शबरभाष्यम्/द्वितीयोऽध्यायः/चतुर्थः पादः
सू.2.4.1 यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात्।।1।।
बहुवृचब्राह्मणे श्रूयते- यावज्जीवमग्निहोत्रं जुहोतीति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति। अत्र संदेहः। किं कर्म्मधर्मोऽभ्यासो यावज्जीविकता, उत कर्त्तृधर्मो नियमश्चोद्यते यावज्जीविकतेति। कथं कर्म्मधर्मोऽभ्यासः, कथं वा कर्तृधर्मो नियम इति। यदि जुहोतिरनुवादः, यावज्जीवमिति विधिस्ततः कर्म्मधर्मोऽभ्यासः। यदि विपरीतं, ततः कर्तृधर्मो नियम इति। किं तावत् प्राप्तम्। कर्म्मधर्मोऽभ्यासः। कुतः।
प्रकरणात्। यदीयं वचनव्यक्तिः। जुहोतियजतिशब्दावनुवादौ, यावज्जीवमिति च विधिस्ततः प्रकरणमनुगृह्यते। तस्मादभ्यासः। एवं कृत्वा सत्रसंस्तवो युक्तो भविष्यति। जरामर्थं वा एतत् सत्रं यदग्निहोत्रं, दर्शूपूर्णमासौ चेति दीर्घकालसामान्यात्। तस्मादभ्यासः।।1।। पूर्वपक्षः।।
सू.2.4.2
कर्तुर्वा श्रुतिसंयोगात्।।2।।
अत्र ब्रूमो, यावज्जीविकोऽभ्यासो न स्यात्, कर्तुधर्मो नियमश्चोद्यते इति। कुतः।
श्रुतिसंयोगात्। एवं श्रुतिपरिच्छिन्नोऽर्थो भविष्यति। इतरथा लक्षणा स्यात्। कथम्। यावज्जीविनं, तावता कालेन कुर्यादिति। तदेतत् प्रदोषपरिसमाप्तमग्निहोत्रमनभ्यायस्ये, न शक्यते यावज्जीवनकालेन कर्तुम्। पौर्णमास्यमावास्यापरिसमाप्तौ च दर्शूपूर्णमासौ। यद्युच्येत, जीवनकालस्यैकदेशेऽपि कृतं तेन कालेन कृतं भवतीति। नैतदेवम्। अर्थप्राप्तं हि. तद् विधातव्यं शब्देन। जीवनपरिमितः कालो यस्तेन परिसमापयितव्यमित्यर्थादभ्यासः। स हि कर्त्तव्यतया श्रूयते। न चासौ जहोति- यजतिभ्यामुच्यते। लक्षणया तु गम्यते। यावज्जीवं जहुयात्, यावज्जीवमभ्यस्येदिति। श्रुतिश्च प्रकरणाद् बलीयसी। यदि इयं वचनव्यक्तिरस्य वाक्यस्य, यावज्जीवमित्यनुवादो जुहोति यजतीति च विधानमित्येवं यजतिजुहोतिशब्दौ स्वार्थावेव भविष्यतः, यावज्जीवशब्दोऽपि जीवनवचन एव, नाभ्यासलक्षणो भविष्यतीति जीवनं निमित्तं, न कालः। नियतनिमित्तत्वान्नियतं कर्म्म तेनोच्यते। कर्त्तुधर्मो नियमश्चोद्यते इति।।2।।सि0।।
सू.2.4.3
लिङ्गदर्शनाच्च कर्म्मधर्म हि प्रक्रमेण नियम्येत तत्रानर्थकमन्यत् स्यात्।।3।।
लिङ्गञ्च भवति। अपि ह वा एष स्वर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी पौर्णमासीममावास्यां वा अतिपातयेदिति। कथं लिङ्गम्। कर्म्मधर्म हि प्रक्रान्तं सत्रं यावज्जीवनकालेन परिसमाप्येत, न तत्र कालातिपातः स्यात्। तत्र चानर्थकमन्यत् स्यात् प्रायश्चित्तादि विधीयमानम्।।3।।
