सामग्री पर जाएँ

व्रत(२)

विकिस्रोतः तः
पृष्ठ ५०३३
  • मङ्गल्यसप्तमीव्रतं गुरुड़पु० “मङ्गल्यं परमिच्छन्ती मङ्गलाय-
तनं हरिम् । अर्चयेद्विनता देवं सप्तम्यां समुपोषिता ।
माङ्गल्यं परमिच्छन्ती व्रतेनानेन चाप्नुयात् । पुमानपि
यशः कीर्त्तिं बलमायुश्च विन्दति” ।
  • मत्स्यद्वादशीव्रतं धरणीव्रते “मार्गस्य शुक्लपक्षे तु दशम्यां
नियतात्मवान् । स्नात्वा देवार्चनं कृत्वा अग्निकार्य्यं
यथाविधि । शुचिवासाः प्रसन्नात्मा हव्यं चान्न सुसं-
स्कृतम् । भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः ।
कृत्वाऽष्टाङ्गुलमानन्तु क्षीरवृक्षसमुद्भवम् । भक्षयेद्दन्तकाष्ठं
तु तत आचम्य यत्नतः । स्पृष्ट्वा खानि तथाद्भिश्च
चिरं ध्यात्वा जनार्दनम्” । खानीन्द्रियाणि “शङ्ख-
चक्रगदापाणिं पीतवस्त्रं किरीटिनम् । प्रसन्नवदनं
देवं सर्वलक्षणलक्षितम् । ध्यात्वा जलं गृहीत्वा तु
भानुरूपं जनार्दनम् । दृष्ट्वार्घ्यं दापयेत् पश्चात्
करतोयेन मानवः । एवमुच्चारयेद्वाचं तस्मिन् काल
महामुने! । एकादश्यां निराहारो भूत्वाहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष! शरणं मे भवाच्युत! । तेषां
भध्ये शुभं पीठं स्थाषयेद्वस्त्रसंयुतम् । तस्मिंश्च रौप्यं
सौवर्णं ताम्रं वा दारवं तथा । अलाभतस्तोयपूर्णं
कृत्वा पात्रं ततो न्यसेत्” । अलाभतः सौवर्णादीनाम-
लाभे दारवमपि कुर्य्यादित्यर्थः “सौवर्णं मत्स्यरूपेण
कृत्वा देवं जनार्दनम् । वेदवेदाङ्गसंयुक्तं श्रुतिस्मृति-
विभूषणम्” । तोयपूर्णं पात्रं कृत्वा तत्र मत्स्यरूपं
जनार्दनं न्यसेदित्यन्वयः “तत्रानेकविधैर्भक्ष्यैः फलैः
पुष्पैश्च शोभितम् । गन्धैरन्नैश्च धूपैश्च अर्चयित्वा यथा
विधि । रसातलगता वेदा यथा देव त्वयाऽऽहृताः ।
मत्स्यरूपेण तद्वन्मां भवादुद्धर केशव! । एवमुच्चार्य्य
तस्याग्रे जागरं तत्र कारयेत् । यथाविभवसारेण प्रमाते
विमले तथा । चतुर्णां ब्राह्मणानां च चतुरो दापयेत्
घटान्” ।
  • मदनद्वादशीव्रतं मत्स्यपु० “चैत्रे मासि सिते पक्षे द्वादश्यां
नियतव्रतः । स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम् ।
नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् । सितवस्त्रयुग-
च्छन्नं सितचन्दनचर्चितम् । नानाभक्ष्यरसोपेतं
सहिरण्यं त्वशक्तितः । ताम्रपात्रं गुड़ोपेतं तस्योपरि
निवेशयेत् । तदभावे कुथां कुर्य्यात् कामकेशवयोर्नरः ।
कामनाम्ना हरेरर्च्चां स्नापयेद्गु ड़वारिणा । शुक्लपुष्पा-
क्षततिलैरर्चयेदिति केशवम् । अनेन विधिना सर्वं मासि
मासि समाचरेत् । उपवासी त्रयोदश्यामर्चयेद् विष्णु-
मव्ययम् । फलमेकञ्च सम्प्राश्य द्वादश्यां भूतले स्वपेत् ।
ततस्त्रयौदशे मासि घृतधेनुसमन्विताम् । शय्यां दद्याद्
द्विजेन्द्राय सर्वोपस्करसंयुताम् । काञ्चनं कामदेवं च शुक्लां
गाञ्च पयस्विनीम् । वासोभिर्द्वि जदाम्पत्यं पूज्य शक्त्या
विभूषणैः । सर्वगन्धादिकं दद्यात् प्रीयतामित्युदीरयेत्” ।
  • मधुकतृतीयाव्रतं भविष्योत्तरे “फाल्गुनस्य सिते पक्षे तृती-
यायामुपोषिता । स्नाता स्थिता ब्रह्मचर्य्ये ततोऽन्यस्मित्
दिने पुनः । व्रजेन्मधुवनं, गौरीं पूजयेत् मधुमानसा ।
मन्त्रेणानेन ध्यायन्ती पार्वतीप्रतिमां शुभाम् । मृगा-
जिनावृतकुषां जटामुकुटशोभिताम् । गोधारथगतां
देवीं रुद्रध्यानपरायणाम् । पूजयेत् गन्धकुसुमैर्दीपाल-
क्तकचन्दनः । पर्य्यङ्कलब्धमुखरालिकुलोपगीतं दत्त्वा
फलाक्षतयुतं मधुपादपस्य । गौरीव कामसदृशा भवतीह
नारी” इत्यादि ।
  • मनोरथद्वादशीव्रतं पद्मपु० “फल्गुनामलपक्षस्य एकादश्या-
मुपोषितः । नरो वा यदि वा नारी समभ्यर्च्य जगत्-
पतिम् । हरेर्नाम जपन् भक्त्या सप्त वारान् जनेश्वर! ।
उत्तिष्ठन् प्रस्वपंश्चैव हरिमेवांशु कीर्त्तयेत् । अतः
प्रभाते विमले द्वादश्यां नियता हरिम् । स्नात्वा सम्यक्
समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् । हरिमुद्दिश्य
चैवाग्नौ घृतहोमं समाचरेत् । फाल्गुनश्चैत्रवैशाखौ
ज्यैष्ठमासश्च पार्थिव! । चतुर्भिः पारणं मासैरोभिर्नि-
ष्पादितं भवेत् । रक्तपुष्पैश्च चतुरोमासान् कुर्वीत
चार्चनम् । जातीपुष्पाणि धूपश्च शस्तः सर्जरसेन तु ।
प्राश्य दर्भोदकं चात्र शाल्यन्नं च निवेदयेत् । स्वयमेव
तदश्रीयाच्छेषं पूर्वबदाचरेत् । कार्त्तिकादिषु मासेषु
गोमूत्रं कायशोधनम् । सुगन्ध्रं स्वेच्छया धूपं पूजां
भृङ्गारकेण च” । भृङ्गारको माकन्दः “कृसरं चात्र
नैवेद्यं भुञ्जीयात्तच्च वै स्वयम् । प्रतिमासञ्च विप्राय
दातव्या दक्षिणा तथा । प्रीणनं देवदेवस्य पारणे
पारणे गतं” वर्षसाध्यमिदम् ।
  • मनोरथपूर्णिमाव्रतं विष्णुधर्मोत्तरे “कार्त्तिक्यान्तु तथारभ्य
संपूर्णं शशलक्षणम् । पूजयेदुदये राजन्! सदा नक्ता-
पृष्ठ ५०३४
शनो भवेत् । लावणं मण्डलं कृत्वा चन्दनेनानुलेपितम् ।
द्विदिग्नक्षत्रसहितं ततः सोमन्तु पूजयेत्” । लवणं सैन्धव-
लवणकृतम् “कृत्तिकारोहिणीयुक्तं कार्त्तिके मासि
पूजयेत् । सौम्यार्द्रासहितं राजन्! मासि सौन्ये तथैव
च । आदित्यपुष्यसहितं मासि पौषे च यादव! ।
मथासर्षयुतं माघे फाल्गुने शृणु पार्थिव! । आर्य्यम्णेना
ऽथ सावित्रैः सहितं पूजयेद्विभुम् । चित्रास्वातियुत-
ञ्चैत्रे वैशाखे शृणु पार्थिव! । विशाखया च मैत्रेण
युतं संपूजयेत्तथा । ज्येष्ठामूलयुतं ज्यैष्ठे आषाड़े
सलिलोत्तरे । श्रावणे श्रवणोपेतं वारुणेन श्रविष्ठया ।
तथा भाद्रपदे पौष्ण्या अजाहिब्रध्नसंयुतम् । अश्विनो
भरणीयुक्तं “तथाचाश्वयुजे विभुम्” इत्यादि ।
  • मनोरथसंक्रान्तिव्रतं स्कन्दपु० “अतः परं प्रवक्ष्यामि संक्रा-
न्तिञ्च मनोरथाम् । गुड़ेन पूर्णकुम्भञ्च सवस्त्रञ्च
स्वशक्तितः । सङ्क्रान्तिवासरे दद्याद्ब्राह्मणाय कुटुम्बिने ।
एवं संवत्सरे पूर्णे स्वशक्त्योद्यापनं शुभम् । गुड़ेन
पर्वतं कार्ष्यं वस्त्ररत्नैश्च भूषितम् । अयने चोत्तरे
दद्याद्वित्तशाठ्यं न कारयेत् । यं यं प्रार्थयते कामं
तं तं प्राप्नोति पुष्कलम् । सर्वपापविनिर्मुक्तः सूर्य्यलोके
महीयते” ।
  • मन्दारषष्ठीव्रतं भविष्योत्तरे “शृणु पार्थ! प्रवक्ष्यामि सर्व-
पापप्राणाशिनीम् । सर्वकामप्रदां पुण्यां षष्ठीं मन्दार-
संज्ञिताम् । माषस्यामलपक्षे तु पञ्चम्यां लघुभुक् नरः ।
दन्तकाष्ठं ततः कृत्वा स्वपेद्भूमौ जितेन्द्रियः । सर्वभोग-
विहीनस्तु षष्ठीमुपवसेन्नरः । प्राप्यानुज्ञां द्विजश्रेष्ठात
मन्दारं पार्थयेन्निशि” इत्यादि ।
  • मन्दारसप्तमीव्रतं पद्मपु० “अथातः सम्प्रवक्ष्यामि सर्वपाप-
प्रणाशिनीम् । सर्वकामप्रदां पुण्यां नाम्ना मन्दार-
सप्तमीम् । माघस्यामलपक्षे तु पञ्चम्यां लघुभुक् नरः ।
दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेन्नरः । विप्रान् सम्यग्
भोजयित्वा तु मन्दारं प्राशयेन्निशि । ततः प्रभाते
ष्टत्थाय कुर्य्यात् स्नानं पुनर्द्विजान् । भोजयेच्छक्तितः
कृत्वा मन्दारकुसुमाष्टकम्” । मन्दारोराजार्कः
“सौषर्णं पुरतस्तद्वत् पद्महस्तं सुशोभनम् । पद्मं कृष्ण-
तिलैः कृत्वा ताम्रपात्रेऽष्टपत्रकम् । हैमं मन्दारकुसुमं
स्थाप्य मध्ये च पूजयेत्” इत्यादि वर्षसाध्यम् ।
  • मरीचसप्तमीव्रतं भविष्यपु० “तथा संपूज्य देवेशं मानुं
लाभप्रदं नृप! । भोजयित्वा यथाशक्ति ब्राह्मणांश्च
विशेषतः । सप्तम्यां प्राशयेच्चापि मरीचं मनुजाधिप ।
गृहीत्वा मरीचशतमव्रणं सुदृढ़ं परम् । मरीचं प्राश-
येद्राजन् मन्त्रेणानेन वा स्पृशन्” इत्यादि ।
  • मरुत्सप्तमीव्रतं विष्णुधर्मोत्तरे “चैत्रस्य शुक्लपक्षे तु सम्यक्
षष्ठ्यामुपोषितः । सप्तम्यामर्चनं कृर्य्यादृतूनां तत्र तत्र
च । तत्र श्रेणीगतं सप्तमण्डलं नृप! कारयेत् ।
श्रेणी तथा कार्य्यसमा सप्तमण्डलकान्विता” । इत्यादि
वर्षसाध्यम्
  • मल्लद्वाददीव्रतं भविष्योत्तरे “मञ्जैर्विशेषतः कार्य्यास्तथान्यै-
रपि भक्तितः । पूजयन्ति क्रमेणैव मासि मासि
तनूर्मम । मार्गशीर्षादिभिः पार्थ! पूजयेन्मासनामभिः ।
पारणे पारणे दद्यान्मल्लिकानि द्विजातये । गन्धैः पुष्पै-
स्तथादीपैर्गीतवाद्यैर्मनोहरैः । मल्लयुद्धैश्च विविधैर्जा-
गरं कारयेन्निशि । घृतदानैः क्षीरदानैर्दाधिदानैः पृथक्
पृधक् । सर्वत्र देवदेवेशः कृष्णो मे प्रीयतामिति ।
एवमेव बिधिः प्रोक्तो मन्त्रदानसमन्वितः । द्वादशीयं
मयाद्यापि क्रियते बलवृद्धये । मल्लानां जयदा यस्मान्मल्ल-
द्वादशिसंज्ञिता । तस्मान्मल्लैः प्रकर्त्तव्या मल्लयुद्धजया-
र्थिभिः । अन्येषामपि कौन्तेय! सर्वार्थजयदायिनी ।
इमां चीर्त्वा पापसङ्घैर्मुच्यते नात्र संशयः । भण्डीर-
पादपतले मिलितैर्महद्भिर्मल्लैरनाकुलबाहुबलं नियुद्धैः ।
सम्पूजितः सपदि यत्र तिथौ ततश्च सा द्वादशी भुवि
गता बलमल्लसंज्ञा” ।
  • महाजयासप्तमीव्रतं भविष्यपु० “शुक्लपक्षे तु सप्तम्यां यदा
संक्रमते रविः । महाजया तदा स्याद् वै सप्तमी
भास्करप्रिया । स्नानं दानं जपो होमः पितूदेवाभिपूज-
नम् । सर्वं कोटिगुणं प्रोक्तं तपनेन महौजसा ।
यस्त्वस्यां मानवो भक्त्या घृतेन स्नापयेद्रविम् । सोऽश्व-
मेधफलं प्राप्य ततः सूर्य्यपदं व्रजेत्” ।
  • महातपोव्रतं महाभारते “मासि मासि त्रिरात्राणि कृत्वा
तु नियतेन्द्रियः । गणाधिपत्यं प्राप्तोति निःसपत्नमनावि-
लम् । यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः । अतिरा-
त्रस्य यज्ञस्य मवै फलमुपाश्नुते । दशवर्षसहस्राणि स्वर्ग-
लोके महीयते । तत्क्षयादिह चागत्य माहात्म्यं प्रति-
पद्यते । यस्तु मंवत्सरं पूर्णञ्चतुर्थं भक्तमश्नुते ।
अहिंसानिरतो नित्यं सत्यवाग्विजितेन्द्रियः ।
वाजपेयस्य यज्ञस्य स फलं समुपाश्नुते । त्रिंशद्वर्षसहस्राणि
वर्षाणां दिवि मोदते । अष्टमेन् तु भक्तेन जीवेत् संवत्-
पृष्ठ ५०३५
सरं नरः । गवां मेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
हंससारसयुक्तेन विमानेन स गच्छति । पञ्चाशत्तु
सहस्राणि कर्षाणि दिवि मोदते । पक्षे पक्षे गते राजन्!
योऽश्नोयाद्वर्षमेव तु । षण्मासानशनन्तस्य भगवानङ्गी-
राब्रवीत् । षष्टिवर्षसहस्राणि दिवमावसते स च ।
अश्नीयाद्वितीये पक्षे यस्तु सर्वदिनेष्विति । वीणानां
वल्लकीनाञ्च वेणूनाञ्च विशाम्पते! । सुघोषैर्मधुरैः शब्देः
स सुप्तः प्रतिबुध्यते । संवत्सरमिहैकन्तु मासि मासि
पिबेत् पयः । फलं विश्वजितस्तात! प्राप्नोति स
नरोत्तमः । सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति ।
शतञ्चाष्टौ सुरकन्या रमयन्ति च तन्नरम् । सप्ततिञ्च
सहस्राणि वर्षाणां दिवि मोदते । मासादूर्ध्वं नरव्याघ्र!
