शबरभाष्यम्/द्वितीयोऽध्यायः/द्वितीयः पादः

विकिस्रोतः तः


सू.2.2.1 शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्।।1।।

अस्ति ज्योतिष्टोमस्तत्र श्रूयते सोमेन यजेत, दाक्षिणानि जुहोति, हिरण्यमात्रेयाय ददाति इति। यजतिददातिजुहोतयस्ते किं संहत्य कार्यं कुर्वन्ति, उत वियुत्येति संशयः। साधकाः संहत्यापि साधयन्तो दृश्यन्ते वियुत्यापि। संहत्य तावत्, त्रयो ग्रावाण एकामुखां धारयन्तो दृश्यन्ते, नागदन्तकास्तु वियुत्यापि। एकैकस्मिन् हि शक्यते शिक्यमवलम्बयितुम्। अतो, यजतिददातिजुहोतयः संहत्य साधयेयुर्वियुत्य वेति जायते संशयः।।

किं तावत् प्राप्तं, संहत्येति। कुतः। अदृष्टार्थानामुपकारकल्पनाऽल्पीयसी न्याय्येति। कथम्। अदृष्टो

योऽश्रुतो वाऽर्थः स नास्तीत्यवगम्यते। तस्मिन्नसति दृष्टश्चेच्छØतो वा न विरुद्ध्यते।। विरुद्ध्यमाने कल्प्यः स्याज्जायते तेन सोऽर्थवान्। विशेषश्चेन्न गम्येत, ततो नैकोऽपि कल्प्यते।। गम्यते च विशेषः, बहुभ्य एकमपूर्वमिति। तस्मात् समुदायश्चिकीर्षितः। ततो ह्यदृष्टे कल्प्यमानेऽवयवानां समुदायं प्रति अर्थवत्त्वादेकमपूर्वं समुदायात् कल्पितं भविष्यति। न च अशाब्दः समुदायः। अवयवशब्दैरेव समुदायस्योक्तत्वात्। तस्मात्समुदायश्चिकीर्षितः। अथ वा यजेतेत्यस्य पूर्वो भागो यजत्यर्थं ब्रवीति। उत्तरो भावयेत्, तथा ददातीति पूर्वो भागो ददात्यर्थम्, उत्तरस्तमेव भावयेदित्यनुवदति। एवं जुहोतीति पूर्वो भागो जुहोत्यर्थम्, उत्तरस्तमेवानुवदति। तेनैकस्यां भावनायां त्रयो यजत्यादय उपाया विधीयन्ते श्रुत्या। तस्मादेतैर्यागदानहोमैर्विशिष्टाऽपूर्वस्य भावना प्रतीयते। अत उच्यते। संहत्यैकमपूर्वं साधयन्ति इति। यद्वा यजतिशब्देन विहितं दानं दानहोमशब्देनानूद्यते गुणसंबन्धार्थम्। तस्मादेकमपूर्वमिति प्राप्तम्। एवं प्राप्ते ब्रूमः। प्रतिशब्दमपूर्वभेद इति। शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्। यजेतेत्यनेन केवलस्य यागस्य कर्तव्यतोच्यते, न तु जुहोतिशब्दाभिहितस्य ददातिशब्दाभिहितस्य वा। शब्दान्तरत्वात्। प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासम्बन्धो गम्यते, श्रुत्याऽवयवस्य यजेतेति। संनिहितयोरपि वाक्येन दानहोमयोः श्रुत्या यागस्यैव

सत्तासम्बन्धो गम्यते न दानहोमयोः। श्रुतिश्च वाक्याद् बलीयसी। तस्मान्न समुदायः शाब्दः। कल्प्यमानो हि प्रयोगवचनेनैकवाक्यतां नीत्वा कल्प्येत। शब्दान्तरञ्च यजतेर्ददातिः। तत्र यद्यपि परो भागो भावनावचनः सर्वेषु समानस्तथाऽप्येकैकस्य पूर्वोऽवयवोऽन्यः, अन्यश्च तेन समुदायः शब्दान्तरमन्यस्मात्समुदायात्। तत्रार्थान्तरं व्यक्तम्। दद्यादिति दानेन साधयेदिति। केवलमेव दानं करणं भावनायाः प्रतीयते, न यागहोमौ सहायावपेक्षते। तथा जुहोतीति होमसाधनां भावनाह, न दानयागावपेक्षते। तत्रैतावच्छब्देनावगतं, दानेन केवलेन सिध्यतीति। जुहोतीत्यपि होमेन केवलेन सिध्यतीति, न तु दानेन केवलेन सिध्यतीति विज्ञानं निवर्त्तते। ददातिर्हि स्वेन कारकग्रामेण कृतानुबन्धो न यागं होमं वाऽनुबन्धमपेक्षते। तस्माद्भिन्नानि वाक्यानि, प्रतिशब्दमपूर्वभेद इति। न च दानस्य यजतिर्जुहोतिर्वाऽनुवादो, यागहोमयोरविवक्षाप्रसङ्गात्। न च दानमितरयोरनुवादः। परस्वत्वार्थत्वाद् ददातेरितरयोश्च त्यागार्थत्वात्। प्रयोजनं- पूर्वपक्षे समुदायादपूर्वं, सिद्धान्ते तु यागस्य फलवत्त्वादितरयोर्गुणभावः।।1।।अङ्गापूर्वाधिकरणम्।।1।।

सू.2.2.2

एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं हि स्यात्।।2।। ।।सि0।।

समिधो यजति, तनूनपातं यजति इत्येवमादिः पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः किमेकमपूर्वञ्चोदयति किं प्रत्यभ्यासमपूर्वभेद इति। शब्दान्तरे कर्मभेद उक्तः। इह स एव शब्दः पुनः पुनरुच्चार्यते। तस्मादेकमेवात्रापूर्वम्। नन्वपूर्वान्तरमविदधदनर्थको भवति। सत्यमेवाप्रयोजनो भवति। बहुकृत्वोऽपि चोच्चार्यमाणो नान्यार्थो भवति। यत्प्रथमे उच्चारणे गम्यते शततमेऽपि तदेव गम्यते। तस्मात्पञ्चकृत्वोऽभ्यस्तो यजतिशब्द एकमपूर्वं चोदयति। न चाभ्यासोऽनर्थको भविष्यति। तनूनपादादीर्देवता विधास्यति। तस्मादेकमपूर्वम्। एवं प्राप्ते ब्रूमः। एकस्यैवं पुनः श्रुतिः स्यात्। कर्मभेदं कुर्यादित्यर्तः। तावत्येव विधीयमानेऽसति कÏस्मश्चिद्विशेषे पुनःश्रुतिरनर्थिका भवेत्। ननूक्तं न शक्नोत्यर्थान्तरं विधातुमिति। उच्यते। समिधो यजति इत्यपि प्रथमोऽनुवाद एव, दर्शपूर्णमासाभ्यां यजेतेति यागः प्राप्त एव। तत्र देवता न शक्या विधातुम्। श्रुतिप्राप्ता हि तत्र देवता। इयं वाक्यात् प्रकरणाद्वा। तयोर्विकल्पे न न्याय्यः। स एष देवतायागसंबन्धो विधीयमानोऽक्रियमाणे यागे न शक्यः कर्तुमित्यनर्थकः स्यात्। क्रियमाणे तु शक्यते। तस्मादभ्यसितव्यो यागः। प्रत्यभ्यासञ्चादृष्टभेद इति। न च यत् समित्संबन्धेन क्रियते तत् तनूनपात्संबन्धेन। भिन्नत्वात्तयोः। अतो न विकल्पः। प्रयोजनं पूर्वपक्षे सकृत् प्रयोग इति सिद्धान्ते पुनः पुनः प्रयोग इति।।2।। समिदाद्यपूर्वभेदाधिकरणम्।।2।।

सू.2.2.3

प्रकरणं तु पौर्णमास्यां रूपावचनात्।।3।।सि0।।

एवं हि समामनन्ति यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति, तावब्रूतामग्नीषोमावास्यज्यैव तौ उपांशु पौर्णमास्यां यजन्निति, ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमासे

प्रायच्छत्, ऐन्द्रं दध्यमावास्यायाम् ऐन्द्रं पयोऽमावास्यायामिति। तथा, आधारमाधारयति, आज्यभागौ यजति, स्विष्टकृते समवद्यति, पत्नीसंयाजान् यजति। समिष्टयजुर्जुहोति। तथा यः एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमवास्यां यजते इति। तत्र संदेहः। सर्वाण्येतानि समप्रधानानि उत आग्नेयादीनि पयोऽन्तानि प्रधानानि, आधारादीनि आरादुपकारकाण्यङ्गानि? तथा, य एवं विद्वानित्येवं संयुक्तौ प्रकृतानां सर्मणामनुवदितारौ। अथ वा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजते इत्यपूर्वयोः कर्मणोर्विधातारौ। तत्रेतरे गुणविधयः? इति। किं प्राप्तम्। शब्दान्तरत्वादभ्यासाच्च समप्रधानानीति प्राप्ते। ब्रूमः। प्रकरणं तु पौर्णमास्यां, प्रकृतानामाग्नेयादीनामनुवादितारौ पौर्णमास्यामावास्यासंयुक्तौ। कुतः। रूपावचनात्। य एवं विद्वान् पौर्णमासीसंज्ञकं यागं यजत इति न सर्वे यागा उच्यन्ते। यः पौर्णमासीसंज्ञकः स विधीयते। न चैतदेवमवगच्छामः- कीदृशमेवंसंज्ञकस्य यागस्य रूपमिति। तेन किंचित् प्रतिपद्येमहि। अतो ब्रूमो यद्यपूर्वस्य विधातारौ, अनर्थकाविति। अथ नु प्रकृतानामनुवदितारौ ततः संनिहिताः पौर्णमास्यमावास्यासंयुक्ता यागा इति गम्यते रूपम्। तत्रार्थवत्ता वचनस्य। कथं पुनरेकवचनान्तो बहूनां वाचको भविष्यतीति यद्युच्यते समुदायशब्दतयाऽवकल्पिष्यते। रूपवन्तो हि पूर्वप्रकृता यागाः। तेषां च प्रचयशिष्टः समुदायोऽप्यस्ति। तदपेक्षोऽयमरूपशब्दः। तस्मादेकवचनान्तता न दोषः। भवति हि बहूनामेकवचनान्तः शब्दः समुदायापेक्षः। यथा, यूथं वनं कुलं परिषदिति। यदा आग्नेयादीनां समुदायवचनावेतौ, तदा दर्शपूर्णमासशब्देन एत एवाभिधीयन्ते।

तत एषां फलसंबन्धः, फलवत्संनिधेस्तु आधारादीन्यारादुपकारकाणीति।।3।।

सू.2.2.4

विशेषदर्शनाच्च सर्वेषां समेषु ह्यप्रकृत्तिः स्यात्।।4।।

यदि च सर्वाणि, समप्रधानान्यभविष्यन्, न विकृतौ प्रयाजा दृश्यन्ताम्। दृश्यन्ते तु, प्रयाजे प्रयाजे कृष्णलं जुहोति इति। असत्याग्नेयगुणत्वे प्रयाजस्य तन्नोपपद्यते। अतो न सर्वाणि समप्रधानानि।।4।।

सू.2.2.5

गुणस्तु श्रुतिसंयोगात्।।5।।

नैतदस्ति पौर्णमास्यमावास्यासंयुक्तौ समुदायशब्दाविति। किं त्वपूर्वयोः कर्मणोर्विधातारौ। तथा न लक्षणशब्दोः भविष्यति। ननु रूपं नास्ति। वाक्यान्तरेण रूपमवगमिष्यामः। पौर्णमास्यामाग्नेयोऽष्टाकपालो भवतीती। यदेतत् पौर्णमासीनाम कर्म्म, तस्यैतद् रूपम्। अग्निर्देवता, पुरोडाशो द्रव्यमिति। अत आग्नेयादिभिर्गुणो विधीयते इति।।5।। पूर्वपक्षः।।

सू.2.2.6

चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत।।6।।------------------------------------------

कर्म्मचोदना वा आग्नेयादयः स्युः। कुतः। गुणानां युगपच्छासनात्। एकेनैव वाक्येनात्रानेको गुणो विधातुमिष्यते भवता। न च शब्दान्तरेण चोदिते कर्मण्यनेको गुणः परस्परसंबन्धे चाऽसति शक्यते विधातुम्। कथम्। यदि तावत्पौर्णमास्यामष्टाकपालो भवतीति संबन्धो विवक्षितः, न तदाऽयमर्थोऽष्टाकपालः सप्तयाऽभिसम्बध्यते। इति कस्तर्ह्यष्टाकपालः। पौर्णमास्याऽभिसंबध्यत इति तत्र तदा भवतिर्वर्तत्ते, तदानीमाग्नेय इत्ययमस्यान्तिकादप्युपनिपतितो भवतिसंबन्धाभावान्नानेन संबन्द्धुमर्हति, अष्टाकपाल आग्नेयो भवतीति। अथाऽऽग्नेयः पौर्णमास्यां भवतीति विवक्ष्यते। तदाऽऽग्नेयपुरोडाशयोरसंबन्ध एव स्यात्। अथ पौर्णमास्यामष्टाकपालस्याऽऽग्नेयता विधीयते। वक्तव्यं केन तस्यामष्टाकपालो विहित इति। अथ तस्यामाग्नेयस्याष्टाकपालता तथाऽप्येष दोषः। अथ पौर्णमासीत्युभाभ्यां संबध्येत। परस्परेण द्रव्यदेवतयोरसंबन्ध एवं स्यात्। अथ द्रव्यदेवते परस्परेण विशिष्टे सत्यौ पौर्णमास्या संबध्येयातामित्युच्यते। आग्नेयोऽष्टाकपालो यः स पौर्णमास्यां भवतीति। तस्याऽप्रसिद्धत्वादेतदप्ययुक्तम्। अथ केनचिदग्नये संकल्पितः पौर्णमास्यां विधीयते। तथाऽपि देवतायां अविधानाद्रूपाभाव एव। अथाग्निर्देवता भवितव्यमितीति कश्चिद्ब्रूयात्स वक्तव्यो मिथश्चानर्थसंबन्ध इति, न ह्याग्नेयशब्दोऽनुवादो विधिश्च भवतीति। कल्पयिष्यामो देवतामितिचेन्न। असति विधाने देवताया

अभावात्। संबन्धिशब्दोऽयं देवतेति। स एवाग्निरष्टाकपालस्य देवता, नाऽऽज्यस्य।

तस्मादवश्यमाग्नेयाष्टाकपालसंबन्धो विधातव्यः। स एष यागो भवतीति। तेन पौर्णमासीयागस्यापरो यागः संबन्धी विधीयते न द्रव्यं देवता वा। न च यागस्य यागाऽन्तरं रूपं भवति। अतो रूपावचनात्पौर्णमास्यमावास्यासंयुक्तौ नापूर्वयोः कर्मणोर्विधातारौ। यत्तूक्तं पौर्णमास्यमावास्याशब्दौ लक्षणया प्रकृतान्यागांननुवदितुं शक्नुवतो नाऽऽञ्जस्येनेति। नैष दोषः। यदाऽऽञ्जस्येन शब्दार्थो नावकल्पते तदा लक्षणयाऽपि कल्प्यमानः साधुर्भवति। यथा, अग्नौ तिष्ठति अवटे तिष्ठति, अग्निसमीपे, अवटसमीपे तिष्ठतीति भवति संव्यवहारः। लक्षणाऽपि हि लौकिक्येवेति।।6।।क0 उत्तरम्।।

सू.2.2.7

व्यपदेशश्च तद्वत्।।7।।

उग्राणि ह वा एतानि हवींषि अमावास्यायां संभ्रियन्ते, आग्नेयं प्रथममैन्द्रे उत्तरे इति समुच्चयं दर्शयति। आग्नेयादीनां गुणत्वे विकल्पः स्यात्। तत्राऽऽग्नेयं प्रथमम्, ऐन्द्रे उत्तरे द्वे इति व्यपदेशो नावकल्पेत। विकल्पे संभारपौर्वापर्यानुपपत्तिरिति।।7।।

सू.2.2.8

लिङ्गदर्शनाच्च।।8।।

लिङ्गं च दृश्यते, चतुर्दश पौर्णमास्यामाहुतयो दृश्यन्ते, त्रयोदशामावास्यायाम् इति।।8।।क0 यु0।। आधाराद्याग्नेयानामङ्गाङ्गिभआवाधिकरणम्।।3।।

सू.2.2.9

(4) पौर्णमासीवदुपांशुयाजः स्यात्।।9।।पू0

जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपांशुयाजमन्तरा यजति इति। विष्णुरूपांशु यष्टव्योऽजामित्वाय प्रजापतिरूपांशु यष्टव्योऽजामित्वायाग्नीषोमावुपांशु यष्टव्यावजामित्वाय इति। तत्रे संदेहः।

उपांशुयाजमन्तरा यजति इति किं विष्णवादिगुणकानां प्रकृतानां यागानां समुदायस्य वाचकोऽथ वाऽपूर्वस्य यागस्येति। तत उच्यते पौर्णमासीवदुपांशुयाजो भवितुमर्हति। कुतः। नामसंबन्धात्। नामसंबद्धो हि विशिष्टो यागः श्रूयते उपांशुयाजसंज्ञकः। न च द्रव्यदेवते रूपं, प्रकृताश्चोपांशुगुणका यागा विद्यन्ते। तस्मात्समुदायशब्द इथि। ननूपांशुगुणकं यागान्तरमुपांशुत्वेन रूपेण रूपवद्विधीयते। नैवंजातीयकः शब्द उपांशुविशिष्टं यागं शक्नोति वक्तुम्। उपांशुयाग इति हि तस्य वक्ता। चजोः कुघिण्ण्यतोरिति कुत्वेन भवितव्यम्। अव्युत्पन्नः पुनरूपांशुयाजशब्दः। तस्मान्न रूपवद्यागान्तरम्। अथापि नामसंयुक्तं यजतिसामान्यमेव तथाऽप्यनुपदिष्टदेवताद्रव्यरूपत्वं न यागान्तरं प्रतिपद्येमहि। नन्वेवं सति प्रकृतानामप्यवाचकः प्राप्नोति। मा भूदुपांशुयाजशब्दो यजतिशब्दो भविष्यति। तथा सत्युपांशुयाजशब्देऽप्यनुवादत्वादनाञ्जस्येऽपि न दोषः।।9।।क0 पूर्वपक्षः।।

