सामग्री पर जाएँ

शबरभाष्यम् ५ अध्यायः

विकिस्रोतः तः


श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वात्//५.१.१//

चतुर्थे ऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तम्, तन् न प्रस्मर्तव्यम्. इहेदानीं क्रमनियमलक्षणम् उच्यते, तच् छ्रुत्यर्थपाठप्रवृत्तिकाण्डमुख्यैर् वक्ष्यते, श्रुत्यादीनां च बलाबलम्. आदितस् तु श्रुतिक्रमश् चिन्त्यते. किं यथाश्रुति पदार्थानां क्रम आस्थेयः, उतानियमेनेति. किं प्राप्तम्? एकत्वात् कर्तुः, अनेकत्वाच् च पदार्थानाम्, अवश्यं भाविनि क्रमे लाघवात् प्रयोगप्राशुभावाच् चानियम इत्य् एवं प्राप्ते ब्रूमः.
श्रुतिलक्षणम् आनुपूर्व्यं तत्प्रमाणत्वाद् इति. श्रुतिर् ग्रहणम्{*४/४४६*} अक्षराणाम्, तन् निमित्तं यस्य क्रमस्य, स साधुः क्रमः. श्रुतिप्रमाणका हि वैदिका अर्थाः, नैषाम् अन्यत् प्रमाणम् अस्तीत्य्{*४/४४७*} उक्तम्. किम् इहोदाहरणम्? सत्रे दीक्षाक्रमः{*४/४४८*}, य ऋत्विजस् ते यजमाना इत्य्{*४/४४९*} उक्त्वा, तेषां दीक्षाक्रमं विधत्ते, अध्व्यर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो होतारम्, ततस् तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारम् उद्गातुः, मैत्रावरुणं होतुः, ततस् तं नेष्टा{*४/४५०*} दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीध्रं ब्रह्मणः, प्रतिहर्तारम् उद्गातुः, अच्छावाकं होतुः, ततस् तम् उन्नेता दीक्षयित्वा पदिनो{*४/४५१*} दीक्षयति, पोतारं [५३८]{*४/४५२*} ब्रह्मणः, सुब्रह्मण्यम् उद्गातुः, ग्रावस्तुतं होतुः, ततस् तम् अन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति. अनियमेन क्रमः कर्तव्यः, यथा पूर्वः पक्षः. यथा तर्हि सिद्धान्तः, एष एव क्रमः कर्तव्य इति.
तत्राह, अन्याय्यं श्रुतिवचनम् इति. उच्यते, किम् अयं{*४/४५३*} न साधुः? न, न साधुर् इति ब्रूमः. न्याय्यं तर्हि. न ब्रूमः, न साधुः क्रम इति. किं तर्हि? उक्तस्य पुनर्वचनम् अन्याय्याम् इति. उच्यते, साधोर् वचनं बहुशो ऽप्य् उच्यमानं न्याय्यम् एव. असाधोस् तु सकृद् अप्य् अन्याय्यम्. आह, सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनम् अस्तीति. उच्यते, भवत्य् अप्रस्मरणम्{*४/४५४*} अपि प्रयोजनम् इत्य् उक्तम्. वृत्तिकारेण तत् कार्यम् इति चेत्. सूत्रकारस्याप्य् अविशेषो वृत्तिकारेण.
अथवा - अर्थान्तरम् एवेदम्, तत्र ह्य् अन्य एव संशयो विचारो निर्णयश् च, श्रुतिप्रमाणको धर्मः, अन्यप्रमाणक इति संशयः. प्रत्यक्षादीनाम् अधिगम्य निमित्तत्वान् न तत्प्रमाणकः, अतीन्द्रियत्वाच् चोदनालक्षण इति विचारः. चोदनालक्षण एवेति निर्णयः. इह तु सिद्धे तत्प्रामाण्ये व्यवहारक्रमस्य{*४/४५५*} साधुत्वावधारणम्.
अथवा - श्रुतिविचारो{*४/४५६*} ऽयम्. किं पदार्थाः कर्तव्या इति विधानम्, किं वा क्रमो विधीयत इति. अनेकार्थविधानानुपपत्तेः क्रमे{*४/४५७*} ऽनुवादः पदार्थानां{*४/४५८*} विधिः. अवदानवाक्येष्व् इव, पदार्थविधानं श्रुत्या, क्रमविधानं वाक्येन, तस्मान् न क्रमो विधीयत इति पूर्वः पक्षः. नन्व् अवदानवाक्येषु क्रमो विधीयते. सत्यं विधीयते, पाठेन, न श्रुत्या, य{*४/४५९*} ऋत्विजस् ते [५३९]{*४/४६०*} यजमाना इति तु, दीक्षायाः प्राप्तत्वात्, क्रमविधानार्था श्रुतिर् इति सिद्धान्तः. तस्माद् अपुनरुक्तम् इति.

NOTES:

  • {४/४४६: E२: श्रवणम्}*
  • {४/४४७: MS १.१.२}*
  • {४/४४८: E२: दीक्षाक्रमे}*
  • {४/४४९: E२: ये यजमानास् त ऋत्विज इत्य्}*
  • {४/४५०: E२: नेष्ठा}*
  • {४/४५१: E२,६: पादिनो}*
  • {४/४५२: E२: ५,१०७; E६: २,६६}*
  • {४/४५३: E२: एष}*
  • {४/४५४: E२: अस्मरणम्; E६: अपस्मरणम्}*
  • {४/४५५: E१,६, E२ (Fन्.); E२: व्यवहारः क्रमस्य}*
  • {४/४५६: E२: श्रुतिक्रमविचारो}*
  • {४/४५७: E१ (Fन्.), E२: क्रमो ऽनुवादः}*
  • {४/४५८: E२: दीक्षादीनां पदार्थानां}*
  • {४/४५९: E२ ओम्. य}*
  • {४/४६०: E२: ५,१०८; E६: २,६७}*


____________________________________________


अर्थाच् च//५.१.२//

किम् एष एवोत्सर्गः सर्वत्र श्रुतिवशेनैव भवितुम् अर्हतीति. उक्तं हि, चोदनालक्ष्णो ऽर्थो धर्म इति{*४/४६१*}.
एवं प्राप्ते ब्रूमः, अर्थाच् च सामर्थ्याच् च{*४/४६२*} क्रमो विधीयत इति, गुणभूतो हि पदार्थानां क्रमो भवति, यश् च यस्य निर्वर्त्यमानस्योपकरोति, स तस्य गुणभूतः. यस्मिंश् चाश्रीयमाणे पदार्थ एव न संपद्यते, न स गुणभूतः, विनापि तेन, न वैगुण्यम्. एवं प्रत्यक्षः क्रमस्य गुणभावो यत्र, तत्रार्थेन स एवाश्रयितव्यः, यथा जाते वरं ददाति, जातम् अञ्जलिना गृह्णाति, जातम् अभिप्राणितीति, अर्थात् पूर्वम् अभिप्राणितव्यम्, ततो ऽञ्जलिना ग्रहीतव्यः, ततो वरो देय इति. तथा विमोकः पूर्वम् आम्नातः, पश्चात् तद्योगः, अर्थाद् विपरीतः कार्यः. याज्यानुवाक्ये तु विपर्ययेणाम्नाते, विपर्ययेण कर्तव्ये. नात्र पाठक्रमो मीयते{*४/४६३*}. यतो देवतोपलक्षणार्थानुवाक्या, प्रदानार्था याज्या. अग्निहोत्रं जुहोतीति पूर्वम् आम्नातम्. ओदनं पचतीति पश्चात्. असंभवात् पूर्वम् ओदनः पक्तव्यः. प्रैषप्रैषार्थो तु विपर्ययेणाम्नातौ, तौ च विपर्ययेण कर्तव्यौ.

[५४०]{*४/४६४*}

NOTES:

  • {४/४६१: Vग्ल्. MS १.१.२}*
  • {४/४६२: E१ गिब्त् सामर्थ्याच् च इन् Kलम्मेर्न्}*
  • {४/४६३: E१ (Fन्.): ऽनुमीयते; E२: ऽनुष्ठीयते}*
  • {४/४६४: E२: ५,११०; E६: २,६८}*


____________________________________________


अनियमो ऽन्यत्र//५.१.३//

अस्मिन् विषये क्रमस्य नियमो नास्ति, यथा दर्शपूर्णमासयोर् याजमानानां प्रयाजानुमन्त्रणादीनां नानाशाखान्तरसमाम्नातानां वसन्तम् ऋतूनां प्रीणामीत्येवमादीनाम्{*४/४६५*}, एको ममेत्येवमादीनां{*४/४६६*} च.

NOTES:

  • {४/४६५: Tऐत्.S. १.६.२.३}*
  • {४/४६६: ŚPBर् १.५.४.११}*


____________________________________________


क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात्//५.१.४//

दर्शपूर्णमासयोर् आम्नातम्, समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर् यजति, स्वाहाकारं यजतीति{*४/४६७*}. तत्र संशयः, किम् अनियतेनैव क्रमेणैषाम् अनुष्ठानम्, उत यः पाठक्रमः स एव नियम्येतेति. किं प्राप्तम्? नियमकारिणः शास्त्रस्याभावाद् अनियम इति.
एवं प्राप्ते ब्रूमः, क्रमेणैव नियम्येतैकस्मिन् क्रताव् इति. कुतः? तद्गुणत्वात्. तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा - स्नायात्, अनुलिम्पेत्, भुञ्जीतेति च क्रमेणानुष्ठानम् अवगम्यते, वाक्यात् पदार्थानाम्. यथा चादृष्टार्थेषूपदिश्यमानेषु, कश्चिद् ब्रूयात्, देवाय धूपो देयः, पुष्पाण्य् अवकरितव्यानि चन्दनेनानुलेप्तव्य उपहारो ऽस्मा उपहर्तव्यः, एवं कृते देवस् तुष्यतीति. तम् अन्यः प्रतिब्रूते, नैतद् एवम्, न प्रथमं धूपो दातव्यः, प्रथमं पुष्पाण्य् अवकरितव्यानीति. एवं मन्यते, धूपदानस्य प्राथम्यम् अनेनोक्तम् इति. तस्माद् वाचनिक एषाम् एष क्रम इति.

[५४१]{*४/४६८*}

NOTES:

  • {४/४६७: Tऐत्.S. २.६.१.१}*
  • {४/४६८: E२: ५,१११; E६: २,६८}*


____________________________________________


अशाब्द इति चेत्, स्याद् वाक्यशब्दत्वात्//५.१.५//

इति चेत् पश्यसि, अथैवं गम्यमाने ऽशब्द एव क्रमः. कथम्? पदार्थपूर्वको वाक्यार्थः, पदेभ्यश् च पदार्था एवावगम्यन्ते, न क्रमः. स्याद् एतद् एवम्, यदि पदार्थानां{*४/४६९*} समूहस्य श्रवणं प्रत्यायकम् अर्थस्य स्यात्, न तु समुदायः प्रत्यायकः, इत्य् उक्तं तद्भूतानां क्रियार्थेन समाम्नाय इत्य्{*४/४७०*} अत्र. तस्मात् क्रमस्य वाचकशब्दाभावाद् व्यामोह एष क्रमो ऽवगम्यते. एवं चापूर्वासत्तिर् अनुग्रहीष्यते, इतरथा सापि विप्रकृष्येत घटीयन्त्र इव. दर्शयिष्यति च, हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति. यदि नियामकः पाठक्रमः, ततो न विधातव्यम् एतत्, नियामके हि पाठक्रमे पाठक्रमाद् एव प्राप्नुयात्.

NOTES:

  • {४/४६९: E१ (Fन्.), E२: पदानां}*
  • {४/४७०: Vग्ल्. MS १.१.२५}*


____________________________________________


अर्थकृते वानुमानं स्यात्, क्रत्वेकत्वे परार्थत्वात् स्वेन त्व् अर्थेन संबन्धः, तस्मात् स्वशब्दम् उच्येत//५.१.६//

एकस्मिन् क्रताव् एकत्वात् क्रतुः, अनेकस्मिन् पदार्थे ऽर्थकृतत्वात् क्रमस्य, तत्रैष एव क्रमो नियम्येतानुमानेन. कुतः? परार्थत्वाद् वेदस्य, परार्थो हि वेदो यद् यद् अनेन शक्यते कर्तुम्, तस्मै तस्मै प्रयोजनायैष समाम्नायते. शक्यते चानेन पदार्थो विधातुम्, शक्यते च क्रियाकाले प्रतिपत्तुम्. तस्माद् वेदः पदार्थांश् च विधातुम् उपादेयः, क्रियाकाले च प्रतिपत्तुम्. न गम्यते{*४/४७१*} विशेषः, विधातुम् अयं समाम्नायते, न प्रतिपत्तुम् इति. अगम्यमाने विशेष उभयार्थम् उपादीयत [५४२]{*४/४७२*} इति गम्यते. प्रतिपत्तुं चानेन क्रमेण शक्यते, नान्येन. अत एव च कृत्वा पाठक्रमापचारे, विनष्ट इत्य् उच्यते, इतरथा हि यद् यस्य प्रयोजनम्, तस्मिन् निर्वर्तमान एव किं नष्टं स्यात्. अदृष्टं कल्प्येत, तच् चान्याय्यं दृष्टे सति. तस्मात् स्वशब्दः क्रमः, य एव पदार्थानां वाचकः शब्दः, स एव क्रमस्यापि.

NOTES:

  • {४/४७१: E२: गम्यते}*
  • {४/४७२: E२: ५,११२; E६: २,६९}*


____________________________________________

तथा चान्यार्थदर्शनम्//५.१.७//
एवं चान्यार्थं दर्शयति, व्यत्यस्तम् ऋतव्या उपदधाति{*४/४७३*}. व्यत्यस्तं षोडशिनं शंसति{*४/४७४*}. आश्विनो दशमो गृह्यते, तं तृतीयं जुहोतीति. यद्य् अनियमेनोपधानं शंसनं च, व्यत्यस्तवचनम् अनर्थकं स्यात्. न हि कथंचिद् अव्यत्यास इति, तथाश्विनस्य तृतीयस्य होमानुवादो नावकल्प्येत, यदि पाठक्रमेण नियम{*४/४७५*} इति. तथा, अभिचरता प्रतिलोमं होतव्यम्, प्राणान् एवास्य प्रतीचः प्रतियौतीति{*४/४७६*} क्वचित् प्रतिलोमं विदधद् अनुलोमं दर्शयति, तद् उपपद्यते, यदि पाठक्रमेण प्रयोगः. इतरथा, सर्वम् अनुलोमं स्यात्, प्रतिलोमदर्शनं नोपपद्येत. तथा चतुर्थोत्तमयोः प्रतिसमानयतीत्य् उक्ते सति, अतिहायेडो बर्हिः प्रतिसमानयतीत्य् उच्यते, तेन बर्हिषश् चतुर्थतां दर्शयति, सा पाठक्रमे नियामके ऽवकल्पते.

NOTES:

  • {४/४७३: Tऐत्.S. ५.३.१.१}*
  • {४/४७४: Tऐत्.S. ७.१.५.४}*
  • {४/४७५: E२: पाठक्रमेणानियम}*
  • {४/४७६: Tऐत्.S. ३.४.८.५}*


____________________________________________


प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात्//५.१.८//

वाजपेये सप्तदश प्राजापत्यान् पशून् आलभत इति श्रूयते. तेषु पशुषु चोदकप्राप्ताः प्रोक्षणादयो धर्माः. तत्र [५४३]{*४/४७७*} प्रथमः पदार्थो यतः कुतश्चिद् आरब्धव्यः, द्वितीयादिषु भवति संशयः. किं तत एव द्वितीयो ऽपि पदार्थ आरब्धव्यः, उत द्वितीयादिष्व् अनियम इति. किं तावत् प्राप्तम्? नियमकारिणः शास्त्रस्याभावाद् अनियम इति.
एवं प्राप्ते ब्रूमः, यतः पूर्व आरब्धः, तत एव द्वितीयादयो ऽपि पदार्था आरब्धव्या{*४/४७८*} इति. कुत एतत्? तदुपक्रमात्, सर्वे हि पदार्थाः प्रधानकालान् न विप्रक्रष्टव्याः, प्रधानं हि चिकीर्षितम्, कृतं वा तेषां{*४/४७९*} निमित्तम्. सहवचनं हि भवति, पदार्थैः सह प्रधानं कर्तव्यम् इति, बहुपदार्थसमाम्नानात् त्व् अवश्यं भावी विप्रकर्षः, तथापि तु यावद्भिर् नाव्यवहितः शक्यः पदार्थः कर्तुम्, तावद्भिर् व्यवधानम् अवश्यं कर्तव्यम्, ततो ऽभ्यधिकेन{*४/४८०*} न व्यवधातव्यम् इति. यदि द्वितीयं पदार्थम् अन्यत आरभेत, ततो ऽधिकैर् अपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत. ननु तथा सति कश्चिद् अल्पैर् व्यवहितो भविष्यति. उच्यते, अनुमतानां व्यवधायकानां त्यागेन कश्चिद् अभ्यधिको गुणो भवतीति, तस्माद् यतः पूर्वपदार्थ आरब्धः, तत एवोत्तर आरम्भणीय इति.

NOTES:

  • {४/४७७: E२: ५,११३; E६: २,७०}*
  • {४/४७८: E१ (Fन्.): द्वितीयो ऽपि पदार्थ आरब्धव्यः}*
  • {४/४७९: E२: तेषां तेषां}*
  • {४/४८०: E१ (Fन्.): ऽभ्यधिकैः}*


____________________________________________


सर्वम् इति चेत्//५.१.९//

इति चेत् पश्यसि, प्रधानाविप्रकर्षेण प्रयोगवचनानुग्रह इति, सर्वं तर्हि गुणकाण्डम् एकस्मिन्न् अपवर्जयितव्यम्, यथा सौर्यादिषु.


____________________________________________


नाकृतत्वात्//५.१.१०//

नैतद् एवम्, सहप्रयोग एव हि नानुष्ठितः स्यात्.

[५४४]{*४/४८१*}

NOTES:

  • {४/४८१: E२: ५,११५; E६: २,७०}*


____________________________________________


क्रत्वन्तरवद् इति चेत्//५.१.११//

अथ यद् उक्तम्, यथा क्रत्वन्तरेषु सौर्यादिष्व् इति, तत् परिहर्तव्यम्.


