, (विजयतेऽनेन वि + जि + करणे

अच्, ततोऽनन्तानामसङ्ख्यानां शत्रूणां शब्देन
विजयः विजयसाधनम् षष्ठीतत्पुरुषः ।) युधिष्ठिर-
राजस्य शङ्खः । इति श्रीभगवद्गीता ॥

अनन्तवीर्य्यः पुं, (अनन्तमसीमं वीर्य्यं तेजो यस्य सः ।)

भाविकल्पे जिनानां चतुर्व्विंशत्यन्तर्गतत्रयोविंश-
तीर्थकरजिनः । इति हेमचन्द्रः ॥

अनन्तव्रतं, त्रि, (अनन्तस्य तन्नामकदेवस्य व्रतं षष्ठी-

तत्पुरुषः ।) भाद्रशुक्लचतुर्दशीकर्त्तव्यमनन्तदेवस्य
व्रतं । तद्विधिर्यथा । भविष्ये, --
“अनन्तव्रतमेतद्धि सर्व्वपापहरं शुभं ।
सर्व्वकामप्रदं नॄणां स्त्रीणाञ्चैव युधिष्ठिर ॥
तथा शुक्लचतुर्द्दश्यां मासि माद्रपदे भवेत् ।
तस्यानुष्ठानमात्रेण सर्व्वपापं प्रणश्यति” ॥ * ॥
व्रतारम्भप्रतिष्ठयोर्वर्ज्ज्यकालमाह ज्योतिषे, --
“गुरोर्भृगोरस्तबाल्ये वार्द्धके सिंहगे गुरौ ।
वक्रिजीवाष्टविंशेऽह्नि गुर्व्वादित्ये दशाहिके ॥
पूर्ब्बराशावनायातातिचारिगुरुवत्सरे ।
प्राग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके ॥
कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिम्लुचे ।
भानुलङ्घितके मासि क्षये राहुयुते गुरौ ॥
पौषादिकचतुर्म्मासे चरणाङ्कितवर्षणे ।
एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये ॥
तृतीयेन तु सप्ताहे माङ्गल्यानि शुभान्विताः ।
विद्यारम्भकर्णवेधौ चूडोपनयनोद्वहान् ॥
तीर्थस्नानमनावृत्तं तथानादिसुरेक्षणं ।
परीक्षारामयज्ञांश्च पुरश्चरणदीक्षणे ॥
व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने ।
प्रतिष्ठारम्भणे देवकूपादेर्वर्ज्जयन्ति हि ॥
द्वात्रिंशद्दिवसाश्चास्ते जीवस्य भार्गवस्य च ।
द्वासप्ततिर्म्महत्यस्ते पादास्ते द्वादशक्रमात् ॥
अस्तात् प्राक् परयोः पक्षं गुरोर्वार्द्धकबालते ।
पक्षंवृद्धो महास्ते तु भृगुर्बालो दशाहिकः ॥
पादास्ते तु दशाहानि वृद्धोबालो दिनत्रयं” ॥ * ॥
पृष्ठ १/०४२
:“मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे” ।
ददर्श शीला सा स्त्रीणां समूहं रक्तवाससां ॥
चतुर्द्दश्यामर्च्चयन्तं भक्त्या देवं पृथक् पृथक्” ।
इति भविष्योत्तरीयान्मध्याह्नव्यापिनी तिथि-
र्ग्राह्येति वाच्यं । पूर्ब्बाह्नो वै देवानामिति श्रुत्या-
दिभिः पूर्ब्बाह्ने दैवकृत्यविधानात् । विध्यसम-
भिव्याहृतार्थवादेन तद्बाधायोगात् किन्तु तस्यैव
गौणकालबोधकं तत् । कालमाधवीयोऽप्येवं ।
भविष्येऽपि पूजाविधायको मध्याह्नो नोक्तः ।
यथा, --
“कृत्वा दर्भमयानन्तं वारिधान्यां निवेश्य च ।
पूजयेद्गन्धपुष्पाद्यैर्नैवेद्यैर्विविधैरपि ॥
चतुर्द्दशफलैर्मूलैर्जलजैः कुसुमैरपि ।
यवगोधूमशालीनां चूर्णेनैकतरस्य च ॥
कृत्वा पूपद्वयं तस्मै दद्यादेकं घृतान्वितं ।
स्वयमेकन्तु भुञ्जीत करे बद्ध्वा सुडोरकं ॥
चतुर्दशग्रन्थियुक्तं कुङ्कुमेन विलेपितं ।
सुविन्यस्तं विष्णु नामप्रतिग्रन्थिसमन्वितं ।
चतुर्दशसूत्रमयं सूत्रं कार्पासमेव च” ॥ * ॥
पूजाडोरकबन्धनमन्त्रस्तु रत्नाकरे, --
“अनन्तसंसारमहासमुद्रे
मग्नान् समभ्युद्धर वासुदेव ।
अनन्तरूपिन् विनियोजयस्व
अनन्तरूपाय नमो नमस्ते” ॥
इति मन्त्रमुक्त्वा ।
“अनेन डोरकं बद्ध्वा भोक्तव्यं सुस्थमानसैः” ।
इत्यर्द्धं भविष्योत्तरीयं कालकौमुद्यां लिखित-
मिति ॥ * ॥ तथा, --
“पापोऽहं पापकर्म्माहं पापात्मा पापसम्भवः ।
त्राहि मां पुण्डरीकाक्ष सर्व्वपापहरो भव ॥
अद्य मे सफलं जन्म जीवितञ्च सुजीवितं ।
यत्तवाङ्घ्रियुगाब्जाग्रे मूर्द्धा मे भ्रमरायते” ॥
इत्याभ्यां नमस्कुर्य्यात् । अनन्तकथामप्यत्र शृ-
ण्वन्ति । इति तिथ्यादितत्त्वं ॥ * ॥ * ॥ अथ
प्रयोगः । आचम्य स्वस्तिवाच्य सङ्कल्पं कुर्य्यात्, --
“अद्य भाद्रे मासि शुक्ले पक्षे चतुर्दश्यां तिथा-
वारभ्य अमुकगोत्रः श्रीअमुकः धनधान्यपुत्त्र-
पौत्त्राद्यनवच्छिन्नसन्ततिप्राप्तिकामः श्रीविष्णु-
प्रीतिकामो वा चतुर्दशवर्षपर्य्यन्तं भगवदनन्त-
भट्टारकपूजाचतुर्दशग्रन्थियुक्तडोरकरमूलबन्धन-
कथाश्रवणब्राह्मणसं प्रदानकातपसिततण्डुलप्रस्थ-
द्वयघटितपूपार्द्ध्वोपकल्पनतदर्द्धात्मकर्तृकभोजन-
रूपमनन्तव्रतमहं करिष्ये” इति सङ्कल्प्य सूक्तं
पठेत् ॥ * ॥ ततो गुण्डिकया अष्टदलपद्मं निर्म्माय
तन्मध्ये घटमारोप्य शालग्रामं वा चतुर्दिक्षु
ध्वजां निवेश्य यथोक्तविधिना गणेशनवग्रहदिक्-
पालशिवदुर्गालक्ष्मीनारायणपूजां कृत्वा शक्रं ध्या-
येत्, -- “ॐ महेन्द्रं मत्तैरावतस्कन्धस्थं सहस्रनय-
नोज्ज्वलं । मणिकाञ्चनघटितनानालङ्कारभूषितं
वज्रहत्तं शच्यन्वितं देवगन्धर्व्वगणैर्वृतं मुनिगणैः
स्तूयमानं” ॥ एवं ध्यात्वा महेन्द्राय नमः एवं
कमेण संपूज्य प्रणमेत्, --
“ॐ शक्रः सुरपतिश्चैव वज्रहस्तो महाबलः ।
ऐरावतगजारूढः सहस्राक्षो नमोऽस्तु ते” ॥
ततो वृहत्पात्रे जलं संस्थाप्य हस्तं दत्त्वा समुद्र-
मावाहयेत्, --
ॐ गङ्गेचेत्यादिनावाह्य समुद्रं पूजयेत् ॥ * ॥
ततो भूतशुद्ध्यादिप्राणायामान्तं कृत्वा अनन्तं
ध्यायेत्, --
“ॐ दिव्यसिंहासनासीनं देवेशं गरुडध्वजं ।
शुक्लवर्ण्णं चतुर्बाहुं नागयज्ञोपवीतिनं ॥
शङ्खचक्रगदापठ्मधरं पीताम्बरं विभुं ।
श्रिया वाण्या च संश्लिष्टं किरीटादिसमुज्ज्वलं ॥
फणाशतसमायुक्तं जगन्नाथं जगद्गुरुं ।
अनन्तं चिन्तयेद्देवं नारदाद्यैरुपस्तुतं” ॥
एवं ध्यात्वा स्वशिरसि पुष्पं दत्वा मानसोपचारैः
संपूज्य अर्घ्यं संस्थाप्य ।