नोपवासो विधीयते” ।
  • महाफलद्वादशीव्रतं विष्णुरहस्ये “पौषे कृष्णे विशास्वासु-
युक्ता चैकादशी भवेत् । तस्यां संपूजयेद्विष्णु मुपोष्य
विविवन्नरः । सुगन्धपुष्पनैवे द्यैर्वस्त्रभूषणसम्भवैः । मासा-
नुमासम्पूजयेत् विधिना जगतीपतिम् । प्राशनङ्काय-
शुद्द्यर्थ कार्य्य मासक्तमेण तु । गोमूत्रमुदकं सर्पि-
राचस्य कामतः परम् । ततोदूर्वादधिब्रीहितिलांश्चैव
यवांस्तथा । जलमर्ककरैस्तप्तं दर्भांश्च क्षीरमेव च ।
द्वादश्यां भोजयेद्विप्रान् दधिक्षीरगुड़ौदनैः । मास०
क्रमेण विप्रेभ्यो दद्यात्सम्यक्कृते व्रते । घृतं
तिलव्रीहियवसुवर्णसंयुतं घटम् । मोदकैश्च युतं कुम्भमात-
पत्रन्तु पायसम् । फाणितं चन्दनं मालाः सगन्थाश्चेति
दक्षिणाः । व्रतमेतन्महापुण्यं दृष्टादृष्टफलप्रदम् ।
कर्त्तव्यं धर्मनिरतैर्विष्णुपूजनतत्परैः । व्रतमेतन्नरः कृत्वा
बिप्राणां प्रवरे कुले । सुजन्मा जायते धीमान् येदवेदा-
ङ्गपारगः” ।
  • महाफलव्रतं भविष्यपु० “शृणु कौरव! कर्माणि तिथिगुह्या-
चितानि तु । श्रुत्वैव पापहानिः स्यात् कृत्वानन्तं
फलं त्वभेत् । क्षीराशनः प्रतिपदि । पुष्पाहारो द्वि-
तीयायाम् । लवणबर्जितं तृतीयायाम् । तिलान्नाशी
चतुर्थ्याम । क्षीराशवः पञ्चम्याम् । फलाशनः षष्ठ्याम् ।
शाकाशनः सप्तम्याम् । विल्वाहारोऽष्टम्याम् । पिष्टा-
शनो नवम्याम् । अनग्निपकाहारो दशम्याम् ।
एकादश्यामुपवासः । घृताशनो द्वादश्याम् । पायसाहार-
स्त्रयोदश्याम् । यावान्नाहारश्चतुर्दश्याम् । गोमूता-
हारः कुशोदकप्राशनः पौर्णमास्यां एवं प्राशनविधिः ।
उक्तानि प्राशनान्येवं विधिपूर्वमुदाहृतम् । क्षीरं प्रति-
पदायान्तु सर्वासु च विधीयते” ।
  • महत्तमव्रतं स्कन्दपु० “वैदिकेन विधानेन व्रतं पुण्यं
महत्तमम् । कस्मिस्तिथौ तु कर्त्तव्यं विधानं तद्वदस्व मे” ।
स्कन्द उवाच “मासि मासि भाद्रपदे शुक्ले च प्रति
पत्तिथौ । नैवेद्यन्तु पचेन्मौनी षोड़शत्रिगुणानि च ।
फलानि पिष्टपक्वानि दद्याद्विप्राय षोड़श । देवाय
षोड़शैतानि दातव्यानि प्रयत्नतः । भुञ्जते षोड़श तथा
व्रतस्य नियमाश्रयात् । सौवर्णं कारयेद्देवं यथा शक्त्या
हिरण्मयम्” इत्यादि ।
  • महाराजव्रतं स्कन्दपु० “यदागस्त्य! चतुर्दश्यामार्द्रा भाद्र-
पदाथ वा । सितायामसितायां वा न विशेषो यथा
गवि । तदा लब्धैकभूर्भूत्वा त्रयोदश्यां यथाविधि ।
सर्वव्रतं महाराजं तदा संकल्पयेन्नरः । चतुर्दश्यां ततः
कुर्य्यात्तिलगोमूत्रगोमयैः । मृदाथ गञ्चगव्येन स्नानं
शुद्धाम्बुना ततः । शिवसंकल्पमन्त्रस्य ततो दशशते
पठेत्” । शिवसंकल्पमन्त्रो यज्राग्रतो दूरमित्यादिर्यजुः-
शाखाप्रसिद्धः “पञ्चाक्षरस्तु शूदस्य जन्मकोटिकृतैस्ततः” ।
मुच्यते पातकै मर्वैस्तत्कृत्वा नात्र संशयः” ।
  • महालक्ष्मीव्रतं सकन्दपु० “महाराज! निबोधेदं
महालक्ष्मीव्रतं शुभम् । भद्र! भाद्रपदे मासि शुक्लाष्टम्यां
नरोत्तम! । स्तुत्वाभ्यर्च्य महालक्ष्मीमेकभक्तं प्रकल्प्य च ।
कुङ्कुमाक्तघृतं सूत्रं षोड़शग्रन्थिसंयुतम् । तन्तुभिस्तत्-
प्रमाणैश्च बधीयात्तु अरे गुणम् । दूर्वाक्षतप्रवालानां
षोड़शैव तु षोड़श । पुनरेवाश्विने मासि कृष्णाष्टम्यां
दिने शुभे । उत्सवं कारयेद्देव्यास्तूर्य्योपशतनादितम्” ।
  • महाव्रतं कालिकापु० “महाव्रतमथो वक्ष्ये येनारोहति तत्
पदम् । सुरासुरमुतीनाञ्च दुर्लभं विधिना शृणु ।
पर्वण्याश्वयुजस्यान्ते पायसञ्च घृतप्लुतम् । नक्तं भुञ्जीत
शुद्दात्मा चन्दनञ्चैक्षवान्धितम्” । आश्वयुजस्यान्ते
कार्त्तिके । पर्वणि अमावस्यायां कार्त्तिक्यन्त इत्यर्थः ।
ऐक्षव इक्षुरसः । लिङ्गपु० “अष्टम्याञ्च चतुर्दश्यां पक्ष-
योरुमयोरपि । वर्षमेकं ततो भुक्त्वा नक्तं यः पूजयेच्छि-
वम् । सर्वयज्ञफलं प्राप्य स याति परमाङ्गतिम्” ।
विष्णुधर्मोत्तरे “योगभूतं हरिं देवं चातुर्मास्यमुपोषि-
तम् । अर्चयेत् पौर्णमास्यान्तु सोऽश्वमेधपालं लमेत्” ।
योगभूतं सकलम् “ब्रह्मभूतममावास्यां पूजयेत्तामुपो-
पितः । राजसूयमवाप्नोति कलमुद्धरति स्वकम्” ।
पृष्ठ ५०३६
ब्रह्मभूतं निष्कलम् “ब्रह्मभूतममावास्यां पौर्णमास्यां तथैव
च । योगभूतं परिचरन् केशवं मदमाप्नुयात् ।
अत्यर्थं प्रीतिमाप्नोति मासपक्षांस्तयोः सदा । पूजितः
सोपवासेन भक्त्या देववरो हरिः । महाव्रतमिदं ख्यातं
सर्वकल्मषनाशनम् । संवत्सरमिदं कृत्वा नाकपृष्ठे
महीयते” इत्यादि ।
  • महासप्तमीव्रतं भविष्यपु० “माघस्य शुक्लपक्षे तु पञ्चम्याञ्च
कुरूद्वह! । एकभक्तं समाख्यातं षष्ठ्यां नक्तमुदाहृतम् ।
सप्तम्यामुषवासञ्च केचिदिच्छन्ति सुव्रत! । षष्ठ्यां केचि-
दुशन्तीह सप्तम्यां राधनं किल । कृतोपवासः षष्ठ्यान्तु
पूजयेद् भास्करं बुधः । रक्तचन्दनमिश्रैस्तु करवीरैः
समाहृतै । गुग्गुलेन महाबाहो! सुगन्धेन च सुव्रत! ।
पूजयेद्देवदेवेशं ग्रहेशं शङ्करं रविम्” । शङ्करं सुखकर-
मित्यर्थः “एवं हि चतुरोमासान् माघादीत् पूजयेद्र-
विम् । आत्मनश्चापि शुद्ध्यर्थं प्राशर्नं गोमवस्व च ।
स्नानञ्च गोमयेनेह कर्त्तव्यञ्चात्मशुद्धये । ब्राह्मणान्
दिव्यभौमांश्च भोजयेच्चापि शक्तितः” । दिवि देवकुले भवाः
दिव्या इतरे भौमाः । “ज्यैष्ठादिष्वसि मासेषु श्वेतचन्द-
नमुच्यते । श्वेतानि चापि पुष्पाणि शुभगन्धान्वितानि
वै । कृष्णागुरु तथा धूपं नैवेद्यं पायसं स्मृतम् । तेनैव
वाह्मणान् साधून् भोजयेच्च महामते! । प्राशयेत् पञ्च-
गव्यन्तु स्नानं तेगैव सुव्रत! । कार्त्तित्तादिषु मासेषु
अनस्तिकुसुमैः स्मृतम् । पूजनं कुरुशार्दूल! धूपश्चैवा-
षराजितः । नैनेद्यं गुड़पूपाश्च तथैवेक्षुरसः स्मृतः ।
तेनैव ब्राह्मणान् स्नातो भोजयेच्च स्वशक्तितः । कुशोदकं
प्राशयेच्च स्नानञ्च कुरु सिद्धये । तृतीयपारणस्यान्ते
माशे मासि महामते! । भोजनं तत्र दानञ्च द्विगुणं
समुदाहृतम् । देवदेवस्य पूजा च कर्त्तव्या शक्तितो
बुधैः । रथस्य चापि यानन्तु रथयात्रा च सुव्रत! ।
रथस्य प्रा प्रहेतोर्वै कर्त्तव्या विमवे सति । दानं कार्य्य-
रथस्येह यथोक्तं विमवे सति । इत्येषा कथिता पुत्र!
रथाङ्कसप्तमी शुभा । सप्तमीत्ति महाख्याता महापुण्या
महादया । यामुपोष्य धनं पुत्रान् कीर्त्तिं विद्यां
समश्नुते” ।
  • महेश्वरव्रतं विष्णुधर्मोत्तरे “शुक्लपक्षादथारभ्य फास्गुनस्य
नराधिप! । पूजयेत् तु चतुर्दश्यां सोपवासो प्रहेश्व-
रम् । गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा । व्रतान्ते
गां तथा दत्त्वा वह्निष्टोमफलं लभेत् । एतदेव
व्रतं कृत्वा शुक्लपक्षे तु वत्सरम् । पौण्डरीकमवाप्नोति
कुलमुद्धरति स्वकम् । चतुर्दशाद्वयञ्चेतत् कृत्वा संवत्-
सरं नरः । मासि भासि यथाशक्त्या सर्वान् कामा-
नयाप्नुते । आसाद्य कामांश्च महेश्वरस्य तत्रापि कालं
सुचिरहु राजन्! । सायुज्यमायाति महेश्वरस्य सर्वे-
श्वरस्यापतिमस्य तस्य” ।
  • महेश्वराष्टमीव्रतं विष्णुधर्मोत्तरे “शुक्लपक्षात्तथारभ्य सौम्या-
ष्टम्यां नराधिप! । पूजयेत् सोपवासस्तु देवदेवं त्रि-
कोचनम्” । सौम्याष्टम्यां गार्गशीर्षाष्टव्याम् “लिङ्गे
वाप्यथ चार्च्चायां कमले यदि वा स्थले । घृतक्षीराभि-
षेकेन स्वातेन विविधेन वा । गन्धमाल्यनमस्कारदीप-
धूपान्नसम्पदा । गीतेन नृत्यवाद्येन वह्निमन्तर्पन च ।
ब्राह्मणानाञ्च पूजाभिर्यथावन्मनुजोत्तम! । व्रतावसाने
दत्त्वा तु तथा धेनुं पयस्विनीम् । पोण्डरीकमवाप्नोति
स्वर्गलोकञ्च गच्छति” ।
  • महोत्सवव्रतं स्कन्दपु० “शालिपिष्टभवैर्द्दीपैः पञ्चभिर्नवमि-
स्तथा । कुर्य्यादारात्रिकं शम्भोः स्वर्णपात्रैः समुज्ज्यलैः ।
विचित्रवस्त्रपूजा च कर्त्तव्या महती शिवे । पुष्पमण्ड-
लिकां चित्रां सवितामोज्ज्वलो शुभाम् । महोत्सवेन
विधिवद्वेयं तूर्य्यरवेण च । विविधैर्भक्ष्यभोज्यैश्च
नैवेद्यञ्जोपकल्पयत् । सम्यक् सम्पादनीया स्यात् रथयात्रा
पिनाकिनः । प्रेमणीयैस्तथा नृत्यैर्वाद्यैर्यन्तैश्च शोभनैः ।
पूजयेच्छिवभक्ताश्च विप्रानन्यांश्च भक्तितः । प्रीयतां शिव
ईत्युक्त्वा नक्तं भुञ्जीत च स्वयम् । वर्षेवर्षे प्रकर्त्तव्यं
एतच्चैत्रोत्सवं महत् । शिवभक्तैस्तथान्यैश्च कीर्त्ति-
श्रेयोविवृद्धये” ।
  • माघमासव्रतं भविष्योत्तरे “एतस्मात् कारणात् सुभ्रु!
माघस्नानं विशिष्यते । अहन्यहनि दातव्यास्तिलाः शर्क-
रयार्न्विताः । त्रिमागस्तु तिलानां हि चतुर्षः शर्करा-
ग्वितः । अनभ्यङ्गो वरारोह सर्वं मासं नयेद् व्रती ।
सूर्यो मे प्रीयतां देवो विष्णुमूर्त्तिर्निरञ्जनः । माघाव-
साने तभगे! षड्रसं सम्पदापयेत् । दम्पत्योर्वाससी शुक्ले
सप्तधान्यसमन्वित । त्रिंशत्तु मोदका देयाः कृतास्तिल-
मयाः शुभः । मरिचैर्निर्मिताः श्लक्ष्णाः नारङ्गाणि च
दापयेत्” ।
  • नातृनबमीव्रतं भविष्योत्तरे “मातरश्चैव संपूज्याः यथा
शक्त्या प्रयत्नतः । तदग्रे क्षिवभक्तांस्तु यतावार्य्यं विगे-
ततः । एवं कृत्वा विषानेन सर्वत्र जयमाप्नुयात्” ।
पृष्ठ ५०३७
इत्युपक्रमे मातृपामान्यमिधाय उक्तम् “नवरयां
पूचयेद् यस्तु माति चाश्वयुजे सदा । अखण्डितप्रभावस्तु
भवते नात्र संशयः” ।
  • मातृव्रतं वराहपु० “मातॄणामष्टमी दत्ता ब्रह्मणा तिथि-
रुत्तमा । एताः क्षमापयेद्भक्त्या निराहारो नरः
सदा । तस्य ताः परितुष्टास्तु क्षेमारोम्यं ददत्यपि” ।
  • मार्गशिर्षव्रतां महाभारते “मार्गशीर्षन्तु यो मासमेक-
भक्तेन संक्षिपेत् । भोजयेत्तु द्विजान् भक्त्या मुच्यत
व्याधिकिल्विषैः । सर्वकल्याणसम्पूर्णः सर्वदुःखविव-
र्जितः । उपोष्य व्याधिरोहितो वीय्यवानभिजायते ।
कृपिभागी बहुवनो बहुधान्यश्च जायते” ।
  • मार्त्तण्डसप्तमीव्रतं भविष्यपु० “मार्त्तण्डसप्तमीं कृष्ण!
अथान्यां वच्मि तेऽनथ! । पौषमासे सिते पक्षे सप्तम्यां
समुपोषितः । सम्यक् संपूज्य मार्त्तण्डं मार्त्तण्ड इति
वै जपन् । पूजयेत् कुतपं भक्त्या श्रद्धया परयान्वितः” ।
कुतपः सूर्य्यः “पुष्पधूपोपहाराद्यैरुपवासैः समाहितः ।
मार्त्तण्डेति जपञ्चाम पुनस्तद्गतमानलः । विप्राय
दक्षिणां दद्यात् यथाशक्त्या सुगज्वज । द्वितीयेऽह्नि
पुनस्तात! तत्रैवाभ्यर्च्चनं रवेः । तेनैव नाम्ना संबोध्य दत्त्वा
विप्राय दक्षिणाम् । ततो भुञ्जीत गोदेहसमूद्भूतसम-
न्वितम् । एवमेवास्विलान् मासान् उपोष्य प्रयतः
शुचिः । दद्याद्गवाह्निकं विद्वान् प्रतिमासञ्च शक्तितः ।
पारिते च पुनर्वर्षे यथापूर्वं गवाह्निकम् । दत्त्वा
परगवे भूयः शृणु यत् फलमश्नुते । स्त्रर्णशृङ्ग्यः पञ्च-
गावः षष्ठञ्च वृषभन्नरः । प्रतिमासं द्विजातिभ्यो दत्त्वा
यत् फलमश्नुते । तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः ।
तञ्च लोकमवाप्नोति मार्त्तण्डो यत्र तिष्ठति” ।
  • मासव्रतं देवीपु० “मार्गे रसोत्तमं दद्याद् घृतं पौर्षे
महाफलम्” । रसोत्तमं लवणम् “तिलान्माघे मुनिश्रेष्ठ!
सप्त धान्यानि फाल्गुने । विचित्राणि च वस्त्राणि चैत्रे
दद्याद् द्विजातये । वैशाखे द्विज! गोधूमान् ज्यैष्ठे
नोयभृतं घटम् । आषाढ़े चन्दनं देयं सकर्पूरं महा
फलम् । नवनीतं नभोमासि छत्रं प्रौष्ठपदे मतम् ।
गुड़शर्करवर्णासान् लड्डुकानाश्विने मुने! । दीपदानं
महापुण्यं कार्त्तिके यः प्रयच्छति । सर्वकामानवाप्नोति
क्रमेण तु उदाहृतम्” ।
  • मासोपवासव्रतं विष्णुधर्मोत्तरे “आश्विगस्यामले पक्षे
एकादश्यामुपोषितः । व्रतमेतत् तु गृह्नीयाद् यावत् त्रिं-
शद्दिनामि तु । वासुदेवं समुद्दिश्य कार्त्तिकं सकलं नरः ।
मासञ्चोपवसेद्यस्तु स मुक्तिफलभाग्भवेत् । अच्युत-
स्यालये भक्त्या त्रिकालं कुसुमैः शुभैः । मालतीन्दी-
वरैः पद्मैः कमरौः समुगन्धिभिः । कुङ्कुमोशीरकर्पू-
रैर्बिलिप्य वरश्चन्दनैः । नैवेद्यधूपदीपाद्यैरर्चयेत
जनार्दगम्” इत्यादि ।
  • मुक्तिद्वारसप्तमीव्रतं मत्स्यपु० “अश्वमेधादियज्ञानां लक्ष-
कोट्यर्बुदैरपि । तत् फलं लभ्यते पुंसा मुक्तिद्वारव्रतेन
यत् । योगमार्गमनभ्यस्य यथेष्टाचारवानपि । अथ
युक्तो मृतश्चापि व्रतेनानेन मुच्यते । सप्तमीं प्राप्य
हस्तेन दन्तधावनमाचरेत् । नमोर्क्कायेत्युदीर्य्याथ अर्क्क-
काष्ठेन भक्तिमान् । अथ वा पुष्य ऋक्षेण जलेनाप्ला-
वनं तथा । हुत्वा पवित्रं देवानां मन्त्रेणाकसमित्
स्थितम् । रक्तचन्दनपद्मन्तु लिखेद्गोमयवारिणा । प्रा-
ङ्गणे षोड़शदलं समर्भदलकर्णिकम्” इत्यादि ।
  • मुखव्रतं पद्मपु० “मुखवासं परित्यज्य समान्ते गोप्रदो
भवेत् । यक्षाधिपत्यमाप्नोति मुखव्रतमिहोच्यते” ।
  • मुनिव्रतं विष्णुधर्मोत्तरे “सप्तम्यां मुनिशार्दूल! इष्टानभ्यर्च्च-
येन्मुनीन् । स्वाध्यायफलमाप्नोति तद्धामफलमश्नुते” ।
  • मृगशीर्षव्रतं पद्मपु० “श्रावणे मासि कृष्णे च शङ्करः प्रथ-
मेऽहनि । त्रिपर्वणा त्रिशल्येन त्रिमुखेन शरेण च ।
मुखानि त्रीणि चिच्छेद यज्ञस्य मृगरूपिणः । तैः
शिरोभिस्तपस्तप्तं वरः प्राप्तोऽथ शङ्करात्” । त्रिशल्येन
त्रिमुखेन शल्यरूपत्रिमुखेनेत्यर्थः । मृगरूपिणस्त्रिमुख-
मृगरूपिण इत्यर्थः “स्त्रीभिः पूज्यानि तानीति
न मनुव्यैः कदाचन । मृगशीर्षं ततः कृत्वा लिङ्गाकारन्तु
मृण्मयम् । क्षीरेण तपनीयं वै पूजनीयं यथाविधि ।
अर्घैः पुष्पेश्च धूपैश्च नैवेद्यैर्विविधैरपि । याकैः सौवर्च्चला-
भिश्च कृतैः पिष्टमयैः शुभैः” । सौवर्चलाभिः अतसी-
मिश्रपिष्टविकृतिभिः । “कांस्यभाजनवाद्यैश्च पश्चात्
कार्व्यञ्च भोजनम्” ।
  • मेघपालीतृतीयाव्रतं भविष्यपु० “अश्वयुकशुक्लपक्षे च
तृतौयायां युधिष्ठिर! । मेघपालो प्रदातव्या भक्त्या
स्त्रीभिर्नृभिस्तथा । अर्च्यैः विरूढैर्गोधूमैः सप्तधान्य-
समन्वितैः । तिलतण्डुलमिश्रैश्च दातव्या धर्मलिप्मुभः” ।
युधिष्ठिर उवाच “कीदृशी सा भवेद्वल्ली मेघपाली
जनार्दन! । लक्षणं कीदृशं तस्याः को मन्त्र इति मे
षद” । श्रीकृष्ण उवाच “ताम्बूलसदृशैः पत्रैरक्ता वल्ली
पृष्ठ ५०३८
समञ्जरी । वाटीषु या न मार्गेषु प्रेक्षिता पर्वतेषु
वा । यत्र वा दृश्यते राजन्! शुचौ देशे समुत्थिता ।
मेघपाली समभ्यर्च्या फलैः पुष्पैस्तथाक्षतैः । खर्जूरैर्नालि-
केरैश्च नारङ्गैर्दाड़िमैस्तथा । वीजपूरैः कपित्थैश्च सप्त-
धान्यैर्विरूदकैः” ।
  • मौनव्रतं स्कन्दपु० “नभस्यत्र व्यतिक्रौन्ते नभस्ये च प्रव-
र्त्तिते” । नभाः, श्रावणः, नभस्यो भाद्रपदः तौ चात्र
पूणिंमान्तौ ग्राह्यौ । “एवं कालक्रमेणैव श्रावणी
पूर्णिमा गता । तद्दिनं प्राप्य विप्रेणेत्यग्रेणाभिधा-
नात् । “व्रतमेतत् तु कर्त्तव्यं षोडशैव दिनानि तु ।
एतच्छ्रुत्वा ततो देवी प्रहृष्टा वाक्यमब्रवीत्” । पार्वत्यु-
वाच “किं विधानं पुरा प्रोक्तं व्रतं मौनव्रतात्मकम् ।
तत्समस्तं समाचक्ष्व प्रसादं कुरु मे प्रभो!” । ईश्वर
उवाच “तद्विनञ्चव सम्प्राप्य सभार्य्यः सह बान्धवैः ।
गत्वा प्रभातसमये स्नानार्थं जलसन्निधौ । तड़ागे वा
नदीदेशे गत्वा प्रस्रवणेऽथ वा । स्नानं कार्य्यं तदा
सर्वैः शिवध्यानपरायणैः । दूर्वाकाण्डं सुसंगृह्य षोड़-
षग्रन्थिसयुतम् । तत्सूत्रञ्च करे न्यस्य स्त्रिया वामे
नृदक्षिणे । एवंविधानं कर्त्तव्यं यावत् स्यात् प्रति-
पद्दिनम् । तद्दिने चैव संप्राप्ते समाप्त्यर्थं व्रतस्य तु ।
मौनेनैवानयेत्तोयं मौनात् गौधूमपेषणम् । मौनेनैव च
कर्त्तव्यं नेवेद्यं भोजनादिकम् । सर्वोपस्करमादाय गत्वा
जलसन्निधौ । स्नानं कार्य्यं तदा तत्र नित्य-
कर्म ततः परम् । देवर्षिमनुजानाञ्च पितॄणाञ्चैव तर्प-
णम् । पश्चाद्देवाधिदेवेशं मन्त्रैः सम्पूजयेत् ततः” ।
यमचतुर्थीव्रतं कूर्मपु० “भरण्यान्तु चतुर्थ्यान्तु शनैश्चरदिने
यमम् । पूजयन् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः” ।
  • यमद्वितीयाव्रतं भविष्योत्तरे “कार्त्तिके शुक्लपक्षस्य द्वितीयायां
युधिष्ठिर! । यमो यमुनया पूर्वं भोजितः स्वगृहे
सदा । द्वितीयायां महोत्सर्गे नारकीयाश्च तर्पिताः ।
पापेभ्योऽपि विमुक्तास्ते मुक्ताः सर्वनिबन्धनात् । भ्रंशि-
ताश्चातिसन्तुष्टाः स्थिताः सर्वे यदृच्छया । तेषां महोत्-
सवी वृत्तो यमराष्ट्रमुखावहः । अतो यमद्वितीया सा
व्रोक्ता लोके युधिष्ठिर! अस्यां निजगृहे पार्थ! न
भोक्तव्यमतोबुधैः । स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टि-
वर्द्धनम्” ।
  • यमव्रतं भविष्यपु० “दशम्यां यमराडिष्टः सर्वव्याधिहरो
ध्रुवम् । मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः ।
पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिर्थीश्वरः” । इदं व्रतं वैश्वा-
नरप्रतिपद्व्रतवद्व्याख्येयम् । कूर्मपु० “उपोषित-
श्चतुर्दश्यां कृष्णपक्षे समाहितः । यमाय धर्मराजाय
मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय
च । प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ।
स्नात्वा नद्याञ्च पूर्वाह्णे मुच्यते सर्वपातकैः” । महाभारतं
“यजिष्णुः पञ्चमीं षष्ठीं यमान् यो भोजयेद् द्विजान् ।
अष्टमीमथ कौन्तेय! शुक्लपक्षे चतुर्दशीम् । उपोष्य
व्याधिरहितो रूपवानिति जायते” । विष्णुधर्मोत्तरे
“यत्र कचन नद्याञ्च यत्र कृष्णा चतुर्दशी । अनर्काभ्यु-
दिते काले देवं सम्पूजयेद यमम् । धूम्रवर्णं चित्रगुप्तं
कालपाशञ्च यादव! । मृत्युं स्वर्गञ्च धर्मज्ञं गन्धमाल्यान्न-
सम्पदा । यमोदधार इत्युक्त्वा तिलांश्च जुहुयात् ततः ।
नमो यमायेति तथा स्त्रीशृद्रस्य विधीयते । कृशरं
भोजयेद्विप्रान् यथाशक्ति नरोत्तमः । दद्याद् व्रतान्ते
विप्राय तथैब च पयस्विनीम् । कृत्वा व्रतं वत्सरमेत-
दिष्टं न याति राजन्! नरकं मनुष्यः । पापक्षय
प्राप्य स याति नाकं मानुष्यमासाद्य स धर्मवान् स्यात्” ।
  • यमादर्शनत्रयोदशीव्रतं भविष्योत्तरे पूर्वाह्णे मार्गशीर्षादौ
वर्षमेकं निरन्तरम् । त्रयोदश्यां सौम्यदिने सूर्य्या-
ङ्गारकवर्जिते । मम नाम्रा द्विजानष्टौ पञ्च चैव
समाह्वयेत् । पुराणवेदतत्त्वज्ञान् स्वाचारांस्तन्त्रदर्शनान् ।
सूर्य्यैकशरणात् साधून् सर्वभूतहिते रतात् । शुचौ
देशे शुभे पट्टे प्राङ्मुखानुषवेशयेत् । अन्तर्वासोयुतान्
भक्त्या यत्नेनाभ्यञ्जयेत तान् । त्रयोदश्यां त्रयोदश्यां
ये करिष्यन्ति भूतले । एकभक्तेन नक्तेन उपवासेन वा
पुनः । यमादर्शननाम्ना वै व्रतं सर्वव्रतोत्तमम् । ते
सर्वपापनिर्मुक्ता विमानेनार्कबर्चसा । यास्यन्तीन्द्रपुरीं
रम्यामप्सरोगणसंवृताम्” ।
  • युगादिव्रतम् आदिपु० “वैशाखस्य तृतीयायां श्रीसमेतं
जगद्गुरुम् । नारायणं पूजयेथाः पुष्पधूपविलेपनैः ।
वस्त्रालङ्कारसम्भारैर्नैवेद्यैर्विविधैस्तथा । ततस्तस्याग्रतो
धेनुर्लवणस्याढ़केन तु । कार्य्या कुरुकुलश्रष्ठ! चतुर्भागेण
वत्सकम् । अविचर्मोपरि स्थाप्य कल्पायत्वा विधानतः ।
शास्त्रोक्तक्रमयोगेन ब्राह्मणायोपपादयेत् । श्रीधरः
श्रीपतिः श्रीमान् श्रीशः संप्रीयतामिति । अनेन
विधिना दत्त्वा धेनुं विप्राय भारत! । गोसहस्रप्रदानस्य
फलं प्राप्नोत्यसंशयम् । तथैक कार्त्तिके मासि नवम्यां
पृष्ठ ५०३९
नक्तभुग् नरः । स्नात्वा नद्यां तड़ागे वा देवस्वातेऽथ वा
धुनः । उमामहायं वरदं नीलकण्ठमथार्चयेत् । पुष्प-
धूपादिनैवेद्यैर्दीपगन्धादिभिस्तथा । धेनुं तिलमयीं
दद्यात् पुराणोक्तविधानतः । अष्टभूर्त्तिर्नीलकण्ठः
प्रीवतामिति कीर्त्तयेत् । तदनु प्राप्यते पुण्यं पार्थ!
