शब्दकल्पद्रुमः/अच

विकिस्रोतः तः

शब्दकल्पद्रुमः

पृष्ठ १/०१७

अच्छभल्लः, पुं, (अच्छा निर्म्मलाः भल्लाः शस्त्राणीव

नखा यस्य सः बहुव्रीहिः यथा -- मेदिन्यां भल्लः
स्यात् पुंसि भल्लूके शस्त्रभेदे पुनर्द्वयोः) भालूकः ।
इत्यमरः । तट्टीकाकारमते अच्छो भल्लश्चेति
शब्दद्वयमपि ॥

अच्छा, स्त्री, (अःविष्णुश्छायते आच्छाद्यतेऽनया, च्छो +

करणे अङ् । अस्य विष्णोः छा आच्छादनं षष्ठी-
तत्पुरुषः । अकारो वासुदेवः स्यादित्येकाक्षरीय-
कोषे ।) विष्णोराच्छादनं । इति मुग्धबोधव्याकरणं ॥

अच्छिद्रं, त्रि, (नास्ति छिद्रं यत्र बहुव्रीहिः) छिद्र-

रहितं । दोषाभावविशिष्टं । यथा शातातप-
पराशरौ । --
“अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ।
प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समं” ॥
इति श्राद्धतत्त्वं ॥

अच्छिद्रावधारणं, क्ली, (अच्छिद्रस्य दोषरहित-

कर्म्मणः अवधारणं निश्चयः) दोषरहितकर्म्म-
निश्चयः । तज्ज्ञापकवाक्यं । यथा, --
ततः कर्म्ममात्रप्राप्ताच्छिद्रावधारणं कुर्य्यात् ।
तथाच शातातपपराशरौ । --
“अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ।
प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलैः समं” ॥
इति श्राद्धतत्त्वं ॥
अपि च । वशिष्ठः ।
“ततः शान्तिं प्रकुर्व्वीत अवधारणवाचनं” ।
अवधारणं अच्छिद्रावधारणं । इति तिथ्यादि-
तत्त्वं ॥ तद्वाक्यं यथा, -- अद्यामुके मासि अमुक-
पक्षे अमुकतिथौ मत्कृतैतदमुककर्म्माच्छिद्रमस्तु ॥

अच्छिन्नं, त्रि, (छिद + कर्म्मणि क्तः न छिन्नं नञ्-

समासः) छेदरहितं । अकर्त्तितं । यथा गर्गः, --
“श्रुत्वा पुत्त्रस्य वै जन्म कृत्वा वेदोदिताः क्रियाः ।
अच्छिन्ननालं पश्येत्तं दत्त्वा रुक्मं फलान्वितं” ॥
इति शुद्धितत्त्वं ॥
अपि च । शङ्खः ।
“अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।
हेतुनिष्ठश्च पञ्चैते न तीर्थफलभागिनः” ॥
अच्छिन्नसंशयः फलोपायेतिकर्त्तव्यतासु निश्चय-
शून्यः । इति प्रायश्चित्ततत्त्वं ॥

अच्युतः, पुं, (न च्यवते स्वरूपतो न गच्छति यः

नित्य इति यावत् । च्यु + कर्त्तरि क्तः न च्युतः नञ्-
समासः । पीताम्बरोऽच्युतः शार्ङ्गीत्यमरः) विष्णुः ।
इत्यमरः ॥ (यथा कुमारसम्भवे, -- तत्रावतीर्य्या-
च्युतदत्तहस्तः ।) स्थिरे त्रि ॥ सोऽन्त्यवेलायामेत-
त्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशित-
मसीति छान्दोग्योपनिषत् ।

अच्युताग्रजः, पुं, (अच्युतस्य अग्रजः) बलरामः । इत्य-

मरः ॥ इन्द्रः । इति हेमचन्द्रः ॥

अच्युतावासः, पुं, (ओष्यते वासः क्रियतेऽत्र आ +

वस् + अधिकरणे घञ् यद्वा अच्युतस्य आवासः ।
‘अश्वत्थः सर्व्ववृक्षाणां देवर्षीणाञ्च नारदः’ इति
भगवद्गीतायाम् ।) अश्वत्थवृक्षः ।
इति राजनिर्घण्टः ॥

अज क्षेपे । गतौ । इति कविकल्पद्रुमः ॥ अजति ।

इति दुर्गादासः ॥

अज इक भासि (अजि दीप्तौ चुरा इदित्वान्नुम् ।)

इति कविकल्पद्रुमः ॥ इक अञ्जयति । भासि
दोप्तौ । इति दुर्गादासः ॥

अजः, पुं, (न जायते नोत्पद्यते यः नञ् + जन् + अन्ये-

ष्वपि दृश्यत इति कर्त्तरि डः उपपदसमासः ।)
(“न हि जातो न जायेऽहं न जनिष्ये कदाचन ।
क्षेत्रज्ञः सर्व्वभूतानां तस्मादहमजः स्मृतः” ॥
इति भारते ।
“योमामजमनादिञ्च वेत्ति लोकमहेश्वरम्” ।
इति भगवद्गीतायाम् ।) ब्रह्मा । विष्णुः । शिवः ।
कामदेवः । सूर्य्यवंशीयराजविशेषः । स च रघु-
राजपुत्त्रः दशरथपिता च । मेषः । इति ज्यो-
तिषं ॥ माक्षिकधातुः । इति हेमचन्द्रः ॥ जन्म-
रहिते वाच्यलिङ्गः । छागः । इति मेदिनी ॥ तत्-
परीक्षा । यथा, --
“नक्षत्राणां विभेदेन नराणान्तु गणत्रयं ।
तेषां शुभाय निर्द्दिष्टं पशुवस्तत्रयं बलौ ॥
ये कृष्णाः शुचयश्छागाः पशवोऽन्ये तथैव च ।
देवजातिमिरुत्सृज्यास्ते सर्व्वार्थोपसिद्धये ॥
ये पीता हरिता वापि नरजातेरुदीरिताः ।
ये शुक्लाश्च महान्तो वा रक्षोजातेः शुभप्रदाः ॥
यो मोहादथवाज्ञानाद्वलिमन्यं प्रयच्छति ।
बध एव फलं तस्य नान्यत् किञ्चित् फलं भवेत्” ॥
इति युक्तिकल्पतरुः ॥

अजकर्णः, पुं, (अजस्य छागस्य कर्णवत् पत्रं यस्य सः)

असनवृक्षः । इति रत्नमाला ॥ यथा वैद्यके ।
(“अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति ।
कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान्” ॥)

अजकर्णकः, पुं, (अजकर्णः + स्वार्थेकः) सालवृक्षः ।

इति राजनिर्घण्टः ॥

अजकवः, पुं, क्ली, (अजो विष्णुश्च कः ब्रह्मा च द्वन्द्वः

तौ वाति शिवः त्रिपुरासुरबधे प्रीणयत्यनेन अज
क + वा + करणे कः । “कः प्रजापतिरुद्दिष्टः को
वायुरिति शब्दित” इत्येकाक्षरीयकोषे) शिव-
धनुः । इति त्रिकाण्डशेषः ॥

अजकावः, पुं, क्ली, शिवधनुः । इति त्रिकाण्डशेषः ॥

अजगन्धा, स्त्री, (अजस्य गन्धवत् गन्धो यस्याः सा)

वनयवानी । तत्पर्य्यायः । अजमोदा २ । खराश्वा ३
कारवी ४ । इति रत्नमाला ॥ उग्रगन्धा ५ । इत्य-
मरः ॥ वृक्षविशेषः । ववरी इति हिन्दीभाषा ॥
इति मदनविनोदः ॥ तिलौणि इति राजनिर्घण्टः ॥
तत्पर्य्यायः । वस्तगन्धा ३ खरपुष्पा ४ अवि-
गन्धिका ५ उग्रगन्धा ६ ब्रह्मगर्भा ७ ब्राह्मो ८ पूति-
मयूरिका ९ । अस्या गुणाः । कटुत्वं । उष्णत्रं ।
वातगुल्मोदररोगवर्णव्रणार्त्तिशूलनाशित्वं । पीता
चेदञ्जने हिता । इति राजनिर्घण्टः ॥

अजगन्धिका, स्त्री, (अजस्य गन्धः षष्ठीतत्पुरुषः

तद्वत् गन्धोऽस्यास्ति अजगन्ध + मत्वर्थे ठन् ठस्येक
इति ठस्य इकः) वर्व्वरीवृक्षः । इत्यमरः ॥ वावरि-
इति भाषा ।

अजगन्धिनी, स्त्री, (अजगन्धोऽस्यास्ति अजगन्ध +

मत्वर्थे इन् स्त्रियां ङीप्) अजशृङ्गीवृक्षः । इति
रत्नमाला ॥

अजगरः, पुं, (अजं गिरति ग्रसते यः ग्ट्ट + पचाद्यच्

अजस्य गरः षष्ठी तत्पुरुषः) स्वनामख्यातवृहत्-
सर्पः । तत्पर्य्यायः । शयुः २ वाहसः ३ । इत्यमरः ॥

अजगवं, क्ली, (अजयोर्विष्णुब्रह्मणोर्गं त्रिपुरासुरबधे

गीतं षष्ठी तत्पुरुषः । तादृशं गीतं वाति सम्ब-
ध्नाति यत् अजग + वा + कर्त्तरि क उपपद-
समासः । “गञ्चगीतञ्च गौश्चैव गूश्चधेनुः सरस्वती”
इत्येकाक्षरीयकोषे) पिनाकः । शिवधनुः । इत्य-
मरः ॥ तस्य रूपान्तरं । अजकवं । अजकावं ।
अजीकवं । अजगावं ॥

अजगावं, क्ली, (अजयोर्व्विष्णुब्रह्मणोर्गं गीतं षष्ठी

तत्परुषः । तादृशं गीतमवति सम्पादयति यत्
अजग + अव + कर्म्मण्यण् उपपदसमासः) शिव-
धनुः । इति शब्दमाला ॥

अजजीविकः, पुं, (अजः जीविका जीवनोपायो यस्य

सः) अजाजीवी । छागपालकः । तत्पर्य्यायः ।
जावालः २ । इति हेमचन्द्रः ॥

अजटा, स्त्री, (नास्ति जटा यस्याः सा) भूम्यामलकी ।

इति राजनिर्घण्टः ॥ तस्या रूपान्तरं । अजडा ।
अज्झटा ॥

अजडा, स्त्री, (अजडां जाड्याभावं सम्पादयति या अज-

डा + करोत्यर्थे णिच् ततः पचाद्यच्) कपिकच्छुः ।
आलकुशी इति भाषा ॥ इति राजनिर्घण्टः ॥

अजथ्या, स्त्री, (अजानां समूहः अज + थ्यन् स्त्रियां

टाप् अजसमूहः । तद्वन्नानावर्ण्णत्वात्) स्वर्ण्ण-
यूथिका । इति दीक्षिताः ॥

अजदण्डी, स्त्री, (अजस्य ब्रह्मणो यज्ञाय दण्डः काष्ठ-

मस्याःसा स्त्रियां ङीप् । ब्रह्मदण्डीवृक्षकाष्ठेनयज्ञ-
विधानात् ।) ब्रह्मदण्डीवृक्षः इति राजनिर्घण्टः ॥

अजनकः, त्रि, (न जनकः नोत्पादकः नञ्समासः । जन-

यति जन् + णिच् ण्वुल्) अनुत्पादकः । अजन्मदः ।
अस्रष्टा । अकारकः ॥

अजननिः, पुं, (न + जन् + आक्रोशे नञ्यनिरिति

सूत्रेण निन्दायां भावे अनिः । तस्याजननिरेवास्तु
जननीक्लेशकारिण इति प्रसिद्धप्रयोगोऽप्यस्ति)
जन्मराहित्यं । उत्पत्त्यभावः । अकरणिः । शापः ।
यथा । अजननिरस्तु तस्य । इत्यमरटीकायां
रायमुकुटः ॥

अजन्यं, क्ली, (न जन्यते सम्पाद्यते केनापि न + जन्

णिच् यत्) उत्पातः । शुभाशुभसूचकभूकम्पादिः ।
इत्यमरः ॥ अजननीये त्रि ॥

अजपः, पुं, (अप्रशस्तं जपति पठति यः । जप् + पचा-

द्यच न जपः नञ्समासः ।) असदध्येता । कुपाठकः ।
इति हेमचन्द्रः ॥ (अजं पाति रक्षति यः + अज +
पा + कर्त्तरि क उपपदसमासः) छागपालकः ।
यथा, --
“ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने” ।
इति चरकः ॥

अजपा, स्त्री, (न जप्यते नोच्चार्य्यतेऽसौ अपितु श्वास-

पृष्ठ १/०१८
:प्रश्वासयोर्गमनागमनागमनाभ्यां सम्पाद्यते जप् + घ-
ञर्थे कः स्त्रियां टाप् नजपा नञ्समासः ।)
हंसमन्त्रः । यथा, --
“वियदर्द्धेन्दुललितस्तदादिसर्गसंयुतः ।
अजपाख्यो मनुः प्रोक्तो द्व्यक्षरः सुरपादपः” ॥ * ॥
अस्य देवतार्द्धनारीश्वरमूर्त्तिः । यथा, --
“उद्यद्भानुस्फुरिततडिंदाकारमूर्द्ध्वाम्बिकेशं
पाशाभीतिं वरदपरशुं संदधानं कराब्जैः ।
दिव्याकल्पैर्नवमणिमयैः शोभितं विश्वमूलं
सौम्याग्नेयं वपुरवतु नश्चन्द्रचूडं त्रिनेत्रं” ॥
इति तन्त्रसारः ॥ * ॥ स्वाभाविकनिःश्वासप्र-
श्वासरूपेण जीवजप्यहंसमन्त्रः ।
तथाच दक्षिणामूर्त्तिसंहितायां ।
“अथ वक्ष्ये महेशानि प्रत्यहं प्रजपेन्नरः ।
मोहबन्धं न जानाति मोक्षस्तस्य न विद्यते ॥
श्रीगुरोः कृपया देवि ज्ञायते जप्यते यदा ।
उच्छ्वासनिःश्वासतया तदा बन्धक्षयो भवेत् ॥
उच्छ्वासैरेव निःश्वासैर्हंस इत्यक्षरद्वयं ।
तस्मात् प्राणस्य हंसाख्य आत्माकारेण संस्थितः ॥
नाभेरुच्छ्वासनिःश्वासात् हृदयाग्रे व्यवस्थितः ।
षष्टिश्वासैर्भवेत् प्राणः षट्प्राणा नाडिका मता ॥
षष्टिनाड्या ह्यहोरात्रं जपसंख्याक्रमो मतः ।
एकविंशतिसाहस्रं षट्शताधिकमीश्वरि ॥
जपते प्रत्यहं प्राणी सान्द्रानन्दमयीं परां ।
उत्पत्तिर्जपमारम्भो मृत्युस्तत्र निवेदनं ॥
विना जपेन देवेशि जपो भवति मन्त्रिणः ।
अजपेयं ततः प्रोक्ता भवपाशनिकृन्तनी” ॥
अन्यत्रापि ।
“षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिं ।
एतत्संख्यान्वितं मन्त्रं जीवो जपति सर्व्वदा” ॥ * ॥
सन्ध्यावन्दनहीना । इति महाभारतं ॥

अजभक्षः, पुं, (अजानां भक्षः खाद्यः षष्ठीतत्पुरूषः ।

भक्ष + कर्म्मणि घञ् ।) वर्व्वूरवृक्षः । इति राज-
निर्घण्टः ॥

अजमीढः, पुं, (अजः छागः यज्ञे मीढः सिक्तो यत्र

सः तद्देशाधिपः अजमीढ + अण् संज्ञापूर्ब्बक-
वृद्धेरनित्यत्वात् वृद्ध्यभावः ।) राजा युधिष्ठिरः ।
इति त्रिकाण्डशेषः ॥

अजमोदा, स्त्री, (अजानां खाद्यतया मोदो हर्षो

यस्याः सा अजानां मोदो गन्ध इव गन्धो यस्याः
सा) यवानिका । तत्पर्य्यायः । उग्रगन्धा २ ब्रह्म-
दर्भा ३ यवानिका ४ ॥ इत्यमरः । यमानी
द्विविधा ।
एका क्षेत्रयमानी सा अजमोदेत्येव ख्याता ।
अपरा यमानीत्येव ख्याता । अविशेषात् द्वयो-
रपीति सुभूतिः ॥ केचित्तु अजमोदादिद्वयं वन-
यमान्यां । ब्रह्मदर्भादिद्वयं यमान्यामित्याहुः
उग्रगन्धाजमोदाख्या स्मृतक्षेत्रयमानिकेति । य-
मानी दीपको दीप्यो भूतिकश्च यमानिकेति च
रत्नमाला ॥ इति भरतः ॥ * ॥ वैद्यके तु वन-
यमानी इति ख्याता । तत्पर्य्यायः । खराह्वा २
वस्तमोदा ३ मर्कटी ४ मोदा ५ गन्धदला ६
हस्तिकारवी ७ गन्धपत्रिका ८ मायूरी ९ शि-
खिमोदा १० मोदाढ्या ११ वह्निदीपिका १२
ब्रह्मकोशी १३ विशाली १४ हयगन्धा १५ उग्र-
गन्धिका १६ मोदिनी १७ फलमुख्या १८ वि-
शल्या १९ । अस्या गुणाः । कटुत्वं । उष्णत्वं ।
रूक्षत्वं । रुचिकारित्वं । कफवायुशूलाध्मानारुचि-
जठरामयनाशित्वञ्च । इति राजनिर्घण्टः ॥ य-
मानी । यथा, --
“अजमोदा खराश्वा च मयूरो दीप्यकस्तथा ।
तथा ब्रह्मकुशा प्रोक्ता कारवी लोचमस्तकः ॥
अजमोदा कदुस्तीक्ष्णा दीपनी कफवातनुत् ।
उष्णा विदाहिनी हृद्या वृष्या बलकरी लघुः ॥
नेत्रामयकृमिच्छर्द्दिहिध्मवस्तिरुजो हरेत्” ॥ * ॥
अथ खुरासानीयवानीनामगुणाः ।
“पारसीययवानी तु यवानीसदृशी गुणैः ।
विशेषात्पाचनी रूक्षा ग्राहिणी मादिनी गुरुः” ॥
इति भावप्रकाशः ॥

अजमोदिका, स्त्री, (अजं मोदयति हर्षयति या ।

मुद् + णिच् ण्वुल् स्त्रियां टाप् । अजस्य मोदिका
षष्ठीतत्पुरूषः) यवानी । इति वैद्यकं ॥

अजम्भः, पुं, (न सन्ति जम्भा दन्ता यस्य सः) (सूर्य्ये

च) भेकः । इति शब्दरत्नावली ॥ न सन्ति
जम्भा दन्ता अस्य ॥

अजयः, पुं, (जि + भावे अच् न जयः नञ्समासः ।)

पराजयः । यथा, --
“सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ” ।
इति भगवद्गीता ॥ राढदेशप्रसिद्धनदविशेषः ॥

अजया, स्त्री, (न जीयते पराजीयतेऽसौ जि +

कर्म्मणि अच् स्त्रियां टाप् न जया नञ्समासः ।)
विजया । भाङ्ग सिद्धि इति ख्याता । इति राज-
निर्घण्टः ॥

अजय्यं, त्रि, (जेतुमशक्यं जि + कर्म्मणि “क्षय्य जय्यौ

शक्यार्थे इति यत्” न जय्यं नञ्समासः ।) जेतुम-
शक्यं । अजेयं । इति मुग्धबोधव्याकरणं ॥ (यथा
रघुवंशे, -- “राज्ञामजय्योऽजनि पुण्डरीकः” ।)

अजरः, त्रि, (जॄ + भावे अङ् गुणः स्त्रियां टाप्,

नास्ति जरा जीर्ण्णावस्था यस्य सः) जरारहितः ।
वार्द्धक्यशून्यः । यथा, --
“अजरामरवत् प्राज्ञो विद्यामर्थञ्च चिनायेत्” ।
इति हितोपदेशः ॥

अजरा, स्त्री, (नास्ति जरा यस्याः सा ।) जीर्ण-

फञ्जीलता । वृद्धदारकप्रभेदः । गृहकन्या । घृत-
कुमारीति ख्याता । इति राजनिर्घण्टः ॥

अजर्य्यं, क्ली, (न जीर्य्यति ज्ट्ट + कर्त्तरि अजर्य्यं सङ्गत-

मिति सूत्रेण यत् । तेन सङ्गतमार्य्येण रामाजर्य्यं
द्रुतमिति भट्टिः) सङ्गतं । सौहार्दं । इति हेम-
चन्द्रः ॥ अजरार्हे त्रि ॥ (यथा रघुवंशे, --
“मृगरजय्य जरसोपदिवृमदेहबन्धाय पुनर्बबन्ध” ।

अजलम्बनं, क्ली, (अज इव लम्ब्यते कृष्णवर्ण्णत्वात्

ज्ञायतेऽसौ लम्ब + कर्म्मणि ल्युट्) स्रोतोञ्जनं ।
इति शब्दचन्द्रिका ॥

अजलोमा, [न्] पुं, (अजस्य लोमेव लोम मञ्जरी

यस्य सः) वृक्षविशेषः । गुयाशिषा । शूया-
शिम्बी इति च भाषा । तत्पर्य्यायः । शिखी २
केशी ३ महाह्रस्वा ४ अग्रपर्णी ५ । इति रत्न-
माला ॥

अजशृङ्गी, स्त्री, (अजस्य छागस्य शृङ्गमिव फलं

यस्याः सा स्त्रियां ङीप्) वृक्षविशेषः । गा-
डरशिङ्गी मेढाशिङ्गी । इति ख्याता । तत्प-
र्य्यायः । विषाणी २ । इत्यमरः ॥ विषाणिका ३
चक्रश्रेणी ४ अजगन्धिनी ५ मौर्व्वी ६ नेत्रौ-
षधी ७ आवर्त्तिनी ८ । इति रत्नमाला ॥ मेष-
शृङ्गी ९ वर्त्तिका १० सर्पदंष्ट्रिका ११ चक्षुष्या १२
तिक्तदुग्धा १३ पुत्त्रशृङ्गी १४ कर्णिका १५ । अस्या
गुणाः । कटुत्वं तिक्तत्वं । कफार्शःशूलशोथश्वास-
हृद्रोगविषरोगकासकुष्ठनाशित्वं । चक्षुर्हितका-
रित्वञ्च ॥ तत्फलस्य गुणाः । तिक्तत्वं । उष्णत्वं ।
कटुत्वं कफवायुनाशित्वं । जठरानलरुचिकारित्वं ।
हृद्यत्वं । लवणाम्लरसत्वञ्च । इति राजनिर्घण्टः ॥
(यथा सुश्रुते, --
“अजगन्धाश्वगन्धा च काला सरलया सह ।
एकैषिकाजशृङ्गी च प्रलेपः श्लेष्मशोथहृत्” ॥

अजस्रं, क्ली, (नञ् + जस् + नमिकम्पिस्म्यजस इत्या-

दिना र नञ्समासः) निरन्तरं । सततं । इत्यमरः ॥
(यथा रघुवंशे, “अजस्रदीक्षाप्रयतस्य मद्गुरोः
क्रियाविघाताय कथं प्रवर्त्तसे” ।)

अजहत्स्वार्था, स्त्री, (न जहत् न त्यजन् स्वार्थो यां

वृत्तिं यद्वा न जहती स्वार्थं या लक्षणा सा ।)
लक्षणाख्यवृत्तिविशेषः । उपादानलक्षणा । स्वी-
यार्थात्यागिनी लक्षणा । यथा । कुन्ताः प्रवि-
शन्तीत्यत्र कुन्तधारिपुरुषे लक्षणा इत्यलङ्कार-
शास्त्रं ॥

