शबरभाष्यम्/प्रथमोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः

सू.1.3.1 धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ।।1।।

एवं तावत् कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम् । अथेदानीं यत्र न वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्ति एवमयमर्थोऽनुष्ठातव्यः,एतस्मै च प्रयोजनाय इति । किमसौ तथैव स्यान्न वेति । यथा, अष्टकाः कर्त्तव्याः, गुरुरनुगन्तव्यः, तडागं खनितव्यम्, प्रपा प्रवर्त्तयितव्या, शिखाकर्म कर्त्तव्यमित्येवमादयः । तदुच्यते । धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति । शब्दलक्षणो धर्म इत्युक्तं चोदनालक्षणोऽर्थो धर्म इति । अतो निर्मूलत्वान्नापेक्षितव्यमिति । ननु ये विदुरित्थमसौ पदार्थः कर्त्तव्य इति, कथमिव ते वदिष्यन्त्यकर्त्तव्य एवायमिति ? स्मरमानुपपत्त्या । न ह्यननुभूतोऽश्रुतो वाऽर्थः स्मर्य्यते , न चास्यावैदिकस्याऽलौकिककस्य च स्मरणमुपपद्यते । पूर्वविज्ञानकारणाभावादिति । या हि वन्ध्या स्मरेत्- इदं मे दौहित्रकृतमिति, न मे दुहिताऽस्तीति मत्वा, न जातुचिदसौ प्रतीयात्- सम्यगेतज्ज्ञानमिति । एवमपि यथैव पारम्पर्येणाऽविच्छेदाद्, अयं वेद इति प्रमाणमेषां स्मृतिरेवमियमपि प्रमाणं भविष्यतीति । नैतदेवम् । प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य, नानुपपन्नं पूर्वविज्ञानम् । अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद् व्यामोहस्मृतिरेव गम्यते । तद् यथा, कश्चिज्जात्यन्धो वदेत्, स्मराम्यहमस्य रूपविशेषस्येति । कुतस्ते पूर्वविज्ञानमिति च पर्य्यनुयुक्तो जात्यन्धमेवाऽपरं विनिर्दिशेत् । तस्य कुतः ? जात्यन्धान्तरात् । एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित् संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति, अतो न आदर्त्तव्यमेवञ्जातीयकमनपेक्षं स्यादिति ।।1।। पूर्वपक्षः ।।

सू.1.3.2

अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात्।।2।।

अपि वेति पक्षो व्यावर्त्यते। प्रमाणं स्मृतिः। विज्ञानं हि तत् किमित्यन्यथा भविष्यति। पूर्वविज्ञानमस्य नास्ति, कारणाभावादिति चेत्। अस्या एव स्मृतेर्द्रढिम्नः कारणमनुमास्यामहे। तत्तु नानुभवनम्, अनुपपत्त्या। नहि मनुष्या इहैव जन्मन्येवञ्जातीयकमर्थमनुभवितुं शक्नुवन्ति। जन्मान्तरानुभूतं च न स्मर्यते। ग्रन्थस्तु अनुमीयेत, कर्तृसामान्यात् स्मृतिवैदिकपदार्थयोः। तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानाम्।।

ननु नोपलभन्ते एवञ्जातीयकं ग्रन्थम्। अनुपलभमाना अप्यनुमिमीरन्, विस्मरणमप्युपपद्यते इति तदुपपन्नत्वात् पूर्वविज्ञानस्य त्रैवर्णिकानां स्मरतां, विस्मरणस्य चोपपन्नत्वाद् ग्रन्थानुमानमुपपद्यते इति प्रमाणं

स्मृतिः।।

अष्टकालिङ्गाश्च मन्त्रा वेदे दृश्यन्ते, यां जनाः प्रतिनन्दन्तीत्येवमादयः। तथा प्रत्युपस्थितनियमानामाचाराणां दृष्टार्थत्वादेव प्रामाण्यम्। गुरोरनुगमात् प्रीतो गुरुरध्यापयिष्यति, ग्रन्थग्रंन्थिभेदिनश्च न्यायान् परितुष्टो वक्ष्यतीति। तथा च दर्शयति, तस्माच्छ्रेयांसं पूर्वं यन्तं पापीयान् पश्चादन्वेतीति। प्रपास्तङागानि च परोपकाराय, न धर्मायेत्येवावगम्यते। तथा च दर्शनम्। धन्वन्निव प्रपा अमीति, तथा, स्थलयोदकं परिगृह्णन्तीति च। गोत्रचिह्नं शिखाकर्म, दर्शनञ्च, यत्र बाणाः सम्पतन्ति कुमारा विशिखा इवेति। तेन ये दृष्टार्थास्ते तत एव प्रमाणम्। ये त्वदृष्टार्थास्तेषु वैदिकशब्दानुमानमिति।।2।। सिद्धान्तः।। स्मृतिप्रामाण्याधिकरणम्।।1।।

सू.1.3.3

विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्।।3।।

अथ यत्र श्रुतिविरोधस्तत्र कथम्। यथा औदुम्बर्याः सर्ववेष्टनम्, औदुम्बरीं स्पृष्ट्वोद्गायेदिति श्रुत्या

विरुद्धम्। अष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यचरणम्, जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यनेन विरुद्धम्। क्रीतराजकोऽभोज्यान्न इति, तस्मादग्नीशोमीये संस्थिते यजमानस्य गृहेऽशितव्यमित्यनेन विरुद्धम्। तत् प्रमाणम्। कर्तृसामान्यादित्येवं प्राप्ते ब्रूमः। अशक्यत्वाद् व्यामोह इत्यवगम्यते। कथमशक्यता। स्पर्शविधानान्न सर्वा शक्या वेष्टयितुम्, उद्गायता स्प्रष्टुञ्च। तामुद्गायता स्प्रष्टव्यामवगच्छन्तः केनेमं सम्प्रत्ययं बाधेमहि सर्ववेष्टनस्मरणेनेति ब्रूमः।।

