शबरभाष्यम्/द्वितीयोऽध्यायः/तृतीयः पादः
सू.2.3.1 गुणस्तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूतत्वात्।।1।।
अस्ति ज्योतिष्टोमः ज्योतिष्टेमेन स्वर्गकामो यजेतति। तं प्रकृत्य श्रूयते। यदि रथन्तरसामा सोमः स्याद् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्, यदि बृदत्सामा आग्रयणाग्रानिति। तत्र सन्दिह्यते। किं ग्रहाग्रताविशेषो
ज्योतिष्टोमस्य विधीयते, उत कर्मान्तरस्य रथन्तरसाम्नो बृहत्साम्नश्चेति? । यदि रथन्तरसामग्रहणेन बृहत्सामग्रहणेन बृदत्सामग्रहणेन च ज्योतिष्टोमोऽभिधीयते, ततस्तस्य ग्रहाग्रतविशेषः। अथ नाऽभिधीयते, ततः कर्मान्तरस्येति। किं तावत् प्राप्तम्। प्रकरणज्योतिष्टोमस्येति प्राप्ते, उच्यते।। किं तावत् प्राप्तम्। प्रकरणाज्ज्योतिष्टोमस्येति प्राप्ते, उच्यते, गुणस्तु क्रतुसंयोगादिति। तुशब्दः पक्षं व्यावर्त्तयति। नैतदस्ति, ज्योतिष्टोमस्येति। कुतः। क्रतुसंयोगात्। कथं तर्हि? कर्म्मान्तरस्येति। ननु ज्योतिष्टोमक्रतोरेवैष एवञ्जातीयको वादः, रथान्तरसामा बृहत्सामेति। नेति ब्रूमः। यदि न कृत्स्नक्रतुसंयोगो भवेज्योतिष्टोमस्य वादः। कृत्स्नक्रतुसंयोगस्त्वेषः। कथं कृत्स्नक्रतुसंयोगो भवति। कथं वा न कृत्स्नक्रतुसंयोगो इति। यदि रथन्तरसत्ता वा, बृहत्सत्ता वा निमित्तं ग्रहाग्रताविशेषस्य, ततो न कृत्स्नक्रतुसंयोगः। रथन्तरं बृहद्वा यदि सामास्ति, तत ऐन्द्रवायवाग्रता शुकाग्रता चेति, ततो ज्योतिष्टोमस्य गुणविधिः। अथ रथन्तरसामसत्ता बृहत्सामसत्ता वा न निमित्तं, ततः कृत्स्नक्रतुसंयोगः। यदि रथन्तरसामेति कोऽर्थः। अयमर्थः-
यदि रथन्तरसाम अस्य विशेषणं क्रतोरिति। कुतः एतत्। समासपदसामर्थ्यात्। समर्थानां हि पदानां समासो भवति- सामर्थ्यञ्च भवति विशेषणविशेष्यभावे। असाधारणं च भवति विशेषणम्। तत्रायमर्थो- यदि रथन्तरमेव साम, बृहदेव वा नान्यादिति। ज्योतिष्टोमस्यच बहूनि सामानि गायत्रादीनि। तस्मान्न ज्योतिष्टोमस्य वाचकावेतौ शब्दाविति। तेन यद्यपि प्रकरणाज्ज्योतिष्टोमस्य गुणविधिरिति गम्यते, तथापि तद् बाधित्वा वाक्येन रथन्तरसाम्नो बृहत्साम्नश्च भवितुमर्हति। ननु यथा ज्योतिष्टोमो न रथन्तरसामा, एवमन्योऽपि न रथन्तरसामा कश्चिदस्ति। उच्यते कर्मान्तरं रथन्तरसामकं कल्पयिष्यतेतद्वाक्यम्। रथन्तरसामा सोमः स्यादिति। ननु नास्त्यत्र विधायकः शब्दः। उच्यते, अस्ति य एषः स्यादिति। आह। नैष विधातुं शक्नोति यदि शब्दसम्बन्धादविद्यमानस्य निमित्तार्थेनैवञ्जातीयकः शब्दो भवति, न विधानार्थेति। अत्र ब्रूमः। यदेतत् सयदिकं वाक्यम्। यदि रथान्तरसामा सोमः स्यादिति।
अत्रावन्तरवाक्यमस्ति, रथान्तरसामा सोमः स्यादिति। यदवन्तरवाक्यं तस्यान्योऽर्थोऽन्यश्च सयदिकस्य। सयदिको न शक्नोति विधातुम्। यद् अवान्तरवाक्यं तद्विधास्यति। न च रथान्तरसाम्नो बृहत्साम्नो वा भावो निमित्तत्वेन श्रूयमाणोऽप्यर्थवान् भवति। तस्मादविवक्षितो यदिसम्बन्धः। तÏस्मश्चाविवक्षिते पदद्वयमिदं रथन्तरसामा सोमः स्यादिति शक्नोति रथन्तरसामानं क्रतुं विधातुं, यदीत्यनर्थकम्। अथ वा, यदि रोचतेत्यध्याहारः। अथ वा, यथैतद्भवति- पयसा षाष्टिकं भुञ्जीत, यदि शालिं भुञ्जीत, तत्र दध्युपसिञ्चोदिति। एवञ्जातीयकेन वाक्येन शालिभोजनं विहितं भवति। एवमत्रापि विहितं द्रष्टव्यम्। यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति। कथं पुनः शालिभोजनं तेन
वाक्येन विहितं भवतीति। उच्यते। व्यत्यासेन सम्बन्धः कल्प्येत, यदि दध्युपसेचनमिच्छेच्छालिं भुञ्जीतेति।।
ननु न खल्विच्छते परां लिङ्गविभक्तिमुपलभामहे, सिञ्चतेर्हि तां परां समामनन्ति। सिञ्जतेः खलु सा परा समुच्चरन्ती कमेरर्थं गमयति। कामप्रवेदने हि तां मन्यामहे इति एवमिहापि यद्यैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति ग्रहीतुमिच्छेदित्यर्थ, ततो रथन्तरसामानं क्रतुं कुर्य्यादिति, नन्वेवं सतीच्छामात्रं भवेन्न ग्रहाग्रताविशेषविधानम्। उच्यते। यथाÏस्मल्लौकिके वाक्ये, यदि दध्युपसेचनमिच्छेच्छालिं भुञ्जीतेति तेनैकवाक्यत्वाद् गम्यते, एवमत्रापि ग्रहाग्रताविशेषसङ्गीर्त्तनात्तैनवाक्यत्वाद् ग्रहाग्रताविशिष्टा रथान्तरसामा गम्यते। अथवाऽत्र हेतुहेतुमतोर्लिङ् रथान्तरसामा सोम ऐन्द्रवायवाग्राणां ग्रहाणां हेतुः कर्त्तव्य इति। तस्मात्
कृत्स्नक्रतुसंयोगाद् गुण कर्मान्तरं प्रयोजयेत्। एवं कृत्स्नक्रतुसंयोगोऽर्थवान् भविष्यति। कथम्। सति हि निमित्ते नैमित्तिकं भवितुमर्हति, न असति। यच्च भविष्यत् तद् न सत्, भविष्यच्च रथन्तरसाम, तत् कथं पूर्वकालस्य ग्रहाग्रताविशेषस्य निमित्तं भविष्यतीति। अपि च निःसन्दिग्धं जगत्सामा कर्मान्तरं, तत्सामान्यादितरदपि कर्म्मान्तरमिति गम्यते। तस्मान्न ज्योतिष्टोमस्य गुणविधानमति।।1।। पूर्वपक्षः।।
सू.2.3.2
एकस्य तु लिङ्गभेदात् प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात्।।2।।