सू.2.4.4
व्यपवर्गश्च दर्शयति कालश्चेत् कर्मभेदः स्यात्।।4।।
व्यपवर्गस्य समापनस्य दर्शनं भवति, दर्शूपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति। यदि
दर्शपूर्णमासाभ्यामिष्ट्वा सोमस्य कालोऽस्ति, व्यक्तं न यावज्जीवनकालेन तौ परिसमाप्येते। अथ जीवनं निमित्तम्, उपपद्यते कर्म्मभेदः। दर्शपूर्णमासौ परिसमाप्य सोमं कर्मान्तरं कुर्य्यादिति। अपि च आहिताग्निर्वा एष योऽग्निहोत्रं जहोति न दर्शपूर्णमासौ यजेत, या आहुतिभाजो देवतास्ता अनुध्यायिनीः करोतीत्यनुध्यायिनीवचनं भवति। नियतो य आहुतिभागस्तस्मिन् अदीयमाने अनुध्यायिनीवचनं भवति। यस्त्वनियत आहुतिभागतस्तमनुध्यायन्ति, इदं नो भविष्यतीति। नियतश्च भागो नियमपक्षे भवति, न काम्यपक्षे। कर्म्मधर्म्मे च काम्यमग्निहोत्रञ्च दर्शूपूर्णमासौ च। तस्मान्नियमपक्षः। अपि च श्रूयते-
जरामर्यं वा एतत् सत्रं यदग्निहोत्रं च दर्शूपूर्णमासौ च, जरया ह वा एताभ्यां निर्मुच्यते मृत्युना चेति जरामरणनिर्मोचनावधारणवचनं च नियमपक्षे उपपद्यते। काम्यपक्षे ह्यप्रयोगादपि मुच्येत।।4।।
सू.2.4.5
अनित्यत्त्वात्तु नैवं स्यात्।।5।।
तु- शब्दोऽन्वाचये। इतश्च पश्यामः, कर्तुधर्मो नियमश्चोद्यते इति। यदि पूर्वस्य
होमस्य गुणविधिर्भवेत् स एवैकः पूर्वोऽग्निहोत्रहोमोऽनित्यः स्यात्, कामसंयोगेन श्रुतो, नान्यः कश्चिन्नित्यः। तत्र लिङ्गं
विरुद्ध्येत। जरामर्यं वा एतत् सत्रं यदग्निहोत्रं दर्शूपूर्णमासौ, जरया वा एताभ्यां निर्मुच्यते मृत्युना चेति। कथं विरुद्ध्यते। जरामरणनिर्मोचनावधारणवचनं नियमपक्षे उपपद्यते। काम्यपक्षे अप्रयोगादपि मुच्येत।।5।।
सू.2.4.6
विरोधश्चापि पूर्ववत्।।6।।
इतश्च पश्यामो, न पूर्वाभ्यासो गुणश्चोद्यते इति। कुतः। विरोधात्। विरोधो भवति। दर्शपूर्णमासविकाराः सौर्य्यादयोऽपि यावज्जीवमभ्यासितव्या भवेयुः। सोऽनारभ्यार्थः प्रतिज्ञातः स्यात्। अतोऽपि पश्यामो नियम इति। सत्रसंस्तवश्च सन्ततभावमुपपत्स्यते।।6।।हेतुः।।
सू.2.4.7
कर्तुस्तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात्।।7।।
यदि कर्त्तुधर्मो नियमश्चोद्येत, ततो जीवनं निमित्तम्। जीवने निमित्ते कर्म्म विधीयते। तत्र प्रयोगे परिसमाप्तं कर्म्म। तथा व्यपवर्गस्य दर्शनमवक्लृप्तम्भवति। तस्मात् कर्तृधर्मो नियमश्चोद्यते इति सिद्धं भवति।।7।।युक्तिः। यावज्जीविकाग्निहोत्राधिकरणम्।।1।।