ननु निर्मूलत्वाद् व्यामोहस्तत् स्मरणमिति वैदिकं वचनं मूलं भविष्यतीति। भवेद् वैदिकं वचनं मूलं, यदि स्पर्शनं व्यामोहः। अव्यामोहे त्वशक्यत्वाददनुपपन्नम्। यथाऽनुभवमनुपपन्नमिति न कल्प्यते, तथा वैदिकमपि वचनम्। कथं तर्हि सर्ववेष्टनस्मरणम्। व्यामोहः। कथं व्यामोहकल्पना। श्रौतविज्ञानविरोधात्। अथ, किमऽर्थं नेमौ विधी विकल्प्येते, व्रीहियववद् बृहद्रथन्तरवद्वा। नासति व्यामोहविज्ञाने विकल्पो भवति यदि सर्ववेष्टनविज्ञानं प्रमाणं, स्पर्शनं व्यामोहः। यदि स्पर्शनं प्रमाणं, स्मृतिर्व्यामोहः। विकल्पन्तु वदन् स्पर्शनस्य पक्षे तावत् प्रमाण्यमनुमन्यते। तस्य च मूलं श्रुतिः। सा चेत् प्रमाणमनुमता, न पाक्षिकी। पाक्षिकं च सर्ववेष्टनस्मरणं पक्षे तावन्न शक्नोति श्रुतिं परिकल्पयितुम्। स्पर्शविज्ञानेन बाधितत्वात्। ततश्च अव्यामोहे च तस्मिन्न शक्या श्रुतिः कल्पयितुम्। न चाऽसावव्यामोहः पक्षे, पक्षे व्यामोहे भविष्यतीति। यदेव हि तस्यैकस्मिन् पक्षे मूलं, तदेवेतरस्मिन्नपि। एकस्मिश्चेत् पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वादितरत्राप्यव्यामोहः।न चासावेकस्मिन् पक्षे, श्रुतिर्निबद्धाक्षरा हि सा, न प्रमादपाठ इति शक्या गदितुम्। तेन नैतत्पक्षे विज्ञानं व्यामोहात् पक्षान्तरं संक्रान्तमित्यवगम्यते। तत्र दुःश्रुतस्वप्नादिविज्ञानमूलत्वं तु सर्ववेष्टनस्येति विरोधात् कल्प्यते। न हि तस्य सति विरोधे प्रामाण्यमभ्युपगन्तव्यमिति किञ्चिदस्ति प्रमाणम्। तस्माद् यथैवैकस्मिन् पक्षे न शक्या श्रुतिः कल्पयितुम्, एवमपरस्मिन् पक्षे, तुल्यकारणत्वात्।।

अपि चेतरेतराश्रयेऽन्यतः परिच्छेदात्। केयमितरेतराश्रयता। प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शने प्रमाणे स्मृतिर्व्यामोहः तदेतदितरेतराश्रयं भवति। तत्र स्पर्शनस्य क्लृप्तं मूलं, कल्प्यं स्मृतेः। सोऽसावन्यतः परिच्छेदः कल्प्यमूलत्वात् स्मृतिप्रामाण्यमनवक्लृप्तम्। तदप्रामाण्यात् स्पर्शनं न व्यामोहः। तदव्यामोहात् स्मार्त्तश्रुतिकल्पनाऽनुपपन्ना प्रमाणाभावात्। नन्वेवं सति व्रीहिसाधनत्वविज्ञानस्याप्यव्यामोहाद् यवश्रुतिर्नोपपद्येत।

सत्यं नोपपद्यते, यद्यप्रत्यक्षा स्यात्। प्रत्यक्षात्वेषा। न हि प्रत्यक्षमनुपपन्नं नामास्ति। द्वयोस्तु श्रुत्योर्भावात्। द्वे ह्येते वाक्ये। तत्रैकेन केवलयवसाधनता गम्यते, एकेन केवलव्रीहिसाधनता। न च वाक्येनावगतोऽर्थोऽपह्नूयते। तस्माद्

व्रीहियवयोरुपपन्नो विकल्पः, बृहद्रथन्तरयोश्च। तस्मादुक्तं श्रुतिविरुद्धा स्मृतिरप्रमाणमिति। अतश्च सर्ववेष्टनादि नादरणीयम्।।3।। श्रुतिप्राबल्याधिकरणम्।।2।।

सू.1.3.4

हेतुदर्शनाच्च।।4।।

लोभाद्वास आदित्समाना औदुम्बरीं कृत्स्नां वेष्टितवन्तः केचित्। तत् स्मृतेर्बीजम्। बुभुक्षमाणः केचित्क्रीतराजकस्य भोजनमाचरितवन्तः। अपुंस्त्वं प्रच्छादयन्तश्चाष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरितवन्तः। तत एषा स्मृतिरित्यवगम्यते।

अधिकरणान्तरं वा। "वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णाति" इति "यूपहस्तिनो दानमाचरन्ति इति। तत्कर्तृसामान्यात् प्रमाणमिति प्राप्ते अप्रमाणम् स्मृतिः। अत्रान्यमूलम्। लोभादाचरितवन्तः केचित् तत एषा स्मृतिः। उपपन्नतरं चैतत्। वैदिकवचनकल्पनात्।।4।। दृष्टमूलकस्मृत्यप्रामाण्याधिकरणम्।।3।।

सू.1.3.5

शिष्टाकोपेऽविरुद्धमिति चेत्।।5।।

आचान्तेन कर्त्तव्यं, यज्ञोपवीतिना कर्त्तव्यं, दक्षिणाचारेण कर्त्तव्यमित्येवंलक्षणान्युदाहरणानि। किमेतानि श्रुतिविरुद्धानि न कर्त्तव्यानि, उताविरुद्धानि कार्याणीति चेत् पश्यसि, तैरप्यनुष्ठीमानैर्वैदिकं किञ्चिन्न कुप्यति। तस्मादविरुद्धानीति।।5 पूर्वपक्षे पूर्वपक्षः।।