तुशब्दात् पक्षोऽन्यथा भवति। नैतदस्ति, यदुक्तं- क्रत्वन्तरमिति। कथं तर्हि। ज्योतिष्टोमस्यैव
ग्रहाग्रताविशेष इति। कुतः। प्रकरणसामर्थ्यात्। नन्वेतदुक्तं- वाक्यसामर्थ्यात् क्रत्वन्तरस्य रथन्तरसाम्नो बृहत्साम्नश्चेति। परिहृतमेतज्ज्योतिष्टोम एव रथन्तरसामा बृहत्सामा चेत्। पुनर्दूषितमनेकसामत्वाज्ज्योतिष्टोमस्य, विशेषणं रथन्तरेण बृहता वा न प्रकल्पते इति। तदुच्यते। प्रकल्पते विशेषणं, बृहद्रथन्तरयोर्वैकल्पिकत्वात्। भवति स प्रयोगः, यत्र रथन्तरं सत्तयैवासाधारणत्वाद् विशेषकम्। तस्माज्ज्योतिष्टोम एव रथन्तरसामा बृहत्सामा चेति। अथ यदुक्तं- पूर्वेण निमित्तेन भवितव्यमुत्तरेण नैमित्तिकेनेति नैतत्। नियोगतो भवति हि भविष्यदपि निमित्तम्। यथा वर्षिष्यतीति
कृषिगृहकर्मानुष्ठानम्। अपि च तद् दृष्टम्, इदञ्च वाचनिकं निमित्तम्। तद् यथावचनं भवितुमर्हति। स्यादिति चेयं लिङ् त्रिष्वपि कीलेषु भवति। तस्माद् भविष्यदपि निमित्तम्। यत्तु जगत्सामेति कर्मान्तरं, तत्सामान्याद् रथन्तरसामापि कर्मान्तरमिति। जगत्साम असम्भवात् कर्मान्तरं सम्भवति। रथन्तरसाम्नो बृहत्साम्नो बृहत्साम्नश्च ज्योतिष्टोमस्याभिधानम्। तस्मान्न कर्मान्तरमिति।।2।। सि0।। ग्रहाग्रताया ज्योतिष्टोमाऽङ्गताधिकरणम्।।1।।
सू.2.3.3
अवेष्टौ यज्ञसंयोगात् क्रतुप्रधानमुच्यते।।3।।
अस्ति राजसूयः, राजा राजसूयेन स्वराज्यकामो यज्ञेतेति। तं प्रकृत्यामनन्ति- अवेÏष्ट नामेष्टिम्। तां प्रकृत्य विधीयते। यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाऽभिधारयेत्, यदि राजस्य एन्द्रं, यदि वैश्यो वैश्वदेवमिति। तत्र सन्दिह्यते। किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणम्, उत ब्राह्मणादीनामयं यागो विधीयते इति। कथं निमित्तार्थता भवेत्, कथं वा यागविधानमिति। यदि राजशब्दो ब्राह्मणादिष्वपि केनचित् प्रकारेण ततो निमित्तार्थता। अथ क्षत्रिय एव, ततः प्रापकाण्येवञ्जातीयकानि श्रवणानि।। किं तावत् प्राप्तम्। निमित्तार्थतेति। तत एवं तावदुपवर्ण्यते- यौगिका राजशब्द इति। राज्यं यस्य कर्म स राजा। किं पुना राजकर्म्म। जनपदपुरपरिरक्षणे, ततश्चोद्धरणे। राज्यशब्दमार्य्यावर्त्तनिवासिनः प्रयुञ्जन्ते। राज्ञः कर्म्म राज्यमिति चाभियुक्ता उपदिशन्ति। तेन मन्यामहे, यस्यैतत् कर्म्म स राजेति। यथा ये उदमेधं नाम कञ्चित् पुरुषं नावेदिषुः, तस्य तु पुत्रम्, औदमेधिरित्येवं विदुः, शक्नुयुस्ते यस्तस्य पिता स उदमेघ इति कल्पयितुम्। उदमेघपुत्रस्यैवं समभिव्याहारो भवतीति। एवं राज्ययोगाद् राजशब्द इति विज्ञायते। ननु जनपदपुरपरिरक्षणवृत्तिमनुपजीवत्यपि क्षत्रिये राजशब्दमान्ध्राः प्रयुञ्चते प्रयोक्तारः। न ब्रूमः- न प्रयुञ्जते इति। किं तर्हि- कर्म्मविशेषनिमित्तत्वाद् राजशब्दस्य, तद्योगादपि राजशब्दो भवतीत्येतदुपपादयामः। प्रयुञ्जते च तद्युक्ते राजशब्दमक्षत्रियेऽपि तदस्मिन्नुपपन्ने प्रकरणवशाद् यदिशब्दसमभिव्याहाराच्च राजसूयस्यैव गुणविधानं भविष्यति, न ब्राह्मणस्य वैश्यस्य च कर्म्मान्तरं विधायिष्यतीति। अथवा, असार्वलौकिकस्य प्रयोगस्य सार्वलौकिकेन विरुद्ध्यमानस्य अप्रामाण्यं स्यात्, अभ्युपगच्छन्ति हि ते जनपदिनः सार्वभौमं प्रयोगम्। अपिचाविप्रगीता लौकिका अर्था विप्रगीतेभ्यः प्रत्ययिततरा भवन्ति तथा आर्य्यावर्त्तनिवासिनां शब्दार्थोपायेष्वभियुक्तानामभिव्याहारतां कर्माणि चानुतिष्ठताम् अन्त्यजनपदवासिभ्यो म्लेच्छेभ्यः
समीचीनतर आचारो भवनति। तस्माद् यौगिको राजशब्दः निमित्तार्थानि श्रवणानि, राजसूयस्य गुणविधिर्न कर्मान्तरमिति।।
एवं प्राप्ते ब्रूमः। अवेष्टौ तु खलु क्रतुप्रधानं ब्राह्मणादिश्रवणं ब्राह्मणादीनामवेष्टियागं विधातुं, न निमित्तार्थम्। कुतः। अप्राप्तत्वाद् ब्राह्मणवैश्ययोः। कथमप्राप्तिः। क्षत्रियस्य
राजसूयविधानात्। राजा राजसूयेन येजेतेति। ननूक्तं- यौगिको राजशब्द इति। एतदप्ययुक्तम्। यतो जातिवचन इति। ननूभयाभिधाने यदिशब्दसम्बन्धात्, प्रकरणाच्च न कर्म्मान्तरविधानं न्याय्यमित्युक्तम्। अत्रोच्यते।
नोभयाभिधानमवकल्पते। कुतः। यदि तावज्जातिशब्दो राजेति, ततस्तत्कर्मत्वाज्जनपदपरिपालने राज्यशब्दो भविष्यति। तानार्य्यावर्त्तनिवासिनां प्रयोगो न विरोत्स्यते। अथ यदि राज्यशब्दः परिपालने नित्यसम्बद्धो कर्त्तेति, राजशब्दः क्षत्रियजातौ तन्निमित्तौ भविष्यति। तत्रान्ध्राणां प्रयोगो न विरोत्स्यते। तस्मान्न प्रयोगदर्शनादुभावपि राजराज्यशब्दौ जातिपरिपालनाभ्यां नित्यसम्बद्धावित्यभ्युपगन्तव्यम्। तो नु खलु निर्णयः। राजजातीयस्य कर्म्म इत्यतः परिपालनं राज्यशब्देनोच्यते। एवं हि स्मरन्तोऽभियुक्ताः, तस्य कर्म इति ष्यञुप्रत्ययं विदधाति, न तु