सू.2.4.8
नामरूपधर्मविशेषपुनरुक्तिनिन्दाऽशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात्।।8।।
इह शाखान्तराण्युदाहरणम्। काठकं, कालापकं, पैप्पलादकम्। इत्येवमादीनि। तत्र सन्देहः। किमेकाभ्यां शाखायां यत् कर्म्म अग्निहोत्रादि श्रूयते, तच्छाखान्तरे पुनः श्रूयमाणम्भिद्येत तस्माद्, उत न भिद्येत। भिद्येतेति पश्यामः। कुतः। नामभेदात्। एकं काठकं नाम, अन्यत् कालापकं नाम। एवं नामभेदाद्भेदः। ननु ग्रन्थनामैतत्। सत्यम्। कर्मणामपीति ब्रूमः। कर्मभिरप्येवमादीनां सामानाधिकरण्यमेकविभक्तिञ्चेति। रूपभेदाच्च। एकस्यां शाखायामग्नीषोमीयमेकादशकपालमामनन्ति, एकस्यां द्वादशकपालम्। एवं भिन्नरूपं, कथमिव न कर्मान्तरं भविष्यति। धर्मविशेषाच्च।। कारीरीवाक्यान्यधीयमानास्तैत्तिरिया भूमौ भोजनमाचरन्ति अपरे शाखिनो नाचरन्ति। तथा आग्निमधीयमानाः केचिदुपाध्यायस्योदकुम्भानाहरन्ति, अपरे न। अश्वमेधमधीयानाः केचिदश्वस्य घासमाहरन्ति, अपरे न। परेऽन्यं धर्ममाचरन्ति। अश्वघासादेरेकेषामुपकारम् आकाङ्क्षति अश्वमेधादिः, एकेषां नाकाङ्क्षति। स एवैकः कथं नाकाङ्क्षते, कथं वाऽन्यदाकाङ्क्षितुम् अर्हति। अतो गम्यते- अन्यदिति। पुनरुक्तिप्रसङ्गाच्च। यदि सर्वशाखाप्रत्ययमेकं कर्म, एकस्यां शाखाया विहितस्य कर्मणः शाखान्तरे वचनं पुनरुक्तमनर्थकं स्यात्। न तु भेदपक्षे एष दोषोऽस्ति। तस्मादपि कर्मभेदः। निन्दावचनाच्च। प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुहोति ये अग्निहोत्रं दिवाकीत्र्त्यं अदिवा कूर्त्तयन्तः सूर्य्यो ज्योतिर्न तदा ज्योतिरेषामिति केचिच्छाख्निनोऽनुदितहोमं निन्दन्ति। अपरे पुनरुदितहोमं निन्दन्ति। यथाऽतिथये
प्रद्रुतायान्नमाहरेयुस्तादृक् तद् यदि उदिते जुह्वतीति सर्वशाखाप्रत्यये विरुद्धं, न तु कर्म्मभेदे, तस्मादपि भेद इति। अशक्तेश्च।। न शक्नुयुः खल्वपि सर्वशाखाप्रत्ययमुपसंहर्त्तुम्। तत्रानारभ्योऽर्थो विधीयते इति प्रतिज्ञातं भवेत्। शक्यन्तु कर्म्मभेदे। अतः कर्म्मभेद इति। समाप्तिवचनाच्च। असमाप्तेऽपि समाप्तेर्वचनं भवति। केचिदाहुः अत्रास्मकमग्निः परिसमाप्यते इति। अपरेऽन्यपरिसमाप्ति व्यपदिशन्ति। तदेककर्म्मत्वे नोपपद्यते न हि तत्र च परिसमाप्येत, अन्यत्र न। भेदे तु युक्तम्। तस्माद् भेद इति। प्रायश्चित्तमामनन्ति, केचिदुदितहोमव्यतिक्रमे, वृद्धं च प्रायश्चित्तम्। नच कर्मैकत्वे उभयथा वृद्धिः सम्भवति। कर्म्मभेदे तु यदनुदिते