सू.1.3.6

न शास्त्रपरिमाणत्वात्।।6।।

नैतदेवम्। शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन्। कथम्। वेदं कृत्वा वेदिं कुर्वीतेतीमां श्रुतिमुपरुन्ध्यादन्तरा वेदं वेदिं चानुष्ठीयमानमाचमनादि। दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित् प्रधानं स्वकालमतिक्रामेत्। उभाभ्यां हस्ताभ्यामनुतिष्ठन् प्रधानकालं संभावयिष्यति।।6।। पूर्वपक्षः।।

सू.1.3.7

अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन्।।7।।

अपि वेति पक्षव्यावृत्तिः। अगृह्यमाणकारणा एवञ्जातीयकाः प्रमाणम्। ननु क्रमकालौ विरुन्धन्ति। विरुन्धन्तु, नैष दोषः। आचमनं पदार्थः, पदार्थानां च गुणः क्रमः। न च गुणानुरोधेन पदार्थो न कर्त्तव्यव्यो भवति। अपि च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति। यदा पदार्थः प्राप्नोति, तदा क्रम एव नास्ति, केन सह विरोधो भविष्यति? इति। तथा यदि दक्षिणेन नाचर्यते, कालो मा विरोधीदिति तत्र कालानुरोधेन पदार्थो नाऽन्यथात्वमभ्युपगच्छेत्। प्रयोगाङ्गं हा कालः पदार्थानामुपकारकः। अतो न कालानुरोधेन व्यथयितव्यः पदार्थः। अपिच शौचं दक्षिणाचारता यज्ञोपवीतित्वं चैवञ्जातीयका अर्था व्यवधातारो न भवन्ति। सर्वपदार्थानां शेषभूतत्वात्। तस्मादाचमनादीनां प्रामाण्यम्।।7।। पदार्थप्राबल्याधिकरणम्।।4।।

सू.1.3.8

तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्।।8।।

यवमयश्चरुः, वाराही उपानहौ, वैतसे कटे प्राजापत्यान् सञ्चिनोतीति यववराहवेतसशब्दान् समामनन्ति। तत्र केचिद्दीर्घशूकेषु यवशब्दं प्रयुञ्जन्ते, केचित् प्रियङ्गुषु। वराहशब्दं केचिच्छूकरे, केचित् कृष्णशकुनौ। वेतसशब्दं केचिद् वञ्जुलके, केचिज्जम्ब्वाम्। तत्रोभयथा पदार्थावगमाद्विकल्पः।।8।। पूर्वपक्षः।।

सू.1.3.9

शास्त्रस्था वा तन्निमित्तत्वात्।।9।।

वाशब्दः पक्षं व्यावर्त्तयति। यवशब्दो यदि दीर्घशूकेषु, सादृश्यात् प्रियङ्गुषु भविष्यति। यदि प्रियङ्गुषु, सादृश्याद् यवेषु। किं सादृश्यम्। पूर्वसस्ये क्षीणे भवन्ति दीर्घशूकाः प्रियङ्गवश्चैतत् तयोः सादृश्यम्। कः पुनरत्र निश्चयः। यः श्स्त्रस्थानां, स शब्दार्थः। के शास्त्रस्थाः। शिष्टाः। तेषामविच्छिन्ना स्मृतिः शब्देषु वेदेषु च। तेन शिष्टा निमित्तं श्रुतिस्मृत्यवधारणे। ते ह्येवं समामनन्ति यवमयेषु करम्बपात्रेषु विहितेषु वाक्यशेषं, यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्तीति दीर्घशूकान् यवान् दर्शयति वेदः। वेदे दर्शनात् अविच्छिन्नपारम्पर्यो दीर्घशूकेषु यवशब्द इति

गम्यते। तस्मात् प्रियङ्गुषु गौणः। तस्माद् दीर्घशूकानां पुरोडाशः कर्त्तव्यः। तस्माद्वराहं गावोऽनुधावन्तीति शूकरे वराहशब्दं दर्शयति, अप्सुजो वेतस इति वञ्जुले वेतसशब्दम्। शूकरं हि गावोऽनुधावन्ति। वञ्जुलोऽप्सु जायते। जम्बुवृक्षः स्थले, गिरिनदीषु वा।।9।।

सिद्धान्तः।। शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम्।।5।।

सू.1.3.10

चोदितं तु प्रतीयेताविरोधात् प्रमाणेन।।10।।

अथ यान् शब्दान् आर्या न कÏस्मश्चिदर्थे आचरन्ति, म्लेच्छास्तु कÏस्मश्चित् प्रयुञ्जन्ते, यथा, पिक नेम सत तामरसादिशब्दास्तेषु सन्देहः। किं निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः, उत यत्र म्लेच्छा आचरन्ति स शब्दार्थ इति। शिष्टाचारस्य प्रामाण्यमुक्तं, नाशिष्टस्मृतेः। तस्मान्निगमादिवशेनार्थकल्पना। निगमादीनां चैवमर्थवत्ता भविष्यति। अनभियोगश्च शब्दार्थेष्वशिष्टानाम्, अभियोगश्चेतरेषाम्। तस्माद्धातुतोऽर्थः कल्पयितव्य इत्येवं प्राप्ते, ब्रूमः। चोदितमशिष्टैरपि शिष्टानवगतं प्रतीयते, यत् प्रमाणेनाविरूद्धं तदवगम्यमानं न न्याय्यं त्यक्तुम्। यत्तु शिष्टाचारः प्रमाणमिति, तत् प्रत्यक्षानवगतेऽर्थे। यत्त्वभियुक्ताः शब्दार्थेषु शिष्टा इति।

तत्रोच्यते अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्लेच्छाः। यत्तु, निगमनिरुक्तव्याकरणानामर्थवत्तेति। तत्रैषामर्थवत्ता भविष्यति, न यत्र म्लेच्छैरप्यवगतः शब्दार्थः। अपि च निगमाऽऽदिभिरर्थे कल्प्यमाने अप्यवस्थितः शब्दार्थो भवेत्। तत्राऽनिश्चयः स्यात्। तस्मात् पिक इति कोकिलो ग्राह्यः, नेमोऽर्द्धं, तामरसं पद्मं, सत इति

दारुमयं पात्रं, परिमण्डलं शतच्छिद्रम्।।10।। म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणम्।।