न केन वर्ण्यते । दत्त्वा तिलमयीं धेनुं शिवलोकमवा
प्नुयात् । त्रयोदशी नभस्ये या पितृन् तत्र समर्चयेत् ।
पितन् पायसदानेन सुमनोभिर्घृतेन च । भोजयेद्
ब्राह्मणान् भक्त्या वेदवेदाङ्गपारमान् । पितॄनुद्दिश्य
दातव्या सवत्सा कांस्यदोहना । प्रत्यक्षा गौर्महाभाग!
नरुणी सुपयस्विनी । पिता पितामहश्चैव तथैव
प्रपितामहः । मातामहप्रभृतयस्तथैवात्र त्रयो मम ।
प्रीयन्ताङ्गोप्रदानेन इति दत्त्वा विसर्जयेत् । कृतेनानेन
राजेन्द्र! यत् पुण्यं प्राप्यते पुनः । तदन्येन न शक्यन्तु
वक्तुं वर्षशतैरपि । पुत्रांश्च पौत्रांश्च धनं सर्वं सुमह-
दीप्सितम् । इहैवाप्नोति पुरुषः परुत्र च पराङ्गतिम् ।
षञ्चदस्यान्तु भावस्य पूजयित्वा पितामहम् । गायत्र्या
सहित देवं वेदवेदाङ्गभूषितम् । नवनीतमयीं धेनुं
फलैर्नानाविधैर्युताम् । सहिरण्या सवत्सान्तु ब्राह्मणाय
निवेदयेत् । कीर्त्तयेत् प्रीयतां मेऽद्य वद्मयोनिः पिता-
महः । यत्स्वर्गे यच्च पाताले यन्मर्त्त्ये किञ्चिद्दुर्लभम् ।
तदवाप्नोत्यसन्दिग्धं पद्मयानेः प्रसादतः । यानि चान्यानि
दानानि दीयन्ते सुवहून्यपि । युगादिषु महाराज!
अक्षयाणि भवन्ति हि । वित्तहीनः स्वशक्त्या यो
ददाति स्वल्पकं वसु । तदप्यक्षयतां याति नात्र कार्य्या
विचारणा” ।
  • युगावतारव्रत भविष्यपु० “मासि प्रोष्ठपदे यत् तु कृष्ण-
पक्षे त्रयोदशी । अवतीर्णं युगं तस्यां त्रेतायान्तु
समाहित!” । त्रेतायां विनिकृत्तायां एतस्यां तिथौ युग
मवतीर्णमिति सम्बन्धः अर्थाद् द्वापरमिति लभ्यते
“गोमूत्रं गामयं दूर्वां समालभ्य च मृत्तिकाम । स्नाया-
द्ध्रदे तड़ागे वा तिथौ तस्यां समाहितः । कृतन्तेन
भवेच्छाद्धं गयायान्तु न संशयः । युमादौ यस्तिलो-
कशं स्नापयेद्गण्ड़ध्यजम् । तक्षारजलैः पुण्यैः स
शच्छेद्वैष्णवीं पुरीम् । स्वापिताऽथ विलिप्तोऽथ पूजितोथ
नमस्कृतः । युगादौ युगकर्त्ता तु नृणां मुक्तिप्रदो हरिः ।
व्रते वै सर्वयत्नेन युगादौ जगतीपतिं । पूजतीयो जनै
र्भक्त्य सर्कदुःखहरो हरिः” ।
  • योगव्रतं मविष्योत्तरोक्तम् “विष्कुम्भादिषु यागेषु भवेदेका-
शनो नरः । यो ददाति क्रमात् पार्थ! घृततैलपलैक्ष-
वम् । यवगोधूमवरणं निष्पावाच्छालितण्डुलान् ।
लवणं दधि दुस्धयु वस्त्रं कनकमेव च । कम्बलं गोवृषं
छत्रमुपानद्युगलं तथा । कर्पूरं कङ्कुमञ्चैव चन्दनं
कुसुमानि च । लौहं ताम्रञ्च कास्यञ्च रोप्यञ्चोति युधि-
विर! । स्नातः स्वशक्त्या विधिवत् सर्वपापैः प्रसुच्यके ।
न वियोगमवाप्नोति योगव्रतमिदं स्मृतम्” ।
  • योगेश्वरद्वादशीव्रतं धरणीव्रते “शृणुष्व भक्तितो राजन् ।
कार्त्तिकैकादशीं तथा । उपोष्य बिधिना येन सर्वासां
प्राप्नुतात् फलम् । प्राग्विधानेन संकल्प्य तद्वत् स्नानं
समाचरेत् । विलोमेनार्चयेद्देवं नारायणमकल्मषम्”
  • रक्षाबन्धनपौर्णमासीव्रतं भविष्योत्तरे “घवावृतेऽम्बगे पार्थ!
शाद्बले धरणीतले । संप्राप्ते श्रावणे मासि पौर्ण-
मास्यां दिनोदये । स्नानं कुर्वीत मतिमान् श्रुतिस्मृति-
विधानतः । ततो देवान् पितृंश्चैव तर्षंयेत् परमाम्भसा ।
उपाकर्मादि चैवोक्तमृषीणाञ्चैव तर्षणम् । कुर्वीग ब्रा-
ह्मणः श्राद्धं वेदानुद्दिश्य सुब्रत! । शूदाणां मन्त्राहितं
स्रानं दानञ्च शस्यते । ततोऽपराह्णसमये रक्षापोटलिका
शुभाम् । कारयेदक्षतैः शस्तैः सिद्धार्थैर्हेमभूषितास् ।
षस्त्रैर्विचित्रैः कार्पासैः क्षोमैर्वा मलवर्जितैः । दूर्वावर्ण-
सहितैश्चित्रा दुरितोपशमनाय । उपलिप्ते गृहोद्देशे
दत्तचतुष्के न्यसेत् कुम्भम् । पीठ दत्त्वोपरी विशेत्
राजामात्यैर्युतश्च सुमुहूर्त्ते । वेश्याजनेन सहितो
मङ्गलशब्दैः समुच्छितैश्चिह्नैः । रक्षाबन्धः कार्य्यः
शान्तिध्वनिना नरेन्द्रस्य । देवद्विजातिशस्त्राण्यस्त्रै
रक्षाभिरर्चयेत् प्रथमम् । तदनु पुरोधा नृपतेः रक्षां
बध्रीत मन्त्रेण” इत्यादि ।
  • स्थनवमीव्रतं भविष्यपु० “कृत्वैवाश्वयुजे मासि कृष्णपक्षे
नराधिप! । नवम्यामुपवासन्तु दुर्गादेवीं प्रपूजयत् ।
पुष्पधूपोपहारैस्तु ब्राह्मणानां च तर्पणैः । पूजयित्वा
रथं कृत्वा नानावस्त्रापशोभितम् । शोभितं ध्वज-
मालामिः छत्रचामरदर्पणैः । मानापुष्पस्रजामिश्च
सिंहैर्युक्तं मनोरमम् । कृत्वा स्वर्णमयीं दुर्ता महिषा-
सनशोभिताम् । विन्यस्य रथमध्ये तु पूजयेत्
कृतलक्षणम् । तं रथं राजमार्गेण शङ्खभेर्य्यादिनिस्वनैः ।
नवम्यां भ्रामयित्वा तु नयेत् दुर्गालयं नृप! । तत्र
जापरपूर्वन्तु प्रदीर्पाद्युपशोभितम् । नानाप्रक्षेपकैर्वीर!
पृष्ठ ५०४०
भृत्यमानैश्च बालकैः । जागरं कारयेत्तत्र पूजयानश्च
चण्डिकाम् । प्रभाते स्नपनं कृत्वा तद्भक्तानाञ्च
भोजनम । रथं शोभासमायुक्तं भगवत्यै निवेदयेत्”!
  • रशमप्तमीव्रतं भविष्योत्तेरे “शुक्लपक्ष तु माघस्य षष्ठ्यामामन्त्र-
एत् गृही । स्नानं शुक्लतिलैः कार्य्यं नद्यभावे तु कुत्र-
चित् । विमले सलिले राजन्! विधिवद् वर्णधर्मतः ।
देवादीन् पूजयित्वा तु मत्वा सूर्य्यालयं ततः । सूर्य्यं
सम्यक् नमस्कृव्य पुष्पधूपाक्षतैः शुभैः । आगत्य भवनं
पश्चात् पञ्च यज्ञांश्च निर्बपेत् । संमोज्यातिथिभृत्यांश्च
बालवृद्धाश्रितान् स्वयम् । विद्यमाने दिनेऽश्नोयाद्वाग्-
यतस्तैलवर्जितम् । रात्रौ विप्रं समाहूय विधिज्ञं
येदपारगम् । संपूज्य नियमं कुर्य्यात् सूर्य्यमाधाय
चेतसि । सप्तम्यान्तु निराहारा भूत्वा भोगविवर्जितः ।
भक्ष्येऽष्टम्या जगन्नेत्र निर्विघ्नं तत्र मे कुरु! । इत्यु-
च्चार्य्य नृपश्रेष्ठ! तोयं तोयेषु निक्षिपेत् । ततो
विसर्ज्य तं विप्रं स्वपेद्भूमौ जितेन्द्रियः । ततः प्रातः
समुत्थाय कृतावश्यः शुचिर्नरः । कारयित्वा रथं दिव्यं
किङ्किणीजालमालिनम । सर्पोपस्करसंयुक्तं रत्नैः
मर्वाङ्गचित्रितम् । काञ्चनं राजतञ्चाथ हयसारथि-
संयुतम् । ततो मध्याह्नसमये कृतस्नानादिको व्रती ।
अतीर्ष्य गवीक्ष्यमाणस्तु पाषण्डालापव्र्जितम् ।
सौरसृक्तं जपन् प्राज्ञः समागच्छेत् समालयम्” ।
  • रथाआङ्गसप्तमीव्रतं भविष्यपु० “माघे मासि महादेव! सिते
पक्षे जितन्द्रियः । षष्ठ्यामुपोषितो भूत्वा गन्धपुष्पोप-
हारलैः । पूजयित्वा दिनकरं रात्रौ तम्याग्रतः स्वपेत् ।
विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् । ब्राह्मणान्
भोजयेद्भक्त्या वित्तशाठ्यं विवर्जयेत् । खण्डवेष्टैर्मोदकैश्च
तथेक्षुगुड़पूपकैः । प्रथमं वत्सरे पूर्णे सप्तम्यां कारयेद्
वुधः । देवदेवस्य वै यात्रां पूर्वोक्तविधिना तथा ।”
पर्वोक्तः विधिना नानातिथिप्रकरणस्यितरथयात्राविधि-
नत्यर्थः । “कृच्छ्रपादं व्रतं कुर्य्याद्रथारूढ़ं रवि
तथा । पश्येद्भेक्त्या जगन्नाथं स याति परमां गतिम् ।
यतीयायामेकभक्तं चतुर्थ्यां नक्तमुच्यते । अयाचितन्तु
पञ्चम्यां षष्ठ्याञ्चैव उपोषितः । सप्तम्यां पारणं कुर्य्यात्
दृष्ट्वा देवं रथेस्थितम् । पूजयित्वा च विधिना भुक्त्या-
टेवं त्रिलौचनम् । सौवर्णन्तु रथं कृत्वा ताम्रपात्रो
परिस्थितम । रथमध्ये न्यसेद्व्योम पूजितं
मणिभिर्नवभिः” ।
  • रम्भात्रिरात्रव्रतं स्कन्दपु० “शुक्लपक्षे त्रयोदश्यां मासि
ज्यैष्ठे च सुव्रत! । त्रिरात्रं व्रतमुद्दिश्य भक्त्या ता
कदलीं शुभाम् । स्नात्वा चैव शुचिर्भूत्वा व्रती सिश्चे-
द्बहूदकैः । सूत्रेण वेष्टयेद्भक्त्या गन्धपुष्पादि दापयेत् ।
रात्रौ कुर्वीत नक्तं च अवदमेकं समाहितः । तथैव
कदलीवृक्ष नित्यमेव प्रसेचयेत् । ज्यैष्ठे मासि । ततः
प्राप्य द्वादश्याञ्चैव सुव्रत! । नद्यां वाथ तड़ागे वा
शिवं संपूज्य चाक्षतैः । म्नात्वा च पूजयेन्नन्दिन्नुमा-
देहार्द्धधारिणम् । एकभक्तं ततः कृत्वा नियमं
कारयेत् व्रते । भाक्ष्येऽह त्रिदिनं लङ्घ्य सम्यगिष्ट्वा
सरश्वरोम् । त्वत्प्रसादात् ब्रतं मेऽस्तु निर्विघ्नेन महेश्वरि ।
रम्भायाः स्थण्डिलं कृत्वा विचित्रञ्च सुशोभवम ।
रम्भाया निकटे स्थित्वा गीतवाद्यसमन्वितम् । मण्डपं
कारयेत्तत्र पुष्पमालाविभूषितम् । वितानेन च सयुक्त
सर्वशोभासमन्वितम् । मध्ये कुर्वीत कदलीं फल ष्यादि
संतयुताम् । राजतीं शोभनाकारां जातरूपफला-
चिताम् । वस्त्रयुग्मन्ततो दद्यात् सर्वालङ्कारभूषिताम्” ।
  • रविव्रतं भविष्यपु० “माघमासि समुद्युक्तस्त्रिसन्ध्यं योऽर्चय-
द्रविम् । भवेत् षाण्मासिकं पुण्यं मासेनैव न संशयः” ।
  • रसकल्याणिनीतृतीयाव्रत ब्रह्मपु० । “अन्यामपि प्रवक्ष्यामि
तृतीयां पापनाशनीम् । रसकल्याणिनीमेतां पुरा-
कल्पविदो विदुः । माघमासे तु सम्प्राप्य तृतीयां
शुक्लपक्षतः । प्रातर्गव्येन पयसा तिलैः स्नानं समाच-
रेत् । स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च । गन्धो-
दकेन च पुनः पूजनं कुङ्कुमेन वै । दक्षिणाङ्गानि
सम्पूज्य ततो वामानि पूजयेत्” । “अनेन विधिना
देवीं मासि मासि सदार्चयेत् । लवणं वर्जयेन्माघे फाल्-
गुने च गुड़ं पुनः । तवराजं तथा चैत्रे वर्ज्यञ्च
मधु माधवे । पानकं ज्यैष्ठमासे तु तथाऽऽषाढ़े च
जीरकम् । श्रावणे वर्जयेत् क्षीरं दधि भाद्रपदे तथा ।
घतमाश्वयुजे तद्वदूर्जे वर्ज्याथ सर्जिका” । ऊर्जे,
कार्त्तिके । सर्जिका, रसाला लोके शिखरिणीतिप्र-
सिद्धा । “धान्यकं मार्गशीर्षे तु पौषे वर्ज्याथ शर्करा ।
व्रतान्ते करकं पूर्णमेतेषां मासि मासि च । दद्याद्वि-
कालचेलायां भक्ष्यपात्रेण संयुतम्” ।
  • राथवद्वादशीव्रतं धरणीव्रते “ज्यैष्ठमागेष्वेवमेव संकल्प्य
विधिना नरैः । अर्चयेत् परम देवं पुष्पैर्नानाविधैः
शुभैः । नमीराघवावेत्युक्त्वा प्रादौ पूर्वं समर्चयेत् । एव-
पृष्ठ ५०४१
मभ्यच्यं विधिवत् धृतकुम्भं प्रकल्पयेत् । प्राग्वद्वस्त्रयुग
च्छन्नो सौवर्णौ रामलक्षणौ” इत्यादि ।
  • राजराजेश्वरव्रत कालोत्तरे “बुधस्वात्यात्मिकोयोगो
यदाष्टम्यां प्रजायते । उपोषितस्तु विधिना महाम्नानपुरः
सरम् । सम्पूजयेद्विरूपाक्षमङ्गरागं चतुःसमम् ।
महावर्त्तिद्वय दार्घदीपं माष्टोत्तरं शतम् । लघुकुङ्कुमधू-
पन्तु सितपुष्पैस्तु पूजयेत् । खण्डस्वाद्यान्यनेकानि नैवे-
द्यानि प्रकल्पयेत् । आचार्य्याय शिवस्याग्रे ग्रैवेयमुकु-
टाटिकम । रसनाकुण्डले चैव कङ्कणं मुद्रिकाद्वयम् ।
वाहनन्तु गजञ्चैव तदमावाद्धयोत्तमम् । सम्पूज्य परया
भक्त्या अन्नञ्च शर्कराघृतम् । राजराजेश्वरपदं प्राप्नुया-
द्रोमसङ्ख्यया । राजराजेश्वरं तेन व्रतमेतत् प्रका-
शितम्” ।
  • राज्यतृतीयाव्रतं विष्णुधर्मोत्तरे “ज्यैष्ठे शुक्लतृतीयायां
निराहारो नरः शुचिः । त्रिमूर्त्तिपूजनं कृत्वा तृती-
यायां यथाविधि” । त्रिमूर्त्तिपूजनं तिसृणां मूर्त्तीनां
वायुसूर्य्यचन्द्रमसां पूजनम् । “कूपनदतड़ागाद्यैर्मिश्रैः
प्रात शुचिर्जलैः । प्रत्यूषे पूजयेद्वायुमनुलिप्ते
शुभस्थले । गन्धमाल्यनमस्कारदीपधूपान्नसम्बदा । हीमं
कुर्य्याद्यवैर्मुख्यर्वस्त्र दद्याद् द्विजातये । मध्याह्ने
पूजवेद्वह्नौ तथा सूर्य्यमतन्द्रितः । तिलांश्च जुहुयाद्वह्नौ
दद्याद्विप्रेषु काञ्चनम् । सूर्य्यास्तमनवेलायां जले चन्द्रञ्च
पूजयेत्” । जले चन्द्रमसमभिध्याय पूजयेदिति । वह्ना-
वमिध्याय मध्याह्ने सूर्य्यं प्रपूजयेदिति यावत् “घृतेन
होमं कुर्वीत रजतं दक्षिणा स्मृतम् । नक्त भुञ्जीत
धर्मज्ञः तैलहीनं ततो नरः । पूर्णं संवत्सरं कृत्वा
व्रतमेतदतन्द्रितः । स्वर्गलोकमधाप्नोति सहस्रं
परिवत्सरम् । मानुष्यमासाद्य ततो राजा भवति भूतले ।
व्रतं कृत्वा महाभाग! पूर्णं संवत्सरत्रयम् । पञ्चवर्ष-
महस्राणि स्वर्गलोके महीयते” ।
  • राज्यदद्वादशीव्रतं धष्णुधर्मे “शृणुष्वावहितो राजन्!