होमकर्म, तदुदिते वृद्धमितरदप्युदिते। तस्मादपि भेदः। अन्यार्थदर्शनाच्च। इदं श्रूयते- यदि पुरा दिदीक्षाणाः स्युः यदि वैषां गृहपतिः गृहपतेर्वानुसत्रिण इति, त एनमेव बृहत्समानं क्रतुमुपेयुरुपेतं ह्येषां रथन्तरम्। अथ यदि अदिदीक्षाणा इति इष्टवतामनिष्टपूर्वाणां च द्वादशाहे दर्शनमुपपद्यते। यदि कर्मभेदः। एककर्म्मत्वेनावकल्पते। कथम्। ताण्डके श्रूयते। एषभाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमो, य एतेनानिष्ट्वाऽथान्येन यजेत गर्त्तपत्यमेव तज्जायेत प्रवामीयते इति। तत् सर्वत्र स्यात्। तत्रादिदीक्षाणां द्वादशाहे दर्शनं नोपपद्यते। तस्मादपि कर्म्मभेदः।। अथापरं लिङ्गदर्शनम्। यत्पक्षसम्मितां पिनुयात् कनीयासं यज्ञक्रतुमुपेयात् कनीयसीं प्रज्ञां कनीयसः पशून् कनीयोऽन्नाद्यं पापीयान् स्यात्, अथ यदि वेदिसम्मित्य मिनोतीति पक्षसम्माने प्रतिषिद्धे वेदिसम्मानस्य दर्शनं भवति। तत्तु कर्म्मभेदे उपपद्यते। पाक्षिकस्य वेदिसम्मानस्य दर्शनं एककर्म्मत्वे नोपपद्यते। कथम्। एके हि समामनन्ति। रथाक्षमात्राणि यूपान्तरालानि स्यात्। तत् सर्वत्र स्यात् तत्र च पक्षसम्मानं, नो वेदिसम्मानं स्यात्। वेदिसम्मानदर्शनं नोपपद्यते। तस्मादपि कर्म्मभेदः। अपरञ्च
लिङ्गदर्शनम्। केषाञ्चिज्ज्योतिष्टोमे श्रूयते। द्वे संस्तुतानां विराजमतिरिच्येते इति। एककर्म्मत्वे विरोधः। नानाकर्म्मत्वे कÏस्मश्चिज्ज्योतिष्टोमे द्वे, कÏस्मश्चित् तिस्रः। तस्मात् कर्मभेदः इति। अपि च सारस्वते श्रूयते। ये पुरोडाशिनस्ते उपविशन्ति ये सान्नायिनस्ते वत्सान् वारयन्ति। सान्नायिन इष्टप्रथमयज्ञाः। पुरोडाशिनो विपरीताः। उभयेषां सारस्वते दर्शनमवकल्पते कर्म्मभेदे। एककर्म्मत्वे सर्वेषां ज्योतिष्टोमपूर्वत्वं स्यात्। तत्र दर्शनं नोपपद्यते। अपि च श्रूयते। उपहव्यो निरुक्तः, अग्निष्टोमो यज्ञः, रथन्तरसामा, अश्वः श्यावी दक्षिणा। परेषां श्रूयते। उपहव्योऽनिरुक्तः, उक्थो यज्ञो बृहत्सामा, अश्वः श्वेतो रुक्मललाटो दक्षिणेति। कर्मैकत्वं रथन्तरसामा वा स्यात्। स चायं प्रकृतित एवँल्लक्षणकः प्राप्तः। नानाकर्म्मत्वे त्वन्यो बृहत्सामाऽन्यो
रथन्तरसामेति युक्तं भवति। तस्माच्छाखान्तरे
कर्म्मभेदो भवितुम् अर्हति।।8।। पूर्वपक्षः।।
सू.2.4.9
एकं वा संयोगरूपचोदनाख्याविशेषात्।।9।।
