शङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् (बृहत्स्तोत्ररत्नाकरान्तर्गतम्)

विकिस्रोतः तः
शङ्कराचार्याष्टोत्तरशतनामस्तोत्रम्
अज्ञातः
१९५३

॥ श्रीशङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥

श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः ।
अज्ञानतिमिरादित्यस्सुज्ञानाम्बुधिचन्द्रमा: ॥ १
वर्णाश्रमप्रतिष्ठाता श्रीमान्मुक्तिप्रदायक: ।
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥ २
सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः ।
ज्ञानमुद्राञ्चितकर शिशष्यहृत्तापहारकः ॥ ३
परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः ।
अद्वैतस्थापनाचार्यस्साक्षाच्छङ्कररूपभृत् ॥ ४
षण्मतस्थापनाचार्य स्त्रयीमार्ग प्रकाशकः ।
वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥ ५
वैराग्यनिरतश्शान्तस्संसारार्णवतारकः ।
प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥ ६
पुराणस्मृतिसारज्ञो नित्यतृप्तो महाञ्छुचिः ।
नित्यानन्दो निरातङ्को निस्सङ्गो निर्मलात्मकः ॥ ७

निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः ।
सत्वप्रधानस्सद्भावस्सङ्ख्यातीतगुणोज्ज्वलः ॥ ८
अनघस्सारहृदयस्सुधीस्सारस्वतप्रदः ।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविलक्षणः ॥ ९
तपोराशिर्महातेजा गुणत्रयविभागवित् ।
कलिघ्नः कालकर्मज्ञ स्तमोगुणनिवारकः ॥ १०
भगवान्भारतीजेता शारदाह्वानपण्डितः ।
धर्माधर्मविभावज्ञो लक्ष्यभेदप्रदर्शकः ॥ ११
नादबिन्दुकळाभिज्ञो योगिहृत्पद्मभास्करः ।
अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥ १२
चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् ।
अमानुषचरित्राढ्यः क्षेमदायी क्षमाकर: ॥ १३
भव्यो भद्रप्रदो भूरि महिमा विश्वरञ्जकः ।
स्वप्रकाशस्सदाधारो विश्वबन्धुश्शुभोदयः ॥ १४
विशालकीर्तिर्वागीशस्सर्वलोकहितोत्सुकः ।
कैलासयात्रासंप्राप्त चन्द्रमौलिप्रपूजकः ॥ १५

कांच्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः ।
श्रीचक्रात्मक ताटङ्क तोषिताम्बामनोरथः ॥ १६
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः ।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥ १७
द्विसप्तति मतोच्छेत्ता सर्वदिग्विजयप्रभुः ।
काषायवसनोपेतो भस्मोद्धूळितविग्रहः ॥ १८
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥ १९
व्याससन्दर्शनप्रीतः ऋष्यशृङ्गपुरेश्वरः ।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥ २०
चतुष्षष्टिकळाभिज्ञो ब्रह्मराक्षसपोषकः ।
श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुतः ॥ २१
तोटकाचार्यसम्पूज्य पद्मपादार्चिताङ्घ्रिकः ।
हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकः ।। २२
सुरेश्वराख्य सच्छिष्य सन्यासाश्रमदायकः ।
नृसिह्मभक्तस्सद्रत्नगर्भहेरम्बपूजकः ॥ २३

व्याख्यासिह्मासनाधीशो जगत्पूज्यो जगद्गुरुः ।
इति श्रीमच्छङ्कराचार्यसर्वलोकगुरोः परम् ॥ २४
नाम्नामष्टोत्तरशतं भुक्तिमुक्तिफलप्रदम् ।
त्रिसंध्यं यः पठेद्भक्त्या सर्वान्कामानवाप्नुयात् ॥
॥ इति श्रीमच्छङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