अजहल्लिङ्गः, पुं, (न जहत् लिङ्गं यं शब्दं यद्वा न

जहत् लिङ्गं यः शब्दः इति ।) विशेषणभूतोऽपि
स्वलिङ्गात्यागी शब्दः । इति व्याकरणं ॥

अजहा, स्त्री, (न जहाति परित्यजति शुकान्, अनु-

पसर्गाल्लिम्पविन्दधारिपारि वेद्येजिचेति साति-
साहिभ्यश्च इति पाणिनिसूत्रेण चकारस्य
अनुक्तसमुच्चयार्थात् शः द्वित्वं नञ्तत्, स्त्रियां
टाप्) शूकशिम्बी । इत्यमरटीकायां स्वामी ॥
अत्याज्ये त्रि ॥

अजा, स्त्री, (न जायते नोत्पद्यते अपि तु उत्पद्यते

न + जन् + कर्त्तरि ड नञ् समासः । अत्र नञ्-
शब्दः शिरश्चालने । आद्याशक्तिपक्षे नञ्निषे-
धार्थः, अजामेकां लोहितशुक्लकृष्णां नमाम इति
साङ्ख्यतत्त्वकौमुद्यां ।) छागी । इत्यमरः ॥ माया ।
आद्या शक्तिः । इति पुराणं ॥ (“अजामेकां लो-
हितकृष्णशुक्लां बह्वीः प्रजाः सृजमानां सरू-
पाम् अजो ह्येको जुषमाणोऽनुशेते जहात्येनां
भुक्तभोग्यामजोऽन्यः” -- इति श्वेताश्वतरोपनि-
षद् ॥) ओषधिभेदः । (यथा सुश्रुते, --
“अजा महौषधी ज्ञेया शङ्खकुन्देन्दुपाण्डुरा” ।)

अजागरः, पुं, (न जागरयति सेवनेन लोकान्

निद्रापयति यः, जागृ + णिच् जाग्रोऽविचिण
पृष्ठ १/०१९
:नोङित्सु इति गुणः ततः पचाद्यच् नञ्समासः ।)
भृङ्गराजवृक्षः । इति शब्दरत्नावली ॥ जागरण-
रहिते त्रि ॥

अजाजी, स्त्री, (अजेन वीयते अत्युत्कटगन्धतया

त्यज्यतेऽसौ अज् + इञ् अजादिभ्यश्च इति कर्म्मणि
इञ् । अजेन आजिः तृतीया तत् । स्त्रियां
वाङीप्) श्वेतजौरकः । कृष्णजीरकः । काकोदुम्ब-
रिका । इति राजनिर्घण्टः ॥

अजाजीवः, पुं, (अजेन अजव्यवसायेन आजीवति

सम्यक् प्राणान् धारयति यः, आ + जीव + पचा-
द्यच् अजेन आजीवः तृतीयातत्पुरुषः) जावालः ।
छागोपजीवी । इत्यमरः ॥

अजातः, त्रि, (जन् + कर्त्तरि क्तः न जातः नञ्-

समासः ।) अजन्मविशिष्टः । अनुत्पन्नः । यथा ।
अजातपक्षा इव मातरं खगाः । इति श्रीभागवतं ॥
(यथा दायभागे, --
“ये जाता येऽप्यजाता वा ये च गर्भे व्यवस्थिताः ।
वृत्तिंतेऽपि हि काङ्क्षन्ति वृत्तिलोपोविगर्हितः” ॥)

अजातशत्रुः, पुं, (अजातः सर्व्वप्रियत्वात् अनुत्पन्नः

शत्रुर्यस्य सः) राजा युधिष्ठिरः । इति हेमचन्द्रः ॥
(यथा महाभारते, --
“अजातशत्रुमासाद्य कुन्ती वचनमब्रवीत्” ।)
(शिवः । काशीपुत्त्रः । शमीकपुत्त्रः ।) (यथा हरिवंशे,
“श्यामपुत्त्रः शमीकस्तु शमीको राज्यमावहत् ।
जुगुप्समानो भोजत्वाद्राजसूयमवाप सः ।
अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः” ॥)
(विम्बिसारपुत्त्रः स च शाक्यमुनिसमकालोनः ॥)

अजातारिः, पुं, (अजातः सर्व्वप्रियत्वात् अनुत्पन्नः

अरिः शत्रुर्यस्य सः) राजा युधिष्ठिरः । इति
भूरिप्रयोगः ॥

अजातौल्वलिः, पुं, (अजया उपजीवी तौल्वलिः

मुनिविशेषः शाकपार्थिवादित्वात् समासः मध्य-
पदलोपश्च । तुल्वलस्यापत्यं तुल्वल + अत इञिति
इञ्) अजोपजीविमुनिविशेषः । इति मध्यपद-
लोपिकर्म्मधारयसमासे सुपद्मव्याकरणं ॥ तुल्वल-
स्यापत्यं तौल्वलिः अजोपजीवी चासौ तौल्वलि-
श्चेति । इति तट्टीका ॥

अजादनी, स्त्री, (अजेन तृप्त्यर्थमद्यते भक्ष्यतेऽसौ

अद् + कर्म्मणि ल्युट् स्त्रियां ङीप् अजस्य अदनी
खाद्या षष्ठीतत्पुरुषः) क्षुद्रदुरालभा । इति राज-
निर्घण्टः ॥

अजानेयः, पुं, (अजवत् शिववृषवत् यथास्थानमारो-

हिणं नयति प्रापयति । आ + नी + कृत्यल्युटो
बहुलमिति सूत्रेण कर्त्तरि यत् । अजश्छागे
हरिब्रह्मधातुस्मरहरे वृषे इति मेदिनी) उत्तम-
घोटकः । तत्पर्य्यायः । हयोत्तमः २ वाताश्व-
जात्यः ३ । इति त्रिकाण्डशेषः ॥ अजानेयः ४
कुलीनः ५ । इत्यमरः ॥ निर्भये त्रि । इति त्रि-
काण्डशेषः ॥

अजान्त्री, स्त्री, (अजस्य अन्त्रमिव देहबन्धनमिव

अन्त्रं तदाकारमञ्जरी यस्याः सा षिद्गौरादि-
भ्यश्च इति ङीष्) वृक्षविशेषः । नीलवर्णवोना
इति भाषा तत्पर्य्यायः । नीलवुह्ना २ नील-
पुष्पी ३ अतिलोमशा ४ नीलिनी ५ छगलान्त्री ६
अन्तःकोठरपुष्पी ७ । इति रत्नमाला ॥ वस्तान्त्री ।
वृद्धदारकः । इति राजनिर्घण्टः ॥

अजापालकः, त्रि, (अजानां पालकः रक्षकः षष्ठी-

तत्पुरुषः) अजाजीवी । छागरक्षकः । इति
शब्दरत्नावली ॥

अजितं, त्रि, (न जितं न पराजितं नञ्समासः ।

जि + कर्म्मणि क्तः) अनिर्जितं । इति हेमचन्द्रः ॥
अतिपराजितश्च ॥

अजितः, पुं, (न जितः न केनापि पराजित ऐश्व-

र्य्येण । “वेधाः शार्ङ्गोऽजितः कृष्णो दृढः शङ्क-
र्षणोऽच्युत” इति सहस्रनाम पर्य्याये ।) विष्णुः ।
बुद्धः । तीर्थकृज्जैनविशेषः । इति हेमचन्द्रः ॥
शिवः । इति तस्य सहस्रनाममध्ये पठितः ॥

अजिनं, क्ली, (अजति धूल्यादि आवृणोति यत्

अज् + कर्त्तरि इनन् बाहुल्यात् अजेर्व्यद्यञ् पोश्च
इति नवी आदेशः) (अजाजिनं शोणितविन्दु-
वर्षि चेति कुमारसम्भवे) चर्म्म । ब्रह्मचार्य्यादि-
धार्य्यकृष्णसारादित्वक् । इत्यमरः ॥ जिनभिन्ने
वाच्यलिङ्गं ।

अजिनपत्रा, स्त्री, (अजिनं चर्म्म पत्रं पक्षो यस्याः

सा) चर्म्मचटिका । चामचिका इति ख्याता ।
तत्पर्य्यायः । जतुका २ । इत्यमरः ॥ जतूका ३ ।
इति तट्टीका ।

अजीनपत्री, स्त्री, (अजीनं चर्म्म पत्रं यस्याः सा

गौरादित्वात् ङीष्) जतुका । इति राजनिर्घण्टः ॥

अजिनयोनिः, पुं, (अजिनानां चर्म्मणां योनिः

आकरः षष्ठीतत्पुरुषः । योनिः स्त्रीपुंसयोश्चस्यादा-
करे स्मरमन्दिरे इति मेदिनी) हरिणः । इत्यभरः ॥

अजिरं, क्ली, (अजति गृहान्निःसरति यत्र अज +

अधिकरणे किरच् । उठान इति भाषा । अजति
गच्छति यः इति वायुः । अजति गच्छति क्षण-
भङ्गरमिति यावत् इति शरीरं । अजन्ति इन्द्रि-
याणि गच्छन्त्यत्र इति व्युत्पत्त्या विषयः ।) चत्वरं ।
(यथा विष्णुपुराणे, --
“पुनश्च भरतस्याभूदाश्रमस्योटजाजिरे” ।)
वायुः । शरीरं । मण्डूकः । विषयः । इति
मेदिनी ॥

अजिह्मं, त्रि, (जिहि वक्रतायां जिहि + मक् न

जिह्मं नञ्समासः) अवक्रं । सरलं ॥ इत्यमरः ॥
भेके पुं । इति शब्दरत्नावली ॥ (यथा मनुः, --
“अजिह्मामशठां शुद्धां जीवेत् ब्राह्मणजीविकां” ।)

अजिह्मगः, पुं, (अजिह्मं सरलं गच्छति यः अजिह्म

+ गम् + डः उपपदसमासः) बाणः । इत्यमरः ॥
अवक्रगे वाच्यलिङ्गः ॥ (यथा रामायणे, --
“ते तस्य कायं निर्भिद्य रक्तपुङ्खा अजिह्मगाः ।
निष्पेतुर्लोहितादिग्धा रक्ता इव महोरगाः ॥
न ह्यबिद्धं तयोर्गात्रे बभूवांगुलमन्तरं ।
नानिर्भिन्नं न चाध्वस्तमपि सूक्ष्ममजिह्मगैः” ॥)