सू.2.2.10

चोदना वाऽप्रकृतत्वात्।।10।। सिद

कर्मान्तरस्य वाचकः स्यात्, उपांशुयाजं यजतीति। कुतः। प्रकृतानां यागानामभावात्। न चेत्प्रकृता विद्यन्ते कस्य समुदायं वक्ष्यति। नन्विदानीमेवोक्तं विष्णनादिगुणकाः प्रकृता यागा विद्यन्त इति न विद्यन्ते। न हि विधयो विष्णुरूपांशु यष्टव्य इत्येवमादयः। अर्थवादा हि ते। कथम्। अस्मिन्वाक्ये विध्यन्तरस्य भावात्। उपांशुयाजमन्तरा यजति इत्येतदेतस्मिन् वाक्ये विधीयते। यदीमेऽपि विधीयेरन् भिद्येत तर्हि वाक्यम्। अपि च यागस्य विष्णवादीनां च संबन्धोऽत्र गम्यते वाक्ये न च यागस्य विधानम्।

ननु च उपांशुयाजमन्तरा यजति इत्यत्राप्यन्तरालसंबन्धोऽवगम्यते। बाढम्। स तु विधीयते उपांशुत्वादिसंबन्धः। एकं हीदं वाक्यं नानेकं विधातुमर्हति। कथम्। जामि वा एतद्यज्ञस्य क्रियत इत्येवमुपक्रममेतद्वाक्यमजामित्वायेत्येवमन्तम्। तस्य मध्ये समाम्नातं विष्णवादिवाक्यम्। तेन संबध्यमानं न वाक्यान्तरं भवितुमर्हति। तस्माद्, विष्णुरूपांशु यष्टव्य इत्येवमादयो न विधयः किं तर्हि, अर्थवादाः। कः पुनरर्थवादः। आग्नेयाग्नीषोमीययोनिरन्तरं क्रियमाणयोर्जामितादोष उक्तः। तं भिषजितुं, उपांशुयाजमन्तरा यजति

इति विहितम्। कथं तेन भिषजिष्यते। तस्मिन् क्रियमाणे ज्ञायत एव यथा विष्णुर्यष्टव्यः प्रजापतिरग्नीषोमौ वेति। ततश्च

व्यवधानादजामिताऽवगम्यत एव। तेनाजामितार्थवादं वक्ष्यामीति विष्णवादिसंबन्धोऽनूद्यते न त्वन्तरालसंबन्धस्यान्यत्प्रयोजनमस्त्यते विधानात्।

कथं विष्णवादयो यष्टव्या इत्यवगम्यते यष्टव्यानयष्टव्यान्वा विष्णवादीनुपांशुयाजाभिष्टवाय संकीर्तयतीति गम्यते।

तत्र केचित्तावदाहुः प्राप्ता एवेति। कुतः। शाखान्तरे विधानादिति। यद्यप्यप्राप्तिस्तथाऽप्युपांशुत्वसामान्यात्प्रजापतिर्देवता विष्णुश्चेत्यनुवादावेव। उपांशुधर्माणौ हि विष्णुप्रजापती। तस्माद्यÏत्कचित्प्राजापत्यं यज्ञे क्रियते तदुपांश्वेव क्रियत इत्येवमादिसंकीर्तनान्मन्त्रसमाम्नानाच्च विष्णुमप्राप्तमपि प्राप्तमिव वदेत्। अग्नीषोमयोस्तु विधायकमुदाह्रियत एव तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशुपौर्णमास्यां यजन् इति। तस्माद्यागान्तरम्।।क0 सि0।।

सू.2.2.11

गुणोपबन्धात्।।11।।

यदुच्यते न ज्ञायते कतमोऽसावुपांशुयाजसंज्ञको याग इति। यस्यायं गुण उपबद्ध उपांशु पौर्णमास्यां यजन् इति। तस्मान्न दोषः।।11।।क0 आशङ्कानिरासः।।

सू.2.2.12

प्राये वचनाच्च।।12।।

प्रधानकर्मप्राये वचनं प्रधानकर्मतामुपोद्वलयति यथाऽग्न्यप्राये लिखितं दृष्ट्वा भवेदयमग्न्य इति मतिः। तस्मान्न समुदायशब्द इति।।12।।क0 युक्तिः।।

उपांशुयाजापूर्वताधिकरणम्।।4।।

सू.2.2.13

अथ पञ्चममाधाराग्निहोत्राधिकरणम्। आधाराग्निहोत्रमरूपत्वात्।।13।।पू.

शा 0 भा 0---- "आधारमाधारयति" इति श्रूयते.। तथेमान्यपराणि, "उर्ध्वमाधारयति, संततमाधारयति, ऋजुमाधारयति" इत्येवमादि। इदं च, "अग्निहोत्रं जुहोति" तथा "दध्ना जुहोति, पयसा जुहोति" इत्येवमादि। तत्र संदेहः किमूर्ध्वमाधारयति, दध्ना जुहोति इत्येवमादिभिराधाराहोमाश्च विहिताः, तेषामाधारयति, अग्निहोत्रं जुहोति" इत्येतौ समुदायानुवादौ, उतैतावेवापूर्वयोराधारहोमयोर्विधाताराविति। किं तावत्प्राप्तं? नापूर्वर्योर्विधी इति ।कुतः? अरूपत्वात्। न ह्येतयोः पूर्वेभ्यो होमाधारेभ्यो विस्पष्टं रूपमस्ति, यतः कर्मान्तरमध्यवस्येम अतः प्रकृतानां रूपवत्त्वात्। प्रकृतानुवादौ।।13।।पूर्वपक्षः।।

सू.2.2.14

संज्ञोपबन्धात् ।।14।। शा. भा. -- संज्ञोपबन्धश्च भवति अग्निहोत्रं नाम होमं जुहोतीति, आधारसंज्ञकं कर्मं करोतीति संज्ञाविशिष्टावाधारहोमौ विधीयेते। नच विज्ञायेते कोऽसावधारो नाम कर्मविशेषः?कश्चाग्निहोत्रसंज्ञक इति? ननु विज्ञायत आधारणम्-- आधारः, हवनं होमः। यद्याधारणसामान्यम्,होमसामान्यं च विज्ञायेते, विज्ञातपूर्वौ तर्ह्याधारहोमौ। तेनानुवादौ । अथाव्युत्पन्ना उभयोरपि संज्ञा, तथाऽपि नाऽऽधाराग्निहोत्रसामान्यमुच्येत, विशेषाश्रयत्वात् संज्ञायाः। न च स विशेषो गम्यत इत्यपूर्वाधारहोमविधीः. नावकल्प्येते। अपि च कथं क्रिया शाधनशब्देनोच्येत। ईप्सिततमं हि यत्साधनम्, तद् द्वितीयान्तेनोच्यते। क्रिया तिङन्तेन। अनुवादपक्षे क्रियाणां समुदायोऽर्थान्तरम्,तदीप्सिततमं साधनं भविष्यति।।14।।

सू.2.2.15

अप्रकृतत्वाच्च।।15।।

भा.-- न च प्रकृतमपि द्रव्यदेवतमाधारे विद्यते, येन रूपवान् स्यात्। तस्मादेतावपि समुदायशब्दाविति।।15।।युक्तिः।।

सू.2.2.16

चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्तत्संनिधेर्गुणार्थेन पुनःश्रुतिः।।16।।सि 0

शा0भा0--न चैतदस्ति समुदायशब्दाविति। कर्मान्तरचोदने स्याताम्। कुतः?शब्दार्थस्य प्रयोगभूतत्वात्। आधारयति,जुहोतीति होमाधारौ प्रयोक्तव्याविति शब्दर्थः। तेन कर्मान्तरे विधीयते इत्यवगच्छामः। आधाराग्निहोत्रशब्दौ च

हवनाधारणसामान्यवाचिनौ प्रज्ञातौ। अतो नाऽविज्ञातैर्थौ। तेन रूपवन्तौ सन्तौ विधीयेते।। यदुक्तम् "ऊर्ध्वमाधारयति, दध्ना जुहोति" इत्येवमादिभिर्विहतत्वादनुवादाविति। नैतदेवम् न ह्येते होमाधारौ। विधातुं शक्नुवन्ति। "ऊर्ध्वमाधारयति, दध्ना जुहोती"ति च नैतदुक्तं भवति- आधारः कर्तव्यो होमः कर्तव्य इति.।किं तर्हि? ऊर्ध्वताधारसंबन्धः कर्तव्यः, दधिहोमसंबन्धः कर्तव्य इति। तस्मादप्राप्तात्वान्नानुवादो। ननु संबन्धे विहितेऽर्थाद्धोमाधारौ भविष्यतः नैतदेवम्। अस्मिन् हि सति विधानेन संबन्धः। तस्मान्नार्थादापद्येते होमाधारौ। अतोपूर्वौ विधीयेते इति ब्रूमः।