____________________________________________


नासमवायात्//५.१.१२//

न तेषाम् अर्थात् क्रमः प्राप्नोति, यो नियम्येत. अङ्गाश्रयो हि नियमो भवितुम् अर्हति, अनङ्गसमाश्रयस्य{*४/४८२*} स्वयमङ्गता कल्प्येत.

NOTES:

  • {४/४८२: E२: अनङ्गसमाश्रितस्य}*


____________________________________________


स्थानाच् चोत्पत्तिसंयोगात्//५.१.१३//

एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, त्रिनवेनौजस्कामम्{*४/४८३*}, त्रयस्त्रिंशेन प्रतिष्ठाकामम्{*४/४८४*} इत्येवमादि श्रूयते. तत्रागमेन संख्यापूरणम् इति वक्ष्यते{*४/४८५*}. तत्रागमे क्रियमाणे, किम् अनियमजक्रमाः{*४/४८६*} सर्वा ऋच आगमयितव्याः, उत काण्डक्रमेभ्य इति{*४/४८७*}. किं प्राप्तम्? अनियमेनेति. कुतः? अतिरात्रे त्रिणवादिशब्दार्थेनैताः प्राप्नुवन्ति, तत्रैतासां प्राप्नुवतीनां पाठक्रमो नास्तीति. एवं प्राप्त उच्यते, यद् आसां समाम्नाये स्थानम्, तेनैता अत्र नियम्यन्ते. याः पूर्वं समाम्नाताः, ताः पूर्वम् एव प्रयोक्तव्याः. आनुपूर्व्यस्य हि दृष्टम् एतत् प्रयोजनम्, यद् उत्तरस्फुरणं{*४/४८८*} तद् अपि चिकीर्षितम् एवेति. त्रिनवादिशब्दैर्{*४/४८९*} अतिरात्रे यौगपद्येनासां प्राप्तेः पाठक्रमस्याविषय [५४५]{*४/४९०*} इत्य् अधिकरणान्तरम् इति भवति मतिः.

समाम्नायपाठक्रमाद् एवात्र नियम इति पुनरुक्तता गम्यत इत्य् अन्यथा वर्ण्यते -

NOTES:

  • {४/४८३: E२,६: त्रिणवेनौजस्कामम्}*
  • {४/४८४: Tऐत्.S. २.२.४.७}*
  • {४/४८५: Vग्ल्. MS १०.५.२६}*
  • {४/४८६: E१ (Fन्.), E२: अनियतक्रमाः}*
  • {४/४८७: E२: काण्डक्रमेणेति}*
  • {४/४८८: E१ (Fन्.): यद् उत्तरस्य स्मरणं}*
  • {४/४८९: E२: त्रिणवादिशब्दैर्}*
  • {४/४९०: E२: ५,११७; E६: २,७१}*


____________________________________________


स्थानाच् चोत्पत्तिसंयोगात्//५.१.१३//

साद्यस्क्रे{*४/४९१*} श्रूयते, सह पशून् आलभत इति. तत्रैषो ऽर्थः समधिगतः, सवनीयकाले त्रयाणाम् आलम्भ इति. अथात्र पाठक्रमात्, किम् अग्नीषोमीयः पूर्वम् आलब्धव्यः, उत स्थानक्रमात् पूर्वं सवनीय इति. किं प्राप्तम्? पूर्वम् अग्नीषोमीय इति. कुतः? पाठक्रमात्. एवं प्राप्ते ब्रूमः, सवनीयः पूर्वम्, स्थानात्. यदि पूर्वम् अग्नीषोमीयः स्यात्, सवनीयस्थानं व्याहन्येत. आश्विनं गृहीत्वा त्रिवृता यूपं परिवीयेति. नन्व् इतरत्रापि पाठक्रमो बाध्येत. बाध्यताम्, तस्य हि प्रतिषेधार्थः सहशब्दः समाम्नातः{*४/४९२*}, अप्रतिषिद्धं चाश्विनग्रहस्थानम्. तन् न बाधितव्यम्.

NOTES:

  • {४/४९१: E१ (Fन्.,K): साद्यस्क्रः सोमयागविशेषः}*
  • {४/४९२: E२: सहशब्दसमाम्नातः}*


____________________________________________


मुख्यक्रमेण वाङ्गानां तदर्थत्वात्//५.१.१४//

सारस्वतौ भवतः, एतद् वै दैव्यं मिथुनम् इति{*४/४९३*} श्रूयते. तत्र संदेहः, किं स्त्रीदेवत्यस्य प्रथमं धर्माः, उत पुंदेवत्यस्येति. नियमकारिणः शास्त्रस्याभावाद् अनियमः. इति प्राप्ते ब्रूमः, मुख्यक्रमेण वा नियमः स्याद् इति, स्त्रीदेवत्यस्य हि पूर्वं याज्यानुवाक्ययोः समाम्नानम्, प्रणो देवी सरस्वतीति{*४/४९४*}. तस्मात् स्त्रीदेवत्यस्य पूर्वं प्रदानेन [५४६]{*४/४९५*} भवितव्यम्, तस्मात् स्त्रीदेवत्यस्य पूर्वं धर्माः कार्याः. तथा हि प्रधानकालता भवत्य् अङ्गानाम्, इतरथा, यैः पदार्थैर् व्यवधानं सामर्थ्याद् अनुज्ञातम्, तेभ्यो ऽधिकैर् अपि व्यवधानं स्यात्.

NOTES:

  • {४/४९३: Tऐत्.S. २.४.६.१}*
  • {४/४९४: Tऐत्.S. १.८.२२.१}*
  • {४/४९५: E२: ५,११८; E६: २,७२}*


____________________________________________


प्रकृतौ तु स्वशब्दत्वाद् यथाक्रमं प्रतीयेत//५.१.१५//

दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, तत आज्यस्य. तत्र संदेहः, किम् अग्नीषोमीयधर्मानाम्, मुख्यक्रमेण पूर्वम् आज्यस्य धर्माः कर्तव्याः, उत यथापाठम् इति. मुख्यक्रमानुग्रहेणाज्यस्य पूर्वाम्. इति प्राप्ते ब्रूमः, प्रकृतौ यथापाठं प्रतीयेत, स्वशब्दो हि तेषां पाठक्रमः, सो ऽन्यथा क्रियमाणे बाधितः स्यात्. सहत्वस्य पुनरुपसंग्राहकः प्रयोगवचनः, स्वक्रमेण पदार्थे संनिकृष्यमाणे न बाधितो भविष्यति. अपि च पाठक्रमे स्वशब्दः, स्वाध्यायो ऽध्येतव्य इति. मुख्यक्रमेण{*४/४९६*} प्रयोगवचनैकवाक्यता सूक्ष्मा.

NOTES:

  • {४/४९६: E२: मुख्यक्रमे}*


____________________________________________


मन्त्रतस् तु विरोधे स्यात् प्रयोगरूपसामर्थ्यात् तस्माद् उत्पत्तिदेशः सः//५.१.१६//

दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरो ब्राह्मणस्य. तत्र संदेहः, कतमः{*४/४९७*} पाठो बलीयान् इति. उच्यते, अनियमः, नियमकारिणः शास्त्रस्याभावाद् इति.
[५४७]{*४/४९८*} एवं प्राप्ते ब्रूमः, मन्त्रपाठो बलीयान्. कुतः? प्रयोगरूपसामर्थ्यात्. प्रयोगाय मन्त्रस्य रूपसामर्थ्यम्. तद् अस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्यमानस्य क्रमो दृष्टाय भवति{*४/४९९*}. ननु च ब्राह्मणपाठस्यापि तद् एव प्रयोजनम्. उच्यते, उत्पत्तिदेशः सः, अपरम् अपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं भविष्यति.

NOTES:

  • {४/४९७: E१ (Fन्.): कस्य}*
  • {४/४९८: E२: ५,११९; E६: २,७२}*
  • {४/४९९: E२: इष्टाव् अभवति}*


____________________________________________


तद्वचनाद् विकृतौ यथाप्रधानं स्यात्//५.१.१७//

अस्त्य् अध्वरकल्पा नामेष्टिः, आग्नावैष्णवम् एकादशकपालं निर्वपेत्, सरस्वत्य् आज्यभागो स्याद् बार्हस्पत्यश् चरुर् इति{*४/५००*}. तत्र संदेहः, किम् आग्नेयविकारस्य बार्हस्पत्यस्य पूर्वं धर्माः कार्याः, चोदको बलवत्तरः, प्रयोगवचनात्. उतोपांशुयाजविकारस्य प्रयोगवचनो बलवत्तरः, चोदकाद् इति. किं प्राप्तम्? विकृताव् अस्याम्, यथाप्रधानं स्यात्, तद्वचनात्. तेषां साक्षाद् वचनक्रमो विकृतौ. तेन संनिहितानाम् उपसंहारकः{*४/५०१*} प्रयोगवचनो हि प्रत्यक्षः, तद्धर्माणां चानुमानिकः, चोदकेन हि स प्राप्तः. तस्मात् प्रत्यक्षः प्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिको बाध्यते.

NOTES:

  • {४/५००: Tऐत्.S. २.२.९.१}*
  • {४/५०१: E२: अङ्गानाम् उपसंहारकः}*


____________________________________________


विप्रतिपत्तौ वा प्रकृत्यन्वयाद् यथाप्रकृति//५.१.१८//

मुख्याङ्गक्रमविप्रतिपत्तौ वा, यथा प्रकृतौ, तथैव विकृतौ भवितुम् अर्हतीति. कुतः? प्रकृत्यन्वयात्. यादृशाः प्रकृतौ धर्माः, तादृशा एव विकृतौ भवितुम् अर्हन्तीति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत् कृताः स्युः. चोदको हि प्रयोग[५४८]{*४/५०२*}वचनाद् बलवत्तरः, स ह्य् उत्पादयति प्रापयति च. प्रापितान् अभिसमीक्ष्य प्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमित्तक उत्तरकालं{*४/५०३*} पूर्वप्राप्तं न बाधितुम् अर्हति चोदकम्, प्रत्यक्षो ऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तान् एवोपसंहरिष्यति. तस्मात् पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्येति.

NOTES:

  • {४/५०२: E२: ५,१२१; E६: २,७३}*
  • {४/५०३: E२: उत्तरकालः}*


____________________________________________


विकृतिः प्रकृतिधर्मत्वात् तत्काला स्याद् यथाशिष्टम्//५.१.१९//

चातुर्मास्येषु साकमेधस् तृतीयं पर्व, तस्यावयवाः, अग्नये ऽनीकवते प्रातरष्टाकपालः, मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुः, मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम् इति{*४/५०४*}. तत्र संदेहः, किम् एता द्व्यहकाला इष्टयः, उत सद्यस्काला इति. किं प्राप्तम्? विकृतिस् तत्काला भवितुम् अर्हतीति, यथाशिष्टम्, यथा प्रकृतिर् उक्ता, तथा विकृतिः स्यात्. प्रकृतिधर्मा हि सा, तस्माद् या विकृतिः, सा द्व्यहकाला भवितुम् अर्हतीति{*४/५०५*}.

NOTES:

  • {४/५०४: Tऐत्.S. १.८.४.१}*
  • {४/५०५: E१ (Fन्.): या या विकृतिः, सा सा द्व्यहकाला भवितुम् अर्हतीति}*


____________________________________________


अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेर् अनुमानात् प्रकृतिधर्मलोपः स्यात्//५.१.२०//

अह्नः कालेषु ये पदार्था उच्यन्ते, प्रातर् मध्यंदिने सायम् इति, क्रमेण त एकस्मिन्न् अहनीति प्रतीयन्ते, यथा देवदत्तः प्रातर् अपूपं भक्षयति, मध्यंदिने विविधम् अन्नम् अश्नाति, अपराह्णे [५४९]{*४/५०६*} मोदकान् भक्षयतीत्य् एकस्मिन्न् अहनीति गम्यते. तस्मात् सद्यस्काला एवंजातीयका विकृतयः, द्व्यैहकाल्यं हि चोदकप्राप्तम् आनुमानिकम्, प्रत्यक्षरूपया सद्यस्कालतया बाध्येत.

NOTES:

  • {४/५०६: E२: ५,१२२; E६: २,७४}*


____________________________________________


कालोत्कर्ष इति चेत्//५.१.२१//

इति चेत् पश्यसि, प्राप्तः साङ्गं श्रूयते, तथा मध्यंदिने सायं चेति, उत्कर्षो भविष्यति, यथैतेषु कालेषु साङ्गम्. न च द्व्यहकालताया बाधः, एकस्याह्नः प्रातर् अनीकवन्तम् उपक्रंस्यते, द्वितीयस्य प्रातर् यक्ष्येत. एवं सांतपनीया{*४/५०७*} पूर्वेद्युर् मध्यांदिन उपक्रंस्यते, अपरेद्युर् मध्यंदिने यक्ष्यते. तथा गृहमेधीये सायम् उपक्रमणं पूर्वेद्युः, सायं यागो ऽपरेद्युर् इति. ननु वाक्याद् एकम् अहर् गम्यत इत्य् उक्तम्. उच्यते, पदार्थसामर्थ्यजनितो हि वाक्यार्थो भवति. न चात्र पदार्थसामर्थ्यम् अस्ति, येनैकम् अहर् गम्येत.

NOTES:

  • {४/५०७: E१ (Fन्.): सांतपनीयाः}*


____________________________________________


न तत्संबन्धात्{*४/५०८*}//५.१.२२//

नैतद् एवम्. कस्मात्? तत्संबन्धात्, एककालसंबद्धानि प्रधानान्य् अङ्गैः सह श्रूयन्ते. कथम्? साङ्गं हि प्रधानं प्रातःकाले श्रूयते, तथा मध्यंदिने सायं च. नाङ्गानि प्रातःकालादिषु. तत्रान्यकालेष्व् अङ्गेष्व् अन्यकालेषु च प्रधानेषु, न साङ्गं तेषु कालेषु कृतं स्यात्. तस्मात् सद्यस्काला एवैता विकृतय इति. अपि च, द्व्य् अहं साकमेधैर् इति श्रूयते. तत् सद्यस्कालासूपपद्यते.

[५५०]{*४/५०९*}

NOTES:

  • {४/५०८: E१ (Fन्.): तत्संभवात्}*
  • {४/५०९: E२: ५, १२३; E६: २,७४}*


____________________________________________


अङ्गानां मुख्यकालत्वाद् यथोक्तम् उत्कर्षे स्यात्//५.१.२३//

ज्योतिष्टोमे श्रूयते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीत्य् उत्कर्षः, तथाग्नीषोमीये पशौ, तिष्ठन्तं पशुं प्रयजन्तीत्य् अपकर्षः. तत्र संदेहः, किम् उत्कर्षे ऽनुयाजमात्रम् उत्कृष्यते, अपकर्षे च प्रयाजमात्रम्, उतोत्कर्षे ऽनुयाजादि, अपकर्षे च प्रयाजान्तम् इति. किं तावत् प्राप्तम्? यावद् उक्तम्, उत्कर्षापकर्षयोः स्यात्. कुतः? अङ्गानां मुख्यकालत्वात्. एवम् अन्येषां प्रधानकालता भविष्यतीति. तत्र सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यते.


____________________________________________


तदादि वाभिसंबन्धात् तदन्तम् अपकर्षे स्यात्//५.१.२४//

तदाद्य् उत्कर्षे, तदन्तम् अपकर्षे गम्येत. कुतः? अभिसंबन्धात्. यद्{*४/५१०*} अनुयाजानां परस्तात् समाम्नायते, तत् प्रधानाद् अन्तरं{*४/५११*} प्रयोगवचनेन प्राप्तं बाधित्वा पाठसामर्थ्याद् अनुयाजेभ्यः परस्तात् क्रियते, तथा यस् ततः परः, स ततः परस्तात्. एवम् एक उत्कृष्यमाणः सर्वं गुणकाण्डम् उत्कर्षति, तथापकृष्यमाणो ऽपकर्षतीति.

NOTES:

  • {४/५१०: E१ (Fन्.): यदि}*
  • {४/५११: E२: अनन्तरं}*


____________________________________________


प्रवृत्त्या कृतकालानाम्//५.१.२५//

ज्योतिष्टोमे श्रूयते प्रातरनुवाककाले, प्रतिप्रस्थातः सवनीयान् [५५१]{*४/५१२*} निर्वपस्वेति प्रेष्यतीति सवनीयानां निर्वापकालः. अस्ति च बहिष्पवमाने स्तुते, अग्नीद् अग्नीन् विहर, बर्हि स्तृणीहि, पुरोडाशान् अलंकुर्व् इति. तत्र संदेहः, किं प्रातरनुवाककाले सवनीयान् निरूप्य प्रचरणीहोमादयः सौमिकाः पदार्थाः, उत पौरोडाशाः{*४/५१३*} प्राग् अलंकरणाद् इति. किं प्राप्तम्? अनियमः, नियमकारिणः शास्त्रस्याभावात्.
इत्य् एवं प्राप्ते ब्रूमः, प्रवृत्त्या कृतकालानाम्, ज्ञानकालानां पदार्थानां प्रवृत्त्या नियमः स्यात्, प्रयुज्यमानम् एव हि पूर्वपदार्थम् अभिनियच्छति. स तस्य परस्तात् समाम्नातः, परस्तात् कर्तव्यः. सौमिकस्य तु पदार्थस्य प्रचरणीहोमस्य वचनात् क्रमो बाधितः. अलंकरणं च बहिष्पवमानस्य परस्तात् समाम्नातम्, तस्मात् तस्य पूर्वः पदार्थो निर्वपणादीनाम् अन्तः. तत उत्तरे सौमिकाः पदार्थाः कर्तव्या इति.

NOTES:

  • {४/५१२: E२: ५,१२५; E६: २,७५}*
  • {४/५१३: E२: पौरोडाशिकाः}*


____________________________________________


शब्दविप्रतिषेधाच् च//५.१.२६//

शब्दश् च विप्रतिषिध्यते, अलंकुर्व् इत्य् उक्तः प्रोक्षणादीन् प्रतिपद्येत. अस्मत्पक्षे तु, अलंकुर्व् इत्य् उक्ते ऽलंकरणम् एव प्रतिपत्स्यते. तत्रालंकरणे प्राप्तकाले प्राप्तकालवचनो लोडन्तो ऽनुग्रहीष्यते. तस्माद् अत्र प्रावृत्तिकः क्रम इति.