आं हृदयाय नमः एवं षडङ्गानि विन्यस्य पुन-
र्ध्यात्वावाहयेत् ।
“ॐ आगच्छानन्त देवेश पत्नीभ्यां बाहनान्वित ।
गन्धर्व्वादिगणोपेत सान्निध्यमिह कल्पय” ॥
ततः पूजयेत् ।
पाद्यं गृहीत्वा, --
“ॐ पाद्यं गृहाण देवेश सुरासुरमनोहरं ।
तुष्टो मे भव देवेश नरसिंह नमोऽस्तु ते” ॥
अर्घ्यं गृहीत्वा, --
“अर्घ्यं गृहाण देवेश सुगन्धिकुङ्कुमान्वितं ।
दूर्व्वाक्षतसमायुक्तं नमस्ते विश्वमूर्त्तये” ॥
आचमनीयं गृहीत्वा, --
“ॐ इदमाचमनीयन्ते दिव्यतोयोद्भवं प्रभो ।
भक्त्या दत्तं मयानन्त नमस्ते पन्नगाधिप” ॥
एवं मधुपकं पुनराचमनीयं स्नानीयं वस्त्रयुग्मञ्च
दद्यात् ॥ * ॥
गन्धः, --
“ॐ गन्धोऽयं देवदेवेश कुड्कुमागुरुसम्भवः ।
यथाशक्त्या मया दत्तो देवेश प्रतिगृह्यतां” ॥
पुष्पं, --
“ॐ पुष्पं गृहाण भोऽनन्त सुगन्धिद्रव्यमुत्तमं ।
पद्मनाभ नमस्तेऽस्तु कुशलं कुरु सर्व्वदा” ॥
धूपः, --
“ॐ धूपोऽयं ते महाभाग दशाङ्गोऽगुरुणा सह ।
मया दत्तः प्रभो विष्णो गृह्यतां सुरनायक” ॥
दीपः, --
“ॐ दीपं गृहाण भोऽनन्त जाज्ञ्वल्यमानमद्भतं ।
त्वं गृहाण सदा देव रक्ष मां घोरसागरात्” ॥
यज्ञोपवीतं, --
“ॐ ऋग्यजुःसाममन्त्रेण त्रिवृत्तं पठ्मयोनिना ।
सावित्रीग्रन्थिसंयुक्तमुपवीतं तवानघ” ॥
नैवेद्यं, --
“ॐ नानाभक्ष्यसमायुक्तं चतुर्द्दशफलैर्युतं ।
भक्त्या सम्पादितं देव सपूपं गृह्यतां विभो” ॥ * ॥
ततो बलभद्रं संपूज्य स्तुतिं कुर्य्यात्, --
“ॐ बलभद्रं महात्मानं हलिनं लाङ्गलायुधं ।
कादम्बरीमदोन्मत्तं नमामि बलदेवकं” ॥
तत आवरणदेवताः पूजयेत् ।
ॐ गणेशाय नमः । एवं लोकपालेभ्यः । नव-
ग्रहेभ्यः । अष्टवसुभ्यः । एकादशरुद्रेभ्यः । द्वादशा-
दित्येभ्यः । अनन्तादिनागेभ्यः । मत्स्यादिदशाव-
तारेभ्यः । मासेभ्यः । ऋतुभ्यः । वत्सरेभ्यः ।
धर्म्माय । अधर्म्माय । ज्ञानाय । अज्ञानाय ।
वैराग्याय । अवैराग्याय । ऐश्वर्य्याय । अनैश्वर्य्याय ।
शिवाय । दुर्गायै । पृथिव्यै । गङ्गायै । यभुनायै ।
महालक्ष्म्यै । सरस्वत्यै । गरुडाय । शङ्खाय । चक्राय ।
गदायै । पद्माय । कौस्तुभाय । सूर्य्यमण्डलाय ।
सोममण्डलाय । वह्निमण्डलाय । वायुमण्डलाय ।
सर्व्वेभ्यो देवेभ्यः । सर्व्वाभ्यो देवीभ्यः ॥ * ॥
ततः स्तुतिं पठेत्, --
“ॐ अनन्तसंसारमहासमुद्रे
मग्नं समभ्युद्धर वासुदेव ।
अनन्तरूपिन् विनियोजयस्व
अनन्तरूपाय नमो नमस्ते ॥
नमोऽस्त्वनन्ताय सहस्रमूर्त्तये
सहस्नपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटीयुगधारिणे नमः ॥
हृदिस्थं सर्व्वदेवानां इन्द्रियाणां गुणातिगं ।
सर्व्वपापहरं देवं प्रणमामि जनार्द्दनं ॥
अनन्तरूपेण बिभर्षि पृथ्वीं
अनन्तलक्ष्मीं विदधासि तुष्टः ।
अनन्तभोगान् प्रददासि तुष्टः
अनन्तमोक्षं पुरुषे प्रहृष्टः ॥
प्रणमामि हृषीकेशं वासुदेवं जगद्गुरुं ।
सृष्टिस्थितिविनाशानां कर्त्तारं प्रणमाम्यहं ॥
राक्षसानामरिं नौमि नौमि दैत्यविमर्द्दकं ।
जगतां हितकर्त्तारं नौमि पङ्केरुहेक्षणं ॥
जन्मजन्मकृतं यच्च बाल्ययौवनवार्द्धके ।
वृद्धिमाप्नोतु तत् पुण्यं पापं हर हलायुध ॥
भक्तिहीनं क्रियाहीनं मन्त्रहीनं यदर्च्चितं ।
यथोद्दिष्टासिमां पूजां परिपूर्णां कुरुष्व मे ॥
पापोऽहं पापकर्म्माहं पापात्मा पापसम्भवः ।
त्राहि मां पुण्डरीकाक्ष हरे संसारसागरात्” ॥
ततो घटस्थजलेन संप्रोक्ष्य करमूले डोरकं
समर्पयेत् ।
“ॐ इदं डोरमनन्ताख्यं चतुर्द्दशगुणात्मकं ।
सर्व्वदेवमयं बिष्णो स्वकरे धारयाम्यहं” ॥
ततो भोज्यमुत्सृजेत् ॥ * ॥
ततः कथां शृणुयात् ।
यथा, --
अरण्यवासमुषितो युधिष्ठिरनृपो वशी ।
प्राप्तस्त्रैलोक्यनाथेन कृष्णेन परमात्मना ॥
कथोकथनं जातं तयोस्तत्र प्रियाप्रियं ।
विशेषेण च गोविन्दं पप्रच्छ च युधिष्ठिरः ॥ * ॥
युधिष्ठिर उवाच ।
केन व्रतेन देवेश वाञ्छितं प्राप्यते फलं ।
निष्पापाः सकला लोकाः भवन्ति जन्मजन्मनि ॥ * ॥
श्रीकृष्ण उवाच ।
पृष्ठ १/०४३
:अस्ति व्रतमनन्ताख्यं यत्कृतं सुरसद्मनि ।
इन्द्राद्यैर्लोकपालैश्च तन्मे कथयतः शृणु ॥
शुक्लपक्षे चतुर्द्दश्यां मासि भाद्रपदे तथा ।
तस्यानुष्ठानमात्रेण सर्व्वपापं प्रणश्यति ॥ * ॥
युधिष्ठिर उवाच ।
कृष्ण कोऽयं त्वयाख्यातो योऽनन्त इति संज्ञितः ।
कोऽयं शेषश्च नागश्च अनन्तस्तक्षकः स्मृतः ॥
परमञ्चोत्तमं वापि उताहो ब्रह्म उच्यते ।
क एषोऽनन्तसंज्ञो वै तन्मे ब्रूहि जनार्द्दन ॥ * ॥
श्रीकृष्ण उवाच ।
अनन्त इत्यहं पार्थ मम रूपं निबोध तत् ।
आदित्यगतिरूपेण यः काल उपपद्यते ॥
कलाकाष्ठामुहूर्त्तादिदिनरात्रिव्यवस्थया ।
पक्षो मास ऋतुर्व्वर्षं युगकल्पव्यवस्थया ॥
सोऽहं कालोऽवतीर्णोऽस्मि भुवो भारावतारणात् ।
दानवानां विनाशाय वसुदेवतनूद्भवं ॥
अनन्तं विद्धि मां पार्थ कृष्णं विष्णुं हरिं शिवं ।
ब्रह्माणं भास्करं शेषं सर्व्वव्यापिनमीश्वरं ॥
प्रत्ययार्थं मया पार्थ विश्वरूपं निबोध तत् ।
पूर्ब्बमेव महाबाहो योगिध्येयमनुत्तमं ॥ * ॥
यधिष्ठिर उवाच ।
अनन्तव्रतमाहात्म्यं विधिं विधिविदां वर ।
किं पुण्यं किं फलं तस्य अनुष्ठानञ्च तस्य किं ॥
केन वा तत्कृतं पूर्ब्बं लोके केन प्रकाशितं ।
तत्सर्व्वं बहु विस्तार्य्य ब्रूहि नारायण प्रभो ॥ * ॥
श्रीकृष्ण उवाच ।
आसीत्पुरा कृतयुगे सुमन्तुर्नाम वै द्विजः ।
वशिष्ठगोत्रजो विद्वान् शीलवान् विजितेन्द्रियः ॥
पत्नी तस्याभवद्दीक्षा सती सत्यव्रते स्थिता ।
चारित्रशीलसम्पन्ना सुरूपा भृगुवंशजा ॥