नचैतदस्ति, यदुक्तं शाखान्तरेषु कर्म्मभेद इति। सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययञ्चैकं कर्म्म। अर्थसंयोगस्याविशेषात्। तदेव प्रयोजनमुद्दिश्य तदेव विधीयमानं प्रत्यभिजानीमः तदेव द्रव्यदेवतम्। पुरुषप्रयत्नश्च तादृश एव चोद्यते। नामधेयञ्चाविशिष्टम्। तेन तदेव कर्म्म सर्वशाखादिशष्विति प्रत्ययः।।9।। सिद्धान्तः।।
सू.2.4.10
न नाम्ना स्यादचोदनाभिधानत्वात्।।10।।
यदुक्तं नामभेद इति। परिहृतं तद् ग्रन्थनामत इति। अथ यदुक्तं, कर्म्मणोऽपि नामसानामाधिकरण्यदर्शनादिति। नैष दोषः। ग्रन्थसंयोगात् कर्म्म काठकादि, न कर्म्मसंयोगाद् ग्रन्थः काठकः। कथं गम्यते। यत् कर्म काठकादिसंयुक्त तत् काठकादिशब्देनोच्यते। किमतोऽपि ग्रन्थसंयोगात् काठकं कालापकं कर्मोच्यते। एकत्वेऽपि काटकग्रन्थसंयोगात् काठकं कालापकग्रन्थसंयोगात् तु कालापकं भविष्यति।10।। पूर्वपक्षनिरासः।।
सू.2.4.11
सर्वेषाञ्चैककर्म्यं स्यात्।।11।।
यदि शब्दभेदाद्भेदो भवेत्, शब्दैक्यात्तर्हि कर्मैक्यं भवेत्। तत्र काठकशब्दाभिधानादैक्यं भवेत्। अग्निहोत्रस्य दर्शपूर्णमासयोर्ज्योतिष्टोमस्य च तच्छब्दत्वात्। न चैतदेवम्। तस्मादपि अभेदः।।11।।
सू.2.4.12
कृतकं चाभिधानम्।।12।।
इदानीन्तनञ्चैतदभिधानं भवेत्। अस्य न पूर्वमासीद्। यतः प्रभृति कठस्य प्रकृष्टं वचनं, ततः प्रभृति प्रवृत्तम्। पूर्वं नासीद्भेदः, इदानीं बेद इति विरुद्धम्।।12।।युक्तिः।।
सू.2.4.13
एकत्वेऽपि परम्।।13।।
एककर्मत्वेऽपि रूपभेदो भवति। न च वाचनिके रूपभेदे, असत्यामपि भेदबुद्धौ कर्मणो भेदोऽध्यवसीयेत।।13।।
सू.2.4.14
विद्यायां धर्म्मशास्त्रम्।।14।।
अथ यो धर्मविशेष उक्तो विद्याग्रहणार्थः, स न कर्मण उफकारकः। कथं गम्यते। श्रुत्यादीनामभावाद् विद्यासंयोगाच्च न कर्मप्रयुक्त इति।।14।। पूर्वपक्षनिरासः।।
सू.2.4.15
आग्नेयवत् पुनर्वचनम्।15।।
अथ यदुक्तं- यथाऽमावास्यायामाग्नेयस्य पुनरुक्तदोषान्मध्यमः पक्षो निरस्त एवमयमपि तस्मादेव दोषात् कर्मैकत्वपक्षो निरसितव्य इति। एतत् परिहर्त्तव्यमित्याभाषान्तं सूत्रम्।।15 आशङ्का।।
सू.2.4.16
अद्विर्वचनं वा श्रुतिसंयोगाविशेषात्।।16।।
नैव खल्वेतद् द्विर्वचनम्। स एवायमर्थः पुनः श्रावितोऽग्निहोत्रादिर्बहुकृत्वो बहुभिस्तु पुरुषैः। न चैकोऽर्थो बहुभिरुच्यमानः पुनरुक्तो भवति। यदि भवेद्, एकस्मिन्नेव वेदे बहुभिरुच्यमाने भवेत्। तस्मान्न बहुकर्मसमावायोऽयम्, एकमेवेदं कर्मेति।।16।।आ0नि0।।
सू.2.4.17
अर्थसन्निधेश्च।।17।।