नन्वाधारयति, जुहोताति होमाधारगतो व्यापारः श्रूयते, न दध्यूर्ध्वतादिसंबन्धः। सत्यं न श्रूयते। तत्संनिधेर्गुणार्थेन व्यापारश्रवणमवकल्पिष्यते। ननु पदार्थान्तरगतं व्यापारं श्रुतिर्न शक्नोति वदितुम्। सत्यमेवमेतत्, स्वपदार्थगतं वक्ष्यति,तं तु स्वपदार्थं गुणशब्दो विशेक्ष्यति। स एव विशिष्टः प्रत्येष्यत इति। भवेदेतद्विशिष्यात्स्वपदार्थं गुणशब्दो, न त्वेवंगुणगतो व्यापारः प्रतीयेत।तत्र किं भविष्यति? अव्याप्रियमाणेऽपि गुणे शब्दार्थोऽवक्लृप्तो भविष्यति। गुणनचनसमनिधिरिदानीं किमर्थः? अनर्थकास्तु कथं पुनरनर्थको नाम वेदे भवितुमर्हति। सत्यर्थे नानर्थकोऽसति त्वर्थे किमन्यदुच्येत।एवं तर्हि वाक्याद्भविष्यति, श्रुत्यर्थे सति न वाक्यार्थोऽवकल्प्यते। सत्यमेवमेतत्। अविवक्षिते त्ववकल्पिष्यते।कथमविवक्षा।गुणवचनभ्याप्रमादपाठात्। स्वपदार्थस्य च शब्दान्तरेण विहितत्वात्। तस्मात्सिद्धं गुणार्थेन दध्ना जुहोतीत्येवेमादीनां पुनःश्रुतिरिति।जुहोतेरुच्चारणं चानुवादो गुणसम्बन्धार्थः।यदि जुहोतीत्यनुवादः केनेदानीं गुणो विधीयते। दधिशब्देनेति मा वोचत। नन्विदानीमेव वाक्यात् गुणगतो व्यापारो गम्य इत्युक्तम्। सत्यमेवमेतत्। अविधीयमानस्तु कुतो गम्यत इति प्रमाणमस्य नावगम्येत। असति प्रमाणे व्यामोहः स्यात्। एवं तर्हि विधायकौ जुहोत्याधारयतिशब्दौ। कस्य तर्ह्यनुवादः? धात्वर्थस्येति ब्रूमः। यदि विधायकौ, पूर्वमेव विहिते स्वार्थे, किमर्थं पुनरुच्चार्येते।वाक्यार्थो यः,तं विधातुमित्यदोषः। तस्मात्कर्मान्तचोदने। यदुक्तं नास्त्याधारे प्रकृतं द्रव्यदेवतमिति।

किमेवं सति द्रव्यदेवतेन, यदा प्रसिद्धार्थाभिधानान्निर्ज्ञातमेवास्य रूपम्। अपि च चतुर्गृहीतं वा एतदभूतस्याऽऽधारमाधार्येत्याज्यमस्य द्रव्यं मान्त्रवर्णिको देवताविधिः। इन्द्र ऊर्ध्वोऽर्ध्वरो दिवि स्पृशतु महतो यशो यज्ञपते इन्द्रवान् स्ववान् स्वाहेत्याधारमाधारयतीति। एवमसाविन्द्रवान् यद्यस्येन्द्रो देवता तद्यति देवताभिधानमेतदाधारस्य ततोऽनेनाऽऽधारः कृतो भवति। तस्मात्कर्मान्तरे न समुदायशब्दाविति सिद्धम्।।16।। आधारग्निहोत्राधिकरणम्।।5।।

सू.2.2.17

द्रव्यसंयोगाच्चोदना पशुसोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोगो नहि तस्य गुणार्थेन।।17।।सि0।। शा0 भा0 -- ज्योतिष्टोमे श्रूयते " यो दीक्षितो यदग्नीषोमीयं पशुमालभते"इति। तत्रेदमामनन्ति। हृदयस्यागेऽवद्यत्यथ जिह्वाया, अथ वक्षस इति। तथा "सोमेन यजेत" इति, तथा ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आस्विनं गृह्णात्येवमादि। तत्र संशयः-- किमवद्यतिगृह्णातिभ्यां चोदितानां कर्मणामेवाऽऽलभतियजती समुदायस्यानुवदितारौ, अथाऽपूर्वयोः कर्मणोर्विधाताराविति?किं तावत्प्राप्तम्? समुदायस्येति। कुतः?ये इमे आलभतियजतिभ्यां कर्मणी विधीयेयातामिति चिन्त्येते, पूर्वमेव ते अवद्यतिगृह्णातिभ्यामवगमिते।

न चावगमितोऽर्थो विधीयते। हृदयादींस्तु पशुशब्देनाऽनुवदति, सोमशब्देन च रसम्। तस्मात् "सोमेन यजेत" इत्यनुवादो यजतिः। "यजेत स्वर्गकामो, वसन्ते वसन्ते "इति फल- गुणसंबन्धार्थः। "पशुमालभेत"इति चाऽऽलभतिरग्नीषोमसंबन्धार्थः।

अपि च "दशैतानध्वर्युः प्रातः सवने ग्रहान् गृह्णाति" इति समुच्चयो दृश्यते।तथा आश्विनो दशमो गृह्यते, तृतीयो हूयते" इति च क्रमः। यदि चापूर्वौ यागौ विधीयेते, तत्रैन्द्रवायवादिभिर्देवता विधीयेरंस्ता एकार्थाः

सत्यो विकल्प्येरन्। यथा "खादिरे बध्नाति पालाशे बध्नाति,रोहितके बध्नाती"ति। तत्र क्रमसमुच्चयदर्शने नोपपाद्येयाताम्। अथ पुनरस्मिन्समुदायवचने यजतौ, सम्यगेतदवक्लृप्तं भवति। तत्स्मात्समुदायानुवादौ। एवं प्राप्ते। ब्रूमः-- अपूर्वयोः कर्मणोर्विधानचोदने पशुसोमयोः। कुतः?सोमशब्दः क्षीरिण्यां लतायां प्रसिद्धः। न रसेः आकृतिवचनो हि सोमशब्दो न व्यक्तिवचनः। तथा श्रृङ्गिणि पुच्छवति लोमशे चतुष्पदि द्रव्यविशेषे पशुशब्दमाकृतिचनमुपचरन्ति। न चैवमाकृतिकद्रव्याः प्रकृता यागा विद्यन्ते, येषामिमौ समुदायस्यानुवदितारौ भवेताम्।

ननु पशुविकारो हृदयादिः पशुशब्देनाग्नीषोमसम्बन्धार्थमनूद्यते। नैतदेवम्। पशुरग्नीषोमीयो भवतीत्येतावदुच्यते, नायं प्रकृतो हृदयादिः पशुरिति। तत्र यदि लौकिकस्य पशोर्ग्रहणम्, ततो मुख्यः पशुशब्दः। यदि हृदयादेः,ततो जघन्यो

विकारसंबन्धेन। तथा सोमशब्दोऽपि विकारसंबन्धेनानुवादः स्यात्। तस्मादपूर्वे कर्मणी विधियेयाताम्, नानुवादौ। अथ ऐन्द्रवायवादिषु प्रकृतेषु यागेषु लता विधीयेतेति। उच्यते।न सा शक्या वाक्येनैन्द्रवायवी ज्ञातुम्। श्रुत्या हि रस ऐन्द्रवायवः।

तस्माद् द्रव्यसंयोगवचनः प्रकृतेषु योगेष्वपि सत्सु विधातुम्, अनुवदितं वा न शक्नुवन्ननर्थकः स्यात्। तस्मादपूर्वकर्मणी विधीयेयाताम्, न प्रकृतानामनुवादाविति।।17।।सिद्धान्तः।।

सू.2.2.18

अचोदकाश्च संस्काराः।।18।।

शा0 भा0-- एवं तावत्प्रकृतेषु सत्स्वपि नानुवादावित्युक्तम्।अथेदानीं प्रकृता एव

यागा न सन्तीत्युच्यते। कुतः?अचोदकाः संस्काराः। न चैन्द्रवायवादिभिर्यागा विधीयन्ते।

अत "ऐन्द्रवायवं गृह्णाति"इति इन्द्रवायुभ्यां संकल्पयतीत्येतावदुक्तं भवति। तत्र यागमन्तरेम संकल्पयतीत्येतन्न युज्यत इति, यागः कल्प्येत।स एवाऽऽम्नातो यागो यस्मिन्सति संकल्पोऽवकल्प्येत। तस्मान्न ऐन्द्रवायवं गृह्णातीत्येवमादिभिर्यागा विधीयेरन् तेन ग्रहणमुपकल्पनमात्रं दृष्टार्थम्। उपकल्प्यमाने तु देवतासंकीर्तनमदृष्टाय।प्रकृतानां यागानमभावान्न समुदायशब्दो यजतिः। तथाऽऽलभतिशब्द इति।।18।।आ0 नि0।।

सू.2.2.19

तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद्भेदो द्रव्यगुणीभावात्।।19।।

शा0 भा0 -- पशौ वृत्ता कथा दशमे पुनरुद्भविष्यति। सोम इदानीं वर्तते कथं क्रमसमुच्चयाविति?इन्द्रवाय्वाद्या देवता नैवं श्रूयन्ते इन्द्रवायुभ्यां यागो निर्वर्तयितव्यो, मित्रावरुणाभ्यां यागो