तस्याः कालेन संजाता दुहिता सर्व्वलक्षणा ।
शीला नाम्ना सुशीला सा वर्द्धते पितृवेश्मनि ॥
माता तस्यास्तु कालेन ज्वरदाहप्रपीडिता ।
समागत्य नदीतोये मृता स्वर्गपुरं ययौ ॥
कृतं सुमन्तुना तस्याः कर्म्म यत् पारलौकिकं ।
ततः सुमन्तुः संत्यज्य दुःखं शोकं क्रमात् पुनः ।
नापत्नीको गृही धर्म्मं कर्त्तुमर्हति वै क्वचित् ।
इति सञ्चिन्त्य मनसा विवाहोत्सुकमानसः ॥
देवलस्य मुनेः कन्यां कर्कशां परिणीतवान् ।
सा कर्कशातिदुःशीला सदा निष्ठुरभाषिणी ॥
कोपना प्रतिकूला च निर्ल्लज्जा कलहप्रिया ।
अदक्षा गृहकृत्येषु दक्षा भोजनकर्म्मणि ॥
कलहेन तु सन्तुष्टा रुष्टा बन्धुजनान् प्रति ।
सा तु शीला पितुर्गेहे वर्द्धिता च दिने दिने
करोति सखिभिः सार्द्धं शिशुक्रीडामनुत्तमां ।
गृहान्तरस्थलद्वारदेहलीतोरणादिषु ॥
चतुरङ्गकवर्णैश्च रक्तपीतसितासितैः ।
स्वस्तिकं पठ्मशङ्खौ च मण्डयन्ती पुनः पुनः ॥
कुर्व्वन्ती प्रत्यहं बाला देवतातिथिपूजनं ।
गृहकृत्ये सदा दक्षा पितुरत्यन्तवल्लभा ॥
कालेन कियता विप्रस्तां दृष्ट्वा यौवनोद्गतां ।
कस्मै देया मया कन्या इति चिन्तान्वितोऽभवत् ॥
ततो दैववशात्तत्र कौण्डिन्यः समुपागतः ।
मुनिश्रेष्ठो महाभागः कुलीनो धर्म्मतत्परः ॥
मनसा चिन्तयामास सुमन्तुः सुतपाः सुधीः ।
अस्मै भाग्यवशाच्छीला प्रतिपाद्या प्रयत्नतः ॥
इति कृत्वा मतिं विप्रो ददौ कन्यां शुभे दिने ।
कन्यामलङ्कृतां साध्वीं शीलां चन्द्रनिभाननां ॥
गृह्योक्तवेदविधिना विवाहमकरोत्तदा ।
ततो होमादिकं कर्म्म समाप्य समये मुनिः ॥
सुमन्तुः कर्कशां प्राह जामात्रे देहि दक्षिणां ।
सफलं कुरु मे दानं प्रिये मुनिकुलोद्भवे ॥
दक्षिणारहितं कर्म्म निष्फलं जायते यतः ।
सा तु तद्वचनं श्रुत्वा कर्कशा कुपिताभवत् ॥
सुमन्तुं भर्त्सयामास कर्कशैर्व्वचनैः पतिं ।
अलङ्कारं समानीय स्वकीयञ्चापि बन्धनं ॥
निक्षिप्य निभृते स्थाने कर्कशान्यगृहं ययौ ।
सुमन्तुश्चातिदीनात्मा लज्जितश्चाभवत्तदा ॥
यत्किञ्चिदर्थयोग्यञ्च द्रव्यमानीय यौतुकं ।
जामात्रे प्रददौ विप्रः परिचार्य्य पुनः पुनः ॥
ततो विवाहं निर्व्वर्त्त्य कौण्डिन्योऽपि निजाश्रमं ।
गोयाने तां समारोप्य शीलामादाय वै ययौ ॥
ततः सा पथि गच्छन्ती शीला चन्द्रनिभानना ।
मध्याह्ने भोज्यवेलायां समुत्तीर्य्य सरित्तटे ॥
ददर्श शीला नारीणां समूहं व्रतचारिणां ।
पुंसां वृन्दञ्च तत्रैव रक्तपीतास्बरासनं ॥
चतुर्द्दश्यामर्चयन्तं भक्त्यानन्तं पृथक् पृथक् ।
दृष्ट्वा समूहं नारीणां सती पप्रच्छ सादरं ॥
विनयावनता साध्वी प्रणिपत्य सुरेश्वरं ।
किमिदं क्रियते कार्य्यं भवतीभिस्तदुच्यतां ॥ * ॥
स्त्रिय ऊचुः ।
भाद्रे मासि सिते पक्षे उत्थिते वासवध्वजे ।
आराधिते महेन्द्रे च ध्वजाकारासु यष्टिषु ॥
नत्वा सरसि यः स्नात्वा अनन्तार्च्चनमारभेत् ।
कृत्वा दर्भमयं देवं वारिवाजसमन्वितं ॥
अनन्तं देवदेवेशं चतुर्ब्बाहुं किरीटिनं ।
अतसीपुष्पसंकाशं काञ्चनाङ्गदभूषणं ॥
शङ्खचक्रगदाशार्ङ्गं विविधायुधधारिणं ।
एह्येहि भगवन् कृष्ण तव यज्ञः प्रवर्त्तते ॥
वारिधान्यां तथानन्तं भगवन्तं नियोजयेत् ।
मण्डले पुष्पनैवेद्यं धूपवस्त्रानुलेपनं ॥
दत्त्वा च पूजयेद्भक्त्या अनन्तं विश्वरूपिणं ।
पिष्टकार्थं व्रीहिचूर्णं यवगोधूमयोश्च वा ॥
एतेषां प्राप्यते यत्तु तद्ग्राह्यं प्रस्थसंज्ञितं ।
अर्द्धं विप्राय दातव्यमर्द्धमात्मनि योजयेत् ॥
पूजयित्वा तथा देवं गन्धपुष्पैर्यथाक्रमं ।
श्रुत्वा कथां ततस्तस्य कुङ्कमाक्तं सुडोरकं ॥
चतुर्द्दशग्रन्थियुक्तं नारी वामकरे न्यसेत् ।
पुमांस्तु दक्षिणे बाहौ तदानन्तं प्रपूजयेत् ॥
निर्व्वर्त्त्य पूजां देवस्य पूपं भुक्त्वा यथासुखं ।
विसृज्य दक्षिणां दत्त्वा प्रणम्य च यथासुखं ॥
शीला श्रुत्वा वचस्तासां यथा ताभिरुदाहृतं ।
व्रतं चकार सा बाहौ बद्ध्वा डोरकमुत्तमं ॥
पूपप्रस्थञ्च सा कृत्वा भुक्त्वा चैव तथैव च ।
पुनर्जगाम तेनैव गोरथेन समन्विता ॥
तेनानन्तप्रसादेन गृहं गोधनसङ्कुलं ।
तदाश्रमं श्रिया युक्तं धनधान्यसमन्वितं ॥
विविधातिथिसम्पूर्णं नानारत्नैर्विभूषितं ।
वराश्वमत्तमातङ्गमहिषैर्गोधनान्वितं ॥
शीला च मणिकाञ्चीभिर्मुक्ताभरणभूषिता ।
दिब्याङ्गी शीलसम्पन्ना सावित्रीप्रतिमा यथा ॥
कदाचिदुपविष्टा सा वह्निकुण्डं समागता ।
कौण्डिन्योऽपि विशेद्रोषात् दृष्ट्वा डोरमनन्तकं ।
शीलायाः करमूले च बद्धमेव प्रयत्नतः ।
पप्रच्छ क्रोधवचसा भृकुटीकुटिलं मुखं ॥
किमिदं डोरकं हस्ते बद्ध्वा भार्य्येऽत्र तिष्ठसि ।
प्रमेयः कस्य देवस्य दुर्ब्बुद्धे ब्रूहि सत्वरं ॥ * ॥
शीलोबाच ।
अनन्तं देवदेवस्य प्रमेयं डोरकं शुभं ।
करे बद्धं विधानेन शृणु मे वचनं प्रभो ॥
प्रसादाद् यस्य देवस्य भुङ्क्ते सुविपुलं धनं ।
न जानासि कथं नाथ तदेवं जगदीश्वरं ॥
शीलावाक्यं ततः श्रुत्वा कौण्डिन्यः कुपितोऽभवत् ।
कोऽसावनन्तसंज्ञो वै न श्रुतोऽपि वरानने ॥
इत्युक्त्वाकृष्य कुपितो भुजाड्डोरमनन्तकं ।
क्षिप्तं ज्वालाकुले वह्नौ निर्भर्त्स्य बहुधा प्रियां ॥
ततः सा संभ्रमात् शीला हाहा कृत्वा प्रधाविता ।
वह्नेः सूत्रं समादाय क्षीरभध्ये ततोऽक्षिपत् ॥
ततस्तया करे वामे पुनर्बद्धं सुडोरकं ।
अनन्ताक्षेपदोषेण दारिद्र्यं पतितं गृहे ॥
न कैश्चित् वर्ण्यते लोकैः सोऽपि विप्रो युधिष्ठिर ।
गात्रे मलिनता प्राप्ता चक्षुर्निद्रां तथैव च ॥