____________________________________________


असंयोगात् तु वैकृतं तद् एव प्रतिकृष्येत//५.१.२७//

अस्ति दर्शपूर्णमासप्रकृतिके पशाव् अग्नीषोमीये वैकृतं यूपकर्म, तत् प्रतिकृष्यते, दीक्षासु यूपं छिनत्तीति. तत् प्रतिकृष्यमाणम् अर्वाचीनान्य् अप्य् अग्नीषोमप्रणयनादीनि प्रति[५५२]{*४/५१४*}कर्षति, उत नेति संशये, प्रतिकर्षति, संबन्धाद् इति गम्यते{*४/५१५*}.
तथा प्राप्ते ब्रूमः, विकृताव् अभ्यधिकं यत्, तत् प्रतिकृष्यमाणं ततो ऽर्वाचीनान्य् अप्य् अग्नीषोमप्रणयनादीनि न प्रतिक्रष्टुम् अर्हति. कथम्? असंयोगात्, पाशुकं यूपकर्म, ततः प्राचीनं सौमिकम्. न तयोः परस्परेण संबन्धः. न सौमिकः पदार्थः, पाशुकस्योपकारकः पशोर् वा. यदि हि तयोर् उपकारकः स्यात्, ततस् तस्योपकुर्वतः क्रमो ऽप्य् अस्य साहाय्यं कुर्वन् गुणभूतः स्यात्. न त्व् एतद् अस्ति, तस्मान् नैषां परस्परेण क्रमे नियमः. अतो यूपमात्रं प्रतिकृष्यते. अपि च यूपमात्रं प्रतिकृस्य कृतार्थे शब्दे सौमिकानां स्वक्रमबाधो न भविष्यतीति.

NOTES:

  • {४/५१४: E२: ५,१२७; E६: २,७६}*
  • {४/५१५: E२ ओम्. गम्यते}*

____________________________________________


प्रासङ्गिकं च नोत्कर्षेद् असंयोगात्//५.१.२८//

ज्योतिष्टोमे श्रूयते, आग्निमारुताद् ऊर्ध्वम् अनुयाजैश् चरन्तीति. अनुयाजा उत्कृष्यमाणा दाक्षिणाग्निकौ होमाव् उत्कर्षन्ति, नेति संशयः. संबन्धाद् उत्कर्षन्ति.
इति प्राप्ते उच्यते, नैवाव् उत्क्रष्टुम् अर्हन्ति, ये{*४/५१६*} तयोः स्व{*४/५१७*} ऽनुयाजाः, संबद्धास्{*४/५१८*} ते, न प्रयुक्ताः परकीयैः, तेषाम् अर्थो निर्वर्तित इति. पदार्थानां च क्रमो भवति, न पदार्थप्रयोजनानाम्, यौगपद्येन हि पदार्था उपकुर्वन्तीति वक्ष्यामः. पदार्थानां चोत्पत्तिः क्रमवती, पृथक्शब्दत्वाद् उत्पत्तेः, न पदार्थप्रयोजनस्य, युगपत् प्रयोगवचनेनाभिहितत्वात्. अतो ऽनुयाजोत्पत्तेर् उत्कर्षिकाया अभावाद् दाक्षिणाग्निकौ होमौ नोत्कृष्येयाताम् इति. अपि चानुयाजमात्रम् उत्कृष्य [५५३] कृतार्थे शब्दे दाक्षिणाग्निकयोर् होमयोः स्वक्रमबाधो न भविष्यतीति.

NOTES:

  • {४/५१६: E२: येन}*
  • {४/५१७: E२: त्व्}*
  • {४/५१८: E२: संबन्धास्}*


____________________________________________


तथापूर्वम्//५.१.२९//

दर्शपूर्णमासयोर् वेदिः, हविर् अभिवासनोत्तरकाले समाम्नाता. सामावास्यायां प्रतिकृष्यते, पूर्वेद्युर् अमावास्यायां वेदिं करोतीति. सा त्व् अपकृष्यमाणा ततो ऽर्वाचीनान् पदार्थान् अपकर्षति, नेति संशयः. उच्यते, संबन्धात् प्रतिकर्षति.
इत्य् एवं प्राप्ते ब्रूमः, तथापूर्वम्, अप्रकृतिर् पूर्विकायाम् अमावास्यायां वेदिकरणं पूर्वेद्युर् आम्नातम्, उभयोर् अपि श्वोभूते हविर् अभिवासनम्. अभिवासनं कृत्वामावास्यायां वेदिः कर्तव्येति न श्रुत्यादीनाम् अन्यतमत्{*४/५१९*} कारणम् अस्ति. तस्मान् नाभिवासनान्ताः प्रतिक्रष्टव्या इति. अभिवासने चापकृष्यमाणे हवींषि भस्मीभवेयुः.

NOTES:

  • {४/५१९: E२: अन्यतमं}*


____________________________________________


सांतपनीया तूत्कर्षेद् अग्निहोत्रं सवनवद् वैगुण्यात्//५.१.३०//

चातुर्माद्येषु साकमेधावयवः सांतपनीया नामेष्टिः, मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुं निर्वपतीति{*४/५२०*}, सा दैवान् मानुषाद् वा प्रतिबन्धाद्{*४/५२१*} उत्कृष्यमाणा अग्निहोत्रम् उत्कर्षेत्, न वेति संशये. उच्यते, सांतपनीया तूत्कर्षेद् अग्नि[५५४]{*४/५२२*}होत्रम् सवनवद् वैगुण्यात्. यदि नोत्कर्षेत्, अग्निहोत्रसवन ऽग्निहोत्रकाल{*४/५२३*} उद्धृते ऽग्नाव् अग्निहोत्रं विगुणं स्यात्. तस्माद् उत्क्रष्टव्यम्, सवनवत्, यथा प्रातःसवनं दैवान् मानुषाद् वा प्रतिबन्धाद्{*४/५२४*} उत्कृष्यमाणं माध्यंदिनं सवनम् उत्कर्षतीति, एवम् अत्रापि द्रष्टव्यम्.

NOTES:

  • {४/५२०: Tऐत्.S. १.८.४.१}*
  • {४/५२१: E१ (Fन्.): प्रतिबलाद्}*
  • {४/५२२: E२. ५,१३०; E६: २,७७}*
  • {४/५२३: E२: अग्निहोत्रम् अनग्निहोत्रकाल}*
  • {४/५२४: E१ (Fन्.): प्रतिबन्लाद्}*


____________________________________________


अव्यवायाच् च//५.१.३१//

एवं सांतपनीयम् अग्निहोत्रेण न व्यवहितं भविष्यतीति, तत्र क्रमो ऽनुग्रहीष्यते. क्रमभेदे च दोषः श्रूयते, अप वा एतद् यज्ञाच् छिद्यते{*४/५२५*}, यद् अन्यस्य तन्त्रे वितते ऽन्यस्य तन्त्रं प्रतीयत इति.

NOTES:

  • {४/५२५: E१ (Fन्.), E२: यज्ञस्य छिद्यते}*


____________________________________________


असंबन्धात् तु नोत्कर्षेत्//५.१.३२//

नाग्निहोत्रस्य सांतपनीयाङ्गम्, न सांतपनीयाया वाग्निहोत्रम्. तेन नासाव् अग्निहोत्रस्य पुरस्तात् कर्तव्या, अतो नाग्निहोत्रम् उत्क्रष्टव्यम्.


____________________________________________


प्रापणाच् च निमित्तस्य//५.१.३३//

प्राप्तं चाग्निहोत्रस्य निमित्तम्, सायं जुहोति, प्रातर् जुहोति, उदिते जुहोति, अनुदिते जुहोति, प्रथमास्तमिते जुहोति, संधौ जुहोति, नक्षत्राणि दृष्ट्वा जुहोतीति{*४/५२६*}, तन् नातिक्रमितव्यम्, तस्माद् अपि नोत्कर्षः. यद् उक्तम्, वैगुण्यम् इति{*४/५२७*}, उत्कर्षे ऽपि वैगुण्यं कालान्यत्वात्. अङ्गाप्राप्तेर् जघन्यः कालविधिर् बाध्यताम् इति चेत्. न, कालस्य निमित्तत्वात्, [५५५]{*४/५२८*} तद् अपाये ऽश्रुतम् एव सर्वं क्रियेत, निमित्तं च{*४/५२९*}, अनुपादेयत्वेन श्रवणात्. सप्तमी ह्य् आधारादिष्व् असंभवान् निमित्तसप्तमी द्रष्टव्या.
अथ यद् उक्तम् - सवनवद् उत्क्रष्टव्यम् इति{*४/५३०*}. तद् उच्यते -

NOTES:

  • {४/५२६: Tऐत्.Bर्. २.१.२.७}*
  • {४/५२७: Vग्ल्. MS ५.१.३०}*
  • {४/५२८: E२: ५,१३१; E६: २,७७}*
  • {४/५२९: E२: तन्निमित्तत्वं च}*
  • {४/५३०: Vग्ल्. MS ५.१.३०}*


____________________________________________


संबन्धात् सवनोत्कर्षः//५.१.३४//

संबद्धं हि सवनं सवनेन, एकक्रतुसंबन्धात्, तद् उत्कृष्यते.


____________________________________________


षोडशी चोक्थ्यसंयोगात्//५.१.३५//

ज्योतिष्टोमे श्रूयते, षोडशिनं प्रकृत्य, तं पराञ्चम् उक्थ्येभ्यो विगृह्णातीति{*४/५३१*}{*४/५३२*}. यदा दैवान् मनुषाद् वा प्रतिबन्धाद्{*४/५३३*} उक्थ्यान्य् उत्कृष्यन्ते, किं तदा षोडश्य् उत्कृष्टव्यः{*४/५३४*}, नेति भवति संशयः. किं प्राप्तम्? नोत्क्रष्टव्यः. कुतः? एवं स्तोत्रं स्वस्मिन् काले षोडशिनः कृतं भविष्यतीति, समयाध्युषिते सूर्ये षोडशिनस्तोत्रम्{*४/५३५*} उपकरोतीति. तस्माद् अनुत्कर्ष इति.
एवं प्राप्ते ब्रूमः, षोडशी चोत्क्रष्टव्यः. कस्मात्? उक्थ्यसंयोगात्, उक्थ्यसंयोगो हि षोडशिनो भवति, तं पराञ्चम् उक्थ्येभ्यो विगृह्णातीति{*४/५३६*}. तस्माद् उत्क्रष्टव्यः षोडशी. यद् उक्तम्, षोडशिनस्तोत्रकालेनावर्जनं{*४/५३७*} भविष्यतीति. उच्यते, स्तोत्रक्रमम् अनुरुध्यमानस्य प्रधानक्रमो विरुध्येत. तस्मान् न स्तोत्रक्रमो ऽनुरोद्धव्यः, उभयं न शक्यम् अनुगृहीतुम्{*४/५३८*}, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकरोतीति [५५६]{*४/५३९*} श्रूयते. तस्माद् उत्क्रष्टव्यः षोडशीति.

NOTES:

  • {४/५३१: E२: गृह्णातीति}*
  • {४/५३२: Tऐत्.S. ६.६.११.६}*
  • {४/५३३: E१ (Fन्.): प्रतिबलाद्}*
  • {४/५३४: E२,६: उत्क्रष्टव्यः}*
  • {४/५३५: E२: षोडशिनः स्तोत्रम्}*
  • {४/५३६: E२: गृह्णातीति}*
  • {४/५३७: E२: षोडशिनः स्तोत्रकालेनावर्जनं}*
  • {४/५३८: E२,६: अनुग्रहीतुम्}*
  • {४/५३९: E२: ५,१३३; E६: २,७८}*


____________________________________________


संनिपाते प्रधानानाम् एकैकस्य गुणानां सर्वकर्म स्यात्//५.२.१//

वाजपेये, सप्तदश प्राजापत्यान् पशून् आलभत इति{*४/५४०*} श्रूयते, अग्नीषोमीये च पशौ पशुधर्माः समाम्नाताश् चोदकेन प्राप्ताः. तेषु संशयः, किम् एकस्यादेर् आरभ्य धर्मान् सर्वान् कृत्वा, द्वितीयस्य पुनरादित उपक्रमितव्याः, अथ प्रथमस् तावत् सर्वेषां कर्तव्यः, ततो द्वितीय इति. किं प्राप्तम्? एकैकस्य सर्वे ऽपवर्जयितव्या इति. कुतः? प्रधानासत्तेर् अनुग्रहाय, इतरथा प्रधानासत्तिर् विप्रकृष्येत. यथा बहुष्व् अश्वेषु प्रतिगृहीतेषु ये पुरोडाशाः, तेषु नैकजातीयानुसमयः, एवम् इहापीति.

NOTES:

  • {४/५४०: Tऐत्.Bर्. १.३.४.३}*


____________________________________________


सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात्//५.२.२//

एकजातीयानुसमयः कर्तव्यः. किम् एवं भविष्यति? सहत्वम् अनुग्रहीष्यते, तत्सहत्वं श्रूयते, वैश्वदेवीं कृत्वा पशुभिश् चरन्तीति, एकस्मिन् काले पशूनां प्रचारः.
नन्व् एवं सति पूर्वस्य पदार्थस्योत्तरः पदार्थः पश्वन्तरव्यापारेण व्यवधीयते. नैष दोषः, एवम् अपि कृतम् एवानुपूर्व्यम्. यो ऽसौ पश्वन्तरे व्यापारः स एवासौ, न पदार्थान्तरम्, पदार्थान्तरेण व्यवधानं भवति.

[५५८]{*४/५४१*}

NOTES:

  • {४/५४१: E२: ५,१३४; E६: २,७९}*


____________________________________________


कारणाद् अभ्यावृत्तिः//५.२.३//

अथ यद् उक्तम्, बहुषु पुरोडाशेषु नैकजातीयानुसमय इति, तत् परिहर्तव्यम्. अत्रोच्यते, युक्तं तत्र, यत्{*४/५४२*} कारणाद् अभ्यावृत्तिः, एकजातीयानुसमये हि क्रियमाणे सहस्रस्याधिश्रयणे कृते प्रथमः शुष्येत्, तस्य च प्रथमं न शक्येत कर्तुम्.

अथवाधिकरणान्तरम् -

NOTES:

  • {४/५४२: E२: तत्}*


____________________________________________


कारणाद् अभ्यावृत्तिः//५.२.३//

अनेकसहस्राश्वप्रतिग्रहे तन्त्रानुष्ठानम् इति पूर्वः पक्षः. काण्डानुसमयो ऽभ्युपेतव्य इति सिद्धान्तः.


____________________________________________


मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन//५.२.४//

मुष्ट्यादिषु संशयः, किं मुष्टिनानुसमयः, उत चतुर्भिर् मुष्टिभिर् इति. किं प्राप्तम्? मुष्टिनेति. कुतः? एकमुष्टिनिर्वापो ह्य् एकः पदार्थः, न चतुर्मुष्टिनिर्वापः. कथम्? एकस्मिन् मुष्टौ निरुप्ते यतीभावः{*४/५४३*} पर्यवस्यति. न शक्यं वदितुम्, न किंचिन् निरुप्तम् इति. न च, निरुप्ते निर्वापो न कृतः स्यात्, न च मुष्टिमात्रेण निरुप्तेन न प्रयोजनम्. न ह्य् [५५९]{*४/५४४*} एकस्मिन्न् अनिरुप्ते चत्वारः संभवन्ति, मुष्टिसमानाधिकरणो हि चतुःशब्दः, तस्मान् मुष्टिनानुसमयः कार्यः. एवम्, कपालान्न् उपदधातीति. तथा, मध्याद् अवद्यति पूर्वार्धाद् अवद्यति, तथा, अङ्क्ते ऽभ्यङ्क्ते वपति पावयतीति.

NOTES:

  • {४/५४३: E२: निर्वपतिभावः}*
  • {४/५४४: E२: ५,१३५; E६: २,७९}*


____________________________________________


सर्वाणि त्व् एककार्यत्वाद् एषां तद्गुणत्वात्//५.२.५//

सर्वाणि तु परिसमाप्यानुसमेयात्, नैकमुष्टिनिर्वापः पदार्थः, चतुःसंख्यत्वान् निर्वापस्य. कथं चतुःसंख्यता? चतुःशब्दस्य निर्वपतिना संबन्धात्, एवं सह कर्मणा, अनेकगुणविधानं न्याय्यम्. इतरथा, मुष्टिसंबन्धे सति वाक्यभेदः प्रसज्येत. अनिर्वापाङ्गं च स्यात्. तथोपधानादिष्व् अपि, अष्टाकपालम् एकादशकपालं निर्वपतीति निर्देशात्. द्विर् अवद्यति{*४/५४५*}, त्रिर् अभ्यङ्क्ते, एकविंशत्या पावयतीति{*४/५४६*} संख्यादीनां क्रियागुणत्वं भवति. तस्मात् समुदायेनानुसमय इति.

NOTES:

  • {४/५४५: ŚPBर् ४.४.३.९}*
  • {४/५४६: Tऐत्.S. ६.१.१.८}*


____________________________________________


संयुक्ते तु प्रक्रमात् तदङ्गं स्याद् इतरस्य तदर्थत्वात्//५.२.६//

दर्शपूर्णमासयोः श्रूयते, द्विर् हविषो ऽवद्यतीति{*४/५४७*}. तत्र संशयः, किम् अवदानेनानुसमयः, उतावदानेन प्रदानान्तेनेति. किं प्राप्तम्? अवदानेनेति ब्रूमः. कुतः? पृथक्पदार्थत्वात्, पृथक् पदार्थो ह्य् अवदानम्, यतीभावस्य पर्यवसानात्, अवद्यतिवचनात्. एवं प्राप्ते ब्रूमः, संयुक्ते तु प्रक्रमात् तदङ्गं स्यात्, इतरस्य तदर्थत्वात्. नावदानं पृथक् पदार्थः, प्रदानस्य स उपक्रमः, इतरथावद्यतेर् अदृष्टार्थता [५६०]{*४/५४८*} स्यात्. संख्याविशेषविधानार्थं च पुनर्वचनम्. तस्मात् पदार्थावयवो ऽवदानम्, न चावयवसहत्वं प्रयोगवचनेनोच्यते, तस्मात् प्रदानान्तेनानुसमय इति.

