शबरभाष्यम्/प्रथमोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः


सू.1.2.1 आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते।।1।।

सोऽरोदीत्, यदरोदीत्, तद् रुद्रस्य रुद्रत्वम्, प्रजापतिरात्मनो वपामुदक्खिदत्, देवा वै देवयजनमध्यवसाय दिशो न प्रजानन्नित्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि। तानि किं कञ्चित् धर्मं प्रमिमते, उत न? इति भवति विचारणा। तदभिधीयते। क्रिया कथमनुष्ठेयेति तां वदितुं समाम्नातारो वाक्यानि समामनन्ति। तद्, यानि वाक्यानि क्रियां नावगमयन्ति, क्रियासम्बद्धं वा किञ्चित्। एवमेव भूतमर्थमन्वाचक्षते-

रुदितवान् रुद्रः, वपामुच्चिखेद प्रजापतिः, देवा वै दिशो न प्रजज्ञिर इत्येवञ्जातीयकानि, तानि कं धर्मं प्रमिमीरन्?। अथोच्येत, अध्याहारेण वा विपरिणामेन वा, व्यवहितकल्पनया वा, व्यवधारणकल्पनया वा, गुणकल्पनया वा कश्चिदऽर्थः कल्पयिष्यते इति। स कल्प्यमानः कः कल्प्येत? रुद्रः किल रुरोद, अतोऽन्येनाऽपि रोदितव्यम्। उच्चिखेद आत्मवपां प्रजापतिरतोऽन्योऽप्युत्खिदेदात्मनो वपाम्। देवा वै देवयजनकाले दिशो न प्रज्ञातवन्तोऽतोऽन्योऽपि दिशो न प्रजानीयादिति।

तच्चाशक्यम्। इष्टवियोगेनाभिघातेन वा यद् बाष्पनिर्मोचनं, तद् रोदनमित्युच्यते। न च तदिच्छातो भवति। न च कश्चिदात्मनो वपामुत्खिद्य तामग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुना यष्टुं शक्नुयात् न च देवयजनाध्यवसानकाले केचिद् दिशो मुह्येयुः। अतः एषामानर्थक्यम्। तस्मादेवञ्जातीयकानि वाक्यानि अनित्यानीत्युच्यन्ते। यद्यपि च नित्यानि, तथापि न नित्यमर्थं कुर्वन्तीति। स एष वाक्यैकदेशस्याक्षेपो, न कृत्स्नस्य वाक्यस्य। नन्वेकदेशाद्विना साकाङ्क्षः पदसमूहो न पर्य्याप्तः स्वस्मै प्रयोजनाय, अत आक्षिप्त एवेति। नैवं भवति हि कश्चित् पदसमूहो, योऽर्थवादेभ्यो विनाऽपि विदधाति कञ्चिदर्थम्। यानि पुनस्तैः सह संयुज्यार्थान्तरे वर्त्तन्ते, तान्येकदेशाक्षेपेणाक्षिप्यन्ते।।1।।

सू.1.2.2

शास्त्रदृष्टविरोधाच्च।।2।।

स्तेनं मनः, अनृतवादिनी वागित्येवञ्जातीयकानां धर्मं प्रति अप्रामाण्यम्। भूतानुवादात्। विपरिणामादिभिरपि कल्प्यमाने स्तेयं मृषोद्यञ्च कर्त्तव्यमित्यापतति। तच्चाशक्यं स्तेयानृतवादप्रतिषेधमबाधमानेनानुष्ठातुम्। न च विकल्पः, वैषम्यात्। एकः कल्प्यो विधिः, एकः प्रत्यक्षः।।

अथ दृष्टविरोधः। तस्माद् धूम एवाऽग्नेर्द्दिवा ददृशे नार्चिः। तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूम इति। अस्माल्लोकादुत्क्रम्याऽग्निरादित्यं गतः, रात्रौ आदित्यस्तमित्येतदुपपादयितुमिदम्। उभयमपि दृष्टविरुद्धमुच्यते।तस्मान्नैषाऽवधारणा सिद्ध्यतीति। अपरो दृष्टविरोधः। न चैतद् विद्मो वयं ब्राह्मणा वा स्मः, अब्राह्मणा

वेति अक्रियार्थत्वादनर्थकम्। अथायमर्थः। नैवैतज्ज्ञायते, किं वा ब्राह्मणा वयम् उताब्राह्मणा एवेति प्रत्यक्षविरुद्धमप्रमाणम्। अपरः शास्त्रदृष्टेन विरोधः। कोहि तद्वेद, यदमुÏष्मल्लोकेऽस्ति वा, न वेति। यदि प्रश्नोऽयम्, अक्रियार्थत्वादनर्थकः। अथानवक्लृप्तिः, शास्त्रदृष्टेन विरोधः। अतः प्रत्यक्षविरुद्धमप्रमाणम्।।2।।

सू.1.2.3

तथाफलाभावात्।।3।।

गर्गत्रिरात्रब्राह्मणं प्रकृत्य उच्यते, शोभतेऽस्य मुखं य एवं वेदेति। यदि भूतानुवादः, अनर्थकः। अथाध्ययनफलानुवादः, ततोऽसदनुवादः। कालान्तरे फलं भविष्यतीति चेन्न ह्यत्र प्रमाणमस्ति। विधिः स्यादिति चैन्नैष विधिपरः। द्रव्यसंस्कारकर्मस्विति चिन्तयिष्यति एतदुपरिष्टात्, किं फलविधिरुतार्थवाद इति। इह तु किं भूतानुवादः, क्रियार्थो वेति। तेन न, फलविधित्वान्निराकृतस्य इहानर्थकोऽर्थवादविचार इति। आऽस्य प्रजायां वाजी जायते य एवं वेदेति च उदाहरणम्।।3।।

सू.1.2.4

अन्यानर्थक्यात्।।4।।

पूर्णाहुत्या सर्वान् कामानवाप्नोति, पशुबन्धयाजी सर्वांल्लोकानभिजयति, तरति मृत्युं, तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उ चैनमेवं वेदेति। यदि भूतानुवादमात्रमनर्थकम्। अथ फलविधिः, इतरेषामानर्थक्यम्। न ह्यकृत्वा पूर्णाहुतिमग्निहोत्रादयः क्रियन्ते। न चानिष्ट्वा अग्नीषोमीयेन सोमेन यजन्ते। न चानधीत्य अश्वमेधेन यजन्ते। तद्यथा, पथि जाते अर्के मधु उत्सृज्य, तेनैव पथा मध्वर्थिनः पर्वतं न ग्च्छेयुस्तादृशं हि तत्। अपि चाहुः। अर्के चेन्मधु विन्देतकिमर्थं पर्वतं व्रजेत् । इष्यस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरोदिति।।4।।