अजिह्वः, पुं, (नास्ति जिह्वा यस्य सः) भेकः ।

इति त्रिकाण्डशेषः ॥ जिह्वारहिते त्रि ॥

अजीर्णं, क्ली, (जॄ + क्तः, न जीर्ण्णं नञ्समासः) अपाकः ।

तत्पर्य्यायः । वायुगण्डः २ अन्तर्वमिः ३ पलता-
शयः ४ । इति त्रिकाण्डशेषः ॥ अथाजीर्णस्य
विप्रकृष्टं निदानमाह । अत्यम्बुपानाद्विषमाश-
नाच्च सन्धारणात् स्वप्नविपर्य्ययाच्च । कालेऽपि
सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥
सन्धारणात् क्षुद्वातमूत्रपुरीषादीनां । स्वप्नविप-
र्य्ययात् दिवाशयनाद्रात्रौ जागरणात् । लघु
चापीत्यपिशब्दात् स्निग्धोष्णादिगुणयुक्तमपि ॥ * ॥
अन्यच्च ।
“ईर्षाभयक्रोधपरिप्लुतेन
लुब्धेन रुग्दैन्यनिपीडितेन ।
प्रद्वेषयुक्तेन च सेव्यमान-
मन्नं न सम्यक् परिपाकमेति” ॥
परिप्लुतेन व्याप्तेन । उक्तकारणेभ्योऽतिमात्र-
भोजनं विशेषादजीर्णस्य कारणमजीर्णञ्च बहु-
व्याधीनां कारणमित्याह ।
“अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः ।
रोगानीकस्य ते मूलमजीर्ण्णं प्राप्नुवन्ति हि” ॥
अनात्मवन्तः अबुद्धिमन्तः । रोगानीकस्य विसू-
च्यादेः । मूलं कारणं ॥ * ॥ अन्यच्च ।
“प्रायेणाहारवैषन्यादजीर्णं जायते नृणां ।
तन्मूलो रोगसंघातस्तद्विनाशाद्विनश्यति” ॥
तद्विनाशाद्विनश्यति अजीर्णविनाशात् विनश्यति
रोगसंघात इत्यर्थः । यद्वा तत् अजीर्ण्णं आशात्
भक्षणात् विना भक्षणाभावे विनश्यति निवर्त्तते
इत्यर्थः ॥ * ॥ अजीर्ण्णस्य सामान्यस्य लक्षणमाह ।
“ग्लानिर्गौरवमाटोपो भ्रमो मारुतमूढता ।
विबन्धोऽतिप्रवृत्तिर्वा सामान्याजीर्ण्णलक्षणं” ॥
मारुतमूढता वायोरवरोधः । विबन्धः मला-
प्रवृत्तिः ॥ * ॥ सन्निकृष्टकारणैः सहितानजी-
र्णस्य भेदानाह ।
“आमं विदग्धं विष्टब्धं कफपित्तानिलैस्त्रिभिः” ।
त्रिभिरित्येकशो न तु मिलितैः ।
“अजीर्ण्णं केचिदिच्छन्ति चतुर्थं रसुशेषतः” ॥
केचित् सुश्रुतादयः ॥ रसशेषतः भुक्तस्य पक्वस्य
सारभूतो यो द्रवः स रसः सोऽपि पच्यते । भुक्तस्य
पक्वस्य सारभूतो यो द्रवः स चापक्वः स रस-
शेषः तस्मात् चतुर्थमजीर्णं नत्वामाजीर्णं ॥ * ॥
नन्वामाजीर्णाद्रसशेषस्य को भेद उच्यते । आमं
मधुरतागतमपक्वं अन्नमेव । रसशेषस्तु भुक्तस्य
पक्वस्य सारभूतो यो द्रवः स चापक्व इति भेदः ।
अजीर्ण्णं पञ्चमं केचित् निर्द्दोषं दिनपाकि च ।
निर्द्दोषं गौरवभ्रमशूलादिदोषाजनकं । दिन-
पाकि च आहारोऽहोरात्रेण पाकं यातीति
स्वभावः । यत्तु मात्राकालसात्म्यादिदोषाद्दिनान्तरे
पाकं याति तद्दिनपाकि । अतएव याममध्ये न
भोक्तव्यमिति वचनं, --
वदन्ति षष्ठं चाजोर्ण्णं प्राकृतं प्रतिवासरं” ।
प्राकृतं अविकारकं । प्रतिवासरं प्रतिदिन-
भावि । भुक्तं यावन्नजीर्ण्णं तावदजीर्ण्णमित्युच्यते ।
एतदभिधानस्य प्रयोजनं पाकार्थं वामपार्श्वशयन-
पृष्ठ १/०२०
:प्रियशब्दादिसेवनादिकं । न चात्राहारस्य नि-
षेधः । प्रातराशे त्वजीर्ण्णे तु सायमाशो न दुष्य-
तीति वचनेन सायमाशस्यावश्यं कर्त्तव्यत्वात् ॥ * ॥
आमाजीर्ण्णस्य लक्षणमाह, --
“तत्रामे गुरुतोत्क्लेशः शोथो गण्डाक्षिकूटगः ः
उद्गारश्च यथाभुक्तमविदग्धः प्रवर्त्तते” ॥
गुरुता उदराङ्गयोः । उत्क्लेशः उपस्थितं वमन-
मिव । अक्षिकूटोऽक्षिपुटकः । अविदग्धः अनम्लो
निर्गन्धश्च ॥ * ॥ विदग्धाजीर्ण्णस्य लक्षणमाह, --
“विदग्धे भ्रमतृण्मूर्च्छापित्ताच्च विविधा रुजः ।
उद्गारश्च सधूमाम्लः स्वेदो दाहश्च जायते” ॥
विविधा रुजः औषचोषदाहादयः ॥ * ॥ विष्टब्धा-
जीर्ण्णस्य लक्षणमाह, --
“विष्टब्धे शूलमाध्मानं विविधा वातवेदनाः ।
मलवाताप्रवृत्तिश्च स्तम्भो मोहोऽङ्गपीडनं” ॥
वातवेदनाः तोदभेदादयः ॥ स्तम्भो गात्राणां ।
मोहो मूर्च्छा ॥ * ॥ रसशेषाजीर्ण्णस्य लक्षणमाह,
“रसशेषेऽन्नविद्वेषो हृदयाशुद्धिगौरवे” ॥ * ॥
एतस्य उपद्रवानाह, --
“मूर्च्छा प्रलापो वमथुः प्रसेकः सादनं भ्रमः ।
उपद्रवा भवन्त्येते मृतिश्च रसशेषतः” ॥ * ॥
अतिशयितेभ्यः आमाद्यजीर्ण्णेभ्यो विसूच्यादिरो-
गानाह, --
“आमं विदग्धं विष्टब्धमित्यजीर्ण्णं यदीरितं ।
विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका” ॥
नात्र यथासङ्ख्यं तदा विष्टब्धाद्विलम्बिका भवितु
मर्हति । सा च कफवाताभ्यां भवतीत्येकैकतो-
ऽजीर्ण्णाद्विसूच्यादित्रयोत्पत्तिः ॥ * ॥ विसूच्यादि-
निरुक्तिमाह, --
“सूचीभिरिव गात्राणि तदुत्सन्तिष्ठतेऽनिलः ।
यत्राजीर्ण्णेन सा वैद्यैर्व्विसूचीति निगद्यते” ॥ * ॥
विसूच्या निदानमाह, --
“न तां परिमिताहारा लभन्ते विदितागमाः ।
मूढास्तामजितात्मानो लभन्तेऽशनलोलुपाः” ॥
विदितागमाः ज्ञातायूर्व्वेदाः ॥ * ॥ विसूच्या लक्षण-
माह, --
“मूर्च्छातिसारोवमथूः पिपासा
शूलं भ्रमोद्वेष्टनजृम्भदाहाः ।
वैवर्ण्यकम्पौ हृदये रूजश्च
भवन्ति तस्यां शिरसश्च भेदः” ॥
उद्वेष्टनं हस्तपादयोः । शिरसो भेदः शिरःशूलं ॥
विसूच्या उपद्रवानाह, --
“निद्रानाशोऽरतिः कम्पो मूत्राघातो विसंज्ञता ।
अमी उपद्रवा घोरा विसूच्याः पञ्च दारुणाः” ॥
अमी उपद्रवा घोरा अमी निद्रानाशादयः उप-
द्रवाः सर्व्वेषामेव रोगाणां घोरा भयङ्कराः ।
विसूच्याः पञ्च दारुणा विसूच्यास्तु पञ्चापि यदि
स्युस्तदा दारुणाः प्राणभयङ्कराः ॥ * ॥ अलसक-
लक्षणमाह, --
“कुक्षिरानह्यतेऽत्यर्थं प्रताम्येत् परिकूजति ।
निरूद्धो मारूतश्चैव कुक्षावुपरि धावति ॥
वातवर्चो निरोधश्च यस्यात्यर्थं भवेदपि ।
तस्यालसकमाचष्टे तृष्णोद्गारौ च यस्य तु” ॥
आनह्यते आध्मायते । प्रताम्येत् ग्लायति । परि-
कूजति आर्त्तनादं करोति । कुक्षौ अजीर्ण्णेन
निरूद्धो मारुतः उपरि धावति हृदयकण्ठादिकं
गच्छतीत्यर्थः । काश्यपस्त्वाह, --
“नाधो याति न चाप्युर्द्ध्वमाहारो न च पच्यते ।
कोष्ठे स्थितोऽलसीभूतस्ततोऽसावलसः स्मृतः” ॥
विसूच्यलसयोररिष्टमाह, --
“यः श्यावदन्तौष्ठनखोऽल्पसंज्ञः
छर्द्द्यर्द्दितोऽभ्यन्तरयातनेत्रः ।
क्षामस्वरः सर्व्वविमुक्तसन्धि-
र्यायान्नरः सोऽपुनरागमाय” ॥
सर्व्वविमुक्तसन्धिः सर्व्वे विमुक्ताः शिथिलीभूताः
सन्धयो यस्य सः ॥ * ॥ विलम्बिकाया लक्षण
माह, --
“दुष्टञ्च भुक्तं कफमारूताभ्यां
प्रवर्त्तते नोर्द्ध्वमधश्च यत्र ।
विलम्बिकां तां भृशदुश्चिकित्सा-
माचक्षते शास्त्रविदः पुराणाः” ॥
भृशदुश्चिकित्सां प्रत्याख्यायोपचरणीयम् । इय-
मसाघ्यैबेति जेज्जटः ॥ * ॥ जीर्ण्णस्याहारस्य
लक्षणमाह, --
“उद्गारशुद्धिरुत्साहो वेगोत्सर्गो यथोचितं ।
लघुता क्षुत्पिपासे च जीर्ण्णाहारस्य लक्षणं” ॥ * ॥
अथ चिकित्सा, --
“हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा ।
सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी ॥
गुडेन शुण्ठीमथवोपकुल्यां
पथ्यां तृतीयामथ दाडिमं वा ।
आमेष्वजीर्ण्णेषु गुदामयेषु
वर्च्चो विवन्धेषु च नित्यमद्यात् ॥
व्योषं दन्ती त्रिवृच्चित्रं कृष्णामूलं विचूर्ण्णितं ।
तच्चूर्ण्णं गुडसंमिश्रं भक्षयेत् प्रातरुत्थितः ॥
एतद्गुडाष्टकं नाम वलवर्ण्णाग्निवर्द्धनं ।
शोथोदावर्त्तशूलघ्नं प्लीहपाण्ड्वामयापहं ॥
सर्व्वचूर्ण्णसमो गुडो देयः । केचित्तु द्विगुणं गुडं
दत्त्वा गुटिकां कुर्व्वन्ति । रेचकोऽयं योगः ।
गुडाष्टकम् ॥ * ॥ दहनाजमोदसैन्धवनागरमरि-
चानि चाम्लतक्रेण । सप्ताहादग्निकरं पाण्ड्वर्शो-
नाशनं परमं ॥ औषधमित्यध्याहार्य्यं, --
“तत्रामे वमनं कार्य्यं विदग्धे लङ्घनं हितं ।
विष्टब्धे स्वेदनं शस्तं रसशेषे शयीत च ॥
वचा लवणतोयेन बान्तिरामे प्रशस्यते ॥
कणासिन्धवचाकल्कं पीत्वा वा शिशिर म्भसा ॥
जलमत्र सरावमात्रं । वचा कर्षार्द्धमिता । सैन्धवं
कर्षार्द्धमितं । द्वयोश्चूर्ण्णयुतेन जलेन पीतेन ।
“कणादिकल्कं वा पीत्वा वान्तिरामे प्रशस्यते”
इत्यनेनान्वयः ॥ * ॥
“धान्यनागरसिद्धं वा तोयं दद्याद्विचक्षणः ।
आमाजीर्ण्णप्रशमनं शूलघ्नं वस्तिशोधनं ॥
भवेद् यदि प्रातरजीर्ण्णशङ्का
तदाभयां नागरसैन्धवाभ्यां ।
विचूर्ण्णितां शीतजलेन भुक्त्वा
भुक्त्वामशङ्को मितमन्नकाले ॥
विदह्यते यस्य तु भुक्तमात्रं
दंदह्यते हृच्च गलश्च यस्य ।
द्राक्षां सितामाक्षिकसम्प्रयुक्तां
लिढ्वाभयां चातिसुखं लभेत ॥
त्रिकटुकमजमोदा सैन्धवं जीरके द्वे
समधरणधृतानामष्टमो हिङ्गुभागः ।
प्रथमकवलभुक्तं सर्पिषा चूर्ण्णमेत-
ज्जनयति जठरेऽग्निं वातरोगांश्च हन्ति” ॥
अजमोदात्र यवानी । अन्तःसंमार्ज्जकत्वात् । जी-
रके द्वे शुक्लं कृष्णञ्च । धरणमत्र मानं । तेन
समधरणं धृतानां तुल्यमानं गृहीतानां शुण्ठ्या-
दीनां भागाः सप्त । तत्राष्टमो भागो हिङ्गुनः ।
हिङ्ग्वष्टकम् ॥ * ॥
“शुद्धं सूतं गन्धकञ्च पलमानं पृथक् पृथक् ।
हरीतकी च द्विपला नागरस्त्रिपलः स्मृतः ॥
कृष्णा च मरिचं तद्वत् सिन्धूत्थं त्रिपलं मतं ।
चतुष्पला च विजया मर्द्दयेन्निम्बुकद्रवैः ॥
पुटानि सप्त देयानि घर्म्ममध्ये पुनः पुनः ।
अजीर्णारिरयं प्रोक्तः सद्यो दीपनपाचनः ॥
भक्षयेद्द्विगुणं भक्ष्यं पाचयेद्भेदयेदपि ।
अजीर्णारिः ॥ * ॥
“द्वौ क्षारौ चित्रकं पाठा करञ्जं लवणानि च ।
सूक्ष्मैलापत्रकं भार्गो कृमिघ्नं हिङ्गु पौष्करं ॥
शटी दार्व्वो त्रिवृन्मुस्तं वचा चेन्द्रयवास्तथा ।
वृक्षाम्लं जीरकं धात्री श्रेयसी चोपकुञ्चिका ॥
अम्लवेतसमम्लीका यवानी देवदारु च ।
अभयातिविषा श्यामा हपुषारग्वधं समं ॥
तिलमुष्ककशिग्रूणां कोकिलाक्षपलाशयोः ।
क्षाराणि लौहकिट्टञ्च तप्तं गोमूत्रसेचितं ॥
सूक्ष्मचूर्ण्णानि कृत्वा तु समभागानि कारयेत् ।
मातुलुङ्गरसेनैतद्भावयेद्दिवसत्रयं ॥
दिनत्रयन्तु शुक्लेन तथार्द्रकरसेन च ।
अत्यग्निकारकं चूर्णं प्रदीप्ताग्निसमप्रभं ॥
उपयुक्तं विधानेन नाशयत्यचिराद्गदान् ।
अजीर्णमथ गुल्मांश्च प्लीहानं गुदजानि च ॥
उदराण्यन्त्रवृद्धिञ्च अष्ठीलां वातशोणितं ।
प्रणुदत्युल्वनान्दोषान्नष्टमग्निं प्रदीपयेत् ॥
द्वौ क्षारौ स्वर्ज्जिका यवक्षारश्च । लवणाणिपञ्च ।
वृक्षाम्लं विषाम्बिल इति लोके । श्रेयसी हरी-
तकी । उपकुञ्चिका मगरैला । अम्लवेतसाभावे
चुक्रं दातव्यं । श्यामा साण्ड । मुष्ककः मोष इति
लोके । कोकिलाक्षः कोइलषा इति लोके ।
वृहदग्निमुखचूर्णं ॥ * ॥
“स्नुह्यर्कचित्रकैरण्डवरुणं सपुनर्णवं ।
तिलापामार्गकदलीपलाशं तित्तिली तथा ॥
गृहीत्वा ज्वालयेदेतत् प्रस्थं भस्माखिलञ्च तत् ।
जलाढके विपक्तव्यं यावत् पादावशेषितं ॥
सुप्रसन्नं विनिःस्राव्य लवणप्रस्थसंयुतं ।
पक्कं निर्धूमकठिनं सूक्ष्मचूर्णोकृतं पुनः ॥
यवानीजोरकव्योषस्थूलजीरकहिङ्गभिः ।
पृष्ठ १/०२१
:पृथगर्द्धपलैरेभिश्चूर्नितैस्तत् विमिश्रयेत् ॥
आर्द्रकस्य रसेनापि भावयेच्छोषयेत् पुनः ।
शीतोदकेन तच्चूर्णं पिवेत् प्रातर्हि मात्रया ॥
तस्मिन् जीर्णेऽन्नमश्नीयाद्युषैर्जाङ्गलजै रसैः ।
ईषदम्लैः सलवणैः सुखोष्णैर्वह्निदीपनैः ॥
एतेनाग्निर्व्विवर्द्धेत बलमारोग्यमेव च ।
तत्रानुपानं शस्तं हि तक्रं वा भोजनं हितं ॥
मन्दाग्न्यर्शोविकारेषु वातश्लेष्मामयेषु च ।
सर्व्वाङ्गशोथरोगेषु शूलगुल्मोदरेषु च ॥
अश्मर्य्यां शर्क्करायाञ्च विन्मूत्रानिलरोगिषु ।
वेश्वानरक्षारः ॥ * ॥
“सामुद्रं लवणं ग्राह्यमष्टकर्षमितं बुधैः ।
सौवर्च्चलं पञ्चकर्षं विडसैन्धवधान्यकं ॥
पिप्पली पिप्पलीमूलं पत्रकं कृष्णजीरकं ।
तालीशं केशरं चव्यमम्लवेतसकं तथा ॥
द्विकर्षमात्राण्येतानि प्रत्येकं कारयेद्वुधः ।
मरिचं जीरकं विश्वमेकैकं कर्षमात्रकं ॥
दाडिमं स्याच्चतुःकर्षं त्वगेले चार्द्धकर्षके ।
एतच्चूर्णीकृतं सर्व्वं लवणं भास्कराभिधं ॥
भक्षयेच्छाणमानं तत्तक्रमस्तुककाञ्जिकैः ।
वातश्लेष्मभवं गुल्मं प्लीहानमुदरं क्षयं ॥
अर्शांसि ग्रहणीं कुष्ठं विवन्धञ्च भगन्दरं ।
शूलं शोथं श्वासकासावामदोषञ्च हृद्रुजं ॥
अश्मरीं शर्कराञ्चापि पाण्डुरोगं कृमीनपि ।
मन्दाग्निं नीशयेदेतद्द्वीपनं पाचनं परं ॥
हिताय सर्व्वलोकानां भास्करेणैतदीरितं ।
हन्यात् सर्व्वाण्यजीर्णानि भुक्तमात्रमसंशयं ॥
निम्बु रसादिकं दत्त्वा गुटिकामप्यकेकुर्व्वन्ति” ॥
अथ दाडिमस्य वीजानां चूर्णं कर्षचतुष्टयमितं
देयं । भास्करलवणचूर्णं ॥ * ॥ सैन्धवं समूलमगधा
चव्यानलनागरं पथ्या । क्रमवृद्धि मग्निवृद्ध्यै वड-
वानलनामचूर्ण्णं स्यात् ॥ वडवानलचूर्ण्णं ॥ * ॥ पथ्या-
नागरकृर्ष्णाकरञ्जविल्वाग्निभिः सितातुल्यैः । वड-
वानल इब जरयति बहुगुर्व्वपि भोजनं चूर्णं
द्वितीयं वडवानलचूर्णं ॥ * ॥
“एलात्वङ्नागपुष्पाणां मात्रोत्तरविवर्द्धिता ।
मरिचं पिप्पली शुण्ठी चतुःपञ्च षडुत्तरं ॥
द्रव्याण्येतानि यावन्ति तावती सितशर्करा ।
चूर्णमेतत् प्रयोक्तव्यमग्निसन्दीपनं परं” ॥
समशर्करचूर्णं ॥ * ॥
“इन्द्रासनं सप्तपलं त्रिफलायाः पलत्रयं ।
पलत्रयं त्र्यूषणस्य सितायाश्च चतुःपलं ॥
अमृता शतपुत्री च तथा कृष्णापराजिता ।
आसां चूर्णं समादाय पलमात्रं पृथक् पृथक् ॥
भावयेदेकतः सर्व्वं भृङ्गराजरसेन तु ।
स्वभाविकमिदं चूर्णं स्निग्धभाण्डे विनिक्षिपेत् ॥
विलिहन् मधुसर्पिर्भ्यां मन्दाग्नेः सहसा नरः ।
मुच्यते ग्रहणीरोगात् गुदरोगात् सजाठरात् ॥
मेहं कुष्ठञ्च वीसर्पवातरोगान् सशोणितान् ।
न चात्र परिहारोऽस्ति भोजनं सर्व्वकामिकं ॥
रोगानीकप्रशान्त्यर्थं मुनिभिः परिकीर्त्तितं ।
अस्याभ्यासात् बलं वीर्य्यं पुष्टिदृष्टियशस्तथा ॥
त्रिसप्ताहप्रयोगेण जायते नात्र संशयः ।
ज्वालामुखीचूर्णं ॥ * ॥ अथ अजीर्णे रसाः, --
“द्विपलं गन्धकं शुद्धं पलमेकन्तु पारदं ।
मृतं लोहं तथा ताम्रं कर्षद्वयमितं पृथक् ॥
संचूर्ण्य सर्व्वं संमिश्र्य द्रावयित्वाग्नियोगतः ।
सम्यग्द्रुतं समस्तं तत्पञ्चाङ्गुलदले क्षिपेत् ॥
पुनः संचूर्ण्य तत्सर्व्वं लोहपात्रे निधाय च ।
जम्बीरस्य रसं तत्र पूतं पलशतं क्षिपेत् ॥
चुल्ल्यां निवेश्य तद्यत्नात् मृदुना वह्निना पचेत् ।
रसे तस्मिन् घनीभूते तत्संशोष्य विचूर्णयेत् ॥
पञ्चकोलकषायस्य चुक्रेण सहितस्य च ।
भावनास्तत्र दातव्याः पञ्चाशत्संख्यया शनैः ॥
भृष्टटङ्कनचूर्णेन तुल्येन सह मेलयेत् ।
मरिचेनापि तुल्येन तदर्द्धेन विडेन च ॥
भावयेत् सप्तकृत्वस्तच्चणकाम्लजलेन च ।
ततः संशोष्य संपिष्य कूपीमध्ये निधापयेत् ॥
रसः क्रव्यादनामायं भैरवानन्दयोगिना ।
उक्तः सिंहलराजाय बहुमांसाशिने पुरा ॥
भक्षयेद्भोजनस्यान्ते माषद्वयमितं रसं ।
भक्षयित्वा रसं पश्चात् पिवेत्तक्रं ससैन्धवं ॥
अतीवगुरु यद्भुक्तमतिमात्रमथापि वा ।
तत्सर्व्वं जीर्य्यति क्षिप्रं रसस्यैतस्य भक्षणात् ॥
शूलं गुल्मञ्च विष्टम्भं प्लीहानमुदरं तथा ।
रसः क्रव्यादनामायं विनिहन्ति न संशयः”
क्रव्यादो रसोऽजीर्णे ॥ * ॥ रसेन्द्रचिन्तामणौ रस-
रत्नप्रदीपे रसप्रदीपे च ॥
“क्षारत्रयं सूतगन्धौ पञ्चकोलमिदं शुभं ।
सर्ब्बैस्तुल्या जया भृष्टा तदर्द्धा शिग्रुजा जटा ॥
एतत् सर्व्वं जयाशिग्रुवह्निमार्क्कवजैर्द्रवैः ।
भावयेत्रिदिनं घर्म्मे ततो लघुपुटे क्षिपेत् ॥
सप्तधार्द्रद्रवैर्घृष्टो रसो ज्वालानलो भवेत् ।
निष्कोऽस्य मधुना लीढोऽनुपानं गुडनागरं ॥
हन्त्यजीर्णमतीसारं ग्रहणीमग्निमार्द्दवं ।
श्लेष्महृल्लासवमनमालस्यमरूचिं जवात्” ॥
पञ्चकोलं, --
पिप्पली पिप्पलीभूलं चव्यचित्रकनागरं । जयात्र
विजया । मार्क्कवो भृङ्गराजः । लघुपुटे गजपुटे ।
आर्द्रमार्द्रकं । निष्कः टङ्कः । ज्वालानलो रसो-
ऽजीर्णे ॥ * ॥ रसप्रदीपे, --
“टङ्कणं रसगन्धौ च समं भागत्रयं विषात् ।
कपर्द्दः स्वर्ज्जिकाक्षारौ मागधी विश्वभेषजं ॥
पृथक् पृथक् कर्षमात्रं वसुभागमिहोषणं ।
जम्बीराम्लैर्द्दिनं घृष्टं भवेदग्निकुमारकः ॥
विसूचीशूलवातादिवह्निमान्द्यप्रशान्तये” ।
क्षारीयवक्षारः । अग्निकुमारोरसो विसूच्याद्य-
जीर्णे ॥ * ॥ रसेन्द्रचिन्तामणौ, --
“शुद्धसूतं गन्धकञ्च पलमानं पृथक् पृथक् ।
हरीतकी च द्विपला नागरस्त्रिपलः स्मृतः ॥
कृष्णा च मरिचं तद्वत् सिन्धूत्थं त्रिपलं मतं ।
चतुष्पला च विजया मर्दयेन्निम्बुकद्रवैः ॥
पुटानि सप्त देयानि घर्म्ममध्ये पुनः पुनः ।
अजीर्णारिरयं प्रोक्तः सद्यो दीपनपाचनः ॥
भज्ञयेद्द्विगुणं भक्ष्यं पाचपेद्रेचयेदपि ।
अजीर्णारिः ॥ * ॥
“पारदामृतलवङ्गगन्धकं
भागयुग्ममरिचेन मिश्रितं ।
तत्र जातिफलमर्द्धभागिकं
तित्तिडीफलरसेन मर्द्दितं ॥
वह्निमान्द्यदशवनाक्त्रशनो
रामवाण इति विश्रुतो रसः ।
सङ्ग्रह ग्रहणि कुम्भकर्णक-
मामवातखरदूषणं जयेत् ॥
दीयते तु चणकानुमानतः
सद्य एव जठराग्निदीपनः ।
रोचकः कफकुलान्तकारकः
श्वासकासवमिजन्तुनाशनः ॥
पाराभाग १ विषभाग १ लवङ्गभाग १ गन्धक-
भाग १ मरिचभाग ८ जायफलभाग २ । राम-
वाणरसोऽजीर्णे ॥ * ॥
रसेन्द्रचिन्तामणौ, --
“पलं चिञ्चाक्षारः पलपरिमितं पञ्चलवणं द्वयं
सम्यक्पिष्टं भवति लघु निम्बुफलरसैः । ततस्तप्तं
तस्मिन् पलपरिमितं शङ्खशकलं क्षिपेद्वारान्
सप्त द्रवति तदनेनैव विधिना ॥ पलप्रमाण
कटुकत्रयञ्च पलार्द्धमानेन च हिङ्गुभागः । विषं
पलद्वादशभागयुक्तं तावान्रसो गन्धक एष
चोक्तः --
“बदरास्थिप्रमाणेन वटीमेतस्य कारयेत् ।
भक्षयेत् सर्व्वदा सा स्यात् सर्व्वाजीर्ण्णप्रशान्तये ॥
सर्व्वोदरेषु शूलेषु विसूच्यां विविधेषु च ।
अग्निमान्द्येषु गुल्मेषु सदा शङ्खवटी हिता” ॥
शङ्खवटी अजीर्ण्णे ॥ * ॥ रसप्रदीपे, --
“स्नुगर्क्कचिञ्चापामार्गरम्भातिलपलाशजान् ।
लवणान् भिषगादद्यात् प्रत्येकं पलमात्रया ॥
लवणानि पृथक् पञ्च ग्राह्याणि पलमात्रया ।
स्वर्ज्जिका च यवक्षारष्टङ्कणं त्रितयं पलं ॥
सर्व्वं त्रयोदशपलं सूक्ष्मचूर्ण्णं विधाय तु ।
निम्बूफलरसे प्रस्थसंमिते तत् परिक्षिपेत् ॥
तत्र शङ्खस्य शकलं पलं वह्नौ प्रताप्य तु ।
वारान्निर्व्वापयेत् सप्त सर्व्वं द्रवति तद्यथा ॥
नागरं त्रिपलं ग्राह्यं मरिचञ्च पलद्वयं ।
पिप्पली पलमाना स्यात् पलार्द्धं भृष्टहिङ्गुनः ॥
ग्रन्थिकं चित्रकं चापि यवानी जीरकं तथा ।
जातीफलं लवङ्गञ्च पृथक् कर्षद्वयोन्मितं ॥
रसोगन्धो विषञ्चापि टङ्कणञ्च मनःशिला ॥
एतानि कर्षमात्राणि सर्व्वं संचूर्ण्य मिश्रयेत् ।
शरावार्द्धेन चुक्रेण संनीय वटिकाञ्चरेत् ॥
माषप्रमाणां सा वैद्यैर्वृहच्छङ्खवटी स्मृता ॥
सर्ब्बाजीर्ण्णप्रशमनी सर्व्वशूलनिवारिणी ।
विसूच्यलसकादीनां सद्यो भवति नाशिनी” ॥
वृहच्छङ्खवटिका अजीर्ण्णे ॥ * ॥
“टङ्कणकणामृतानां सहिङ्गुलानां समभागाः ।
मरिचस्य भागयुगलं निम्बुनीरैर्व्वटी कार्य्या ॥
वटिकां कलायसदृशीमेकां द्वे वा समश्नीयात् ।
पृष्ठ १/०२२
:सत्वरमजीर्ण्णशान्त्यै वह्नेर्वृद्ध्यै कफध्वस्त्यै” ॥
अजीर्ण्णकण्टको रसः ॥ * ॥
“जलपीतमपामार्गमूलं हन्याद्विसूचिकां ।
सतैलं कारवेल्ल्यम्बु विधुनोति विसूचिकां ॥
बालमूलस्य निःक्वाथः पिप्पलोचूर्ण्णसंयुतः ।
विसूचीनाशनः श्रेष्ठो जठराग्निविवर्द्धनः ॥
विल्वनागरनिःक्वाथो हन्याच्छर्द्दिविसूचिकां ।
विल्वनागरकैडर्य्यक्वाथस्तदधिको गुणैः” ॥
कैडर्य्यं कट्फलम्, --
“व्योषं करञ्जस्य फलं हरिद्रे
मूलं समावाप्य च मातुलुङ्ग्याः ।
छायाविशुष्का गुटिकाः कृतास्ता
हन्युर्व्विसूचीं नयनाञ्जनेन” ॥
मातुलुङ्गी मधुकर्क्कटी । अनुभूतमिदम्, --
“अपामार्गस्य पत्राणि मरिचानि समानि च ।
अश्वस्य लालया पिष्टान्यञ्जनाद् घ्नन्ति सूचिकां ॥
विसूच्यामतिवृद्धायां तक्रं दधिसमं जलं ।
नारिकेलाम्बु पेयं वा प्राणत्राणाय योजयेत् ॥
त्वक्पत्ररास्नागुरूशिग्रुकुष्ठै-
रम्लप्रपिष्टैः सवचाशताह्वैः ।
उद्वर्त्तनं खल्लिविसूचिकाघ्नं
तैलं विपक्वञ्च तदर्थकारि” ॥
त्वक्तैलम् ॥ * ॥
“कुष्ठसैन्धवयोः कल्कः चुक्रं तैलं तु तच्छृतं ।
विसूच्या मर्दनं तेन खल्लीशूलनिवारणम्” ॥
कुष्ठतैलम् ॥ * ॥
“पिपासायां तथोत्क्लेशे लवङ्गस्याम्बु शस्यते ।
जातीफलस्य वा शीतं शृतं भद्रघनस्य वा ॥ * ॥
उत्क्लेशलक्षणम्, --
“उत्क्लिश्यान्नं न निर्गच्छेत् प्रसेकष्ठीवनेरितं ।
हृदयं पीड्यते चास्य तमुत्क्लेशं विनिर्दिशेदिति ॥
सरूग्वानद्धमुदरमम्लपिष्टैः प्रलेपयेत् ।
दारूहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः” ॥
हैमवती श्वेतवचा । दारूषट्कम् ॥ * ॥
“तक्रेण युक्तं यवचूर्ण्णमुष्णं
सक्षारमार्त्तिं जठरे निहन्यात् ।
स्वेदो घटैर्व्वा बहुवास्पपूर्ण्णै-
रूष्णैस्तथान्यैरपि पाणितापैः ॥
विलम्बिकालसकयोरयमेव क्रियाक्रमः ।
अतण्वैतयोरूक्तं पृथक् नेह चिकित्सितम् ॥
तद्भस्मकं गुरूस्निग्धसान्द्रमन्दहिमस्थिरैः ।
अन्नपानैर्नयेच्छान्तिं पित्तघ्नैश्च विरेचनैः ॥
अत्युद्धताग्निशान्त्यै माहिषदधिदुग्धसर्पींषि ।
संसेवेतयवागूं समधूच्छिष्टां ससर्पिष्कां ।
असकृत् पित्तहरणं पायसं प्रतिभोजनं ॥
श्यामात्रिवृद्धिपक्वञ्च पयोदद्याद्विरेचनं ॥
यत् किञ्चित् मधुरं मेध्यं श्लेष्मलं गुरू भीजनं ।
सर्व्वं तदत्यग्निहितं भुक्त्वा प्रस्वपनं दिवा” ॥
सिततण्डुलं सितकमलं छागीक्षीरेण पायसं
सिद्धं । भुक्त्वा घृतेन पुरुषो द्वादशदिवसाद्वुभु-
क्षितो भवेत् ॥ * ॥ अथ विशिष्टद्रव्याजीर्णे विशि-
ष्टपाचनद्रव्यमाह, --
“अलं पनसपाकाय फलं कदलसम्भवं ।
कदलस्य तु पाकाय बुधैरभिहितं घृतं ॥
घृतस्य परिपाकाय जम्बीरस्य रसो हितः ।
नारिकेलफलतालवीजयोः
पाचकं सपदि तण्डुलं विदुः ।
क्षीरमाशु सहकारपाचनं
चारमज्जनि हरीतकी हिता ॥
मधूकमालूरनृपादनानां
परूषखर्ज्जूरकपित्थकानां ।
पाकाय पेयं पिचुमर्द्दवीजं
घृतेऽपि तक्रेऽपि तदेव देयं ॥
खर्ज्जूरशृङ्गाटकयोः प्रशस्तं
विश्वौषधं कुत्र च भद्रसुस्तं ।
यज्ञाङ्गवोधिद्रुफलेषु शीतं
प्लक्षे तथा वार्य्युषितं प्रणीतं ॥
तण्डुलेषु पयसः पयो हितं
दीप्यकन्तु चिपिटे कणायुतं ।
षष्टिका दधिजलेन जीर्य्यते
कर्क्कटी च सुमनेषु गीर्य्यते” ॥
सुमनेषु गोधूमेषु । गीर्य्यते कथ्यते ।
“गोधूभमाषहरिमन्थसतीलमुद्ग-
पाको भवेत् झटिति मातुलपुत्त्रकेण ।
खण्डञ्च खण्डयति माषभवं त्वजीर्णं
तैलं कुलत्थमथवा विदधाति जीर्णं” ॥
मातुलपुत्त्रकः धत्तूरफलं । --
“कङ्गुश्यामाकनीवाराः कुलत्थश्चाविलम्बितं ।
दध्नो जलेन जीर्य्यन्ति वैदलाः काञ्जिकेन तु ॥
पिष्टान्नं शीतलं वारि कृशरान् सैन्धवं पचेत् ।
माषेण्डरी निम्बमूलं पायसं मुद्गयूषकैः” ॥
वटोवेशवाराल्लवङ्गेन फेणीशमं पर्पटः शिग्रुवीजेन
याति । कणामूलतो लड्डुकापूपशट्टाविपाको
भवेच्छष्कुली मण्डयोश्च ॥ वेशवारः वेगर इति
लोके । तद् यथा । --
“स्ने हो निशाहिङ्गुलवङ्गकैला-
धान्याकजीरार्द्रकनागराणि ।
अम्लोषणं सैन्धवपूर्णमन्ने
यथोचितं संस्कृतये प्रणीतम्” ॥ इति ॥
शट्टा शट्टकः पानकविशेषः । मण्डः माण्डे
इति लोके । --
“किमत्र चित्रं वहुमत्स्यमास
भोजी सुखी काञ्जिकपानतः स्यात् ।
इत्यद्भुतं केवलवह्निपक्व-
मांसेन मत्स्यः परिपाकमेति ॥
आममाम्रफलं मीने तद्वीजं पिशिते हितं ।
कूर्म्ममांसं यवक्षाराच्छीघ्रं पाकमुपैति हि ॥
कपोतपारावतनीलकण्ठ
कपिञ्जलानां पिशितानि भुक्त्वा ।
काशस्य मूलं परिपीय पिष्टं
सुखी भवेन्ना वहुशो हि दृष्टं ॥
कपोतो धवलः पाण्डुः ।
“शाकानि सर्व्वाण्यपि यान्ति
पाकं क्षारेण सद्यस्तिलनालजेन ।
चञ्चूकसिद्धार्थकवास्तुकानां
गायत्रिसारक्वथितेन पाकः” ॥
चञ्चूकं चेचूरु इति लोके । गायत्री खदिरः ।
“पलङ्किकाकेमुककारवेल्ली-
वार्त्ताकुवंशाङ्कुरमूलकानां ॥
उपोदिकालावुपटोलकानां
सिद्धार्थको मेघरवस्य पक्ता” ॥
मेघरवः चवराई इति लोके । --
“विपच्यते शूरणकं गुडेन
तथालुकं तण्डुलजोदकेन ।
पिण्डालुकं जीर्य्यति कोरदूषात्
कसेरुपाकः किल नागरेण ॥
लवणस्तण्डुलतोयात् सर्पिर्जम्बीरकाद्यम्लात् ।
मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिकात्तैलं ॥
क्षीरं जीर्य्यति तक्रेन तद्गव्यं कोष्णमण्डकात् ।
माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि” ॥
मण्डकः माण्डे इति लोके, --
“रसाला जीर्य्यति व्योषात् खण्डं नागरभक्षणात्
सिता नागरमुस्तेन तथेक्षुश्चार्द्रकारसात् ।
ञरामिरागैरिकचब्दनाभ्या-
मभ्येति शीघ्रं मुनिभिः प्रणीतं ।
उष्णेन शीतं शिशिरेण चोष्णं
जीर्णो भवेत् क्षारगणस्तथाम्लैः” ॥
इरा मदिरा ।
“तप्तं तप्तं हेम वा तारमग्नौ
तोये क्षिप्तं सप्तकृत्वस्तदम्भः ।
पीत्वाजीर्णं तोयजातं निहन्या-
त्तत्र क्षौद्रं भद्रयुक्तं विशेषात्” ॥
तत्र तोयाजीर्णे । इति जठराग्निविकाराजीर्ण-
विसूचिकालसविलम्बिकाचिकित्सा । इति भाव-
प्रकाशः ॥