NOTES:

  • {४/५४७: ŚPBर् ४.४.३.९}*
  • {४/५४८: E२: ५,१३७; E६: २,८०}*


____________________________________________


वचनात् तु परिव्याणान्तम् अञ्जनादि स्यात्//५.२.७//

ज्योतिष्टोमे ऽग्नीषोमीयपशौ यूपस्याञ्जनाद्याः पदार्थाः श्रूयन्ते, तेषु यूपैकादशिन्यां प्राप्तेषु संशयः, किम् अञ्जनादीनाम्{*४/५४९*} एकैकेनानुसमयः, उताञ्जनादिना परिव्याणान्तेनेति. किं प्राप्तम्? परिव्याणान्तम् अञ्जनादि स्यात्. कुतः? वचनात्, वचनम् इदं भवति, अञ्जनादि यजमानो यूपं नावमृजेद् आपरिव्याणाद् इति{*४/५५०*}. न च शक्यम्, बहुष्व् अञ्जनादिनानुसमयः कर्तुम्, न चानवस्रष्टुम्. तस्मात् परिव्याणान्तेनानुसमयः.

NOTES:

  • {४/५४९: E२: अञ्जानादीनाम्}*
  • {४/५५०: Tऐत्.Bर्. ३.८.१९.१}*


____________________________________________


कारणाद् वानवसर्गः स्याद् यथा पात्रवृद्धिः//५.२.८//

सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यत इति पदार्थेनानुसमयः. अनवसर्गश् च प्रकृताव् अर्थात् कृतः, साहाय्यं यजमानेनाध्वर्योः. एवं दृष्टार्थतानवसर्गस्य, इतरथादृष्टार्थता स्यात्. न च, अर्थात् कृतं चोदकः प्रापयति. तस्माद् यूपान्तरेणोच्छ्रयितव्येन{*४/५५१*} कारणेनावसृजेत्, यथा पृषदाज्येनानुयाजान् यजतीत्य् अर्थात् तस्य धारणार्थं पात्रं भिद्यते.

[५६१]{*४/५५२*}

NOTES:

  • {४/५५१: E१ (Fन्.): यूपान्तरेणोच्छ्रितव्येन}*
  • {४/५५२: E२: ५,१३७; E६: २,८१}*


____________________________________________


न वा शब्दकृतत्वान् न्यायमात्रम् इतरद् अर्थात् पात्रविवृद्धिः{*४/५५३*}//५.२.९//

न वैतत्पदार्थेनानुसमय इति, परिव्याणान्तेन पदार्थकाण्डेनानुसमयः स्यात्. शब्दकृतं हि प्रकृताव् अनवसर्जनम्, शक्नोति ह्य् ऋते ऽपि यजमानात्, अध्वर्युर् यूपम् उच्छ्रयितुम्. सौकर्यम् इति चेत्. विधिशब्दो बाध्येत, दृष्टार्थतैवं हि नियम्येत, भोजने प्राङ्मुखतेव. अतो ऽसंभवात्, पदार्थकाण्डेनानुसमयः. प्रयोगवचनस्य च न्यायमात्रत्वम्, चोदकस् ततो बलीयान्. पात्रविवृद्धिस् त्व् अर्थात् कर्तव्या.

NOTES:

  • {४/५५३: E२: पात्रं विवृद्धिः}*


____________________________________________


पशुगणे तस्य तस्यापवर्जयेत् पश्वेकत्वात्//५.२.१०//

वाजपेये प्राजापत्याः पशवः. तेषु संदेहः, किम् एकैकस्य पशोर् दैवतान्य् अवदाय ततः सौविष्टकृतानि, तत ऐडानि. अथ दैवतैर् देवतानाम् अनुसमयः, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति. किं तावत् प्राप्तम्? एकैकस्य कृत्स्नान्य् अवदाय ततो होतव्यम्, प्रकृतौ वचनात्, एतत् कृतं प्राजापत्येष्व् अपि चोदकेनैव प्राप्नोति.


____________________________________________


दैवतैर् वैककर्म्यात्//५.२.११//

नैतद् एवम्, दैवतैर् देवतानाम्, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति. कस्मात्? ऐककर्म्यात्. एवं सहकृतं भवति, यच् च वचनात् प्रकृतौ कृत्स्नावदानम् इति, दैवतान्य् [५६२]{*४/५५४*} अवदाय न तावत्य् एव होतव्यम्, सौविष्टकृतान्य् अवदेयानि. सौविष्टकृतान्य् अवदाय न तावत्य् एव होतव्यम्, ऐडान्य् अवदेयानीति प्रकृतौ श्रूयते. तद् इह दैवतैर् दैवतानाम् अनुसमयं कुर्वन् नैनं{*४/५५५*} प्राकृतं धर्मं बाधेत. दैवतान्य् अवदाय नैव जुहोति, सौविष्टकृतान्य् अवद्यतीति. अथ सौविष्टकृतान्य् अवदाय नैव जुहोति, ऐडान्य् अवद्यतीति. तस्मात् पदार्थमात्रेणानुसमय इति.

NOTES:

  • {४/५५४: E२: ५,१३९; E६: २,८१}*
  • {४/५५५: E२: नैव}*


____________________________________________


मन्त्रस्य चार्थवत्त्वात्//५.२.१२//

एवं मनोतामन्त्रस्{*४/५५६*} तन्त्रं भविष्यति, इतरथा पर्यायेणैव स्यात्. तस्माद् दैवतैर् दैवतानां सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैर् ऐडानाम् इति.

NOTES:

  • {४/५५६: Vग्ल्. Tऐत्.S. ३.६.१०.१}*


____________________________________________


नानाबीजेष्व् एकम् उलूखलं विभवात्//५.२.१३//

अस्ति राजसूये नानाबीजेष्टिः, अग्नये गृहपतये सुतीनाम्{*४/५५७*} अष्टाकपालं निर्वपेत्, सोमाय वनस्पतये श्यामाकं चरुम् इत्येवमादि{*४/५५८*}. अस्ति तु तत्र प्राकृतो ऽवहन्तिः. तत्र संदेहः, किं तत्रैकम् उलूखलं पर्यायेण, उत यौगपद्येन बहूनीति. कुतः संशयः? यदि कृष्णाजिनाधस्तरणादयः पृथक् पदार्थाः, ततो भेदः. अथ कृष्णाजिनास्तरणादिस् तण्डुलनिर्वृत्त्यन्त एकः पदार्थः, ततस् तन्त्रम् इति. किं तावत् प्राप्तम्? एकम् इति. कुतः? पर्यायेण विभवात्. एकस्योपादानेन सिद्धेर् द्वितीयस्योपादानम् अनर्थकं स्यात्. तस्मात् तन्त्रम् इति.

[५६३]{*४/५५९*}

NOTES:

  • {४/५५७: E२: ऽसितानाम्}*
  • {४/५५८: Tऐत्.S. १.८.१०.१}*
  • {४/५५९: E२: ५,१३९; E६: २,८२}*


____________________________________________


विवृद्धिर् वा नियमानुपूर्व्यस्य तदर्थत्वात्//५.२.१४//

विवृद्धिर् उलूखलानां स्यात्, नियतं ह्य् आनुपूर्व्यं पाठकृतं सहत्वे सत्य् उपपद्यते, पदार्थानां चानुसमयः, पृथक्पदार्थाश् चाधस्तरणादयो यतीभावस्य पर्यवसानात्, अधस्तरणादिभिश्{*४/५६०*} च पदैर् अभिधानात्. तस्माद् विवृद्धिर् इति.

NOTES:

  • {४/५६०: E२: अधस्तरणादेश्}*


____________________________________________


एकं वा तण्डुलभावाद् धन्तेस् तदर्थत्वात्//५.२.१५//

एकं वोलूखलं पर्यायेण स्यात्, एको ह्य् अधस्तरणादिस् तण्डुलपर्यन्तः पदार्थः, स्तरणादिर् हन्तेर् उपक्रमः फलीकरणान्तश् च तस्यैव शेषः{*४/५६१*}, यतो हन्तिस् तण्डुलनिष्पत्त्यर्थः. एवं स्तरणादीनां हन्तेश् च नादृष्टार्थता भविष्यति. तस्मात् तन्त्रम् इति.

NOTES:

  • {४/५६१: E१ (Fन्.): फलीकरणादयश् च तस्यैव विशेषाः}*


____________________________________________


विकारे त्व् अनुयाजानां पात्रभेदो ऽर्थभेदात् स्यात्//५.२.१६//

अस्ति ज्योतिष्टोमे पशुर् अग्नीषोमीयः, तत्र श्रूयते, पृषदाज्येनानुयाजान् यजतीति{*४/५६२*}. तत्र संदेहः, किं प्रयाजानुयाजानाम् एकं पात्रम् आज्यस्य पृषदाज्यस्य च धारणार्थम्, उत भिद्यते? किं प्राप्तम्? एकम् इति. कुतः? प्रकृताव् एकम्, प्रकृतिवद् इहाप्य् एकेन भवितव्यम्.
एवं प्राप्ते ब्रूमः, पात्रभेदः स्यात्. कुतः? अर्थभेदात्, शुद्धस्य प्रयाजा अर्थः, पृषतो ऽप्य् अनुयाजाः, पृषति गृह्यमाणे [५६४]{*४/५६३*} प्रयाजानां वैगुण्यम्, शुद्धे ऽनुयाजानाम्. न चैकस्मिन् पात्रे विविक्तं शक्यं कर्तुम्. मर्यादायाम् अपि क्रियमाणायां प्रदीयमानं संसृज्येत. अपि चाकारभेदाद् उपभृत उपभृत्त्वं विहन्येत. प्राणिमात्रपुष्करा{*४/५६४*} हि सा, एकपुष्करा च.
अथोच्येत, पृषदाज्यम् अप्य् आज्यम् एवेति न मिश्रत्वं दोषायेति. नैतद् एवम्, प्रकृताव् उत्पवनावेक्षणयोः प्रयोजनम् एतत्, यद् आज्यस्यापरेण द्रव्येणासंसर्गः. एवं चेद् अनुपपन्नम्, यत् प्रयाजा पृषदाज्येनेज्येरन्न् इति. अपि च, एवं सत्य् अवश्यं हविषः काचिन् मात्रापनीयते. न च शक्यम्, प्रयाजकार्ये ऽवसिते ऽनुयाजार्थं ग्रहीतुम्, प्रकृताव् एककालं ग्रहणम्. इहाप्य् एककालम् एव कर्तव्यम्. तस्मात् पात्रभेद इति.

NOTES:

  • {४/५६२: Tऐत्.S. ६.३.११.६}*
  • {४/५६३: E२: ५,१४०; E६: २,८३}*
  • {४/५६४: E२: पाणिमात्रपुष्करा}*


____________________________________________


प्रकृते पूर्वोक्तत्वाद् अपूर्वम् अन्ते स्यान् न ह्य् अचोदितस्य शेषाम्नानम्//५.२.१७//

अग्नौ{*४/५६५*} नक्षत्रेष्ट्यां{*४/५६६*} श्रूयते, अग्नये कृत्तिकाभ्यः पुरोडाशम् अष्टाकपालं निर्वपेद्{*४/५६७*}. सो ऽत्र जूहोति, अग्नये स्वाहा, कृत्तिकाभ्यः स्वाहेत्येवमादि{*४/५६८*} होमाः समाम्नाताः. सन्ति तु प्रकृतौ नारिष्टहोमाः. तत्र संदेहः, किं नारिष्टहोमाः पूर्वम्, उतोपहोमा इति संशये उच्यते, प्राकृतं पूर्वम्, वैकृतम् अन्ते स्याद् इति. कुतः? चोदितस्य परिपूर्णस्य शेष आम्नायते, यथा जातस्य पुत्रस्य क्रीडनकम्.

[५६५]{*४/५६९*}

NOTES:

  • {४/५६५: E२ ओम्. अग्नौ}*
  • {४/५६६: E२: नक्षत्रेष्टिः}*
  • {४/५६७: E२: निर्वपेद् इति}*
  • {४/५६८: Tऐत्.Bर्. ३.१.४.१}*
  • {४/५६९: E२: ५,१४२; E६: २,८३}*


____________________________________________


मुख्यानन्तर्यम् आत्रेयस् तेन तुल्यश्रुतित्वाद् अशब्दत्वात् प्राकृतानां व्यवायः स्यात्//५.२.१८//

आत्रेयो मन्यते स्म, मुख्यानन्तर्यं वैकृतस्य, पश्चात् तु प्राकृतं प्रयुज्येत. प्रधानानन्तरं वैकृतस्य पाठः प्रत्यक्षः, तस्मात् पूर्वम् उपहोमास् ततो नारिष्ठहोमा इति. प्राकृतानां व्यवायः स्यात्, यतस् ते न श्रूयन्ते.


____________________________________________


अन्ते तु बादरायणस् तेषां प्रधानशब्दत्वात्//५.२.१९//

बादरायणस् त्व् आचार्यो मन्यते स्म, अन्ते वैकृतानां प्रयोग इति. कुतः? प्रधानशब्दगृहीतत्वात्, प्राकृतानाम् अङ्गानाम् प्रधानशब्दगृहीतत्वम्, तत्प्रधानशब्दगृहीतानि हि प्राकृतान्य् अङ्गानि, तस्माच् च प्रधानशब्दात् परम् एतत्, सो ऽत्र जुहोत्य् अग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्येवमादि. तस्मात् प्रत्यक्षाद् एव क्रमान् नारिष्टहोमेभ्यः परां चोपहोमा इति.


____________________________________________


तया चान्यार्थदर्शनम्//५.२.२०//

अन्यार्थो ऽपि चैतम् अर्थं दर्शयति, अध्वरस्य पूर्वम् अथाग्नेर् उपप्रैत्य् एतत् कर्म, यद् अग्निकर्मेति. पश्चात् समाम्नातस्य पश्चात् प्रयोगं दर्शयति.


____________________________________________


कृतदेशात् तु पूर्वेषां स देशः स्यात् तेन प्रत्यक्षसंयोगान् न्यायमात्रम् इतरत्//५.२.२१//

राजसूये श्रूयते, अक्षैर् दीव्यति शौनःशेषम्{*४/५७०*} आख्यापयति, अभि[५६६]{*४/५७१*}षिच्यत इति. तत्र संदेहः, किं देवनादीनाम्{*४/५७२*} अन्ते प्रयोगः, उताभिषेकात् पूर्वम् इति. किं प्राप्तम्? अन्ते तु बादरायण इत्य् अन्ते प्रयोगः कर्तव्य इति. एवं प्राप्ते ब्रूमः, कृतदेशाद् अभिषेकात् पूर्वं तु प्रयोगः, कृतदेशो ह्य् अभिषेकः, माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत इति प्रत्यक्षानुग्रहायाभिषेकात् पूर्वं प्रयोक्तव्यम्. न्यायमात्रम् इतरत्, अन्ते तु बादरायण इति.

NOTES:

  • {४/५७०: E१: शौनःशेपम्; E६: शौनःशेफम्}*
  • {४/५७१: E२: ५,१४३; E६: २,८४}*
  • {४/५७२: E२: विदेवनादीनाम्}*


____________________________________________


प्राकृताच् च पुरस्ताद् यत्//५.२.२२//

अस्ति अग्निः, य एवं विद्वान् अग्निं चिनुत इति{*४/५७३*}. तत्र दीक्षणीयायाः पूर्वं सावित्रहोमाः, उखासंभरणम्, इष्टकाः पशुश् चेत्य् एतद् आम्नातम्. किं तद् एव पूर्वं कर्तव्यम्, उत दीक्षणीयेति. किं प्राप्तम्? वैकृतानाम् अन्ते प्रयोगः, अन्ते तु बादरायण इति. एवं प्राप्ते ब्रूमः, पूर्वं सावित्रहोमाः, इष्टकाः, पशुर् उखासंभरणं च. कुतः? प्रत्यक्षपाठात्, पुनस् तत्र दीक्षणीयाम्नाता, तस्याश् च पुरस्तात् सावित्रहोमाः, इष्टकाः पशुर् उखासंभरणं च. तस्मात् तेषां पूर्वं प्रयोग इति.

NOTES:

  • {४/५७३: Tऐत्.S. ५.५.२.१}*


____________________________________________


संनिपातश् चेद् यथोक्तम् अन्ते स्यात्//५.२.२३//

अग्नौ दीक्षणीयायाः परतो रुक्मप्रतिमोचनाद्य् आम्नातम्, [५६७]{*४/५७४*} तस्मिन्न् एव क्रमे चोदकेन दीक्षितसंस्काराः प्राप्ताः. तत्र संदेहः, किम् अनियमः, उत पूर्वं रुक्मप्रतिमोचनादि, उत दीक्षितसंस्कारा इति. किं प्राप्तम्? अनियमः. अथवा, यथा प्रत्यक्षपाठक्रमाद् दीक्षणीयायाः पुरत उखासंभरणादयः, एवं रुक्मप्रतिमोचनादीनीति.
एवं प्राप्ते ब्रूमः, दीक्षितसंस्काराः पूर्वं कर्तव्या इति. कुतः? दीक्षणीयां प्रति यः पाठक्रमः, यथा च चोदकः, तथोभये ऽपि परस्ताद् दीक्षणीयायाः कार्याः. यस् तेषां परस्परापेक्षः क्रमः, तत्र न कश्चिद् उखासंभरणस्येव प्रत्यक्षः पाठक्रमः पूर्वत्वं साधयति. अस्ति तु संस्कारणां प्रकृतौ पूर्वं पाठः, विकृतौ रुक्मप्रतिमोचनस्योत्तरः, तेन यथोक्त एव क्रमः स्यात्, अन्ते वैकृतम् इति. अथ किम् अर्थं संनिपात आशङ्क्यते? नन्व् अयं संनिपात एव व्यक्तः. असंदिग्धे संदिग्धवचनम् एतत्. यथा -

ईजाना बहुभिर् यज्ञैर् ब्राह्मणा वेदपारगाः/
शास्त्राणि चेत् प्रमाणं स्युः, प्राप्तास् ते परमां गतिम्// इति.

तस्मान् न दोष इति.