तस्य कर्तेति प्रत्ययलोपं वा, प्रातिपदिकप्रत्यापतिं्त वा समामनन्ति। तस्माद् राज्ञः कर्म्म राज्यं, न राज्यस्य कर्त्ता राजा। ननु यो यो जनपदपुरपरिरक्षणं करोति, तं तु लोको राजशब्देन अभिवदति। उच्यते। योगाल्लोकः प्रयुङ्क्ते। परिपालने राज्यशब्दः प्रसिद्ध इति। स तु परिपालने राज्यशब्दो राजयोगादित्यस्माभिरुक्तम्। तस्माद् राजशब्दः प्रसिद्धेर्मूलम्। तद्योगाद् राज्यशब्दः। तदयोगादपि ब्राह्मणवैश्ययो राजशब्दः प्रयुज्यते। न त्वेवं स्मरन्ति, राज्ययोगाद् राजेति। यत्तूक्तम्- अनुमानाद् राज्यस्य कर्त्ता यः स राजा, यथा औदमेधेः पिता उदमेघ इति। उच्यते। अनुमानात् प्रयोगो बलवान्। राज्यस्य कर्त्तरं राजा इत्यनुमिमीमहे। क्षत्रिये तु प्रत्यक्षं प्रयुञ्जानात् उपलभामहे। तथा योगमप्यनुमिमीमहे, राज्यस्य कर्त्ता राजेति। राज्ञः कर्म्म राज्यमिति तु स्मरन्ति। अनुमिमानाश्च स्मृतिमनुमिमते स्म। स्मरन्तस्तु प्रत्यक्षमुपलभन्ते। तेन तत्र स्मृतिर्बलीयसीति। आह। यो यो राज्यं करोति, तत्र राजशब्दं प्रयुञ्जते। न यद् राज्ञः कर्म्म तद्राज्यमिति। तेन मन्यामहे, राज्ययोगौ राजशब्दप्रवृत्तौ निमित्तं, न तु राजयोगो राजशब्दप्रवृत्तौ निमित्तं, नतु राजयोगो राज्यशब्दप्रवृत्ताविति। न ब्रूमः- प्रयोगाद् वयं राजयोगं राज्यशब्दप्रवृत्तौ निमित्तमवगच्छाम इति। कथं तर्हि स्मरणात्। प्रयोगाच्च स्मृतिर्बलूयसी। प्रयोगाद्धि स्मृतिरनुमीयते।। अपिच राज्ययोगस्य निमित्तता व्यभिचरति। जनपदपरिपालनमकुर्वत्यपि राजेत्यान्ध्रा वदन्तीत्युक्तम्। ननु राजयोगाद् राज्यमित्येतदपि व्यभिचरति। नहि राज्ञः स्पन्दितं निमिषितञ्च सर्वं राज्यमित्युच्यते। यदि वयं प्रयोगान्निमित्तभावं ब्रूमः। तेन यद् यद् राजजातीयस्य कर्म्म जात्या विशेष्यते, तद् राज्यमित्यभ्युपगच्छामः। यत्तूक्तम्- आन्ध्रा अपि राज्ययोगाद् राजानमभ्युपगच्छन्तीति। परिहृतमेतत्। प्रयोगो दुर्बलः स्मृतेरिति। युदुक्तम्, आर्य्यावर्त्तनिवासिनः प्रमाणमितरेभ्य आचारेभ्य इति। तुल्यः शब्दप्रयोग आचारेष्वित्युक्तम्। तस्माज्जातिनिमित्तो राजशब्दः। एवञ्चेद् यज्ञसंयोगात् क्षत्रियस्य राजसूयेन, यागविधिरवेष्टिरिति।।3।। अवेष्टेः क्रत्वन्तरताऽधिकरणम्।।2।।
सू.2.3.4
आधाने सर्वशेषत्वात्।।4।।
इदं- समामनन्ति- वसन्ते ब्राह्मणोऽग्नीनादधीत, ग्रीष्मे राजन्यः शरदि वैश्य इति। तत्र सन्दिह्यते। किं ब्राह्मणादिश्रवणं निमित्तार्थं ब्राह्मणादय आदधाना वसन्तादिष्वादधीरन्निति, उत ब्राह्मणादीनामाधानं विधीयते इति। कथं निमित्तार्थता स्यात्? कथञ्चाऽऽधानविधानमिति। यदि ब्राह्मणो वसन्ते इति पदद्वयं परस्परसम्बद्धं, ततो निमित्तार्थं श्रवणम्। अथ ब्राह्मण आदधीत इति, आधानविधानं ब्राह्मणस्य। एवं राजन्यादिष्वपि। किं तावत् प्राप्तम्। निमित्तार्थं श्रवणमिति। कुतः। निमित्तसरूपा एते शब्दाः। किं निमित्तसारूप्यम्। ब्राह्मणादीनां वसन्तादिभिः समुच्चारणम्। तच्चाविदितं वेद्यते इति। ननु ब्राह्मणादीनामादधतिनाप्यस्ति समुच्चारणम्। बाढमस्ति समुच्चारणम्, न त्वमीषाम्। आधानसम्बन्धो न विदितः। केन प्राप्तो विदित इति। कामश्रुतिभिः। काः कामश्रुतयः। अग्निहोत्रं जहुयात् स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादयः। कथमाभिः श्रुतिभिराधानं प्राप्तमिति। उच्यते। सामर्थ्यात्। यथाऽग्निहोत्रमभिनिर्वर्त्यते, तथा कुर्य्यात्। यथा दर्शपूर्णमासावभिनिर्वत्र्त्यते, तथा कुर्य्यात्। न च गार्हपत्याहवनीयान्वाहार्य्यपचनादिभ्यो विनैतानि कर्माणि सिद्ध्यन्ति। समामनन्ति हि- यदाहवनीये जुहोति, तेन सोऽस्याभिष्टः प्रीतो भवतीत्येवमादि। तेन सामर्थ्यादेतदुक्तं भवति, आहवनीयादि कर्त्तव्यमिति। तच्चाधानेन विना न सिद्ध्यतीत्याधानमपि कर्त्तव्यमित्यवगम्यते। तत् केन कर्त्तव्यम्। यस्य कामश्रुतयः। ताश्चाविशेषेण ब्राह्मणादीनाम्। तस्मादमीषामाधानसम्बन्धो विदित इति। अपिचोभाभ्यां ब्राह्मणादीनां सम्बन्धे विधीयमाने
वाक्यं भिद्येत। न हि तदानीमेकोऽर्थो विधीयते। अतो निमित्तार्थाः श्रुतय इत्येवं प्राप्तम्। एवं प्राप्ते ब्रूमः। आधाने सर्वशेषत्वात् प्रापकाण्याधानस्यैतानि श्रवणानि। कुतः। सर्वकर्मणां शेषभूतमाधानमिति न श्रुतिलिङ्गादीनामन्यतमेन उच्यते।
किं तर्हि। अग्नीनां सर्वशेषत्वात्, तच्छेषत्वाच्च आधानस्य। किमतः। यद्येवम्, आग्नयः कामश्रुतिभिः प्राप्नुवन्ति, नाधानमिति। नन्वग्नीनामभ्युपाय आधानमिति। उच्यते। नैतेषामर्जने आधानमेवैकोऽभ्युपायः। किं तर्हि यथान्येषां द्रव्याणामुत्पादने क्रयणादयश्चाभ्युपाया, एवमग्नीनामपीति न नियोगत उत्पादनमेव। तेन पक्षे आधानं प्राप्नोति, पक्षे न। यतरस्मिन् पक्षे अप्राप्तिस्ततरः पक्ष उत्पतिं्त प्रयोजयिष्यति ब्राह्मणादीनामाधानस्य। ब्राह्मण