सू.1.3.11

प्रयोगशास्त्रमिति चेत्।।11।।

इह कल्पसूत्राण्युदाहरणम्। माशकं, हास्तिकं, कौण्डिन्यकमिति। एवं लक्षणकानि किं प्रमाणमप्रमाणं वेति सन्दिग्धानि। किं प्राप्तम्। प्रयोगस्य शास्त्रं प्रमाणमेवञ्जातीयकमिति ब्रूमः। सत्यवाचामेतानि वचनानि। कथमवगम्यते। वैदिकैरेषां संवादो भवति। य एव हि वेदे ग्रहास्त एवेह, या एव वेदे इष्टकास्ता एवेह। तस्मात् सत्यवाच आचार्याः। आचार्यवचः प्रमाणमिति च श्रुतिः। प्रत्यक्षतः प्रामाण्यमनवगतमिति यद्युच्येत, प्रमाणान्तरेण वचनेनावगतमिति न दोषः। वेदवाक्यैश्चैषां तुल्य आदरः। तस्मात् प्रमाणम्।। 11।। पूर्व0।।

सू.1.3.12

न असन्नियमात्।।12।।

नैतदेवम्। असन्नियमात्। नैतत् सम्यङ्निबन्धनम्। स्वराभावात्।।12।। सिद्धान्तः।।

सू.1.3.13

अवाक्यशेषाच्च।।13।।

ऋत्विजो वृणीते, वृता यजन्ति, देवयजनमध्यवस्यन्तीति। नात्र विधिर्गम्यते वर्त्तमानकालप्रत्ययनिर्देशात्। न चात्र वाक्यशेषः स्तावकोऽस्ति। तस्मादप्रमाणम्। यश्चादरः उक्तः, स नान्तरीयकत्वाद् वेदवाक्यमिश्रसमाम्नानात्। यत्तु श्रुतिरिति नैतत्। अर्थवादत्वात्। कथमर्थवादः। विध्यन्तरं ह्यस्ति, आग्नेयोऽष्टाकपाल इति। अत्राचार्यो वेदोऽभिप्रेतः। आचिनोत्यस्य बुद्धिमिति। यद्वा आचार्यवचनं प्रमाणं तदपेक्षम् कतरत्तत्। यत् प्रमाणगम्यम्।।13।। सिद्धान्तः।।

यच्चोक्तं, सत्यवाचामेतानि वचनानीति। तन्न।।

सू.1.3.14

सर्व्वत्र च प्रयोगात् सन्निधानशास्त्राच्च।।14।।

आचार्यवचनं हि भवति पूर्वपक्षे। सर्वासु तिथिष्वमावास्येति। सन्निहितञ्च शास्त्रं, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावस्यया यजेतेति। तेन श्रुतिविरुद्धवचनान्न सत्यवाचः। तस्मादप्रमाणम्।।14।। उ0।। कल्पसूत्राऽस्वतःप्रामाण्याधिकरणम्।।7।।

सू.1.3.15

अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात्।। 15।।

अनुमानात् स्मृतेराचार्याणां च प्रामाण्यमिष्यते। येनैव हेतुना ते प्रमाणं, तेनैव व्यवस्थिताः प्रामाण्यमर्हन्ति। तस्माद् होलाकादयः प्राच्यैरेव कर्त्तव्याः, आह्नीनैबुकादयो दाक्षिणात्यैरेव, उद्वृषभयज्ञादयः उदीच्यैरेव। यथा शिखाकल्पो व्यवतिष्ठते- केचित् त्रिशिखाः केचित् पञ्चशिखा इति।।15।। पूर्वपक्षः।।

सू.1.3.16

अपि वा सर्व्वधर्मः स्यात् तन्न्यायत्वाद्विधानस्य।। 16।।

अपि वेति पक्षव्यावृत्तिः। एवञ्जातीयकः सर्वधर्मः स्यात्। कुतः। तन्न्यायत्वाद् विधानस्य। विधीयतेऽनेनेति विधानं शब्दः। सोऽनुमीयते स्मृत्या। न च तस्याऽऽकृतिवचनता न्याय्या, न च व्यक्तिवचनता। न सर्वेषामनुष्ठातॄणां यदेकं सामान्यं, तस्य वाचकः कश्चिच्छब्दोऽस्ति, योऽनुमीयेत। तस्मात् सर्वधर्मता विधेर्न्याय्या। कुतः। पदार्थाः कर्त्तव्या इति प्रमाणमस्ति, व्यवस्थायां तु न किञ्चित् प्रमाणमस्ति।।16।। सिद्धान्तः।।

अथ यदुक्तं, यथा शिखाकल्पो व्यवतिष्ठते इति।।

सू.1.3.17

दर्शनाद्विनियोगः स्यात्।।17।।

गोत्रव्यवस्थया शिखाकल्पव्यवस्थायां दर्शनं स्पष्टम्।। 17।। उ0।।

सू.1.3.18

लिङ्गाभावाच्च नित्यस्य।। 18।।

इदं पदेभ्यः केभ्यश्चिदुत्तरं सूत्रम्। कानि तानि पदानि। अथ किमर्थं न लिङ्गाद् व्यवस्था?। यथा, शुक्लो होता इति। नास्ति तद् नित्यमेषां लिङ्गं, यद् यथादर्शनमनुवर्त्तते। येऽपि श्यामा बृहन्तो लोहिताक्षास्तेऽपि न सर्वे आह्नीनैबुकादीन् कुर्वते। अनेवंलिङ्गा अपि चानुतिष्ठन्ति। तस्मान्न व्यवस्था। शुक्लो