सू.1.2.5

अभागिप्रतिषेधाच्च।।5।।

न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीत्यप्रतिषेधभागिनमर्थं प्रतिषेधन्ति। विज्ञायते एवैतद्। अन्तरीक्षे, दिवि चाग्निर्न चीयते इति। पृथिवीचयनप्रतिषेधार्थं च यद्वाक्यं, भवेच्चयनप्रतिषेधार्थमेव तत्। अथाप्रमाणम्। नैष विरोधो भवति। कथं तत् प्रमाणम्? यद् विध्यन्तरमाकुलयेत्, स्वयं चाफलं स्यात्। न चैतव्यं, हिरण्यं निधाय चेतव्यमिति।।5।।

सू.1.2.6

अनित्यसंयोगात्।।6।।

अनित्यसंयोगाश्च वेदप्रामाण्ये सति। परन्तु श्रुतिसामान्यमात्रमिति परिहृतः। इदानीं वेदैकदेशानामाक्षिप्तानां पुनरुपोद्बलकः उत्तिष्ठति, बवरः प्रावाहणिरकामयतेति।।6।। पूर्वपक्षः।।

सू.1.2.7

विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः।।7।।

इदं समाम्नायते- वायव्यं श्वेतमालभेत भूतिकामः। वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयतीति। वायुर्वै क्षेपिष्ठा देवतेत्यतो यद्यपि क्रिया नाऽवगम्यते, क्रियासंबन्धं वा किञ्चित्। तथापि विध्युद्देशेनैकवाक्यत्वात् प्रमाणम्। भूतिकाम इत्येवमन्तो विध्युद्देशः। तेनैकवाक्यभूतो, वायुर्वै क्षेपिष्ठा देवतेत्यावमादिः। कथमेकवाक्यभावः? पदानां साकाङ्क्षत्वाद्विधेः स्तुतेश्चैकवाक्यत्वं भवति। भूतिकाम आलभेत। कस्माद्? यतो वायुः क्षेपिष्ठेति। नायमभिसम्बन्धो विवक्षितः, भूतिकामेनालब्धव्यमिति। कथं तर्हि आलभेत?। यतः, ततो भूतिरिति भिन्नाविमावर्थौ। उभाभिधाने वाक्यं भिद्येत।।

किमर्था स्तुतिरितिचेत्। कथं रोचेत? नोऽनुष्ठीयेतेति। ननु प्राक् स्तुतिवचनाद् अनुष्ठानं भूतिकामान्तात् सिद्धं, स्तुतिवचनमनर्थकम्। न हि यदा स्तुतिपदाऽसन्निधानं, तदा पूर्वेणैव विधिः, यदा स्तुतिपदसम्बन्धो, न

तदा भूतिकामस्यालम्भो विधीयते। यथा, पटो भवतीति, पट उत्पद्यते इत्यर्थः। निराकाङ्क्षं च पदद्वयम्। यदा च तस्मिन्नेव, रक्त-इत्यपरं श्रूयते, तदा रागसम्बन्धो भवतीत्यर्थः। भवति च रक्तं प्रत्याकाङ्क्षा। एवं यदा न स्तुतिपदानि, विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनं तदा, स्तवनेन नन्वेवं सति किं स्तुतिवचनेन यस्मिन् सति अविधायकं, मा भूत् तत्। तदभावेऽपि पूर्वविधिनैव प्ररोचयिष्यते इति। सत्यं, विनाऽपि तेन सिद्ध्येत् प्ररोचनम् अस्ति तु तत् तस्मिन् विद्यमाने योऽर्थो

वाक्यस्य, सोऽवगम्यते स्तुतिप्रयोजनम्। तयोस्तस्मिन्नविद्यमाने विधिना प्ररोचनमिति।।ननु सत्स्वपि स्तुतिपदेषु पूर्वस्य विधिस्वरूपत्वाद्विधिरभिप्रेतः स्याद्, न विवक्ष्येत स्तुतिपदसम्बन्धः। आह- स्तुतिपदानि ह्यनर्थकान्यभविष्यन् साकाङ्क्षाणि। भवन्त्वनर्थकानीति चेत् न, गम्यमानेऽर्थे अविवक्षितार्थानि भवितुमर्हन्ति। योऽसौ विध्युद्देशः, स शक्नोति निरपेक्षोऽर्थं विधातुं, शक्नोति च स्तुतिपदानां वाक्यशेषीभवितुम्। प्रत्यक्षश्च वाक्यशेषभावः। अतोऽस्माद्विधेः स्तुतिमवगच्छामः।।

ननु निरपेक्षादपि विधिमवगमिष्यामः। भवत्येवम्। नैवं सि कश्चिद्विरोधः, किन्त्वशक्यः स्तुतिपदसम्बन्धे सति विध्यर्थो विवक्षितुम्। वाक्यं हि सम्बन्धस्य विधायकम् द्वौ चेत् सम्बन्धौ विदध्याद्- भूतिकाम आलभेत, आलम्भेन च एष गुणो भविष्यतीति, भिद्येत तह्र्येवं सति वाक्यम्। अथ यदुक्तं- न क्रिया गम्यते, न तत्सम्बद्धं वा किञ्चिदिति। स्तुत्यर्थेन विधीनां स्युः। स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाना अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः। एवमिमानि सर्वाण्येव पदानि कश्चिदर्थं स्तुवन्ति विदधति। अतः प्रमाणम्। एवञ्जातीयकानि, वायुर्वै क्षेपिष्ठा देवतेति।।7।। सिद्धान्तः।।

सू.1.2.8

तुल्यं च साम्प्रदायिकम्।।8।।

अथोच्येत- प्राक् स्तुपदेभ्यो, निरकाङ्क्षाणि विधायकानि, विधिस्वरूपत्वात्। स्तुतिपदानि तु प्रमादपाठ इति। तन्न। एवमर्थावगमात्। तुल्यञ्च साम्प्रदायिकम्। सम्प्रदायः प्रयोजनं येषां धर्माणां, सर्वे ते विधिपदानां अर्थवादपदानां च तुल्याः। अध्यायाऽनध्यायते, गुरुमुखात्प्रतिपत्तिः, शिष्योपाध्यायता च सर्वस्मिन्नेवञ्जातीयके अविघ्नाऽर्थे तुल्यमाद्रियन्ते। स्मरणं च दृढम्। अतो न प्रमादपाठ इति। 8।।

सू.1.2.9

अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छाब्दार्थस्त्वप्रयोगभूतस्मादुपपद्येत।।9।।

अपि च, या एषाऽनुपपत्तिरुक्ता- शास्त्रदृष्टविरोधादित्येवमाद्या सा, सोऽरोदीदित्येवमादिषु न प्राप्नोति। कुतः। प्रयोगे हि स्तेयादीनामुच्यमाने विरोधः स्यात्। शब्दार्थस्त्वप्रयोगभूतः। तस्मादुपपद्यते- स्तेनं मनः, अनृतवादिनी वागिति।।9।।