आत्मार्थमादधीतेति। यदा एतद्वचनं तदा आत्मार्थमेवाहिता आहवनीयादयो भवन्ति, नान्यथा। एवञ्च सति, न कृत्रिमेण याचितेन वा कर्म्माण्यग्निहोत्रादीन्यनुष्ठातव्यानीति गम्यते। तेन अकृत्रिम एव केवलोऽग्निस्तेषां साधक इति निश्चीयते। कथञ्चात्मार्थता आधानस्य गम्यते इति। कर्त्रभिप्राये हि क्रियाफले आदधीतेत्येतदात्मनेपदं सम्भवति। असत्यस्मिन् वचने कामश्रुतिपरिग्रहे नाधानस्यात्मार्थता भवेत्। अपिच सतीषु एतास्वाधानश्रुतिषु न कामश्रुतयः
शक्नुवन्त्यपरामाधानश्रुतिं कल्पयितुम्। यथा प्राप्तस्याधानस्य पुनःश्रुतय एता भवेयुः। असतीष्वेतास्वाधानश्रुतिपरिगृह्णन्तः कामश्रुतयोऽशक्यानग्निहोत्रादीन् वदन्तीति परिगृह्णीयुराधानश्रुतिम्। सतीष्वेतासु येषामाधानमुक्तं तान् अधिकृत्य उत्तरकालाः कामश्रुतयो भवन्तीति गम्यते।।
अत्राह। अस्ति केवलस्याधानस्य विधायिका श्रुतिः। एवं सपत्नं भ्रातृव्यमवर्ति सहते, य एवं विद्वानग्निमाधत्ते इति। तथा प्राप्तस्य निमित्तार्थानि ब्राह्मणादीनां श्रवणानि भविष्यन्ति। उच्यते। सम्भारविधानार्था पुनः श्रुतिरेषा। नेति ब्रूमः। भिन्नं हीदं वाक्यं सम्भारविधानवाक्यात्। अन्यो ह्यर्थं आधत्ते इति, अन्यः अप उपसृजतीति। एकार्थविधाने ह्येकं वाक्यं भवति, भिन्नो चेमावर्थौ। तस्मादत्र वाक्यभेदो इति। उच्यन्ते। वसन्ते ब्राह्मणोऽग्नीनादधीतेत्यस्यां श्रुतौ सत्यां पुनः श्रुतिः केवलस्याधानस्याविधायिका। अपामुपसर्जनं तु विधीयते। तदेकस्मिन्नर्थे विधीयमाने नानेकार्थं भवति। नन्वाधानस्यैतद्विधानम्। गुणार्था सा पुनःश्रुतिः। नेति ब्रूमः। सा ब्राह्मणादिसम्बद्धा प्रथमा श्रुतिः। इयं केवला पुनःश्रुतिः। कुतः सा हि शब्देन विदधाति। तत्र लिङ्गमुच्चरन्तीं पश्यामः। इयं प्रशस्तमाधानमित्याह। ततः प्रशस्ततामाधानस्यानुमन्यामहे। एवञ्च, वसन्ते ब्राह्मणोऽग्नीनादधीतेत्येषा बाधते। शक्यते ह्यनेन विहितमन्येन प्रशस्तमिति वदितुम्। यदि त्वेतद् विधायकमित्युच्येत ततोऽस्मत्पक्षं विरुद्ध्येत। कथम्। अज्ञातस्य ज्ञापनं विधानमेतत्। यदि प्रशंसावचनेन अपूर्वं विज्ञाप्येत, तदा लिङा नापूर्वं ज्ञापितं भवेत्। तत्रापूर्वज्ञापनवचनः शब्द उपरुद्ध्येत। न तु लिङा विहिते प्रशंसावचनमुपरुद्ध्यते। विहितेऽपि हि वाक्यान्तरेण प्रशंसावचनमवकल्पते अपि च यल्लिङा विधानं तच्छØत्या, वाक्येन तु प्रशंसा गम्यते। श्रुतिश्च वाक्याद् बलीयसी।।
नन्विदमपि वाक्यं, ब्राह्मणोऽग्नीनादधीतेति। उच्यते। स्वपदार्थमत्र श्रुतिर्विदधात्याधानं ब्राह्मणादिसम्बन्धेन परपदार्थं प्रशंसति, य एवं सपत्नं भ्रातृव्यं अवर्त्ति सहते इति। नन्वनेकगुणविधानं त्वया वाक्येनाध्यवसितं भवति। नैष दोषः। अगुणविधिपरे हि वाक्ये भवत्यनेकगुणविधानमित्युक्तं, तद्गुणास्तु विधीयेरन्नविभागाद् विधार्थे न चेदन्येन शिष्टा इति। तस्माद् ब्राह्मणादिसंयुक्ता विधायिका श्रुतिः। इयमपि केवलस्याधानस्य पुनः श्रुतिः सम्भारविधानमुपक्रमितुमिति सिद्धम्।
यदुक्तम्- अनेकगुणविधाने वाक्यं भिद्येति। यदीमौ गुणविधानशिष्टौ विधीयेयातां, भवेद् वाक्यभेदः। द्वाभ्यान्तु विशेषणाभ्यां विशिष्टमेकमाधानं विधायिष्यते। तेन न भविष्यति वाक्यभेदः। तस्माद् ब्राह्मणादीनामाधानस्य प्रापकानि श्रवणानीतिसिद्धम्।।4।। आधानस्य विधेयत्वाधिकरणम्।।3।।
सू.2.3.5
अयनेषु चोदनान्तरं संज्ञोपबन्धात्।।5।।
दर्शपूर्णमासौ प्रकृत्यामनन्ति- दाक्षायणयज्ञेन यजेत प्रजाकामः, साकम्प्रस्थायीयेन यजेत पशुकामः, संक्रमयज्ञेन यजेतान्नाद्यकाम इति। तत्र सन्देहः। किं दर्शपूर्णमासयोरेव गुणात् फलम्, उत कर्मान्तरमेवञ्जातीयकमिति। किं प्राप्तम्। कर्मान्तरमिति। कुतः। संज्ञोपबन्धात्। यद्यपि प्रकरणाद् यजतिशब्दाच्च स एव पूर्वप्रकृतोः याग इति गम्यते, तथापि नाऽसावेलंसज्ञक इति यागान्तरं विधेयं गम्यते।।5।।
सू.2.3.6
अगुणाच्च कर्मचोदना।।6।।
न चात्र उपरुद्ध्यते कश्चिद् यद्विधानार्था चोदना भवेत्। यदि च न यागान्तरम्, आनर्थक्यमेव। अपिच, यदि गुण उपबद्ध्येत ततो यागगुणसम्बन्धो गम्यते इति तदनुष्ठानं विधीयेतेति। अननुबध्यमाने यागमात्रं गम्यते
इति तदमुष्ठानं विहितं गम्यते।।6।।
सू.2.3.7
समाप्तं च फले वाक्यम्।।7।।
इतश्च कर्मान्तरम्। कथम्। फले समाप्तं वाक्यम्। प्रजाकामो यजेतेति। प्रजाकामस्य याग उपायो विधयते। विधीयते चेत्। कर्मान्तरम्। पूर्वपक्षः।।
सू.2.3.8
विकारो वा प्रकरणात्।।8।।
दर्शपूर्णमासयोरेवाधिकार एवञ्जातीयकः स्याद् दाक्षायणयज्ञादिः। एवं प्रकरणमनुगृहीतं भवति।।8।। सिद्धान्तः।।
सू.2.3.9
लिङ्गदर्शनाच्च।।9।।
लिङ्गमप्येतमर्थं दर्शयति। त्रिशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत यदि दाक्षायणयाजी स्यात्। अथो अपि पञ्चदशैव वर्षाणि यजेत। अत्र हि एव सा सम्पद्यते। द्वे हि पौर्णमास्यौ यजेत द्वे अमावास्ये। अत्र खलु सा सम्पद् भवतीति। यदि दाक्षायणयज्ञो दर्शपूर्णमासावेव, एवं तर्हि तिं्रशत्सम्पदा प्रयोजनम्। ततस्तस्य तिं्रशत्सम्पदनुग्रहो युज्यते। तस्मादपि न कर्मान्तरम्।।9।।सिद्धान्ते हेतुः।।
सू.2.3.10
गुणात् संज्ञोपबन्धः।।10।।