NOTES:

  • {४/५७४: E२: ५,१४४; E६: २,८४}*


____________________________________________




============================================================================


अध्यायः ५:

[५६८]{*५/१*}

NOTES:

  • {५/१: E२: ५,१४५; E६: २,८५}*


____________________________________________


विवृद्धिः कर्मभेदात् पृषदाज्यवत् तस्य तस्योपदिश्येत{*५/२*} // MS_५,३.१ //

अग्नीषोमीये पशौ श्रूयते{*५/३*}, एकादश प्रयाजान् यजति{*५/४*}, एकादशानुयाजान् यजतीति{*५/५*}. चातुर्मास्येषु, नव{*५/६*} प्रयाजान् यजति, नवानुयाजान् यजतीति{*५/७*}. अग्नौ श्रूयते, षड् उपसद इति{*५/८*}. तत्र संदेहः, किं प्रति प्रयाजम् एकादशसंख्या प्रत्य् अनुयाजं च, तथा चातुर्मास्येषु नवसंख्या, तथाग्नौ चोपसत्सु षट्संख्या, उत सर्वसंपाद्या संख्येति. किं प्राप्तम्? प्रतिप्रधानं संख्या भिद्यत इति. कुतः? भिन्नानि हि तानि कर्माणि, तानि च प्रधानानि प्रति, संख्या श्रूयते. प्रधानसंनिधौ च गुणः शिष्यमाणाः प्रतिधानं भिद्यते, यथा{*५/९*} पृषदाज्येनानुयाजान् यजतीति प्रत्यनुयाजं पृषत्ता गुणो भिद्यते, एवम् इहापीति.

NOTES:

  • {५/२: E२: तस्योपरिश्येत}*
  • {५/३: E२: श्रुवते}*
  • {५/४: Tऐत्.S. ६.३.७.५}*
  • {५/५: Tऐत्.S. ६.३.११.६}*
  • {५/६: E२: एव}*
  • {५/७: Tऐत्.S. १.६.३.३}*
  • {५/८: Tऐत्.S. ६.३.११.६}*
  • {५/९: E२: तथा}*


____________________________________________


अपि वा सर्वसंख्यत्वाद् विकारः प्रतीयेत // MS_५,३.२ //

सर्वसंपाद्या संख्या कल्प्येत. कुतः? पृथक्त्वनिवेशिनी हि संख्यासति पृथक्त्वे ऽभ्यासेन कल्प्येत, यावत्य् असंभवो भेदस्य, तावत्य् एवाभ्यस्येत{*५/१०*}, यावति संभवति, तावति पृथक्त्वनिवेश एव न्याय्यः, तस्मात् सर्वसंपाद्यैव संख्या. यत् तु, पृषदाज्यवद् इति, न, पृषत्ता एकस्य न संभवति, नासौ पृथक्त्वनिवेषिनी. न च, एकस्य क्रियमाणा सर्वेषां तन्त्रेणोपकरोतीति{*५/११*}. [५६९]{*५/१२*} तस्माद् अवश्यं भेत्तव्या, तन्त्रेण तूपकरोति संख्या. इतरापेक्षा हि सा भवति. एवं सति सहत्वस्य प्रापकः प्रयोगवचनो ऽनुग्रहीष्यत इति.

NOTES:

  • {५/१०: E२: एवाभ्यस्येन}*
  • {५/११: E२ ओम्. इति}*
  • {५/१२: E२: ५,१४६; E६: २,८६}*


____________________________________________


स्वस्थानात् तु विवृध्येरन्{*५/१३*} कृतानुपूर्व्यत्वात् // MS_५,३.३ //

उपसत्सु संदेहः. किम् आवृत्तिर् दण्डकलितवत्, उत स्वस्थानाद् विवर्धन्त इति. किं तावत् प्राप्तम्? आवर्तनीयानाम् अर्थानाम् एष धर्मः, यद् उत दण्डकलितवत्. यो ह्य् उच्यते, त्रिर् अनुवाकः पठ्यताम् इति, स आदित आरभ्य परिसमाप्य पुनर् आदित आरभ्यते, तस्माद् दण्डकलितवद् आवृत्तिः.
एवं प्राप्ते ब्रूमः, स्वस्थानाद् विवर्धितुम् अर्हति. कुतः? कृतानुपूर्व्यत्वात्, कृतम् आनुपूर्व्यम् उपसत्सु, प्रथमां कृत्वा मध्यमा कर्तव्या, तत उत्तमेति. तत्र यदि दण्डकलितवद् आवृत्तिः स्यात्, उत्तमां कृत्वा पुनराद्याया अभ्यासे क्रियमाणे ऽस्थाने सा विवृद्धिः कृता भवति. स्वस्थानविवृद्धौ नैष दोषः. तस्मात् स्वस्थाने विवृद्धिर् इति.

NOTES:

  • {५/१३: E२: निवृध्येरन्}*


____________________________________________


समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर् द्यावापृथिव्योर् अन्तराले समर्हणात् // MS_५,३.४ //

दर्शपूर्णमासयोः सामिधेन्यः सामिधेनीर् अन्वाहेति{*५/१४*}. [५७०]{*५/१५*} तत्र काम्याः सामिधेनीकल्पाः, एकविंशतिम् अनुब्रूयात् प्रतिष्ठाकामस्येत्य्{*५/१६*}एवमादयः, तत्रागमेन संख्या पूरणं वक्ष्यते{*५/१७*}. तत्र संदेहः, किम् आगन्तूनाम् अन्ते निवेशः, उत समिध्यमानवतीं{*५/१८*} समिद्धवतीं{*५/१९*} चान्तरेण निवेश इति. किं तावत् प्राप्तम्? अन्ते निवेशः, अन्ते तु बादरायणः{*५/२०*}, इत्य् अनेन न्यायेनेति. एवं प्राप्ते ब्रूमः, समिध्यमानवतीं समिद्धवतीं चान्तरेण निवेश इति. कुतः? द्यावापृथिव्योर् अन्तराले समर्हणात् संस्तवाद् इत्य् अर्थः{*५/२१*}. इयं वै समिध्यमानवती{*५/२२*}, असौ समिद्धवती{*५/२३*}, यद् अन्तरा, तद् धाय्या, इत्य् अन्तरिक्षसंस्तुते{*५/२४*} ऽस्मिन्न्{*५/२५*} अन्तराले विधीयन्ते. तस्मान् नान्ते स्युर् इति.

NOTES:

  • {५/१४: Tऐत्.S. २.५.८.२}*
  • {५/१५: E२: ५,१४७; E६: २,८६}*
  • {५/१६: Tऐत्.S. २.५.१०.२}*
  • {५/१७: Vग्ल्. zउ MS १०.५.२६}*
  • {५/१८: Vग्ल्. ṚV ३.२७.४}*
  • {५/१९: Vग्ल्. ṚV ५.२८.५}*
  • {५/२०: Vग्ल्. MS ५.२.१९}*
  • {५/२१: E१ गिब्त् संस्तवाद् इत्य् अर्थः इन् Kलम्मेर्न्}*
  • {५/२२: E२: समिध्यमानवती द्यौः}*
  • {५/२३: E२: समिद्धवती पृथिवी}*
  • {५/२४: E२: अन्तरिक्षसंस्तुत्या}*
  • {५/२५: E२: तस्मिन्}*


____________________________________________


तच्छब्दो वा // MS_५,३.५ //

अथ वा या धाय्याशब्दिकाः, तास् तत्र भवितुम् अर्हन्ति. तेन हि शब्देन तत्र संस्तवः, संस्तवाच् च विधानम्, यथा, पृथुपाजवत्यौ{*५/२६*} धाय्ये, उष्णिक्ककुभौ ध्याय्ये इति. काः पुनर् एता धाय्या इति{*५/२७*} नाम? नास्य शब्दस्य प्रसिद्धिम् उपलभामहे. उच्यते, सामिधेन्यो ध्याय्याः. कुतः? एवं हि भगवतः पाणिनेर् वचनम् - पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीष्व्{*५/२८*} इति, अस्माद् वचनाच् छ्रुतिम् अनुमिमीमहे. कतमासु सामिधेनीष्व् इति. उच्यते, अविशेषात् सर्वास्वति गम्यते. इह तु समिध्यमानवतीं समिद्धवतीं चान्तरेण ध्याय्याः स्युर् इति. सर्वासु सामिधेनीषु सतीसु ध्याय्यावचनाद् विशिष्टानां सामिधेनीनां धाय्याशब्द इति गम्यते.
ननु पाणिनिवचनाद् विशेषेण सर्वा धाय्याः. नेत्य् आह, विशिष्टास्व् अपि वचनम् उपपद्यत एव. यदि विशिष्टाः, ततः [५७१]{*५/२९*} का इति. उच्यते, यासु धाय्याशब्दः श्रूयते, तास् तावद् धाय्याः. तासु च धाय्यासु सतीषु वचनम् अर्थवद् भवति. अर्थवति च सति वचने नान्या धाय्याः, प्रमाणाभावाद् इति.

NOTES:

  • {५/२६: Vग्ल्. ṚV ३.२७.५-६}*
  • {५/२७: E२ ओम्. इति}*
  • {५/२८: Vग्ल्. Pआण्. ३.१.२९}*
  • {५/२९: E२: ५,१४८; E६: २,८७}*


____________________________________________


उष्णिक्ककुभोर् अन्ते दर्शनात् // MS_५,३.६ //

उष्णिक्ककुभोः च अन्ते प्रयोगो दृश्यते, यज् जगत्या परिदध्याद् अन्तं{*५/३०*} यज्ञं गच्छेत्, अथ यत् त्रिष्टुभा परिदधाति नान्तं गच्छतीति. ननु त्रिष्टुब् अत्रान्ते दृश्यते, नोष्णिक्ककुभाव् इति. उच्यते, त्रिष्टुभम् एवायम् उष्णिक्ककुमाव् इति ब्रूते. कथम्? त्रिष्टुभो वीर्यम् इत्य् एवं अन्ते{*५/३१*} संस्तुतेः, त्रिष्टुभो वा एतद् वीर्यं यद् उष्णिक्ककुभाव् इति कारणे कार्यवद् उपचारः कृतः//

NOTES:

  • {५/३०: E२ ओम्. उष्णिक्ककुभोः च अन्ते प्रयोगो दृश्यतेम् यज् जगत्या परिदध्याद् अन्तं}*
  • {५/३१: E२ ओम्. अन्ते}*


____________________________________________


स्तोमविवृद्धौ बहिष्पवमाने पुरस्तात् पर्यासाद् आगन्तवः स्युस् तथा हि इष्टं द्वादशाहे // MS_५,३.७ //

सन्ति विवृद्धस्तोमकाः क्रतवः, एकविंशेनातिरात्रेण प्रजाकामं याजयेयुस्{*५/३२*} त्रिणवेनौजस्कामं त्रयस्त्रिंशेन प्रतिष्ठाकामम् इति{*५/३३*}. तत्रागमेन संख्या पूरणं वक्ष्यते{*५/३४*}. अथ बहिष्पवमाने वैकृतेष्व् आनीयमानेषु भवति संशयः. किं वैकृतानाम् अन्ते निवेशः, उत प्राक् पर्यासाद् इति. किं प्राप्तम्? पुरस्तात् पर्यासाद् आगन्तवः स्युः. तथा हि दृष्टं द्वादशाहे, स्तोत्रीयानुरूपौ तृचौ भवतः, वृषण्वन्तस्तृचा भवन्ति. तृच उत्तमः पर्यास इति, इहापि प्राक् पर्यासाद् आगन्तुभिर् भवितव्यम्.

[५७२]{*५/३५*}

NOTES:

  • {५/३२: E२: यजयेत्}*
  • {५/३३: Tऐत्.Bर्. २.२.४.७}*
  • {५/३४: Vग्ल्. MS १०.५.२६}*
  • {५/३५: E२: ५,१४९; E६: २,८८}*


____________________________________________


पर्यास इति चान्ताख्या // MS_५,३.८ //

प्रयासशब्दश् चान्तवचनो लोके दृश्यते, यथा, क्षेत्रपर्यासः, नदीपर्यास इति. एवं पर्यासो ऽन्ते कृतो भविष्यति.


____________________________________________


अन्ते वा तद् उक्तम् // MS_५,३.९ //

अन्ते वैवंजातीयकं वैकृतं स्यात्. उक्तम्, अन्ते तु बादरायण इति{*५/३६*}.

NOTES:

  • {५/३६: Vग्ल्. MS ५.२.१९}*


____________________________________________


वचनात् तु द्वादशाहे // MS_५,३.१० //

अथ यद् उक्तम्{*५/३७*}, तथा हि दृष्टं{*५/३८*} द्वादशाह इति, तत् परिहर्तव्यम्. अत्रोच्यते, वचनाद् द्वादशाहे भवति, स्तोत्रीयानुरूपौ तृचौ भवतः वृषण्वन्तस् तृचा भवन्ति, तृच उत्तमः पर्यास इति. न हि वचनस्यातिभारो ऽस्ति.

NOTES:

  • {५/३७: Vग्ल्. zउ MS ५.३.७}*
  • {५/३८: E२: हीष्टं}*


____________________________________________


अतद्विकारश् च // MS_५,३.११ //

न चायं तद्विकारः, यत् ततो धर्मान् गृहणीयाद् इति.


____________________________________________


तद्विकारे ऽप्य् अपूर्वत्वात् // MS_५,३.१२ //

यो ऽपि तद्विकारः, तत्राप्य् अन्त एव निवेशः. कुतः? अपूर्वात्, वृषण्वतां तृचानाम्, वृषण्वन्त{*५/३९*} एव प्राक्पर्यासात्, यावद् वचनं वाचनिकम्, न सदृशम् उपसंक्रामति.

NOTES:

  • {५/३९: E२: वृषण्वन्ताव्}*


____________________________________________


अन्ते तूत्तरयोर् दध्यात् // MS_५,३.१३ //

इहापि विवृद्धस्तोमकाः क्रतव उदाहरणम्. तत्रोत्तरयोः [५७३]{*५/४०*} पवमानयोः साम्नाम् आगम इति वक्ष्यते{*५/४१*}. तत्रागम्यमानेषु सामसु संदेहः, किं तेषाम् अन्ते निवेशः, उत गायत्रीबृहत्यनुष्टुप्स्व् इति. किं प्राप्तम्? अन्त उत्तरयोर् दध्यात्. उक्तो ऽत्र न्यायः, अन्ते बादरायण इति{*५/४२*}. तस्माद् अन्ते निवेश इति.

NOTES:

  • {५/४०: E२: ५,१५०; E६: २,८८}*
  • {५/४१: Vग्ल्. अध्याय १०}*
  • {५/४२: Vग्ल्. zउ MS ५.२.१९}*


____________________________________________


अपि वा गायत्रीबृहत्यनुषुप्सु वचनात् // MS_५,३.१४ //

गायत्रीबृहत्यनुष्टूप्सु निवेशः. कस्मात्? वचनात्, त्रीणि ह वै यज्ञस्योदराणि गायत्रीबृहत्यनुष्टुब् इति. अत्र ह्य् एवावपन्ति, अत एवोद्वपन्तीति वचनेनास्त्य् उपालम्भः. तस्मान् नैषाम् अन्ते निवेश इति.


____________________________________________


ग्रहेष्टकम् औपानुवाक्यं सवनचितिशेषः स्यात् // MS_५,३.१५ //

औपानुवाक्ये काण्डे ग्रहा इष्टकाश् च समाम्नाताः, एष वै हविषा हविर् यजते, यो दाभ्यं{*५/४३*} गृहीत्वा सोमाय यजत इति{*५/४४*}. तथा, परा वा एतस्यायुः प्राण एति यो ऽशुं गृह्णातीति. तथेष्टकाश् चित्रिणीर् उपदधाति, वज्रिणीर् उपदधाति{*५/४५*}, भूतेष्टका उपदधातीति{*५/४६*}. तत्र संदेहः, किं ग्रहेष्टकमौपानुवाक्यं सवनशेषश् चितिशेषश् च. अथ किं क्रतुशेषो ऽग्निशेषश् चेति. [५७४]{*५/४७*} किं प्राप्तम्? सवनचितिशेषः. कुतः? ग्रहैः सवनान्य् आरभ्यन्ते, इष्टकाभिश् चितयः, यच् च येनारभ्यते तत् तद् अङ्गम्.

NOTES:

  • {५/४३: E२: ऽदाभ्यम्}*
  • {५/४४: Tऐत्.S. ३.३.४.३}*
  • {५/४५: Tऐत्.S. ५.७.३.१}*
  • {५/४६: Tऐत्.S. ५.६.३.१}*
  • {५/४७: E२: ५,१५१; E६: २,८९}*


____________________________________________


क्रत्वग्निशेषो वा चोदितत्वाद् अचोदनानुपूर्वस्य // MS_५,३.१६ //

क्रत्वग्निशेषः स्यात्. कुतः? चोदितत्वात्, अग्निश् चेतव्यः श्रूयते, य एवं{*५/४८*} विद्वान् अग्निं चिनुत इति{*५/४९*}. न चितिश् चेतव्या, इष्टकाचयनेनाग्निश् चेतव्यः श्रूयते, अग्निम् इति द्वितीयानिर्देशात्. तथा, यो दाभ्यं{*५/५०*} गृहीत्वा सोमाय यजत इत्य् अदाभ्यस्य यजतिना संबन्धः, तथांशोः. तस्मात् सकृद् यागसंबन्धं कृत्वा कृतार्थः शब्दो भवति, श्रुतं संबन्धम् अभिनिर्वर्त्य. तथा सकृद् अग्निसंबन्धं कृत्वा कृती मन्येत, अचोदना चितिसवनयोः, न हि ते कर्तव्यतया चोद्येते, परार्थं हि तयोः श्रवणम्. किं प्रयोजनम्? सवनचितिशेषत्वे, प्रतिसवनं ग्रहणम्, प्रतिचिति चेष्टकोपधानम्. क्रत्वग्निशेषत्वे सकृद् ग्रहणोपधाने.

NOTES:

  • {५/४८: E२: य च एवं}*
  • {५/४९: Tऐत्.S. ५.५.२.१}*
  • {५/५०: E२: ऽदाभ्यं}*


____________________________________________


अन्ते स्युर् अव्यवायात् // MS_५,३.१७ //

औपानुवाक्ये श्रूयते, चित्रिणीर् उपदधाति, वज्रिणीर् उपदधातीति{*५/५१*}. तत्र संदेहः, किम् एताः पञ्चभ्यां चिताव् उपधेयाः, उत मध्यमायाम् इति. किं प्राप्तम्? पञ्चभ्याम् एवेष्टकाः कृतक्रमाः, अन्या नैताभिर् व्यवेष्यन्ते.

NOTES:

  • {५/५१: Tऐत्.S. ५.७.३.१}*


____________________________________________


लिङ्गदर्शनाच् च // MS_५,३.१८ //

आवपनं वोत्तमा चितिः. अन्या इष्टका उपदधातीति.