होतेति प्रत्यक्षा श्रुतिः।।18।।

सू.1.3.19

आख्या हि देशसंयोगात्।। 19।।

अथ कस्मान्न समाख्याया नियमः। ये दाक्षिणात्या इति समाख्यातास्ते आह्नीनैबुकादीन् करिष्यन्ति, ये उदीच्या इति समाख्यातास्ते उद्वृषभयज्ञादीन्, ये प्राच्या इति ते होलाकादीन्। यथा, राजा राजसूयेनेति। नैतदेवम्। देशसंयोगादाख्या भवति। दक्षिणदेशान्निर्गतः प्राक्षु वा उदक्षु वाऽवस्थित आह्नीनैबुकादीन् करोत्येव। उदीच्याश्च देशान्तरे उद्वृषभयज्ञादीन्, प्राच्याश्च होलाकादीन्। अन्यदेशश्च देशान्तरगतो न नियोगतः परपदार्थान् करोति। तस्मान्न व्यवस्था। राजा राजसूयेनेति तु नियता जातिः।।19।। सिद्धान्ते आशङ्कानिरासः।।

सू.1.3.20

न स्याद्देशान्तरेष्विति चेत्।।20।।

इति चेत् पश्यसि- यदि देशसंयोगादाख्या भवेद्, देशान्तरस्थस्य न भवेत्। भवति च देशान्तरस्थस्य, माथुर इत्यसम्बद्धस्याऽपि मथुरया। तस्मान्न देशसंयोगादाख्या।।20।। सिद्धान्ते आशङ्का।।

सू.1.3.21

स्याद्योगाख्या हि माथुरवत्.।।21।।

देशसंयोगनिमित्तायामप्याख्यायां देशान्निर्गतस्य तदाख्या न विरुद्धा। यत एषा योगाख्या योगमात्रापेक्षा, न भूतवर्त्तमानभविष्यत्सम्बन्धापेक्षा। यतो दृश्यते-- मथुरामभिप्रस्थितो माथुर इति , मथुरायां वसन्, मथुराया निर्गतश्च। यस्य तु अतोऽन्यतमः सम्बन्धो नाऽस्ति, न स माथुरः। तस्मान्न समाख्यया व्यवस्था।।21।।आ।नि।।

सू.1.3.22

कर्मधर्मो वा प्रवणवत्।।22।।

अथ कस्मान्न कर्माङ्गं देशः। यः कृष्णमृत्तिकाप्रायः , स आह्नीनैवुकादीनाम्। यथा, प्राचीनप्रवणे वैश्वदेवेन यजेतेति।।22।।आशङ्का।।

सू.1.3.23

तुल्यन्तु कर्तृधर्मेण ।।23।।

यथा कर्तर्यव्यवस्थितं लिङ्गं श्यामादि न पदार्थैः संवादमुपैति,तद्वद्देशलिङ्गमव्यवस्थितम्। कृष्णमृत्तिकाप्रायेऽप्यन्ये न कुर्वन्ति तथाऽन्यलिङ्गेऽपि कुर्वन्ति। तस्मान्न देशतो व्यवस्था। प्राचीनप्रणवन्तु श्रुत्या नियतं वैश्वदेवस्य। 23।। आशङ्कानिरासः।।होलकाऽधिकरणम्।।सामान्यश्रुतिकल्पनाधिकरणम्।।8।।

सू.1.3.24

प्रयोगोत्पत्त्यशास्रत्वाच्छब्देषु न व्यवस्था स्यात्।।24।।

गौः गावी गोणी गोपोतलिका इत्येवमादयः शब्दा उदाहरणम्। गोशब्दो यथा सास्नादिमति प्रमाणं, किं तथा गाव्यादयोऽप्युत नेति सन्देहः। किमत्रैकः शब्दोऽविच्छिन्नपारम्पर्योऽर्थाभिधायी, इतरे अपभ्रंशाः, उत सर्वेऽनादरः। सर्वे इति ब्रूमः।कुतः। प्रत्ययात् प्रतीयते हि गाव्यादिभ्यः सास्नाऽऽदिमान् अर्थः। तस्मादितो वर्षशतेऽप्यस्यार्थस्य सम्बन्ध आसीदेव, ततः परेण , ततश्च परतरेणेति अनादिता। कर्त्ता चाऽस्य सम्बन्धस्य नास्तीति व्यवस्थितमेव। तस्मात् सर्वे साधवः, सर्वैर्भाषितव्यम्।सर्वे हि साधयन्त्यर्थम्। यथा, हस्तः करः पाणिरिति। अर्थाय ह्येते उच्चार्यन्ते, नाऽदृष्टाय न ह्येषामुच्चारणे शास्त्रमस्ति। तस्मान्न व्यवतिष्ठेत, कश्चिदेक

एव साधुरितरेऽसाधव इति।।24।।पूर्वपक्षः।।

सू.1.3.25

शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्।।25।।

महता प्रयत्नेन शब्दमुच्चरन्ति-- वायुर्नाभेरुत्थितः उरसि विस्तीर्णः, कण्ठे विवर्तितः,मूर्द्धानमाहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दानभिव्यक्ति। तत्रापराध्येताऽप्युच्चारयिता। यथा शुष्के पतिष्यामीति कर्दमे पतति, सकृद् उपस्प्रक्ष्यामीति द्विरुपस्पृशति। ततोऽपराधात् प्रवृत्ता गाव्यादयो भवेयुः न नियोगतोऽविच्छिन्नपारम्पर्या एवेति।।25।।सिद्धान्तः।।

सू.1.3.26

अन्यायश्चानेकशब्दत्वम्।।26।।

न चैष न्यायो, यत् सदृशाः शब्दा एकमर्थमभिनिवेशमानाः, सर्वोऽविच्छिन्नपारम्पर्या एवेति। प्रत्ययमात्रदर्शनादभ्युपगम्यते। सादृश्यात् साधुशब्देऽप्यवगतो प्रत्ययोऽवकल्पते। तस्मादमीषामेकोऽनादिरन्येऽपभ्रंशाः। हस्तः करः पाणिरित्येवमादिषु त्वभियुक्तोपदेशादनादिरमीषामर्थेन सम्बन्ध

इति।।26।।सिद्धान्ते युक्तिः।।

सू.1.3.27

तत्र तत्त्वमभियोगविशेषात् स्यात्।।27।।

कथं पुनस्तत्र तत्त्वं शक्यं विज्ञातुम्।शक्यमित्याह। अर्थिनो हि अभियुक्ता भवन्ति। दृश्यते चाभियुक्तानां गुणयतामविस्मरणमुपपन्नम्। प्रत्यक्षञ्चैतद् गुण्यमानं न भ्रश्यते इति।तस्माद् यमभियुक्ता उपदिशन्ति, एष एव साधुरिति, साधुरित्यवगन्तव्यः।।27।।आशङ्कानिरासः।।