निर्वर्तयितव्य इति। यद्येवमश्रोष्यन्त यागं प्रति दोवता व्यकल्पिष्यन्त।केवलया हि देवतया तदा यागो निर्वर्त्यत इति विहितमभविष्यत्। अथ पुनरिमा अदृष्टार्थं गृह्णातिसंस्कारं प्रति देवता विधीयन्ते। तत्रेन्द्रवायुसंकल्पादन्यो मित्रावरुणसंकल्पः। तेन गृह्णातौ तत्कृताददृष्टाददृष्टान्तरमुत्पादयति। एवमपरेष्वपि ग्रहणेषु। तस्मात्समुच्चयः। ग्रहणं च नियतपरिमाणेषूर्ध्वपात्रेषु प्रादेशमात्रेषु द्रोणकलशेषु संस्कृतस्य दशमुष्टिपरिमितस्य कृत्स्नस्य सोमस्य नावकल्पते। यद्यपि चावकल्पेत, तथापि नित्यवद्विहितानां देवतानां विकल्पपक्षे तावत्प्रयोगवचनो मा बाधीति, अवयवग्रहणमेव न्याय्यम्। कृत्स्नग्रहणे हि तदेवेन्द्रवायुभ्यां संकल्पितम्, तदेव मित्रावरुणाभ्यामिति नावकल्पेत। तस्मात्कल्पनभेदात्पृथगवस्थितः सोमो नानादेवतत्वादेव नैक्येन शक्यः कर्तुम्। न चासति यागे देवताभ्यः शक्यते संकल्पयितुम्। तस्मादवश्यं यथासंकल्पिता देवता यष्टव्याः। तासु चेज्यमानासु "ज्योतिष्टोमेन यजेति श्रुतो यागो निर्वृत्त एव भवति। न देवतान्तरमाकाङ्क्षति। कृत्स्नेन च दशमुष्टिना सोमेन यागः श्रुतः, सोऽसति अभ्यासे नावकल्पत इति, अर्थात्स गुणो भविष्यतीत्यभ्यसितव्यो यागः। न ह्यनभ्यस्तः सर्वाभिर्देवतीभिः सर्वेण सोमेन सम्पन्नो भविष्यति। तÏस्मश्चाभ्यस्यमाने क्रमसमुच्चयो युक्तावेव भवतः। तस्मात्तयौ युक्तावेव भवतः। तस्मात्तयोर्दर्शनं युज्यत एवेति।।19।।उपसंहारः।।

सू.2.2.20

संस्कारस्तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात्।।20।।

यदप्युच्यते- यथा खदिरे बध्नाति, पालाशे बध्नाति, इति खादिरादयः संस्कारे विकल्पन्ते, तद्वद्देवता विकल्पयिष्यन्त इति। तच्च नैवं युक्तम्। तत्र संस्कारमभिनिवर्तयितं खादिरादयः श्रूयन्ते। यदि चेन्द्रवाय्वाद्या अपि ग्रहदेवता यागमभिनिवर्तयितं श्रुयेरन्, ततोऽत्रापि विकल्पः स्यात्। न त्वेता यागे श्रुताः। तस्मात्समुच्चयेरन्।।20।। आशङ्कानिरासः।। इति षष्ठं पशुसोमाधिकरणम्।।6।।

सू.2.2.21

पृथक्त्वनिवेशात्संख्या कर्मभेदः स्यात्।।21।।

अस्ति वाजपेयः- वाजपेयेन स्वराज्यकामो यजेत" इति। तत्र प्राजापत्याः पशवः। सप्तदश प्राजापत्यान्पशूनालभेत- सप्तदशो वै प्रजापतिः। प्रजापतेराप्त्यै। श्यामास्तूपरा एकरूपा भवन्ति, एवमेव हि प्रजापतिः समृद्ध्यै। तत्र संदिह्यते- किं सप्तदशैतानि कर्माणि, अथ सप्तदशपशुगुणकमेकं कर्मेति। किं तावत्प्राप्तम्? एकं कर्मेति। कुतः? प्रजापतये सप्तदश पशवः संकल्प्यन्ते। किमेकं यागमभिनिवर्तयितुम्, उत बहूनिति संशये, एकमिति न्याय्यम्। यो हि बहून्यागान्कल्पयति, कल्पयसावेकम्। तत्रैकस्मिन्नेव परिक्लृप्ते सप्तदशानेव पशूनां परिकल्पनमुपपन्नं भवति। केन च द्वितीयान्यागानवकल्पयेम।

एवमल्पीयस्यदृष्टानुमानप्रसङ्गकल्पना भवति। तस्मादेको यागः सप्तदशभिः पशुभिर्निर्वतयितव्य इति। एवं प्राप्ते- ब्रूमः- संख्याया कर्मभेदो भवेत्। पृथक्त्वे पशूनां सति सप्तदशसंख्या निविशेत। तच्च पशूनां पृथक्त्वं बहुषु यागेष्ववकल्पते, नैकस्मिन्। कथम्? एकदशभिरवदानैरसौ पशोरवाप्यन्ते। तत्र द्वितीयादेरालम्भो नावदानसम्पादनाय भवितुमर्हति। एकमालभ्यमानत्वालभ्येरन्नदृष्टार्थायापरे।। तथा सति अतदर्थत्वान्न ते प्राजापत्या भवेयुः। तत्र प्राजापत्यानिति श्रवणमुपरुध्यते। तेनैकस्मिन्पशौ पृथक्त्वनिवेशिनी सप्तदशसंख्या नावकल्प्येत। बहुषु यागेषु बहुभिरेवावदानगणैः प्रयोजनम्। तेन सप्तदशभ्यो यागेभ्यः सप्तदश पशूनुपाददीरन् तत्र संख्यासामञ्जत्यं भविष्यति।तस्मात्सप्तदश यागाः। नन्वेकस्मिन्नपि यागे सप्तदशभिवदानगणैर्यक्ष्यते, वचनात्। नैतदेवम्। पशुषु हि सा संख्या श्रूयते, नावदानगणेषु। अवदानानि हवींषि यागसाधनानि, न पश्वाकृतिः। सा ह्यवदानप्रकृतिद्रव्यं विशिंषन्ती प्रकृतौ प्रधानस्योपकूतवतीति,विकृतावप्यवदानप्रकृतिद्रव्यं विशिंषन्ती प्रधानस्योपकरिष्यति।तत्र च पशोः सप्तदशसंख्या विकारिका, नावदानगणस्य। तस्मादेकस्मै अवदानगणायैकः पशुरालब्धव्यः प्रप्नोति। तत्र सप्तदशसंख्या नोपपद्यते। एवमेवावकल्पिष्यते, यदि श्रृङ्गाभिप्राया, वर्णाभिप्राया, रूपाभिप्राया वाऽभविष्यन् सप्तदश पशवः श्वेतः कृष्णो रोहित इत्येवमादयः। तोषामन्यतमो गृह्यत इति।

अथवा तूपराः श्रृङ्गिण एकश्रृङ्गा इत्येवमादयस्तेषामन्यतम इति। ते हि श्यामास्तूपरा एकरूपाः श्रूयन्ते।तदेषु बहुषु यागेषूपपद्यते, नैकस्मिन्। तस्मात्सप्तदश यागा इति। प्रयोजनम्-- एकस्मिन्नष्टे, दुष्टे,कृत्स्नः पशुगण आवर्तेत। एकमालभ्यमानमन्वालभेरन् पूर्वपक्षेऽदृष्टार्थम्। सिद्धान्त एक एव

पशुरावर्तते।न हि कर्मभेदे पशुः पश्वन्तरमाकाङ्क्षतीति।।21।। इति सप्तमं संख्याधिकरणम्।।7।।

सू.2.2.22

संज्ञा चोत्पत्तिसंयोगात्।।22।।सि0

शा 0 भा0-- "अथैव ज्योतिः, अथैव विश्वज्योतिः, अथैव सर्वज्योतिः-- एतेन सहस्रदक्षिणेन यजेत"इति श्रूयते। अत्र संदेहः-- किमेभिर्नामदेयैः प्रकृतं ज्योतिष्टोमं संकीर्त्य तत्र सहस्रदक्षिणादिर्गुणो विधीयते, अथवा वक्ष्यमाणविशेषाणि कर्मान्तराण्युपदिश्यन्त इति। किं प्राप्तम्? प्रकरणानुग्रहात्प्रकृतस्य गुणविधानमिति। ननु वाक्यसामर्थ्याज्ज्योतिरादीनामेते गुणा विधायिष्यन्ते। नैष दोषः। ज्योतिष्टोमस्यैवैतानि वाचकानि। ज्योतिरिति ज्योतिष्टोमस्य प्रतीकमुपादीयते, विश्वज्योतिरिति।त्रिवृदादीन्यस्य ज्योतींषि वाक्यशेषसङ्कीर्त्तितानि।तानि सर्वाण्यस्य।तेनाऽसौ विश्वज्योतिः सर्वज्योतिश्च ज्योतिष्टोम इत्येवं प्राप्तम्। एवं प्राप्ते ब्रूमः।। संज्ञा हि तिस्रां भेदिकाः तेषां ज्योतिराद्याः। उत्पत्तिवाक्ये ह्येताः श्रूयन्ते। तासामिमाः पुनः श्रुतयः।तस्मादथैष ज्योतिरित्यपूर्वस्य कर्मणो विधायकं वाक्यम्। अनुवादे हि सति अप्रवृत्तिविशेषकरमनर्थकम् स्यात्। प्रकृतस्य च गुणविधाने विकल्पो भवेत्। तत्र पक्षे बाधः। न च ज्योतिरादयो ज्योतिष्टोमस्य वदितारः। समुदायान्तराणि ह्येतानि।न चावयवेन