शून्यानि गृहरूपाणि दग्धानि वह्निना क्वचित् ।
निरीक्ष्य स्वपुरं विप्रश्चिन्तयामास चेतसा ॥
अथ शीला विवर्णा सा दुःखिता पतिदोषतः ।
विचचार पुरों सर्व्वां शून्यागारसमन्वितां ॥
अथ कौण्डिन्यविप्रस्य संजाता बुद्धिरुत्तमा ।
ममापि दुष्कृतं कर्म्म कृतं वा मे विगर्हितं ॥
अनन्ताक्षेपदोषेण ममापि गतिरीदृशी ।
अनन्तं यत्र पश्यामि तत्र यास्यामि दुर्म्मतिः ॥
ततो जगाम कौण्डिन्यो वनं व्याघ्रादिसङ्कुलं ।
व्रतस्यान्वेषणं कर्त्तुं पादौ द्रष्टुं तथा हरेः ॥
विह्वलः स ययौ मार्गे जनजन्तुविवर्ज्जिते ।
तत्रापश्यच्च तं वृक्षं फलपुष्पसमन्वितं ॥
वर्ज्जितं पक्षिसङ्घातैः कीटैश्चैव विशेषतः ।
तमपृच्छत् त्वयानन्तः क्वचिद्दृष्टो महाद्रुम ॥
स चोवाच महाबृक्षो नानन्तं वेद्मि भो द्विज ।
ततो गच्छन् ददर्शाग्रे तृणमध्ये सवत्सिकां ॥
तृणमध्ये प्रधावन्ती न खादति न जिघ्रति ।
हे महाधेनुके ब्रूहि किमनन्तस्त्वयेक्षितः ॥
सवत्सा तमुवाचाथ नानन्तं वेद्मि हे द्विज ।
ततो गच्छन् ददर्शाग्रे वृषश्रेष्ठं वने स्थितं ॥
तमपृच्छदयं विप्रः अनन्तो वीक्षितस्त्वया ।
वृषभस्तमुवाचेदं विषण्णं ब्राह्मणं प्रति ॥
यद्यनन्तमहं जाने तदा मे गतिरीदृशी ।
ततो व्रजन् ददर्शाग्रे गर्द्दभं कुञ्जरं तथा ॥
पृष्ठ १/०४४
:नानामायाप्रचरन्तं मदगर्ज्जनदर्पितं ।
स तं दृष्ट्वा द्विजोऽपृच्छदनन्तं दृष्टवान् किमु ॥
प्रत्युत्तरमुवाचेदं नानन्तं वेद्मि हे द्विज ।
ततो व्रजन् ददर्शाग्रे रम्यं पुष्करिणीद्वयं ॥
अन्योन्यजलसंघातैर्व्वोचिभिरुपशोभितं ।
शुभैः कुमुदकह्लारैः कमलोत्पलशोभितं ॥
भ्रमरैश्चक्रवाकैश्च हंसकारण्डवैर्युतं ।
तमपृच्छत् द्विजोऽनन्तो भवतीभ्याञ्च लक्षितः ॥
पुष्करिण्यावूचतुस्तं न जानीवो हरिं क्वत्तित् ।
निपपात ततो विप्रो हाहा कृत्वा रुदन् भुवि ॥
किं करोमि क्व गच्छामि कथं पश्यामि तं विभुं ॥ * ॥
ततः कृपालुहृदयो देबेशो देवपूजितः ॥
तत्क्षणाद्भगवान् विष्णुर्द्विजप्रत्यक्षमागतः ।
वृद्धब्राह्मणरूपेण प्रोवाच वचनं द्विजं ॥
उत्तिष्ठोत्तिष्ठ विप्रेन्द्र त्यज दुःखं सुखी भव ।
अनन्तं दर्शयिष्यामि कृष्णं विष्णुं हरिं शिवं ॥
ब्राह्मणं तं समादाय पातालवर्त्मना पुरीं ।
तां पुरीं दर्शयामास ततश्चान्तर्द्दधे द्विजः ॥
स तां ददर्श कौण्डिन्यः पुरीं त्रैलोक्यदुर्ल्लभां ॥
दिव्यनारीनरैर्युक्तां मणिरत्नविभूषितां ॥
सुवर्णरचितां सर्व्वां वेष्टितां तक्षकादिभिः ।
तत्रापश्यत् स कौण्डिन्यो देवदेवमनन्तकं ॥
बिश्वरूपं जगन्नाथं चतुर्ब्बाहुं किरीटिनं ।
शङ्खचक्रगदापठ्मधारिणं गरुडध्वजं ॥
दक्षिणे विलसल्लक्ष्मीं वामे क्रीडत्सरस्वतीं ।
सप्तफणासमायुक्तं दिव्यसिंहासनेस्थितं ॥
एवं रूपं जगन्नाथं दृष्ट्वा भक्त्या स्तुतिः कृता ।
जगाम भूमौ शिरसा अनन्तस्य समीपतः ॥
नमोऽस्त्वनन्ताय सहस्रमूर्त्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटीयुगधारिणे नमः ॥
अज्ञानेन मया देव यत् कृतं पापकर्म्मणा ।
तत्सर्व्वं कृपया शंस क्षमस्व मधुसूदन ॥ * ॥
अथ कौण्डिन्यविप्रस्य स्ततिं श्रुत्वा जनार्द्दनः ।
प्रसन्नो भगवान्देवश्चानन्तोऽनन्तरूपधृक् ॥
कथं मे प्रियमाख्यातमिहागच्छेति भूसुर ॥ * ॥
अनन्त उवाच ।
तुष्टोऽहं ब्राह्मणश्रेष्ठ भक्त्या तव विशेषतः ।
वरं गृहाण विप्रेन्द्र तुष्टोऽस्मि त्यज विस्मयं ॥ * ॥
कौण्डिन्य उवाच ।
स्वकर्म्मफलभोगेन यां यां योनिं व्रजाम्यहं ।
तस्यां तस्यां हृषीकेश हरिभक्तिर्दृढास्तु मे ॥
अतिप्रमादान्मोहाद्वा यन्मया दुष्कृतं कृतं ।
तदागः क्षम्यतां नाथ प्रणमामि पुनः पुनः ॥
श्रुत्वानन्तस्तु तद्वाक्यं ददौ तस्मै वरत्रयं ।
दारिद्रनाशनं धर्म्मं विष्णुलीकं तथाक्षयं ॥ * ॥
कौण्डिन्य उवाच ।
पूर्णो मनोरथो देव मम चाद्य विशेषतः ।
किञ्चित् पृच्छामि देवेश तन्मे ब्रूहि जगत्पते ॥
कश्चूतः को वृषः का गौः किन्तत् पुष्करिणीद्वयं ।
कः खरः कुञ्चरः को वा को वा वृद्धद्विजोत्तमः ॥
कृपया कथयस्वाद्य पथि दृष्टो मया विभो ।
श्रीअनन्त उवाच ।
यश्चाम्रवृक्षो दृष्टो हि विप्रो विद्यासु गर्व्वितः ।
उपस्थिताय शिष्याय विद्यां यस्मान्न दत्तवान् ॥
तेन कर्म्मविपाकेन वृक्षत्वं प्राप्य तिष्ठति ।
वृषभो यस्त्वया दृष्टो लोभकर्म्मकृतः पुरा ॥
दत्तं पर्य्युषितं द्रव्यं स्वादु भुक्तं स्वयं यतः ।
वृषभत्वं समासाद्य ततस्तिष्ठति निर्ज्जने ॥
विप्राय वसुधां दत्त्वा निष्फलां शस्यवर्ज्जितां ।
तेनासौ गोत्वमासाद्य तृणमध्ये प्रधावति ॥
धर्म्माधर्म्मौ विजानीयाद्यत्तत् पुष्करिणीद्वयं ।
गर्द्दभोऽज्ञानसम्पन्नः कुञ्जरो मदगर्व्वितः ॥
ब्राह्मणोऽसावनन्तोऽहं यस्त्वया दर्शितो मुने ।
एतत्ते कथितं सर्व्वं गच्छ विप्र निजाश्रमं ॥
पुनः समृद्धिस्ते विप्र भविष्यति न संशयः ।
भुक्त्वा भोगांश्च विपुलान् संप्राश्यसि महत् पदं ॥
इति दत्त्वा वरं तस्मै तत्रैवान्तरधीयत ।
कौण्डिन्योऽपि गृहं तत्वा करोति व्रतमुत्तमं ॥
अनन्ताख्यं महापुण्यं वर्षाणाञ्च चतुर्द्दशं ।
शीलया सह धर्म्मात्मा सुखं भुक्त्वा मनोरथान् ॥
विष्णुलोकं समासाद्य रराज शीलया सह ।
अनन्ताख्यव्रतेनेह समाप्तेनैव पार्थिव ॥
सर्व्वपापविनिर्म्मुक्ता यास्यन्ति परमां गतिं ।
एवमेवं हि नियमात् स्त्रियोऽनन्तव्रतान्नृप ॥
पुत्त्रपौत्त्रधनैर्युक्ता भुक्त्वा भोगान् मनोरथान् ।
विष्णुलोकमाप्नुवन्ति यावच्चन्द्रदिवाकरौ” ॥
इति भविष्यपुराणे अनन्तव्रतं समाप्तं ॥