सू.1.2.10

गुणवादस्तु।।10।।

यदुक्तं विधेयस्य प्ररोचनार्था स्तुतिरिति। तदिह कथमवकल्प्येत? यत्रान्यद्विधेयम्, अन्यच्च स्तूयते। यथा, वेतसशाखयाऽवकाभिश्चाÏग्न विकर्षतीति। वेतसाऽवके विधीयते, आपश्च स्तूयन्ते- अपो वै शान्ता इति। तदुच्यते। गुणवादस्तु। गौण एष वादो भवति, यत् सम्बन्धिनि स्तोतव्ये सम्बन्ध्यन्तरं स्तूयते। अभिजनो ह्येष

वेतसावकयोः। ततस्ते जाते। अभिजनसंस्तवेन चाभिजातः स्तुतो भवति। यथा- अस्माकाभिजनो देवदत्तोऽस्माकेषु स्तूयमानेषु स्तुतमात्मानं मन्यते, एवमत्रापि द्रष्टव्यम्।।

अथ, सोऽरोदीदिति कस्य विधेः शेषः? तस्माद् बर्हिषि रजतं न देयमित्यस्य। कुतः?। साकाङ्क्षत्वात् पदानाम्। सोऽरोदीत्, यदरोदीत् तद् रुद्रस्य रुद्रत्वमित्यत्र, स इति प्रकृतापेक्षः। तत्प्रत्ययात्। तस्य यदश्रु अशीर्य्यत इति तस्येति पूर्वप्रकृतापेक्ष एव। उपपत्तिश्चोपरितनस्य, यो बर्हिषि रजतं दद्यात् पुराऽस्य संवत्सरात् गृहे रोदनं भवतीत्यस्य हेतुत्वेनायं प्रतिनिर्दिश्यते- तस्माद्बर्हिषि रजतं न देयमिति। एवं सर्वाणि साकाङ्क्षाणि कथं विधेरुपकुर्वन्तीति?। गुणवादेन रोदनप्रभवं रजतं बर्हिषि ददतो रोदनमापद्यते। तत् प्रतिषेधस्य गुणो यद् अरोदनमिति। कथं पुनरुदति, अरोदीदिति भवति? कथं वाऽनश्रुप्रभवे रजतेऽश्रुप्रभवमिति वचनम्? पुराऽस्य संवत्सरादसति रोदने, कथं रोदनं भवतीति। तदुच्यते।। गुणवादस्तु।। गौणा एते शब्दाः। रुद्र इति

रोदननिमित्तस्य शब्दस्य दर्शनाद्। यदरोदीदित्युच्यते। वर्णासारूप्यान्निन्दन्ननश्रुप्रभवमप्यश्रुप्रभवमित्याह। निन्दन्नेव च धनत्यागे दुःखदर्शनात् पुराऽस्य संवत्सराद् गृहे रोदनं भवतीत्याह।।

तथा, यः प्रजाकामः पशुकामो वा स्यात् स एतं प्राजापत्यं तूपरमालभेत इति आकाङ्क्षितत्वादस्य विधेः शेषोऽयं-स आत्मनो वपामुदक्खिददिति। कथं गुणवादः? इत्थं नाम नासन् पशवो यद् आत्मनो वपामुदक्खिददिति। एतच्च कर्मणः सामथ्र्ये, यद् अग्नौ प्रहृतामात्रायां वपायामजस्तूपर उदगाद्, इत्थं बहवः पशवो भवन्तीति। कथं पुनरनुत्खिन्नायां वपायां प्रजापतिरात्मनो वपामुदक्खिददित्याह?। उच्यते। असद्वृत्तान्तान्वाख्यानं, स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात्।

इहान्वाख्याने वर्त्तमाने, द्वयं निष्पद्यते- यच्च वृत्तान्तज्ञानं, यच्च कस्मिश्चित् प्ररोचना द्वेषो वा तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं, न निवर्तकं चेति प्रयोजनाभावादनर्थकमित्यविवक्षितम्। प्ररोचनया तु प्रवर्तते, द्वेषात् निवर्तते इति तयोर्विवक्षा। वृत्तान्तान्वाख्यानेऽपि विधीयमाने आदिमत्ता दोषो वेदस्य प्रसज्येत। कथं पुनरिदं निरालम्बनमन्वाख्यायते? इति। उच्यते। नित्यः कश्चिदर्थः प्रजापतिः स्याद् वाचुराकाश आदित्यो वा स आत्मनो वपामुदक्खिदादति- वृÏष्ट, वायुं, रÏश्म वा तामग्नौ प्रागृह्णात्, वैद्युते आर्चीसे लौकिके वा। ततोऽज इत्यन्नं, बीजं, विरुद् वा। तमालभ्य तमुपयुज्य प्रजाः पशून् प्राप्नोतीति गौणाः शब्दाः।।

आदित्यः प्रायणीयश्चरुरादित्य उदनीयश्चरुरित्यस्य विधेः शेषो, देवा वै देवयजनमध्यवसाय दिशो न प्रजानन्नित्याकाङ्क्षितत्वात्। सर्वव्यामोहानामादित्यश्चरुर्नाशयिता, अपि दिङ्मोहस्येति स्तुतिः। कथमसति दिङ्मोहे दिङ्मोहशब्द इति। उच्यते। अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद् गौणो मोहशब्दोऽवधारणावकाशदानादिभिज्र्ञापयतीति गौणता।।10।।

सू.1.2.11

रूपात् प्रायात्।।11।।

हिरण्यं हस्ते भवति अथ गृह्णातीति, साकाङ्क्षत्वादस्य विधेः शेषः- स्तेनं मनोऽनृतवादिनी वागिति। निन्दावचनं हिरण्यस्तुत्यर्थेन यथा- किम् ऋषिणा, देवदत्त एव भोजयितव्यः। कथं पुनरस्तेनं मनो निन्दितुमपि स्तेनशब्देनोच्यते, वाचं चाऽननृतवादिनीमपि, अनृतवादिनीति ब्रूयात्? गुणवादस्तु रूपात्। यथा स्तेनाः प्रच्छन्नरूपाः, एवं च मन इति गौणः शब्दः। प्रायाच्च अनृतवादिनी वागिति।।11।।

सू.1.2.12

दूरभूयस्त्वात्।।12।।

दृष्टविरोधे उदाहरणं, तस्मादर्चिरेवाग्नेर्नक्तं ददृशे, न धूम इति। अग्निज्र्योतिज्र्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिज्र्योति सूर्यः स्वाहेति प्रातरिति मिश्रलिङ्गमन्त्रयोर्विधानस्याकाङ्क्षितत्वाच्छेषः। उभयोर्देवतयोः सन्निधाने होम इति स्तुतेरुपपत्तिः दूरभूयस्त्वाद् धूमस्याग्नेश्चाऽदर्शने गौण शब्दः।।12।।

