शङ्करभगवच्चरणस्तुत्यष्टकम्

विकिस्रोतः तः
शङ्करभगवच्चरणस्तुत्यष्टकम्
अज्ञातः
१९५३

॥ श्रीमच्छङ्करभगवच्चरणस्तुत्यष्टकम् ॥

श्रुतीनामाक्रीड: प्रथितपरहंसोचितगतिर्निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः । असौ ब्रह्मे- वास्मिन्नखलु विशये किंतु कलये बृहेरर्थं साक्षा- दनुपचरितं केवलतया ॥ १ मितं पादेनैव त्रिभुवनमिहैकेन महसा विशुद्धं तत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् । दशाकारातीतं स्वमहिमनि निर्वेदरमणं ततस्तं तद्विष्णोः परमपद- माख्याति निगमः ॥ २ न भूतेष्वासङ्ग: क्वचन नगवाचा विहरणं न भूत्या संसर्गो न परिचितता भोगिभिरपि । तदप्या- म्नायान्तस्त्रिपुरदहनात्केवलदशा तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥ ३ न धर्मस्सौवर्णो न पुरुषफलेषु प्रवणता न चैवा- होरात्र स्फुरदरियुत: पार्थिवरथः । असाहायेनैवं ४९० बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सति विततपुर्यष्टकजये कथं तन्न ब्रूयान्निगमनिकुरम्ब: परशिवम् ॥ ४ दुःखासार दुरन्त दुष्कृतघनां दुस्संमृतिप्रावृषं दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः । उच्चण्डप्रतिपक्षपण्डितयशो नाळीकनाळाङ्कुरपग्रासो - हंसकुलावतंसपदभाक्सन्मानसे क्रीडति ॥ ५ क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् । येना- शेषविशेषदोहलहरी मासेदुषीं शेमुषीं सोयं शीलवतां पुनाति परमो हंसो द्विजात्यप्रणीः ॥ ६ नीरक्षीरनयेन तथ्यवितथे संपिण्डिते पण्डितै- र्दुर्बोधेसकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः । हंसोयं परमोस्तु ये पुनरिहाशक्तास्समस्तास्थिता जुम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥ दृष्टिं ये प्रगुणीकरोति तमसा बाह्येन मन्दी- कृतां नाळीकप्रियतां प्रयाति भजते मित्रत्वमव्याहश्रीमच्छङ्करभगवच्चरणस्तुत्यष्टकम् ४९१

तम् । विश्वस्योपकृते विलुम्पति सुहृच्चक्रस्य चार्तिं धनां हंसस्सोयमभिव्यनक्ति महतां जिज्ञास्यमर्थं मुहुः ॥ ८ इति श्रीविद्यारण्यमुनिरचितं श्रीमच्छङ्करभगवच्चरण- स्तुत्यष्टकम् ॥ .