यदुक्तं संज्ञोपबन्धात् कर्मान्तरमिति। यदि दाक्षायणशब्दो न केनमिदपि प्रकारेण दर्शपूर्णमासवचनः शक्यते कल्पयितुं, तत उच्येत कर्मान्तरमिति। शक्नोति त्वावृत्तिगुणसम्बन्धाद्विदितुम्। अयमित्यावृत्तिरुच्यते। दक्षस्य इमे दाक्षाः, तेषामयनं दाक्षायणम्। कः पुनर्दक्षः। उत्साही। तथा साकम्प्रस्थाप्येऽपि, सहप्रस्थानं गुणसम्बन्धः। एवं सर्वत्र। शक्यते चेद्दर्शपूर्णमासयोर्गुणसम्बन्धो वदितुं, किमिति स एव यागः प्रतीयमानोऽन्य इत्युच्यते? किमिति वा प्रकरणं बाध्यते।।10।।
सू.2.3.11
समाप्तिरविशिष्टा।।11।।
यदुक्तं फले वाक्यं समाप्तम्। प्रजाकामादेर्यागानुष्ठानं विधीयते इति। नैवम्। अविशिष्टा फले समाप्तिः। यान्यन्यानि मुक्तसंशयानि गुणे फलस्य विधायकानि वाक्यानि गुणस्य फलवचनानि पर्य्यवसितानि। यथा दध्नेन्द्रियकामस्य जुहुयादित्येवमादीनि तैरेतदविशिष्टम्। अत्रापि हि गुणात् फलमुच्यते। कथं नैतदेवं सम्बध्यते, प्रजाकामस्य यज्ञमनुतिष्ठेदिति। कथं तर्हि प्रजाकामस्य आवृत्तिज्ञमनुतिष्ठेदित्यावृत्तियज्ञ इति यज्ञावृत्तिसम्बन्धोऽनुष्ठातव्यो निर्दिश्यते, न यज्ञः। तस्मात् प्रकृतयोर्दशपूर्णमासयोर्गुणात् फलमुच्यते, न यागान्तरं विधीयते इति। एवं साकम्प्रस्थाप्ये संक्रमयज्ञे च द्रष्टव्यमिति।।11।। आ0नि0।।दाक्षायणादीनां गुणताधिकरणम्।।4।।
सू.2.3.12
संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात्।।12।।
अनारभ्याधीयते किञ्चित्- वायव्यं श्वेतमालभेत भूतिकामः, सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः। दर्शपूर्णमासयोरप्यामनन्ति- ईषामालभेत, चतुरो मुष्टीन्निर्वपतीति। तत्रायमर्थः सांशयिकः। किं दर्शपूर्णमासिके आलम्भो गुणविधिर्दर्शपूर्णमासिके च निर्वापे निर्वापो गुणविधीरुत न प्रकृतिमपेक्षते, इतरश्चेतरश्चेति। यदा न प्रकृतिमपेक्षते, तदापि किं यावदुक्ते उत यजिमती एते कर्म्मणी इति। किं तावत् प्राप्तम्। प्रकृतयोरालम्भनिर्वापयोर्गुणविधी इति। कुतः? अकर्म्मशब्दत्वात्। नात्र कर्म्मणो विधायकः शब्दोऽस्ति। ननु आलभेत निर्वपेदिति च। नेतौ विधातारौ। अविदितस्यार्थस्य वक्ता विधायको भवति। न चैतयोरविदितोऽर्थः। आलम्भः कर्त्तव्यः, निर्वापः कर्त्तव्यः इति। तस्मादनुवदितारौ। किमर्थमनुवदतः। आलम्भने श्वेतं विधातुं, निर्वापे
च चरुम्। तस्मान्नालम्भान्तरं निर्वापान्तरं च। प्रकतयोरेव गुणविधी इति।। पूर्वपक्षः।।
सू.2.3.13
यावदुक्तं वा, कर्मणः श्रुतिमूलत्वात्।।13।।
न चैतदस्ति- प्राकृतयोर्गुणविधी इति। किं तर्हि, आलम्भान्तरं विधीयते इति निर्वापान्तरञ्च। यदि आलम्भनिर्वापौ विधीयेत ततो न प्राकृतौ तौ विहितौ। यदि न विधीयेते ततः प्राकृतौ लक्ष्येत। यावालम्भनिर्वापौ कर्त्तव्याविति। ततस्तौ लक्षयित्वा श्वेतौ विधातव्यो भवति, चरुश्च। तौ च भूतिकामस्य ब्रह्मवर्चसकामस्य चेति द्वावप्यर्थो विधेयौ स्यातां, तत्र वाक्यं भिद्येत। अथवा योऽसौ विधायकः शब्दः स लक्षयितव्योपयुक्त इति विधायकाभावादेकोऽप्यर्थो न शक्यते विधातुम्। अथ स एव लक्षयिष्यति, तेनैव च विधायिष्यते गुण इति। न मिथो विथानलक्षणसम्बन्धोऽवकल्पते। अथ धात्वर्थोऽनुवादः, प्रत्ययो विधातुमिष्यते इत्युच्यते, य आलम्भः स एतद्गुणः कर्त्तव्य इति। तथापि न प्राकृतो लक्ष्येत। लौकिकोऽपि ह्यालम्भोऽस्ति। प्रत्ययार्थेऽनूद्यमाने प्राकृतोऽनूद्येतेति। स हि कर्त्तव्यो निर्ज्ञातो, न लौकिकः। अतो न प्राकृतानुवादो घटते इति यावदुक्तमालम्भमात्रं निर्वापमात्रं चाऽपूर्वं कर्त्तव्यम्। कर्म्मणः श्रुतिमूलत्वात्। श्रुतिमूलं हि कर्मेत्युक्तम्, चोदनालक्षणोऽर्थो धर्म्म इति। तस्मात् कर्म्मान्तरे।13।। पूर्वपक्षः।।
सू.2.3.14
यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसम्बन्धात्।।14।।
यदुक्तं- न प्राकृतयोर्गुणविधी इति। एतद् गृह्णीमः। यत्तूक्तम्- आलम्भमात्रं विधीयते, निर्वापमात्रमिति। एतदपजानीमहे। यजिमती एते कर्म्मणी इति। कुतः। द्रव्यफलभोक्तृसंयोगात्। द्रव्यदेवतासंयोगात्। द्रव्यदेवतासंयोगेऽत्र विधीयते, भूतिकामस्य ब्रह्मवर्चसकामस्य च। कथम्। न हीदमेव उच्यते। श्वेतमालभेतेति। यदि, ह्येतावदेवोच्यते, ततः श्वेतालम्भसम्बन्धोऽवगम्यते। इह हि श्वेतं वाचव्यमालभेतेत्युच्यते। तेन श्वेतवायव्यासम्बन्धो विधीयते। यथा पटं वयेति पटवयनसम्बन्धो विधेयोऽवगम्यते। पटं दीर्घं वयेति पटस्य दीर्घता विधीयते। दीर्घशब्दप्रयोगात्। एवमिहापि सौर्यवायव्यशब्दप्रयोगाद् द्रव्यदेवताभिसम्बन्धो विधेय इति गम्यते। इतरथा देवताशब्दः प्रमादसमाम्नात इति गम्येत। नन्वत्रापि श्वेतं वायव्यं कुर्य्यात्, तं चालभेत इत्यर्थद्वयविधानाद् भिद्यतैव वाक्यम्। नेति ब्रूमः। न ह्यालभेतेत्यस्यायमतिभारो, यद् द्रव्यदेवतासम्बन्धेन पुरुषप्रयत्नं ब्रूयात्, तं चालभेतेत्यर्थविशिष्टम्। श्रुत्यैव हि पुरुषप्रयत्नो विशिष्टो गम्यते। वाक्येन च द्रव्यदेवताश्रय इति। नात्र द्वाभ्यां वाक्याभ्यां प्रयोजनम्। यथा रक्तमश्वं योजयति। यदा गुणविधिपरं भवति वाक्यं तदा द्वाभ्यां वाक्याभ्यां प्रयोजनं, गुणद्वयविधाने। अथ शोणमानयेत्युच्येत, तत्र गुणविधिपरेऽपि वाक्ये पर्यवसिते एव गुणद्वयविधानम्। श्रुत्यैव विशिष्टगुणद्रव्यस्य प्रतीतत्वाद्, न भवत्येकस्य वाक्यस्यातिभारः। एवमिहापीति। सम्बन्धश्च बहुभिः पदैर्विशिष्ट एव एवोच्यते इत्येकार्थत्वम्। न च यागमन्तरेण देवतायै द्रव्यं सङ्कल्पितव्यमित्येष सम्बन्धोऽवकल्पते। तस्माद् यजिमती एते कर्मणी इति।।14।। सिद्धान्तः।।