सू.1.2.13

अपराधात् कर्तुश्च पुत्रदर्शनम्।।13।।

दृष्टविरोधे एव उदाहरणं, न चैतद्विद्म इति। तत्, प्रवरे प्रव्रियमाणे देवाः पितर इति ब्रूयादित्याकाङ्क्षितत्वादस्य विधेः शेषः। अब्राह्मणोऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्यादिति स्तुतिः। दुज्र्ञानत्वादज्ञानवचनं गौणम्। स्त्र्यपराधेन कर्त्तुश्च पुत्रदर्शनेन, अप्रमत्तरक्षत तन्तुमेनमित्यादिना दुज्र्ञानम्।।13।।

सू.1.2.14

आकालिकेप्सा।।14।।

शास्त्रदृष्टविरोधे उदाहरणं, को हि तद्वेदेति, दिक्ष्वतीकाशान् करोतीति साकाङ्क्षत्वादस्य विधेः शेषः। प्रत्यक्षफलत्वेन स्तुतिः। अनवक्लृप्तिवचनं विप्रकृष्टकालफलत्वाद्गौणम्।।14।।

सू.1.2.15

विद्याप्रशंसा।।15।।

तथाफलभावादित्यत्रोदाहृतं शोभतेऽस्य मुखमिति गर्गत्रिरात्रविधेराकाङ्क्षितत्वाच्छेषः। वेदानुमन्त्रणस्य

च, आऽस्य प्रजायां वाजी जायते इति शेषः। मुखशोभा वाजिमत्वं च गुणवचनत्वाद्गौणः शब्दः। शोभते इव शिष्यैरुद्धीक्ष्यमाणम्। कुले सन्तताध्ययनश्रवणान्मेधावी जायते इति स प्रतिग्रहादन्नं प्राप्नोतीति।।15।।

सू.1.2.16

सर्वत्वमाधिकारिकम्।।16।।

अन्यानर्थक्यवाक्ये उदाहरणं, पूर्णाहुत्या सर्वान् कामानवाप्नोतीति पूर्णाहुतिं जुहोतीत्याकाङ्क्षितत्वादस्य विधेः शेषः। य उ चैनमेवं वेदेति, तरति मृत्युमित्यस्याकाङ्क्षितत्वाच्छेषः। फलवचनं स्तुतिः, सर्वकामफलस्य निमित्ते सर्वकामावाप्तिवचनं गौणम्। असर्वेषु सर्ववचनमधिकृतापेक्षम्।।16।।

सू.1.2.17

फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात्।।17।।

अन्वारुह्य वचनमिदं यद्यपि विधिस्तथाप्यऽर्थवत्ता परिमाणतः स्मरतो वा फलविशेषात्।।17।।

सू.1.2.18

अन्त्ययोर्यथोक्तम्।।18।।

अभागिप्रतिषेधादित्यातावुदाहृतं- न पृथिव्यामग्निश्चेतव्यो नान्तरीक्षे न दिवीति, हिरण्यं निधाय चेतव्यमित्याकाङ्क्षितत्वादस्य विधेः शेषः। पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था। असति प्रसङ्गे प्रतिषेधो नित्यानुवादः। यच्चानित्यदर्शनं बवरः प्रावाहणिरकामयत इति। तत् परिहृतम्। अर्थवादाक्षेपेण पुनरुत्थितमिदानीमर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यते इति।।18।। उत्तरम्।।

अर्थवादाधिकरणम्।।1।।

सू.1.2.19

विधिर्वा स्यादपूर्व्वत्वाद्वादमात्रं ह्यनर्थकम्।।19।।

इह ये विधिवन्निगदा अर्थवादास्ते उदाहरणम्। औदुम्बरो यूपो मवत्यूग्र्वा उदुम्बर ऊर्कपशव ऊर्जैवास्मा ऊर्जं पशूनाप्नोति ऊर्जोऽवरुध्यै इति। किमस्य विधिः कार्यम्, उतास्यापि स्तुतिरिति? किं तावत्प्राप्तम्। विधिर्वा स्यादपूर्वत्वाद्वादमात्रं ह्यनर्थकम्। विधिवन्निगदेष्वेवञ्जातीयकेषु फलविधिः स्यात्। फलं ह्यवगम्यते। तथा ह्यपूर्वं अर्थं विधास्यति, इतरथा स्तुतिवादमात्रमनर्थकं स्यात्। स्तुतश्च अस्तुतश्च तावानेव सोऽर्थः। अपि च, ऊर्जोऽवरुध्ये इति प्रयोजनं श्रूयते। न च, प्रशस्तोऽयमर्थः इति कश्चिच्चब्दोऽस्ति। लक्षणयात्तु स्तुतिर्गम्यते। श्रुतिश्च लक्षणायाः ज्यायसीति।।19।। पूर्वपक्षः।।

सू.1.2.20

लोकवदिति चेत्।।20।।

इति चेत् पश्यसि- स्तुतिरनर्थिका, न च शब्देनावगम्यते इति। लौकिकानि वाक्यानि भवन्तो विदाङ्कुर्वन्तु। तद्यथा- इयं गौः क्रेतव्या देवदत्तीया, एषा हि हबुक्षीरास्त्र्यपत्या अनष्टप्रजा चेति। क्रेतव्येत्यप्युक्ते गुणाभिधानात् प्रवर्त्तन्तेतरां क्रेतारः। बहुक्षीरेति च गुणाभिधानमवगम्यते। तद्वद् वेदेऽपि भविष्यति।।20।। पूर्वपक्षे आशङ्का।

सू.1.2.21

न पूर्वत्वात्।।21।।

नैतदेवम्। लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः। तेषां विज्ञानमेव न प्रयोजनम्। अतः प्रशंसा गम्यते। अविदितवादे न श्रद्दधीरन्, पूर्ववचनादिव। विदितत्वादेव च प्ररोचयन्ते। वैदिकेषु पुनर्यदि विधिशब्देन न प्ररोचयन्ते, नतरामर्थवादेन। जाता शङ्को हि विधिशब्देन स तदानीम्। अथ विधिशब्देन प्ररोचितः, किम् अर्थवादशब्देन? अपि च वेदे व्यक्तमसंवादः, ऊर्जौऽवरुद्ध्यै इत्यप्रसिद्धं वचनम्, ऊध्र्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम्। यस्माद् ऊर्गुदुम्बरः, तस्मात् तन्मयो यूपः कर्त्तव्य इति। ऊर्गुदुम्बर इत्यनृत वचनादन्यदस्यानृतमिति परिकल्प्येत।।22।। आशङ्कानिरासः।।