द्वा--टशीं राज्यदां शिवाम! यामुपोष्य नरोलोके राज्य-
माप्नोत्यकण्टकम् । मार्गशीर्षस्य मासस्य शुक्लपक्षे
नराद्विप! । दशम्यां प्रयतः शुद्धः स्नानमभ्यङ्गपूर्वकम् ।
हविष्यभुक् प्राशान्तात्मा दन्तधाव्रनपूर्वमम् । उपवासस्य
सङ्गल्पं श्वोभूतस्य तु कारयेत् । देवाङ्गणे कुशस्तोर्णा-
मेकवस्त्रोत्तरच्छदाम् । अध्यासीत महीं तत्र तां रात्रीं
संयतो नयेत् । द्वितीयेऽह्नि ततः कुर्य्यादद्भि स्नानमत-
न्द्रितः । पूजनं चैव सर्वस्य सर्वमुक्तेन कारयेत्
इत्यादि ।
  • राज्याप्तिदशमीव्रतं विष्णुधर्मोत्तरे “क्रतुर्टक्षो मुनिः सत्यः
कालः कामोवसुस्तथा । कुरवान् मनुजो विप्रो रोममा-
रश्च ते दश । विश्वेदेवाः समाख्याता दशात्मा केशयो
बिभुः । तस्य सम्पूजनं कार्य्यं सितपक्षे नराधिप! ।
आरभ्य कार्त्तिकान्मासादृशम्यां नृपपुङ्गव! । मण्डलेष्वप
पुण्येषु यदि वार्च्चासु यादव! । गन्ध, माल्य, नमस्कार,
दीप, घूपान्नः सम्पदा”! अर्च्चा प्रतिमा सा च यथास-
म्भवं सुवर्णादिधातुमयी विधेया “व्रतान्ते कनकं
दद्याद् यथाशक्ति द्विजातये । कृत्वा व्रतं केवलमेतदिष्टं
प्राप्नोति तेषां सुचिरन्तु लोकान् । तत्रोष्य लोके पुरु-
षोत्तमस्य राजा भवेद् ब्राह्मणपुङ्गवो वा” ।
  • रामनवमीव्रतं अगस्त्यसंहितोक्तम् “चैत्रै नवम्यां प्राक्पक्षे
दिवा पुष्पे पुनर्वसौ । उदये गुरुगौरांश्वोः स्वोच्चस्ये
ग्रहपञ्चके । मेषे पूषणि सम्प्राप्ते लग्ने ककंटकाह्वये ।
आविरासीत्स कलया कौशल्यायां परः पुमान् । तस्मिन्
दिने तु कर्त्तव्यमुपवासव्रतं सदा । तत्र जागरणं
कर्य्याद्रघुनाथवरो भुवि । प्रातर्दशम्यां कृत्वा तु सन्ध्याद्याः
कालिकीः क्रियाः । संपूज्य विधिवद्रामं भक्त्या वित्ता-
नुसारतः । ब्राह्मणान् भोजयेद् भक्त्या दक्षिणाभिश्च
तोषयेत् । गोभूतिलहिरण्याद्यैर्वस्त्रालङ्करणैस्तथा ।
रामभक्तान् प्रयत्नेन प्रीणयेत्परया मुदा । एवं यः कुरुते
भक्त्या श्रीरामनवमीव्रतम् । अनेकजन्मसिद्धानि
पातकानि बहून्यपि । भष्मीकृत्य व्रजन्त्येव तद्विष्णोः परमं
पदम्” ।
  • राशिव्रतं भविष्यपु० “कार्त्तिक्यां नक्तभुक् दद्यान्मेषं
हेमविनिर्मितम् । मार्गशीर्षे नृपं पश्येन्मिथुनं तद्वदेव
हि” इत्यादि । एवं क्रमेण यो दद्याद्दासीं वस्त्र-
विभूषिताम् । पौर्णमास्यां पौर्णमास्यां कौन्तेय!
बहुदक्षिणम् । एतद्राशिव्रतं नाम ग्रहोपद्रवनाशनम् ।
मर्वाशापूरकं तद्वत्सोमलोकप्रदायकम्” ।
  • रुक्मिण्यष्टमीव्रतं स्कन्दपु० “मासि मार्गशिरे कृष्णपक्षेऽ-
ष्टम्यां षड़ानन! । रुक्यिण्यष्टमिसंज्ञा सा सर्वकाम
कलप्रदा । तस्यां प्रातः शुचिर्भूत्वां नारी नियमका-
रिणी । वर्षे च प्रथमे कुर्य्यादेकद्वारं गृहं मृदा ।
गृहोपकरणं सर्वं तस्मिन्निक्षिप्य सादरम् । व्राहीन्
स्तूपप्रकारान्नैर्घृतादींश्च रसांस्तथा । वस्त्रैः नाष्ठैस्तथा
पृष्ठ ५०४२
दलैस्तित्रेस्म लिखितास्तथा । कार्य्याः पुत्तलिकास्तत्र
तासां नामानि मे शृणु! । कृष्णश्च रुक्मिणी चैव
वलदैवश्च रेवती । प्रद्युम्नश्चैव तद्भार्य्या अनिरुद्ध उषा तथा ।
देवकीवसुदेवादीन् सर्वांस्तत्र प्रकल्पयेत् । ततोऽनुपूजयेत्
सर्वानष्टधूपाक्षतादिभिः । चन्द्रोदये तु सञ्जाते दद्या-
दर्घ्यन्तदिन्दवे । “अर्घ्यं दत्त्वा तु भुञ्जीत भित्रस्वजन-
बन्धुभिः । ततः प्रभातसमये कुमार्य्यै तद्गृहं शुभम् ।
दद्यात् प्रीतंन मनसा सर्ववस्तुप्रपूरितम् । ततो द्वितीये
अव्दे तु कुर्य्याद् द्विमुखमन्दिरम् । पूर्ववत् पूरितं
कृत्वा कुमार्य्यै विनिवेदयेत् । ततस्तृतीये अव्दे तु
कृत्वा त्रिमुखसन्दिरम् । सम्पूर्णं पूर्वबत् कृत्वा कुमार्य्यै
विनिवेदयेत् । ततश्चतुर्थे अव्दे तु कृत्वा मुखचतुष्टयम् ।
पञ्चमेऽव्दे पञ्चद्वारं षष्ठे षण्मुखसंयुतम् । कृत्वा दद्यात्
प्रयत्नेन कुमार्य्यै तच्च मन्धिरम् । ततस्तु सप्तमे वर्षे कुर्य्या
दुद्यापनं शुभम् । सप्तद्वारं गृहं कृत्वा सुधाधवलितं
महत् । शय्यां तूलीञ्च यानं च छत्रीपानहमेव च । आदर्शं
चामरञ्चैव मुशलोलूखलं तथा । कांस्वभाजनपात्राणि
ताम्रस्य तु महान्ति च । नानाविधानि वस्त्राणि तथैवा-
भरणानि च । गृहोपकरणं सर्वं गृहे निक्षिप्य
सर्वतः । कृष्णञ्च रुक्मिनीञ्चैव प्रद्युम्नञ्च षनोहरम् ।
कृत्वा स्वर्णमयान् शक्त्या पीतवस्त्रावगुण्ठितान् ।
पूजयित्वोपवासेन रात्रिजागरणेन च । ततः प्रभातसमये
नद्गृहे समुपागतम् । सपत्नीकं द्विजं पूज्य वस्त्रालङ्कार-
भूषणैः । तस्मादेतद्गृहं दद्याद्गाञ्चैवाथ सुशीलिनीम्” ।
  • रुद्रव्रतं पद्मपु० “यस्त्वेकभक्तेन समां क्षिपेद्धेनुं पृषान्वि-
ताम् । धेनुं तिलमयीं दद्यात् स पदं याति शाङ्करम् ।
एतद्रुद्रव्रतं नाम पापशोकविनाशनम्” । ज्यैष्ठे पञ्च-
तपाः सायं हेमधेनुप्रदो दिवम् । यात्यष्टमीचतुर्दश्यौ
रुद्रव्रतमिदं स्मृतम्” । अष्टमीचतुर्दश्याविति च
चत्वादि दिनानि पञ्चाग्निसाधनं तच्चतुर्थे दिने सायं
सुवर्णधेनुं दद्यात्” ।
  • रूपनवमीव्रतं भविष्यपु० “पौषे मासि महाबाहो! चतुर्दन्तं
गजं शुभम् । कृत्वा रुक्ममयं भक्त्या न्यस्य पात्रे
हिरस्ममये । इन्द्राण्यै विधिवद्दद्यान्नानामणिविभूषितम् ।
एवं पूजयते भक्त्या इन्द्राणीं विधिवत्ततः । स
ऐरावतमारूढ़ः सोमलोके महीयते” ।
  • रूपसत्रव्रतं विष्णुधर्मोतरोक्तम् “फाल्गुन्यां समतीतायां
कृष्णपक्षाष्टमी तु या । समूलां तां तु संप्राप्य व्रतं
गृह्णीत मानवः । उपोषितव्यं नक्षत्रं नक्षत्रस्य च
दैवतम् । बरुणञ्च तथा चन्द्रं पूजयेद् विधिना नरः ।
पूजयेद्देवदेवञ्च भगवन्तं जनार्दनम । उपोष्याङ्गानि
देवस्य प्रयत्नेन च पूजयेत् । ततोऽग्निहवनं कृत्वा
पूजयित्वा तथा गुरुष् । उपवासस्तु कर्त्तव्यो द्वितीये-
ऽहनि पार्थिव । उपोष्य ऋक्षे विगते म्रात्वा संपूज्य
केशवम् । कृत्वाग्निहवनं शक्त्या पूजयित्वा द्विजोत्त-
मान् । हविष्यान्नञ्च भोक्तव्यं शृणु चाङ्गक्रयं मम ।
पादयोः कथितं मूलं प्राजापत्यन्त जङ्घयोः । अश्विनौ
जानुयुगलं ऊरुयुग्मे च पार्थिव । । सहिते द्वे
तथाषाढ़े गुह्यञ्च सहिते स्मृते । पूर्वोत्तरे च फाल्गुन्यौ
कृत्तिका च कटिर्भवेत् । पार्श्वयोः कुक्षियुतयोर्नक्षत्र-
त्रितयं समम् । उभे प्रोष्ठपदे राजन्! रेवती च तथा
भवेत् । उरोऽनुराधासु पृष्ठं धनिष्ठासु प्रकीर्त्तितम् ।
भुजौ ज्ञेयौ विशाखासु हस्ते प्रोक्तौ तथा करौ ।
अङ्गुल्यञ्च तथा प्रोक्ता राजसिंह! पुनर्वमौ । अश्लेषायां
नखाः प्रोक्ता ज्येष्ठायां नृप! कन्धरः । श्रवणे श्रवणौ
ज्ञेयौ ज्ञेयौ मुखं पुष्ये प्रकीर्त्तितम । दन्ताः स्वातौ
शतभिषा हनुः प्रोक्ता तथा नृपः! मघायां नासिके प्रोक्ते
मृगशीर्षे च लोचने । चित्रा ललाटे विज्ञेया
भरण्याञ्च तथा शिरः । शिरोरुहास्तथाद्रांसु व्रतस्यान्ते
नराधिप! । चैत्रशुक्लावसाने तु सत्रं परिसमाप्यते” ।
  • रूपसंक्रान्तिक्रतं स्कन्दपु० “अथान्यदपि ते वच्मि
रूपसंक्रान्तिमुत्तमाम् । संक्रान्तिवासरे स्नानं तैलं कृत्वा
चिचक्षणः । हैमपात्रे घृतं कृत्वा हिरण्येन
समन्तितम् । स्वरूपं वीक्ष्य तत्पात्रं ब्राह्मणाय निवेदयेत् ।
एकभक्तं ततः कृत्वा भक्त्या चैव समन्वितम् । व्रतान्ते
काञ्चनं दद्याद्धृतधेनुसमन्वितम् । अश्वमेधसहम्राणां
फलमाप्नोति मानवः” ।
  • रुपावाप्तिव्रतं विष्णुधर्मोत्तरे “फाल्गुन्यां समतीतायां-
प्रतिपत्प्रभृति कमात । यावच्चैत्रीं महाराज! तावत्-
स्नातो दिने दिने । बष्टिः संपूजयेद्देवं कशवं
भोगप्रायिगम् । एकमक्ताशनो नित्यमधुःशायी तथा भवेत् ।
त्रिरात्रोपोषितः पूजाञ्चैत्र्यां कुर्य्यात्तथैव च । स्वशक्त्या
रजतं दद्याद्वस्त्रयुग्यं तथैव च । रूपार्थिनो मासमिदं
मयोक्तं व्रतोत्तमं नित्यमदीनसत्त्वम् । कृत्वा तु नाकं
मनुजस्त्ववाप्य मानुष्यमासाद्य च रूपवान् स्यात्” ।
  • रोहिणीद्वादशीमतं भविष्योत्तरे “प्रकृते श्रावन्ते
पृष्ठ ५०४३
कृष्णपक्षे समाहितः । एकादश्यां शुचिर्भूत्वा स्नात्वा
सर्वौषधीजलैः । माषचूर्णेन राजेन्द्र! कुर्य्यादिन्दुरि-
काशतम । मादकांश्च तथा पञ्च घृतप्रस्थः सुनिर्मलः ।
आत्मोपयागमुद्दिश्य ततो गत्वा जलाशयम् । दुष्टयादो-
विरहितं अब्जोपेतजलैर्वृतम् । तस्यैव पुलिने रम्ये
जलान्ते गोमयादिना । कृत्वा मण्डलकं वृत्तं पिष्ट-
कादिभिरर्चितम् । चर्चितं गन्धकुसुभैर्धूपदीपाक्षतैः
शुभैः । तत्र चन्द्रं लिखेत् पार्श्वे रोहिण्या सहितं
भुवि । अर्चयीत शुभार्थेन मन्त्रेणानेन भक्तितः । एव
मुच्चार्य्य तद् दत्त्वा तज्जलं स्वयमाविशेत्” । “कण्ठान्तं
जलमात्रं वा जानुगुल्फान्तमेव वा । ध्यायते
सोमराजञ्च रोहिणीसहित विभुम् । जलस्थमेव भुञ्जीत
स्वयमिन्दुरिकाशतम् । खे रोहिणी शशिभृता विहृता
हिता च यत् कारणं शृणु नरेन्द्र! निवेदयामि ।
सत्पिष्टमाषरचितेन्दिरिकाशतं यद्भुक्तं जले गड़घृतेन
फल तदेव” ।
  • रोहिणोव्रतं स्कन्दपु० “रोहिणी जन्मनक्षत्रं साक्षाद्
देवस्य चक्रिणः । ताम्ररुक्ममयीं कृत्वा पञ्चरत्नेन
संयुताम् । स्थापयेद्वस्त्रयुग्मेन पुष्पधूपैः प्रपूजयेत ।
कालोद्भवफलैर्दिव्यैर्नैवेद्यैर्घृतपाचितैः । द्वितीयेऽह्नि
समाप्यैतद्ब्राह्मणायोपपादयेत् । श्रोत्रियाय सुरूपाय
भिक्षुकाय कुटुम्बिने । खय नक्तेन भुञ्जीत रोहिण्या
दर्शने कृते । एवंविधं व्रतं दिव्यं दिवि देवाश्च चक्रिरे ।
वर्षे वर्षे समायाते देवाश्चाद्यापि कुर्वते । यं यं
काममभिध्यायन् तं तमाप्नोत्यसंशयम् ।
  • लक्षणार्द्राव्रत मत्स्यपु० “अस्ति वत्स! व्रतञ्चैकं तिथिनक्ष-
त्रयोगतः । नभस्ये मासि राजेन्द्र! यदार्द्रा जायते
तदा । व्रतमेतद्विधातव्यमुमामाहेश्वरं भुवि । आरोग्यै-
श्वर्य्यसौभाग्यरूपसम्पत्प्रदायकम् । कारयित्वा
यथाशक्ति सौवर्णं मिथुनं तयोः । गौरीगिरिशयोर्भक्त्या
नक्तं सङ्कल्प्य पूजयेत् । नभस्ये बहुलाष्टम्यामेवं यः
कुरुतं व्रतम् । लक्षणार्द्रेतिविख्यातमिदं तस्य फलं शृणु ।
सर्वपापविशुद्धात्मा सर्वैश्वर्य्यसमन्वितः । भुक्त्वा भोगान्महे-
शेन ततः कालविपर्य्यये । राजा भवति धर्मात्मा
वालवीर्य्यसमन्वितः । मास्यार्द्रर्क्षयुताष्टमी भवति या कृष्णा
नभस्ये तदा सौवर्णं मिथुनं शिवागिरि शयो रूपं
तयोर्णक्षणैः । पूर्णं पिष्ठमयैर्ददाति गुरवे सार्द्धं रसैर्भोजनं
भुक्त्वा योगयुतोत्सवं पदमथो शम्भोर्व्रजेच्छाश्वतम्” ।
  • लक्ष्मीनारायणव्रतं विष्णुषर्मोत्तरे “पञ्चदश्यां शुक्लपक्षे
फाल्गुनस्य नरोत्तम! । पाषण्डपतितांश्चैव तथैवान्त्या-
वसायिनः । नास्तिकान् भिन्नवृत्तांश्च पापिनश्चापि
नालपेत् । नारायणे गतमनाः पुरुषो नियतेन्द्रियः ।
तिष्ठन् ब्रुवन् प्रस्खलंश्च क्षुते वापि जनार्दनम् । कीर्त्तये-
त्तत्क्रियाकाले समं कृत्वा पुनः पुनः । लक्ष्म्या समन्वितं
देवमर्चयेत जनार्दमम् । सन्ध्याव्युपरमे चन्द्रस्वरूपं
हरिमीश्वरम् । रात्रिञ्च लक्ष्मीं सञ्चित्य स्वस्वगर्भेण चिन्त-
येत् । श्रिर्निशा चन्द्ररूप! त्वं वासुदेव! जगत्पते! ।
मनोऽभिलषितं देव! पूरयस्व नमोनमः । मन्त्रेणानेन
दत्त्वार्घ्यं देवदेवस्य भक्तितः । नक्तं भुञ्जीत मौनंत
तैलक्षारविवर्जितम् । तथैव चैत्रवैशाखे ज्यैष्ठे च
मुनिसत्तम! । अर्चयेच्च यथाप्रोक्तं मासि मासि च
तद्दिने । निष्पादितं भवेदेकं पारणं दाल्भ्य! भक्तितः ।
द्वितीयं तत्र वक्ष्यामि पारणन्तत् निबोध मे । आषाढ़े
श्रावणे मासि मासि भाद्रपदे तथा । तथैवाश्वयुजे-
ऽभ्यर्च्य श्रीधरञ्च श्रिया सह । सम्यक् चन्द्रमसन्दत्त्वा
भुञ्जीतार्च्य यथाविधि । द्वितीयमेतदाख्यातं तृतीयं
पारणं शृणु । कार्त्तिकादिषु मासेषु तथैवाभ्यर्च्य
केशवम् । भूत्या समन्वितं दद्याच्छशाङ्कायाहण निशि ।
भुञ्जीत च यथाख्यातं तृतीयमपि पारणम् । प्रतिपूज्य
ततो दद्यात् ब्राह्मणेऽभ्यर्च्य दक्षिणाम् । प्रतिमासं च
वक्ष्यामि प्राशनं कायशुद्धये । प्रथमं चतुरो मासान्
पञ्चगव्यमुदाहृतम् । कुशीदकं तथैवान्यदुक्तं मासचतु-
ष्टयम् । गोतवाद्यादिकं रात्रौ तथा कृष्णकथाः शुभाः ।
कारयेद्देवदेवस्य पारणे पारणे गते । जनार्दनं
सलक्ष्मीकमचंयेत् प्रथमं तथा । सश्रीकं श्रीधरं तद्वत्तृतोयं
भूतिकेशवम् । एवं संपूज्य विधिवत् सपत्नीकं
जनार्दनम् । नाप्नोतीष्टवियोगार्त्तिं पुमान्नार्य्यपि वा पुनः” ।
  • लक्ष्मीपञ्चमीव्रतं यमपु० “लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी
भवेन्नृपः । समान्ते हेमकमलं दद्याद्धेनुसमन्वितम ।
स वैष्णवं पदं याति लक्ष्मीर्जन्मनि जन्मनि । एतल्लक्ष्मी-
व्रत नाम दुःखशोकविनाशनम्” ।
  • ललितातृतीयाव्रतं भविष्यात्तरे “माघमासे सिते पक्षे
तृतीयायां यतव्रता । पादौ प्रक्षाल्प हस्तौ च
मुखञ्चैव समाहितः । उपवासञ्च नियमं दन्तधावनपूर्वकम् ।
गध्याह्ने तु नदीं गत्वा तिलैरामलकैः शुभैः । स्नात्वो-
त्तीर्व्य जलात् शुक्ले वासली परिधाय च । सुगन्धैञ्च
पृष्ठ ५०४४
सुपुष्पैश्च मनोज्ञैः कुङ्कुमादिभिः । अर्चयीत तथा तथा
देवीं त्वां भक्त्या भक्तिवत्सले!” इत्यादि ।
  • ललिताव्रतं स्कन्दपु० “शृणु त्वमनवद्याङ्गि! ललिताराधन-
क्रियाम् । आश्विनस्य सिते पक्षे दशम्यां नक्तभोजनम् ।
प्रतिमां हेममयीं दिव्यां सर्वालङ्कारभूषिताम् । वापी
कार्य्या शुभे देशे तन्मव्ये वेदिका शुभा । हस्तमात्रा
वितस्त्यर्द्धा दशधान्यसमन्विता । वेदीकोणेषु संस्थाप्या
मृण्मयः पञ्च देवताः । सिक्त्वा जलेन तन्मध्ये देवी
स्थाप्या प्रयत्नतः । अव्रणं सजलं कुर्म्भ ताम्रपात्रसम-
न्वितम् । तत्र स्वर्णमयी देवी स्थाप्या च ललिता शुभा ।
चन्द्रन्तु रोहिणीयुक्तं राजतं कारयेत् पुरः । दक्षिणे
हीश्वरं स्थाप्य वामतो विध्ननाशनम् । मूलमन्त्रेण
गायत्र्या सर्वं तत्र प्रपूजयेत्” इत्यादि ।