अनन्तशीर्षा, स्त्री, (अनन्तानि बहूनि शीर्षाणि

शिरांसि यस्याः सा ।) वासुकिपत्नी । इति
शब्दमाला ॥

अनन्ता, स्त्री, (नास्ति अन्तो यस्याः सा ।) पार्व्वती ।

पृथिवी । अग्निशिखावृक्षः । श्यामालता । दूर्व्वा ।
पिप्प्यली । दुरालभा । हरीतकी । आमलकी ।
गुडुची । इति मेदिनी ॥ यवासः । श्वेतदूर्व्वा ।
नीलदूर्व्वा । अग्निमन्थवृक्षः । इति राजनिर्घण्टः ॥
अनन्तमूलं । तत्पर्य्यायः । गोपवल्ली २ काराला ३
सुगन्धा ४ भद्रवल्लिका ५ भद्रा ६ नागजिह्वा ७ ।
इति रत्नमाला ॥ गोपी ८ श्यामा ९ शारिवा १०
उत्पलशारिवा ११ । इत्यमरः ॥ गोप्यादि-
पञ्चश्यामलतायां नागजिह्वायां इति केचित् ।
गोप्यादित्रयं श्यामलतायां अनन्तोत्पलशारिवेति
द्वयं अनन्तमूले इति केचित् । इति तट्टीकायां
भरतः ॥ तस्या गुणाः । मलबन्धकारित्वं । रक्त-
पित्तनाशित्वं । शीतलत्वञ्च । इति राजबल्लभः ॥

अनन्यगतिकः, त्रि, (नास्ति अन्या गतिः यस्य ।

समासान्तः कः ।) गत्यन्तररहितः । एकाश्रयः ।
“अनन्यगतिके जने विगतपातके चातके
यथारुचि तथा कुरु प्रिय तथापि नान्यं भजे” ।
इत्युद्भटः ॥

अनन्यजः, पुं, (नास्ति अन्यत् यस्मात् सः अनन्यो

विष्णः, तस्मात् जात इति, अनन्य + जन् + ड ।)
कामदेवः । इत्यमरः ॥

अनन्यवृत्तिः, त्रि, (न अन्या वृत्तिरस्य इति ।)

एकमात्रवृत्तिः । तत्पर्य्यायः । एकतानः २ एकाग्रः ३
एकायनः ४ एकसर्गः ५ एकाग्र्यः ६ एकायन
गतः ७ । इत्यमरः ॥

अनपायी, [न्] त्रि, (नास्ति अपायः विनाशोऽस्य

इति, न + अपाय + इनि ।) निश्चलः । अपाय-
शून्यः । अनश्वरः । यथा, --
“अनपायिभिरस्माभिर्गुप्तायाश्च गृहे प्रभो” ।
इति श्रीभागवतं ॥
(“अनपायिनि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी” ।
इति कुमारे ॥)

अनभिज्ञः, त्रि, (अभि जानाति इति अभिज्ञः,

अभि + ज्ञा + कः, न अभिज्ञ इति नञ्समासः ।)
मूर्खः । प्रज्ञारहितः । बुद्धिहीनः । यथा, --
“धिक्त्वां चूततरो परापरपरिज्ञानानभिज्ञो भवान्”
इति भ्रमराष्टकं ॥

अनभिलाषः, पुं, (न अभिलाष इति नञ्समासः ।)

अरुविः । इति राजनिर्घण्टः ॥ अनिच्छा ॥ (त्रि,
नास्ति अभिलाषो यस्य इति समासे अभिलाष-
शून्यः ।)

अनमः, पुं, (नमति प्रणमति इति नमः, नम् +

पचाद्यच्, न नमः अनम इति नञ्समासः ।)
ब्राह्मणः । इति त्रिकाण्डशेषः ॥

अनमितम्पचः, त्रि, (मितं परिमितं पचति इति,

मित + पच् + खच्, न मितम्पच इति अमित-
म्पचः, न अमितम्पच इति अनमितम्पचः, नञ्-
समासः ।) मितम्पचः । कृपणः । इत्यमरटीकायां
रमानाथः ॥

अनम्बरः, पुं, (नास्ति अम्बरं परिधेयं यस्य सः ।)

बौद्धविशेषः । इति सिद्धान्तशिरोमणौ गो-
लाध्यायः ॥

अनयः, पुं, (अयः शुभावहोविधिस्तद्भिन्नः नञ्-

समासः ।) दैवं । अशुभं । व्यसनं । विपद् । इति
मेदिनी ॥
(“अनयो नयसम्पन्ने यत्र ते विकृता मतिः” ।
इति रामायणे ।)

अनर्गलं, त्रि, (नास्ति अर्गलं प्रतिबन्धो यस्य तत् ।)