सू.1.2.22

उक्तं तु वाक्यशेषत्वम्।।22।।

उक्तमस्माभिर्वाक्यशेषत्वं, विधिना त्वेकवाक्यत्वादिति। ननु उक्तं, फलवचनमिह गम्यते न स्तुतिरिति। यदिह फलवचनं, तदौदुम्बरस्य यूपस्य। न च अविहित औदुम्बरो यूपोऽस्ति। तत्र फलवचनमेवानर्थकम्। स्तुतिवचनः शब्दो नास्तीतिचेत्। इह फलवचनेन फलवत्ता प्रतीयते, फलवांश्च प्रशस्त इति।।

तत्र फलवत्तायामानर्थक्यमिति यो द्वितीयोऽर्थः प्रशंसा नाम स गम्यते। लक्षणेति चेन्न। लक्षणायामपि अर्थवत्ता भवत्येव। लक्षणाऽपि हि लौकिकी। ननूक्तम् असंवादो वेदे, न ह्यूर्गुदुम्बर इति। गुणवादेन प्ररोचनार्थतां ब्रूमहे। गौणत्वात्संवादः। किं सादृश्यम्। यथाऽन्नं प्रीतेः साधनम्, एवमिदमपि प्रीतिसाधनशक्तियुक्तं प्रशंसितुं प्रशंसावाचिना प्रीतिसाधनशब्देन उच्यते। शक्यते हि तत् पक्वफलसम्बन्धादूर्गिति वक्तुम्। 22।। सिद्धान्तः।

सू.1.2.23

विधिश्चानर्थकः क्वचिकत्तस्मात् स्तुतिः प्रतीयेत, तत्सामान्यादितरेषु तथात्वम्।।23।।

अप्सुयोनिर्वा अश्वो अप्सुजो वेतस इति अप्सुयोभिरश्वः कर्त्तव्य इति विधेरशक्यत्वादनर्थक्यम्। तत्रावश्यं स्तुतिः कल्पयितव्या, शमयित्रीभिरद्भिरश्वस्य अत्रकानां च सम्बन्धो यजमानस्य कष्टं शमयतीति। तत्सामान्यादितरेषु तथात्वं तथेतियावत्, तावत्तथात्वमिति। किं तत्सामान्यम्। विध्यसम्भवः स्तुतिसम्भवश्च।23।।

सू.1.2.24

प्रकरणे सम्भवन्नपकर्षो न कल्प्येत, विध्यानर्थक्यं हि तं प्रति।।24।।

इतश्च पश्यामः स्तुतिरित। कुतः। इदं समामनन्ति, यो विदग्धः स नैर्ऋतऋ स रौद्रः, यः ऋतः स देवतः। तस्मादविदहता श्रपयितव्यः स दैवतात्वायेति। यदि स्तुतिः, दर्शपूर्णमासयोरेव श्रृतः स्ताविष्यते। तथा सम्भवन्नपकर्षो न कल्प्येत। अपकृष्यते इत्यपकर्षः। विधिपक्षे तु यत्र नैर्ऋतस्तत्र विदग्धता नीयेत। तथा सति प्रकरणं बाधितं भवेत्। दर्शपूर्णमासकर्म प्रति नैर्ऋताभावाद् विदग्धविधानमनर्थकं स्यात्। तस्मात् स्तुतिरेव।।24।।

सू.1.2.25

विधौ च वाक्यभेदः स्यात्।।25।।

औदुम्बरो यूपो भवतीति विधावतस्मिन्नाश्रीयमाणे, ऊर्जोऽवरुद्ध्यै इत्येतÏस्मश्च वाक्यं भिद्येत। इत्थम् औदुम्बरो यूपः प्रशस्तः, स चोर्जोऽवरुद्ध्यै इति। तस्माद् विधिवन्निगदानामपि स्तुतिरेव कार्यमर्थवादानामिति।।25।।सिद्धान्ते युक्तिः। विधिवन्निगदाधिकरणम्।।

सू.1.2.26

हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम्।26।।

अथ ये हेतुवन्निगदाः, शूर्पेण जुहोति तेन ह्यन्नं क्रियते इत्येवमादयस्तेषु सन्देहः। किं स्तुतिस्तेषां कार्यम्, उत हेतुरिति। किं प्राप्तम्। हेतुः स्यादन्नकरणं होमस्य। नन्वप्रसिद्धे कार्यकारणभावे न हेतूपदेशः। सत्यमेवं लोके, विधायिष्यते तु वचनेन वेदे। शूर्पेण होमे कर्त्तव्ये अन्नकरणं हेतुरित्युपदिश्यते। किं प्रयोजनम्। अन्यदपि दर्वीपिठरादि अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति। कुतः? तस्याप्यन्नक्रियायामर्थवत्ता, शक्यते चतेनाप्यन्नं कर्तुम्। एतद्धि, क्रियते इत्युच्यते। न हि, वर्त्तमानकालः कश्चिदस्ति। यस्यायं प्रतिनिर्देशः। हेतौ च श्रुतिः शब्दः,स्तुतौ लक्षणा। यदि च दर्वीपिठरादि न साक्षादन्नं करोतीति नान्नकरणमित्युच्यते। व्यर्थे तस्मिन् शूर्पस्तुतिरनर्थिका स्यात्। शूर्पमपि हि न साक्षादन्नं करोतीति तेन विनाऽर्थेन शूर्पस्य स्तुतिर्नोपपद्यते।।26।। पूर्वपक्षः।।

सू.1.2.27

स्तुतिस्तु शब्दपूर्वत्वादचोदना च तस्य।।27।।

न त्वेतदस्ति शब्दपूर्वकोऽयमर्थः, अन्नकरणं हेतुरिति। शब्दश्चाऽन्नकरणं शूर्पहोमे हेतुरित्याह। न च दर्वीपिठरहोमे तेन शब्दपूर्वं शूर्पं, न च दर्वीपिठरादेश्चोदना।।27। सिद्धान्तः।।

सू.1.2.28

व्यर्थे स्तुतिरन्यायेति चेत्।।28।।

इति पुनर्यदुक्तं, तत् परिहर्त्तव्यम्। 28।। सिद्धान्ते आशङ्का।।

सू.1.2.29

अर्थस्तु विधिशेषत्वात् यथा लोके।।29।।

अस्मत्पक्षेऽर्थोऽस्ति। वाक्यशेषो हि स विधेस्तदा भवति। संवादश्च स्तुतिवचनत्वेन यथा वयं शूर्पेणान्नं क्रियमाणं जानीमस्तथा शूर्पेणान्नं क्रियते इत्येव गम्यते। तदा चावर्त्तमानं स्तोतुं वर्त्तमानमित्युपदिशति। त्वत्पक्षे