  • ललिताषष्ठीव्रतं भविष्योत्तरे “भद्र! भाद्रपदे मासि शुक्ले
षष्ठ्यां सुसंयता । नारी स्नात्वा प्रभाते च शुक्लमाल्या-
म्बरप्रिया । सुवेषाभरणोपेता भूत्वा संगृह्य वालुकाः ।
नवे वेणुमये पात्रे गृहं गच्छेदवाङ्मुखी सोपवासा
प्रयत्नेन तत्र देवीं प्रपूजयेत् । कृत्वा वस्त्रयुगं रम्यं
पुष्पमालाविचित्रितम् । तत्र संस्थाप्य तां देवीं पुष्पैः
सम्पूजयेद्धरिम्” । तां देवीमिति जलान्तरगतां वालुका-
मानीय वंशपात्रे पञ्चपिण्डाकृतिं वालुकामयीं पूजये-
दिति “ध्यात्वा तु ललितां देवीं तपोवननिवासिनीम् ।
पङ्कजं करवीरञ्च नेपालीं मालतीं तथा” । नेपालीं
पुष्पविशेषं, गृहीत्वा पूजयेदितिशेषः । नीलोत्पलं
केतकीञ्च संगृह्य तगरं वरम् । एकैकाष्टशतं ग्राह्यमष्टाविंश
तिरेव वा । अक्षताः कलिका गृह्य ताभिर्देवीं समर्चयेत्” ।
  • लावण्यावाप्तिव्रतं विष्णुधर्मौत्तरोक्तम् “कार्त्तिक्यां समती-
तायां प्रतिपत्प्रभृतिक्रमात् । पटे वा यदि वार्चायां
प्रद्युम्नं पूजयेद्विभुम् । बहिःस्नानं ततः कुर्य्यान्नक्त-
मश्नोत वाग्यतः । एकभक्तं महाराज! हविष्यं
प्रयतः सदा । मार्गशीर्षं ततः प्राप्य त्रिरात्रोपोषितः
शुचिः । सम्पूज्य देवं प्रद्युम्नं हुत्वाग्नौ घृतमेव च ।
भोजयेद्ब्राह्मणांश्चात्र भोजनं लवणोत्कटम् । चूर्णि-
तस्य ततः प्रस्थं लवणस्य द्विजातये । महारजतरक्तञ्च
वस्त्रयुम्मं तथा गुरोः । दद्याच्च कनकं राजन्! कास्य-
पात्रं तथैव च । मासेन लावण्यकरं प्रदिष्टं व्रतोत्तम
नाकगतिप्रदञ्च । न केवलं यादव! सर्वकापान् नरस्य
दद्यात्पुरुषप्रक्षानताम्” ।
  • लोकव्रतं विष्णु धर्मोत्तरोक्तम् “अतःपरं प्रवक्ष्यामि तव
लोकव्रतं शुभम् । यास्तु व्याहृतयस्तत्र सप्त लोकाः प्रकीर्त्तिता!
आचरेत् प्रत्यहं स्नानं वहिर्नित्यमतन्द्रितः । चैत्रशुक्ला-
त्तथारभ्य क्रमेण दिनसप्तकम् । गोमूत्रं गोमयं क्षोरं
दधि सर्पिः कुशादकम् । एकरात्रोपवासश्च क्रमेणैर्व
समाचरेत् । महाव्याहृतिभिर्होमस्तिलैः कार्य्या दिने
दिने । संवत्सरान्ते दद्याच्च तथा विप्रेषु दक्षिणाम् ।
सुवर्णं सुमहद्वासः कांस्यधेनूस्तथैव च । संवत्सरमिदं
कृत्वा व्रतं पुरुषसत्तम! । सर्वलोकवरः श्रीमान् स्वे-
च्छया स्यान्नराधिपः” ।
  • वटसावित्रीव्रतं स्कन्दपु० घर्भराजवरप्रदानानन्तरं सावित्र्यु-
वाच “मदीयन्तु व्रतं देव! भक्त्या नारी करिष्यति ।
भर्तुः साभिहिता साध्वी समस्तफलभाजना” । धर्म-
राज उवाच “नारी वा विधवा वापि अपुत्रा
पतिवर्जिता । सभर्तृका सपुत्रा वा कार्यं व्रतमिदं शृणु ।
ज्यैष्ठमासे तु संप्राप्ते पौर्णमास्यां पतिव्रता । स्नात्वा
चैव शुचिर्भूत्वा वटं सिच्य बहूदकैः । सूत्रेण वेष्टये-
द्भक्त्या गन्धपुष्पाक्षतैः शुभैः । नमो वैवस्वतायेति भ्रम-
यन्ती प्रदक्षिणम् । रात्रौ कुर्वीत नक्तञ्च अव्दमेकं
समाहिता । तथैव वटवृक्षञ्च पक्षे पक्षे च पूजयेत् । संप्राप्ते
च पुनर्ज्यैष्ठे लघुभुक् द्वादशीर्नयेत् । दन्मानी धावनं
कृत्वा नियमं कारयेत्ततः । त्रिरात्रं लङ्घयित्वा
च चतुर्थे दिवसे ह्यहम् । चन्द्रायार्घ्यं प्रदत्त्वा च पूजयित्वा च
तां सतीम् । मिष्टान्नानि यथाशक्त्या पूजयित्वा द्विजो-
त्तमान् । भोक्ष्येऽहन्तु जगद्धात्रि! निर्विघ्नं कुरु मे मुने ।
नियममन्त्रः “कृत्वा वंशमये पात्रे वालुकाप्रस्थमेव च ।
सप्तधान्यधृतं पात्रं प्रस्थैकेन द्विजोत्तम! । वस्त्रद्वयो-
परि स्थाप्य सावित्रीं ब्रह्मणा सह । हैमीं कृत्वा तयोः
प्रीत्यै त्रिरात्रमुपवासयेत् । न्यग्रोधस्य तले तिष्ठेद्याव-
च्चैव दिनत्रयम् । सौवर्णीञ्चैव सावित्रीं सत्येन सह
कारयेत् । राप्यपर्य्यङ्कमारोप्य रथोपरि निवेशयेत् ।
पलादर्द्धं यथाशक्त्या रथं रौप्यभयं शुभम् । तथा च
काष्ठभारे च वटे चैव सुविस्तरम् । एवञ्च मिथुनं कृत्वा
पूजयेद्गतमत्सरा । वर्त्तुलं मण्डलं कृत्वा गोमयेन
तपोधन! । पञ्चामृतेन स्नपनं गन्धपुष्पोदकेन च । चन्दना-
गुरुकर्पूरैर्माल्यवस्त्रविभूषणैः । संपूज्य तत्र सावित्रीं
मण्डले स्थापयेद्बुधः । पीतपिष्टेन पद्मञ्च अथ वा चन्द-
गेन च । न्यसेच्चैव ततो देवीं रूमले कभलासनाम ।
पृष्ठ ५०४५
अनेन विधिना स्थाप्य पूजयेद्गतमससरा” इत्यादि ।
  • वरचतुर्थीव्रतं स्कन्दपु० “चतुर्थ्यां मार्गशीर्षे तु शुक्लपक्षे
नृपोत्तम! प्रारभ्य प्रतिमामञ्च चतुर्थ्यां गणनायकम् ।
मंपूज्य विधिना कुर्य्यादेकमक्तं समाहितः । अक्षारल-
वणं त्वेवं पूर्णसंवत्सरे ततः । द्वितीये वत्सरे चाथ
नक्तं प्रतिचतुर्थि च । कुर्य्याद्गणेशमभ्यर्च्य तृतीयेऽया-
चितं तथा । एवमेव प्रकुर्वीत चतुर्थे स्यादुपोषणम् ।
ततश्चतुर्थं संयाप्य तदुद्यापनमाचरेत् । इदं वरचतु-
र्थ्याख्यं व्रतं सर्वार्थसाधकम्” ।
  • वरव्रतं पद्मपु० “सप्तरात्रोमितो दद्यात् घृतकुम्भं द्विजातये ।
वरव्रतमिदं प्रोक्तं ब्रह्मलोकप्रदायकम्” ।
  • वराटिकासप्तमीव्रतं भविष्यपु० “या काचित् सप्तमी प्रोक्ता
ततो वक्ष्यामि शोभनम् । वराटिकात्रयक्रीतं यत्
किञ्चित् प्राशयेन्नरः । अनेन देहि मूल्येन यल्लब्धं तच्च
भक्षयेत् । अभक्ष्यं वापि भक्ष्यं वा नात्र कार्य्या
विचारणा । अनेन विधिना कार्य्या वराकाह्वय-
सप्तमो” ।
  • वराहद्वादशीव्रतं धरणीव्रत्ते “एर्व माघे सिते पक्षे द्वादशी
धरणीभृतः । वराहस्य शृणुष्वान्यां पुण्यां
परमधार्मिकः । प्रागुक्तेन विधानेन सङ्कल्प्य स्नानमेव च ।
कृत्वा देवं समभ्यर्च्च्य एकादश्यां विचक्षणः । पुष्पैर्नै
वेद्यगन्धैश्च ह्यर्चयित्वाच्युतं नरः । पश्चात्तस्याग्रतः
कुम्भञ्जलपूर्णन्तु विन्यसेत् । एवं विधानतो दत्त्वा हरिं
वाराहरूपिणम् । ब्राह्मणाय च तद् दद्यात् फलं तस्य
निशामय । इह जन्मनि सौभाग्यं श्रीः कान्तिस्तुष्टि-
रेव च । ज्ञानवान् वित्तवान् भोगी अषुत्रः पुत्रवान्
भवेत्” ।
  • वरुणव्रतं पुद्मपु० “निशि कृत्वा जले वासं प्रभाते गोप्रदो
भवत् । वारुणं लोकमाप्नोति वरुणव्रतमुच्यते” ।
  • वसुव्रतं विष्णुधर्मोत्तरे “ध्रुवोऽध्रुवश्च सोमश्च आपश्चैवानि-
लाऽनलः । प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः ।
अष्टात्मा वासुदेवोऽयं प्रभावेनोदयेन च । अष्टम्यां पूक्षयेद्
यस्तु सोपवासो नराधिप! । चैत्रमासादथारभ्य शुक्ल-
पक्षाच्च यादव! । मण्डलेऽप्यथ वार्चासु जपेच्च मनुजा-
धिप! । गन्धमाल्यनमस्कारदीपधूतान्नसम्पदा । वहिः-
स्नानेन राजेन्द्र! तथाधःशयनेन च । व्रतान्ते तु सदा
दद्याद्धेनुं विप्राय शक्तितः” । पद्मपु० “यथोभवमुर्खी
दद्यात् प्रभतकनकान्विताम् । दिनं पबोव्रती तिष्ठेत् स वाति
परमं पदम् । एतद्वसुव्रतं वाम पुनरावृत्तिदुर्लभम्” ।
  • वस्तत्रिरात्रव्रतं भविष्योत्तरोक्तम् “चैत्रे तु कुमुदैर्देवं
त्रिभिः प्रयतमानसः । त्रिरात्रं तत्र नक्ताशी नद्यां
स्नात्वा द्विजातये । पयस्त्रिनीरजाः पञ्च प्रदद्यात् स
सुवर्णकाः । न जायते पुनरसौ जीवलोके कदाचन ।
एतद्वस्तव्रतं प्रोक्तं सर्वव्याधिविनाशनम्” ।
  • वह्निव्रतं विष्णु पु० “कृष्णपक्षे पञ्चदश्यां चैत्रादारभ्य
यादव! । वह्निसंपूजनं कृत्वा गन्धमाल्यान्नसम्पदा ।
तिलहोमन्तथा कुर्य्यान्नाम्ना वह्नेर्नराधिप! । संवत्स-
रान्ते दद्याच्च सुवर्णं ब्राह्मणाय च । कृत्वा व्रतं वत्सर-
मेतदिष्टं प्राप्नोति वित्तं सतत यशश्च । धर्मे मतीरूप-
मनुत्तमञ्च कामान् यथेष्टान् पुरुषप्रधानः” ।
  • वामनद्वादशाव्रतं धरणीव्रते “एवमेव मुने! मासि चैत्रे
संकल्प्य द्वादशीम् । उपोष्य धारयेद्भक्त्या देवदेवं
जनार्दनम् । वामनायेति पादौ तु विष्णवे कटिमर्चयेत् ।
वासुदेवाय जठरं उरः सङ्कर्षणाय च । कण्ठं विश्व-
भृते पूज्य शिरो वै व्योमरूपिणे । बाहू विश्वजिते
पूज्य स्वमाम्ना शङ्खचक्रके । अनेन विधिनाभ्यर्च्च्य
देवदेवं जनार्दनम् । प्राग्वंशेनोदरं कुम्मं सयुग्मं पुरतो
न्यसेत्” । युग्मं वस्त्रयुग्मम् । “प्रागुक्तपात्रे संस्थाप्य
वामनं काञ्चनं बुधः । यथाशक्ति कृतं ह्रस्वं सितयज्ञोप-
वीतिनम् । कुण्डिकां स्थापयेत् पार्श्वे छत्रिकापादुके
तथा । अक्षमालाञ्च संस्थाप्य यष्टिकां च विशेषतः ।
एतैरुपस्करैर्युक्तं प्रभाते प्राह्मणाय तु । दापयेत्
प्रीयतां विष्णुः ह्रस्वरूपीति कीर्त्तयेत् । मासनाम्ना तु
तु संयुक्तं प्रादुर्भावाभिधानकम् । प्रीयतामिति सर्वत्र
विधिरेष प्रकीर्त्तितः । मासनाम्ना मार्गशीर्षादिमास-
वेशवादिनाम्ना प्रादुर्भावाभिधानकं मत्स्यरूपी कूर्मरूपी-
त्येवमादि” ।
  • वायुघ्रतं विष्णुधर्मोत्तरे “शुक्लपक्षे चतुर्दश्यां ज्यैष्टादारभ्य
यादव! । वायुं सम्पूजयेद्देवं सोपवासो जितेन्द्रियः ।
गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा । संवत्सरान्ते
दातव्यं वस्त्रयुग्मं द्विजातये । कृत्वा व्रतं वत्सरमेतदिष्ट-
मासाद्य लोकं सुचिरं मनुष्यः । सुखानि मुक्त्वा
सुचिरं महीपो मानुष्यमासाद्य भवेत्पुरोगः” ।
  • बारिव्रतं पद्मपु० “चैत्रादिचतुरो मासान् जले कुर्य्यादव्या-
चितम् । ज्यैष्ठाषाढ़े तथा माघे पौषे वा राजसत्तम! ।
व्रतान्ते मणिकं दद्यादन्नवस्त्रसमन्वितम् । तिलपात्रं
पृष्ठ ५०४६
हिरण्यञ्च ब्रह्मलोके महीयते । तदन्ते राजराजः
स्याद् वारिब्रतमिहोच्यते” ।
  • वासुदेवद्वादशीव्रतं धरणीव्रते “आषाढ़ेऽप्येवमेवन्तु सङ्कल्प्य
विधिना ततः । अर्चयेत्परमं देवं गन्धपुष्पैर्विधानतः ।
बासुदेवाय पादौ तु कटिं सङ्कर्षणाय च । प्रद्युम्नायेति
जठरमनिरुद्धाय वै उरः । चक्रपाणये च भुजौ कण्ठं
भूपतये तथा । स्वनाम्ना शङ्खधर्त्त्रे तु पुरुषायेति वै
शिरः । एवमम्यर्च्य मेधावी प्राग्बत्तस्याग्रतो घटम् ।
विन्यसेद्वस्त्रयुम्मं तु तस्योपरि ततो न्यसेत् । काञ्चनं
वासुदेवं तु चतुर्वाहुं सनातनम् । तमभ्यर्च्य विधानेन
गन्धपुष्पादिभिः क्रमात् । प्राग्वत्तु ब्राह्मणे दद्याद्वेद-
वादिनि सुव्रते” इत्यादि ।
  • विजयाद्वादशीव्रतम् आदित्यपु० “पुष्यर्क्षेण समायुक्ता शुक्ला
वै द्वादशी भवेत् । सा प्राक्ता वासुदेवेन सर्वपापप्रणा-
शिनी । येऽर्चयन्ति नरास्तस्यां भक्त्या देवं जनार्दनम् ।
समुपोष्य विमुच्यन्ते पापैस्ते शतजन्मजैः । कर्मणा
मनसा वाचा यत्पापं समुपार्जितम् । तत् क्षालयति
गोविन्दस्तिथौ तस्यां समर्चितः । स्नानं जपोऽथ वा
होमः समुद्दिश्य जनार्दनम् । नरैर्यत् क्रियते तस्यां
तदनन्तफलं भवेत् । यस्मान्नाशयते जन्तोः पापं जन्मशतो-
द्भवम् । पुष्यर्क्षैकादशी तस्मात् प्रोक्ता पापप्रणाशिनी ।
एवमेव पुरा प्राह भानुः सारथिनं प्रति” । भानुरुवाच
“द्वादशी या परा ब्रध्न! पुष्येणैव च संयुता । उपोष्या
तु प्रयत्नेन द्वादशी पापनाशनी । पुष्येण द्वादशीयुक्ता
शुक्ला वै फाल्गुनस्य च । विजया द्वादशी प्रोक्ता स्वयं
सा विष्णुना पुरा । तस्यां दत्तं तपस्तप्तं कोटिकोटि-
गुणोत्तरम् । एकादश्यां निराहारो द्वादश्यां विष्णु-
मर्चयेत् । रौप्यसौवर्णपात्रे वा दारुवंशमयेऽपि वा ।
आच्छाद्य पात्रं वासोभिरहतैः सुपरीक्षितैः । मार्गैश्च
मेढ़जैश्चैव सिद्धिः स्याच्छक्त्यपेक्षया । तिलाढ़केन वित्ताद्यैः
प्रस्थेन कुटजेन या । अलाभे चैव गोधूमैः फलं मुख्यं
तिलैर्भवेत्” । ब्रह्मवैवर्त्ते “मासि भाद्रपदे शुक्ले पक्षे
यदि हरेर्दिनम् । बुधश्रवणयोगश्च प्राप्यते तत्र
पूजितः । प्रयच्छ्रति सुतान् कामान् वामनो मनसि स्थि-
तान् । विजया नाम सा प्रोक्ता तिथिः प्रीतिकरी
हरेः । सङ्गमः सर्वतीर्थानां सङ्गमे तत्र जायते । शुक्ला
भाद्रपदे स्वर्गे कृष्णा कलुषसंक्षयम् । गङ्गायमुनयोः
पुण्ये नर्षदासरित्सङ्गमे । सरस्वत्यरुणयोश्चैक्व सङ्गमे
पापनाशने । ब्रह्मवल्मीकाभ्यासे सप्तधारेऽथ वा द्विज! ।
अन्येषु सङ्गमेष्वैव स्वयमायाति वामनः । तत्र सम्पू-
जितोऽथासौ जायते प्रेतमोक्षदः । दध्योदनसमायुक्तां
वारिधानीं प्रदापयेत् । पूजय त्वं जगन्नाथं वामनः
प्रीयतामिति । महापुण्यप्रदा ह्येषा सङ्गमे विजया
तिथिः । सर्वपापक्षयो नूनं जायते च उपोषणात् ।
गृहीत्वा नियम प्रातर्गत्वा नद्यादिसङ्गमे । सौवर्णं
वामनं कृत्वा सौवर्णमाषकेण वा । यथा शक्त्या तु विन्यस्य
कुम्भोपरि जगत्पतिम् । पूर्णपात्रे स्थापयित्वा मन्त्रै-
रेतेः प्रपूजयेत् । एवं कृते तु विजयाव्रतेऽस्मिन् विजया
दिने । न दुर्लभतरं किञ्चिदिह लोके परत्र च । दुलेभा
विजया नॄणां दुर्लमस्तत्र सङ्गमः” । अग्निपु० “विधानं
शृणु राजेन्द्र! यथादृष्टं मनीषिभिः । यथीक्तं
नियम कुर्य्यादेकादश्यामुपोषितः । दन्तकाष्ठं प्रगृह्यादौ
वाग्यतो नियतेन्द्रियः । श्रवणद्वादशीयोगे समुपोष्य
जनार्दनम् । अर्चयित्वा विधानेन अहं भोक्ष्ये परेऽ-
हनि । नदीनां सङ्गमे स्नायादर्चयेत् यत्र वा मनः ।
सौवर्णं रक्तसंयुक्तं द्वादशाङ्गुलमुच्छ्रितम् । पीतवस्त्रैः
शुभैर्वष्ट्य भृङ्गारं निर्व्रणं नवम् । हिरण्मयेन पात्रेण
अर्ध्यपात्र प्रकल्पयेत् । दध्यक्षतफलैश्चैव सहिरण्यं
सचन्दनम् । नमस्ते पद्मनाभाय नमस्ते जलशायिने ।
तुभ्यमर्घ्यं प्रयच्छामि बालषामनरूपिणे । मायावी
वामनः श्रीशः सौत्रामा तु जगत्पतिः । एवं सम्पूज-
यित्वा तु द्वादश्यामुदये रवेः । भृङ्गारसहितं वस्त्रं
संवत्सरं प्रपूजयेत् । वामनः प्रतिगृह्णातु वामनोऽहं
ददामि तम् । वामनं सर्वतोभद्रं विजयार्थं निवेदयेत् ।
जलधेनुं तथा दद्याच्छत्रं चैव तु पादुके । सहिर-
ण्यानि वस्त्राणि धेनुं चानुडुहं नृप! । यत्किञ्चिद्
दीयते तत्र तदानन्त्याय कल्पते । श्रवणद्वाटशीयोगे
सम्पूज्य गरुड़ध्वजम् । दत्त्वा दानं द्विजातिभ्यो
वियोगे पारणं ततः । सिंहस्थिते तु मार्तण्डे श्रवणस्थे
निशाकरे । श्रवणद्वादशी ज्ञेया न स्याद् भाद्रपदादृते ।
दशम्येकादशी यत्र सानुपोष्या भवेत्तिथिः । चत्रणेन