सू.2.3.15
लिङ्गदर्शनाच्च।।25।।
लिङ्गं खल्वप्येतमर्थं दर्शयति। सोमारौद्रं चरुं निर्वपेदिति प्रकृत्य, परिश्रिते याजयेदिति परिश्रयणविधिः। एतस्य वाक्ये यजतिशब्देन सङ्कीर्त्तनमवकल्पते। यदि यजिमती एते कर्म्मणी, अथ प्रकृतौ गुणविधानं यावदुक्तं वा, यजतिशब्देनानुवादो नावकल्पेत। तस्माद् अवगच्छामो यजिमति इति।।15।। सिद्धान्ते हेतुः।। द्रव्यदेवतायुक्तानां यागान्तरताधिकरणम्।।5।।
सू.2.3.16
विशये प्रायदर्शनात्।।16।।
किमिहोदाहरणम्। न तावत् सूत्रेणैव परिगृहीतम्। यथा अवेष्टौ यज्ञसंयोगात् क्रतुप्रधानमुच्यते इति। नापि च साध्यं प्रतिज्ञातम्। यथा, अयनेषु चोदनान्तरम्। केवलं विशये संशये प्रायदर्शनं हेतुरिति निर्दिश्यते। कस्यायं हेतुरिति न विजानीमः। प्रकृतं यजिमदेतत् कर्म्मेति। तदपि न सम्बध्यमानमिव पश्यामः। तदेतदगमकं
सूत्रमेव तावदनर्थकम्।।
अथ का अत्र प्रतिज्ञा, कश्च सन्देह इति वक्तव्यम्। वृत्तिकारवचनात् प्रतिज्ञां संशयं चावगच्छामः। अत्र भगवानाचार्य इदमुदाहृत्य वत्समालभेत, वत्सनिकान्ता हि पशव इतीमं संशयमुपन्यस्यति स्म। किं यजिमदभिधान एष
आलभतिरुतालम्भमात्रवचन इति। उपपद्यते चैतदुहारणम्, संशयश्च। तत्र च पूर्वपक्षं प्रतिजानीते स्म, यजिमदभिधान इति। इदन्तु प्रत्युदाहरणसूत्रं पूर्वस्याधिकरणस्य, नात्र पूर्वपक्षेणातीव प्रयोजनम्। तथापि पुरुषाणामुच्चावचबुद्धिविशेषान् आलोच्य भवति मन्दानां सामान्यतोदृष्टेनाप्याशङ्का। सापि
निवर्त्तनीया। न हि मन्दविषेण वृश्चिकेनापि दष्टो म्रियेत न जातुचित् कदापि तत्र चिकित्सा नादरेण कर्त्तव्या भवेत्। अतस्तां निवर्त्तयितुं पूर्वपक्षमुपन्यस्यति स्म। आलभतिरस्माभिः प्राणिसंयुक्तो यजिमदभिधानो दृष्टः। अयमप्यालभतिः प्राणिसंयुक्त एव। तेनायमपि यजिमद्वचन एवेति भवति कस्यचिदाशङ्का। अथ वा यजिमदभिधानो दृष्ट आलभतिः प्राणिसंयुक्तः। तस्यायमनुवादो वत्सविधानार्थः। तथाच फलं कल्पयितव्यं भविष्यतीति। एवं प्राप्ते ब्रूमः। अस्मिन् संशये आलम्भमात्रं संस्कारः। कुतः। प्रायदर्शनात्। यत्रान्यान्यपि संस्कारकर्म्मणि प्रायभूतानीत्युच्यन्ते। तत्रैतदपि श्रूयते। प्रायादपि चार्थनिश्चयो भवति। यथा, अग्न्यप्राये लिखितोऽग्न्य इति गम्यते। ननु लिङ्गं प्रायदर्शनम्। कथमनेन सिद्धिरिति। उच्यते। यथा प्रायदर्शनेन सिद्ध्यति, तथा वर्णयितव्यम्। कथञ्च प्रायदर्शनं हेतुः। न्यायतः प्राप्तौ सत्याम्। कः पुनर्न्यायः। देवतासम्बन्धाभावान्न यागवचनोऽदृष्टार्थत्वाच्च वत्स आलभ्यमानो गां प्रस्तावयिष्यतीति। तस्मादेवं न्यायप्राप्तं प्रायदर्शनं द्योतकं भवति। तस्मादालम्भमात्रं संस्कारः।।16।।
सू.2.3.17
अर्थवादोपपत्तेश्च।।17।।
अर्थवादश्च भवति। वत्सनिकान्ता हि पशव इति। यस्माद् वत्सप्रिया पशवस्तस्माद् वत्स आलब्धव्य इति। यदि गां प्रस्तावयितुमालभ्यते, तत्रैतद्वचनमवकल्पते। अथ संज्ञपयितुं तत्रैवञ्जातीयकं वचनं नोपपद्येत। तस्मादप्यालम्भमात्रं संस्कार इति सिद्धम्।17।। वत्सालम्भादीनां संस्कारताधिकरणम्।।6।।
सू.2.3.18
संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात्।।18।।
अस्ति अग्निः। तत्र नैवारश्चरुर्भवतीत्युक्ता, यदेनश्चरुमुपदधातीति समामनन्ति। तत्र संदिह्यते। किं चरुर्यागार्थो यागं कृत्वा अवशिष्ट उपधातव्य, उत उपधानार्थ एवेति। यागार्थ इति ब्रूमः। चरोर्हि प्रसिद्धं कार्य्यं यागो, नोपधानम्। उच्यते। यद्यपि यागार्थता चरोः प्रसिद्धा, तथापि देवतावचनसम्बन्धाभावाद् यजतिशब्दासंबन्धाच्च न यागार्थतेति गम्यते। तदुच्यते तस्यैव वाक्यशेषे श्रूयते, बृहस्पतेर्वा एतदन्नं यन्नीवारा इति। तेन देवतावचनेन सन्निहितेनैकवाक्यता भविष्यतीति बृहस्पतिदेवताक उपधातव्य इति। तस्माद् यागार्थश्चरुस्त्वर्थशब्देन कार्य्यशब्देनोपदधातीति तदर्थं एव स्यादुपधानार्थः। उपदधातिनाचास्य प्रत्यक्षमेकवाक्यत्वम्। परोक्षं देवतावचनेनानुमेयम्। चरुमुपदधातीति हि प्रत्यक्षं वाक्यम्। बार्हस्पत्यमुपदधातीत्यानुमानिकम्। तस्मात् कृत्स्नश्चरुपधातव्यः। ततश्च किञ्चिदिज्यायां विनियुज्येत। तदन्यत्र श्रुतमन्यत्र कृतं भवेत्। यत्तु बार्हस्पत्या नीवारा इति। अर्थवादः स इति। यत्तूक्तम्, प्रसिद्धा चरोर्यागार्थतेति। प्रसिद्धिर्वाक्येन बाध्यते। तस्मादुपधानार्थ इति सिद्धम्।।18।। नैवारचरोराधानार्थताऽधिकरणम्।।7।।