एष दोषो, यस्य ते हेतुविधिः। विधौ हि न परः शब्दार्थः प्रतीयते, नच वर्त्तमानमुपदिशन् वेदः शक्यमर्थं विदध्यात्। अस्मत्पक्षे तु एष परशब्दः परत्र वर्त्तते, यथा लोके, बलवान् देवदत्तो यज्ञदत्तादीन् प्रसहते इति। प्रकृष्टबलेऽपि बलवच्छब्दे वर्त्तमानो न सिंहं शीर्दूलं वाऽपेक्ष्य प्रयुज्यते, ये देवदत्तात्तु निकृष्टबलास्तान् अपेक्ष्य भवति। एवं, तेन ह्यन्नं क्रियते इति प्रकृष्टान्नकरणेन संस्तवः शूर्पस्य, निकृष्टान्यऽन्यानि अन्नकरणान्यपेक्ष्य भविष्यति।। 29।। आशङ्कानिरासः।।

सू.1.2.30

यदि च हेतुरवतिष्ठेन निर्देशात् सामान्यादितिचेदव्यवस्था विधीनां स्यात्।।30।।

यद्यपि च भवेदन्नकरणं हेतुर्दर्वीपिठरप्रकाराणां, तथापि शूर्प एवावतिष्ठेत। शब्दादन्नकरणं हेतुरिति विज्ञायते। शब्दश्च शूर्पस्याह, न दर्वीपिठरादीनाम्। तद्धि निर्दिश्यते यस्मात् शूर्पेणान्नं क्रियते, तस्मात् शर्पण जुहोतीति। यथा, यस्माद् बलवदुपध्मातोऽग्निस्तेन मे गृहं दग्धमिति, न अनग्निरपि बलवदुपध्मातो दहतीति गम्यते। अथ मतं, येन येनान्नं क्रियते प्रणाड्या, शूर्पादन्येनापि तेन तेनापि होमः। क्रियते इति। अव्यवस्था विधीनां स्यान्न केनचित् प्रणाड्याऽन्नं क्रियते। तत्र यावदुक्तं स्यात्, जुहोति- इति, तावदेवाऽन्नकरणेन जुहोतीति। अस्मत्पक्षे पुनः शूर्पं स्तूयते। तेन ह्यन्नं क्रियते इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि प्ररोचनयैवम्। तस्माद्धेतुवन्निगदस्यापि स्तुतिरेव कार्य्यमिति।।30।। सिद्धान्ते युक्तिः। हेतुवन्निगदाधिकरणम्।।3।।

सू.1.2.31

तदर्थशास्त्रात्।।31।।

अथेदानीं, किं विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः?। किमर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति। यद्युच्चारणमात्रेण तदा न नियोगतो, बर्हिर्देवसदनं दामीत्येष बर्हिर्लवने विनियुज्येत। अभिधानेन चेत्, प्रकरणेन विज्ञाताङ्गभावो नान्यत्रोपकर्तुं शक्नोतीत्यन्तरेणापि वचनं बर्हिर्लवन एव विनियुज्यतेति। तदेवमवगच्छामः। उच्चारणमात्रेणैवोपकुर्वन्तीति। कुतः। तदर्थशास्त्रात् यदभिधानसमर्थो मन्त्रस्तत्रैवैनं शास्त्रं निबध्नाति। उरुप्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीति वचनमिदमनर्थकं, यद्यर्थाभिधानेनोपकुर्वन्ति। अथोच्चारणमात्रेण, ततो वक्तव्यो विनियोग उक्तश्च। अतो नाऽर्थाभिधानेन। यथा साक्षः पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते।।

नन्वर्थवादार्थं भविष्यतीति चेत्। नहि येन विधीयते, तस्य वाक्यशेषोऽर्थवाद इत्युक्तम्। न च निरपेक्षेण विहिते अर्थवादेन किञ्चिदपि प्रयोजनं क्रियते। अतो नार्थवादार्थं वचनम्।।

तथाऽभ्यादानसमर्था मन्त्रा उदाहरणम्। लिङगादेव आदाने प्राप्तौ वचनेन विधीयन्ते। तां चतुर्भिरादत्ते इति। चतुसंख्यार्थमिति चेन्न। समुच्चयशब्दाभावात्।

तथा, इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्युदाहरणम्। रशनादाने प्राप्तस्य रशनादाने एव शास्त्रं विनियोजकम्। तद् विवक्षितार्थत्वे न घटेतेति। ननु गर्द्दभरशनां परिसख्यास्यति। न शक्नोति परिसंख्यातुम्। परिसञ्चक्षाणो हि स्वार्थं च जह्यात्, परार्थश्च कल्पेत, प्राप्तं च बाधेत।तस्मान्न विवक्षितवचना मन्त्राः अतो न प्रमाणं, बर्हिर्देवासदनं दामीत्यस्य रूपं बर्हिर्लवने विनियोगस्य। 31।।

सू.1.2.32

वाक्यनियमात्।।32।।

नियतपदक्रमा हि मन्त्रा भवन्ति। अग्निमूद्र्धा दिव इति, न विपर्ययेण। यद्यर्थप्रत्यायनार्थाः, विपर्ययेणाप्यर्थः प्रतीयते इति नियमोऽनर्थकः स्यात्। अथोच्चारणविशेषार्थाः, विपर्यये अन्यदुच्चारणमिति नियम आश्रीयते। तेन यतरस्मिन् पक्षे नियमोऽर्थवान्, स नूनं पक्षं इति। नन्वर्थवत्स्वपि नियमो दृश्यते। यथा, इन्द्राग्नी इति। युक्तं तत्र तत्। विपर्ययेऽर्थप्रत्ययाभावात्।

सू.1.2.33

बुद्धशास्त्रात्।।33।।

बुद्धे खल्वपि पाठादर्थे तदभिधानसमर्थो मन्त्रो भवति। अग्नीदऽग्नीन् विहरेति। स बुद्धे किं बोधयत्?। अथ नु उच्चारणविशेषार्थाः, बुद्धेऽप्युच्चारणविशेषोऽवकल्प्येतेति। ननु पुनर्वचनात् संस्कारविशेषो भविष्यति। एवमस्मत्पक्षमेवाश्रितोऽसि वचनमुच्चारणम्। तद्धि शक्यते कर्त्तुं, नार्थप्रत्यायनम्। तत् प्रतीतेऽशक्यम्। यथा, सोपानत्के पादे द्वितीयामुपानहमशक्यत्वान्नोपादत्ते।।33।।

सू.1.2.34

अविद्यमानवचनात्।।34।।

यज्ञे साधनभूतः प्रकाशयितव्यः। न च तादृशोऽर्थोऽस्ति, यादृशमभिदधति। यथा, चत्वारि श्रृङ्गा इति। न हि चतुःश्रृङ्गं त्रिपादं द्विशिरस्कं सप्तहस्तं किञ्चिद् यज्ञसाधनमस्ति। तदत्राभिधानार्थं किमभिदध्यात्। उच्चारणार्थे त्ववल्प्यते।