तु संयुक्ता सा शुभा सर्वकामदा” । श्रवणेन युक्ताया
दशमी साप्युपोष्येर्थः । “पारणं तिथिवृद्धौ तु द्वाढ़-
स्यामुडुसंक्षयात् । वृद्धौ कुर्य्यात्त्रयोदम्यां तत्र दौषो न
विद्यते” । द्वादशीत्रल्ये नक्षत्रे द्वादश्यां पारणम्
अधिके त्रयोदश्यामित्यर्थः” ।
पृष्ठ ५०४७
  • विजयासप्तमीव्रतं भविष्योत्तरे “शुक्लपक्षे तु सप्तम्यां
यदादित्यदिनं भवेत् । सप्तमी विजया नाम तत्र दत्तं
महाफलम् । स्नानं दानं जपो होम उपवासस्तथैव
च । सर्वं विजयसप्तस्यां महापातकनाशनम् । प्रद-
क्षिणं यः कुरुते फलैः पुष्पैर्दिवाकरम् । स सर्वगुण-
सम्पन्नं पुत्रं प्राप्नोत्यसंशयम् । प्रथमा नारिकेरैस्तु
द्वितीया वीजपूरकैः । तृतीया रक्तनारङ्गैश्चतुर्थी
कदलीफलैः । पञ्चमी ऋजुकुष्माण्डैः षष्ठी पक्वैश्च तेन्दुकैः ।
वृन्ताकैः सप्तमी ज्ञेया शतेनाष्टोत्तरेण तु । मौक्तिकैः
पद्मरागेस्तु तिलैः कर्कटकैस्तथा । गोमेदैर्वज्रवैदर्य्यैः
शतेनाष्टाधिकेन तु । इङ्गुदैर्वदरैर्बिल्वैः करमर्दैः सचिर्भदैः ।
आम्रातकैश्च जम्बीरैर्जम्बूकर्कटिकैः फलैः । पुष्पैर्धूपैः
फलैः पत्रैर्मोदकैर्घृतपाचितैः । एभिर्विजयसप्तम्यां
भानोः कुर्य्यात् प्रदक्षिणम् । अन्यैः फलैश्च कालोत्थैर-
खण्डैर्ग्रन्थिवर्जितैः । रवेः प्रदक्षिणं देयं फलेन
फलमादिशेत् । नारी वा कुरुते या तु सापि तत्फलभा-
गिनो । नित्यं महीतलजयप्रतिपादयित्री या सप्तमी
मुनिवरैः प्रवरा तिथीनाम । सा भानुपादकमलार्चन-
चिन्तकानां पुंसां सदैव विजया विजयं ददाति” ।
भविष्योत्तरे “माघे मासि सिते पक्षे सप्तम्यां कुरुनन्दन! ।
निराहारो रविं भक्त्या पूजयेद्विधिना नृप! । पूर्वोक्तेन
जपेज्जप्यं देवस्य पुरतः स्थितः । शुद्धैकाग्रमना राजन्!
जितक्रोधो जितेन्द्रियः” । इत्यादि “एवं संवत्सरं
यावत् कुर्य्याद् विजयसप्तमीम् । स जयेदखिलाञ्छत्रून्
सूर्य्यलोकं स गच्छति” । भविष्यपु० “शुक्लपक्षस्य सप्तम्यां
सूर्य्यवारो भवेद् यदि । सप्तमी विजया नाम तत्र दत्तं
महाफलम् । स्नानं दानं जपो होम उपवासस्तथैव च ।
सर्वं विजयसप्तम्यां महापातकनाशनम् । पञ्चम्यामेक-
भक्तं स्यात् षष्ट्यां नक्तं प्रचक्षते । उपवासस्तु सप्तम्या-
मष्टम्यां पारणं भवेत् । उपवासपरः षष्ठ्यां अव्जस्थं
पूजयेद्रविम्” । उपवासपरः विजयसप्तम्यामुपवासं
करिष्यन् । “गन्घपुष्पोपहारैश्च भक्त्या श्रद्धासमन्वितः ।
प्रकल्प्य पूजां भूमौ च देवस्य पुरतः स्वपेत् ।
जपमानस्तु गायत्रीं सौरसूक्तमथापि वा । त्र्यक्षरं वा
भहाश्वेतं षड़क्षरमथापि वा । विबुद्धस्त्वथ सप्तम्यां कृत्वा
स्नानं गणाधिपम् । ग्रहेशं पूजयित्वा तु होमं कृत्वा
विधानतः । ब्राह्मणान् भोजयेत् पश्चाद्भक्त्या च
गणगायकम् । शाल्योदनमपूपांश्च खण्डवेष्टांश्च शक्तितः ।
दत्त्वा तु दाक्षणां शक्त्या ततो विप्रान् विसर्जयेत् ।
इत्येषा कथिता देव । पुण्या विजयसप्तमी । यामुपोष्य
नरो गच्छेत् परं वैरोचनं पदम् ।
  • विजयासप्तमीसत्रव्रतं भविष्यपु० “नैमित्तिकान् ततो वक्ष्ये
यज्ञांश्चात्र समाहितः । सप्तम्यां ग्रहणे चैव संक्रान्तिषु
विशेषतः” । नैमित्तिकान् ततो वक्ष्ये इत्यनेन श्लोकेन
ग्रहणसंक्रान्तिषु साधारण्येन यज्ञप्रतिज्ञा कृता सत्र-
सप्तमीयज्ञं तावदाह शुक्लपक्षस्येत्यादिना “शुक्लपक्षस्य
सप्तम्यां हविर्भुक्त्वैकदा दिवा । सम्यगाचम्य सन्ध्यायां
वरुणं प्रणिपत्य च” । वरुणोऽत्र सूर्य्यः “इन्द्रिवाणि
तु संयम्य स तं ध्यात्वा स्वपेद् बुधः । दर्भशय्यागतो
रात्रौ प्रातः स्नातः सुसंयुतः । सर्वस्यादौ तथेवान्ते
पूर्ववद्वरुणं यजेत् । जुहुयाद्वह्वृचस्त्वग्निं सूर्य्याग्निं
परिकल्प्य वै । सूर्य्याग्निकरणं वक्ष्ये तर्पणं च
समासतः । अस्त्रेणोङ्कारमुल्लिख्य सावित्र्याभ्युक्ष्य वानले” ।
अस्त्रेण अस्त्रमन्त्रेण सावित्र्या सूर्य्यगायत्र्या एतच्च
सर्वं निक्षुभासप्तम्यामेवाभिहित वेदितव्यम् । “प्रक्षिप्या-
स्तीर्य्य दर्भांश्च देशे भूमौ यथेप्सितम् । प्रागग्रैरुद्ग-
ग्रैश्च पात्राण्यालभ्य चक्रवत् । पवित्रं द्विकुशं कृत्वा
साग्रं प्रादेशसम्मितम् । तेन पात्राणि संप्रोक्ष्य
संशोध्य च विलोड्य च । उद्गभागस्थिते पात्रे साग्निना
चोल्मुकेन च । पर्य्यग्निकरणं कृत्वा ततश्चोत्पवनं
त्रिधा । परिमृज्य स्रुचादींश्च दर्भैः सम्प्रोक्षितैश्च तैः ।
जुहुयात् प्रोक्षिते वह्नौ तत्रार्कं पूर्ववत् यजेत् । भूमौ
स्थितेन पात्रेण विस्तरेण तु पाणिना । वामेन
यदुशार्दूल । नान्तरिक्षे तु हूयते” । अन्तरिक्षे त्रिकादौ
“दक्षिणेन स्रुचौ गृह्य जुहुयात्पावकं बुधः । हृदयेन
क्रियाः सर्वाः कर्त्तव्याः पूर्व चोदिताः” । हृदयेन
हृदयमन्त्रेण “अनेन हुत्वा सन्तर्प्य दद्यात् पूर्णाहुतिं
ततः । वरुणायादरान्माघे सप्तम्यां वरुणं यजेत् ।
यथा शक्त्या तु विप्रेभ्यः प्रदद्यात् खण्डवेष्टकान् ।
दद्याच्च दक्षिणां शक्त्या प्राप्यते यागजं फलम् । एवञ्च
फाल्गुने सूर्य्यं चैत्रे चैवांशुमालिनम् । वैशाखे मासि
धातारं इन्द्रं ज्यैष्ठे यजेद्रविम् । आषाढ़े श्रावणे
मासि भगं भाद्रपदे तथा । आश्विने चापि पर्जन्यं
त्वष्टारं कार्त्तिके यजेत् । मार्गशीर्षे तु मित्रञ्च पौषे
विष्णुं यजेद् यदि । संवत्सरेण यत् प्रोक्तं फलमिष्ट्वा
दिने दिने । तत् सर्वं प्राप्नुयात् क्षिप्रं भक्त्या श्रद्धा-
पृष्ठ ५०४८
समन्वितः । एवं संवत्सरे पूर्णे कृत्वा वै काञ्चनं रथम् ।
सप्तभिर्वाजिभिर्युक्तं नानारत्नोपशोमितम् ।
आदित्यप्रतिमां मध्ये शुद्धहेम्ना कृतां शुभाम् । रत्नैरलङ्कृतां
कृत्वा हेमपद्मोपरिस्थिताम् । तस्मिन् रथवरे कृत्वा
सारथिं चाग्रतः स्थितम् । वृतं द्वादशभिर्विप्रैः क्रमान्मासा
धिपात्मभिः । सर्वकल्पज्ञमाचार्य्यं पूजयित्वा
रथाग्रतः” । मासाधिपाः प्रतिमासोक्ताः सूर्य्याः । अतस्त-
द्भक्तिभावितैर्द्वादशभिर्विपैर्वृतमाचार्य्यं पूजयेदित्यर्थः ।
  • विद्याप्रतिपद्व्रतं गरुड़पु० “अथ त्वं प्रतिपत्कृत्यं शृणु
मम्पत्कर व्रतम् । यत् कुर्वाणः श्रियं विन्देद्दुर्लभं
मानुषैरिह । शालितण्डुलसंसिद्धे मण्डले चतुरस्रके ।
श्रीशं श्रियमथावाह्य पूजयेत् सपुरःसरम् । अप्रच्छन्नदसैः
पद्मैरयुतैस्तं प्रपूजयेत्” । अप्रच्छन्नदलैः विकसितैः
“सहस्रैर्वा यथायागं पयसा पायसेन च । ततश्च
विधिनाभ्यर्च्य पार्श्वे देवीं सरस्वतीम् । अथातः पूजये-
दिन्दुं गुरुं पश्चाद्वन्यधीः । परिवारनियोगेन तांश्च
सत्कारयेदथ” । प्रार्थनामन्त्रः “मम विद्यां प्रदिशतु देवो
वागीशृरो हरिः । विद्याधिदैवतं देवी विद्यां दिशतु
मे स्थिराम् । सरस्वती प्रदिशतु वाग्वृद्धिमतिशालि-
नीम्” इत्यादि । “यस्त्वेवं कुरुते विरुते विद्वान् विद्या
व्रतमन्यधीः । समस्तविद्यानिपुणो वैष्णवं पदमृच्छति” ।
  • विद्यावाप्तिव्रतं विष्णुधर्मोत्तरे “पौष्यान्तु समतीतायां प्रति-
पत्पभृतिक्रमात । प्राग्वतु पूजयेद्देवं तुरङ्गशिरसं
हरिम्” प्राग्वदिति रूपावाप्तिव्रतोक्तविधिवत् तुरङ्ग-
शिरसं हवग्रीवम् । “त्रिलांश्च जुहुयाद् वह्नौ तिलै-
देवं समर्चयेत् । त्रिरात्रीपोषितो माघं तिलान्
कनकमेव च । दद्याद् ब्राह्मणमुख्याय सम्यक्प्रयतमानसः ।
मुख्यान् यज्ञोपवीतांश्च प्रभूतमपि चन्दनम् । कृत्वा
व्रतं मासमिदं यथाक्तं विद्यान्वितः स्यात् पुरुषः सदैव ।
स्वर्लोकमासाद्य सुखानि भुक्त्वा कामानभीष्टात पुरुषो-
ऽश्नुते च” ।
  • विधानद्वादशसप्तमीव्रतम् आदित्यपु० “निरुक्तसप्तमीनान्तु
शृणु नारद्! । निर्णयम् । यः शान्तिमविगच्छत स्मर-
स्वात् सर्वकिल्विषैः । शातनां सर्वपापानां शातनां
नमतां विदुः । तत्रोपवासविधिना धातारं य उपासते ।
चत्रमासे तु सप्तम्यामतिरात्रफलं लभेत् । वैशास्यमासे
मप्तम्यां पर्जन्यं यस्तु पूजयेत् । चातुर्मासस्य यज्ञस्य
फलं प्राप्तोति तत्र वै विभा विभावलोर्दृष्टा भाशब्दो
व्याप्तिदीप्तिषु । विभानाम निरुक्तञ्च स्वयमेव विभाः
वसोः । सप्तम्यां ज्यैष्ठमासन्तु वरुणं यः समर्च्चयेत् ।
आप्तोर्यामदशानान्तु फलं विन्दति मानवः । अमृतार्थे
यदा देवा जयशब्देन निर्ययुः । पूजयन्ति जयां देवा-
मृतमस्याश्च तत् स्मृतम् । आषाढ़मासे सूर्य्यन्तु सप्तम्यां
पूजयेन्नरः । अश्वमेधमवाप्नोति कुलञ्चैव समुद्धरेत् । स
प्तम्यां निर्जिता देवैरसुरा दानवास्तथा । समाराध्य
सुरैः सेन्द्रैः संग्रामे तारकाभये । त्रैलोक्ये विजय-
प्राप्ते तस्माद्विजयसप्तमी । यः पूजयति मां भक्त्या
तस्मिन्नहनि मानवः । स्नात्वा सम्यगुपस्पृश्य शुक्लवासाः
कृताञ्जलिः । सदा यज्ञोपवीती च ब्रह्मचारी जिते-
न्द्रियः । अक्रोधनो ह्यचपलः स्थिरचित्तः समाहितः ।
ध्यायमानस्तथा साम्ब! तत्परः सजितेन्द्रियः” इत्यादि ।
  • विभूतिद्वादशीव्रतं मत्स्यपु० “शृणु राजन्! प्रवक्ष्यामि
विष्णोर्व्रतमनुत्तमम् । विभूतिद्वादशी नाम सर्वाभरण
भूषिता । कार्त्तिके चाथ वैशाखे मार्गशीर्षेऽथ फाल्
गुने । आषाढ़े वा दशम्यान्तु शुक्लायां लघुभुङ्नरः ।
कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः ।
एकादश्यां निराहार समभ्यर्च्य जनार्दनम् । द्वादव्यां द्विज-
संयुक्तः करिष्ये भोजनं ततः । तदविघ्नेन मे यातु
साफल्यं मधुसूदन! । ततः प्रभाते चोत्थाय कृत्वा स्नान-
जपं शुचिः । पूजयेत् पुण्डरीकाक्षं शुक्लमाल्पानुलेपनैः” ।
  • वि(बि)ल्वत्रिरात्रव्रतं स्कन्दपु० “ज्यैष्ठे मासि च संप्राप्ते
पूर्णमाम्यां द्विजोत्तम! । ज्येष्ठाऋक्षदिने कुर्य्यात्
सिद्धार्थैः स्नानमुत्तमम् । श्रीघृक्षं सिञ्चयेत् पश्चाद्गन्धपुष्पैश्च
पूजयेत् । वत्सरन्त्वेकभक्तन्तु हविष्यान्नेन कारयेत् ।
श्वशूकरस्वरादीनां दर्शने भोजनं त्यजेत् । अनेन
विधिना सम्यक् मासि मासि समाचरेत् । ततः संवत्सरे
पूर्णे गत्वा वि(बि)ल्वसमीपतः । गृहीत्वा वालुकां पात्रे
प्रस्थमःत्रं महामुने! । अथ वा धान्यमादाय यवशालि-
तिलादिकम् । ततो वंशमये पात्रे वस्त्रयुग्मेन वेष्टयेत् ।
उमामहेश्वरं हैमं शक्त्या कुर्य्यात् सुभूषितम्” इत्यादि ।
  • विशोकद्वादशीव्रतं पद्मपु० “पुण्ये चाश्वयुजे मासि विशोकद्वा-
दशीव्रतम् । यच्चोत्वां शोकदौगत्यभाजनं न नरो भवेत् ।
दशम्यां लघुभुक् रात्रौ कृत्वा वै दन्तधावनम् ।
उदङ्मुखो प्राङ्मुखो वा वाक्यमेतदुदीरयेत् ।
एकादश्यां निराहारः समभ्यर्च्य च केशवम् । थियं
च जगतां भूतिं भोक्ष्यामीत्यपरेऽहभि । पूकंनियम-
पृष्ठ ५०४९
मास्थाय सुप्वा रात्रौ जितेन्द्रियः । प्रभाते विमले गत्वा
मध्याह्ने तु जलाशयम् । स्नानं सर्वौषधैः कुर्य्यात् पञ्च-
गव्यजलेन च । शुक्लमाल्याम्बरधरः समभ्येत्य गृहं
ततः । पूजयेज्जगतां नाथं लक्ष्मीदयितमुत्पलै” इत्यादि ।
  • विशोकषष्ठीव्रतं भविष्योत्तरे “विशाकषष्ठीमधुना वक्ष्यामि
मनुजोत्तम! । यामुपोष्य नरः शोकं न कदाचिदिह
स्पृशेत् । माघे कृष्णतिलैः स्नानं पञ्चम्यां शुक्लपक्षतः ।
कृताहारः कृशरया दन्तधावनपूर्वकम्” । कृशरया,
तिलतण्डुलान्नेन “उपवासव्रत कृत्वा ब्रह्मचारी भवेन्निशि ।
ततः प्रातः समुत्थाय कृतस्नानजपः शुचिः । कृत्वा तु
काञ्चनं पद्ममर्कोऽयमिति पूजयेत् । करवीरेण रक्तेन रक्त-
वस्त्रयुगेन च । यथा विशोकं भुवनमुदिते त्वयि जायते ।
तथा विशाकता मे स्यात्त्वद्भक्तेः प्रतिजन्मनि । एवं
सम्प्रूज्य षष्ट्यान्तु द्विजान् शक्त्या प्रपूजयेत् । सुप्यात्-
संप्राश्य गोमूत्रं समुत्थाय ततः शुचिः । सपूज्य
विप्रान् दानेन गुड़पात्रेण संयुतम् । वस्त्रेणाच्छाद्य
गुरवे सर्वमेतन्निवेदयेत्” इत्यादि ।
  • विशोकसंक्रान्तिव्रत स्कन्दपु० “अतःपरं प्रवक्ष्ये विशोक-
संक्रान्तिमुत्तमाम् । अयने विषुवे पुण्ये व्यतीपातो भवेद्-
यदि । एकभक्तं नरः कुर्य्यात्तिलैः स्नानन्तु कारयेत् ।
काञ्चनं भास्कर कृत्वा यथाविभवशक्तितः । स्नापवेत्पञ्च-
गव्येन गन्धपुष्पैः सुपूजयेत् । वेष्टयेद्रक्तवस्त्राभ्यं ताम्र-
पात्रे निधापयेत्” इत्यादि ।
  • विशोकसप्तमीव्रतं भविष्यपु० “विशोकसप्तमीं तद्वत् वक्ष्यामि
मुनिपुङ्गव! । यामुपोष्य नरः शोकं न कदाचिदिहाश्रुते ।
माघे कृष्णतिलैः, स्नातः पञ्चम्यां शुक्लपक्षतः । कृताहारः
कृशरया दन्तधावनपूर्वकम् । उपवासव्रतं कृत्वा ब्रह्म-
चारी भवेन्निशि । ततः प्रभाते चोत्थाय कृतस्नानजपः
शुचिः । कृत्वा तु काञ्चनं पद्ममर्कोऽयमिति पूजयेत् ।
करवीरैश्च पुष्पैश्च रक्तवस्त्रयुगेन च । यथा विशोकं भुवनं
त्वयैवादित्य! सर्वदा । तथा विशोको मे चास्तु त्वद्भक्तेः
प्रतिजन्मनि । एवं संपूज्य षष्ट्यां तु भक्त्या संपूजयेद्
द्विजान् । सुत्वा संप्राश्य गोमूत्रमुत्थाय कृतनित्यकः ।
संपूज्य विप्रं यत्नेन गुड़पात्रसमन्वितम् । सुसूक्ष्मं
वस्त्रसंयुक्तं ब्राह्मणाय निवेदयेत् । अतैललवणं
भुङ्क्ते सप्तम्या मौनसंयुतः । ततः पुराणश्रवणं
कर्त्तव्यं भूतिमिच्छता । अनेन विधिना सवमुभयोरपि
प्रक्षयाः कुर्य्यात् यावत् पुनर्माधशुक्लपक्षस्य सप्तमीम् ।
व्रतान्ते कलसं दद्यात् सुवर्णकमलान्वितम्” ।
  • विश्वव्रतं भविष्यपु० “एकादश्यां यथोद्दिष्टा विश्वेदेवाः
प्रपूजिताः । प्रजां पशून् धनं धान्यं प्रयच्छन्ति महीं
तथा । मूलमन्त्रः स्वसंज्ञाभिरङ्खमन्त्राः प्रकीर्त्तिताः ।
पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिथाश्वरः । गन्धपुष्पोप-
हारैश्च यथाशक्ति विधीयते । पूजाऽशाठ्येन शाठ्येन
कृतापि तु फलप्रदा । आज्यधारासमिद्भिश्च दधिक्षी-
रान्नमाक्षिकैः । पूर्वोक्तफलदो होमः कृतः शान्तेन
चेतसा” । एतद्व्रत वैश्वानरप्रतिपद्व्रतवद्व्याख्येयम्” ।
  • विश्वरूपव्रतं कालोत्तरे “रेवतीशनियोगस्तु सिताष्टम्यां यदा
भवेत् । भूतायां वा महासेन! तदा जातमिदं शृणु!