अर्थासन्निधेश्च शाखाशब्द उपपन्नो भविष्यति। शाखा इव होमाः शाखाः। तद् यथा वृक्षस्य शाखाः, एवमिहापि वृक्षस्थानीयस्य वेदस्य शाखाः। किं शाखासारूप्यम्। यथा नानावस्थानम्। नचैकैकस्यां कृत्स्नं पुष्पं फलं सन्निहितम्। एवमिहापि नचैकैकस्यां कृत्स्नं गुणकाण्डं सन्निहितमित्यर्थासन्निधेः शाखाशब्दोपपत्तिः। तस्मादप्येकं कर्मेति।।17।।
सू.2.4.18
न चैकं प्रति शिष्यते।।18।।
न च यत् काठकेऽग्निहोत्रं तत् काठकमेवैकं पुरुषं प्रति विधीयते। तैत्तिरीयस्यापि तद्विहितमेवष पुरुषविशेषवचनाभावात् यच्चाग्निहोत्रस्य किञ्चिदङ्गं विधीयते, सर्वावस्थस्य तदग्निहोत्रस्य। यच्च
काठकस्याग्निहोत्रं तच्च तैत्तिरीयकस्येति। विशेषवचनाभावात्। तस्मात् सर्वशाखाभिरेकं समाप्तं कर्मोच्यते।।18।।
सू.2.4.19
समाप्तिवच्च सप्रेक्षा।।19।।
अत्रास्मकमग्निः परिसमाप्यते इत्युत्प्रेक्षितारो भवन्ति। अन्वारोहेषु मैत्रायणीयानामग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यते इति। यदि अन्यदेव मैत्रायणीयानामन्यच्च तेषां, कथं ते ब्रूयुर्ष्वस्माकं न परिसमाप्यते इति। एकत्वमुपपन्नं, तेषामपि हि ते सन्ति।।19।। युक्तिः।।
सू.2.4.20
एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि।।20।।
न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते। किं तर्हि निन्दितादितरत् प्रशंसितुम्। तत्र न निन्दितस्य प्रतिषेधो गम्यते, किन्त्वितरस्य विधिः। तत्र एकस्मिन्नग्निहोत्रे द्वौ कालौ विहितौ विकल्प्येते। अतो न कश्चिद्विरोध।।
तथा असमर्थानामेकस्मिन्नपि वेदे विहितकृत्स्नमङ्गजातमुपसंहर्तुमशक्तिः। समर्थानान्तु सर्वशाखाभ्योऽप्यागमितमधिकं विधिमुपसंहर्तुं शक्तिरस्तीति तेनैककर्मत्वेऽपि न विरुद्धमिति। तथैकस्मिन्नपि कर्मणि किञ्चिद् वस्तु समाप्तमिति कृत्वा समाप्तिशब्द प्रयुज्यते। यथा आध्वर्यवे समाप्तं ज्योतिष्टोमस्य, समाप्तो ज्योतिष्टोम इति भवति।।पूर्वपक्षनिरासः।।
सू.2.4.21
प्रायश्चित्तं निमित्तेन।।21।।
यदुक्तम्- उदितहोमस्यापि प्रायश्चित्तान्ता नावृद्धता गम्यते, अनुदितहोमस्यापि।
तदेकत्वे विरुद्ध्यते। अविरुद्धं नानात्वे इति। तत् परिहर्त्तव्यम्। आभाषान्तं सूत्रम्।।21।। आशङ्का।।
सू.2.4.22
प्रक्रमाद्वा नियोयगेन।।22।।
वाशब्दः पक्षं व्यावर्त्तयति। नैष दोषः। उदिते होष्यामीति प्रक्रान्ते अन्यथा क्रियमाणे भवति दोषः। तत्र प्रायश्चित्तस्य विषयो भविष्यतीति कर्म्मैकत्वेऽपि न दोषः।।22।। आशङ्कानिरासः।।
सू.2.4.23
समाप्तिः पूर्ववत्त्वाद् यथाज्ञाते प्रतीयेत।।23।।