समानेन समुदायान्तरं तदर्थमेव भवति।यथा शालाशब्दो गृहवचनः।तत्र न शालासब्दसामान्यान्मालाशब्दादयोऽपि गृहवचना भवन्ति।यत्तु ज्योतिष्टोमस्य ज्योतिरिति प्रतीकमुपादीयते इति। प्रकरणसामर्थ्याद्धि तत्र ज्योतिष्टोमशब्देन परोक्षणैकवाक्यता भवेत्। सा प्रत्यक्षं ज्योतिः शब्देन सहैकवाक्यतां बाधेत। न चैतन्न्याय्यम्। वाक्यं हि प्रकरणाद् बलीयः। अथ पुनरयं द्योतनार्थत्वाद्वा ज्योतिष्मत्वाद्वा कर्मान्तरे वर्त्स्यति। यश्च त्रिवृदादीनि ज्योतींषि तेषां साकल्यवचनो, विश्वज्योतिः सर्वज्योतिरिति चेन्नेति ब्रूमः। न हि त्रिवृदादिषु ज्योतिशब्दः प्रसिद्धः। एवं ब्रुवन् प्रसिदिं्ध बाधेत। यत्तु वाक्यशेषाज्ज्योतिः शब्दस्त्रिवृदादिवचन इति। तस्मिन्नेव वाक्ये स तत्र प्रयुक्त इति गम्यते प्रमाणान्तरेण, न शब्देन। यत्र तु तत्प्रमाणान्तरं नास्ति,न त्तर वर्त्तितुमर्हति। यथा सिंहो देवदत्त इति सिंहशब्दो देवदत्तवचनः प्रमाणान्तरेण, न तु सिंहमालभेतेति यत्र, तत्र तु तत् प्रमाणान्तरं नास्ति।तस्मान्न विश्वज्योतिः सर्वज्योतिरिति च ज्योतिष्टोमस्य वदितारौ। न चेज्ज्योतिष्टोम उच्यते, सर्वाणि कर्मान्तराणि।।22।। .।।संज्ञाकृतकर्मभेदाधिकरणण्।।8।।

सू.2.2.23

गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात्।।23।।

चातुर्मास्येषु वैश्वदेवे समामनन्ति। तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति। तत्र सन्दिह्यते, किमामिक्षागुणके कर्म्मणि वाजिनं गुणविधिरुत तस्माद् वाजिनगुणककर्मान्तरम्। किं प्राप्तम्। गुणविधिरिति।

कुतः?वाजेनान्नेन आमिक्षया वाजिनो विश्वेदेवास्तननूद्य वाजिनं विधीयते तेनोभयं वैश्वदेवम्, आमिक्षा वाजिनं च ।तस्मिन्नेव च कर्मणि वाजिनगुणविधिः। यथा अग्निहोत्रं जुहोतीत्युक्ते,दध्ना जुहोति, पयसा जुहोतीति।।एवं प्राप्ते ब्रूमः।। गुणश्चाप्रकृतेन देवताभिधानेन सम्बध्यमानः कर्मान्तरं विदध्यात्। समे हि तदैते वाक्ये भवतः। उभे अपि अपूर्वयोर्यागयोर्विधातृणी। कथं पुनरपूर्वदेवताभिधानं, यदेदानीमेवोक्तं, विश्वेषां देवानामनुवादो वाजिनमिति। तदुच्यते। इह विश्वेषां देवानां देवतात्वं क्वचिच्छ्ररुत्या,क्वचिद् वाक्येन। तद्धितनिर्देशे श्रुत्या, चतुर्थीनिर्देशे वाक्येन। यत्र श्रुत्या देवतात्वं, तत्रामिक्षया सहैकवाक्यत्वम्। यत्र चतुर्थी, तत्र वाजिनेन। तत्रैषामेकत्र श्रुत्या देवतात्वम्। वाक्येन द्रव्यविशेषसम्बन्धः। एकत्रोभयमपि वाक्येन। तदिह देवतात्वं प्रति श्रुतिवाक्ययोर्विरोधः। विरोधे च श्रुतिर्बलीयसि इत्यामिक्षावाक्ये देवतात्वं विश्वेषां देवानां, न वाजिनवाक्ये इत्यध्यवसीयते। तेनावगम्यते। अप्रकृतेन देवतापदेनास्य सम्बन्ध इति। तस्मात् कर्मान्तरमिति।।23।।देवताभेदकृतकर्मभेदाधिकरणम्।।9।। अथ यदुपवर्णितं, यथाऽग्निहोत्रं जुहोतीत्युक्ते दध्ना जुहोति इत्येवमादयो गुणविधय इति।तत्रोच्यते।

सू.2.2.24

अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत।।24।।

युक्तं यत् तत्र गुणविधानं, न तत्राप्रकृतेन केनचिद् गुणेन सम्बन्धः। प्रकृतेन त्वस्ति यागेन। तस्मादनुपवर्णनमेतत्।। अथ वा अधिकरणान्तरम्।दध्ना जुहोतीत्येवमादीनि कर्म्मान्तराणि, विकल्पपरिजिहीर्षयाऽवकल्प्यन्ते। तदेव तु कर्म्म जुहोतीति शब्दादवगम्यते, न कर्मान्तरम्। तस्मात् तत्रैव गुणविधिः, वचनाद्विकल्पश्चेति

सिद्धम्।।24।।पूर्वाधिकरणशङ्कानिरासः।।यद्वा द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणम्।।10।।

सू.2.2.25

फलश्रुतेस्तु कर्म स्यात् फलस्य कर्मयोगित्वात्।।25।।

अग्निहोत्रं प्रकृतस्य समामनन्ति, दध्नेन्द्रियकामस्य जुहुयादित्येवमादि। तत्र संशयः। किमग्निहेत्रहोमाद्होमान्तरं दध्यादिहोम उत दध्यादेर्गुणात् फलमिति। किं प्राप्तम्। होमान्तरमिति। कुतः। फलमिह श्रूयते। तच्च कर्मणो न्याय्यम्।।किं इष्टं हि कर्मणः फलम्। कृष्यादितो व्रीह्यादि। नेति ब्रूमः। न ह्येतद् दृष्टेनानेन सिद्ध्यति।यदि दर्शनं हेतुः फलज्ञाने, कृष्यादौ पदार्थे तद्दर्शनं, न होमे। अथ कृषौ दृष्टमन्यत्रापि भवति। द्रव्यादपि प्रसज्ज्यते.। अथ कृषिसदृशात् भवतीत्युच्यते कृषिसदृशो होमः, क्रियात्वाद् न द्रव्यम्, असदृशं हि तदिति। होमोऽप्यसदृशः। मन्त्रदेवतादिसाधनत्वाद्होमस्य लाङ्गलादिसाधनत्वाच्च

कृषेः।त्यागात्मकत्वाद्होमस्य। पाटनात्मकत्वाच्च कृषेः। अथ किञ्चित् सादृश्यं गृह्यते। द्रव्यस्यापि सदनित्यमित्येवमादि किञ्चित् सादृश्यमस्ति, अथ द्रव्यादन्यत् सदृशतरमस्तीति कृत्वा न द्रव्यं सदृशामत्युच्यते। होमादप्यन्यत् कृषेः सदृशतरमस्ति दृष्टार्थमिति कृत्वा होमोऽप्यसदृशः स्यात्। न चैतत्सिद्धं,यत् क्वचिद् दृश्यते, तदन्यस्मिन् सदृशमात्रे अदृष्टमपि भवितुमर्हतीति। यद्धि यस्य कारणभूतं दृष्टं सिद्धे, तच्चेत् साध्येऽपि, कारणभूतमित्यवगम्यते। भवति तत्तस्य साधकम्। यन्न ज्ञायतेकारणभूतमिति न तत् सदृशमपि साधकम्। तस्मात् सदृशमपि साधकमसाधकं वेति परीक्षितव्यमिति। अथ यत् कर्म तत् फलवद् दृष्टम्। होमोऽपि कर्म्म। तेनापि फलवता भवितव्यमिति। उपरते कर्म्मणि द्रव्याणां तत्संयोगानाञ्च द्रव्यान्तरं फलं द्रष्टमिति द्रव्यमपि फलवत् स्यात्।अपि च कृषेनीदृष्टमिति तत्सादृश्याद्होमादपि नादृष्टं भवेत्।कृषिसादृश्याद्वा ब्रीहिरेव भवेद्, नेन्द्रियम्। तस्मान्नैवज्जातीयकेष्वंतद् भवति दृष्टाददृष्टसिद्धिरिति । कथं तर्हि होमान्न्याय्यं फलमिति। उच्यते।शब्देनावगम्यते तत्फलं, यत फलमिति शब्द आह। ततो न्याय्यं होमाच्च फलमिति श्रुत्या शब्देन गम्यते, दध्नः फलमिति वाक्येन। श्रुतिश्च वाक्याद् बलीयसि। तस्माद् होमात् फलमिति न्याय्यम्। दध्नः फलमिति चान्याय्यम्।। अपि च दधि उभयसमर्थं कर्तुं, फलं साधयितुं होमञ्च। ननु कम्बलनिर्णेजनवदेतद्भविष्यति। निर्णेजनं ह्युभयं करोति-- कम्बलशुदिं्ध,पादयोश्च निर्मलताम्। न ब्रूम एकस्योभयं प्रयोजनमभिनिष्पादयितुं सामर्थ्यं नास्तीति। किं तर्हि फले गुणभूतं दधि होमे चेत्येकं वाक्यं वदितुमसमर्थमिति। यदि फलं दध्ना कुर्यादिति ब्रूयाद्, न दध्ना होममिति।अथ दध्ना होमं साधयेदिति ब्रूयान्न फलमिति। उभयवचने भिद्येत वाक्यम्। अभिन्नञ्चेदमुपलभ्यते. तस्मान्न गुणात् फलमित्यग्निहोत्रहोमाद्दधिहोमः कर्मान्तरमिति।।25।। पूर्वपक्षः।।