सू.1.3.28

तदशक्तिश्चानुरूपत्वात्।।28।।

अथ यदुक्तम्- अर्थोऽवगम्यते गाव्यादिभ्यः, अत एषामप्यनादिरर्थेन सम्बन्ध इति। तदशक्तिरेषां गम्यते। गोशब्दमुच्चारयितुकामेन केनचिदशक्त्या गावीत्युच्चारितम्। अपरेण ज्ञातं- सास्नादिमान् अस्य विवक्षितस्ततर्थं, गौः- इत्युच्चारयितुकामो, गावी- इत्युच्चारयति। ततः शिक्षित्वाऽपरेऽपि सास्नादिमति विवक्षिते, गावी-इत्युच्चारयन्ति। तेन गाव्यादिभ्यः सास्नादिमानवगम्यते। अनुरूपो हि गाव्यादिर्गोशब्दस्य।।28।। उत्तरम्।

सू.1.3.29

एकदेशत्वाच्च विभक्तिव्यत्यये स्यात्।। 29।।

अत एव हि विभक्तिव्यत्ययेऽपि प्रत्ययो भवति। अश्मकैरागच्छामीति। अश्मकशब्दैकदेशे उपलब्धे, अश्मकेभ्य इत्येव शब्दः स्मर्यते। ततः, अश्मकेभ्य इत्येषोऽर्थ उपलभ्यते इति। एवं गाव्यादिदर्शनात् गोशब्दस्मरणम्, ततः

सास्मादिमानवगम्यते।।29।। उत्तरे युक्तिः।। साधुपदप्रयुक्त्यधिकरणम्।।9।।

अथाऽऽकृतिशक्त्यधिकरणम्।।

सू.1.3.30

प्रयोगचोदनाभावादर्थेकत्वमविभागात्।।30।।

अथ गौः- इत्येवमादयः शब्दाः किमाकृतेः प्रमाणम्, उत व्यक्तेरिति सन्देहः। उच्यते। इदं तावत् परीक्ष्यताम्। किं य एव लौकिकाः शब्दास्त एव वैदिकाः, उतान्ये इति। यदा त एव, तदाऽपि किं त एवैषामर्था ये लोके, उतान्ये इति संशयः। तत्रान्ये लौकिकाः शब्दाः, अन्ये वैदिका, अन्ये चैषामर्था इति ब्रूमः। कुतः। व्यपदेशभेदात् रूपभेदाच्च। इमे लौकिका, इमे वैदिका ------ व्यपदेशभेदः। अग्निर्वृत्राणि जङ्घनत्-इत्यन्यदिदं रूपं लौकिकादग्निशब्दात्। शब्दान्यत्वाच्च न ते एवार्थाः। अपि च समामनन्ति,उत्ताना वै देवगवा वहन्तीति। ये देवानां गावस्त उत्ताना वहन्तीत्युक्ते गम्यते एव, य उत्ताना वहन्ति, ते गोशब्देनोच्यन्ते, इति। तस्मादन्यो वैदिकगोशब्दस्यार्थः। तथा, देवेभ्यो वनस्पते हवींषि हिरण्यपर्णः प्रदिवस्ते अर्थमिति, हिरण्यपर्णो देवो वनस्पतिः वेदे। एतद् वै दैव्यं मधु यद् घृतमिति वेदे घृते मधुशब्दः। तस्मादमीषामन्येऽर्था इति

प्राप्ते, ब्रूमः। य एव लौकिकाः शब्दास्त एव वैदिकाः, त एवैषामर्था इति। कुतः। प्रयोगचोदनाभावात् एवं प्रयोगचोदना सम्भवति। यदि त एव शब्दास्त एवार्थाः, इतरथा शब्दाऽन्यत्वेऽर्थो न प्रतीयेत। तस्मादेकशब्दत्वमिति। उच्यते। प्रयोजनमिदम्। हेतुर्व्यपदिश्यताम् इति। ततो हेतुरुच्यते। अविभागादिति। न तेषामेषाञ्च विभागमुपलभामहे। अथ एव एकशब्दत्वं, तांश्च तांश्चार्थानवगच्छामः। अतो नान्यत्वञ्च वदामः। यच्चोक्तं, ये उत्ताना वहन्ति ते देवगवाः, यद् घृतं तन्मधु, यो हिरण्यपर्णः स वनस्पतिरिति। नास्ति वचनं, यदुत्तानानां वहतां गोत्वं ब्रूयात्। ये गावः, ते उत्ताना वहन्तीत्यनुवादः स्यात्। न च उत्ताना वहन्तः प्रसिद्धाः केचित्। ते नियोगतो विधातव्यः। तेषु विधीयमानेषु न शक्यं गोत्वं विधातुम्। भिद्यते हि तथा वाक्यम्। यदि चान्ये वैदिकाः, तत उत्तानादीनामर्थो न गम्येते, तत्र नतरां शक्येताऽविज्ञातलक्षणं गोत्वं विज्ञातुम्। न चोत्तानवहनवचनमप्यनर्थकं, स्तुत्यर्थेनार्थवद् भविष्यतीति। एवं घृतस्य मधुत्वं, हिरण्यपर्णता च वनस्पतेः। तस्मात् त एव शब्दा अर्थाश्च।। ।।। लोकवेदयोः शब्दैक्याऽधिकरणम्, आकृतिशक्त्यधिकरणान्तर्गतम्।10।।