तथा, मा मा हिंसी इत्यसत्यामपि हिंसायां किमभिदध्यात्।। 34।।

सू.1.2.35

अचेतनेऽर्थबन्धनात्।।35।।

अचेतनेऽर्थे खल्वर्थं निबध्नन्ति, ओषधे त्रायस्वैनमिति। अभिधानेनोपकुर्वन्त एवञ्जातीयका ओषधि पशुत्राणाय प्रतिपादयेयुः। न चासावचेतना शक्या प्रतिपादयितुम्। उच्चारणार्थे तु नैष दोषो भवति। तस्मादुच्चारणार्थाः। शृणोत ग्रावाण इति चोदाहरणम्।।35।।

सू.1.2.36

अर्थविप्रतिषेधात्।।36।।

अर्थविप्रतिषेधोऽपि भवति। अदितिद्र्यौरदितिरन्तरिक्षमिति। सैव द्यौः, तदेवान्तरिक्षमिति को जातुचिदवधारयेत्। अनवधारयंश्च किमभिधानेनोपकुर्यात्? उच्चारणमात्रे तु नैष विरोधे भवति। तस्मादुच्चारणार्था मन्त्राः। एको रुद्रो न द्वितीयोऽवतस्थे, असंख्याताः सहस्राणि ये रुद्रा अधिभूम्यामिति चोदाहरणम्।।35।।

सू.1.2.37

स्वाध्यायवदवचनात्।।37।।

स्वाध्यायकाले पूर्णिकाऽवहÏन्त करोति। माणवकोऽवहन्तिमन्त्रमधीते। नाऽसौ तेन मन्त्रेण तदभिधानमभ्यस्यति, अक्षरानुपूव्र्या अवधारणे एव यतते। येन च नाम प्रयोजनं, तदभ्यासितव्यम्। अत्र उच्चारणाभ्यासादुच्चारणेन प्रयोजनमित्यवगच्छामः।।37।।

सू.1.2.38

अविज्ञेयात्।।38।।

अपि च केषाञ्चिन्मन्त्राणामशक्य एवार्थो वेदितुम्। यथा सम्यक् सात इन्द्र ऋषिरस्मे इति, सृण्येव जर्भरी तुर्फरीतू इति, इन्द्रसोमस्य काणुका इति च। एते किं प्रत्याययेयुः?। उच्चारणार्थे तु न दोषः। तस्मादुच्चारणार्था मन्त्रा इति।।38।।

सू.1.2.39

अनित्यसमयोगान्मन्त्रानर्थक्यम्।।39।।

अनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेषु। यथा किं कृष्वन्ति कीकटेषु गाव इति। कीकटा नाम

जनपदाः, नैचाशास्त्रं नाम नगरं, प्रमङ्गदो राजेति। यद्यभिधानार्थाः, प्राक् प्रमङ्गदान्नाऽयं मन्त्रोऽनुभूतपूर्व इति गम्यते। तदेतैस्तदर्थशास्त्रादिभिः कारणैर्मन्त्रानामविवक्षितवचनता।।39।। पूर्वपक्षः।।

सू.1.2.40

अविशिष्टस्तु वाक्यार्थः।।40।।

अविशिष्टस्तु लोके प्रयुज्यमानानां वेदे च पदानामर्थः। स यथैव लोके विवक्षितस्तथैव वेदेऽपि भवितुमर्हति। नैवम्। लोके तैरर्थैरवबुद्धैः संव्यवहारः। इह देवताभिरप्रत्यक्षाभिर्यज्ञाङ्गैश्चाऽचेतनैः संलापे न कश्चिद् यज्ञस्योपकारः। यद्यदृष्टं परिकल्प्येत, उच्चारणादेव तद्भवितुमर्हति। यद्धि कर्त्तव्यं, तत् प्रयोजनवत्।उच्चारणं च न कथञ्चित् न कर्त्तव्यं, यद्यपूर्वाय। यद्यर्थाय, यद्यर्थो न प्रत्याय्यते। न किञ्चित् अनर्थकम्। यदि न प्रयुज्यते, समाम्नानानर्थक्यम्। तस्मादुच्चारणादपूर्वम्। तथाच तदर्थशास्त्रादि उक्तम्। तदुच्यते। अर्थप्रत्यायनार्थमेव यज्ञे मन्त्रोच्चारणम्।यदुक्तम्, न देवताभिर्यज्ञाङ्गैश्च संलापे प्रयोजनमस्तीति। यज्ञे यज्ञाङ्गप्रकाशनमेव प्रयोजनम्। कथम्। न ह्यप्रकाशिते यज्ञे यज्ञाङ्गे च यागः शक्योऽभिनिर्वर्त्तयितुम्। तस्मात्तन्निर्वृत्त्यर्थमर्थप्रकाशनं महानुपकारः कर्मणः, तच्च करोतीत्यवगम्यते। तस्मादस्त्यस्य प्रयोजनम्। तच्च दृष्टं न शक्यमपवदितुम्। नाह्यर्थाभिधानम् प्रयोजनमिति। नन्वर्थाभिधानेनोपकुर्वत्सु, तां चतुर्भिरादते इत्येवमाद्यनर्थकं भवति। काममनर्थकं भवतु, न जातुचिदपजानीमहे दृष्टमर्थाभिधानस्योपकारकत्वम्।।40।। सिद्धान्तः।।

अथ किं तच्छास्त्रमनर्थकमेव?। न हि।।

सू.1.2.41

गुणार्थेन पुनः श्रुतिः।।41।।

यदुक्तं, तां चतुर्भिरादत्ते इति समुच्चयशब्दाभावाद् न समुच्चयार्थमिति। चतुःसंख्याविशिष्टमादानं कर्त्तव्यमिति

वाक्यादवगम्यते। तदेकेन मन्त्रेण गृह्णन् न यथाश्रुतं गृह्णीयादिति।।41।।

सू.1.2.42

परिसंख्या।।42।।

परिसञ्चक्षाणे च, इमामगृभ्णन्नित्यश्वाभिधानीमादत्ते इति त्रयो दोषाः प्रादुःष्युरिति। नैवं संबन्धः- इत्यादत्ते इति। कथं तर्हि? इत्यश्वाभिधानीमिति। लिङ्गाद्रशनामात्रे, शब्दात्तु विशेषे अश्वाभिधान्यामिति। सति च वाक्ये लिङ्गं विनियोजकम्। तच्चास्य प्रकरणाम्नानानुमितं वाक्यं नास्ति। कतरत्तत्? एतेन मन्त्रेणादानं कुर्यादिति, यस्मिन् सति रशनामात्रे लिङ्गात् प्राप्नोति। अश्वाभिधान्या तु प्रत्यक्षमेव वचनम्। अस्मिन् सति तद् आनुमानिकं नास्ति। तेन गर्द्दभरशनायां न प्राप्तिरेवेति।।42।।