सू.2.2.26

अतुल्यत्वात्तु वाक्योयोर्गुणं तस्य प्रतीयेत।।26।।

तु शब्दात् पक्षो विपरिवर्त्तेते। न कर्मान्तरं, किन्तु गुणात् फलमिति। कथम्।. अतुल्ये ह्येते वाक्ये। अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यत्र कर्म्मसमभिव्याहृतं फलंस्वर्गकामो होमेन कुर्य्यादिति। दध्नेन्द्रियकामस्य जुहुयादिति गुणसमभिव्याहृतम्। न ह्यत्र होम इन्द्रियाय कर्तव्य इति प्रतीयते, किं तर्हि-- दध्ना होम इन्द्रियकामस्येति। होमस्य दधिसम्बन्ध इन्द्रियाय, न होमस्योत्पत्तिः। य इन्द्रियकामः स्यात् स दध्ना होमं कुर्य्यादिति। कतमोऽत्र शब्दः पुरुषप्रयत्नस्य वक्तेति। जुहुयादिति ब्रूमः।। ननु श्रुत्या होमसम्बद्धमेष पुरुषप्रयत्नं वदति,वाक्येन दधिसम्बन्धम्। न च वाक्यं श्रुतिमपबाधितुमर्हति। न च युगपदुभयसम्बन्धो न विरुद्ध्यते। वाक्यं हि तथा भिद्येतेति। अत्रोच्यते। ये भवदीयं पक्षमाश्रयेरँस्ते श्रुतिमपबाधेरँस्तराम्। अस्मदीये तु पुनः पक्षे जुहुयादितिधत्त्वर्थः केवलोऽपबादितो भवति। युष्मदीये तु कृत्स्न एव दध्नेति शब्दः। तं चाप्रमाद्यन्तः समामनन्तीति गम्यते। न चैतत्प्रमत्तगीतमित्युक्तं- तुल्यं हि साम्प्रदायिकमिति। तस्मान्न कर्म्मसमभिव्याहृतं फलम्।गुणसमभिव्याहृते तु न कश्चित् प्रमादपाठः। अवश्यं हि, जुहुयादिति दध्नेन्द्रियकामयोः सम्बन्धविधानाऽर्थं वक्तव्यम् भवति। ननूच्यमानेऽपि न केवलं करोत्यर्थोऽवगम्यते। केवले न वचःप्रयोजनम्। स च

होमसम्बद्धः। तस्मादसमञ्जसमिति।नेति ब्रूमः। होमसम्बद्धोऽप्यसौ करोत्यर्थ एव केवलं त्वस्य होमसम्बन्धे विशेषः, न तु करोत्यर्थतां बाधते, इन्द्रियकामस्य होमसम्बद्धं प्रयत्नं दधिसम्बद्धं कुर्यादिति। नन्वेवं सति स एव

दोषः, होमसमभिव्याहृतं फलमिति। उच्यते। जुहुयादितिशब्दस्यैतत्सामर्थ्यं, यद्होमविशिष्टं प्रयत्नमाह, न त्वत्र होमः साधनत्वेन विधीयते। साध्यत्वेन विशिष्टस्तु प्रयत्नो वाक्येन दध्याश्रितोऽवगम्यते,अत एव च वृत्ततिकारेणोक्तं, होममाश्रितो गुणः फलं साधयिष्यतीति। यथा राजपुरुषो राजानमाश्रितो राजकर्म्म करोतीति। तस्माद्दध्नः फलं , य इन्द्रियकामः,स दध्ना कुर्यादिन्द्रियमिति। कथमिति।अनयाऽग्निहोत्रोतिकर्त्तव्यतयेति। कुत एतत्। फलसाधनस्य दध्न इतिकर्त्तव्यताऽऽकाङ्क्षत्वात्। अस्याश्च इतिकर्त्तव्यतायाः सन्निधानाञ्चोदनालिङ्गस्य च जुहोत्यर्थस्य दर्शनात्। यस्मादेव चाऽयं जुहोत्यर्थोऽनुवादस्तस्मादविधायकः। न चान्यद्होमस्य विधायकं नास्तीति तस्मान्न कर्मान्तरम्। तस्माद्दध्नः फलमिति। अथवा दधिशब्दस्य विवक्षितार्थत्वाद्दधिहोमसम्बन्धोऽयं वाक्येन विधीयते। तेन दध्नो होमेन सम्बद्यमानात् फलं भविष्यतीति।।26।। सिद्धान्तः।।

दध्यादिद्रव्यसफलत्वादिकरणम्।।11।।

सू.2.2.27

समेषु कर्मयुक्तम् स्यात्।।27।।

त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेकविंशम् अग्निष्टोमसामकृत्वा ब्रह्मवर्चसकामो यजेतेति। एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति। अत्रयमर्थः सांशयिकः। किं तस्यैवाग्निष्टुतोऽग्निष्टोमस्य गुणात् वारवन्तीयात् पशवः फलम्,एतेन यजेतेत्यनुवादः। अथ किम्, एतेन यजेतेति कर्मान्तरमिति। किं प्राप्तम्। न कर्मान्तरं गुणात् फलमिति। कुतः। एतेन यजेतेति विदितस्यैतद्वचनं, नाऽविदितस्य।अतो न विध्यन्तरम्। पशुकाम एवं यजेतेत्युच्यते, न यजेतेति। कथं कृत्वा?वारवन्तीयं कृत्वेति। अपिचैतस्यैवेति विस्पष्टम् अकर्मान्तरवचनम्।तस्माद् गुणात् फलमित्येवं प्राप्तम्।। एवं प्राप्ते ब्रूमः। समेष्वेवञ्जातीयकेषु भिन्नवाक्येषु कर्मयुक्तं फलं भवेत्। एतस्यैव रेवतीषु वारवन्तीयं कृत्वेति। न ह्येतस्य रेवत्यः सन्ति, यास्वऽस्य वारवन्तीयं भवेत्। तत्र रेवत्यो भवन्ति, तासु च वारवन्तीयं विधीयेतेति वाक्यं भिद्येत। अथोच्येत-- अस्य पूर्वा रेवतीरुपादाय तासु च वारवन्तीयं कृत्वा, एतेन यजेतेत्यनुवदतीति। तथाऽग्निष्टोमसामेति नावकल्प्येत। अथाग्निष्टोमसामकार्ये भवतीत्युच्यते।एतस्यैवेत्येतदविवक्षितं स्यात्। उभयस्मिन् विवक्ष्यमाणे भिद्येत वाक्यम्। तस्मात् कर्मान्तरम्।। अथ कर्मान्तरे कथमवाक्यभेदः। रेतीषु ॠक्षु वारवन्तीयं साम कृत्वा पशुकामो यजेतेत्यपूर्वो यागः सर्वैर्विशेषणैर्विशिष्टो विधीयते। तेनैकार्थत्वं विभागे च साकाङ्क्षत्वमित्येकवाक्यत्वमुपपद्यते। नन्वर्थभेदो यागश्चैवं ह्यपूर्वः कर्त्तव्यः। रेवतीषु

वारवन्तीयम् अपूर्वमिति। नेति ब्रूमः। निर्वृत्तवारवन्तीयरेवतीगुणको यागो विधीयते,न वारवन्तीयनिर्वृत्तिः। अर्थाद् रेवतीषु वारवन्तीयमभिनिर्वर्त्स्यति। शक्यते च तन्निर्वर्त्तयितुम्। उच्यते। रेवतीनां वारवन्तीयस्य च सम्बन्धो न विहितः स्यात्। तत्र च रेवतीष्वन्यान्यपि सामानि भवेयुः। वारवन्तीयं चान्यास्वपि ॠक्षु।नैष दोषः। कृत्वेत्यभिनिर्वृत्तः सम्बन्धो यागायोच्यते।तेन सम्बन्धो गम्यते। द्वावप्येतावर्थौ कृत्वेत्येष शब्दः शक्नोति वदितुमभिनिर्वृतिं्त पूर्वकालतां च । यथा शोणमानयेति