सू.2.3.19
पात्नीवते तु पूर्वत्वादवच्छेदः।।19।।
त्वाष्ट्रं पात्नीवतं विधायेदमुच्यते, यत् पर्य्यग्निकृतं पात्नीवतमुत्सृजन्तीति। तत्र सन्देहः। किं त्वाष्ट्रस्य पर्य्यग्निकृतस्यैष उत्सर्गो विधीयते, उत तस्माद् यागान्तरमिति। यदि पर्य्यग्निकृतमुत्सृजन्तीतिपदद्वयं परस्परेण सम्बद्धं ततस्त्वाष्ट्रस्योत्सर्गः। अथ पात्नीवतशब्द उत्सृजतिना सम्बद्ध्येत, ततो यागान्तरम्। किं तावत् प्राप्तम्। यागान्तरमिति। कुतः। पूर्वस्त्वाष्ट्रः पात्नीवतश्च। उभयीवशषेणविशिष्टः कथपात्नीवतशब्देनानूद्येत। अपिच त्वाष्ट्रस्योत्सर्गे विधीयमाने पर्य्यग्निकृतमिति विशेषणं नावकल्पेत। अतो ब्रूमः। पर्य्यग्निकृतस्य पात्नीवतता
विधीयते। स एव याग इति। एवं प्राप्ते ब्रूमः। न कर्मान्तरं, पूर्वस्यौवोत्सृजतिशब्देनावच्छेदो विधीयते। किमेवं भविष्यति। यजिमत्ता तावत् कल्पयितव्या न भविष्यति। उत्सृजतिशब्दश्च श्रुत्या उत्सर्गं विदधत् वाक्येन न बाधितो भविष्यति। कर्मान्तरपक्षे वाक्येन न बाधितो भविष्यति। कर्मान्तरपक्षे वाक्येन पात्नीवततायां विधीयमानायामर्थात् प्राप्त उत्सर्गो धातुनाऽनूद्येत। अपिच पर्य्यग्निकृतस्य पात्नीवतता पूर्वस्य विदितैव। सा विधातुं न शक्यते। तस्मात् पूर्वस्य कर्म्मणोऽवच्छेदः। यत्तूक्तं- त्वाष्ट्रस्योत्सर्गे विधीयमाने पर्य्यग्निकृतमिति विशेषणं तावन्नावकल्पेतेति। नैष दोषः।
अतन्त्रमेवात्र पात्नीवतशब्दो, नाऽसौ विशेष्यते। एत एव त्वाष्ट्रः पात्नीवत उभयविशेषणविशिष्टः केवलेन पात्नीवतशब्देन लक्षणयाऽनूद्येतेति न दोषः। तस्माद् अवच्छेद इति सिद्धम्। त्वाष्ट्रपात्नीवतस्य पर्य्यग्निकरणगुणकत्वाधिकरणम्।।8।।
सू.2.3.20
अद्रव्यत्वात् केवले कर्मशेषः स्यात्।।20।।
न कस्यचिदपि प्रकरणे श्रूयते- एव वै हविषा हविर्यजते योऽदाभ्यां गृहीत्वा सोमाय यजते इति। तथा परा वा एतस्यायुः प्राण इति योऽशुं गृह्णातीति। तत्र सन्देहः। किं यागान्तरमेतद्ग्रहणकम्, उत ज्योतिष्टोमयागे ग्रहविधिरिति। किं प्राप्तम्। यागान्तरमिति। कुतः। अपूर्वनामधेयसंयोगात्। न प्रकृतावेतन्नामधेयको यागोऽस्ति, न ग्रहः कश्चिद् योऽभ्यस्येत। तस्माद् यागान्तरम्। ननु द्रव्यदेवतं न श्रूयते। मा भूद् द्रव्यदेवतं श्रूयते। यतो गृह्णातिर्यजिमद्वचनो भवेत्। यदप्युक्तं- साक्षादत्र यजतिशब्दो विधायक इति। नैवं शक्यं कर्मान्तरं विधातुम्। विहितयागवचनो हि सः। विशेषाभावात्। तस्माद् यजतिना ज्योतिष्टोम एवोच्यते, अश्वदाभ्यशब्दाभ्यामप्यपरौ ग्रहाभ्यामप्यपरौ ग्रहाभ्यासौ लिधीयते इति सिद्धम्।।20।। अदाभ्यादीनां ग्रहनामताधिकरणम्।।9।।
सू.2.3.21
अग्निस्तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत।।21।।
अस्यग्निः। य एवं विद्वानग्निञ्चिनुते इत्येवं विधाय श्रूयते- अथातोऽग्निष्टोमेनैवानुयजति, तमुक्थेन, तमतिरात्रेण, तं षोडशिनेत्यावमादि। तत्र सन्देहः। किमयमग्निशब्दो यागवचनो ज्योतिष्टोमादिभ्यः कर्मान्तरं, चिनुते इत्याख्यानेन विधीयते? उत द्रव्यवचनो ज्योतिष्टोमादिषु गुणविधानमिति। किं प्राप्तम्। यागवचन इति कुतः। लिङ्गदर्शनात्। लिङ्गं हि दृश्यते। अग्नेः स्तोत्रमग्नेः शस्त्रमिति। तथा, षडुपसदोऽग्नेः चित्यस्य भवन्तीति। यस्य स्तोत्रशस्त्रमुपसदश्च तस्याग्निशब्दो वाचक इति गम्यते। यागस्यैतत् सर्वम्। तस्माद् यागवचन इति। ननु लिङ्गमसाधकं, प्राप्तिरुच्यतामिति। अत्रोच्यते। अथातोऽग्निष्टोमेनैवानुयजतीति यागमभिनिर्वर्त्तयतीत्युच्यते। तम् अग्निमिति विशिनष्टि। तस्मादग्निसंज्ञक इति गम्यते। अनुशब्दोऽप्युपसर्गो यजतेर्विशेषक एवमुपपद्यते। यद्यग्निर्यागः। तस्मात् क्रतुशब्दः प्रतीयेत।।21।। पूर्वपक्षः।।
सू.2.3.22
द्रव्यं वा स्याच्चोदनायास्तदर्थत्वात्।।22।।
द्रव्यं वा अग्निशब्देनोच्येते। कतमद् द्रव्यम्। यदेतज्जलनः अत्र ह्येष प्रसिद्धः। चिनुते इत्येषा हि चोदना चयनार्था, न यजत्यर्थं शक्नोति वदितुम्। चयनेनैनं संस्कुरुते चितौ स्थापयतीति। अनुशब्दश्च पश्चादर्थो भविष्यति। चयने निर्वृत्ते पश्चादग्निष्टोमेन यागेन यजतीति।12।।
सू.2.3.23
तत्संयोगात् क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि।।23।।
यत्तु लिङ्गदर्शनमुक्तं यागवचनोऽग्निशब्द इति। तत् तेष्वेव लिङ्गसंयुक्तेषु वचनेषु, न सर्वत्र। तेषु चित्याग्निसंयोगात्। यागे लक्षणशब्दः। तेन क्रतुवचनानि तद्धर्मविधानानीतियदोषः।23।। सिद्धान्तः।। अग्निचयनस्य संस्कारताधिकरणम्।।10।।
सू.2.3.24
प्रकरणान्तरे प्रयोजनान्यत्वम्।।24।।