पूर्ववति समाप्तिवचनं भवति। यत् प्रारब्धं तत् परिसमाप्यते। तत्रास्मकं परिसमाप्तोऽग्निरिति योऽस्माभिर्ज्ञायते, परिसमाप्यते। प्रारब्धश्चेत्येभिप्रायः।।23।।
सू.2.4.24
लिङ्गमविशिष्टं सर्वविशेषत्वान्न हि तत्र कर्मचोदना तस्माद् द्वादशाहस्याहारव्यपदेशः स्यात्।।24।।
यदुक्तं- यदि पुरा दिदीक्षणा इति द्वादशाहे इष्टप्रथमयज्ञानामनिष्टप्रथमयज्ञानां च दर्शनं कर्मभेदे उपपद्यते, न सर्वशाखाप्रत्ययैककर्म्मणीति। नैष दोषः। यदि दिदीक्षाणा द्वादशाहेन, अदिदीक्षाणा द्वादशाहेनेत्येवं तत्। न हि समावेदे ज्योतिष्टोमस्य विधानम्। किमतोऽपि। यत्र विहितस्तत्रानूद्यते, तेन कर्म्मभेदोऽपि सर्वज्योतिष्टोमानामेष धर्म्मः प्राथम्यं नाम। अतो नानाकर्म्मपक्षेऽपि अवश्यं द्वादशाहस्याहारव्यपदेशः कल्पनीयस्तस्माददोषः।।24।।
सू.2.4.25
द्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्यान्निर्देशाद् व्यवतिष्ठेत तस्मान्नित्यानुवादः।।25।।
द्रव्ये चाग्नावचोदितत्वादेकादशिन्याः सम्मानपरिमाणं प्रति नैषा व्यवस्था स्यात्। नैवाग्नावेकादशिनी चोद्यते। कुतः। पक्षसम्मानं वेदिसम्मानं वा स्यात्। द्वयमप्येतत् परार्थं कीर्त्यते, पश्वेकादशिनीविधानार्थम्। यदि पक्षसम्मिता स्यादयं दोषः स्यात्। वेदिसम्माने न दोषः भवेत्। क एतत् सङ्कटमध्यवमानमर्हति। एकस्मिन् यूपे एकादश पशवो नियोक्तव्या इति। वाचस्तोमादिषु तु यूपस्तोमादिषु तु यूपैकादशिन्यामस्य नित्यानुवादत्वाद्रथाक्षमात्राण्येव यूपान्तरालानि भविष्यन्ति। नित्यानुवादत्वाच्चासत्यपि पक्षसम्माने वेदिसम्माने वैकादशिनीविधानार्थं वचनमुपपद्यत एवेति न दोषः।।26।।
सू.2.4.26
विहितप्रतिषेधात् पक्षेऽतिरेकः स्यात्।।26।।
अतिरात्रे गृह्णाति षोडशिनमिति विहितः षोडशी, नातिरात्रे गृह्णाति षोडशिनमिति प्रतिषिद्धः। तेन पक्षे द्वयोः स्तोत्रीययोरतिरेकः पक्षे तिसृणाम् तस्माददोषः। कथं पुनरयं द्वयोस्तिसृणां वा अतिरेकः। त्रिवृद् बहिष्पवमानं, तत्तावन्नवकम्। पञ्चदशान्याज्यानि, तानि तावच्चत्वारि, तेन सा षष्टिः, पञ्चदशो माध्यन्दिनः
एवमानः। तया पञ्चदशानि पृष्ठानि चत्वारि, सप्तदश आर्भवः एवमानः,