यदि, लौकिकास्त एवार्थस्तदा सन्देहः- किमाकृतिः शब्दार्थोऽथ व्यक्तिरिति। का पुनराकृतिः, का व्यक्तिरिति। द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिः, असाधारणविशेषा व्यक्तिः। कुतः संशयः। गौः- इत्युक्ते सामान्यप्रत्ययाद्, व्यक्तौ च क्रियासंबन्धात्। तदुच्यते व्यक्तिः शब्दार्थ इति कुतः। प्रयोगचोदनाभावात्। आलम्भनप्रोक्षणविशसनादीनां प्रयोगचोदना आकृत्यर्थे न सम्भवेयुः। यत्रोच्चारणानर्थक्यं, तत्र व्यक्त्यर्थः। अतोऽन्यत्राकृतिवचन इति चेत्। उक्तम्- अन्यायश्चानेकार्थत्वमिति। कथं सामान्यावगतिरिति चेत्। व्यक्तिपदार्थकस्याकृतिश्चिह्नभूता भविष्यति। य एवमाकृति, स गौरिति। या यस्य दण्डोऽस्ति, स दण्डीति न

च दण्डवचनो दण्डिशब्दः। एवमिहाऽपि।।30।।

सू.1.3.31

अद्रव्यशब्दत्वात्।।31।।

द्रव्याश्रयस्य शब्दो द्रव्यशब्दः,. न तत्र द्रव्याश्रयवचनः शब्दो भवेत् यद्याकृतिः शब्दार्थो भवेत्। षड् देया द्वादश देयाश्चतुर्विंशतिर्देया इति। न हि आकृतिः षडादिभिः संख्याभिर्युज्यते। तस्मान्नाऽऽकृतिवचनः।।31।।

सू.1.3.32

अन्यदर्शनाच्च।।32।।

यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसमालभेत इति। यद्याकृतिवचनः शब्दो भवेद्, अन्यस्यालम्भो नोपपद्यते। अन्यस्यापि पशुद्रव्यस्य सैवाकृतिः। तस्माद् व्यक्तिवचन इति। 32।। पूर्वपक्षः।।

सू.1.3.33

आकृतिस्तु क्रियार्थत्वात्।।33।।

तुशब्दः पक्षं व्यावर्त्तयति। आकृतिः शब्दार्थः। कुतः। क्रियाऽर्थत्वात्। श्येनचितं चिन्वीतेति वचनमाकृतौ संभवति यद्याकृत्यर्थः श्येनशब्दः। व्यक्तिवचने तु न चयनेन श्येनाव्यक्तिरुत्पादयितुं शक्यते इत्यशक्यार्थवचनादनर्थकः। तस्माद् आकृतिवचनः।।

ननु श्येनव्यक्तिभइश्चयनमनुष्ठास्यते। न साधकतमः श्येनशब्दार्थः ईप्सिततमो ह्यसौ श्येनशब्देन निर्दिश्यते। अतश्चयनेन श्येनो निर्वर्तयितव्यः। स आकृतिवचनत्वेऽवकल्प्यते। ननु उभयत्र क्रियाया असम्भव एव व्यपदिश्यते। नाकृतिः शब्दार्थः। कुतः। क्रिया न सम्भवेदाकृतौ शब्दार्थे, व्रीहीन् प्रोक्षतीति। तथा न व्यक्तिः शब्दार्थः, क्रियैव न सम्भवेद् व्यक्तेः शब्दार्थत्वे, श्येनचितं चिन्वीतेति। यदप्युच्येत, व्रीहीन् प्रोक्षतीति व्यक्तिलक्षणार्था आकृतिरिति शक्यमऽन्यत्रापि, श्येनाचितं चिन्वीतेति वदितुम्। आकृतिलक्षणार्था व्यक्तिरिति। किं पुनरत्र ज्यायः। आकृतिः शब्दार्थ इति। यदि व्यक्तिः शब्दार्थो भवेद्, व्यक्त्यन्तरे न प्रयुज्येत। अथ व्यक्त्यन्तरे प्रयुज्यते, न तर्हि व्यक्तिः शब्दार्थः सर्वसामान्यविशेषविनिरमुक्ता हि व्यक्तिरिति। उच्यते। नैष दोषः। व्यक्त्यन्तरे सर्वसामान्यविशेषविनिर्मुक्ते एव प्रवर्त्तिष्यते। यदि व्यक्त्यन्तरे सर्वसामान्यविशेषवियुक्ते प्रवर्त्तिष्यते, सामान्यमेव तर्हि तत्। नेत्युच्यते। यो हि अर्थः, सामान्यस्य विशेषणाञ्चाश्रयः, सा व्यक्तिः। व्यक्तिवचनश्च शब्दो न सामान्ये, न विशेषे वर्त्तते, तेषां त्वाश्रयमेवाभिदधाति। तेन व्यक्त्यन्तरे वृत्तिरदोषः। न हि तत् सामान्यम्। यदि

व्यक्त्यन्तरेष्वपि भवति, सर्वसामान्यविशेषवियुक्तायामश्वव्यक्तौ गोशब्दः किमिति न वर्त्तते। आह येष्वेव प्रयोगो दृष्टस्तेषु वर्त्तिष्यते न सर्वत्र। न चावश्यव्यक्तौ गोशब्दस्य प्रयोगो दृष्टः। तस्मात्तत्र न वर्त्तिष्यते। यदि यत्र प्रयोगो दृष्यस्तत्र वृत्तिः, अद्य जातायां गवि प्रथमप्रयोगो न प्राप्नोति तत्रादृष्टत्वात्। सामान्यप्रत्ययश्च न प्राप्नोति- इयमपि गौरिति, इयमपि गौरिति, इयं वा गौरिति, इयं वा गौरिति स्यात्। भवति तु सामान्यप्रत्ययोऽदृष्टपूर्वायामपि गौव्यक्तौ। तस्मान्न प्रयोगापेक्षो गोशब्दो व्यक्तिवचन इति शक्यते आश्रयितुम्। एवं तर्हि शक्तेः स्वभाव एषः, यत् कस्याञ्चित् व्यक्तौ वर्त्तते, कस्याञ्चिन्न। यथा, अग्निरुष्णः, उदकं शीतम्, एवमेतद् भविष्यतीति। नैवं सिद्ध्यति। न ह्येतद् गम्यते कस्याञ्चिद् व्यक्तौ वर्त्तते, कस्याञ्चिन्नेति।।