कुण्डपायिनामयने श्रूयते- मासमग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजते इत्येवमादि। तत्र संदिह्यते। किं नियते अग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो विधीयते कालः? अथ किं नियताग्निहोत्रान्नियताभ्याञ्च दर्शपूर्णमासाभ्यां कर्मान्तरविधानमिति। किं तावत् प्राप्तम्। नियतेषु कालविधिरिति। कुतः। कालविधिसरूप एष शब्दो मासमिति। कथं कालविधिसरूपता। यदग्निहोत्रं जुहोतीति विदितं, मासमित्यविदितम्। एवञ्चाग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च न अर्थान्तरवृत्तौ भविष्यतः। तस्मात् कालविधिः। ननु कुण्डपायिनामयनप्रकरणं बाध्येतैवम्। कामं बाध्यताम्। वाक्यं हि बलवत्तरम्। एवं प्राप्ते ब्रूमः। प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे, तस्य वाचकं भवितुमर्हति। ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च गुणविधिः। नेत्युच्यते। कथम्। उपसद्भिश्चारित्वेति ह्युक्तेदमभिधीयते- न चोपसदोऽग्निहोत्रस्य दर्शपूरणमासयोश्च सन्ति। तस्मादशक्यस्तत्र सामविधिः। अथोच्येत- उपसदोऽपि विधीयन्ते इति। तथा
गुणविधानार्थेऽस्मिन् वाक्ये अनेकगुणविधानाद् वाक्यं भिद्येत। अस्मिन् पक्षे पुनरतन्त्रम्। अग्निहोत्रशब्दो न कर्म्म विशेक्ष्यति, तेन वाक्यभेदो न भविष्यति। तस्मात् कर्मान्तरमिति सिद्धम्।।24।। मासाग्निहोत्रादीनां क्रत्वनतरताधिकरणम्।।11।।
सू.2.3.25
फलं चाकर्मसन्निधौ।।25।।
अनारभ्य किञ्चिच्छÜयते- अग्नियमष्टकपालं निर्वपेद् रुछ्रामः, अग्नीषोमीयमेकादशकपालं निर्वपेद् ब्रह्मनर्चसकामः, ऐन्द्राग्नमेकादशकपालं निर्वपेत् प्रजाकाम इति। अत्र सन्दिह्यते। किं प्राकृतेष्वाग्नेयादिषु फलं विधीयते, उत प्राकृतेभ्यः कर्मान्तराण्येतानि। किं प्राप्तम्। प्राकृतेषु फलविधिरिति। कुतः। विदिता आग्नेयादयः प्रत्यभिज्ञायन्ते। तस्माद् तेषामनुवादः फलसम्बन्धार्थं इति। एवं प्राप्ते ब्रूमः। फलं च भेदकमकर्मसन्निधौ श्रूयमाणम्। कथम्। अनुवादे सति न शक्येत फलं विधातुम्। विधायकस्याभावात्। न हि अविधीयमानो ह्युपायो रुचो भवतीति गम्यते। अपिच रुक्कामे अत्र विधीयमाने। कामस्यानित्यत्वादग्नेयादीनां नित्यत्वात् सम्बन्धो नावकल्पेत। एवं सर्वत्र। तस्मात् कर्मान्तराणि।।25।। आग्नेयादिकाम्येष्ट्यधिकरणम्।।12।।
सू.2.3.26
सन्निधौ त्वविभागात् फलार्थेन पुनः श्रुतिः।।26।।
अस्त्यवेष्टिः- आग्नेयोऽष्टाकपालः पुरोडाशो भवतीत्येवमादिः। तां प्रकृत्योच्यते, एतयाऽन्नाद्यकामं याजयेदिति। तत्र सन्देहः। किं कर्मान्तरमवेष्टेः, उतावेष्टिरेवेति। किं प्राप्तम्। कर्मान्तरमिति। उक्तेन न्यायेन। एवं प्राप्ते ब्रूमः। सन्निधौ फलार्थेन पुनः श्रुतिरवेष्टेरेव, न कर्मान्तरमिति। कुतः। अविभागात्। एतयेत्येष शब्दो न शक्नोत्यवेष्ट्या विभक्तं यागमन्यं वक्तुम्। सन्निहितस्य प्रतिनिर्देशक एष शब्दः। तस्मादवेष्टेरवान्नाद्यकामस्य विधीयते इति। किं प्रयोजनम्। यद्यवेष्टिराग्येयादीनि हवींषि। अथ कर्मान्तरम्, अन्यहाविष्को याग इति। 26।। अवेष्टेरन्नाद्यफलकत्वाधिकरणम्।।
सू.2.3.27
आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयेत।।27।।
दर्शपूर्णमासयोः, आग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमावास्यायां पौर्णमास्यां चाच्युतो भवतीति विधाय पुनरुच्यते- आग्नेयोऽष्टाकपालोऽमावास्यायां भवतीति। तत्र सन्देहः। किममावास्यायां द्विराग्नेयेन यष्टव्य, उत सकृदिति। किं प्राप्तम्। आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयते, एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यादिति।।27।।पूर्व0।।
सू.2.3.28
अविभागात्तु कर्मणा द्विरुक्तेर्न विधीयते।।28।।
नैतदस्ति, पुनरभ्यसितव्य आग्नेय इति। कुतः। नाभ्यासस्य वाचकः शब्दोऽस्तीति। नन्वाग्नेयः पुनरुच्चरितः परं कर्म्म विधास्यति। नेति ब्रूमः। शब्दः पुनरुच्चरितो न पुनरर्थः कर्त्तव्य इति शक्नोति वदितुम्। योऽस्य प्रथममुच्चरितस्याऽर्थः शतकृत्वोऽप्युच्चरितस्य स एवार्थो भविष्यतिस नान्यः। ननु विहितमेव पुनरविशिष्टं विदधदनर्थको भवति। भवतु काममनर्थकत्वं, न त्वन्यं शक्नोति वदितुम्। भवेदुपपन्नमनर्थकत्वं न
त्वर्थानतरवचनता। तस्मान्न द्विरभ्यस्येतेति।।28।।
सू.2.3.29
अन्यार्था वा पुनःश्रुतिः।।29।।
अथ वा, नानर्थिका पुनःश्रुतिः। अर्थवादार्था भविष्यतीत्युच्यते। किमर्थवादेन प्रयोजनम्। यदा पूर्वेणैव वाक्येन सार्थवादकेन विहिते किमन्यमर्थं विधातुं श्रुतिः प्रयुज्ज्येत श्रुतिमात्रं यन्न कस्यचिद्विधानार्थं तदनर्थकमित्युक्तम्। आम्नायस्य क्रियार्थत्वादार्थक्यमतदर्थानामिति। श्रुतश्चाश्रुतश्च तावानेव सोऽर्थः। यथा श्रुता च अश्रुता च देवता अङ्गभावं साधयति, एवमेतदिति। तदुच्यते- अन्यार्था वा पुनःश्रुतिः।। न आग्नेयं विधातुम्। ऐन्द्राग्नविधानार्था। आग्नेयोऽष्टाकपालोऽमावास्यां भवत्येव। न केवलेनाग्निना स साधुर्भवतीतीन्द्रसहितोऽग्निः समीचीनतरः। तस्मादैन्द्राग्नः कर्त्तव्य इति।।29।। सिद्धान्तः।। आग्नेयद्विरुक्ते स्तुत्यर्थताधिकरणम्।।14।। इति श्रीशबरस्वामिनः कृतौ मीमांसाभाष्ये द्वितीयस्य अध्यायस्य तृतीयः पादः।।2।।3।।