निरर्गलं । प्रतिबन्धकरहितं । तत्पर्य्यायः । अवाधं २
उच्छृङ्खलं ३ उद्द्वाम ४ नियन्त्रितं ५ निरङ्कुशं ६ ।
इति हेमचन्द्रः ॥
(“ततः परं तेन मखाय यज्वना
तुरङ्गसुत्सृष्टमनर्गलं पुनः ।
इति रघुवंशे ।)

अनर्थकं, क्ली, (नास्ति अर्थः यस्य तत्, समासान्तः

कः ।) निरर्थकं । अर्थशून्यवाक्यं । तत्पर्य्यायः ।
अबद्धं २ । इत्यमरः ॥ अबध्यं ३ । इति तट्टीका ॥

अनलः, पुं, (नास्ति अलः बहुदाह्यवस्तुदहनेऽपि

तृप्तिर्यस्य सः, कृत्तिकानक्षत्रे, वत्सरे भगवति
वासुदेवे ।) अग्निः । वसुभेदः । इति मेदिनी ॥
चित्रकः । रक्तचित्रकः । भल्लातकः । पित्तं । इति
राजनिर्घण्टः ॥

अनलप्रभा, स्त्री, (अनलस्य वह्लेः प्रभेव प्रभा यस्याः

पृष्ठ १/०४५
:सा ।) ज्योतिष्मतीलता । इति राजनिर्घण्टः ॥

अनलप्रिया, स्त्री, (अनलस्य अग्नेः प्रिया षष्ठीतत् ।)

अग्निभार्य्या । आग्नेयी । इति जटाधरः ॥

अनलिः, पुं, (अनिति अंन् + पचाद्यच् अनः तन्मधु-

पानेन जीवनधारयिता अलिः भ्रमरो यत्र सः ।)
वकवृक्षः । इति त्रिकाण्डशेषः ॥

अनवधानं, क्ली, (न अवधानं मनोयोगः नञ्-

समासः ।) चित्तस्याविक्षेपः । अमनोयोगः । अ-
प्रणिधानं । इति हलायुधः ॥ तद्विशिष्टे त्रि ॥

अनवधानता, स्त्री, (नास्ति अवधानं मनोयोगो

यस्य सः, तस्य भावः ततस्तल् स्त्रियां टाप् ।)
मनोयोगशून्यता । चित्तस्यानन्यविषयाभावत्वं ।
कार्य्ये अनवहितत्वं । तत्पर्य्यायः । प्रमादः २ ।
इत्यमरः ॥
“कर्त्तव्याकरणं यत्र समर्थस्य क्वचिद्भवत् ।
उच्यते द्वितयं तत्र प्रमादोऽनवधानता” ॥
इति शब्दरत्नावली ॥

अनवरः, त्रि, (न अवरः, नञ्समासः ।) अकनिष्ठः ।

अन्यूनः । श्रेष्ठः । प्रधानः । यथा, --
“सोऽयमिन्द्रादनवरो वासुदेवाच्च भारत” ।
इति विराटपर्व्व ॥

अनवरतं, क्ली, (अव + रम् + भावे क्तः, नास्ति अव-

रतं विरतिर्यत्र तत् ।) निरन्तरं । तत्पर्य्यायः ।
सततं २ अनारतं ३ अश्रान्तं ४ सन्ततं ५ अवि-
रतं ६ अनिशं ७ नित्यं ८ अजस्रं ९ प्रसक्तं १०
आसक्तं ११ अनद्धं १२ । इति जटाधरः ॥
तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥
(“अनवरतधनुर्ज्यास्फालनक्रूरकर्म्मा” ।
इति शाकुन्तले ।)

अनवरार्द्ध्यः, त्रि, (अवरमद्ध, कर्म्मधारयः, तत्र भवः,

अवरार्द्ध + यत्, ततो नञ्समासः ।) उत्तमः ।
प्रधानः । इत्यमरः ॥

अनवलम्बः, त्रि, (नास्ति अवलम्बः आश्रयो यस्य

सः ।) अवलम्बनशून्यः । निराश्रयः । यथा, --
“न परं पथि पक्षपातिता-
नवलम्बे किमु मादृशेऽपि सा” ।
इति नैषधं ॥

अनवसरः, त्रि, (नास्ति अवसरः अवकाशो यस्य

सः ।) निरवकाशः । अवसराभावे पुं । यथा, --
“अतर्क्यैश्वर्य्ये त्वय्यनवसरदुःस्था हतधियः” ।
इति महिम्नः स्तोत्रं ॥

अनवस्करं, त्रि, (अव अधोवर्त्मना कीर्य्यते क्षिप्यते

अव + कॄ + अप्, “वर्च्चस्कोऽवस्कर इति सुडा-
गमः” नास्ति अवस्करो मलं यस्य तत् ।)
निर्म्मलं । शोधितं । इत्यमरः ॥

अनवस्था, स्त्री, (अव + स्था भावे अङ्, न अवस्था अव-

स्थानं नञ्समासः ।) तर्कविशेषः । तस्य लक्षणं ।
अप्रामाणिकानन्तप्रवाहमूलकप्रसङ्गत्वं । यथा, --
“घटत्वं यदि यावद्घटहेतुवृत्ति स्यात् घटान्यवृत्ति
स्यात्” । इति तार्किकाः ॥ उपपाद्योपपाद-
कयोरविश्रान्तिः । इति मीमांसकाः । दशाभावः ।
स्थित्यभावः ॥
(“एवमप्यनवस्था स्याद् या मूलक्षतिकारिणी” ।
इति काव्यप्रकाशे ।)

अनवस्थानः, पुं, (न अवस्थानमवस्थितिर्यस्य सः ।)

वायुः । इति राजनिर्घण्टः ॥ अवस्थितिशून्ये त्रि ॥
(चञ्चलः । अव्यवस्थितः ।)

अनवस्थितिः, स्त्री, (न अवस्थितिः अवस्थानं नञ्-

समासः ।) चापल्यं । चाञ्चल्यं । अस्थिरता ।
अधैर्य्यं । इति हेमचन्द्रः ॥

अनशनं, क्ली, (अश् भावे ल्युट्, न अशनं भोजनं,

नञ्समासः ।) भोजनाभावः । उपवासः । इति
हलायुधः ॥ तद्वति त्रि ॥ (प्रायोपवेशनं । “तदह-
मनशनं कृत्वा प्रातः प्राणानुत्सृजामि” । इति
पश्चतन्त्रे ।)

अनश्वरं, त्रि, (नश् + कर्त्तरि वरच् न नश्वरं, नञ्-

समासः ।) सनातनं । नित्यं । ध्रुवं । शाश्वतं ।
इति हेमचन्द्रः ॥
(“मत्वा विश्वमनश्वरं निविशते संसारकारागृहे” ।
इति वैराग्यशतके ।)

अनसूया, स्त्री, (असु कण्ड्वादित्वात् यक् + भावे अ,

स्त्रियां टाप्, न असूया नञ्समासः ।) असूया-
भावः । तस्या लक्षणं यथा वृहस्पतिः ।
“न गुणान् गुणिनो हन्ति स्तौति मन्दगुणानपि ।
नान्यदोषेषु रमते सानसूया प्रकीर्त्तिता” ॥
इत्येकादशीतत्त्वं ॥ अत्रिमुनिपत्नो । इति गारुडे
२९ अध्यायः ॥ कर्द्दममुनिकन्या । इति श्रीभा-
गवतं ॥ असूयाशून्ये त्रि ॥

अनहंवादी, [न्] त्रि, (अहमिति गर्व्वं वदति यः,

अहं + वद् + णिनि, उपपदसमासः, ततो नञ्-
समासः । अहमित्यव्ययं ।) गर्व्वरहितः ।
“मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्व्विकारः कर्त्ता सात्विक उच्यते” ।
इति श्रीभगवद्गीता । अनहंवादी गर्व्वरहितः ।
इत्याह्निकतत्त्वं ॥

अनहङ्कृतिः, स्त्री, (न अहङ्कृतिः अहङ्कारः नञ्-

समासः ।) अहङ्काराभावः । तत्पर्य्यायः । अशोचः
२ । इति त्रिकाण्डशेषः ॥ (त्रि नास्ति अहङ्कृतिः
यस्य इति समासे अहङ्कारशून्यः ।)