सत्यमेतत्। गोत्वं लक्षणं भविष्यतीति। यत्र गोत्वं तस्यां व्यक्ताविति। एवं तर्हि विशिष्टा व्यक्तिः प्रतीयेत। यदि च विशिष्टा, पूर्वतरं विशेषणमवगम्येत। नहि, अप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्तीति। अस्तु विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिम्। न ह्याकृतिपदार्थकस्य व्यक्तिर्न पदार्थो, व्यक्तिपदार्थकस्य वा नाकृतिः। उभयमुभयस्य पदार्थः। कस्यचित् किञ्चित् प्राधान्येन विवक्षितं भवति, तेन अत्राकृतिर्गुणभावेन, व्यक्तिः प्रधानभावेन विवक्ष्यते इति।

नैतदेवं उभयोरुच्यमानयोर्गुणप्रधानभावः स्यात्। यदि चात्र आकृतिः प्रतीयते शब्देन, तदा व्यक्तिरपि पदार्थ इति न शक्यते वदितुम्। कुतः। आकृतिर्हि व्यक्त्या नित्यसम्बद्धा, सम्बन्धिन्याञ्च तस्यामवगतायां सम्बन्ध्यन्तरमवगम्यते। तदेतदात्मप्रत्यक्षं, यच्छब्दे उच्चरिते व्यक्तिः प्रतीयते इति, किं शब्दाद् उताकृतेरिति विभागो न प्रत्यक्षः सोऽन्ययव्यतिरेकाभ्यामवगम्यते। अन्तरेणापि शब्दं य आकृतिमवबुद्ध्येत, अवबुद्ध्येतैवासौ व्यक्तिम्। यस्तूच्चरितेऽपि शब्दे मानसादपचारात् कदाचिदाकृतिं नोपलभेत, न जातुचिदसाविमां व्यक्तिमवगच्छेत्। ननु व्यक्तिविशिष्टायामाकृतौ वर्त्तते। व्यक्तिविशिष्टायाञ्चेद् वर्त्तते, व्यक्त्यन्तरविशिष्टा न

प्रतीयेत। तस्माच्छब्द आकृतिप्रत्ययस्य निमित्तम्। आकृतिप्रत्ययो व्यक्तिप्रत्ययस्येति।

ननु गुणभूता प्रतीयते इत्युक्तम्। न गुणभावोऽस्मत्पक्षस्य बाधकः। सर्वथा तावत् प्रतीयते। अर्थात् गुणभावः प्रधानभावो वा। स्वार्थं चेदुच्चार्यते, प्रधानभूता। अथ न स्वार्थ, परार्थमेवः, ततो गुणभूता। न तत्र शब्दव्यापारोऽस्ति। ननु च दण्डीति, न तावत् दण्डिशब्देन दण्डोऽभिधीयते, अथ च दण्डविशिष्टोऽवगम्यते। एवमिहापि न तावदाकृतिरभिधीयेत, अथ चाकृतिविशिष्टा व्यक्तिर्गम्यतेति। नैतत् साधु। उच्यते। सत्यं दण्डिशब्देन दण्डो नाभिधीयते, न त्वप्रतीते दण्डे दण्डिप्रत्ययोऽस्ति। अस्ति तु दण्डिशब्दैकदेशभूतो दण्डशब्दो, येन दण्डः प्रत्यायितः। तस्मात् साध्वेतद् यत् प्रतीते विशेषणे विशिष्टः प्रतीयते इति।

ननु गोशब्दावयवः कश्चिदाकृतेः प्रत्यायकः, अन्यो व्यक्तेः। यत् उच्येत, तत आकृतिरवगता, न गोशब्द आकृतिवचन इति। न च यथा दण्डिशब्दो न दण्डे प्रयुक्तः, एवं गोशब्दो नाकृतौ। तदर्थमेव निदर्शितं, केवलाऽऽकृत्यभिधानः श्येनशब्द इति। तदेवमन्वयव्यतिरेकाभ्यामसति श्येनव्यक्तिसम्बन्धे श्येनशब्दोच्चारणादाकृतिवचन इति गम्यते। न तु व्रीह्याकृतिसम्बन्धमन्तरेण व्रीहिव्यक्तौ शब्दस्य प्रयोगो दृष्टः। तस्माद् आकृतिवचनः शब्द इत्येतज्ज्यायः।।33।। सिद्धान्तः।।

सू.1.3.34

न क्रिया स्यादितिचेदर्थान्तरे विधानं न द्रव्यमिति चेत्।।34।।

अथ यदुक्तं, न क्रिया सम्भवेद्, व्रीहीन् प्रोक्षतीति। न द्रव्यशब्दः स्यात्, षड् देया इति। अन्यदर्शनवचनञ्च न स्याद् अन्यं तद्रूपमिति। तत् परिहर्त्तव्यम्।34।।

सू.1.3.35

तदर्थत्वात् प्रयोगस्याविभागः।।35।।

आकृत्यर्थत्वाच्छब्दस्य यस्या व्यक्तेराकृत्या सम्बन्धस्तत्र प्रयोगः। प्रोक्षणं हि द्रव्यस्य कर्त्तव्यतया श्रूयते। कतमस्य?। यद् यजतिसाधनम्। अपूर्वप्रयुक्तत्वात्तस्य नाकृतेः। अशक्यत्वात्। तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय। स ह्याकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेष्यतीति। तेनाकृतिवचनं न विरुद्ध्यते इति। एवं, षड्देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये गाव

इत्याकृतिवचनो विशेषकः। तथा अन्यमिति विनष्टस्य प्रतिनिधेरन्यत्वसम्बन्धः। तत्र पशुशब्द आकृतिवचनः, आकृत्या विशेष्यतीति। तस्माद् गौरश्व इत्येवमादयः शब्दा आकृतेरभिधायका इति सिद्धम्।।35।। उत्तरम्। आकृतिशक्त्यधिकरणम्।।10।।

इति श्रीशबरस्वामिकृते मीमांसाभाष्ये प्रथमाध्यायस्य तृतीयपादः।।1।।3।। स्मृतिपादोऽयम्।।