अजीवः, त्रि, (नास्ति जीवः आत्मा यस्य स बहुव्रीहिः)

मृतः । अवसन्नः । इति त्रिकाण्डशेषः ॥

अजीवनिः, स्त्री, (नञ् + जीव + आक्रोशेनञ्यनि

रिति सूत्रेण अनिः) जीवनाभावः । अकरणिः ।
शापः । यथा । तस्याजननिरेवास्तु । इत्यमर-
टीकायां भरतः ॥ अजीवनिस्तव भूयात् । इति
सुग्धवोधं ॥

अजुगुप्सितः, त्रि, (गुप् + सन् + क्त न जुगुप्सित

नञ् समासः) अनिन्दितः । यथा, --
“उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिरर्च्चयेद्देवपूर्व्वकं” ॥
इति मानवे ३ अध्याये २०९ श्लोकः ॥

अजेयः, त्रि, (न जेयः नञ् समासः) इति नञ् पूर्व्वक-

जिधातोः कर्म्मणि यत्प्रत्ययः । अजेतव्यः । अ-
जयनीयः । यथा । --
“अजेयस्त्वञ्च संग्रामे ममापि हि भविष्यति” ।
इति स्कान्दे काशीखण्डे २३ अध्यायः ।

अज्येष्ठवृत्तिः, पुं, (ज्येष्ठस्य वृत्तिः आचरणं षष्ठो-

तत्पुरूषः नास्ति ज्येष्ठवृत्तिः ज्येष्ठाचरणं यस्य
सःबहुव्रीहिः) ज्येष्ठवृत्तिरहितः । भ्रातृषु पितृ-
वद्वर्त्तनाभाववान् । यथा, --
पृष्ठ १/०२३
:“योज्येष्ट्यो ज्येष्ठवृत्तिः स्यान्मातेव स पितेव सः ।
अज्येष्ठवृर्त्तिर्यस्तु स्यात् स सम्पूज्यस्तु बन्धुवत्” ॥
इति मानवे ९ अध्याये ११० श्लोकः ॥
यो ज्येष्ठ्योऽनुजेषु पितृवद्धर्त्तेत स पितेव मातेव
अगर्हणीयो भवति । यः पुनस्तथा न वर्त्तेत स
मातुलादिवदर्च्चनीयः । इति तट्टीकायां कुल्लूक-
भट्टः ।

अजैकपात्, [द्] पुं, (अजस्य छागस्य एकः पाद इव

पादो यस्य सः बहुव्रीहिः अलोपः) एकादश-
रुद्रान्तर्गतरुद्रविशेषः । इति शब्दमाला ॥ (हरि-
वंशे, --
“अजैकपादहिव्रघ्न स्त्वष्टा रुद्राश्च भारत ।
एकादशैते कथिता रुद्रास्त्रिभुबणेश्वराः” ॥)

अजैकपादः, पुं, (अजस्य छागस्य एकः पाद इव पादो-

यस्य सः विकंल्पे अलोपः) रुद्रविशेषः । इति
जटाधरः ॥ छन्दोऽनुरोधादसन्धिरपि विष्णुपुराणे
चन्द्रकलापप्रस्तावे अजएकपादिति ॥ (यथा
भारते । --
“अजैकपादहिव्रध्नो विरूपाक्षः सुरेश्वरः ।
जयन्तो बहुरूपश्च त्र्यम्बकोऽप्यपराजितः ।
वैवस्वतश्च सावित्रोहरोरुद्रा इमे स्मृताः”)

अज्जुका, स्त्री, (अर्ज्जयति नायकादर्थमुपार्ज्जयति

या अर्ज्जि + समिक स इति बाहुलकादुकन्
रस्य ज) नाट्योक्तौ वेश्या । इत्यमरः ॥ (एसा
अज्जु आ हि अ एन किम्पि आलिहन्ती चिट्ठदि
मृच्छकटिके ।)

अज्झटा, स्त्री, (करट इति वत् उज्झति सर्व्वदोषान्

नाशयति या उज्झ + कर्त्तरि अटन् स्त्रियां टाप्
पृषोदरादित्वात् उकारस्य अः । यद्वा, अदव्यय-
माश्चर्य्ये अत् आश्चर्य्यकारी झटः सङ्घातोऽस्याः ।
अत्ति क्विप् झटति झटसं घाते अच् । टाप् । अ-
च्चासौ झटा च वा ॥
(“अम्लं समधुरं तिक्तं कषायं कटुकं सरम् ।
चक्षुष्यं सर्व्वदोषघ्नं वृष्यमामलकीफलम्” ॥
इति सुश्रुते ।) भूम्यामलकी । इत्यमरः ॥

अज्झलं, क्ली, उञ्झति अस्त्रं वारयति या उज्झ +

कर्त्तरि अलच् पृषोदरादित्वात् उकारस्य
अकारः) फलकं । ढाल इति ख्यातं । इति
हेमचन्द्रः ॥ (पुं, अङ्गारः, कोकिलः ।)

अज्ञः, त्रि, (ज्ञा + कर्त्तरि कः नज्ञः नञ्समासः ।)

जडः । मूर्खः । इत्यमरः । (यदुक्तं, --
“अज्ञो भवति वै वालः पिता भवति मन्त्रदः ।
अज्ञं हि वालमित्याहुः पिवेत्येव तु मन्त्रदं” ॥
यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ।
इदं शरणमज्ञानां ।
“अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥”)

अज्ञानं, क्ली, (ज्ञा + भावे ल्युट् नज्ञानं नञ्समासः)

विरुद्धज्ञानं । तत्पर्य्यायः । अविद्या २ अहम्मतिः
३ । इत्यमरः ॥ सृष्टिकाले व्रह्मा प्रथमं पञ्च-
प्रकारमज्ञांनं ससर्ज । यथा । तमः १ मोहः २
महामोहः ३ तामिस्रं ४ अन्धतामिस्रं ५ ।
इति श्रीभागवतं ॥ वेदान्तमते सदसद्भ्यामनि-
र्व्व चनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि
यत्किञ्चित् । ज्ञानरहिते त्रि ॥ (यथा मनुः --
अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति ।
अज्ञानात्प्राश्य विण्मूत्रं ।
अज्ञानात् वालभावाच्च साक्ष्यं वितथमुच्यते ॥)

अञ्चतिः, पुं, (अञ्चति गच्छति यः अञ्च + कर्त्तरि

अति) वायुः । इति त्रिकाण्डशेषः ॥

अञ्चलः, पुं, (अञ्चति प्रान्तभागं गच्छति अञ्च +

अलच्) वस्त्रप्रान्तभागः । आँचल इति भाषा ।
इति हलायुधः ॥ (यथा साहित्यदर्पणे । --
“ऊरुः कुरङ्गकदृशश्चञ्चलचेनाञ्चलोभाति” ॥

अञ्चितः, त्रि, (अञ्च + कर्म्मणि क्तः नाञ्चोः पूजाया-

मिति नलोपाभावः) पूजितः । इत्यमरः ॥ (यथा
रघुवंशे । --
“उभावलञ्चक्रतुरञ्चिताभ्यां
तपोवनावृत्तिपथं गताभ्यां ॥)

अञ्चितभ्रूः, स्त्री, (अञ्चिते उत्कृष्टे भ्रुवौ यस्याः सा

बहुव्रीहिः) सुन्दरभ्रूयुक्तनारी । इति स्त्रीपर्य्याये
राजनिर्घण्टः ॥

अञ्जनं, क्ली, (अन्ज + भावे ल्युट्, कज्जले तु गम्य-

माने करणे ल्युट्) म्रक्षणं । गमनं । व्यक्तीकरणं ।
इत्यनट् प्रत्ययान्तान्जधात्वर्थंः । कज्जलं । तत्तु
षड्विधं । यथा, --
“सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा ।
दर्व्विका नीलमेघश्च अञ्जनानि भवन्ति षट् ॥
तल्लक्षणानि यथा” --
“स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरं तथा ।
मयूरश्रीकरं रत्नं मेघनीलन्तु तैजसं ॥
घृष्ट्वा निगाह्य चैतानि शिलायां तैजसेऽथवा ।
प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्रक ॥
घृततैलादियोगेन ताम्रादौ दीपवह्निना ।
यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता ॥
सर्व्वाभावे तु तां दद्यात् देवीभ्यो दर्व्विकाञ्जनं ।
महामाया जगद्धात्री कामाख्या त्रिपुरा तथा ।
आप्नुवन्ति महातोषं षड्भिरेभिः सदाञ्जनैः ॥
विधवा नाञ्जनं कुर्य्यात् महामायार्थमुत्तमं ।
नादत्ते त्वञ्जनं देवी वैष्णवी विधवाकृतं ॥
न मृत्पात्रे योजयेत्तु साधको नेत्ररञ्जनं ।
न पूजाफलमाप्नोति मृत्पात्रविहिताञ्जनैः ॥
चतुर्व्वर्गप्रदो धूपः कामदं नेत्ररञ्जनं ।
तस्माद्द्वयमिदं दद्याद्देवेभ्यो भक्तितो नरः” ॥
इति कालिकापुराणे ६८ अध्यायः ॥ अस्य गुणः ।
तारानैर्म्मल्यकारित्वं । निर्म्मलचन्द्रतुल्यनिराकुल-
दृष्टिकारित्वञ्च । इति राजवल्लभः ॥ सौवीरा-
ञ्जनं । रसाञ्जनं । अक्तिः । मसी । इति हेभ-
चन्द्रः ॥ अग्निः इति विश्वः ॥ आलङ्कारिकभाषया
व्यञ्जनाख्यवृत्तिः । यथा, --
“अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनं ॥
इति काव्यप्रकाशः ॥

अञ्जनः, पुं, (अनक्त्वि प्रतीच्यां दिशि रक्षकत्वेन प्रका-

शते यः अन्ज + कर्त्तरि ल्युट्) पश्चिमदिघस्ती ।
अञ्जयति रवेणशुभाशुभे सूचयति अन्ज + णिच् +
ल्युट्) ज्येष्ठी । जेठी इति भाषा । इति विश्व-
मेदिन्यौ, (दिवा नतु प्रयोक्तव्यं नेत्रयोस्तीक्ष्ण-
मञ्जनं । विरेकदुर्बलादृष्टिरादित्यं प्राप्य सीदति ॥
इति आगमः) ।

अञ्जनकेशी, स्त्री, (अञ्जनवत् केशोयस्याः सा बहु-

व्रीहिः स्त्रियां ङीप् यत्संयोगेन केशस्य कृष्णता
भवेत्) हट्टविलासिनीनामगन्धद्रव्यं । इत्यमरः ॥

अञ्जना, स्त्री, (अनक्ति स्वकान्त्या शोभते अन्ज + युच्

कर्त्तरि) वानरीविशेषः । सा च हनूमन्माता ।
इति मेदिनी ॥ (रामायणे, --
“अञ्जनेति परिख्याता पत्नी केशरिणः कपेः ।
अभिशापक्षयाज्जाता पुनश्च दिवि चारिणी” ॥)

अञ्जनाधिका, स्त्री, (अञ्जनात् कज्जलादधिका कृष्ण-

वर्ण्णा) अञ्जनिका । इति हेमचन्द्रः ॥

अञ्जनावती, स्त्री, (अञ्जनं विद्यतेऽस्याः अतिकृष्णवर्ण्ण-

त्वात् अञ्जन + मतुप् स्त्रियां ङीप्) मतौ च वह्व
चोञ्जनाजरादीनामिति दीर्घः मस्य वः) सुप्रतीक-
नामदिग्गजभार्य्या । इत्यमरः ॥

अञ्जनिका, स्त्री, (अञ्जनम् अञ्जनवत् वर्ण्णोविद्यतेऽस्याः

सा अञ्जन + अर्शआद्यच् स्त्रियां टाप् स्वार्थे कः ।)
ज्येष्ठीविशेषः आँजनाइ इति । आञ्जिना इति च
भाषा तत्पर्य्यायः । अञ्जनाधिका २ हालिनी
३ हलाहलः ४ । इति हेमचन्द्रः ॥ क्षुद्रमूषिका ।
इति जटाधरः ॥

अञ्जनी, स्त्री, (अनक्ति चन्दनकुम्कुमादिभिः शोभते

अन्ज + कर्त्तरि ल्युट् स्त्रियां ङीप्) लेप्यनारी ।
चन्दनादिलेपनयोग्या । इति विश्वमेदिन्यौ ॥
कटुकावृक्षः । कालाञ्जनीवृक्षः । इति राज-
निर्घण्टः ।

अञ्जलिः, पुं, (अन्ज + अलि श्रवणाञ्जलिपुटपेय-

मिति बेणीसंहारनाटके) हस्तसम्प्रुटः । आँज्ला
इति भाषा । कुडवपरिमाणं । इति मेदिनी ॥
(यथा रामायणे । न प्रभातं त्वयेच्छामि निशे
नक्षत्रभूषिते । क्रियतां मे दया भद्रे मयाऽयं-
रचितोऽञ्जलिः) ॥

अञ्जलिका, स्त्री, (अञ्जलि + स्वार्थे क) वालमूषिका ।

इति जटाधरः ॥ अञ्जनिका । इति च पाठः ॥

अञ्जलिकारिका, स्त्री, (अञ्जलेः कारिका) लज्जालु-

लता । इति राजनिर्घण्टः ॥ पुत्तलिका । इति
हेमचन्द्रः ॥

अञ्जसः, त्रि, (अञ्ज + असच्) अवक्रः । ऋजुः ॥

इति हेमचन्द्रः ।

अञ्जसा व्य (अञ्जं गतिं विलम्बम्बा स्यति नाश-

यति अञ्ज + सो + कर्त्तरि का) द्रुतं, शीघ्रं,
यथार्थं, प्रकृतं, इत्यमरः । (यथामनुः, --
“आसमाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुं ।
स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतं” ॥)

अञ्जिः, पुं, (अन्ज + इन् । तिलकादिचिह्नम्) प्रेष-

णिकः । प्रेरकः । इत्युणादिकोषः ॥

अञ्जिष्ठः, पुं, (अनक्ति स्वतेजोभिर्जगत् प्रकाशयति

पृष्ठ १/०२४
:अञ्ज + इष्ठ ।) सूर्य्यः । इत्युणादिकोषः ॥

अञ्जीरं, क्ली, (अञ्ज + भावे इञ् स्त्रियां वा ङीप् अ-

ञ्जीम् अग्निकारित्वादि गुणं राति ददाति अञ्जी
आतोऽनुपसर्गे इति कर्त्तरि कः । अथवा अञ्ज +
ईरम्) स्वनामख्यातफलवृक्षबिशेषः । आँजिर +
इति पेयारा इति च भाषा । तत्पर्य्यायः । मञ्जुलं २
काकोदुम्बरिकाफलं ३ । अस्य गुणाः । शीत-
लत्वं । स्वादुत्वं । गुरूत्वं । वायुपित्तरक्तकृमिशूल-
हृत्पीडाकफमुखवैरस्यनाशित्वं । अग्निकारित्वञ्च ।
लघ्वञ्जीरं तस्मादल्पगुणं । इति राजवल्लभराज-
निर्घण्टौ ॥

अटनं, क्ली, (अट् + भावे ल्युट्) भ्रमणं । (यथा सर्व्व-

ज्ञत्वमधीश्वरत्वमगमत् त्वां माञ्च भिक्षाटनं ।
इति घण्टाकर्णः ॥)

अटनिः, स्त्री, (अटति तथा गच्छति यत्र अट् +

अधिकरणे अनि) धनुरग्रभागः । धनुकेर हुल्
इति भाषा । इत्युणादिकोषः ॥

अटनी, स्त्री, (अटनि + स्त्रियाम्बा ङीप्) अटनिः ।

धनुष्कोटिः । इत्यमरः ॥ (यथा उत्तरचरिते ।
ध्वनदगुरूगुणाटणीकृतकरालकोलाहलं) ॥

अटरुषः, पुं, पतत्यनेन वासकवृक्षः । इत्यमरः ॥

अटरूषः, पुं, (अटति मृत्युग्रासे पतत्यनेन अट +

घञर्थे कः । अटं कासाख्यरोगं रोषति नाशयति
रुष् + कर्त्तरि कः । अथवा रूष् + कर्त्तरि कः
अटस्य रूषो वा षष्ठीतत्पुरुषः । वासकः कास-
नाशक इति वैद्यके) वासकवृक्षः । इत्यमरटीकायां
रायमुकुटः ॥

अटविः, स्त्री, (अटति वार्द्ध्वक्ये गच्छति यत्र अट् +

अधिकरणे अवि पञ्चाशति वनं ब्रजेदिति ।) वनं ।
इति रायमुकुटः ॥

अटवी, स्त्री, (अटवि + स्त्रियां ङीप्) वनं । इत्य-

मरः । (यथा रामायणे । आनर्त्तांश्चैव मार्गध्वं
कान्ताराण्यटवीस्तथा) ॥

अटा, स्त्री, (अट् + भावे अङ् ततष्टाप्) पर्य्यटनं ।

भ्रमणं । इति रत्नकोषः नीलकण्ठश्च ॥

अटाट्या, स्त्री, (पौनः पुन्येन अटनं भ्रमणम् अट् +

सूचिसूत्रिमूत्र्यट्यर्त्तीत्यादिना यङ् + भावे अ ।
स्त्रियां टाप्) पर्य्यटनं । इत्यमरः ॥ पुनःपुनर्भ्रमणं ।
अतिशयभ्रमणं । इति व्याकरणं ॥) अट्ट क
तौच्छ्ये । अनादरे । इति कविकल्पद्रुमः ॥ टद्व-
यान्तः । क अट्टयति । एकटकार उति रामः ॥
तौच्छ्यमल्पीभावः । इति दुर्गादासः ॥

अट्ट ङ अतिक्रमे । वधे । इति कविकल्पद्रुमः ॥

मूर्द्ध्वन्यवर्गाद्योपधः । ङ अटिट्टिषते दन्त्यवर्गा-
द्योपधः । ङ अतिट्टिषते । दन्त्यवर्गतृतीयो-
पधः । ङ अट्टितिषते खलं राजा । इति
दुर्गादासः ॥

अट्टं, क्ली, (अट्ट + अच्) शुष्कं । भक्तं । अन्नं ।

इति मेदिनी भूरिप्रयोगश्च ॥

अट्टः, पुं, (अट्टते एकं गृहमतिक्रम्य यत्र गृहे गच्छति

अट्ट + अधिकरणे घञ्) क्षौमः । इत्यमरः ॥
हर्म्म्यादिगृहं । इति भरतः ॥ प्राकाराग्रस्थित-
रणगृहं । इति कौटिल्यः । अट्टेति ख्यातगृह-
विशेषः । इति कोङ्कटः ॥ प्राकारमण्डपस्योपरि
शाला । इति केचित् ॥ हर्म्म्यादिवातकुटिका ।
इति केचित् ॥ मण्डपोपरि हर्म्म्यपृष्ठं । इति
केचित् ॥ प्राकारधारणार्थोऽभ्यन्तरे क्षौमाख्यो-
ऽट्टः । इति भट्ठः ॥ अतिशयः । इति मेदिनी ॥
हट्टः इति हेमचन्द्रः ॥

अट्टट्ट व्य (वीप्सायाद्विर्व्वचनम् शकन्ध्वादित्वात् पररू-

पत्वमस्य अट्टट्टहासमशिवं शिवदूती चकार
हेति चण्डी) अत्युच्चं । इति जटाधरः ॥

अट्टनं (क्ली) चक्रफलास्त्रं । इति त्रिकाण्डशेषः ॥

अट्टहासः, पुं, महत्तरो हासः । शब्दयुक्तहास्यं ।

इति हेमचन्द्रः ॥ (यथा देवीमाहात्म्ये । देवी-
ननादोच्चैः साट्ठहासं मुहूर्मुहुः ॥ त्र्यम्बकस्याट्ट-
हासः ॥ मेघदूते) ॥

अट्टहासकः, पुं, (अट्टं सातिशयं हासकः अतिश्वेत-

पुष्पत्वात् हास्यकारीव द्वितीयातत् पुरूषः) कुन्द-
पुष्प वृक्षः । इति राजनिर्घण्टः ॥

अट्टहासी [न्] पुं, (अट्टं सदानन्दत्वात् सातिशयं

हसति अट्ट + हस + णिनि उपपद समासः)
शिवः । इति हेमचन्द्रः ॥

अट्टालः, पुं, (अट्टवत् प्रासादगृहवत् अलति भवति

अल + अच्) प्राकारादुप्ररितनमुन्नतस्थानं । इति
श्रीधरस्वामी ॥ यथा । भज्यमानपुरोद्यानप्राका-
राट्टालगोपुरं । इति श्रीभागवतं ॥

अट्टालकः, पुं, (अट्टवत् प्रासादगृहवत् अलति

भवति अंल् + अच् स्वार्थे कन्) उपरितनगृहं ।
अट्टालिकोपरि गृहं । तत्पर्य्यायः । क्षौमः २
अट्टः ३ । इति हेमचन्द्रः ॥

अट्टालिका, स्त्री, (अट्टाल + स्वार्थे कन् स्त्रियां टाप्)

राजगृहं । तत्पर्य्यायः ।
नृपागारं २ हर्म्म्यं ३ सौधं ४ धवलागारं ५ ।
इति जटाधरः ॥ (राजतरङ्गिनी, अटित्वाट्टालि-
कादिभ्यो देशेभ्यः ।)

अट्टालिकाकारः, पुं, (अट्टालिकां करोति यः अट्टा-

लिका + कृ + अण् उपपद समासः प्रासादकारकः)
शूद्रागर्भे चित्रकारौरसजातजातिविशेषः । तस्य
कर्म्म गृहनिर्म्माणादि । राज इति थैकर इति
च भाषा ।
“कुलटायाञ्च शूद्रायां चित्रकारस्य वीर्य्यतः ।
वभूवाट्टालिकाकारः पतितो जारदोषतः” ।
इति ब्रह्मवैवर्त्तपुराणं ॥