[५७५]{*५/५२*}

NOTES:

  • {५/५२: E२: ५,१५२; E६: २,९०}*


____________________________________________


मध्यमायां तु वचनाद् ब्राह्मणवत्यः // MS_५,३.१९ //

नैवैतान्त्यायां चितौ. कस्यां तर्हि? मध्यमायाम्. कुतः? ब्राह्मणवत्य एता इष्टकाः, तासां मध्यमा चितिर् आम्नायते. यां वै कांचिद् ब्राह्मणवतीम् इष्टकाम् अभिजानीयात्, तां मध्यमायां चिताव् उपदध्याद् इति. ननु सर्वा एवेष्टका ब्राह्मणवत्यः. नेत्य् आह, अपरा लिङ्गक्रमात् समाख्यानाच् च. तस्माद् एता नान्ते स्युर् इति.


____________________________________________


प्राग् लोकंपृणायास् तस्याः संपूरणार्थत्वात् // MS_५,३.२० //

औपानुवाक्ये काण्ड इष्टकाः समाम्नाताः, वज्रिणीर् उपदधाति, चित्रिणीर् उपदधाति{*५/५३*}, भूतेष्टका उपदधातीति{*५/५४*}. तत्रेदं समधिगतम्, मध्यमायां चिताव् उपधेया इति. तत्र संदेहः, किं प्राग् लोकांपृणायाः, उत पश्चाद् इति{*५/५५*}. किं प्राप्तम्? अन्ते तु बादरायण इति{*५/५६*}. एवं प्राप्ते, उच्यते, प्राग् लोकंपृणायाः तस्याः संपूरणार्थत्वात्, संपूरणार्थता तस्याः श्रूयते, यद् एवास्योनम्, यच् छिद्रम्, तद् अनया{*५/५७*} पूरयति, लोकं पृण, छिद्रं पृण इति{*५/५८*}. अपूर्वत्वाच् वार्थस्य{*५/५९*}, विधिर् एवायं संस्तवेनेति{*५/६०*} गम्यते. तस्मात् प्राग् लोकंपृणायाः स्यात्.

[५७६]{*५/६१*}

NOTES:

  • {५/५३: Tऐत्.S. ५.७.३.१}*
  • {५/५४: Tऐत्.S. ५.६.३.१}*
  • {५/५५: Vग्ल्. Tऐत्.S. ४.२.४.४}*
  • {५/५६: Vग्ल्. zउ MS ५.२.१९}*
  • {५/५७: E२: तद् एतया}*
  • {५/५८: Tऐत्.S. ४.२.४.४}*
  • {५/५९: E२: चार्थस्य}*
  • {५/६०: E२: संस्तवो नेति}*
  • {५/६१: E२: ५,१५२; E६: २,९०}*


____________________________________________


संस्कृते कर्म संस्काराणां तदर्थत्वात् // MS_५,३.२१ //

आधाने सन्ति पवमानेष्टयः. सन्ति च नियतानि कर्माणि, अग्निहोत्रादीनि. अनियतानि चैन्द्राग्नादीनि. तत्र संदेहः, किं पवमानेष्टीः कृत्वा कर्माणि प्रतिपत्तव्यानि, उताहितमात्रेष्व् अग्निष्व् इति. किं प्राप्तम्? आहितपात्रेष्व् इति. कुतः? आहितमात्रेष्व् असाव् अग्निषु कर्माणि कर्तुं समर्थो भवति, यथा, आहिताग्निर् न क्लिन्नं दार्वा दध्याद् इति. दर्शयति{*५/६२*} च, अग्निं वै सृष्टम् अग्निहोत्रेणानुद्रवन्तीत्य् आहितमात्रेष्व् अग्निहोत्रं दर्शयति. तस्मान् न पवमानेष्टयः प्रतीक्षितव्या इति.
एवं प्राप्ते ब्रूमः, पवमानेष्टिभिः संस्कृतेष्व् अग्निषु कर्माणि वर्तेरन्. कुतः? संस्काराणां तदर्थत्वात्, संस्कारशब्दा एत आहवनीयादयः, संस्कारस्य कस्यचिद् अभावेन, आहवनीयादिषु प्रतिपत्तिः स्यात्. तस्मात् संस्कृतेष्व् अग्निषु कर्माणीति.

NOTES:

  • {५/६२: E२: क्लिन्नं दार्वभ्यादध्याद् इत्येवमादीन्य् आहिताग्निव्रताभ्याहितमात्रेष्व् एव भवन्तीति दर्शयति}*


____________________________________________


अनन्तरं व्रतं तद्भूतत्वात् // MS_५,३.२२ //

यत् तु, आहिताग्निर् न क्लिन्नं दार्वा दध्याद्{*५/६३*}इत्येवमादि. युक्तम्{*५/६४*}, यद् आहितमात्रेषु क्रियते, आहिताग्नेस् तद्व्रतम् उच्यते. स च, आहितमात्रेष्व् आहिताग्निः संवृत्तः. तस्माद् अनन्तरं व्रतं स्यात्, तद्भूतत्वात्.

NOTES:

  • {५/६३: E२: दार्वभ्यादध्याद्}*
  • {५/६४: E२: युक्तं तत्र}*


____________________________________________


पूर्वं च लिङ्गदर्शनात् // MS_५,३.२३ //

अथ यद् उक्तम्, आहितमात्रेष्व् अग्निहोत्रं{*५/६५*} दर्शयति, पूर्वम् इष्टिभ्य इति, तस्य कः परिहार इत्य् आभाषान्तं सूत्रम्.

[५७७]{*५/६६*}

NOTES:

  • {५/६५: E२: अग्निहोत्रे}*
  • {५/६६: E२: ५,१५४; E६: २,९१}*


____________________________________________


अर्थवादो वार्थस्य विद्यमानत्वात् // MS_५,३.२४ //

अर्थवाद एषः. कुतः? अर्थस्य विद्यमानत्वात्. विद्यमानो हि तत्रान्य एवाग्निहोत्रहोमः. कथं होतव्यम् अग्निहोत्रं न होतव्यम् इति मीमांसन्ते ब्रह्मवादिनः. यद् यजुषा जुहुयाद् अयथापूर्वम् आहुती जुहुयात्, यदि न जुहुयाद् अग्निः परापतेत्. तूष्णीम् एव होतव्यम् इति. तस्य तूष्णीं होमस्य प्रशंसार्थो ऽयम् अर्थवादः.


____________________________________________


न्यायविप्रतिषेधाच् च // MS_५,३.२५ //

न्यायविप्रतिषेधश् च भवेत्. यद्य् अनन्तरम् अग्निहोत्रादयः स्युः, यः पूर्वोक्तो न्यायः{*५/६७*}, स विप्रतिषिध्येत, न वा तासां तदर्थत्वाद् इति. तस्मात् संस्कृते कर्माणि भवेयुर् इति.

NOTES:

  • {५/६७: Vग्ल्. zउ MS ३.६.१२}*


____________________________________________


संचिते त्व् अग्निचिद् युक्तं प्रापणान् निमित्तस्य // MS_५,३.२६ //

अग्निचिद् वर्षति न धावेत्, न स्त्रियम् उपेयात्, तस्माद् अग्निचिता पक्षिणो नाशितव्या इत्येवमादयः पदार्थाः श्रूयन्ते. तेषु संदेहः, किं संचितमात्रे प्रतिपत्तव्या उत क्रत्वन्त इति. किं प्राप्तम्? संचितमात्र एवेति. अग्निं यश् चितवान् सो ऽग्निचिद् इति तस्य श्रूयमाणाश् चितवतो ऽनन्तरम् एव प्राप्नुवन्ति, प्राप्ते निमित्ते नैमित्तिकं कर्तव्यम्. तस्माद् अनन्तरम् एव.

[५७८]{*५/६८*}

NOTES:

  • {५/६८: E२: ५,१५५; E६: २,९२}*


____________________________________________


क्रत्वन्ते वा प्रयोगवचनाभावात् // MS_५,३.२७ //

प्रयोगवचनो ह्य् अत्र तान् पदार्थान् प्रापयति, येषां क्रत्वर्थत्वम्. न चैषां क्रत्वर्थत्वम् अस्ति, पुरुषार्था ह्य् एते. कथम्? प्रतिषेधे पुरुषः श्रूयते, वर्षति न धावेत्, न स्त्रियम् उपेयाद् इत्येवमादि. न च क्रत्वर्था एते प्रसक्ताः, येन प्रतिषेधः क्रतोर् उपकुर्यात्.

ननु पुरुषार्था अपि चितवतः श्रवणाच् चयनानन्तरं प्राप्ताः. नेति ब्रूमः,

____________________________________________


अग्नेः कर्मत्वानिर्देशात्{*५/६९*} // MS_५,३.२८ //

अग्न्यर्थं चयनं तत्, यद् अग्नेः स्वं कार्यं कुर्वतः साहाय्ये वर्तते, तत् तदर्थम्. कश् च तस्य स्वार्थः? यागासिद्धिः, सिद्धे च यागे चयनेनोपकृतं भवति. तस्मात् सिद्धे यागे ऽग्निचित्, तेन क्रत्वन्त इति.

NOTES:

  • {५/६९: E२: कर्मत्वानिर्देशात्}*


____________________________________________


परेणावेदनाद् दीक्षितः स्यात् सर्वैर् दीक्षाभिसंबन्धात् // MS_५,३.२९ //

ज्योतिष्टोमे श्रूयते, आग्नावैष्णवम् एकादशकपालं निर्वपेद् दीक्षिष्यमाण इति{*५/७०*}. तथा, दण्डेन दीक्षयति{*५/७१*}, मेखलया दीक्षयति, कृष्णाजिनेन दीक्षयतीत्य्{*५/७२*}एवमादि. तत्र संदेहः, किं सर्वैर् दीक्षितो भवति, अथ वेष्ट्यन्ते दीक्षित इति. किं तावत् प्राप्तम्? सर्वैर् इति. कुतः? दीक्षाभिसंबन्धात्, दीक्षासंबन्धो भवति, दण्डेन दीक्षयति, दीक्षाम् अस्य करोतीत्य् अर्थः{*५/७३*}. यदीष्ट्यन्ते दीक्षितः स्यात्, [५७९]{*५/७४*} कथम् अस्य दण्डेन दीक्षां कुर्यात्. तेनेष्ट्या न दीक्षितः. न च, अस्येष्ट्यन्ते दीक्षितशब्दं पश्यामः, आवेदने त्व् अस्य दीक्षितशब्दः, तस्मान् न तावति दीक्षितः स्यात्. न च संभवति सम्-उच्चये विकल्पो न्याय्यः, पक्षे बाधः स्यात्. तत्र प्रयोगवचनो बाध्येत. तस्माद् भिन्नेष्व् अपि दीक्षासंबन्धवाक्येषु प्रयोगवचनेन सहैकवाक्यतेत्य् आवेदनकाले दीक्षितः स्यात्.

NOTES:

  • {५/७०: Tऐत्.S. ५.५.१.४}*
  • {५/७१: Tऐत्.S. ६.१.३.५}*
  • {५/७२: Tऐत्.S. ६.१.३.२}*
  • {५/७३: E१ गिब्त् दीक्षाम् अस्य करोतीत्य् अर्थः इन् Kलम्मेर्न्}*
  • {५/७४: E२: ५,१५६; E६: २,९२}*


____________________________________________


इष्ट्यन्ते वा तदर्था ह्य् अविशेषार्थसंबन्धात् // MS_५,३.३० //

इष्ट्यन्ते वा दीक्षितः स्यात्, तदर्था हि सा दीक्षणार्था{*५/७५*}. कथम्? दीक्षिष्यमाणस्य अदीक्षितस्य सा भवति, यदि तस्या उत्तरकाले दीक्षितः, एवं सा दीक्षिष्यमाणस्य. तस्माद् वाक्याद् अवगम्यते, भवति तदा दीक्षित इति, दीक्षाकारणे पदार्थे निर्वृत्ते किम् इति न दीक्षितः स्यात्? वाक्यं हि निरपेक्षं दीक्षित इति ज्ञापयति.
यत् तु, दीक्षासंबन्धो दण्डेन दीक्षयतीति. कथं स दीक्षितत्वे स्याद् इति दण्डेनैवं दीक्षितं संपादयतीत्य्{*५/७६*} अवगच्छामः. यत् तु, अनन्तरं दीक्षितशब्दो नास्तीति. न शब्दस्याप्रयोगो ऽर्थाभावे हेतुः. सत्य् अप्य् अर्थे तदवसराभावान् न प्रयुज्यते शब्दः. अन्येन च दीक्षित इत्य् अवगम्यते वाक्येन, आग्नावैष्णवम् एकादशकपालं निर्वपेद् दीक्ष्यमाण इति. यच् च, आवेदनकाले दीक्षितशब्द इति. इष्ट्यन्ते ऽपि दीक्षितस्यासाव् अविरुद्धः, प्रयोगवचनश् चाविरुद्धः, यत एकं दीक्षाकारणम्, अन्यैर् दीक्षितं संपादयतीति गम्यते.

[५८०]{*५/७७*}

NOTES:

  • {५/७५: E१ गिब्त् दीक्षणार्था इन् Kलम्मेर्न्}*
  • {५/७६: E२: दण्डेनैनं दीक्षितं संपादयतीत्य्}*
  • {५/७७: E२: ५,१५७; E६: २,९३}*


____________________________________________


समाख्यानं च तद्वत् // MS_५,३.३१ //

इतश् च पश्यामः, इष्टदीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिर् इति. कस्मात्? समाख्यानं च तद्वद् इति यद्वन् न्याय उपदिष्टः. कथम्? दीक्षणीयेति तादर्थ्यकरी समाख्या भवति, यथा स्नानीयं भोजनीयं चेति. तस्माच् च पश्यामः, इष्टिर् दीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिर् इति.


____________________________________________


अङ्गवत् क्रतूनाम् आनुपूर्व्यम् // MS_५,३.३२ //

इह काम्या इष्टय उदाहरणम्. ऐन्द्राग्नम् एकादशकपालं निर्वपेद्{*५/७८*} इत्येवमादयः, गवादयः, सोमाः, सौम्यादयः, पशवः. तत्र संदेहः, किं येन क्रमेणाधीताः, तेनैव क्रमेण प्रयोक्तव्याः, उतानियम इति. किं तावत् प्राप्तम्? क्रतूनाम् आनुपूर्व्यं यत् पाठे, तद् एव प्रयोगे भवितुम् अर्हति. एवं पाठक्रमो ऽनुगृहीतो भविष्यति, इतरथा पाठक्रमो बाध्येत, तन् मा भूद् इति क्रमेणानुष्ठातव्यम्.

NOTES:

  • {५/७८: Tऐत्.S. २.२.१.१}*


____________________________________________


न वासंबन्धात् // MS_५,३.३३ //

न वा, अयं{*५/७९*} क्रमो नियम्येत. कुतः? असंबन्धात्. पृथक् पृथग् एषां कर्मणां प्रयोगवचनानि, तानि स्वपदार्थानाम् उपसंहारकाणि. यो यस्य नोपकारकः, स तस्य न क्रमेण, नोत्क्रमण. यो यस्योपकरोति कस्यचित्, तस्योपकुर्वतः क्रमः साहाय्ये वर्तते. न चैतानि कर्माण्य् अन्योन्यस्योपकुर्वन्ति. तस्मान् नैषां क्रमः साहाय्ये वर्तते. तस्माद् असंबन्ध इति.

[५८१]{*५/८०*}

NOTES:

  • {५/७९: E२: न चायं}*
  • {५/८०: E२: ५,१५८; E६: २,९४}*


____________________________________________


काम्यत्वाच् च // MS_५,३.३४ //

काम्यानि चैतानि कर्माणि, कामाश् च क्रमेणोत्पद्यन्ते, तेन निमित्तस्याक्रमत्वान् न क्रमवन्त इति.


____________________________________________


आनर्थक्यान् नेति चेत् // MS_५,३.३५ //

इति यद् उक्तं पूर्वपक्षे, तद् एव पुनर् उच्यते परिहर्तुम्. एवं क्रमेण पाठो ऽर्थवान् भविष्यतीति. एतद् आभाषान्तं सूत्रम्.


____________________________________________


स्याद् विद्यार्थत्वाद् यथा परेषु सर्वस्वारात् // MS_५,३.३६ //

स्याद् अर्थवान् क्रमपाठः, असत्य् अपि प्रयोगे क्रमे, विद्याग्रहणार्थत्वात्, कर्मावबोधनार्थायां विद्यायां क्रमनियमादृष्टं तदाश्रयम् एव भविष्यतीति, यथा, त्वत्पक्षे, परेषु सर्वस्वारात्, यस्यापि क्रमो ऽङ्गम् इति पक्षः, तस्यापि सर्वस्वारात् परेषां सर्वस्वारेण यः क्रमस् तस्यादृष्टार्थतावश्यं कल्पनीया.


____________________________________________


य एतेनेत्य् अग्निष्टोमः प्रकरणात् // MS_५,३.३७ //

ज्योतिष्टोमे श्रूयते, एष वाव प्रथमो यज्ञानां{*५/८१*} यज् ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यम् एव तज् जायते प्र वा मीयत इति. तत्र संदेहः, य एतेनेति कस्य [५८२] अयं वाद इति प्रश्नेनैवोपक्रमः. उच्यते, य एतेनेत्य् अग्निष्टोमस्य वादः. कुतः? प्रकरणात्, तस्य हि प्रकरणे भवत्य् एतद् वचनम्. प्रकृतवाचीनि च सर्वनामानि भवन्ति.

NOTES:

  • {५/८१: E२: यज्ञो यज्ञानां}*


____________________________________________


लिङ्गाच् च // MS_५,३.३८ //

लिङ्गम् अपि भवति, तत्र श्रूयते, यस्य{*५/८२*} नवतिशतं स्तोत्रीया{*५/८३*} इति, अग्निष्टोमस्य हि भवन्ति नवतिशतं स्तोत्रीयाः. कथम्? त्रिवृद् बहिष्पवमानम्, पञ्चदशान्य् आज्यानि, तानि चत्वारि. सा एकोनसप्ततिः. पञ्चदशो माध्यंदिनः पवमानः, तेन चतुरशीतिः. सप्तदशानि पृष्ठानि, तानि चत्वारि साष्टषष्टिः, चतुरशीत्या सह द्विपञ्चाशच् छतम्. सप्तदश आर्भवः पवमानः, तेन षष्ट्यधिकं शतं नव च. एकविंशं यज्ञायज्ञीयम् इति तद् एतन् नवतिशतम् अग्निष्टोमस्य, तस्माद् अप्य् अग्निष्टोमः.