पञ्चसप्तदशकानि तानीति पञ्चाशीतिः। पूर्वथा चतुरशीत्या सहैकोनसप्ततिशतम्। एकविशं यज्ञायज्ञियं, तयैकविंशत्या सह तस्य नवतिशतं स्तोत्रिया इति ब्राह्मणवादः। अग्निष्टोममात्रमभिप्रेत्योच्यते, सा विराट् सम्पूर्णा विराडिति दर्शकाख्याः। त्रय एकविंशका उक्थपर्य्यायाः सा त्रिषष्टिः। एकविंशः षोडशी। तयैकविंशत्या सह चतुरशीतिः। पञ्चदशका रात्रिपर्य्यायास्त्रयः। तत्रैकपर्य्यायश्चतुःस्तोत्रः। तदशीतिशतं सम्पूर्णा विराट्। त्रिवृद्रथन्तरं पञ्चसाम तन्नवकम्। ततश्चतुरशीतिरेकं नावकमागच्छति। तथा तिस्रः संस्तुतानां विराजमतिरिच्यन्ते। यदा षोडशी न गृह्यते, तदा एकविंशत्या विना द्वे संस्तुतानां विराजमतिरिच्येते। एवमेककर्म्मत्वेऽपि लिङ्गमुपपद्यते।।26।।
सू.2.4.27
सारस्वते विप्रतिषेधाद् यदेति स्यात्।।27।।
यदुक्तंस पुरोडाशिनां सान्नायिनां च सारस्वते दर्शनं भवितीति। ज्योतिष्टोमपूर्वकत्वात् सर्वकर्म्मणां विप्रतिषिद्धमेतदिति। तेन .यदा सान्नायिन इति कल्प्यते।।27।। पूर्वपक्षनिरासः।
सू.2.4.28
उपहव्येऽप्रतिप्रसवः।।28।।
अथ यदुक्तं, उपहव्ये बृहद्रथन्तरविधानं प्रकृतिप्राप्तमेव। एककर्म्मत्वे प्रतिप्रसवतयाप्सम्भवाद्विधीयमानमनर्थकं स्यादिति। तत् परिहर्तव्यम्। आभाषान्तं सूत्रम्।।28।। आशङ्का।।
सू.2.4.29
गुणार्था वा पुनः श्रुतिः।।29।।
यदा रथन्तरसामा, तदा अश्वः श्वेतो दक्षिणा, यदा बृहत्सामा तदा रुक्मललाट इति।।29।। आशङ्कानिरासः।।
सू.2.4.30
प्रत्ययञ्चापि दर्शयति।।30।।
यदा न सर्वशाखाप्रत्ययमेकं कर्मेति। कथमेकस्यां शाखायां समाम्नायतेऽन्यस्यां गुणो विधीयते। यथा मैत्रायणीयानां समिदादयः प्रयाजा न समाम्नायन्ते, अथ च गुणाः श्रूयन्ते- ऋतवो वै प्रयाजा न समानीय होतव्या इति। तथा येषां शाखिनां, कुटरुरसीत्यश्मादानमन्त्रो नाम्नातस्तेषामपि हि दृश्यते- कक्कुटोऽसीत्यश्मानमुपादत्ते, कुटरुरसीति वेति।
तस्मादेकं कर्म्मेति प्रतीमः।।30।। युक्तिः।।
सू.2.4.31
अपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत।।31।।
यो ह्यन्यशाखावस्थितान् विधीनुपसंहरति, स स्वशाखाहितं क्रममुपरुणद्धीति। तेन शाखान्तरेषु कर्म्मभेद इति।।31।।आ0।।
सू.2.4.32
विरोधिना त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात्।।32।।
उच्यते। नैष शाखान्तरविहितानामैककर्म्ये सति विरोधिना संयोगः। न हि क्रमो वाक्येन विरुद्ध्येत। दुर्बलो हि क्रमः। बलवद्वाक्यम् वाक्येन च
शाखान्तरीयाणामुपसंहारः। तस्मात् सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययञ्चैकं कर्म्म चोद्यत इति सिद्धं भवति।।32।। आ0।। नि0।। सर्वशाखाप्रत्ययैककर्मताधिकरणम्।।2।। इति श्रीभट्टशबरस्वामिनः कृतौ मीमांसाभाष्ये द्वितीयाध्यायस्य चतुर्थः पादः।।2।।4।। समाप्तोऽयं द्वितीयोऽध्यायः।।2।।