अट्या, स्त्री, (अटनम् अट् + भावे क्यप् स्त्रियां टाप्

समस्या इति वत्) परिभ्रमणं । पर्य्यटनं । इत्य-
मरटीकायां रायमुकुटः ॥ यथा, --
“तौर्य्यत्रिकं वृथाठ्या च कामजो दशको गणः” ।
इति स्मृतिः ॥

अठ इ ङ गतौ इति कविकल्पद्रुमः ॥ इ (कर्म्मणि)

अण्ठ्यते ङ अण्ठते । इति दुर्गादासः ॥

अठ गते । इति कविकल्पद्रुमः ॥ अठति । इति

दुर्गादासः ॥

अड र न व्याप्तौ (स्वादिं सेट् ।) इति कविकल्प-

द्रुमः ॥ र वैदिकः । न अड्नोति । इति दुर्गा-
दासः ॥

अड उद्यमे । (भ्वादिं सेट् परं ।) इति कविकल्प-

द्रुमः ॥ अडति लोकः सुखाय । इति दुर्गादासः ॥

अड्ड अभियोगे । इति कविकल्पद्रुमः ॥ मूर्द्धन्यवर्ग-

तृतोयोपधः । (भ्वादिं सेट् परं अड्ड् + सन् लट्
तिप्) अडिड्डिषति । क्विपि संयोगान्तलोपे अड् ।
अभियोगः समाधानं । अड्डति पक्षं विद्वान् ।
अभि समन्तात् योगोऽभियोग इति गोविन्द-
भट्टः ॥ इति दुर्गादासः ।

अण रवे । इति कविकल्पद्रुमः ॥ अणति । रवः

शब्दः । इति दुर्गादासः ॥

अण य ङ जीवने । प्राणने । इति कविकल्पद्रुमः ॥

य ङ अण्यते जनो दुःखेन जीवतीत्यर्थः । इति
दुर्गादासः ॥

अणकः, त्रि, (अण् + अच् कुत्सायां कन्) कुत्सितः

अधमः । इत्यमरः ॥

अणव्यं, क्ली, (अणोः सुक्ष्मशस्यस्य चीनादिकस्य भवन

मुत्पत्तिस्थानमिति यावत् अणु + यत्) आणवीनं
(अणोः, सूक्ष्मशस्यस्य चीनादिकस्य भवनमुत्पति-
स्थानमिति यावत् अण् + घञ् तस्य इनः आदि-
वृद्धिश्च) । अणधान्योत्पादकक्षेत्रं । इति राय-
मुकुटः ॥

अणिः, पुं, स्त्री (अणति शब्दायते अण् + इन् स्त्रियां

वा ङीप्) अक्षाग्रकीलकः । रथचक्राग्रस्थित
कीलः । इत्यमरः ॥ अश्रिः । सूच्याद्यग्रभागः ।
सीमा । इति मेदिनी ॥ तस्य रूपान्तरं । अणी ।
आणिः (अणति शब्दायते अण् + इञ्, अजादि-
भ्यश्च इति इञ्, आजि इति वत्) । इत्यमर-
टीका ॥

अणिमा [न्] पुं, (अणु + भावे इमनिच । अणिमा

लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ईशित्वञ्च
वशित्व ञ्च तथा कामावसायिता इनि सांख्यतत्त्व
कौमुद्याम्) अणोर्भावः । अणुत्वं । सूक्ष्मता ।
इति व्याकरणं । अष्टविधैश्वर्य्यमध्ये ऐश्वर्य्यविशेषः ।
इत्यमरः ॥ यत्प्रभावात् देवाः सिद्धाश्च सूक्ष्मीभूय
सर्व्वत्र विचरन्ति कैश्चिदपि न लक्ष्यन्ते । इति
तट्टीका ॥
(“अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वञ्च वशित्वञ्च तथा कामावसायिता” ॥
इति आगमः ।)

अणीयः, [स्] त्रि, अतिशयेन अणुः अणु + ईयसुन्)

अत्यल्पं । अतिसूक्ष्मं । इत्यमरः ॥ (यथा मनुः, --
“प्रशासितारं सर्व्वेषामणीयांसमणोरपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परं” ॥)

अणु, त्रि, (अणति सूक्ष्मत्वं गच्छति अण् + उन् ।

लवलेसशकलाणवः इत्यमरः) क्षुद्रं । सूक्ष्मं । इति
मेदिनी ॥

अणुः, पुं, (अण् + उन्) लेशः । व्रीहिविशेषः ।

सूक्ष्मधान्यं । चिना इत्यादि भाषा । इत्यमरः ।
(यथा मनुः । न गृह्णीयात् शुल्कमण्वप्रि ॥)

अणुकः, त्रि, (अणुप्रकारः अणु + स्थूलादित्वात्

पृष्ठ १/०२५
:प्रकारार्थे कन् । अणुप्रकारे, अणुशब्दार्थे ची-
नादिधान्ये) चतुरः । निपुणः । अल्पः । स्तोकः ।
इति मेदिनी ॥

अणुभा, स्त्री, (अणुः सूक्ष्मा भा दीप्तिर्य्यस्याः सा बहु-

व्रीहिः) विद्युत् । इति त्रिकाण्डशेषः ॥

अणुरेवती, स्त्री, (अणुः सूक्ष्मा रेवती नक्षत्रमिव ।)

दन्तीवृक्षः । इति राजनिर्घण्टः ॥

अणुव्रीहिः, पुं, (अणुः सूक्ष्मः व्रीहिः, कर्म्मधारयः,

चीनादि ।) सूक्ष्मधान्यं । तत्पर्य्यायः । प्रसातिका २ ।
इति रत्नमाला ॥

अण्डं, क्ली, (अम् संयोगे भावे क्विप् अमं संयोगं

डयन्ते गच्छन्त्यनेन अम् + डी + करणे डः ।
पुंसोऽवयवभेदे मुष्के, पक्षिडिम्बे । “तदण्डमभव-
द्धैमं सहस्रांशुसमप्रममिति” मनुः ।) पक्ष्यादि-
प्रादुर्भावककोषः । अण्डा । डिम् । इति भाषा ।
तत्पर्य्यायः । पेशी २ कोषः ३ । इत्यमरः ॥ पेशिः
४ कोशः ५ पेशीकोषः ६ । इति तट्टीका ॥
डिम्बः ७ । इति मेदिनी ॥ मत्स्यपक्षिकूर्म्माण्डानां
गुणाः, --
(“नातिस्निग्धानि वृष्याणि स्वादुपाकरसानि च ।
वातघ्नान्यतिशुक्राणि गुरूण्यण्डानि पक्षिणाम्” ॥
इति वैद्यके ॥)
स्वादुत्वं । कटुपाकित्वं । रुचिशुक्रकारित्वं । वात-
श्लेष्मनाशित्वञ्च । इति राजवल्लभः ॥ मुष्कः ।
वीर्य्यं । इति विश्वः ॥ मृगनामिः । इति केचित् ॥

अण्डकः, पुं, (अण्ड + स्वार्थे कन्) अण्डकोषः । इति

हेमचन्द्रः ॥

अण्डकोटरपुष्पी, स्त्री, (अण्डवत् कोटरे अभ्यन्तरे

पुष्पं यस्याः सा बहुव्रीहिः, स्त्रियां ङीप् ।) अजान्त्री-
वृक्षः । नीलरास्ना । नीलवुह्ना इति ख्याता ।
इति काचिद्रत्नमाला ॥ अन्तःकोठरपुष्पी इत्यपि
पाठः ॥

अण्डकोशः, पुं, (अण्डस्य मुष्कस्य कोशः, षष्ठीतत् ।)

अण्डकोषः । इत्यमरटीका ॥

अण्डकोषः, पुं, (अण्डस्य मुष्कस्य कोषः, षष्ठीतत्-

पुरुषः ।) स्वनामख्यातशरीरावयवविशेषः । तत्प-
र्य्यायः । मुष्कः २ वृषणः ३ । इत्यमरः ॥ अण्डं ४
पेलं ५ अण्डकः ६ । इति हेमचन्द्रः ॥ वीजपेशिका
७ । इति राजनिर्घण्टः ॥ सीमा ८ । इति जटाधरः ॥
फलकोषकः ९ । इति त्रिकाण्डशेषः ॥ फलं १० ।
इति रामायणं ॥ कोषकोषकमुष्काण्डवृषणा अण्ड-
कोषकः । सीमा च पेलसीमानौ फलमित्यपि
कुत्रचित् ॥ इति शब्दरत्नावली ॥

अण्डकोषकः, पुं, (अण्डकोष + स्वार्थे कन्) अण्ड-

कोषः । इति शब्दरत्नावली ॥

अण्डजः, पुं, (अण्डे जायते अण्ड + जन् + कर्त्तरि, ड

उपपदसमासः) पक्षी । सर्पः । मत्स्यः । कृकलासः ।
इति विश्वमेदिन्यौ ॥ अण्डजातमात्रे त्रि ।
इत्यमरः ॥
(“अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।
यानि चैवंप्रकाराणि स्थलजान्यौदकानि च” ॥
इति मनुः ।)

अण्डजा, स्त्री, (अण्डे जायते इति अण्ड + जन् +

कर्त्तरि ड, उपपदसमासः, स्त्रियां टाप् ।) मृग-
नामिः । कस्तूरी । इति विश्वमेदिनीहेम-
चन्द्राः ॥

अण्डालुः, पुं, (अण्डं विद्यते अस्य अण्ड + मत्वर्थे-

आलुच्) मत्स्यः । इति शब्दचन्द्रिका ॥

अण्डीरः, पुं, (अण्ड + मत्वर्थे ईरन्, विशिष्टसामर्थ्य-

वान् ।) पुरुषः । शक्तः । इति मेदिनी ॥

अण्वी, स्त्री, (अणु + वोतोगुणवचनादिति पक्षे

ङीप्) अङ्गुलिः । अस्याः प्रचुरप्रयोगो वेदे ।
क्षीणा ॥

अत, इ बन्धने (इदित्वात् नुम् भ्वादिं सेट् परं)

इति कविकल्पद्रुमः ॥ अतीति बन्धे । शेषो दीर्घा-
दिरित्यन्यः । अतएव अन्त्यते ईन्त्यते । स्वमते तु
अन्त्यते इन्त्यते । छन्दोऽनुरोधादुभयत्र इकारः ॥
इति दुर्गादासः ॥

अत ई बन्धने । इति कविकल्पद्रुमः ॥

अत सातत्यगते । इति कविकल्पद्रुमः ॥ सातत्यगतं

नैरन्तर्य्येण भ्रमणं प्रापणञ्च । अतति वायुः ।
अतति सूर्य्यो गगनं प्राप्नोतीत्यर्थः । इति दुर्गा-
दासः ।

अतः, [स्] व्य, (एतस्मात्, एतद् + एतदोऽशिति

पञ्चम्यर्थे तस् एतद्शब्दस्य अशादेशः) कारणं ।
अपदेशः । निर्द्देशः । इति विश्वः ॥

अतएव, व्य, (एतद् + तस् पञ्चम्यर्थे तस् । एतदः

अन् इति एकारस्य अकारः ।) अस्मादेव ।
एतत्कारणेनैव । अनेनैव हेतुना । यथा, --
“अतएव महेशानि रलयोः समता भवेत्” ।
इति सारदातिलकटीकायां राघवभट्टः ॥ अतएव
पं । इति वोपदेवः ॥

अतटः, पुं, (तट्यते आहन्यते जलेन इति तट् + घ-

ञर्थे कः, तटंजलप्रपातस्थानं न विद्यते अस्य बहु-
व्रीहिः) पर्ब्बतस्योच्चस्थानं । तत्पर्य्यायः । प्रपातः २
भृगुः ३ । इत्यमरः ॥ (यथा शाकुन्तले । मनो-
रथानामतटप्रपातः ॥)

अतर्कः, पुं, (तर्क्यतेऽनेन तर्क + घञर्थेकः । तर्कस्तर्क

हेतुः स नास्ति यस्य स बहुव्रीहिः) अहेतुकः । शुष्क-
तर्कपरः । इति महाभारते दानधर्म्मः ॥

अतलं, क्ली, (नास्ति तलं गाधभागो यस्य तत् बहु-

व्रीहिः । अतलस्पर्शमिति व्युत्पत्त्यर्थः ।) प्रथमखण्ड-
पातालं । भूरिप्रयोगः ॥

अतलस्पर्शः, त्रि, (नास्ति तलस्य अधोभागस्यं स्पर्शो-

यस्य स बहुव्रीहिः ।) अगाधः । अतिगभीरः)
इत्यमरः ॥

अतलस्पृक् [श्] त्रि, (न तलं गाधभागः नञ्समासः,

तत् स्पृशति यः अतल + स्पृश् + कर्त्तरि क्विन्
अतलस्पर्शकारी । कर्म्मणि क्विन् तत् स्पृश्यते
येन ।) अतलस्पर्शः । तत्पर्य्यायः । आस्था २ आस्थागं ३
अस्ताघं ४ अगाधं ५ । इति हेमचन्द्रः ॥

अतसः, पुं, (अतति सततं गच्छति यः अत् + कर्त्तरि

असच्, स्त्रियां ङीष् ।) (अतसीवृक्षविशेषः)
वायुः । इत्युणादिकोषः ॥ आत्मा । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ वल्कलनिर्म्मितवस्त्रं ।
अस्त्रं । यथा -- “अतसः क्षौमं प्रहरणं वायुश्चेति
धातुवृत्तौ” माधवः ॥

अतसी, स्त्री, (अत् + असच्, स्त्रियां ङीप् ।) कृष्ण-

पुष्पक्षुद्रवृक्षभेदः । मसिना इति ख्याता । तत्-
पर्य्यायः । चणका २ उमा ३ क्षौमी ४ रुद्रपत्नी
५ सुवर्च्चला ६ । इति रत्नमाला ॥ पिच्छिला ७
देवी ८ मदगन्धा ९ मदोत्कटा १० क्षुमा ११
हैमवती १२ सुनीला १३ नीलपुष्पिका १४ ।
अस्या गुणाः । उष्णत्वं । तिक्तत्वं । वातहारित्वं ।
श्लेष्मपित्तकारित्वञ्च । अस्यास्तैलस्य गुणाः । मधु-
रत्वं । पिच्छिलत्वं । मदगन्धित्वं । कषायत्वं । वायु-
कफकासनाशित्वं ॥ स्वादुत्वं । उष्णत्वं । अम्लत्वं ।
पाके कटुत्वञ्च । इति राजवल्लभराजनिर्घण्टौ ॥
यथा, --
“अतसी नीलपुष्पी च पार्ब्बती स्यादुमा क्षमा ।
अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः ।
उष्णा दृक्शुक्रवातघ्नी कफपित्तविनाशिनी” ॥
इति भावप्रकाशः ॥ शणवृक्षः । इत्यमर-
टीका ॥

अति, व्य, प्रशंसा । (अत् + इ । पूजायां । अतिरति-

क्रमणे चेति । अत्यादयः क्रान्ताद्यर्थे इति पाणिनि-
सूत्रम् ।) प्रकर्षं । लङ्घनं । इति विश्वमेदिन्यौ ॥
अतिशयं । क्रान्तं । पूजनं । असम्भावना । इति
दुर्गादासः । प्रादिविंशत्युपसर्गान्तर्गतोऽयं ॥

अतिकथः, त्रि, (कथामतिक्रान्तः कुगतिप्रादय इति

समासः । कथनायोग्यं ।) अश्रद्धेयः । नष्टः । इति
मेदिनी ॥ नष्टधर्म्मः । इति हेमचन्द्रः ॥

अतिकथा, स्त्री, (अत्युत्कृष्टा कथा कर्म्मधारयः ।)

अपार्थवाक्यं । व्यर्थभाषणं । इति विश्वः हेम-
चन्द्रश्च ॥

अतिकन्दकः, पुं, (अतिरिक्तः कन्दो मूलं यस्य

कप्) हस्तिकन्दवृक्षः । इति राजनिर्घण्टः ॥

अतिकेशरः, पुं, (अतिरिक्ताः केशराः किञ्जल्काः

यस्य सः ।) कुब्जकवृक्षः । इति राजनिर्घण्टः ॥

अतिक्रमः, पुं, (अतिक्रान्तः क्रमः नियमः, अति क्रम्

+ भावे घञ् वृद्ध्यभावः) क्रमोल्लङ्घनं । तत्-
पर्य्यायः । अतिपातः २ (अति पत् + भावे घञ्)
उपात्ययः ३ पर्य्यायः ४ । अभिक्रमः । रणे शत्रून्
प्रति अभीतयोधादेर्गमनं । इत्यमरः ॥

अतिक्रान्तः, त्रि, (अति + क्रम् + कर्त्तरिक्तः) कृताति-

क्रमः । कृतक्रमोल्लङ्घनः । राजानमतिक्रान्ता
अतिराजी । इति वोपदेवः ॥ अतीतः । यथा ।
बेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते । इति
रक्षितः ॥

अतिक्रामकः, त्रि, अतिक्रमकर्त्ता । क्रमोल्लङ्घकः ।

अतिपूर्ब्बक्रमधातोः कर्त्तरि णकः ॥

अतिगण्डः, पुं, (गण्डमतिक्रान्तः अत्यादयः क्रान्ता-

द्यर्थे ।) विष्कुम्भादिसप्तविंशतियोगमध्ये षष्ठयोगः ।
तत्र जातफलं ।
“कलिप्रियो वेदविनिन्दकश्च
धूर्त्तः कृतघ्नो गलरोगयुक्तः ।
पृष्ठ १/०२६
:सरोमदेहः पुरुषोऽतिदीर्घः
प्रकाण्डगण्डस्त्वतिगण्डजन्मा” ॥
इति कोष्ठोप्रदीपः ।

अतिगन्धः, पुं, (अतिरिक्तो गन्धो यस्य सः ।) भूत-

तृणं । चम्पकः । मुद्गरवृक्षः । गन्धकः । इति
राजनिर्घण्टः ॥ (अतिगर्व्वितः ।)

अतिगन्धालुः, पुं, (अतिगन्धो विद्यतेऽस्य अति-

गन्ध + मत्वर्थे आलु । अतिशयितगन्धयुक्ते) पुत्र-
दात्रीलता । इति राजनिर्घण्टः ॥

अतिगर्व्वितः, त्रि, (अति अधिको गर्व्वः कर्म्मधारयः

सोऽस्य जातः अतिगर्व्व + इतच् ।) महाहंकृतः ।
अतिशयगर्व्वयुक्तः । तत्पर्य्यायः । समुन्नद्धः २ ।
इति हलायुधः ॥

अतिगुहा, स्त्री, (गुहामतिक्रान्ता कुगतिप्रादीति

समासः ।) पृश्निपर्णीविशेषः । क्षुद्रचाकुलिया इति
भाषा । इति रत्नमाला ॥ गुहातिक्रामके त्रि ॥

अतिचरा, स्त्री, (गन्धविस्तारेण स्वस्थानमतिक्रम्य

चरति गच्छतीव अति चर + कर्त्तरि अच्
स्त्रियां टाप्) पद्मचारिणीवृक्षः । स्थलपद्मिनी ।
इत्यमरः ॥ राजनिर्घण्टश्च ॥

अतिचारः, पुं, (अतिक्रम्य चरणं गमनम् अति + चर

+ भावे घञ् ।) शीघ्रगमनं । अतिक्रम्य गमनं ।
कुजादिपञ्चग्रहाणां राशिभोगकालासमाप्तौ
राश्यन्तरगमनं । तत्र पूर्ब्बराशिगमने वक्राति-
चारः । परराशिगमने अतिचारः । एतौ गुरो-
श्चेदकालो भवति । गुरुस्तु यदि पुनः पूर्ब्बराशिं
नायाति तदा महातिचारः । तेन लुप्तसम्बत्सरो
भवति । ग्रहाणां स्वभोज्यमानराशावपि वक्रा¯ति-
चारौ भवतः ॥ तत्र नाकालः । इति स्मृति-
ज्योतिषे ॥

अतिच्छत्रः, पुं, (छाद्यते आच्छाद्यतेऽनेन छद् +

णिच् + करणे ष्ट्रन् । अतिक्रान्तश्छत्रम् इति
व्युत्पत्त्या छत्रातिक्रमकारी ।) भूततृणं । इति
राजनिर्घण्टः ॥ जलतृणविशेषः । अरुणवर्णकुल्या-
खाडा इति ख्यातः । इति रत्नमाला ॥ छत्रा ।
काटछाति । भुँइछाति । पोयालछाति इति
ख्याता । इत्यमरः ॥

अतिच्छत्रकः, पुं, (अति + छत्र + स्वार्थे कन्)

छत्रवृक्षः । छातारियाविष इति ख्यातः । तस्य
मूले पत्रे वचाकारः कटुरसश्च । इति रत्नमाला ॥
भूततृणं । इति राजनिर्घण्टः ॥

अतिच्छत्रा, स्त्री, (छत्रमतिक्रान्ता, अत्यादय इति

समासः ।) अवाक्पुष्पी । मौरी इति ख्याता ।
इत्यमरः ॥ शताह्वा । शलुपा इति प्रसिद्धा । इति
रत्नमाला ॥ (छत्रातिछत्रे लाङ्गलीं जटिलां ब्रह्म-
चारिणीं ॥ इति सुश्रुते ॥)

अतिजवः, त्रि, (अतिशयितो जवो वेगो यस्य सः ।)

अतिशीघ्रगामी । अतिवेगवान् । (दवयदतिजबेन
प्राप्तमुर्व्वोविभागं ॥ इति भट्टिकाव्ये) ॥ तत्प-
पर्य्यायः । जङ्घालः २ । इत्यमरः ॥ जङ्घिलः ३
अतिबलः ४ । इति तट्टीका ॥

अतिजागरः, पुं, (जामृ + भावे घञ् अतिशयितो

जागरो जागरणं यस्य सः । अतिजागरणयुक्ते त्रि ।)
नीलक्रौञ्चः । कालवकः । इति राजनिर्घण्टः ॥