NOTES:

  • {५/८२: E२: तस्य}*
  • {५/८३: Aइत्.Bर्. ३.४१}*


____________________________________________


अथान्येनेति संस्थानां संनिधानात् // MS_५,३.३९ //

अथान्येनेति किं संस्थानां वादः, अथ ज्योतिष्टोमविकाराणाम् एवैकाहादीनाम् इति. किं तावत् प्राप्तम्? संस्थानाम् इति. कुतः? संनिधानात्, संनिहितास् तस्मिन् प्रकरणे संस्थाः, तासां वादः प्रकरणानुग्रहाय.


____________________________________________


तत्प्रकृतेर् वापत्तिविहारौ हि न तुल्येषूपपद्येते // MS_५,३.४० //

तत्प्रकृतेर् वा गवादेर् वादः स्यात्, आपत्तिविहारौ हि प्रकृतिविकारमात्रेषूपपद्येते, न तुल्यशब्देष्व् एव ज्योतिष्टोम[५८३]{*५/८४*}शब्दकेषु. नैवम् अभिसंबन्धः क्रियते, अथान्येन ज्योतिष्टोमशब्दकेनेति. कथं तर्हि? अन्येनेति प्रकृताद् इतरद् ब्रवीति, न, स ज्योतिष्टोमेन विशिष्यते, न हि शब्दस्यार्थः समीपगतेन कृतप्रयोजनेनैकदेशे ऽवस्थापयितव्यो भवति, न हि वाक्येन श्रुतिर् बाध्यते. अथ, ज्योतिष्टोमाद् अन्येनेत्य् अभिसंबध्यते, ततो नतरां संस्थावादः. कथं पुनर् आपत्तिविहारौ? प्रजापतिर् वाग्निष्टोमः, स उत्तरान् एकाहान् असृजत ते सृष्ट्वा अब्रुवन्{*५/८५*}, न वै स्वेनात्मना प्रभवाम इति. तेभ्यः स्वातन्त्र्यं प्रायच्छत्, तथा च ते प्राभवन् तद्, यथा वा इदम् अग्नेर् जाताद् अध्यग्नयो{*५/८६*} विह्रियन्ते. एवं वा, एतस्माद् यज्ञाद् अन्ये यज्ञक्रतवो विह्रियन्ते, यो वै त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते, स तं दीपयति, यः पञ्चदशम्, स तम्, यः सप्तदशम्, स तम्, य एकविंशम्, स तम् इत्येवम् आहुर् एको यज्ञ इति. एते वै सर्वे ज्योतिष्टोमाः भवन्तीति. एवं वैकृतानां संकीर्तनात्, तेषाम् एव वाद इति गम्यते. कथम्? अथान्येनेति, यो ऽसाव् अन्यः, तत्र प्राकृतान् धर्मान् विहृतान् दर्शयति, अतो मन्यामहे, यस्य यतो विहृतिः, तेनान्येनेति.

NOTES:

  • {५/८४: E२: ५,१६०; E६: २,९५}*
  • {५/८५: E२: ते सृष्टास् तम् अब्रुवन्}*
  • {५/८६: E२: अन्ये ऽग्नयो}*


____________________________________________


प्रशंसा वा विहरणाभावात् // MS_५,३.४१ //

यद्य् एवं न तर्हि तद्विकाराणां वादः, तत्र न विहारो नापत्तिः प्रकरणादिभिः, ते धर्मा ज्योतिष्टोमस्य, यदि हि{*५/८७*} गवादयो{*५/८८*} विह्रियेरन् प्रकरणादीनि बाध्येरन्. तदापत्तिः प्रत्यक्षविरुद्धा, प्रशंसा त्व् एषा, आपत्तिविहाराभावात्.

[५८४]{*५/८९*}

NOTES:

  • {५/८७: E२: ते}*
  • {५/८८: E२: गवादिषु}*
  • {५/८९: E२: ५,१६१; E६: २,९५}*


____________________________________________


विधिप्रत्ययाद् वा न ह्य् अकस्मात् प्रशंसा स्यात् // MS_५,३.४२ //

अत्रोच्यते, यद्य् अप्य् आपत्तिविहारौ न विधीयेते, ते{*५/९०*} तथापि चोदकेन विधीयेते. ये प्रकृतौ कर्तव्याः, ते चोदकवचनाद् विकृताव् अपि कर्तव्या गम्यन्ते. तदापत्तिविहाराव् इव यत्र भवतः, तेनान्येनेति गम्यते. न ह्य् अकस्मात् प्रशंसा स्यात्, यो ऽसाव् अन्यः, स कथम् अनया प्रशंसया लक्ष्येतेत्येवमर्था प्रशंसा.

NOTES:

  • {५/९०: E२ ओम्. ते}*


____________________________________________


एकस्तोमे वा क्रतुसंयोगात् // MS_५,३.४३ //

य एतेनानिष्ट्वा, अथान्येन यजेतेति श्रूयते. तत्रैषो ऽर्थः समधिगतः, तद्विकाराणां वाद इति. अथेदानीं संदिह्यते, किम् एकस्तोमकस्य, अनेकस्तोमकस्य चेति. किं{*५/९१*} प्राप्तम्? एकस्तोमकस्य वादः. कुतः? क्रतुसंयोगात्, एकस्तोमे क्रतुसंयोगो भवति, यो वै त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते स तं दीपयति, यः पञ्चदशं{*५/९२*} स तम्, यः सप्तदशं{*५/९३*} स तम्, य एकविंशं{*५/९४*}, स तम्. त्रिवृदादय एकस्तोमकाः. तस्मात् तेषां वाद इति.

NOTES:

  • {५/९१: E२: किम् एकस्तोमकस्य. क्रतोर् एष वाद उतैकस्तोमकस्यानेकस्तोमकस्य चेति. किं}*
  • {५/९२: E२: पञ्चदशः}*
  • {५/९३: E२: सप्तदशः}*
  • {५/९४: E२: एकविंशः}*


____________________________________________


सर्वेषां वा चोदनाविशेषात् प्रशंसा स्तोमानाम् // MS_५,३.४४ //

सर्वेषां चैष{*५/९५*} वादः, एकस्तोमकानाम् अनेकस्तोमकानां च. कुतः? अविशेषवचनाद् अन्यशब्दस्य. नन्व् एकस्तोमकाः क्रतवः संकीर्त्यन्ते. सत्यं संकीर्त्यन्ते, प्रशंसार्थम्, न [५८५]{*५/९६*} विशेषार्थम्. कः पुनः प्रशंसार्थः? यो वै त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते स तं दीपयति, चोदकप्राप्ता धर्मा अभ्यस्ताः प्रकृतौ, विकृतौ सुखं प्रतिपद्यन्ते.

[५८६]{*५/९७*}

NOTES:

  • {५/९५: E२: वैष}*
  • {५/९६: E२: ५,१६२; E६: २,९६}*
  • {५/९७: E२: ५,१६२; E६: २,९६}*


____________________________________________


क्रमको यो ऽर्थशब्दाभ्यां श्रुतिविशेषाद् अर्थपरत्वाच् च // MS_५,४.१ //

इह पाठक्रमस्य श्रुत्यर्थक्रमाभ्यां सह बाधां प्रति विचारणम्{*५/९८*}. किं पाठक्रमस् ताभ्यां तुल्यः, उत बाध्यत इति. किं प्राप्तम्? तुल्यबलाव् एतौ, पाठो ऽपि हि कारणं श्रुत्यर्थाव् अपि. न च प्रामाण्ये कश्चिद् विशेषो ऽस्ति, तस्माद् अनियम इति. एवं प्राप्ते ब्रूमः, पाठक्रमो हि बाध्यते श्रुत्या, अर्थेन च. कुतः? श्रुतिविशेषात्, अर्थपरत्वाच् च. श्रुतिविशेषः कः? यत्र श्रवणं तत्र प्रत्यक्षं कारणम्, पाठक्रमस् त्व् आनुमानिकः, पाठक्रमेण स्मरणम्, एवम् अभिनिर्वर्तयितव्यम् इत्य् अवगम्यते. तस्यार्थवत्त्वेनैकयोपपत्त्या तस्यैवानुष्ठानम्{*५/९९*}. श्रुत्या पुनर् अनुष्ठानम् एव, एवं भवतीति प्रत्यक्षाद् अवगम्यते.
तथार्थेन. कुतः? अर्थपरत्वात्, अर्थार्थं हि सर्वं प्रधानार्थम्{*५/१००*}, प्रधानम् अभिनिर्वर्तयतीति सर्वं क्रियते. तस्मात् पाठस् ताभ्यां बाध्यते.
किम् उदाहरणं प्रयोजनं च? श्रुत्याम्{*५/१०१*} आश्विनो दशमो गृह्यते, तं तृतीयं जुहोति, अत्र पाठक्रमस्य बलीयस्त्वे तृतीयस्य ग्रहणम्, सिद्धान्ते तु दशमस्य. अर्थे, अग्निहोत्रहोमः पूर्वम् आम्नायते, पश्चाच् छ्रपणम्. एवं कर्तव्यम्, यदि पाठो बलवान्. सिद्धान्ते श्रपणं पूर्वम्, ततो होमः.

[५८७]{*५/१०२*}

NOTES:

  • {५/९८: E२: विचारणा}*
  • {५/९९: E२: तथैवानुष्ठानम्}*
  • {५/१००: E१ गिब्त् प्रधानार्थम् इन् Kलम्मेर्न्}*
  • {५/१०१: E२: श्रुतौ}*
  • {५/१०२: E२: ५,१६३; E६: २,९७}*


____________________________________________


अवदानाभिघारणासादनेष्व् आनुपूर्व्यं प्रवृत्त्या स्यात् // MS_५,४.२ //

स्तो दर्शपूर्णमासौ, तत्र पूर्वं दध्नो धर्माः समाम्नाताः, पश्चाद् आग्नेयस्य, प्रदानं चाग्नेयस्य पूर्वम्. तत्र संदेहः, किं प्रावृत्तिकेन क्रमेण पूर्वं दध्नो ऽवदानाभिघारणासादनानि, उत मुख्यक्रमेण पूर्वम् आग्नेयस्येति. किं प्राप्तम्? अनियम इत्य्. एवं प्राप्ते ब्रूमः, अवदानादिषु प्रावृत्तिकेन पूर्वं दध्न इति. कुतः? एवम् अनुज्ञातेभ्यो व्यवधायकेभ्यो नाभ्यधिको ऽन्यो वा व्यवधायकः कल्पितो भविष्यति, दर्शयति च दध्नः पूर्वम् एव देयम्{*५/१०३*} इति.

NOTES:

  • {५/१०३: E२: पूर्वम् अवदेयम्}*


____________________________________________


यथाप्रदानं वा तदर्थत्वात् // MS_५,४.३ //

यथाप्रदानं वा कर्तव्यानि, यस्य प्रदानं पूर्वम्, तस्यावदानानि पूर्वम्, तस्माद् आग्नेयस्य. कुतः? प्रदानचोदनागृहीतत्वाद्{*५/१०४*} अवदानादीनाम्, प्रदानोपक्रमा एते न पृथक्पदार्था एते{*५/१०५*} इत्य् उक्तम्. अभिघारणम् अवदानं च तस्य प्रदानचिकीर्षयैव क्रियते. आसादनम् अपि प्रदानार्थम् एवासन्न् अकरणम्{*५/१०६*}, एवं दृष्टार्थता भवति. तस्मान् मुख्यक्रमेणाङ्गानां प्रयोग इति.
यत् तु, दध्नः पूर्वं प्रवृत्तिर् इति. अर्थात् पूर्वं प्रवृत्तिः, न पाठात्. प्रावृत्तिकाच् च मुख्यक्रमो बलीयान्, मुख्यक्रमे गृह्यमाणे प्रथम एकः पदार्थो विप्रकृष्टकालः स्यात्, प्रावृत्तिके पुनर् गृह्यमाणे सर्वेषां विप्रकर्षः. तस्मान् मुख्यक्रमो बलीयान् इति. अथ यल् लिङ्गम् उक्तम्, दध्नः पूर्वम् अवदेयम् [५८८]{*५/१०७*} इति. अत्रोच्यते, शृताभिप्रायम्{*५/१०८*} एतद् भविष्यति. तस्माद् अदोषः.

NOTES:

  • {५/१०४: E२: प्रदानं चोदनागृहीतत्वाद्}*
  • {५/१०५: E२ ओम्. एते}*
  • {५/१०६: E१ गिब्त् आसन्न् अकरणम् इन् Kलम्मेर्न्}*
  • {५/१०७: E२: ५,१६४; E६: २,९८}*
  • {५/१०८: E२: श्रुताभिप्रायम्}*


____________________________________________


लिङ्गदर्शनाच् च // MS_५,४.४ //

लिङ्गम् अप्य् अस्मिन्न् अर्थे भवति, स वै ध्रुवाम् एवाग्रे ऽभिघारयति, ततो हि प्रथमाव् आज्यभागौ यक्ष्यन् भवतीति. तस्माद् अपि मुख्यक्रमेण नियम इति.


____________________________________________


वचनाद् इष्टिपूर्वत्वम् // MS_५,४.५ //

इष्टिपूर्वत्वं समानातम्. तत्र संदेहः, किम् इष्टिपूर्वत्वम्, सोमपूर्वत्वं वा विकल्पः{*५/१०९*}, अथवेष्टिपूर्वत्वम् एवेति. किं प्राप्तम्? इष्टिपूर्वत्वम् एव स्यात्. कुतः? वचनात्, वचनम् इदं भवति, एष वै देवरथो यद् दर्शपूर्णमासौ, यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानाम् अवस्यतीति{*५/११०*}, नास्ति वचनस्यातिभारः. तस्माद् इष्टिपूर्वत्वम् एवेति.

NOTES:

  • {५/१०९: E२: विकल्प्यते}*
  • {५/११०: Tऐत्.S. २.५.६.१}*


____________________________________________


सोमश् चैकेषाम् अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात् तदन्तेनानर्थकं हि स्यात् // MS_५,४.६ //

इष्टिपूर्वत्वम् इत्य् एतद् गृह्णीमः, किं तु सोमश् चैकेषां{*५/१११*} पूरो{*५/११२*} दर्शपूर्णमासयोः स्यात्. कुतः? अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात्. यः सोमेन यक्ष्यमाणो ऽग्नीन् आदधीत, नर्तुं स{*५/११३*} प्रतीक्षेन् न नक्षत्रम् इति. यः सोमयागं कर्तुम् आदधीत्, स न प्रतीक्षेत नक्षत्रं नाप्य् ऋतुं तावत्य् एवादधीतेत्य् आनन्तर्यम् उच्यते. इतरथा, ऋतुनक्षत्रातिक्रमवचनम् अनर्थकं स्यात् [५८९]{*५/११४*}, आनन्तर्ये ऽनपेक्ष्यमाणे यस्यैवर्तुनक्षत्रे उक्ते तस्यैव तयोर् अनादरः कीर्तितः स्यात्, तस्माद् अस्ति सोमाधानयोर् आनन्तर्यम् इति. अपि च विस्पष्टा चाद्यतनी विभक्तिः, सोमेन यक्ष्यमाण इति, सा च नेष्टिपूर्वत्वम्{*५/११५*} अनुज्ञाय विवक्ष्यते, न तदाद्यतनकालविवक्षा, तत्रायं शब्दो विप्रतिषिध्येत. तस्माद् आनन्तर्यविवक्षेत्य् अवगम्यते.

NOTES:

  • {५/१११: E२: चैषां}*
  • {५/११२: E२: पूर्वो}*
  • {५/११३: E२ ओम्. स}*
  • {५/११४: E२: ५,१६५; E६: २,९८}*
  • {५/११५: E२: यदा सेष्टिपूर्वत्वम्}*


____________________________________________


तदर्थवचनाच् च नाविशेषात् तदर्थत्वम् // MS_५,४.७ //

इतश् च सोमाधानयोर् आनन्तर्यम्. कुतः? तदर्थवचनात्, यः सोमेन यजेत स अग्निम् आदधीतेति च. सर्वैर् अप्य् असौ यक्ष्यमाणो ऽग्निम् आधत्ते सोमेनाग्निहोत्रादिभिश् च, नासति सोमस्य विशेषे सोमार्थता स्यात्. अयम् असौ विशेषः स्यात्, यद् आनन्तर्यं सोमाधानयोर् इति.


____________________________________________

अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशाद् आनन्तर्याद् विशङ्का स्यात् // MS_५,४.८ //

सोमेनायक्ष्यमाणस्य च पवमानहविषां कालो निर्दिश्यते, यः सोमेनायक्ष्यंआणो ऽग्निम् आदधीत, स पुरा संवत्सराद् धवींषि निर्वपेद् इति, न खलु कश्चिद् अयक्ष्यमाणः, सर्वस्य विहितत्वात्. तस्माद् अनन्तरम् अयक्ष्यमाण इति गम्यते.


____________________________________________


इष्टिर् अयक्ष्यमाणस्य, तादर्थ्ये सोमपूर्वत्वम् // MS_५,४.९ //

इदं प्रयोजनसूत्रं वर्ण्यते. क्षीणम् अधिकरणम्. किं प्रयोजनं चिन्तायाः? इष्टिर् अयक्ष्यमाणस्य सोमेन निरभिसंधिक आधाने. तदर्थत्वे तु सोमपूर्वत्वम्{*५/११६*}, सोमार्थतायां त्व् आधानस्य सोमपूर्वत्वं स्यात्.

[५९०]{*५/११७*}

NOTES:

  • {५/११६: E२: तादर्थ्ये सोमपूर्वत्वम्}*
  • {५/११७: E२: ५,१६६; E६: २,९९}*


____________________________________________


उत्कर्षाद् ब्राह्मणस्य सोमः स्यात् // MS_५,४.१० //

अस्त्य् आधानम्, तत्रैषो ऽर्हः समधिगतः, इष्टिपूर्वत्वं सोमपूर्वत्वं चेति. इदानीं संदेहः, किं त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा, उत ब्राह्मणस्य सोमपूर्वत्वम् एव, उत केवला पौर्णमास्य् उत्कृष्यते, ब्राह्मणस्योभौ कल्पाव् इति. अथ वा कर्मान्तरम् इदम्, यद् ऊर्ध्वं सोमात्, अथ वैकं हविर् उत्कृष्यते, ब्राह्मणस्योभाव् एव कल्पाव् इति. किं प्राप्तम्? त्रयाणां वर्णानाम् इष्टिपूर्वत्वं सोमपूर्वत्वं वा. कुतः? अविषेशात्. न किंचिद् विशेषम् अवगच्छामः. एवं प्राप्ते ब्रूमः, ब्राह्मणस्य सोमपूर्वत्वं स्यात्. कस्मात्? उत्कर्षात्, उत्कर्षो हि श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीसोमीयो भवति. यद् एवादः पौर्णमासं हविः, तत्र ह्य्{*५/११८*} अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति. किम् इव हि वचनं न कुर्यात्. तस्माद् ब्राह्मणस्य सोमपूर्वत्वम् एवेति.