महास्नानं प्रकर्त्तव्यं नित्यकृत्यादनन्तरम् । चन्द्रेणै-
वाङ्गरागन्तु रत्नपूजान्तु कल्पयेत् । सितपद्मानि देयानि
भूषणानि वहून्यपि । चन्द्रमेवं दहेद्धूपं नैवेद्यं पायस-
ङ्घृतम् । श्वेताश्वन्तरुणं सौम्यं शिवाय विनिवेदयेत् ।
अश्वाष्टमं कुञ्जरञ्च आचार्य्याय प्रदापयेत् । ऋग्यजुःसा-
माथर्वाणः प्रत्यश्वकुञ्जरं तथा । राज्यार्थीं लमतै
राज्यं यावदाहूतसंप्लवम् । पुत्रार्थी लभते पुत्रान्
वायुतुल्यपराक्रमान् । भोगार्थी लभते भोगान् विद्या-
तत्त्वेन शाश्वतान् । यान् यान् कामयते कामान् ता
स्तान् कामानवाप्नुयात् । विश्वरूपमनन्त न व्रतमेतदु-
दाहृतम् । कुशोदकप्राशनन्तु रात्रौ जागरणं ततः” ।
  • विष्टिव्रतं भविष्योत्तरे विष्टिस्वरूपमुक्त्वा “एवमेषा समुत्पन्ना
विष्टिरिष्टविनाशिनी । तस्मान्नरेण कौन्तेय! वर्जनीया
फलार्थिना । येनोपवासविधिना व्रतेन च युधिष्ठिर! ।
पूजिता तोषमायाति तदेव कथयामि ते । यस्मिन् दिने
भवेद्भद्रा तस्मिन्नहति भारत! । उपवासस्य नियम
कुर्य्यान्नारी नरीऽथ वा । यदि रात्रौ भवेद्विष्टिरेकभक्तं
दिनद्वयम् । कार्य्यस्तेनोपवासः स्यादिति पौराणिको
विधिः । प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम् ।
उपवासस्तथा कार्य्य एकभक्तमतोऽन्यथा । सर्वौषधि-
जलस्नान सुगन्धामलकैरथ । नद्यान्तड़ागेऽथ गृहे
स्नानं सवेत्र शस्यते । देवान् पितॄन् समभ्यर्च्य ततो दर्भ-
मयीं शुभाम् । विष्टिं कृत्वा पुष्पघूपैर्मैवेद्यादिभिरर्च-
येत् । होमन्तु नामभिर्विष्टेः शतमष्टौत्तरं नृप! ।
भुञ्जीत दत्त्वा विप्राय तिलान् पायसमेव च । सतैलं
कृशरं भुक्त्वा पश्चाद्भ ञ्जीत कामतः । छायासूर्य्यसुते!
देवि! विष्टिरिष्टार्थताशिनि! । पूजितासि यथाशर्क्त्या
पृष्ठ ५०५०
भद्रे! भद्रप्रदा भव । उपोष्य विधिनानेन दश सप्त यथा
क्रमात् । उद्यापनं ततः कुर्य्यात् पूर्ववत् पूज्य भामिनीम् ।
स्थापयित्वायसे पीठे कृशरान्नं निवेद्य च । परिधाय
कृष्णवस्त्रयुगं मन्त्रेण तं पुनः । ब्राह्मणाय पुनर्दद्याद्
लौहतैले तिलांस्तथा । कृष्णां सवत्सां गामेकान्तथैव
कृष्णकम्बलाम् । दक्षिणाञ्च यथाशक्त्या दत्त्वा भद्रां
विसजैयेत् । य एवं कुरुते पार्थ! सम्यगभद्राव्रतं नरः ।
विघ्नं न जायते तस्य कार्य्यारम्भे कथञ्चन” ।
  • विष्णुदेवकीव्रतं विष्णुधर्मोत्तरे “प्रथमे कार्चिकस्याह्नि सम्प्राप्ते
देवकि! स्वयम् । पञ्चगव्यकृतस्नानः पञ्चगव्यकृताशनः ।
वाणपुष्पैः समभ्यर्च्य वासुदेवमजं विभुम् । दत्त्वा च
चन्दनं घूपं परमान्नं निवेदयेत् । घृतं निवेदयेद्विप्रे गृह्णी-
याच्च ततो व्रतम् । अद्यप्रभृत्यहं मासं विरतः प्राणिनां
बधात् । असत्यवचनात्स्तेयान्मधुमांसादिभक्षणात् । स्वपन्
विबुध्यन् गच्छंश्च स्मरिष्याम्यहमच्युतम् । परापवादं
पैशून्यं परपीड़ाकरन्तथा । सच्छास्त्रदेवतायज्ञनिन्दा-
मन्यस्य वा भुवि । न वक्ष्यामि जगत्यस्मिन् पश्यन् सर्व-
गतं हरिस् । अशक्तो बाऽधिशक्तोऽपि यस्मिन् वोदुं
यशस्विनि! । कुर्वीत नियमं तस्य त्यागाधर्मोपवृद्धये ।
कृत्वैवं पुरतो विष्णार्निर्वृतिं पापतः शुभे । नैवेद्यं
स्वयमश्नीयान्मौनी नित्यमुदङ्मुखः । मार्गशीर्षे तथा मासि
जातीपुष्पैर्जनार्दनम् । समभ्यर्च्य पुनर्धूपं चन्दनञ्च
निवेदयेत् । परम न्नञ्च देवाय विप्राय च पुनर्घृतम् ।
दत्त्वा तथैव गृह्णीयान्नियमो योऽस्य रोचते । तथैव
नक्तं भुञ्जीत नैवेद्य कुलनन्दिनि! । सर्वेष्वेव चतुर्मासं
पञ्चगव्यादिकं समम् । पुष्पधूपोपहारेषु विशेषो दक्षिणासु
च । स्नानप्राशनयोः साम्यं तथैव नक्तभोजनम् ।
अर्चयेत् प्रतिमासञ्च यैः पुष्पैस्तानि मे शृणु! । ये च
धूपाः प्रदातव्या नैवेद्यान्नञ्च यत्तथा । वाणैश्च जाति-
कुसुमै तथैव च मुकुन्दजैः । कुन्दातिमुक्तकै रक्तै रक्त
वीरैश्च रक्तकैः । श्वेतैः शुभ्रैर्मल्लिकायास्तथा मल्लिकया
ततः । दधिपद्माभकेतक्याः पद्मरक्तोत्पलेन च । क्रमेणा-
भ्यर्चितो विष्णुर्ददाति मनसि स्थितम् । कार्त्तिके मार्ग-
शीर्षे च धूपं पौषे च चन्दनम् । माघफाल्गुनचैत्रेषु
दद्याद्विष्णोस्तथाऽगुरुम् । वैशाखादिषु मासेषु त्रिषु देवकि!
भक्तितः । कर्पूरं देवदेवाय गुग्गुलं श्रावणादिषु ।
कार्त्तिकादिषु मासेषु परमान्नं शुभे! त्रिषु । कामारं माघं-
प्र्वैषु यवान्नञ्च ततस्त्रिषु । घृतं तिलान् जलघटं हि
रण्टमथ वा व्रती । प्रतिमासं तथा दद्याद् ब्रह्मणाय
शुभव्रते! । यथोक्तनियमानाञ्च ग्रहणं प्रतिमासिकम
कुर्वन् जगत्पतिर्विष्णु प्रीयतामिति मानवः । योषिद-
प्यचलप्रज्ञा व्रतमेतद् यथाविधि । करोति मासान्
सकलान् अवाप्नोति मनोरथान् । व्रतेनाराधितो विष्णु-
रनेन जगतःपतिः । ददात्यभिमतान् कामान् क्षिप्र-
कालेन भामिनि! । धन्यं यशस्यमायुष्यं सौभाग्यारौ-
ग्यदन्तथा । व्रतमेतत् प्रियतरं व्रतेभ्योऽव्यक्तजन्मनः” ।
  • विष्णुपदव्रतं विष्णुधर्मोत्तरे “आचष्ट दुःखक्षयदं व्रतं
विष्णुपदत्रयम् । सर्वारम्भविनिष्पत्तिकारकं पापनाशनम् ।
संसारोच्छेदकैर्धीरैर्यथेष्टं स्थिरबुद्धिभिः । तदह् तव
राजेन्द्र! व्रतानामुत्तोत्तमम् । कथयामि समाचष्ट
यथापूर्वं समासतः । आषाढ़े मासि राजेन्द्र! पूर्वाषादाषु
पार्थिव! । समभ्यर्च्य जगन्नाथमच्युतं नियतः शुचिः ।
पुष्पैर्धूपैस्तथा हृद्यैर्गन्धैः सागुरुचन्दनैः । यथाविभ{??}त-
श्चान्यैरत्नैर्वासोभिरेव तु । क्षीरस्नेहस्थितं तद्वद्द्रव्यै-
र्विष्णुपदत्रयम् । समभ्यर्च्य यथाशक्त्या केशवस्याग्रतो
न्यसैत् । यवांश्च दद्याद्विप्राय श्रीपतिः प्रोयतामिति ।
नक्तं भुञ्जीत राजेन्द्र! हविष्यान्नं सुशोभनम् ।
तथैवोत्तरषाढ़ासु श्रावणे मासि मानवः । तथैवाभ्यर्च्य
गोविन्दं तथा विष्णुपदत्रयम् । विप्रायात्र घृतं दत्त्वा
प्रीणयित्वा भुवःपतिम् । भुञ्जीत गोरसप्रायं मानवो
मौनमास्थितः । स्त्री वा राजेन्द्र! पूर्वासु तथा भाद्र-
पदासु वै । फाल्गुने फाल्गुनीपूर्वा भवेदिति यदा
नृप! । त्रिबिक्रमं तदा देवं पूर्वोक्तविधिनार्चयेत् ।
पदत्रयन्तु देवस्य समभ्यर्च्य तु पार्थिव! । हिरण्यं
दक्षिणां दद्यात् स्वर्गतिः प्रीयतामिति । नक्तं भुञ्जीत
राजेन्द्र! आज्यपाकविवर्जितम् । एष एवोत्तरायोगे चैत्रे
मासि विधिः स्मृतः । अपुत्रो लभते पुत्रमपतिर्लभते
पतिस् । समागमं प्रवासाच्च तथा प्राप्तोति बान्धवैः ।
भद्रवैश्चर्य्यमारोग्यं सौभाग्यं चानुरूपताम् । प्राप्नुया-
दखिलानेतान् पूजयित्वा पदत्रयम् । यान् यान् कामा-
न्नरः स्त्री वा हृदयेनाभिवाञ्छति । तांस्तानाप्नोति
निष्कामो विष्णुलोकं प्रपद्यते । पूर्वं कृत्वापि पापानि
नरः स्त्री वा नराधिप! । पदत्रयव्रतं कृत्वा मुच्यते
सर्वकिल्विषैः” ।
  • विष्णुप्राप्तिद्वादशीव्रतं भविष्यपु० “द्वादश्यामुपचासन्तु ये यै
कुर्वन्ति ते नराः । मामेव प्रतिपद्यन्ते मम भक्तिपरा-
पृष्ठ ५०५१
यणाः । कृत्वा चैवोपवासन्तु गृहीत्वा च जलाञ्ज-
लिम् । नमो नारायणायेति आदित्यं चावलोकयेत् ।
यावन्तो विन्दवः केचित् पतन्त्यञ्जलितो जलात् ।
तावद्बर्षसहस्राणि स्वर्गलोके महीयते । तथैव तस्यां द्वा-
दश्यां कृत्वा क र्म यथाविधि । पाण्डुरैश्चैव पुष्पैस्तु
मृष्टैर्गन्धैश्च धूपनैः । य एवं कारयेद्भूमे! तस्यापि शृणु
यां गतिम्” इत्यादि ।
  • विष्णुव्रतं भविष्यपु० “द्वादश्यां विष्णुमिष्ट्वेह सर्वदा
विजयी भवेत् । पूज्यश्च सर्वलोकानां यथा गोपति-
गाकरः” । गोपतिः सूर्य्यो गोकरो नेत्ररश्मिर्यस्य
स गोपतिगोकरो विष्णुः “मूलमन्त्राः स्वसंज्ञाभिरङ्ग-
मन्त्राश्च कीर्त्तिताः । पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च
तिथीश्वरः । गन्धपुष्पोपहारैश्च यथाशक्ति विधीयते ।
पूजाऽशाठ्येन शाठ्येन कृतापि तु फलप्रदा । आज्य-
धारासमिद्भिश्च दधिक्षीरान्नमाक्षिकैः पूर्वोक्तफलदो
होमः कृतः शान्तेन चेतसा” । एतत्तु व्रतं वैश्वानरप्रति-
पद्व्रतवद्व्याख्येयम् । पद्मपु० “द्वादश द्वादशीर्यस्तु
समाप्योपोषणैर्नरः । गीवतसं काञ्चनं विप्रानर्चयेद्भक्तितः ।
परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्” । विष्णु-
धर्मोत्तरे “विष्णुव्रतमिति ख्यातं दर्शितं विष्णुना
स्ययम् । पौषशुक्लद्वितीयादि कृत्वा मासचतुष्टयम् ।
षण्मासपारणप्रायं गृह्णीयात् परमं व्रतम् । पूर्वं सिद्धा-
र्थकैः स्तानं ततः कृष्णतिलैः स्मृतम् । वचयाथ तृती-
वेऽह्नि सर्वौषध्या ततःपरम् । नाम्ना कृष्णाच्युताख्येन
तथा तं तेन पूजयेत् । तथैव च चतुर्थेऽह्नि हृषीकेशं
च केशवम् । देवमभ्यर्च्य पुष्पैश्च पत्रैर्धूपानुणेपनैः ।
उद्गच्छतश्च बालेन्दीर्दद्यादर्घ्य समाहितः । पुष्पैः पत्रैः
फलैश्चैव सर्वधान्यैश्च भक्तितः । दिनक्रमेण चैतानि
चन्द्रनामानि कीर्त्तयेत् । शशी चन्द्रः शशाङ्कश्च निशा-
पतिरिति क्रमात् । नक्तं भुञ्जीत सततं यावत्तिष्ठति
चन्द्रमाः । अस्तङ्गते न भुञ्जीत व्रतभङ्गभयाच्छुभे! ।
एवं सर्वेषु मासेषु ज्यैष्ठान्तेषु यशस्यिनि! । कर्त्तव्यं वै
व्रतश्रेष्ठं द्वितीयादिचतुर्दिनम् । विप्राय दक्षिणां दद्यात्
पञ्चभ्यां च यशस्विनि! । एवं समापयेन्मासैः षड्भिः
प्रथमपारणम् । पारणान्ते च देवस्य प्रीणनं भक्तितः
शुभैः । यथाशक्त्या तु कर्त्तव्यं वित्तशाठ्यं विवर्जयेत् ।
स्वाषाड़ादिद्वितीयाञ्च षण्मासेन तपोधन! । पारणं वै
समाख्यातं व्रयस्यास्य शुभप्रदम्” ।
  • वृषव्रतं पद्मपु० “कार्त्तिक्यां यो वृषोत्सर्गं कृत्वा नक्तं
समाचरेत् । वैष्णवं पदमवाप्नोति वृषव्रतमिदं स्मृतम्” ।
  • वेदव्रतं विष्णुधर्मोत्तरे “इदमन्यत् प्रवक्ष्यामि चतुर्मूर्त्तिव्रत-
न्तव । विद्याकामेन यत्कार्य्यं नरेण सुविपश्चिता । बहिः-
स्नानं नरः कृत्वा कृतऋग्वेदपूजनः । ऋग्वेदं शृणुया-
न्नित्यं मासद्वयमतन्द्रितः । चैत्रादारभ्य धर्मज्ञ! नित्यं
नक्ताशनो भवेत् । ततो नृपवर! प्राप्ते ज्यैष्ठस्य
चरमेऽहनि । वासोयुगं हिरण्यञ्च तथा धेनुं पतस्विनीम् ।
घृतपूर्णं कांस्यपात्रं सहिरण्यन्तु दक्षिणाम् । आषाढ़ा-
दिषु मासेषु यजुर्वेदव्रतं चरेत् । आश्विनादिषु मासेषु
सामवेदव्रतं चरेत् । तथाथर्वव्रत नाम पौषादिषु
विधीयते । सर्वेषु सर्वं कर्त्तव्यमृग्वेदव्रतकौर्त्तितम् ।
वेदात्मनो वासुदेवस्य पूजां कृत्वा नरो द्वादशवत्सराणि ।
विष्णोर्लोकं याति लोकैर्विशिष्टं यस्मिन् प्राप्ते सर्वदुःखं
जहाति” । वेदग्रहणार्थं वेदव्रतं विधानपा० दृश्यम् ।
  • बेश्याव्रतं पद्मपु० “अथाप्यन्यत् व्रतं सम्यक् उपदेक्ष्यामि
तत्त्वतः । अविचारेण सर्वाभिरनुष्ठेयञ्च तत् पुनः ।
संसारोत्तराणायालमेतद्वेदविदो विदुः । यदा सूर्य्यदिने
हस्तः पुष्योऽवाथ पुनर्वसुः । भवेत् सर्वौषधीस्नानं सम्य-
ङ्गारी समाचरेत् । तदा पञ्चशरस्यापि सन्निधानमिहे-
ष्यते । अर्चयेत् पुण्डरीकाक्षमनङ्गस्यापि कीर्त्तनम् ।
तस्माद्विप्राय दातव्यं हृच्छ्रयः प्रीयतामिति । यथेच्छा-
हारभुग्नक्तं तमेव द्विजसत्तमम् । रत्यर्थं कामदेवोऽय-
मिति चित्तेन धारयेत् । यद्यदिच्छति विप्रेन्द्रस्तत्तत्
कुर्य्यात् विलासिनी । सर्वाभायेन चात्मानमर्पयेत् स्मित-
भाषिणी । एवमादित्यवारेण सदा तद्व्रतमाचरेत् ।
तण्डुलप्रस्यदानादि यावन्मासास्त्रयोदश । ततस्त्रयोदशे