अतिडीनं, क्ली, (डी + भावे क्तः तस्य नः । अत्यन्त

डीनं गमनं कर्म्मधारयः ।) पक्षिणां प्रचण्डगमनं ।
इति महाभारतं ॥

अतितीव्रा, स्त्री, (अतिशयेन तीव्रा) गण्डदूर्व्वा ।

इति राजनिर्घण्टः ॥

अतिथिः, पुं, कुशपुत्रः । स च श्रीरामचन्द्रस्य पौत्रः ।

इति मेदिनी ॥ कोपः । इति विश्वः ॥

अतिथिः, त्रि, (अतति सातत्येन गच्छति न तिष्ठति

अत् + इथिन्) अज्ञातपूर्ब्बगृहागतव्यक्तिः । इति
श्रीधरस्वामी ॥ अतिथ् इति भाषा । तत्पर्य्यायः ।
आगन्तुः २ आवेशिकः ३ गृहागतः ४ । इत्य-
मरः ॥ स्त्रीलिङ्गे आवेशिकी ५ अतिथी ६ । इति
तट्टीकासारसुन्दरी ॥ आगान्तुः ७ । इति हड्ड-
चन्द्रः । प्रघूर्णः ८ अभ्यागतः ९ प्राघूर्णिकः १० । इति
हेमचन्द्रः ॥ प्राघुणिकः ११ । इति विश्वः ॥
प्राघुणः १२ । इति त्रिकाण्डशेषः ॥ * ॥ तस्य
लक्षणं । यस्य न ज्ञायते नाम न च गोत्रं न च
स्थितिः । अकस्मात् गृहमायाति सोऽतिथिः
प्रोच्यते बुधैः ॥ * ॥ तस्य निवर्त्तने गृहस्थस्य दोषः
यथा, --
“अतिथिर्यस्य भग्नाशो गृहात् प्रतिनिवर्त्तते ।
स तस्मै दुष्कृतं दत्त्वा पुण्यमादाय गच्छति” ॥
इति पुराणं ॥ * ॥ तस्य ग्रहणकालः । “ततो
गोदोहमात्रन्तु कालं तिष्ठेद्गृहाङ्गने । अति-
थिग्रहणार्थाय तदूर्द्ध्वं वा यदृच्छया” ॥ इति
विष्णुपुराणं ॥ * ॥ गोदोहकालश्च मुहूर्त्ताष्टम-
भागः । यथा । “आचम्य च ततः कुर्य्यात् प्राज्ञो
द्वारावलोकनं । मुहूर्त्तस्याष्टमं भागमुद्वीक्ष्यो
ह्यतिथिर्भवेत्” ॥ इति मार्कण्डेयपुराणं ॥ * ॥ तस्य
मूर्खत्वादिविचारो नास्ति । “प्रियो वा यदि वा
द्वेष्यो मूर्खः पतित एव वा । संप्राप्ते वैश्वदेवान्ते
सोऽतिथिः स्वर्गसंक्रमः” ॥ इति शातातपः ॥ * ॥
तस्य वेदादयो न प्रष्टव्याः ।
“स्वाध्यायगोत्रचरणमपृष्ट्वापि तथा कुलं ।
हिरण्यगर्भबुद्ध्या तं मन्येताभ्यागतं गृही” ॥
इति विष्णुपुराणं ॥ * ॥ तस्य देशादौ पृष्टे दोषः ।
“देशं नाम कुलं विद्यां पृष्ट्वा योऽन्नं प्रयच्छति ।
न स तत्फलमाप्नोति दत्त्वा स्वर्गं न गच्छति” ॥
इति स्मृतिः ॥ * ॥ अतिथये शक्त्यनुसारेण
दातव्यं ।
“भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा ।
अदत्त्वा नैव भोक्तव्यं यथा विभवमात्मनः” ॥
इति मार्कण्डेयपुराणं ॥ * ॥ भिक्षादिलक्षणं ।
“ग्रासप्रमाणा भिक्षास्यादग्रं ग्रासचतुष्टयं ।
अग्राच्चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः” ॥
इति मार्कण्डेयपुराणम् ॥ इत्याह्निकतत्त्वं ॥

अतिथिपूजनं, क्ली, (अतिथेः पूजनं सेवा षष्ठीतत्-

पुरुषः ।) अतिथिसेवा । आतिथ्यक्रिया । तत्प-
र्य्यायः । नृयज्ञः २ । इति हेमचन्द्रः ॥

अतिदानं, क्ली, (दा + भावे ल्यट्, अत्यन्तं दानं स्वस-

त्त्वध्वंसपूर्ब्बकपरस्वत्त्वोत्पत्तिः, कर्म्मधारयः ।) बहु-
दानं । अपरिमितदानं । यथा, --
“अतिदाने बलिर्बद्धः अतिमाने च कौरवाः ।
अतिरूपे हृता सीता सर्व्वमत्यन्तगर्हितम् ॥
इति चाणक्यः ॥

अतिदिष्टः, त्रि, (अति + दिश् + क्तः । अन्यधर्म्मा-

णामन्यत्रारोपणमतिदेशः यथा, -- “तिङ्शित्
सार्व्वधातुकमित्यातिदेशिकसूत्रम् ।) अतिदेशवि-
शिष्टः । यथा, -- “न समानगोत्रां भार्य्यां विन्दे-
तेत्यनेन शूद्रस्यापि सगोत्रा कथं न निषिध्यते”
इति चेदत्र उपदिष्टातिदिष्टगोत्रस्यैव निषेधो
नत्वतिदिष्टातिदिष्टशूद्रगोत्रादेः । इत्युद्वाहतत्त्वं ॥

अतिदीप्यः, पुं, (अत्यन्तं दीप्यते विचित्रवर्ण्णतया

आत्मना प्रकाशते अति + दीप् + कर्त्तरि ण्यत् ।)
रक्तचित्रकवृक्षः । इति राजनिर्घण्टः ॥

अतिदेशः, पुं, (अति + दिश् + भावे घञ्) अन्य-

धर्म्मस्यान्यत्र आरोपणं । यथा, -- “इण्वदिकः”
इत्यादिः । इति दुर्गादासः ॥ कारिका यथा, --
“प्रकृतात् कर्म्मणो यस्मात् तत्समानेषु कर्म्मसु ।
धर्म्मोऽतिदिश्यते येन अतिदेशः स उच्यते” ॥
इति मलमासतत्त्वम् ॥ स तु पञ्चविधः । शास्त्रा-
तिदेशः । १ यथा, -- “नित्येन तुल्यं शेषं स्यात्
इत्यत्र तुल्यशब्देन अतिदेशः” । १ । कार्य्याति-
देशः २ यथा, -- “अप्रयाजास्ताः इत्यत्र कार्य्येण
निषेधेन दर्शपौर्ण्णमासधर्म्मातिदेशः” । २ । निमि-
त्तातिदेशः ३ यथा, -- “विकूतौ मौद्गचरुयागे
ब्रीहिंकार्य्यकारिणि मुद्गे ब्रीहिकार्य्यनिमित्तत्वात्
धर्म्माः प्रोक्षणादयः कल्प्यन्ते” । ३ । व्यपदेशा-
तिदेशः ४ यथा, -- “मासमग्निहोत्रं जुहोति
इत्यत्र माससाध्यायनाख्ययागे अग्निहोत्रपदव्यप-
देशात् अग्निहोत्रधर्म्मातिदेशः” । ४ । “रूपा-
तिदेशः” ५ यथा, -- “यजमानाद्भिन्नो यूपः इत्य-
त्र यूपे यजमानादन्यत्वरूपावगमात् यजमान-
धर्म्मस्य तदीयपरिमाणस्यातिदेशः” । इति श्राद्ध-
विवेकटीकायां श्रीकृष्णः ॥

अतिनु, त्रि, (कुगतिप्रादीतिसमासः । गोस्त्रियोरुप-

सर्जनस्येति ह्रस्वः ।) अतीतनौकं । नावमतिक्रान्तं ।
नाबोत्तीर्ण्णं । इत्यमरः । तस्य पुंस्त्रीलिङ्गयोः
अतिनौः इति रूपं ॥

अतिपतनं, क्ली, (अति + पत् + भावे ल्युट्) अत्ययः ।

अतिक्रमणं । इति शब्दरत्नावली ॥

अतिपन्थाः [न्] पुं, (अत्युत्कृष्टः पन्थाः कर्म्मधारयः ।

अतेः पूजार्थत्वान्न समासान्तप्रत्ययः ।) सन्मार्गः ।
सुपथः । इत्यमरः ॥

अतिपत्रः, पुं, (अतिवृहत् पत्रं यस्य सः बहुव्रीहिः ।)

हस्तिकन्दवृक्षः । शाकवृक्षः । इति राजनिर्घण्टः ॥

अतिपातः, पुं, (अति + पत् + भावे घञ्) अति-

क्रमः । उपात्ययः । पर्य्ययः । इत्यमरः ॥ (यथा
शाकुन्तले -- न चेदन्यकार्य्यातिपातः) ॥

अतिपातकं, क्ली, (अतिदुष्टतया अन्यत् पातकं

पापमतिक्रान्तं प्रादिसमासः ।) नवविधपापमध्ये
गुरुतरपातकं । तत् त्रिविघं । पुंसः मातृदुहितृ-
पृष्ठ १/०२७
:स्नुषागमनजन्यं । स्त्रियास्तु पुत्रपितृश्वशुरगमन-
जन्यं । इति प्रायश्चित्तविवेकः ॥

अतिबलः, त्रि, (अतिशयितं बलं यस्य सः बहु-

व्रीहिः ।) प्रबलः । अतिशयबलवान् । प्रकृष्टबल-
विशिष्टः । इति मेदिनी ॥ (विजृम्भमाणोऽतिबलः
प्रत्यबुध्यत राक्षसः ॥ इति रामायणम्) ॥

अतिबला, स्त्री, अत्यन्तं बलं यस्याः सः बहु-

व्रीहिः ।) विश्वामित्रेण रामाय दत्ते अस्त्रविद्या-
विशेषे यथा, --
“गृहाण द्वे इमे विद्ये बलामतिबलां तथा” ।
इत्यादि रामायणे ।) पीतबला । पीतवर्णवाडियाला
इति ख्याता । पिटारणी । इति मदनविनोदः ॥
गुरशकरीभेदः । इति राजनिर्घण्टः ॥ तत्पर्य्यायः ।
बलिका २ बल्या ३ विकङ्कता ४ वाद्यपुष्पिका ५
घण्टा ६ शीता ७ शीतपुष्पा ८ भूरिचला ९
वृष्यगन्धिका १० । तस्या गुणाः । तिक्तत्वं । कटुत्वं ।
वातकृमिनाशित्वं । दाहतृष्णाविषच्छर्द्दिक्लेदोप-
शमकारित्वञ्च । इति राजनिर्घण्टः ॥

अतिभारगः, पुं, (अतिभारेण वेगेन गच्छति अति-

भार + गम् + कर्त्तरि ड, उपपदसमासः ।) (खरः ।
अश्वतरः । गर्द्दभात् वडवाजातः अश्वभेदः ।) खे-
सरः । खचर इति भाषा । इति राज-
निर्घण्टः ॥

अतिभीः, पुं, (अतिबिभेत्यस्याः अति भी + अपा-

दाने क्विप् ।) वज्रज्वाला । इति हलायुधः ॥

अतिभूमिः, स्त्री, (अतिशयिता भूमिर्म्मर्य्यादा

कर्म्मधारयः, अतिमर्य्यादा ।) आधिक्यं । यथा । प्राप्य
मन्मथमदादतिभूमिं दुःसहस्तनभराः सुरतस्येति
माघः ॥ अतिशयितभूमिः ॥

अतिमङ्गल्यः, पुं, (अतिमङ्गलाय हितः अतिमङ्गल

+ यत् ।) विल्लवृक्षः । इति रत्नमाला ॥ अतिशय-
मङ्गलजनके त्रि ॥

अतिमर्य्यादः, त्रि, (मय्यादामतिक्रान्तः प्रादि-

समासः ।) अतिशयितः । इति हेमचन्द्रः ॥ अति-
शये क्ली ॥

अतिमात्रं, क्ली, (मात्रामल्पमतिक्रान्तं प्रादि-

समासः ।) अतिशयः । तद्युक्ते त्रि । इत्यमरः ॥
(यथा शाकुन्तले । अतिमात्रलोहिततलौ बाहू
घटोत्क्षेपणात् ॥)

अतिमुक्तः, (पुं) माधवीलता । इत्यमरः ॥ तिनिश-

वृक्षः । इति हेमचन्द्रः ॥

अतिमुक्तः, त्रि, (अतिशयेन मुक्तः निर्व्वाणमुक्तिं गतः

अति + मुच् + कर्त्तरि क्तः, निर्व्वाणमुक्तिविशिष्टः ।)
निष्कलः । निःसङ्गः । इतिविश्वमेदिन्यौ ॥ प्राप्त-
निर्व्वाणः ॥

अतिमुक्तकः, पुं, (मुच् + भावे क्त, आतशयेन मुक्तं

बन्धशैथिल्यं यस्य सः बहुव्रीहिः, कप् ।) तिनिश-
वृक्षः । इत्यमरः ॥ तिन्दुकवृक्षः । पुष्पवृक्षविशेषः ।
तत्पर्य्यायः । पुण्ड्रकः २ मल्लिनी ३ भ्रमरा-
नन्दा ४ कामुककान्ता ५ । तस्य गुणाः । कषायत्वं ।
शीतलत्वं । श्रमनाशित्वं । पित्तदाहज्वरोन्माद-
हिक्वाच्छर्द्दिनिवारकत्वञ्च । इति राजनिर्घण्टः ॥
(कणिकारान् कुरुवकान् चम्पकानतिमुक्तकान् ॥
इति रामायणे) ॥

अतिमोदा, स्त्री, (अत्यन्तो मोदो गन्धो यस्याः सा ।)

नवमल्लिका । इति राजनिर्घण्टः ॥

अतिरसा, स्त्री, अत्यन्तो रसो यस्याः सा ।) मूर्व्वा-

लता । रास्ना । क्लीतनकं । इति राजनिर्घण्टः ॥

अतिरिक्तः, त्रि, (अति रिच् + कर्त्तरि क्तः । श्रेष्ठे भिन्ने

शून्ये च । भावे क्तः, अतिरेके आधिक्ये च ।)
अधिकः । अतिशयितः । तत्पर्य्यायः । समधिकः २ ।
इत्यमरः ॥

अतिरेकः, त्रि, (अति रिच् + भावे घञ् । आधिक्ये

श्रेष्ठत्वे च ।) अतिशयः । यथा, --
“सम्पूर्णे तूभयोर्ज्ञेयमतिरेके परेऽहनि” ।
इति तिथ्यादितत्त्वं ॥

अतिरोगः, पुं, (अत्यन्तोरोगः व्याधिः अति रुज् +

भावे घञ् ।) क्षयव्याधिः । इति राजनिर्घण्टः ॥

अतिरोमशः, पुं, (अतिशयितं रोम तदेव विद्यतेऽस्य

अतिरोमन् + मत्वर्थे श) वनच्छागलः । इति
हारावली ॥ वृहत्वानर इति केचित् ॥ अति-
शयलोमयुक्ते त्रि ॥

अतिलोमशा, स्त्री, (अतिशयितं लोम अतिलोमन् +

मत्वर्थे श, स्त्रियां टाप् ।) नीलबुह्ना । इति रत्न-
माला ॥

अतिवर्त्तुलः, पुं, (अतिशयितो वर्त्तुलः कर्म्मधारयः ।)

कलाय विशेषः । वाँटुला कडाइ इति भाषा । इति
रत्नमाला ॥ अस्य गुणाः सतीलशब्दे द्रष्टव्याः ॥

अतिवादः, पुं, (अति + वद् + भावे घञ् ।) अभि-

वादः । परुषोक्तिः । इत्यमरटीकायां रमानाथः ॥
(“अतिवादांस्तितिक्षेत नावमन्येत कञ्चनः ।
नचेमं देहमाश्रित्य वैरं कुर्व्वीत केनचित् ॥ मनुः ।)

अतिविकटः, पुं, (अतिशयितो विकटः भीषणः)

दुष्टहस्ती । इति शब्दमाला ॥ अतिकराले त्रि ॥

अतिविषा, स्त्री, (विषमतिक्रान्ता प्रादिसमासः । वा

विषमतिक्रान्तं यया बहुव्रीहिः ।) वृक्षविशेषः ।
आतैष । आतैच इति भाषा । तत्पर्य्यायः । विश्वा
२ विषा ३ प्रतिविषा ४ उपविषा ५ अरुणा ६
शृङ्गी ७ महौषधं ८ । इत्यमरः ॥ काश्मीरा ९
श्वेता १० । इति रत्नमाला ॥ श्वेतकन्दा ११
भृङ्गी १२ भङ्गुरा १३ विरूपा १४ श्यामकन्दा
१५ विषरूपा १६ वीरा १७ माद्री १८ श्वेत-
वचा १९ अमृता २० । इति राजनिर्घण्टः ॥ तस्या
गुणाः । पाचकत्वं । ग्राहित्वं । दोषनाशित्वञ्च ।
इति राजवल्लभः ॥ कटुत्वं । कफपित्तज्वरामा-
तिसारकासविषच्छर्द्दिनाशित्वञ्च ।
“त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा ।
रसवीर्य्यविपाकेषु निर्व्विषेव गुणाधिका” ॥
इति राजनिर्घण्टः ॥
“विषा त्वतिविषा विश्वा शृङ्गी प्रतिविषारुणा ।
शुक्लकन्दा चोपविषा भङ्गुरा व्रणवल्लभा ॥
विषा सोष्णा कटुस्तिक्ता पाचनी दीपनी हरेत् ।
कफपित्तातिसारामविषकासवमिक्रिमीन्” ॥
इति भावप्रकाशः ॥

अतिविस्रब्धनवोढा, स्त्री, (अतिविस्रब्धा अति-

प्रश्रययुक्ता नवोढा प्रणयिनी नायिका इति यावत्
कर्म्मधारयः ।) स्वीयान्तर्गतमध्यनायिकाभेदः । तस्याः
लक्षणं । नायकातिशयप्रश्रययुक्ता । अस्याश्चेष्टा ।
सधैर्य्यसापराधनायके वक्रोक्तिः । अधैर्य्यसापरा-
धनायके परुषवाक् । इति रसमञ्जरी ॥

अतिवृष्टिः, स्त्री, (अतिशयेन वृष्टिः वर्षणं ।) अति-

शयवृष्टिः । ईतिविशेषः । स तु महद्वर्षणरूपः
कृषीणामुत्पातः । यथा, --
“अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः ।
प्रत्यासन्नाश्चराजानः षडेता ईतयः स्मृताः ॥
इति पराशरः ॥

अतिवेलं, क्ली, (वेलां मर्य्यादां कूलं वा अतिक्रान्तं

प्रादिसमासः, ह्रस्वः ।) अतिशयिते त्रि । इत्यमरः ॥
(जलमतिवेलं पयोराशेः ॥ नीतिमाला) ।

अतिव्यथा, स्त्री, (अत्यन्ता व्यथायातना कर्म्मधारयः ।

व्यथ + भावे अङ् स्त्रियां टाप् ।) अतिशययातना ।
तीव्रवेदना । इति शब्दरत्नावली ॥

अतिव्याप्तिः, स्त्री, (अतिशयेन व्याप्तिर्व्यापनं ।) अतिशय-

व्यापनं । अलक्ष्ये लक्षणस्य गमनं । यथा साध्या-
भाववदवृत्तित्वमिति व्याप्तिलक्षणे धूमवान् वह्नि-
रित्यत्र धूमाभावाधिकरणह्रदवृत्तित्वाभावमादाय
अतिव्याप्तिः । इति तार्किकाः ॥ स्वाव्यवहित-
प्राक्क्षणावच्छेदेन रविभुज्यमानराशीयरवि-
संयोगविशिष्टस्वान्तिमक्षणकत्वं मलमासत्वं
भानुलङ्घिते अतिव्याप्तिवारणाय औत्पातिकभिन्न-
त्वेन विशेषणीयं । इति मलमासतत्त्वटीका ॥
मुख्यफलजनकव्यापारजनकत्वे सति मुख्यफला-
जनकत्वं अङ्गत्वं घटादावतिव्याप्तिवारणाय सत्यन्तं
इति तिथ्यादितत्त्वटीका च ॥

अतिशक्तिता, स्त्री, (अतिशयिता शक्तिः कर्म्मसाधन-

सामथ्यं यस्य बहुव्रीहिः, तस्य भावः तल् स्त्रियां
टाप्) विक्रमः । महाबलं । इत्यमरः ॥

अतिशक्तिभाक् [ज्] पुं, (अतिशयिता शक्तिः कर्म्म

साधनसामर्थ्यं कर्म्मधारयः । तां भजते अतिशक्ति
+ भज् + कर्त्तरि णिवः, उपपदसमासः ।) अति-
शयशक्तिविशिष्टः । अतिसमर्थः । सवीर्य्यमतिशक्ति-
भाक् । इत्यमरः ॥

अतिशयः, पुं, (अति + शी + अच्) अधिकः । तत्-

पर्य्यायः । भरः २ अतिवेलं ३ भृशं ४ अत्यर्थं ५
अतिमात्रं ६ उद्गाढं ७ निर्भरं ८ तीव्रं ९
एकान्तं १० नितान्तं ११ गाढं १२ वाढं १३
दृढं १४ । इत्यमरः ॥ अतिमर्य्यादः १५ उत्-
कर्षः १६ । इति हेमचन्द्रः ॥ बलवत् १७ सुष्ठु १८
किमुत १९ सु २० अतीव २१ अति २२ । इत्य-
व्ययवर्गे अमरः ॥ अतिरिक्तः २३ समधिकः २४ ।
इति विशेष्यनिघ्नवर्गे अमरः ॥

अतिशयनं, क्ली, (अति + शी + भावे ल्युट्) अति-

शयः । तद्युक्ते त्रि । इत्यमरटीकायां रमानाथः ।
(शयनमतिक्रान्तं अत्यादीतिसमासः । अतिक्रान्त
शयनम् ॥)

अतिशायनं, क्ली, (अति शी + स्वार्थे णिच् भावे

पृष्ठ १/०२८
:ल्युट् ।) अतिशयनं । इति शब्दरत्नावली ॥ (आ-
धिक्यं । प्रकर्षः । प्रशंसा ।)

अतिशोभनः, त्रि, (अतिशोभते अति + शुभ +

कर्त्तरि ल्युः ।) अतिशयशोभायुक्तः । अतिप्रशस्यः ।
श्रेष्ठः । इत्यमरः ॥

अतिसर्ज्जनं, क्ली, (अतिशयेन सर्जनं दानं अति +

सृज् + भावे ल्युट्) अतिशयदानं । तत्पर्य्यायः ।
विलम्भः २ । इत्यमरः ॥ दानं । बधः । इति मेदिनी ॥
(विधुरां ज्वलनातिसर्ज्जनात् ननु मां प्रापय पत्यु-
रन्तिकं ॥ इति कुमारसम्भवे ॥)