अनक्षः, त्रि, अक्षिहीनः । अन्धः । न विद्येते

अक्षिणी यस्य इत्यर्थे ष प्रत्ययः । अक्षभिन्नः ॥

अनक्षरं, क्ली, (न सन्ति प्रशस्तानि अक्षराणि

यत्र तत् ।) दुर्व्वचनं । इति भरतः ॥ अवचनार्हं ।
इति मधुः ॥ गालिप्रभृति । गुणाक्षेपकदोषावि-
ष्कारिवाक्यं । इति केचित् ॥ तत्पर्य्यायः । अवाच्यं
२ । इत्यमरः ॥

अनक्षि, क्ली, (अप्रशस्तमक्षि नेत्रं, नञ्समासः ।)

कुत्सितचक्षुः । तत्पर्य्यायः । असौम्याक्षि २ । इति
हेमचन्द्रः ॥

अनाकुलः, त्रि, (न आकुलः नञ्समासः ।) स्थिरः ।

एकाग्रः । अव्याकुलः । अव्यग्रः । इति जटाधरः ।
(“अनाकुलाऽविक्लवा च सुसम्भ्रान्ता च मे मतिः” ।
इति रामायणे ।)

अनाक्रान्ता, स्त्री, (कैरपि न आक्रान्ता आक्रमितुम-

योग्या कण्टकव्याप्तत्वात्, नञ्समासः ।) कण्ट-
कारीवृक्षः । इति रत्नमाला ॥ अनाक्रमणवि-
शिष्टे त्रि ॥

अनागतं, त्रि, (आङ् + गम् + कर्त्तरि क्तः, न आगतं

नञ्समासः ।) भविष्यत् । इति राजनिर्घण्टः ॥
अनायातं । अनुपस्थितं । अज्ञातं । यथा --
(“तावद्भयस्य भेतव्यं यावद्भयमनागतं” ।
इति पञ्चतन्त्रे ।)
“अनागतादिलिङ्गेन न स्यादनुमितिस्तदा” ।
इति भाषापरिच्छेदः ॥

अनागतार्त्तवा, स्त्री, (न आगतमप्राप्तमार्त्तवं स्त्री-

पुष्पविकाशनं यस्याः सा, स्त्रियां टाप् । ऋतु +
अण् ।) अप्राप्तऋतुका । अरजस्का । तत्पर्य्यायः ।
गौरी २ नग्निका ३ । इत्यमरः ॥

अनाचारः, पुं, (न कुत्सित आचारः नञ्समासः ।

नञत्र अप्राशस्त्ये अभावार्थे तु आचाराभावः ।)
कदाचारः । अशुद्धाचारः । श्रुतिस्मृतिविरुद्ध-
कर्म्मकरणं । यथा, --
“सर्व्वदेशेष्वनाचारः पथि ताम्बूलचर्व्वणं” ॥
इति स्मृतिः ॥ तद्विशिष्टे त्रि ॥

अनातपः, पुं, (आङ् + तप् + अच्, आतपस्य रौद्रस्या-

भावः नञ्समासः ।) रौद्राभावः । छाया । इति
राजनिर्घण्टः ॥ (त्रि छायाविशिष्टे ।
“खल्वाटोदिवसेश्वरस्य किरणैः सन्तापिते मस्तके ।
वाञ्छन् देशमनातपं विधिवशात् विल्वस्य मूलं
गतः” ॥ इति नीतिशतके ।)

अनातुरः, त्रि, (न आतुरः रोगी नञ्समासः ।)

अरोगी । यथा, --
“तेषामनातुराः पूर्ब्बे वातलाद्याः सदातुराः” ।
इति चरकः । (“भेजे धर्म्ममनातुरः” । इति
रषुवंशे ।)

अनाथः, त्रि, (नास्ति नाथः आश्रयो यस्य सः ।)

प्रभुहीनः । नाथशून्यः । यथा, --
“वना वना वनाथवत् स्वजीवना वनाभवत्” ।
इति नलोदयः ।
(“नाथवन्तस्त्वया लोकास्त्वमनाथा विपद्यसे” ।
इति उत्तरचरिते ।)

अनादरः, पुं, (आ + दृ + भावे अप्, न आदरः नञ्-

समासः ।) निरादरः । तत्पर्य्यायः । परिभवः २
परिभावः ३ तिरस्क्रिया ४ रीढा ५ अवमानना ६
अवज्ञा ७ अवहेलं ८ असूक्षणं ९ । इत्यमरः ॥
असुक्षणं १० असुर्क्षणं ११ असूर्क्षणं १२ । इति
भरतः ॥ (“गुणेषु रागो व्यसनेष्वनादरः” । इति
पञ्चतन्त्रं ।)

अनादिः, त्रि, (नास्ति आदिः कारणं यस्य

सः ।) आदिरहितः । उत्पत्तिशून्यः । स्वयम्भूः ।
यथा, --
“अनादिरादिर्गोविन्दः सर्व्वकारणकारणं” ।
इति ब्रह्मसंहिता ॥

अनादृतः, त्रि, (आ + दृ + कर्म्मणि क्तः, न आदृतः

नञ्समासः ।) निरादरः । अवज्ञातः । अव-
मानितः । इति हेमचन्द्रः ॥
पृष्ठ १/०४६
:(“सव्व तस्यादृता धर्म्मा यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्व्वास्तस्याफलाः क्रियाः” ॥
इति मनुः ।)

अनामकं, क्ली, (अनम् अन् + घञर्थे कः, अनं

जीवनं आमयति, रोगग्रस्तं करोति, अम् + णिच्
+ ण्वुल् अनस्य आमकं षष्ठीतत्पुरुषः ।) अर्शो-
रोगः । इति शब्दरत्नावली ॥ मलमासे पुं । इति
मलमासतत्त्वं ॥ दुर्नामके निर्नामके च त्रि ।

अनामयं, क्ली, (आ + अम् + भावे घञ्, आमं रुग्ना-

वस्थां याति प्राप्नोत्यनेन, आम + या क, आम-
यस्य अभावः अव्ययीभावः ।) रोगाभावः आरोग्यं ।
इत्यमरः ॥
(“ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयं” ।
इति मनुः ।) तद्विशिष्ट त्रि ॥

अनामा, [न्] पुं, (नास्ति ब्रह्मशिरश्छेदनसाधन-

तया अप्रशस्तं नाम यस्य सः । अनया अङ्गुल्या
शिवेन ब्रह्मशिरश्छिन्नं । इति पुराणे ।) अना-
मिकाङ्गुली । इति शब्दरत्नावली ॥

अनामिका, स्त्री, (नास्ति ब्रह्मशिरश्छेदनसाधनतया

प्रशस्तं नाम यस्याः सा । स्त्रियां डाप् ततः
स्वार्थे कन् टाप् च ।) कनिष्ठामध्यमयोर्मध्य-
वर्त्त्यङ्गुली । इत्यमरः ॥ (“वस्त्रान्तानामिकाकेश-
नखरोमदशास्पृशः” । इति सुश्रुते ॥)

अनायत्तः, त्रि, (आ + यत् + क्तः, न आयत्तः नञ्-

समासः ।) अवशीभूतः । अनधीनः । यथा, --
“एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता ।”
इति हितोपदेशः ॥

अनायासः, पुं, (आ + यस् + घञ् ततो नञ्समासः ।)

अक्लेशः । तस्य लक्षणं यथा । वृहस्पतिः ॥
“शरीरं पीड्यते येन सुशुभेनापि कर्म्मणा ।
अत्यन्तं तन्न कुर्व्वीत अनायासः स उच्यते” ॥
इत्येकादशीतत्त्वं ॥ श्रमव्यतिरेकः । यत्नाभावः ।
यथा, --
“अनायासेन मरणं विना दैन्येन जीवनं ।
अनाराधितगोविन्दचरणस्य कथं भवेत्” ॥
इति प्रामाणिकाः ॥

अनायासकृतं, त्रि, (अनायासेन अक्लेशेन कृतं

तृतीयातत्पुरुषः ।) अनायासेन यत् क्रियते स्म
तत् । विना यत्नेन कृतं । तत्पर्य्यायः । फाण्टं २ ।
इत्यमरः ॥

अनारतं, क्ली, (आ + रम् + क्तः, ततो नञ्समासः ।)

अनवरतं । सततं । नित्यं । इत्यमरः ॥
(“अनारतं तेन पदेषु लम्भिताः ।
विभज्य सम्यग्विनियोगसत्क्रिया” ॥
इति किरातार्ज्जुनीये ।)