रक्तगुणसम्बद्धोऽश्वः शब्देनैवानयतो विधीयते इति, न वाक्यभेदो भवति। एवमत्रापि द्रष्टव्यम्।। नन्वेवमपि बहवोऽर्थाः, रेवत्यः, वारवन्तीयं, तत्सम्बन्धः, यागः, पशुकामश्चेति। नैष दोषः । बहवः श्रूयन्ते, एकोऽत्र विधीयते यागो विशष्टः। ननु रेवत्योऽपि विधीयन्ते, वारवन्तीयमपि। यदि न विधीयेरन्नैव तद्विशिष्टो यागः प्रतीयेत। न ह्यविधाय विशेषणं, शक्यते विशिष्टो विधातुम्। तस्माद् बहुषु विधीयमानेषु नैकार्थ्यम्। अत्रोच्यते। अर्थ इति प्रयोजनमभिधीयते। यावन्ति पदान्येकं प्रयोजनमभिनिवर्त्तयन्ति, तावन्त्येकं वाक्यम्। न चात्र बहूनि प्रयोजनानि। न ह्यत्रानेकस्याभिप्रेतस्यानेकं पदं विधायकमस्ति। रेवतीष्विति नैतत्केवलं रेवतीनां विधायकं, रेवतीषु वारवन्तीयमिति। अत्रापि पदद्वये वारवन्तीयशब्दो द्वितीयान्तः। नास्मात् सम्बन्धोऽभिप्रेतो गम्यते। प्रातिपदिकार्थस्याव्यतिरेकात्। कृत्वेत्यपि करोतिने सम्बन्धमात्रे पर्य्यवसितः परप्रयोजनसम्बन्धमाह। एवं विशिष्टस्तु यजतिर्न परार्थः। तदेकमेषां पदार्थानां प्रयोजनम्। तस्मादेकवाक्यत्वम् गुणे पुनः फले प्रकल्प्यमाने अग्निष्टोमसाम्नः कार्ये वारवन्तीयम्। एतस्य च यदग्निष्टोमसाम इति वाक्यभेदः स्यात्।। अथोच्यते, रेवत्यादिसर्वविशेषेण विशिष्टे याग एतस्याग्निष्टुतो विधीयेत, तथापि पशुकामसम्बन्धाद् भिद्येत वाक्यम्। अथैवमुच्येत, रेवतीषु कृतेन वारवन्तीयेन पशुकामो

यजेतेति। नैवं शक्यम्। ऋगन्तरप्रगानाद्विशेषहानाद्वैगुण्यं स्यात्। नन्विदानीमेवोक्तं, शक्यते हि रेवतीषु वारवन्तीयं कर्त्तुमिति। सति वचने शक्यम्। असति वचने न वारवन्तीयग्रहणेन गृह्यते। वचनं तर्हि भविष्यति, पशुकामो रेवतीषु वारवन्तीयमभिनिवर्त्तयेत्। ततो यजेतेति यजतिरनुवादः। यदि वचनं रेवतीषु वारवन्तीयसम्बन्धस्य, सिद्धं कर्मान्तरं, नाग्निष्टुतो गुणविधिः। ननु ततो यजेतेति यागानुवादाद् यागेनास्याङ्गप्रयोजनसम्बन्धो भविष्यति। नैवं शक्यम्। यागं प्रत्यङ्गभावे विधीयमाने पशुकामं प्रत्यसम्बन्धः। उभयसम्बन्धे वाक्यं भिद्येत। अथ यागसम्बन्धोऽनुवादः, प्रकरणेन चाङ्गता। नेदमुपपन्नम्। प्रकरणाद्धि वाक्यं बलवत्तरम्। तस्मात् कर्मान्तरं, यागगुणकं वा रेवतीषु वारवन्तीयं, तदुगुणको वा यागः। तत्र यागपशुकामयोः सम्बन्धस्य विधीत्रीं यजतेरुपरितनीं विभक्तिमुपलभामहे लिङ्गं, न तु रेवतीवारवन्तीयसम्बन्धस्य विधायकं साक्षात्किञ्चिदुपलभ्यते।

तस्माद् सर्वविशेषणविशिष्टो यागः पशुकामस्य विधीयते इति सिद्धम्। अथ पुनर्विशिष्टे यागे विधीयमाने, तद् रेवतीषु वारवन्तीयं कथमग्निष्टोमसाम भवतीति। उच्यते। वचानादग्निष्टोमसाम्नः। नास्ति वचनस्यातिभारः। अथ यदुक्तमेतस्यैवेति। अनन्तरापेक्षं वचनमिति तत्राप्यविरोधादेवतद्धर्मकस्येति लक्षणाशब्दो भविष्यति। तस्मान्न गुणात् फलं कर्मान्तरमेवंधर्मकामिति, सिद्धं समेष्वेवञ्जातीयकेषु कर्मयुक्तं फलमिति।।27।। वारवन्तीयादीनां कर्मान्तरताधिकरणम्।।12।।

सू.2.2.28

सौभरे पुरुषश्रुतेर्निधनं कामसंयोगः।।28।।

यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः, स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरे इति समाम्नाय ततः समामनन्ति। हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामय, ऊ इति स्वर्गकामयेति। तत्र विचार्यते। किं सौभरं वृष्टेर्निमित्तं, हीषित्येतदपरं वृष्टेर्निमित्तम्, अथ सौभरमेव वृष्टेर्निमित्तम्। यदा तद् वृष्टेर्निमित्तं. तदा हीषिति सौभरस्य निधनं कर्त्तव्यमिति। एवम्, ऊर्गित्यन्नाद्यकामस्य, ऊ इति स्वर्गकामस्य च तुल्यो विचारः। कथं निधनादपरं फलं? कथं वा निधनव्यवस्थार्थं श्रवणमिति। यद्येवमभिसम्बन्धः क्रियते हीषिति वृष्टिकामाय कुर्य्यादिति, ततो निधनादपरं फलम्। अथैवमभिसम्बन्धः- हीषिति निधनं कुर्यादिति, तदा निधनव्यवस्थाऽर्थं श्रवणम्। तदा वृष्टिकामायेति सौभरविशषणं क्रियते. न हीषा सम्बन्धः। कि तावत् प्राप्तम्। सोभरे निधने अपरः कामो विधीयते इति। कुतः। पुरुषश्रुतेः। पुरुषप्रयत्नस्यात्र श्रवणं भवति, कुर्य्यादिति। तद् वृष्टिकामस्य हीषश्च सम्बन्धे कर्त्तव्ये वक्तव्यं भवति, न तु सौभरनिधनसम्बन्धे। तत्र हि साङ्गं सैभरं कुर्य्यादिति प्रयोगवचनसामर्थ्यादेव सिद्धम्। तस्मात् कुर्यादिति पुरुषप्रयत्नवचनादवगच्छामः। यतरस्मिन् पक्षे पुरषप्रयत्नवचनमर्थवत् ततरोऽयं पक्ष इति तत्राऽस्मिन् पक्षे अर्थवद्, निधनादपरं फलमिति। तस्मात् सौभरे एककामः, भेदेन निधानादपि द्वितीयः काम इति।।

अथवा वृष्टिकामायेति पुरुषश्रुतिः। वृष्टि यः कामयते स पुरुषो वृष्टिकामशब्देनोच्यते। तदस्मिन् पक्षे श्रुतिर्विनियोक्त्री, इतरस्मिन् पक्षे पुनर्वृष्टिकामशब्देन पुरुषवचनेन सता सौभरं लक्ष्येत। तथा लक्षणाशब्दः स्यात्। श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या, न लक्षणा। तस्मात् पश्यामो निधने द्वितीयः काम इति। एवञ्च फलभूयस्त्वं भविष्यति। तस्मान्निधने अपरः

कामः।।28।। पूर्वपक्षः।।

सू.2.2.29

सर्वस्योक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान्निधनार्था पुनः श्रुतिः।।29।।

वाशब्दः पक्षं व्यावर्त्तयति। न चैतदस्ति, यदुक्तं- निधने अपरः काम इति। नैवं सम्बन्धः क्रियते- वृष्टिकामाय हीषिति कुर्य्यादिति। कथं तर्हि। हीषिति निधनं सौभरस्येति। कथम्? हीषो वृष्टिकामसम्बन्धे क्रियमाणे, निधनं कुर्य्यादिति सम्बन्धो न कृतः स्यात्। तत्र हीषिति निधनमिति नावकल्प्येत। तत्रोभयसम्बन्धे वाक्यभेदः। तत्र निधनशब्दः प्रमादसमाम्नात इत गम्यते। नचैवञ्जातीयकः प्रमादसमाम्नात इत्युक्तम्। तस्मान्न हीषो वृष्टिकामेन सम्बन्धः। तेन न निधनादपरं फलम्।

अथ हीषो निधनसम्बन्धे कथम् अवाक्यभेदः? इति। उच्यते। वृष्टिकामाय सौभरस्य निधनं सौभरप्राप्तिरस्त्येव। तत्र हीषिति कुर्य्यादित्येष एवार्थो विधीयते। तस्माद् वाक्यभेद इति। अतो निधनव्यवस्थेति गम्यते। एवमेव ऊर्गिति, ऊ इति च वदितव्यम्। सर्वस्य सैभरस्य ऊÐग्वष्टिस्वर्गकामत्वाच्छक्यते कामवचनैः सौभरं लक्षयितुम्। किमर्थं लक्ष्यते? इति निधनार्थं पुनः श्रुतिर्निधनव्यवस्थां करिष्यतीत्यर्थः।।29।। सिद्धान्तः।।

सौभरः निधनयोः कामैक्याधिकरणम्।।13।। इति श्रीभट्टशबरस्वामिनः कृतौ मीमांसाभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः।।2।।2।।