अतिसारः, पुं, (अतिशयेन मलं द्रवीकृत्य सरति

निःसारयति अति + सृ + व्याधिमत्स्यबलेष्विति
वक्तव्यमिति वार्त्तिकसूत्रेण कर्त्तरि घञ् वृद्धिः
दीर्घश्च ।) बहुद्रवमलनिःसरणरोगः । तत्पर्य्यायः ।
अन्नगन्धिः २ उदरामयः ३ । इति त्रिकाण्डशेषः ॥
अतीसारः ४ । इति वैद्यकं ॥ * ॥ तस्य निदानं ।
“गुर्व्वतिस्निग्धरूक्षोष्णद्रवस्थूलातिशीतलैः ।
विरुद्धाध्यशनाजीर्णैर्विषमैश्चापि भोजनैः ॥
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषैर्भयैः ।
शोकाद्दुष्टाम्बुमद्यातिपानैः सात्म्यर्त्तुपर्य्ययैः ॥
जलाभिरमणैर्व्वेगविघातैः क्रिमिदोषतः ।
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते” ॥
संप्राप्तिर्यथा, --
“संशम्यापां धातुरग्निं प्रवृद्धः
शकृन्मिश्रो वायुनाधः प्रणुन्नः ।
सरत्यतीवातिसारं तमाहु-
र्व्याधिं घोरं षड्विधं तं वदन्ति ॥
एकैकशः सर्व्वशश्चापि दोषैः
शोकेनान्यः षष्ठ आमेन चोक्तः” ॥ * ॥
पूर्ब्बरूपं यथा, --
“हृन्नाभिपायूदरकुक्षितोद-
गात्रावसादानिलसन्निरोधाः ।
विट्सङ्ग आध्मानमथाविपाको
भविष्यतस्तस्य पुरःसराणि ॥”
इति माधवकरः ॥ अथ सामान्यातिसारस्य
चिकित्सामाह ।
“आमपक्वक्रमं हित्वा नातिसारक्रिया यतः ।
अतोऽतिसारे सर्व्वस्मिन्नामं पक्वञ्च लक्षयेत् ॥
क्रमशश्चिकित्सा । तत्रामपक्वयोर्लक्षणं ।
“संसृष्टमानैर्दोषैस्तु न्यस्तमप्सु निमज्जति ।
पुरीषं भृशदुर्गन्धि पिच्छिलं चामसंज्ञितं ॥
एतान्येव तु लिङ्गानि विपरीतानि यस्य वै ।
लाघवञ्च विशेषेण तत्तु पक्वं विनिर्द्दिशेत् ॥
न च संग्राहणं दद्यात् पूर्ब्बमामातिसारिणे ।
अकाले संगृहीतो हि विकारान्कुरुते बहूग् ॥
दण्डकालसकाध्मानग्रहण्यर्शोभगन्दरान् ॥
शोथं पाण्ड्वामयं प्लीहगुल्ममेहोदरज्वरान् ॥
डिम्भस्थः स्थविरस्थश्च वातपित्तात्मकश्च यः ।
क्षीणधातुबलस्यापि बहुदोषोऽतिविश्रुतः ॥
आमोऽपि स्तम्भनोयः स्यात् पाचनान्मरणं भवेत् ।
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजंबलिनः ।
समुदीर्णदोषनिचयं तत् पाचयते तथा शमयेत् ॥
लङ्घनएव दोषदुःसहपिपासायां दोषपाकार्थं
षडङ्गविधिनार्द्धशृतं योगचतुष्टयमाह, --
“धान्योदीच्यश्टतं तोयं तृष्णादाहातिसारिणे ।
ह्रीवेरश्टङ्गवेराभ्यां मुस्तपर्पटकेन वा ॥
मुस्तोदीच्यशृतं शीतं प्रदातव्यं पिपासवे ।
हितं लङ्घनमेवादौ पूर्ब्बरूपेऽतिसारिणः ॥
कार्य्यं वानशनस्यान्ते प्रद्रवं लघुभोजनं ।
पथ्यादारुवचामुस्तैर्नागरातिविषान्वितैः ॥
आमातीसारनाशाय क्वाथमेभिः पिबेन्नरः ।
पथ्यादिक्वाथः ॥ * ॥
“पाठाहिङ्ग्वजमोदोग्रापञ्चकोलाब्दजं रजः ।
उष्णाम्बुपीतं सरुजं जयत्यामं ससैन्धवं ॥”
पाठादिचूर्णं ॥ * ॥
“हरीतकीं सातिविषां हिङ्ग सौवर्च्चलां वचां ।
सैन्धवञ्चापि संपिष्य पाययेदुष्णवारिणा ॥
आमातिसारं योगोऽयं पाचयित्वा चिकित्सति ।
आमातिसारो योगेन यद्येतेन न शाम्यति ।
न तं योगशतेनापि चिकित्सति चिकित्सकः ॥”
चिकित्सति अपनयति । हरीतक्यादिकल्कः ॥ * ॥
“वत्सकातिविषा विल्वमुस्तबालकजं श्टतं ।
अतीसारं जयेत् सामं चिरजं रक्तशूलजित् ॥”
वत्सकादिक्वाथः ॥ * ॥
“एरण्डरससंपिष्टं पक्वमामञ्च नागरं ।
आमातिसारशूलघ्नं दीपनं पाचनं परं ॥”
नागरस्य पुटपाकः कल्कश्च ॥ * ॥
“धान्यबालकविल्वाब्दनागरैः पाचितं जलं ।
आंमशूलविबन्धघ्नं पाचनं नित्यसेवितं ॥”
धान्यपञ्चकं ॥ * ॥
“पित्ते धान्यचतुष्कन्तु शुण्ठीत्यागाद्वदन्ति हि ।
रक्तेऽपि पित्तसाधर्म्याद्धितं धान्यचतुष्टयं ॥”
धान्यचतुष्कं ॥ इति आमातिसारस्य चिकित्सा ॥ * ॥
“सलोध्रं धातकीविल्वं मुस्ताम्रास्थिकलिङ्गकं ।
पिबेन्माहिषतक्रेण पक्वातीसारनाशनं ॥”
लोध्रादिचूर्णं ॥ * ॥
“अम्बष्ठा धातकी लोध्रं समङ्गा पठ्मकेशरं ।
मधुकारलुविल्वच्च पक्वातीसारहा गणः ॥”
अरलुः श्यीणाकः । पाठादिर्गणः ॥ * ॥
“समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रएव च ।
शाल्मलीवेष्टको लोध्रो दाडिमद्रुफलत्वचौ ॥
आम्रास्थिमध्यं लोध्रञ्च विल्वमध्यं प्रियङ्गु च ।
मधूकं श्टङ्गवेरञ्च दीर्घवृन्तत्वगेव च ॥
चत्वार एते योगाः स्युः पक्वातिसारनाशनाः ।
ते योगा उपयोग्याः स्युः सक्षौद्रास्तण्डुलाम्बुना ॥”
समङ्गात्र लज्जालुः । शाल्मलीवेष्टको मोचरसः ।
दाडिमस्य द्रुमफलयोस्त्वचौ । प्रियङ्गोर्नपुंसंकत्वमत्र
फले वर्त्तमानत्वा त् शृङ्गवेरमत्र शुण्ठी । दीर्घवृन्तः
श्योणाकः तस्य त्वक् । समङ्गादीनि चत्वारि चूर्णानि ॥
“कञ्चटजम्बूदाडिमश्टङ्गाटकपत्रविल्ववर्हिष्ठं । जल-
धरनागरसहितं गङामपि वेगवाहिनीं रुन्ध्यात्” ॥
कञ्चटं चवराई शाकस्य भेदः । कञ्चटादिभि-
श्चतुर्भिः पत्रशब्दः सम्बध्यते । वर्हिष्ठं बालकं
गङ्गाधरक्वाथः ॥ * ॥
“मोचरसमुस्तनागरपाठारलुधातकीकुसुमैः ।
चूर्णं मथितसमेतं रुणद्धि गङ्गाप्रवाहमपि” ॥
अरलुः श्योणाकः । मथितं निर्ज्जलं दधि वस्त्रपूतं ।
गङ्गाधरचूर्णं ॥ * ॥
“मुस्तावत्सकवीजं मोचरसो विल्वधातकीलोध्रं ।
गुडमथितसंप्रयुक्तं गङ्गामपि वेगवाहिनीं रुन्ध्यात्” ॥
द्वितीयं गङ्गाधरचूर्णं ॥ * ॥
“मुस्तारलुकशुण्ठीमिर्धातकीलोध्रबालकैः ।
विल्वमोचरसाभ्याञ्च पाठेन्द्रयववत्सकैः ॥
आम्रवीजसमङ्गातिविषायुक्तैर्बिचूर्ण्णितैः ।
मधुतण्डुलपानीयपीतैर्नश्येत् प्रवाहिकां ॥
सर्व्वेऽतिसारा ग्रहणी प्रशमं याति वेगतः ।
वृद्धगङ्गाधरं चूर्णं रुन्ध्याद्गीर्ब्बाणवाहिनीं ॥”
समङ्गा लज्जालुः । वृद्धगङ्गाधरचूर्ण्णं ॥ * ॥
अङ्कोटमूलकल्कः तण्डुलपयसा समाक्षिकः पीतः ।
सेतुरिव वारिवेगं झटिति रुन्ध्यादतोसारं” ॥
अङ्कोठकल्कः ॥ * ॥
“कुटजत्वग्बलामाद्रो द्रोणनीरे पचेत् भिषक् ।
पादशेषं श्टतं नीत्वा वस्त्रपूतं पुनः पचेत् ॥
लज्जालुर्धातकी विल्वं पाठा मोचरसस्तथा ।
मुस्तं प्रतिविषा चैव चूर्णान्येषां पलं पलं ॥
निक्षिप्य विपचेत्तावत् यावत् दर्व्वी प्रलिप्यते ।
जलेन छागदुग्धेन पीतो मण्डे न वा जयेत् ॥
घोरान् सर्व्वानतीसारान् नानावर्णान् सवेदनान् ।
असृग्दरं समस्तञ्च तथार्शांसि प्रवाहिकां ॥”
कुटजावलेहः ॥ * ॥
“कृत्वालबालं सुदृढं पिष्टैरामलकैर्मिषक् ।
आर्द्रकस्य रसेनाशु पूरयेन्नामिमण्डलं ॥
नदीवेगोपमं घोरं प्रवृद्धं दुर्द्धरं नृणां ।
सद्योऽतिसारमजयं नाशयत्येष योगराट् ॥
पाठा पिष्टा च गोदध्ना तथा मध्यत्वगाम्रजा ।
अतीसारं व्यथादाहयुक्तं हन्त्युदरे धृता ॥ * ॥
अथ वातातिसारस्य लक्षणं ।
“अरुणं फेनिलं रूक्षमल्पमल्पं मुहुर्मुहुः ।
शकृदामं सरुक्छब्दं मारुतेनातिसार्य्यते” ॥
अरुणमीषद्रक्तं । शकृत् पुरीषं । सरुक्छब्द
शब्दो गुदे । तत्साहचर्य्यात् रुगपि गुद एव
बोद्धव्या ॥ * ॥ तस्य चिकित्सा ।
“वचा चातिविषा मुस्तं वीजानि कुटजस्य च ।
श्रेष्ठः कषाय एतेषां वातातिसारशान्तये” ॥ * ॥
अथ पित्तातीसारस्य लक्षणं ।
“पित्तात् पीतं शकृद्रक्तं दुर्गन्धि हरितं द्रुतं ।
गुदपाकतृषामूर्च्छादाहयुक्तं प्रवर्त्तते” ॥ * ॥
तस्य चिकित्सा ।
“विल्वशक्रयवाम्भोदबालकातिविषाकृतः ।
कषायोहन्त्यतीसारं सामं पित्तसमुद्भवं” ।
विल्वादिकषायः ॥ * ॥
“रसाञ्जनं सातिविषं कुटजस्य पलं त्वचं ।
धातकीशृङ्गवेरञ्च पाययेत्तण्डुलाम्बुना ॥
निहन्ति मधुना पीतं पित्तातीसारमुल्वणं ।
अग्निं सन्दीपयत्येतत् शूलमाशु निवारयेत् ॥
रसाञ्जनादिचूर्णं ॥ * ॥ अथ पित्तातिसारभेदस्य
पृष्ठ १/०२९
:रक्तातीसारस्य संप्राप्तिमाह, --
“पित्तकृन्ति यदात्यर्थं द्रव्याण्यश्नाति पैत्तिके ।
तद्द्वोषाज्जायते शीघ्रं रक्तातीसार उल्वणः ॥ * ॥”
तस्य चिकित्सा ।
वत्सकतरुत्वगार्द्रा दाडिमफलसम्भवा त्वक् च ।
त्वगयुगलं पलमानं विपचेदष्टांशसम्मिते तोये ॥
अष्टमभागं शेषं क्वाथं मधुनापिबेत् पुरुषः ।
रक्तातिसारमुल्वणमतिशयितं नाशयेन्नियतं ॥
कुटजदाडिमक्वाथः ॥ * ॥
“कुटजातिविषा मुस्तं बालकं लोध्रचन्दनं ।
धातकी दाडिमं पाठा क्वाथमेषां समाक्षिकं ॥
पिबेद्रक्तातिसारे तु दाहशूलामसंयुते ।
कुटजादिकषायोऽयं सर्व्वातीसारनाशनः ॥”
चन्दनमत्र रक्तचन्दनं कुटजादिक्वाथः ॥ * ॥
“गुडेन भक्षयेद्विल्वं रक्तातीसारनाशनं ।
आमशूलविबन्धघ्नं कुक्षिरोगहरं परं ॥”
विल्वं सुस्विन्नं बालविल्वगर्भं शीतं तत्स्वेदनोदकं
चानुपेयं । गुडविल्वं ॥ * ॥
“जम्व्वाम्रामलकीनान्तुकुट्टयेत् पल्लवान् नवान् ।
संगृह्य स्वरसं तेषां अजाक्षीरेण योजयेत् ॥”
तत्पिबेन्मधुना युक्तं रक्तातीसारनाशनं ।
जम्व्वादिस्वरसः ॥ * ॥
“निष्क्वाथ्य मूलममलं गिरिमल्लिकायाः
सम्यक् पलद्वितयमम्बुचतुःशरावे ।
तत्पादशेषसलिलं खलु शोषणीयं
क्षीरे पलद्वयमिते कुशलैरजायाः ॥
प्रक्षिप्य माषकानष्टौ मधुनस्तत्र शीतले ॥
रक्तातिसारी तत्पीत्वा नैरुज्यं क्षिप्रमाप्नुयात्” ॥
कुटजक्षीरं ॥ * ॥
“पीत्वा शतावरीकल्कं पयसा क्षीरभुग् जयेत् ।
रक्तातिसारं पीत्वा वा तया सिद्धं घृतं नरः ॥”
शतावरीक्लल्कस्तद्घृतञ्च ॥ * ॥
“गोदुग्धनवीनतन्तु मधुना सितया सह ॥
लीढं रक्तातिसारे तु ग्राहकं परमं मतं” ॥
नबनीतावलेहः ॥ * ॥
“पीतं मधुसितायुक्तं चन्दनं तण्डुलाम्बुना ।
रक्तातिसारजिद्रक्तपित्ततृड्दाहमेहनुत्” ॥
चन्दनमत्र श्वेतं । चन्दनकल्कः ॥ * ॥
“विरेकैर्बहुभिर्यस्य गुदं पित्तेन दह्यते ।
पच्यते वा तयोः कार्य्यं सेकप्रक्षालनादिकं” ॥
आदिशब्देन लेपादिग्रहः ।
“पटोलयष्टीमधुकक्काथेन शिशिरेण हि ।
गुदप्रक्षालनं कार्य्यं तेनैव गुदसेचनं ॥
दाहे पाके हितं छागीदुग्धं सक्षौद्रशर्करं ।
गुदस्य क्षालने सेके युक्तं पाने च भोजने ॥
गुदस्य दाहपाकयोः ।
“गुदनिःसरणे प्रोक्तं चाङ्गेरीघृतमुत्तमं ।
अतिप्रवृत्त्या महती भवेद्यदि गुदव्यथा ।
स्विन्नमूषकमांसेन तदा संस्वेदयेद्गुदं ॥
अथ गोधूमचूर्णस्य संनीतस्य तु वारिणा ।
साब्ज्यस्य गोलकं कृत्वा मृदु संस्वेदयेद्गुदं ॥
(गुदव्यथायां) गुदभ्रंशे गुदंस्नेहैरभ्यज्यान्तःप्रवेशयेत् ।
प्रविष्टं स्वेदयेन्मन्दं मूषकस्यामिषेण हि ॥”
मूषकस्यामिषेण काञ्जिकेनोत्स्विन्नेन एरण्ड-
पत्रादिस्थापितेन स्वेदयेत् ।
“मूषकस्याथ वसया पायुं सम्यक् प्रलेपयेत् ।
गुदभ्रंशामिधो व्याधिः प्रणश्यति न संशयः ॥
चाङ्गेरीकोलदध्यम्लक्षारनागरसंयुतं ।
घृतं विपक्वं पातव्यं गुदभ्रंशगदापहं ॥
चाङ्गेरी चतुष्पत्रा अम्ललोनिका तस्याः स्वरसः
कोलस्य क्वाथः दध्यम्लं दधिरूपमम्लं एतत्रयं
मिलितं घृताच्चतुर्गुणं । क्षारनागरयोः कल्कः ।
चाङ्गेरीघृतं ॥ * ॥
“कोमलं पद्मिनीपत्रं यः खादेच्छर्करान्वितं ।
एतन्निश्चित्य निर्द्दिष्टं न तस्य गुदनिर्गमः ॥
पद्मिनीपत्रं पुरैनिपत्रं तत्संशोष्य संचूर्ण्य शर्करा
युक्तं खादेत् । अयन्तु गुदभ्रंशोऽतीसारं विनापि
भवति । ततः क्षुद्ररोगेषु लिखितः । अत्र तु
गुदस्य दाहपाकव्यथाप्रसङ्गात् भ्रंशोऽपि लिखितः ।
चिकित्सा तूभयत्र तुल्यैव ॥ * ॥ अथ श्लेष्माति-
सारस्य लक्षणं ॥
“श्वेतं स्निग्धं घनं विस्रं शीतलं मन्दवेदनं ।
गौरवारुचिसंयुक्तं श्लेष्मणा सार्य्यते शकृत् ॥
विस्रं स्यादामगन्धि यत् ॥ * ॥ अथ तस्य चिकित्सा ।
“श्लेष्मातिसारे प्रथमं हितं लङ्घनपाचनं ।
योज्यश्चामातिसारघ्नो यथोक्तो दीपनो गणः ॥
चव्यञ्चातिविषा कुष्ठं बालविल्वं सनागरं ।
वत्सकत्वक्फले पथ्या छर्द्दिश्लेष्मातिसारनुत्” ॥
चव्यादिक्वाथः ॥ * ॥
“हिङ्गु सौवर्च्चलं व्योषमभयातिविषा वचा ।
पीतमुष्णाम्बुना चूर्णमेषां श्लेष्मातिसारनुत् ॥”
हिङ्ग्वादिचूर्णं ॥ * ॥
“कृमिशक्रवचाविल्वपेशीधान्याककट्फलं ।
एषां क्वाथं भिषग्दद्यात् अतीसारे बलासजे” ॥
विडङ्गादिक्वाथः ॥ * ॥ अथ द्विदोषजातिसाराणां
लक्षणानि चिकित्सा च ।
“द्विदोषलक्षणैर्विद्यादतीसारं द्विदोषजं ।
तेषां चिकित्सा प्रोक्तैव विशिष्टा च निगद्यते ॥
कट्फलं मधुकं लोध्रत्वक् दाडिमफलस्य च ।
सतण्डुलजलं चूर्णं वातपित्तातिसारनुत्” ॥
वातपित्तातिसारे ॥ * ॥
“चित्रकातिविषा मुस्तं बालविल्वं सनागरं ।
वत्सकत्वक्फलं पथ्या वातश्लेष्मातिसारनुत्” ॥
वातश्लेष्मातिसारे ॥ * ॥
“मुस्ता सातिविषामूर्ब्बा वचाचकुटजः समाः ।
एषां कषायः सक्षौद्रः पित्तश्लेष्मातिसारनुत्” ॥
पित्तश्लेष्मातिसारे ॥ अथ सन्निपातातिसारस्य लक्षणं ।
“तन्द्रायक्तो मोहसादास्यशोषी
वर्च कुर्य्यान्नैकरूपं तृषार्त्तः ।
सर्व्वोद्भूते सर्व्वलिङ्गोपपत्तिः
कृच्छ्रोऽसाध्यो बालवृद्धाबलानां” ॥
अथ तस्य चिकित्सा ॥ * ॥
“पञ्चमूलीबलाविल्वगुडूचीमुस्तनागरैः ।
पाटाभूनिम्बवर्हिष्ठकुटजत्वक्फलैः शृतं ॥
सर्व्वजं हन्त्यतीसारं ज्वरञ्चापि तथा वमिं ।
सशूलोपद्रवं श्वासं कासं वापि सुदुस्तरं ॥
पञ्चमूल्यत्र सामान्या पित्ते योज्या कनीयसी ।
वाते पुनर्ब्बलासे च सा योज्या महती मता” ॥
वर्हिष्ठं बालकं । पञ्चमूल्यादिक्वाथः ॥ * ॥
“अभया नागरं मुस्तं गुडेन सह योजितं ।
चतुःसमेयं गुटिका स्यात्त्रिदोषातिसारनुत् ॥
आमातिसारमानाहं सविबन्धं विसूचिकां ।
कृमीनरोचकं हन्याद्दीपयत्याशु चानलं” ॥
चतुःसमो मोदकः ॥ * ॥
“तत्कालाकृष्टकुटजत्वचं तण्डुलवारिणा ।
पिष्टां चतुःपलमितां जम्बुपल्लववेष्टितां ॥
सूत्रेण बद्ध्वा गोधूमपिष्टेन परिवेष्टितां ।
लिप्ताञ्च घनपङ्केन निर्द्दहेद्गोमयाग्निना ॥
अङ्गारवर्णाञ्च मृदं दृष्ट्वा वह्नेः समुद्धरेत् ।
ततो रसं समादाय शीतं क्षौद्रयुतं पिबेत् ॥
उक्तः कृष्णात्रिपुत्रेण पुटंपाकस्तु कौटजः ।
जयेत् सर्व्वानतीसारांन् दुस्तरान् सुचिरोत्थितान्
कुटजपुटपाकः ॥ * ॥
“कुटजत्वक्कृतः क्वाथो वस्त्रपूतो घनीकृतः ।
स लीढोऽतिविषायुक्तः स्यात्त्रिदोषातिसारनुत् ॥
इच्छन्त्यत्राष्टमांशेन क्वाथादतिविषारजः ।
प्रक्षिपेद्वा चतुर्थांशमिति केचिद्वदन्ति हि” ॥
कुठजावलेहः ॥ * ॥
“पलमङ्कोटमूलस्य पाठां दार्व्वीञ्च तत्समां ।
पिष्ट्वा तण्डुलतोयेन वटकानक्षसम्मितान् ॥
छायाशुष्कांश्च तान् कुर्य्यात्तेष्वेकं तण्डुलाम्बुना ।
पेषयित्वा प्रदद्यात्तं पानाय गदिने भिषक् ॥
वातपित्तकफोद्भुतान् द्वन्द्वजान् सान्निपातिकान् ।
हन्यात् सर्व्वानतीसारान् वटकोऽयं प्रयोजितः” ॥
अङ्कोठवटकः ॥ * ॥ अथागन्तुजस्य शोकाति-
सारस्य संप्राप्तिपूर्ब्बकं लक्षणमाह ।
तैस्तैर्भावैः शोचतोऽल्पाशनस्य
वाष्पोष्मा वै वह्निमाविश्य जन्तोः ।
कोष्ठं गत्वा क्षोभयेत् तस्य रक्तं
तच्चाधस्तात् काकणन्तीप्रकाशं ॥
निर्गच्छेद्वै विड्विमिश्रं ह्याविड्वा
निर्गन्धं वा गन्धवद्वातिसारः ।
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं
रोगो वैद्यैः कष्ट एष प्रदिष्टः ॥
अयमर्थः । तैस्तैर्भावैर्बन्धुवित्तक्षयादिभिः शोचतः शोकं
कुर्व्वतः । जन्तोः प्राणिनः । वाष्पोष्मा वाष्पः शोकज-
देहोष्मणा जनितं नेत्रनासागलादिषु जलं तेन स-
हितः उष्मा शोकजं देहतेजः । स कोष्ठं गत्वा वह्नि-
माविश्य जठराग्निं मन्दीकृत्य । वाष्पसाहित्यादुष्म-
णापिवह्नेर्मन्दीभाव इति नदोषः । वह्नेर्मन्दीभावादेव
अल्पाशनस्येति जन्तोर्विशेषणं । ततस्तस्य जन्तोः
रक्तं क्षोभयेत् स्वस्थानाच्चालयेत् । इति संप्राप्तिः ॥
अथ लक्षणं । तच्च रक्तं अधस्तात् गुदात् काक-
णन्तीप्रकाशं गुञ्जाफलसदृशं विड्विमिश्रं गन्ध-
वच्च । अविट् निर्गन्धं वा निर्गच्छेत् । शोकोत्प-
न्नोऽतिसारः अतिमात्रं दुश्चिकित्स्यः । शोकाप-
पृष्ठ १/०३०
:नोदनं विना केवलेन भेषजेन प्रतिकर्त्तुमशक्य-
त्वात् । एषोऽतिसारः वैद्यैः कष्टः कष्टेन साध्यः ।
प्रदिष्टः कथित इत्यर्थः ॥ * ॥ अथागन्तुजत्वेन
साम्यात् भयातिसारस्यापि संप्राप्तिपूर्ब्बकं लक्षण-
मत्रैवाह ।
“भयेन क्षोभिता दोषा दूषयन्ति मलं यदा ।
तदातिसार्य्यते तन्तु क्षिप्रमुष्णजलप्लवं ॥
वातपित्तातिसारस्य प्रायो लिङ्गैः समन्वितं ।
न भयोपशमाच्छर्म्म यस्मिन् स्यात् स भयात्स्मृतः ॥
प्लवत इति प्लवं जले प्लवमानं । ननु भयाति-
सारस्य कथमागन्तुजत्वमयमपि दोषज एव ।
यत आह । भयेन क्षोभिता दूषिता दोषा मलं
दूषयन्ति । तन्मलमतिसरति । अत्र पूर्ब्बमेव
दोषसम्बन्घः । उच्यते ।
“रागद्वेषभयात् ये च ते स्युरागन्तवो गदाः” ।
इति वचनाद्भयातीसार आगन्तुज एव । श्लोकस्य
त्वयमर्थः । भयेनैव हेतुभूतेन दोषा वातपित्त-
कफा अतीसारणाय क्षोभिताः सञ्चालिताः न
दूषिता भयेन त्रयाणामपि दोषाणां दूषणासम्भ-
वात् । अतिसर्त्तुं चलिता वातपित्तकफा मलं
दूषयन्ति तत् सर्व्वं वातपित्तकफमलं भयेनैवाति-
सार्य्यते । पश्चाद्वातसम्बन्धो भयाद्वायुरिति वच-
नात् । अतएव भयातिसारे वातहर्य्येव क्रिया
कथितेति समाधिः ॥ * ॥ अथ तयोश्चिकित्सा ।
“भयशोकसमुद्भूतौ ज्ञेयौ वातातिसारवत् ।
तयोर्व्वातहरी कार्य्या हर्षणाश्वासनैः क्रिया” ॥
वातातिसारवत् वातातिसारलक्षणैः । तयो-
श्चिकित्सा च हर्षणाश्वासनपूर्ब्बिका वातहरी
कार्य्या ॥ * ॥ अथामातीसारस्य संप्राप्तिपूर्ब्बकं
लक्षणमाह ।
“अन्नाजीर्ण्णात् प्रद्रुताः क्षोभयन्तो-
दोषाः कोष्ठे धातुसंघान् मलांश्च ।
नानावर्णं नैकशः सारयन्ति
शूलोपेतं षष्ठमेनं वदन्ति ॥
अन्नं भुक्तं तदजीणं चेति कर्म्मधारये अन्नाजीर्णं
तस्मात् प्रद्रुता उपद्रुताः । क्षोभयन्तः चाल-
यन्तः । नैकश इत्यत्र नाकादित्वान्नाक्षरविप-
र्य्ययः । नन्वामेन दोषा दूष्यन्ते गुर्व्वादिभक्ष-
णादिभिरिव ते चातीसारमुत्पादयन्ति । नत्वाम-
मेवातीसारमुत्पादयति । तेनामातीसारोऽपि
दोषज एव किमर्थमयं पृथगुच्यते । उच्यते । आ-
मातीसारस्य चिकित्साविशेषार्थं सम्प्राप्तिपूर्ब्बको
लक्षणविशेषः पृथगुक्तः । कः स चिकित्साविशेष-
स्तमाह । अतिसारेषु सर्व्वेष्वेव संग्राहकमौषध-
मुक्तमामातीसारे तु ग्राहकं बिरुद्धं । यत उक्तं ।
“नामे संग्राहकं विद्यादतीसारे कदाचन ।
संगृहीतो बलादामो विकारान् कुरुते बहून्” ॥
इति । बलाद्भेषजबलात् । विकारान् ग्रहण्या-
ध्मानशूलगुल्मशोथोदरज्वरादीन् ॥ * ॥ तस्य
चिकित्सा ।
“वत्सकातिविषा शुण्ठी विल्वहिङ्गुयवाम्बुदाः ।
चित्रकेण युता एषां क्वाथ आमातिसारनुत्” ॥
आमातिसारस्य चिकित्सा पूर्ब्बमुक्तैव ॥ * ॥
“शोथघ्नीन्द्रयवाः पाठा विडङ्गातिविषा घनाः ।
क्वथिताः सोषणाः पीताः शोथातिसारनाशनाः” ॥
शोथघ्नी पुनर्नवा । उषणं मरिचं । सशोथातो-
सारे ॥ * ॥
“आम्रास्थिमध्यमालूरफलक्वाथः समाक्षिकः ।
शर्करासहितो हन्यात् छर्द्यतीसारमुल्वणं ॥”
मालूरफलं विल्वफलं ।
“कषायो भृष्टमुद्गस्य सलाजमधुशर्करः ।
निहन्याच्छर्द्यतीसारं तृष्णादाहं ज्वरं भ्रमं” ॥
छर्द्यतीसारे ॥ * ॥
“दध्ना ससारेण समाक्षिकेण
भुञ्जीत निःसारकपीडितस्तु ।
सुतप्तकुप्यक्वथितेन चापि
क्षीरेण शीतेन मधुप्लुतेन” ॥
निःसारकः निढाही इति लोके । सुतप्तकुप्य-
क्वथितेन । सुतप्तसुवर्णरजतेतरलोहनिर्व्वापण-
क्वथितेन । भुञ्जीत पथ्यमिति शेषः ॥ निःसा-
रके ॥ * ॥
“दीप्ताग्निर्न्निष्पुरीषो यः सार्य्यते फेनिलं शकृत् ।
स पिबेत् फाणितं शुण्ठीं दघि तैलं पयो घृतं ॥
बला विश्वाश्टतं क्षीरं गुडतैलानुयोजितं ।
दीप्ताग्निं पाययेत् प्रातः सुखदं वर्च्चसक्षये” ॥
पुरीषक्षये ॥ * ॥
“तुलां संकुट्य विल्वस्य पचेत् पादावशेषितं ।
सक्षीरं साधयेत्तैलं श्लक्ष्णपिष्टैरिमैः समैः ॥
विल्वं सधातकीकुष्ठं शुण्ठी रास्ना पुनर्नवा ।
देवदारु वचा मुस्तं लोध्रमोचरसान्वितं ॥
एभिर्मृद्वग्निना पक्वं ग्रहण्यर्शोऽतिसारनुत् ।
विल्वतैलमिति ख्यातमत्रिपुत्त्रेण भाषितं ॥
ग्रहण्यर्शोऽधिकारे ये स्नेहाः समुपदर्शिताः ।
प्रयोज्यास्तेऽतिसारेऽपि त्रयाणां तुल्यहेतुता” ॥
त्रयाणां ग्रहण्यर्शोऽतिसाराणां । विल्वतैलं ॥ * ॥
अथातिसारभेदस्य प्रवाहिकाव्याधेः संप्राप्ति-
पूर्ब्बकलक्षणमाह ।
“वायुः प्रवृद्धो निचितं बलासं
नुदत्यधस्तादहिताशनस्य ।
प्रवाहतोऽल्पं बहुशो मलाक्तं
प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः” ॥
अस्यायमर्थः । अहिताशनस्य अतिशयेन वातल-
भक्ष्यभोजिनः । प्रवृद्धो वायुः प्रवाहतः कण्ठ-
हृद्गलेन सशब्दं वायुमपानमार्गेण त्यजतः ।
निचितं सञ्चितं । बलासं कफं । मलाक्तं पुरी-
षयुक्तं अल्पं । बहुशः वारंवारं । अधस्तात्
गुदमार्गेण । नुदति प्रेरयति । तज्ज्ञाः पुरा-
णा वैद्याः । तां प्रवाहिकां । प्रवदन्ति कथ-
यन्ति ॥ * ॥
तस्या वातजादिभेदेन रूपमाह ।
“प्रवाहिका वातकृता सशूला
पित्तात् सदाहा सकफा कफाच्च ।
सशोणिता शोणितसम्भवाच्च
ताः स्नेहरूक्षप्रभवा मतास्तु” ॥
तत्र रूक्षप्रभवा वातजा । स्नेहप्रभवा कफजा । तु
शब्दात्तीक्ष्णोष्णप्रभवा पित्तजा रक्तजा च । तासा-
मतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वताञ्च ।
क्रमं चिकित्सां ॥ * ॥ तस्याश्चिकित्सामाह ।
“विल्वपेशी गुडं लोध्रं तैलं मरिचसंयुतं ।
लीढ्वा प्रवाहिकाक्रान्तः सत्वरं सुखमाप्नुयात्” ॥
वित्त्वादिरवलेहः ॥ * ॥
“धातकीवदरीपत्रकपित्थरसमाक्षिकं ।
सलोध्रमेकतो दध्ना पिबेन्निर्व्वाहिकार्द्दितः” ॥
एकतः प्रत्येकं दध्ना पिबेदित्यर्थः । निर्व्वाहिका
प्रवाहिका । धातक्यादिः ॥ * ॥ अथ असाध्या-
तिसारिणोलक्षणमाह ।
“पक्वजाम्बवसंकाशं यकृत्खण्डनिभं तनुं ।
घृततैलवसामज्जवेसवारपयोदधि ।
मांसधावनतोयाभं कृष्णं नीलारुणप्रभं ॥
कुणपं सकृदालोक्य नातिसारमुपक्रमेत् ।
तृष्णादाहारुचिश्वासहिक्वापार्श्वास्थिशूलिनं” ॥
संमूर्च्छारतिसंमोहयुक्तं पक्ववलीगुदं ।
प्रलापयुक्तञ्च भिषक् वर्ज्जयेदतिसारिणं ॥ संमूर्च्छा
सकलेन्द्रियमनसां स्वस्वविषयग्रहणाशक्तिहेतुर-
वस्थाविशेषः । संमोहः विकृतमतित्वं ।
“असंवृतगुदं क्षीणं शूलाध्मानैरुपद्रुतं ।
गुदे पक्वे गतोष्माणमतीसारिणमुत्सृजेत् ॥
असंवृतगुदं गुदसंवरणाक्षमं ।
गुदे पक्वे गतोष्माणं गुदपाकारम्भके पित्ते
विद्यमानेऽपि शीतगात्रं नष्टाग्निं वा ।
“श्वासशूलपिपासार्त्तं क्षीणं ज्वरनिपीडितं ।
विशेषेण नरं वृद्धमतीसारो विनाशयेत् ॥
शोथं शूलं ज्वरं तृष्णां श्वासं कासमरोचकं ।
छर्द्दिमुर्च्छाञ्च हिक्वाञ्च दृष्ट्वातिसारिणं त्यजेत् ॥
हस्तपादाङ्गुलीसन्धिप्रपाको मूत्रनिग्रहः ।
पुरीषस्योष्णतातीव मरणायातिसारिणां ॥
अतीसारी राजरोगी ग्रहणीरोगवानपि ।
मांसाग्निबलहीनो यो दुर्लभं तस्य जीवनं ॥
बाले वृद्धे त्वसाध्योऽयं लिङ्गैरेतैरुपद्रुतः ।
अपि यूनामसाध्यः स्यादतिदुष्टेषु धातुषु” ॥
एतैर्लिङ्गैः पर्व्वोक्तैः पक्वजाम्बवसंकाशत्वादिभिः ॥ * ॥
अथातिसारयुक्तस्य लक्षणं ।
“यस्योच्चारं विना मूत्रं सम्यग्वायश्च गच्छति ।
दीप्ताग्नेर्लघु कोष्ठस्य स्थितस्तस्योदरामयः” ॥
उच्चारं पुरीषं विना स्थितः निवृत्त उदरामयो-
ऽत्रातिसारः ॥ * ॥ अथातीसारिणो वर्ज्जनीया-
न्याह ।
“स्नानावगाहनाभ्यङ्गगुरुस्निग्धादिभोजनं ।
व्यायाममग्निसन्तापमतीसारी विवर्ज्जयेत्” ॥
स्नानमुद्धृतजलेन । अवगाहनं नद्यादौ । इत्यती-
साराधिकारः । इति भावप्रकाशः ॥