NOTES:

  • {५/११८: E२: तत् तर्ह्य्}*


____________________________________________


पौर्णमासी वा श्रुतिसंयोगात् // MS_५,४.११ //

यद् उक्तम्, ब्राह्मणस्य सोमपूर्वत्वम् एवेति, तन् न, तस्याप्य् उभौ कल्पौ. कुतः? अविशेषात्, न हि कल्पयोर् ब्राह्मणस्य कश्चिद् विशेष आम्नायते. नन्व् इदानीम् एवोक्तम्, ब्राह्मणस्योत्कर्ष इति. नेति ब्रूमः, पौर्णमासीमात्रस्य तत्रोत्कर्षः. श्रुतिसंयोगः पौर्णमास्यास् तत्र, यद् एवादः पौर्णमासं हविर् इति, यावद् वचनं वाचनिकम्, तत्र न न्यायः क्रमते. तुल्ययोर् एकदेश उत्कृष्टे नूनम् अपरो ऽप्य् एकदेश उत्कृष्यत इति.

[५९१]{*५/११९*}

NOTES:

  • {५/११९: E२: ५,१६७; E६: २,१००}*


____________________________________________


सर्वस्य वैककर्म्यात् // MS_५,४.१२ //

यद् उच्यते, केवला पौर्णमास्य् उत्कृष्यत इति. तन् न, कृत्स्नस्य दर्शपूर्णमासकर्मण उत्कर्षः, एवं फलेन संबन्धः, इतरथा न स्यात् फलम्. एकदेशत्वात् पौर्णमास्याः, केवलायाम् उत्कृष्यमाणायाम् अवशिष्टस्य पूर्वत्र क्रियमाणस्य न फलं स्यात्, एकदेशत्वात्, अफलत्वाच् चोक्तम् अपि न क्रियेत. समुदाये चोत्कृष्यमाणे भवति फलम्. तस्माद् अर्थात् समुदायस्योत्कर्षः, एवं कृत्स्नोपदेशो ऽर्थवान् भविष्यतीति. तस्मात् सर्वस्योत्कर्षः, सोमपूर्वत्वम् एव ब्राह्मणस्येति.


____________________________________________


स्याद् वा विधिस् तदर्थेन // MS_५,४.१३ //

नैतद् अस्ति{*५/१२०*}, यद् एवं समुदायस्यासति वचन उत्कर्षः परिकल्प्येत, तस्माद् अन्यद् एवैवं नामकं कर्म, ऊर्ध्वं सोमात् स्यात्. एवम् एकदेशस्याश्रुतं फलं न कल्पयितव्यं भविष्यति. नामधेयं तु द्वयोः कर्मणोर् एकम्, अक्षाः पादाः माषा इति यथा. पौर्णमासधर्मकं वा कर्मान्तरं चोद्यत इति कर्मविधानम्, श्रुतेर् एतद् भवति, तद् वाक्यस्य बाधकम्. तस्मात् कर्मान्तरम् इति.

NOTES:

  • {५/१२०: E२: नैतद् अस्ति कृत्स्नोत्कर्ष इति}*


____________________________________________


प्रकरणात् तु कालः स्यात् // MS_५,४.१४ //

कर्मान्तरस्यैतद्वाचकम् इति प्रमाणाभावः. प्रकृतस्य कर्मणो वाचकम् इति प्रत्यक्षम्, यच् च सप्रमाणकम्, तद् ग्राह्यम्, अन्यायश् चानेकार्थत्वम्. धर्मग्रहणे लक्षणाशब्दः श्रुतिसंभवे कल्प्यः स्यात्. अपि चास्य रूपं न गम्यते, रूपावचनान् न कर्मान्तरम्. तस्मात् प्रसिद्धेन नाम्ना प्रकृतस्य कर्मणो ग्रहणं कालविधानार्थं स्यात्. फलवत्त्वाच् च कृत्स्नस्योत्कर्षः, ब्राह्मणस्य [५९२]{*५/१२१*} च तथैव. यत् तु, श्रुतिर् वाक्याद् बलीयसीति, अत्रोच्यते, यत्र फलं न श्रूयते, वाक्यार्थो ऽपि तावत् तत्र गृह्यते. न च, इह फलस्य श्रवणम् अस्ति. कल्प्यं फलम् इति यद् उच्यते, न तत्, फलवचनम्{*५/१२२*} अन्तरेण. तत्र फलवचनः शब्दः कल्प्येत, तेन च सहैकवाक्यता. कालवचनेन तु सह प्रत्यक्षेणैकवाक्यतेति. तस्मान् न कर्मान्तरम्. स्थितं तावद् अपर्यवसितम् अधिकरणम्{*५/१२३*}.

NOTES:

  • {५/१२१: E२: ५,१८६; E६: २,१००}*
  • {५/१२२: E२: फलं वचनम्}*
  • {५/१२३: E२: अधिकरणम्. अन्तरा चिन्तान्तरं वक्ष्यते}*


____________________________________________


स्वकाले स्याद् अविप्रतिषेधात् // MS_५,४.१५ //

यः सोमेन यक्ष्यमाणो ऽग्निम् आदधीत, नर्तुं स{*५/१२४*} प्रतीक्षेन्{*५/१२५*} न नक्षत्रम् इति. अत्र संदेहः, किम् आधानस्यायं कालविशेषबाधः, उत सोमस्येति. किं प्राप्तम्? आधानस्य कालबाधः, स्वकाले स्यात् सोमः. कुतः? अविप्रतिषेधात्, अङ्गम् आधानम्, तस्य कालबाधो न्याय्यः, न प्रधानस्य. अङ्गगुणविरोधे च तादर्थ्याद् इति वक्ष्यते{*५/१२६*}.

NOTES:

  • {५/१२४: E२ ओम्. स}*
  • {५/१२५: E१ (व्.ल्.): सूक्ष्मेत}*
  • {५/१२६: Vग्ल्. zउ MS १२.२.२५}*


____________________________________________


अपनयो वाधानस्य सर्वकालत्वात् // MS_५,४.१६ //

अपनयो वाधानात्{*५/१२७*} सोमकालस्य स्यात्. कुतः? आधानस्य सर्वकालत्वात्, नैवाधाने कश्चित् कालनियमो ऽस्ति, यद् अहर् एवैनं श्रद्धोपनमेत्{*५/१२८*} तद् अहर् आदधीतेति{*५/१२९*}. अप्राप्तम् एव तद् आधानस्य, यत् प्रतिषिध्यते. तस्मात् सोमस्य कालबाध इति.

[५९३]{*५/१३०*}

NOTES:

  • {५/१२७: E२ ओम्. आधानात्}*
  • {५/१२८: E१ (व्.ल्.): यज्ञ उपनमेत्}*
  • {५/१२९: ŚPBर् २.१.३.९}*
  • {५/१३०: E२: ५,१६९; E६: २,१०१}*


____________________________________________


पौर्णमास्य् ऊर्ध्वं सोमाद् ब्राह्मणस्य वचनात् // MS_५,४.१७ //

स्थिताद् उत्तरम्. न वैतद्{*५/१३१*} अस्ति, कृत्स्नौ दर्शपूर्णमासाव् उत्कृष्येते, ऊर्ध्वं सोमात्, केवला पौर्णमास्य् उत्कृष्यते. कुतः? वचनात्, वचनम् इदम्, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेद् इति, नास्ति वचनस्यातिभारः. तस्मात् पौर्णमासीमात्रम् उत्कृष्येत. यत् तु फलं नास्तीति, समुदायाद् एव फलं भविष्यतीति, वचनाद् एवं विज्ञानात्. तस्माद् अदोषः.

NOTES:

  • {५/१३१: E२: चैतद्}*


____________________________________________


एकं{*५/१३२*} शब्दसामर्थ्यात् प्राक् कृत्स्नविधानात् // MS_५,४.१८ //

एकं वा हविर् उत्कृष्येत, न कृत्स्ना पौर्णमासी. कुतः? शब्दसामर्थ्यात्, एकं हविर् उत्क्रष्टुं शब्दः समर्थः, यद् एवादः पौर्णमासं हविर् इति श्रूयते, यावद् वचनं वाचनिकम्, तावद् वचनेनोत्क्रष्टुं शक्यते, नान्यद् अपि. प्राक् सोमात् कृत्स्नं विधीयते. ततो यद् वचनेनोत्कृष्यते, तद् ऊर्ध्वं सोमात्, यन् नोत्कृष्यते, तत् प्राग् भवितुम् अर्हति. तस्माद् एकं हविर् उत्क्रष्टव्यम्, ब्राह्मणस्योभौ कल्पाव् इति.

NOTES:

  • {५/१३२: E२: एकं वा}*


____________________________________________


पुरोडाशस् त्व् अनिर्देशे तद्युक्ते देवताभावात् // MS_५,४.१९ //

इदं श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीषोमीयो भवति, यद् एवादः पौर्णमासं हविस् तत् तर्ह्य् अनुनिर्वपेत्, तर्ह्य् उभयदेवत्यो भवतीति. यस्मात् तस्मिन् काले सो [५९४]{*५/१३३*} ऽग्नीषोमीयो भवति, न प्राचीने काले तस्माद् अदो हविर् अनुनिर्वपेद् इति, अग्नीषोमीयत्वं विधाय द्विदेवताकत्वं हेतुत्वेन निर्दिश्यते. तस्माद् अग्नीषोमीयं हविर् हेतुमत् स्यात्, नान्यदेवताकम्, तदासाव् अग्नीषोमौ यष्टुम् अर्हति, न प्राक् सास्य देवतेति भवति पुरुषस्यापि यष्टुर् देवताभिसंबन्धः. तस्मात् पुरोडाशो ऽग्नीषोमीयो नान्यद् धविर् इति सिद्धम्.

NOTES:

  • {५/१३३: E२: ५,१७०; E६: २,१०१}*


____________________________________________


आज्यम् अपीति चेत् // MS_५,४.२० //

इति चेत् पश्यस्य् अग्नीषोमीयत्वात् पुरोडाश इति, आज्यम् अपि ह्य् अग्नीषोमीयम्. तस्मात् तद् अप्य् उत्कृष्येत.


____________________________________________


न मिश्रदेवतत्वाद् ऐन्द्राग्नवत् // MS_५,४.२१ //

मिश्रदेवतं ह्य् आज्यम्, अग्नीषोमीयम्, प्राजापत्यम्, वैष्णवम् इति च. पुरोडाशस् त्व् अग्नीषोमीय एव. न त्व् अत्र मिश्रदेवतस्य वादः, मिश्रदेवतस्य हि प्राग् अपि भावो ऽवकल्प्यते. यद् अपि तदानीं यजमानो नाग्निषोमीयस् तद्देवतार्हः, तथाप्य् आज्यं हविः करिष्यत्य् एव, प्रजापतिं यक्ष्यति, विष्णुं वा. तस्मात् तस्योर्ध्वभावे न एष हेतुर् अग्नीषोमीयत्वं नाम. यथा चतुर्धाकरणं मिश्रदेवतत्वाद् ऐन्द्राग्नेन भवति, तद्वत् तत्राग्नेय इति, ऐन्द्राग्नो न शक्यते वदितुम्, तद् धितः साकाङ्क्षान् नोत्पद्यत इति. एवम् इहाग्नीषोमीयशब्देन न शक्यम् आज्यं वदितुम् अग्नीषोमीयो हि असौ{*५/१३४*}. तस्माच् छक्यं प्राग् यजमानेन कर्तुम् इति. तस्मान् न तस्योत्कर्षे ऽग्नीषोमीयता यजमानस्य हेतुर् इति, मिश्रदेवतस्य ग्रहणसामान्याद्{*५/१३५*} ऐन्द्राग्नवद् इत्य् उक्तम्.

[५९५]{*५/१३६*}

NOTES:

  • {५/१३४: E२: अनग्नीषोमीयो ऽप्य् असौ}*
  • {५/१३५: E२: मिश्रदेवतस्याग्रहणसामान्याद्}*
  • {५/१३६: E२: ५,१७१; E६: २,१०२}*


____________________________________________


विकृतेः प्रकृतिकालत्वात् सद्यस्कालोत्तरा विकृतिस् तयोः प्रत्यक्षशिष्टत्वात् // MS_५,४.२२ //

इह वैकृतानि कर्माण्य् उदाहरणम्, ऐन्द्राग्नम् एकादशकपालं निर्वपेद् इत्येवमादीनि. तत्र संदेहः, किम् एता विकृतयः सद्यस्कालाः, उत द्व्यहकाला इति. किं प्राप्तम्? विकृतिः प्राकृतान् धर्मांश् चोदकेन गृह्णाति, अतस् ते धर्मा आनुमानिकाः, पौर्णमासी चान्यः कालः. स यदि वा प्रकृत्या गृह्येत, यदि वा विकृत्या, असंभवे ऽन्यतरस्याः कालस् त्यक्तव्यः, तत्रानुमानिको वैकृतस्य त्यज्यताम्, न प्रत्यक्षश्रुतः प्राकृतस्येति न्याय्यम्. तस्मात् सद्यस्काला एता विकृतयो भवेयुर् इति.


____________________________________________


द्वैयहकाल्ये तु यथान्यायम् // MS_५,४.२३ //

द्वैयहकाल्ये क्रियमाणे यथान्यायं कृतं भवति, तस्माद् द्वैयहकाल्यं स्यात्. चोदकस् तथानुगृहीतो भवति, प्रकृतौ हि श्रूयते, पूर्वेद्युर् अग्निं गृह्णाति, उत्तरम् अहर् देवतां यजतीति. तस्माद् द्व्यहकालम् एकम् अभिनिर्वर्त्यम्, तदहर् एवोपक्रम्यापरेद्युः परिसमापयेत्.


____________________________________________


वचनाद् वैककाल्यं स्यात् // MS_५,४.२४ //

नैतद् एवम्, द्व्यहकाला विकृतयो भवेयुर् इति, सद्यस्कालाः स्युः. कस्मात्? वचनम् इदं भवति, इष्ट्या{*५/१३७*} पशुना सोमेनाग्रयणेन वा यक्ष्यमाणः स पौर्णमास्याम् अमावास्यायां वा यजेतेति, साङ्गस्यैतद् वचनम्. तस्मात् साङ्गं पौर्ण[५९६]{*५/१३८*}मास्याम् अमावास्यायां वा कुर्वीतेति गम्यते, तेन सद्यस्काला विकृतयः.

NOTES:

  • {५/१३७: E२: न इष्ट्या}*
  • {५/१३८: E२: ५,१७२; E६: २,१०३}*


____________________________________________


सांनाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात् प्रकृतिवत् // MS_५,४.२५ //

इह सांनाय्यविकाराश् चाग्नीषोमीयविकाराश् चोदाहरणम्, सांनाय्यविकारास् तावद् यथा, आमिक्षा{*५/१३९*} पशुर् इति, अग्नीषोमीयम्{*५/१४०*} एकादशकपालं निर्वपेच् छ्यामाकम्, ब्राह्मणो वसन्ते ब्रह्मवर्चस्काम इत्य्{*५/१४१*}एवमाद्यः. तत्र संदेहः, किम् एते प्राग् ऊर्ध्वं च सोमात्, उतोर्ध्वम् इति. किं प्राप्तम्? प्राग् ऊर्ध्वं च, विशेषानवगमात्. एवं प्राप्ते ब्रूमः, ऊर्ध्वं सोमाद् स्युर् इति, प्रकृतिर् ह्य् एषाम् ऊर्ध्वं सोमात्, चोदकेन एभिर् अपि ऊर्ध्वं सोमात् भवितव्यम्. सान्नाय्यस्य ऊर्ध्वं सोमात्, वचनेन, असोमयाजी संनयेद् इति. अग्नीसोमीयस्यापि, आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्ट्वा भवति{*५/१४२*}, यद् एवादः पौर्णमासं हविः, तत् तर्ह्य् अनुनिर्वपेद् इति, तर्हि स उभयदेवत्यो भवतीति, तद्विकृतिर् अपि सोमाद् ऊर्ध्वं भवितुम् अर्हति.

NOTES:

  • {५/१३९: Vग्ल्. Tऐत्.S. १.८.२.१}*
  • {५/१४०: E२: अग्नीषोमीयविकाराः, अग्नीषोमीयम्}*
  • {५/१४१: Tऐत्.S. २.५.५.१}*
  • {५/१४२: E२: सोमेनेष्ट्वाग्नीषोमीयो भवति}*


____________________________________________


तथा सोमविकारा दर्शपूर्णमासाभ्याम् // MS_५,४.२६ //

सोमविकारा गवादय एकाहाः. तेषु संदेहः, किं दर्शपूर्णमासात् प्राग् ऊर्ध्वं च प्रयोक्तव्याः, उतोर्ध्वम् इति. किं प्राप्तम्? अनियमः, अविशेषात्. एवं प्राप्ते ब्रूमः, तथा [५९७]{*५/१४३*} सोमविकाराः, दर्शपूर्णमासाभ्याम् ऊर्ध्वं स्युः, ज्योतिष्टोमो दर्शपूर्णमासाभ्याम् ऊर्ध्वं भवति, दर्शपूर्णमासाभ्याम् इष्ट्वा सोमेन यजेतेति{*५/१४४*}. चोदकेनैष धर्मो गवादिष्व् अप्य् एकाहेषु प्राप्नोति. तस्मात् ते ऽपि दर्शपूर्णमासाभ्याम् ऊर्ध्वं कर्तव्या इति.

[५९८]{*५/१४५*}

NOTES:

  • {५/१४३: E२: ५,१७३; E६: २,१०४}*
  • {५/१४४: Tऐत्.S. २.५.६.१}*
  • {५/१४५: E२: ५,१७३; E६: २,१०४}*


____________________________________________

"https://sa.wikisource.org/w/index.php?title=शबरभाष्यम्_५_अध्यायः&oldid=135354" इत्यस्माद् प्रतिप्राप्तम्