सू.1.2.43

अर्थवादो।।43।।

उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीत्यर्थवादार्थेन पुनः श्रुतिः, यज्ञपतिमेव तत् प्रथयतीति। ननु नाऽयं मन्त्रस्य वाक्यशेष न च प्राप्तस्य स्तुत्या प्रयोजनम्। सत्यम्। नायं मन्त्रस्य विधिः, न संस्तवः। प्रथमनेव तत्र स्तूयते। मन्त्रः पुनः रूपादेव प्राप्त इहानूद्यते। प्रपनं स्तोतुम्। इत्थं प्रथनं प्रशस्तं, यत् क्रियमाणमेवंरूपेण मन्त्रेण क्रियते। कस्तदा भवति गुणः। .यज्ञपतिमेव तत् प्रजया पशुभिः प्रथयति। किमेतदेवास्य फलं भवति। नेति ब्रूमः। स्तुतिः कथं भविष्यतीति। एवमुच्यते। कथमसति प्रथने प्रथयतीति शब्दः। मन्त्राभिधानात्। मन्त्रेण पुरोडशामध्वर्युः प्रथस्वेति ब्रूते। यश्चैवं प्रथस्वेति ब्रूते, स प्रथयति। यथा, यः कुर्विति ब्रूते, स कारयति।।43।।

सू.1.2.44

अविरुद्धं परम्।।44।।

यदुक्तं, पदनियमस्यार्थवत्त्वादविवक्षितार्था मन्त्रा इति। काममनर्थको नियमो, न दृष्टमप्रामाणम्। नियतोच्चारणम् अदृष्टायेति चेत्, अविरुद्धा अदृष्टकल्पनाऽस्मत्पक्षेऽपि। एवं प्रत्याय्यमानमभ्युदयकारि भवतीति।।44।।

सू.1.2.45

संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्वात्।।45।।

अथ यदुक्तं प्रोक्षणीरासादयेति बुद्धबोधनमशक्यम्, अत उच्चारणाददृष्टमिति। तन्न कर्त्तव्यमित्यपि विज्ञाते अनुष्ठानकाले स्मृत्या प्रयोजनम्। उपायान्तरेणापि सा प्राप्नोति। अतोऽनेनोपायेन कर्त्तव्येति नियमार्थमाम्नानम्। संस्कारत्वात्।।45।।

सू.1.2.46

अभिधानेऽर्थवादः।।46।।

चत्वारि श्रृङ्गा इत्यसदभिधाने गौणः शब्दः। गौणी कल्पनाप्रमाणत्वादुच्चारणाददृष्टमाणम्। चतस्रो होत्राः श्रृङ्गाणीवाऽस्य। त्रयोऽस्य पादा इति सवनाभिप्रायम्। द्वे शीर्षे इति पत्नीयजमानौ।सप्त हस्तास इति छन्दांस्यऽभिप्रेत्य। त्रिधां बद्ध इति त्रिभिर्वेदैर्बद्धः। वृषभः कामान् वर्षतीति, रोरवीति शब्दकर्मा, महो देवो मत्त्र्यान् आविवेशेति मनुष्याधिकाराभिप्रायम्। तद् यथा, चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नदीति नद्याः स्तुतिः। यज्ञसमृद्धये साधनानां चेतनसागदृश्यमुपपादयितुकाम आमन्त्रणशब्देन लक्षयति। औषधे! त्रायस्वैनमिति, शृणोत ग्रावाण इति। अतः परं प्रातरनुवाकनुवचनं भविष्यति, यत्राचेतनाः सन्तो ग्रावाणोऽपि शृणुयुः, किं पुनर्विद्वांसोऽपि ब्राह्ममा इति। इत्थञ्चाचेतना अपि ग्रावाण आमन्त्र्यन्ते।।46।।

सू.1.2.47

गुणादविप्रतिषेधः स्यात्।।47।।

अदितिद्र्यौरिति गौण एष शब्दः। अतो न विप्रतिषेधः। यथा, त्वमेव माता पितेति, तथैकरुद्रदेवत्ये, एको रुद्रः, शतरुद्रदैवत्ये, शतं रुद्रा इत्यविरोधः।47।।

सू.1.2.48

विद्यावचनमसंयोगात्।।48।।

यत्तु- अकर्मकालेऽवहन्तिमन्त्रेण माणवको न पूर्णिकाऽवहÏन्त प्रकाशयितुमिच्छतीति। अयज्ञसंयोगाद्, न यज्ञोपकारायैतत् प्रकाशयितुमिच्छति। ननु प्रकाशनानभ्यासोऽक्षराभ्यासश्च परिचोदितः। उच्यते। सौकर्यात् प्रकाशनानभ्यासः, दुग्र्रहत्वाच्चाक्षराभ्यासः।।48।।

सू.1.2.49

सतः परमविज्ञानम्।।49।।

विद्यमानोऽप्यर्थः प्रमादालस्यादिभिर्नोपलभ्यते। निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः। यथा, शृण्येव जर्भरी तुर्फरीत् इत्येवमादीनि अश्विनोरभिधानानि द्विवचनान्तानि लक्ष्यन्ते। अनेन, अश्विनोः काममप्रा इत्याश्विनं सूक्तमवगम्यते। देवताभिधानानि च घटन्ते, जर्भरीत्येवमादीनि। अवयवप्रसिद्ध्या च लौकिकेन अर्थेन विशेष्यन्ते। जर्भरी भर्त्तारौ। तूर्फरीतू हन्ताराविति। एवं सर्वत्र।

सू.1.2.50

उक्तश्चानित्यसंयोगः।।50।।

परन्तु श्रुतिसामान्यम् इत्यत्रेति।।50।। ।।उत्तरम्।।3।।

सू.1.2.51

लिङ्गोपदेशश्च तदर्थवत्।51।।

आग्नेय्यऽग्नीध्रमुपदिष्ठते इति विधानाद् विवक्षितार्थानामेव मन्त्राणां भवति लिङ्गेनोपदेशः,यदि तेऽग्नि प्रयोजनाः, ततस्ते आग्नेय्याः, नाग्निशब्दसन्निधानात्।।51।।

सू.1.2.52

ऊहः।।52।।

ऊहदर्शनं च विवक्षितार्थानेमेव भवति। किमूहदर्शनम्। न पिता वद्र्धते, न मातेति। अन्ये वद्र्धन्ते इति गम्यते। प्रत्यक्षं कौमारयौवनस्थाविरैर्वद्र्धन्ते मात्रादयः। शब्दो न वद्र्धत इति ब्रूते। का पुनः शब्दस्य वृद्धिः। यद्

द्विवचनबहुवचनसंयोगः।।52।।

सू.1.2.53

विधिशब्दाश्च।53।।

विधिशब्दाश्च विवक्षितार्थानेव मन्त्राननुवदन्ति। शतं हिमाः शतं वर्षाणि जीव्यासमित्येतदेवाहेति।।53।। सिद्धान्ते युक्तिः। मन्त्रलिङ्गाधिकरणम्।4।। इति श्रीशबरस्वामिकृतौ मीमांसाभाष्ये प्रथमाध्यायस्य द्वितीयः पादः।।1।।2।।