अतिसारकी, [न्] त्रि, (अतिसार + स्वार्थे कन्

ततो मत्वर्थे इन्) सातिसारः । अतिसाररोग-
युक्तः । उदरामयी । इत्यमरः ॥

अतिसाम्या, स्त्री, (साम्यं समतामतिक्रान्ता अत्या-

दीति समासः अतुल्यस्थलयुक्ता इति यावत् ।)
पृष्ठ १/०३१
:लतायष्टिमधु । इति राजनिर्घण्टः ॥ अस्या गुणाः
क्लीतनकशब्दे द्रष्टव्याः ॥ (यष्टिमधु इति भाषाः ।)

अतिस्फिरः, त्रि, (स्फायी ओप्याया बृद्धौ अति +

स्फाय + स्फायितञ्चिवञ्चिशकीत्यादिसूत्रेण रक्
पृषोदरादित्वात् आयभागस्य इ अतिवृद्धः)
अतिस्फूर्त्तिशाली । तत्पर्य्यायः । स्फेष्ठः २ । इति
जटाधरः ॥

अतिहसितं, क्ली, (अतिशयेन हसितं हास्यं हस् +

भावे क्तः ।) अतिशयहास्यं । इति जटाधरः ॥
(ज्येष्ठानां स्मितहसिते मध्यानां विहसिताव-
हसिते च । नीचानामपहसितं तथातिहसितञ्च
षड्भेदाः ॥ “मधुरस्वरं विहसितं सांसशिरः-
कम्पनमवहसितं । अपहसितं सास्राक्षं वि-
क्षिप्ताङ्गं भवत्यतिहसितं” ॥ इति साहित्य-
दर्पणे ॥)

अतिहासः, पुं, (अतिशयेन हासः हास्यम् अति +

हस् + भावे घञ् ।) सशब्दहासः । तत्पर्य्यायः ।
अनुस्यूतः २ । इति हेमचन्द्रः ॥

अतीतं, त्रि, (अति + इण् + क्तः) भूतकालः । तत्र

तिस्रो घी टी ठी विभक्तयो भवन्ति । यथा
भवद्भूतभव्ये त्रिशः क्याद्याः । क्याद्याः क्तयस्तिस्र-
स्तिस्त्रः क्रमाद्वर्त्तमानातीतभविष्यत्सु कालेषु स्युः ।
इति मुग्धबोधव्याकरणं ॥ तस्य लक्षणादि यथा ।
वर्त्तमानध्वंसप्रतियोगित्वमतीतत्वं । लङ्लुङोरती-
तत्वं । लिट्क्वसोर्व्वक्तुः परोक्षत्वं अतीतत्वञ्च ।
लुङोऽतीतत्वं क्रियातिक्रमश्च । कुतश्चिद्वैगुण्यात्
क्रियानिष्पत्तिः क्रियातिक्रमः । क्तक्तवत्वोरती-
तत्वं । इति सारमञ्जरी ॥

अतीतः, त्रि, (अति इण् कर्त्तरिक्तः ।) गतः । भूतः ।

अतिक्रान्तः । यथा, --
“न नस्यं न्यूनसप्ताब्दे नातीताशीतिवत्सरे” ।
इति वैद्यकपरिभाषा ॥ सङ्गीतशास्त्रमते मान-
प्रभेदः ॥

अतीन्द्रियं, त्रि, (इन्द्रियमतिक्रान्तम् अत्यादीति

समासः ।) अप्रत्यक्षं । प्रत्यक्षाविषयं । इन्द्रिया-
गोचरं । इन्द्रियाग्राह्यं । इत्यमरः ॥
(“योऽसावतीयन्द्रयग्राह्यःसूक्ष्मोऽव्यक्तः सनातनः” ।
इति मनुः ।
“अतीन्द्रियेष्वप्युपपन्नदर्शनो
बभूव भावेषु दिलीपनन्दनः” ॥ इति रंघुवंशे ॥)

अतीव, व्य, (अत्येव इव अवधारणे प्रादिसमासः,

अवधृतातिशयेऽत्यन्तातिशये च ।) अतिशयः ।
इत्यमरः ॥
(“अहं हि कारणं श्रुत्वा वैरस्यातीवमानद” ॥
इति रामायणे ॥)

अतीसारः, पुं, अतिसाररोगः । इति वैद्यकं ॥

अतुलः, पुं, (नास्ति तुला सादृश्यं यस्य सः ।) तिल-

वृक्षः । इति शब्दचन्द्रिका । तुलनारहिते त्रि ॥
(“राक्षसेन्द्रप्रभावेण श्रिया चातुलया तथा” ॥
इति रामायणे ॥)

अतुल्यं, त्रि, (न तुल्यं सदृशं नञ्समासः ।) निस्तुल्यं ।

अनुपमं । असाम्यं । असदृशं । यथा, --
“अतुल्यमहसा साकं मम रामेण विग्रहः” ।
इति भट्टिः ॥

अतुष्टिकरं, त्रि, (तुष्टिं सन्तोषं करोति तुष्टि +

कृ + कर्त्तरि टच् उपपदसमासः स्त्रियां ङीप्
अतुष्टिकरी ।) सन्तोषाजनकं । यथा मनुः, --
“अनिर्द्दशञ्च प्रेतान्नं अतुष्टिकरमेव च” ॥
इत्याह्निकतत्वं ।

अतृप्तिः, स्त्री, (तृप् + भावे क्तिन् न तृप्तिः सन्तोषः

नञ्समासः । बहुव्रीहौ तु तृप्तिरहितः अस-
न्तोषकरः ।) तृप्त्यभावः । अपरितुष्टिः । अन्नाभि-
लाषः । यथा, --
“उष्मातृप्तितमः प्रवेशदहनं कट्वम्लतिक्ता रसा ।
वर्णः पाण्डुविवर्जितः क्वथितताकर्म्माणिपित्तस्यवै”
इति रक्षितः ॥ अतृप्ते त्रि ॥

अतेजः, [स्] क्ली, (न तेजः तेजोविरोधितमः

नञ्समासः ।) छाया इति राजनिर्घण्टः ॥ तेजो-
रहिते त्रि ॥

अत्कः, पुं, शरीरावयवः । अङ्गं । इत्युणादिकोषः ॥

अत्कः, त्रि, (अतति सततमनित्यतया विकारं

गच्छति अत् + कन् अतति सततं गच्छति अत् +
कन्) पथिकः । पान्थः । इत्युणादिकोषः ॥

अत्टङ, अतिक्रमे । बधे । इति कविकल्पद्रुमः ॥ दन्त्य-

वर्गाद्योपधः । ङ अतिट्टिषते । इति दुर्गादासः ॥

अत्ता, स्त्री, (अतति सततं स्नेहं संबध्नाति अत् +

तक् स्त्रियां टाप् ।) माता । ज्येष्ठा भगिनी । इत्य-
मरटीकायां रमानाथः ॥ अत्ता माताग्रजस्वसा ।
इति नानार्थकोषः ॥ प्राकृतभाषायां श्वश्रूः । इति
साहित्यदर्पणटीका ॥

अत्तिः, स्त्री, (अत्यते सततं कर्म्मणि सम्बध्यतेऽनया,

अत् करणे क्तिन् माता च ।) नाट्योक्तौ ज्येष्ठा
भगिनी । इति शब्दरत्नावली ।

अत्तिका, स्त्री, (अत्ति + स्वार्थे कन्) अन्तिका ।

नाट्योक्तौ ज्येष्ठा भगिनी । इति भरतः द्विरूप-
कोषश्च ।

अत्नुः, पुं, (अतति सततं गच्छति अत् + कर्त्तरि न

वायुः सततगन्ता पथिकः ।) सूर्य्यः । इत्युणादि-
कोषः ॥

अत्यः, पुं, (अतति शीघ्रं गच्छति अत् + कर्त्तरि

यत्, क्वचिदपवादविषयेऽप्युत्सर्गोऽप्यभिनिविशते
इति न्यायात् अन्यथा हलन्तात् ण्यति आत्य इति
स्यात् द्रुतगामी अश्वः ।) अश्वः । वैदिकशब्दोऽयं ॥

अत्यन्तं, क्ली, (अन्तं सीमामतिक्रान्तम् अत्यादीति

समासः ।) अतिशयः । यथा । अत्यन्तं कठिनौ
तथापि हृदयानन्दाय वक्षोरुहौ । इति नरहरि-
कविः ॥

अत्यन्तकोपनः, त्रि, (अत्यन्तं कोपनः क्रोधशीलः

द्वितीयातत्, कुप् + कर्त्तरि युच् ।) अतिशय-
क्रोधी । तत्पर्य्यायः । चण्डः २ । इत्यमरः ॥

अत्यन्तगामी, [न्] त्रि, (अत्यन्तं शीघ्रं गच्छति

अत्यन्त + गम् + णिनि उपपदसमासः ।) अति-
शयगमनशीलः । अतिशीघ्रगमनकर्त्ता । तत्प-
र्य्यायः । अत्यन्तिकः २ । इति हेमचन्द्रः ॥

अत्यन्तः सुकुमारः, पुं, (अत्यन्तः सुकुमारः कर्म्म-

धारयः ।) कङ्गुनीवृक्षः । इति राजनिर्घण्टः ॥

अत्यन्तिकः, पुं, (अत्यन्तं गच्छति अत्यन्त + ठन्

ठस्येक इति ठस्य इकः अति सातिशयमन्तिकं
कर्म्मधारयः, अतिनिकटम् ।) अतिशयभ्रमणकर्त्ता ।
अत्यन्तगामी । इति हेमचन्द्रः ॥

अत्यन्तोनः, त्रि, (अन्तस्यात्ययः अव्ययीभावसमासः ।

अत्यन्तं गामी द्वितीयातत्पुरुषः । लक्ष्मों परम्प-
रीणां त्वमत्यन्तीनत्वमुन्नये इति भट्टिः ।) भृश-
ङ्गामी । अतिशयगमनशीलः । इत्यमरः ॥

अत्यम्लं, क्ली, (अत्यन्तः अम्लोरसः फलपत्रादौ यस्य

सः ।) वृक्षाम्लं । इति राजनिर्घण्टः ॥ तेँतुल इति
भाषा ॥

अत्यम्लपर्णी, स्त्री, (अत्यम्लं पर्ण्णं पत्रं यस्याः सा

जातित्वात् ङीप् ।) लताविशेषः । तत्पर्य्यायः ।
तीक्ष्णा २ कण्डुरा ३ वल्लिशूरणः ४ करवडवल्ली ५
वयस्था ६ अरण्यवासिनी ७ । अस्य गुणाः ।
तीक्ष्णाम्लत्वं । प्लीहशूलविनाशित्वं । वातहारित्वं ।
अग्निरुचिकारित्वं । गुल्मश्लेष्मरोगापहारित्वञ्च ।
इति राजनिर्घण्टः ॥

अत्यम्ला, स्त्री, (अत्यन्तः अम्लरसो यस्याः सा

स्त्रियां टाप्) वनवीजपूरः । मधुरलेवु । मधुटावा
इति ख्याता । इति रत्नमाला ॥

अत्ययः, पुं, (अति + इण् + भावे अच् ।) मृत्युः ।

अतिक्रमः । दण्डः । दोषः । कृच्छ्रं । इत्यमरः ॥
(“जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः ।
आकाशमिव पङ्केन न स पापेन लिप्यते ॥
इति मनुः ॥)

अत्यर्थं, क्ली, (अर्थमतिक्रान्तं अत्यादीति समासः ।)

अतिशयः । तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥ ।
(“लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया” ।
इति रामायणे ॥)

अत्यल्पं, त्रि, (अत्यन्तमल्पं मनाक् ।) यत्किञ्चित् ।

अतिसूक्ष्मं । तत्पर्य्यायः । अल्पिष्ठं २ अल्पीयः ३
कणीयः ४ अणीयः ५ । इत्यमरः ॥

अत्याकारः, पुं, (अति आधिक्येन आकारः तिर-

स्कारः । आ + कृ + भावे घञ् ।) अतिशयितः ।
आकारो देहः कर्म्मधा । वृहद्देहः । अतिशयितः
आकारो यस्य सः तद्विशिष्टः ।) न्यक्कारः । तिर-
स्कारः । इति हेमचन्द्रः ॥

अत्याचारं, क्ली, (आचारमतिक्रान्तं अत्यादीति

समासः ।) विरुद्धाचरणं । आचारमतिक्रम्य इत्य-
व्ययीभावसमासनिष्पन्नं ॥

अत्याचारः, पुं, (अति अनुचित आचारः कर्म्मधा ।)

अनुचिताचारः । असङ्गताचरणं । आचारोल्ल-
ङ्घनं । अन्यायः ॥ (अति अनुचितः आचार आच-
रणं यस्य सः अन्यायाचरणकारी ।)

अत्याज्यं, त्रि, (त्यक्तुं न शक्यं अति त्यज् + शक्यार्थे-

ण्यत्, कुत्वाभावः ।) त्यागानहं । अत्यक्तव्यं । अत्य-
जनीयं । यथा, यत्तु पतितस्त्रीगमनस्य लघुत्वं
प्रायश्चित्तविवेककृद्भिरुक्तं तदत्याज्यापरं । इति
प्रायश्चित्ततत्त्वं ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/अच&oldid=312815" इत्यस्माद् प्रतिप्राप्तम्