अनारम्भः, पुं, (आ + रभ् + भावे घञ्, ततो नञ्-

समासः ।) आरम्भाभावः । यथा, --
“न कर्म्मणामनारम्भान्नैष्कर्म्म्यं पुरुषोऽश्नुते” ।
इति भगवद्गीता ॥

अनार्जवं, क्ली, (ऋजोर्भावः ऋजु + भावे अण्, ततो

नञ्समासः ।) रोगः । इति राजनिर्घण्टः ॥
ऋजुत्वाभावः ।

अनार्य्यः, त्रि, (ऋ + ण्यत्, न आर्य्यः श्रेष्ठः, नञ्-

समासः ।) अश्रेष्ठः । यथा, --
“अनार्य्यजुष्टमस्वर्ग्यमकीर्त्तिकरमर्ज्जुन” ।
इति श्रीभगवद्गीता ॥

अनार्य्यकं, क्ली, (नास्ति आर्य्यो यत्र देशे तादृशार्य्या-

वर्त्तभिन्नदेशे भवं अनार्य्य + कन् ।) अगुरुकाष्ठं ।
इति राजनिर्घण्टः ॥

अनार्य्यजं, क्ली, (नास्ति आर्य्यो यत्र देशे तादृशार्य्या-

वर्त्तभिन्नदेशे जायते यत्, अनार्य्य + जन् + ड,
उपपदसमासः ।) अगुरु । इति हेमचन्द्रः ॥

अनार्य्यतिक्तः, पुं, (अनार्य्यप्रियश्चासौ तिक्तश्चेति

शाकपार्थिवादिः ।) भूनिम्बः । इत्यमरः ॥ चिराता
इति भाषा ।

अनालोचितः, त्रि, (न आलोचितः कर्त्तव्यतया अव-

धारितः ।) अकृतालोचनः । इतिकर्त्तव्यतयान-
वधारितः । अविवेचितः । यथा, --
“किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा” ।
इति देवीमाहात्म्यं ॥

अनाविलः, त्रि, (न आविलः, नञ्समासः ।)

आविलशून्यः । निर्म्मलः । इति हलायुधः ॥ (स्वच्छः,
स्वास्थ्यकरः ।)
(“पद्मगन्धि शिवं वारि सुखं शीतमनाविलं” ।
इति रामायणे ।
“जाङ्गलं शस्यसम्पन्नमार्य्यप्रायमनाविलम्” ।
इति मनुः ।)

अनावृतः, त्रि, (आ + वृ + कर्म्मणि क्तः न आवृतः,

नञ्समासः ।) आवरणशून्यः । अनाच्छादितः ।
यथा । “अनावृतत्वाद्वहिरन्तरं न ते” । इति
श्रीभागवतं ॥

अनावृष्टिः, स्त्री, (न आवृष्टिर्वर्षणं, नञ्समासः ।)

ईतिविशेषः । वर्षणाभावः । इति स्मृतिः ॥ शुका
इति भाषा ।
(“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।
प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः” ॥
इति प्रसिद्धम् ।)

अनाश्यः, त्रि, (पाणिनिमते तु नश् + णिच् कर्म्मणि

यत् ततो नञ्समासः ।) नाशायोग्यः । नशधातो-
र्घ्यणि नञ्समासः ॥

अनासिकः, त्रि, (नास्ति नासिका यस्य सः ।)

नासिकारहितः । तत्पर्य्यायः । विखः २ विख्रुः ३
विग्रः ४ । इति हेमचन्द्रः ॥

अनाहतं, क्ली, (आ + हन् + क्तः नास्ति आहतं

छेदो यस्य तत् ।) तन्त्रोक्तषट्चक्रान्तर्गतचतुर्थ-
चक्रं । तत्तु हृदयस्थकादिठान्तवर्णयुक्तोद्यदादित्य-
सन्निभद्वादशदलपद्माकारं । तन्मध्ये अयुतसूर्य्य-
समप्रभशब्दब्रह्मयबाणलिङ्गमस्ति । इति तन्त्र-
सारः ॥

अनाहतं, त्रि, (आ + हन् + भावे क्तः, न सन्ति

आहतानि छेदक्षालनभोगा यस्य तत् ।) नूतन-
वस्त्रं । छेदक्षालनभोगरहितवस्त्रं । इत्यमरः ॥
अगुणितं । इत्यङ्कशास्त्रं ॥ अकृताघातं ॥ (अक्षतः ।
आघातरहितः । अक्षुब्धः । तन्त्रोक्तषट्चक्रान्त-
र्गतचतुर्थचक्रं, तत् तु हृदयस्थकादिठान्तवर्ण-
युक्तोद्यदादित्यसन्निभद्वादशदलपद्माकारं, तन्मध्ये
अयुतसूर्य्यसमप्रभशब्दब्रह्ममयबाणलिङ्गमस्ति ।
“शब्दोब्रह्ममयः शब्दोऽनाहतो यत्र दृश्यते ।
अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्त्तितं” ॥

अनाहारः, पुं, (आ + हृ + भावे घञ् ततो नञ्-

समासः ।) भोजनाभावः । यथा, --
“ऋतावनाहारतया भयेनेति” चरकः ॥

अनाहूतः, त्रि, (आ + ह्वे + कर्म्मणि क्तः ततो नञ्-

समासः ।) अकृताह्वानः । अनिमन्त्रितः । यथा, --
“अनाहूतैरेत्य प्रचुरगुणलोभेन भवतः” ।
इत्युद्भटः ॥ ह्रस्वमध्योऽपि यथा --
“अनाहुता अप्यभियान्ति सौहृदं” ।
इति श्रीभागवतं ॥

अनिगीर्णः, त्रि, (नि + गॄ + क्तः ततो नञ्समासः ।)

अनुक्तः । यथा, --
“विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत्” ।
इति साहित्यदर्पणं ॥

अनिच्छुः, त्रि, (इष् + कर्त्तरि उ विन्दुरिच्छुरिति

सूत्रेण निपातनात् साधु ।) अनिच्छाविशिष्टः ।
अनाकाङ्घी । अस्पृहः । इच्छतीति इच्छुः ततो
नञ्समासः ॥

अनित्यः, त्रि, (नि + त्यप् ततो नञ्समासः ।)

नश्वरः । अस्थायी । जन्यवस्तु । यथा, --
“धर्म्मो नित्यः सुखदुःखेऽप्यनित्ये ।
जीवो नित्यो हेतुरस्याप्यनित्यः” ।
इति महाभारते भारतसावित्री ॥

अनिन्दितः, त्रि, (निदि + कर्म्मणि क्तः ततो नञ्-

समासः ।) निन्दारहितः । अगर्हितः । तत्पर्य्यायः ।
प्रणाय्यः २ साधुः ३ । इति त्रिकाण्डशेषः ॥
(“अनन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत्” ॥
इति मनुः ॥)

अनिपुणः, त्रि, (न निपुणः पटुः नञ्समासः ।)

अप्रवीणः । अविज्ञः । अपटुः । यथा, --
“यः शास्त्रादिष्वनिपुणः श्रद्धावान् स तु मध्यमः” ।
इति भक्तिरसामृतसिन्धुः ॥

अनिमिषः, पुं, स्त्री, (नास्ति निमिषः निमेषः चक्षु-

स्पन्दनं यस्य सः ।) देवता । मत्स्यः । इत्यमरः ॥
(निमेषरहितः । स्थिरदृष्टिः । सावधानः । अप्र-
मत्तः ।
“सुरेषु नापश्यदवैक्षताक्ष्णो-
र्नृपे निमेषं निजसम्मुखे सति” ।
इति नैषधे ।)

अनिमिषाचार्य्यः, पुं, (अनिमिषाणांदेवानां आचार्य्यः

गुरुः षष्ठीतत् ।) वृहस्पतिः । देवगुरुः । इति
शब्दरत्नावली ॥

अनिमेषः, पुं, (नास्ति निमेषः चक्षुःस्पन्दनं यस्य

सः ।) देवता । मत्स्यः । इति हेमचन्द्रः ॥

अनियतं, त्रि, (नि + यम् + क्तः, न नियतं नञ्-

समासः ।) अनित्यं । अस्थायि । यथा, --
“रत्यादयोऽप्यनियते रसे स्युर्व्यभिचारिणः” ।
इति साहित्यदर्पणं ॥ “रिष्टं त्रिविधं मुनयो निय-
तमनियतं योगजञ्च” । इति ज्योतिषं ॥