भासि संप्राप्ते तस्य कामिनी । विप्रस्योपस्करैर्युक्तां शय्य
दद्याद्विलक्षणाम् । सोपधानकविश्राम स्वास्तरावरणां
शुभाम् । दीपकोपानहृच्छत्रपादुकासनसंयुताम् ।
सपत्नीकमलङ्कृत्य हेमसूत्राङ्गुलीयकैः । सूक्ष्मवस्त्रैः सकटकै-
र्धूपमाल्यानुलेपनैः । कामदेवं सपत्नीकं गुड़कुम्भोपरि-
स्थितम्” । कामदेवरूपन्तु मदनत्रयोदशीव्रतोक्तं विज्ञे-
यम् । “ताम्रपात्रासनगतं हैमसूत्रपटावृतम् सुकांस्य-
भाजनोपेतमिक्षुदण्डसमन्वितम् । दद्यादयथोक्तविधिना
तथैकां गां पयास्वनीम्” ।
  • वैतरणीव्रतं भविष्योत्तरे “एकादशी तिथिः कृष्णा
मार्गशीर्षगता नृप! । तामासाद्य नर सम्बक गृह्णी-
पृष्ठ ५०५२
यान्नियमं शुचिः । एकादशी तिथिः कृष्णा नाम्ना
वैतरणी शुभा । सा व्रतेन मया कार्य्या वर्षं नक्तपरा
यणः । गध्याह्ने तु नरः हात्वा नित्यं निर्वर्त्तित-
क्रियः । रात्रौ सुरभिमानीय कृष्णामर्चत् यथाविधि ।
पूर्वाभिमुख्यपि धातव्या कृष्णा गौर्लिप्तभूतले । अग्रपादा-
दितः पूज्या पञ्चात्पादद्वयावधि । गोपुच्छन्तु
समासाद्य कुर्य्यात् वै पितृतर्पणम् । ततः पूजा प्रकर्त्तव्या
शास्त्रदृष्टविधानतः । गाञ्चैव श्रद्धया युक्तश्चन्दनेनानु-
लेपयेत् । गन्धतोयेन चरणौ शृङ्गे प्रक्षाल्य भक्तितः ।
ततोऽनुपूजयेद्भक्त्या पुष्पैर्गन्धादिवासितैः । मन्त्रैः पुरा-
णसम्प्रोक्तैर्यथास्थानं यथाविधि” । “मार्गशीर्षादिके
भक्तं यावन्मासंचतुष्टयम् । अन्यन्मासुचतुष्कन्तु
यावकाशनमेव च । श्रावणादिषु मासेषु चतुर्ष्वद्याच्च
पायसम् । तदन्नस्य त्रयोभागाः गोगुरस्वार्थमेव च ।
नैवेद्यं हि मया दत्तं सुरभी प्रीयतामिति । द्वितीयं
गुरवे दद्यात् तृतीयं स्वयमेव च । मासाम्मासं प्रकुर्वीत
मासद्वादशकं व्रतम् । उद्यापनन्ततः कुर्य्यात् पूर्णे संवत्-
मरे तदा । शय्या सतूलिका भार्य्यादम्पत्योः परिधान-
कम् । सवत्सां कृष्णवर्णा तु धेनुः कार्य्या पयस्विनी ।
सौवर्णीं सुरभीं कृत्वा स्थापयेत् तूलिकोपरि । सुरनीं
पूजयेन्मन्त्रौः पूर्वोक्तैर्भक्तिसंयुतैः । ततस्तु गुरपे दद्यात्
सर्वं तत्र क्षमापयेत् । नारी वा पुरुषो वापि व्रतस्यास्य
प्रभावतः । राज्यं बहुविधं भुक्त्वा स्वर्गलोके महीयते ।
भारो लोहस्य दातव्यः कार्य्योऽसौ द्रोणसम्भितः ।
वैतरण्याः समाप्त्यर्थं ब्राह्मणाय कुटुम्बिने” ।
  • वैनायकचतुर्थीव्रतं भविष्योत्तरे “चतुर्थ्यां नक्तभुग्दद्या-
दव्दान्ते हेमवारणम्” । वारणः, करी । “व्रतं वैना-
यकं नाम सवविघ्नोपशान्तिदम्” ।
  • वैशाखव्रतानि पद्मपु० “वैशाखे पुष्पलवणं वर्जयित्वा तु
गोप्रदः । विष्णुलोकमवाप्नोति ततो राजा मवेदिह” ।
महाभारते “निरन्तरैकभक्तेन वैशाखं यो जितेन्द्रियः ।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत्” ।
विष्णुधर्मोत्तरे “यः क्षिपेदेकभक्तेन वैशाखं पूजयेद्धरिम् ।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ।
अहिंस्रः सर्वभूतेषु वासुदेवपरायणः । नमोऽस्तु वासुदेवा-
येत्यहश्चाष्टशतं जपेत् । अतिरात्रस्य यज्ञस्य ततः
फलमवाप्नुयात्” ।
  • वैश्वानरपतिपद्व्रतं भविष्योत्तरे “अग्निमिष्ट्वा हुत्वा च
प्रतिपद्यामिति स्मृतम् । हविषा सर्वधान्यानि प्राप्नुया-
दमृतं धनम्” । इष्ट्वा पूजयित्वा । प्रतिपद्यां प्रति-
पदि । इति स्मृत कामानुसारेण हिरण्यरेतस्कतया
विदितम् । हविषा घृतेन । सर्वघान्यानि हुत्वेत्र-
न्वयः । “मूलमन्त्राः स्वसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः ।
पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च तिथीश्वरः” । मूलमन्त्राः
प्रधानमन्त्राः अङ्गमन्त्राः परिवारदेवतामन्त्राः
अग्नये हृदयाय नम इत्येवमादयः । स्वसंज्ञाभिः ॐ
अग्नये नम इत्यादिपूजायाम् । ॐ अग्नये स्वाहा
इत्यादि होमे । पूर्ववत् सूर्य्यव्रतवत् । पद्ममध्यस्थः
कर्णिकायां स्वमूर्त्त्या पत्रेषु परिवारमूर्त्त्या स्थितः ।
तिथोश्वरोऽत्र वह्निः । स च श्मश्रुधारी त्रिलोचनो
रक्ताङ्गश्चतुर्वाहुः दक्षिणे शूलं तदपरे ज्वाला ।
उत्सङ्गगताया अन्नपात्रहस्तायाः स्वाहायाः स्कन्धे च
न्यस्तकरोऽपरो वरः । चत्वारः शुका रथस्य वोठारः ।
वायुः सारथिरित्येवं विष्णुधर्मोत्तराभिहितो येदितष्यः ।
“गन्घपुष्पोषहारैश्च यथाशक्ति विधीयते । पूजाऽशा-
द्येन शाद्येन कृतापि तु कलपदा । अशाढ्येन
अकपटेन शाठ्येनेति स्तुतिः । “आज्यघारासमिद्भिश्च दधि
क्षीरान्नमाक्षिकैः । पूर्वोक्तफलदो होमो विहितः
शान्तचेतसा” । आज्यधारादिभिः षड्भिः पृथक्कृतो
होमः पूर्वोक्तफलदा धनदः । माक्षिकं मधु । आदौ
पूजा ततो घृताक्तधान्यहोमस्ततो आज्यधारादिहोमः” ।
  • वैश्वानरव्रतं पद्मपु० “यश्चेन्धनन्ददेद्विप्रे वर्षादिचतुरस्त्वृतून् ।
घृतधेनुप्रदोऽन्ते च स परं ब्रह्म गच्छति । वैश्वानरव्रतं
नाम सर्वपापप्रणाशनम्” ।
  • वैष्णवव्रतं पद्मपु० “आषाढ़ादिचतुर्मासान् प्रातः स्नायी
भवेन्नरः । विप्राय भोजनं दत्त्वा कार्त्तिक्यां गोप्रदो भवेत् ।
घृतकुम्भं तथा दद्यात् सर्वकामानवाप्नुयात् । वैष्णव-
व्रतमित्युक्तं विष्णुलोकप्रदायकम्” ।
  • व्यतीपातव्रतं वराहपु० “शुभे व्यतीपातदिने विगाहयेत् स
पञ्चगव्येन महानदीजलम् । उपावसेद्वै एवमानजापको
जपेत्तु शुद्धो व्यतिपात! ते नमः । छादिते ताम्रपात्रेण
शर्करापूरिते घटे । काञ्चनाब्जे प्रतिष्ठाप्य हैमुमष्टभुज-
न्नरम्” । अष्टभुजं अष्टादशभुजम् उत्पत्तिवाक्ये व्यतीपात-
मूर्त्तेरष्टादशभुजत्वात् उत्पत्तिवाक्यानुसारत्वाच्च विनि-
योगवाक्यस्य यथा भगवद्गीतासु “चत्वारोमनवस्तथेति”
चत्वारश्चतुर्दश । “गन्धपुष्पाक्षतैर्धूपदीपवस्त्रनिवेदनैः ।
पृष्ठ ५०५३
भक्ष्यैर्भोज्यैः फलैश्चित्रैर्मासि मार्गशिरेऽर्चयेत् । नमस्ते-
ऽस्तु व्यतीपात! सूर्य्यसोमसुत! प्रभा! । यद्दानादि कृतं
किञ्चित् तदनन्तमिहास्तु मे । इत्युक्त्रा पञ्चरत्नाढ्यं
सपुष्पाक्षतमञ्जलिम् । प्रक्षिप्य तत्क्षणादेव सर्वपाप-
क्षयो भवेत् । यदि द्वितीयेऽपि दिने व्यतीपातो
भवेन्महि! । तदा पूर्णोपवासस्तु दद्यात्तत् सकलं गुरोः ।
पारणं व्यतिपातान्ते कुर्य्यात् संप्राश्य गोमयम् । अथै
कस्मिन्नेव दिने व्यतीपाती भवेद् यदि । तत्रैवाह्नि
तदा दत्त्वा उपवासं समाचरेत् । कुर्य्यादेवं मासि मासि
व्यतीपातस्त्रयोदश । व्यतीपाते तु संप्राप्ते कुर्य्यादुद्या-
पनं बुधः । व्यतोपाताय स्वाहेति क्षीरवृक्षसमन्वितम् ।
आज्यक्षोरतिलानाञ्च होतव्यं वै शतं शतम्” ।
नारटोयपु० “व्यतीपातव्रतस्यास्य विधानं शृणु तत्त्वतः ।
माघे वा फाल्गुने वापि अन्यस्मिन्मासि वा भवेत् ।
व्यतीपातो दिने यस्मिन् प्रारभेद्व्रतमुत्तमम् । तिलैः
पूर्णं शरावञ्च सगुड़ं गुरवेऽर्पयेत् । एवं द्वितीये दातव्यं
तृतीये तु समापयेत् । सघृतं पायसञ्चैव दातव्यं
चोत्तरोत्तरम् । एवं संवत्सरस्यान्ते देवस्यार्चान्तु
कारयेत् । शङ्खचक्रगदापाणिं पद्महस्तं हिरण्मयम् ।
वस्त्रयुम्मेन संवेष्ट्य पूजयेद्गरुड़ज्वजम् । गोक्षीरेण च
संपूर्णं कांस्यभाजनमुत्तमम् । स्थापयेद्देवदेवस्य स्थानन्त-
त्रैव कल्पयेत् । शय्या च सन्निधौ तस्य स्थाप्या
देवमनुस्मरन् । अनन्तशायिनं देवमनन्तफलदं शुभम् ।
लक्ष्म्या सहान्वितं विष्णुं भक्त्या संपूजयेद्गुरुम् । वै
दिकेनैव मन्त्रेण जातीपुष्पैः समर्चयेत् । पायसेनैव
नैवेद्यं शर्करासंयुतेन च । दत्त्वा निवेद्यं देवस्य प्रार्थनं
प्रार्थयेद्व्रती” ।
  • व्योमव्रतं भविष्यपु० अगस्त्यार्घ्यदानाऽनन्तरम् “सितचन्दन-
तीयेन व्योम स्थाप्य बिलिप्य च । कर्णिकाकल्पितैः पद्मैः
संप्ज्य प्रसिपत्य च” । कर्णिकाकल्पितैः कर्णिकामण्डितैः
“बकुले विमले सौम्ये निच्छिद्रे पुष्पिते सति” । पुष्पिते
विकसिते । “मध्ये केसरजालस्य व्योम स्थाप्यं सुशो-
भनम् । अङ्गुष्ठपर्वपात्रन्तु सर्वगन्धसमन्वितम् । अग्रे
सस्थापयित्वा च भास्करस्य सुरोत्तम! । पूजयेत्
करवीरैस्तु तथा रक्तैश्च चन्दनैः । धूपञ्च गुग्गुलं दद्यात्
प्रणम्य शिरमा रविम् । कुङ्कुमं पूर्वपार्श्वे तु दद्या-
द्व्योम्नः समाहितः । दक्षिणे चागुरुं दत्त्वा पश्चिमे
चन्दनं सितम् । चतुःसमञ्चोत्तरे तु दद्याद्व्योमविच-
क्षणः । दद्यान्मध्ये शुभं पुण्यं रक्तचन्दनमादरात् ।
पूजयेद्विविधैः पुष्पेस्तथा साऽगुरुचन्दनैः । धूपं कृष्णा-
गुरुं दद्यात् सघृत वापि गुग्गुलुम् । वासांसि च
सुसूक्ष्माणि विकेशानि निवेदयेत् । पायसं घृतसंयुक्तं
घृतदीपांश्च दापयेत् । सर्वं निवेद्य मन्त्रेण ततो गच्छेत्
प्रदक्षिणम् । प्रणम्य शिरसा भानुमुत्थायैन क्षमापवेत् ।
सर्वोपहारसंयुक्तं बलिं देवाय चाहरेत् । खखोल्का-
येति मन्त्रेण सूर्य्यायामिततेजसे । अनेन विधिवद्देव-
ञ्चार्चयित्वा पुरा रविम् । अहं ब्रह्मत्वमापन्नः प्रसादा-
द्भास्करस्य तु” ।
  • व्योमषष्ठीव्रतं भविष्यपु० “भाजनं तत्र संपूर्णं मधुना च
समन्वितम् । दद्यात् कृष्णतिलानां तु प्रस्थमेकन्तु
मागधम् । त्रितुणं तण्डुलानां च पृयक प्रस्थं च
कारयेत्” । भाजनं प्रस्थचतुष्टयपूरणोयं पात्रं त्रिगुणं
प्रस्थत्रयम् पृथगिति घृतमधुतिलतण्डुलपात्राणि
पृथक् कुर्य्यात् । “गन्धपुष्पैस्तथा धूपैर्नानावाद्यैर्विशेषतः ।
ततः संपूजयेत् सूर्य्यं नानावाद्यसमन्वितम् । सूर्य्यं
गगनस्थम् । “पूजयेच्च ततो व्योम बलिं दिक्षु प्रपूजयेत् ।
व्यामदेवगृहे चैव सवभूतानि याजयेत् । व्योमदेव
गृहे तत्र यत्र व्योम प्रतिष्ठितम्” । व्योमनिमांणं
विष्णुधर्मोत्तरात् “चतुरस्रं भवेन्मूले तत्र वृत्तं
महाभुजम् । ततोऽन्यत् चतुरस्रञ्च प्रथमे संस्थितं शुभम् ।
भद्रपीठमये प्रोक्तो व्योमभागस्तुरीयकः । स्तम्भे वैश्वा-
नरोऽथास्य मध्यभागः प्रकीर्त्तितः । भद्रपीठषदन्यच्च
तत्र पद्मं निवेशयेत् । शुभाष्टपत्रं तन्मध्ये कर्णिकायां
दिवाकरः । पत्राष्टके न्यसेत्तस्य दिक्पालान् सर्वतो
दिशम्” । “य एवं कुरुते षष्ठ्यां सन्ध्याकाले बलिं रवेः ।
स सूर्य्यलोकमासार्द्य मोदते शाश्वतीः समाः” ।
  • व्रतराजतृतीयाव्रतं देवीपु० “तृतीयायान्तु शुक्लायां लिखे-
द्वस्त्रयुगे शुभे । रोचनासितकर्पूरैः शिवोमां पूजयेत्ततः ।
हेमरत्नस्रजैर्वत्स! मन्त्रयुग्ममुदीरयेत् । समस्तकाम-
फलदं यत्तत् पूर्वमुदाहृतम् । ततो जपार्चनं होषं
कर्त्तव्यं द्विजसत्तम! । अवियोगाय नारीणां व्रतराजं
सदा हितम् । सहेमपुष्परत्नाद्यं सवस्त्रं दापयेत्तु तथ ।
महापुण्यं महाभाग्यं सर्वकामप्रदायकम । सुतभ्रातृ
वियोगस्तु न भवेत्तेन भो द्विज! । न व्याधिर्नोपसर्भाध
यावत्तन्तुरजो भवेत् । तावत्कालसुपासोके राक्षते
मोदते चिरम्” ।
पृष्ठ ५०५४
  • शक्रव्रतं विष्णुधर्मोत्तरे “आश्वयुज्यां सपूर्वन्तु पौर्णमास्यां
नरो भुवि । सोपवासः सुरेन्द्रञ्च देवं संपूजयेत्तथा ।
शचीमैरावतं वज्रं मातलिञ्च नराधिपः । गन्धमाल्य-
नमस्कारदीपधूपान्नसम्पदा । संवत्सरान्ते कनकञ्च दत्त्वा
प्राप्नोति लोकं स पुरन्दरस्य । मानुष्यमासाद्य नरेन्द्र-
पूज्यो राजा भवेद् वा द्विजपुङ्गवो वा” । पद्मपु०
“आकाशाशी समां दद्याद्धेनुमन्ते पयस्विनीम् । शक्र-
लोकमवाप्नोति शक्रव्रतमिद स्मृतम्” ।
  • शङ्करनारायणव्रत देवीपु० “कथितं शङ्करोमाख्यं व्रतं
भनसि तुष्टिदम् । श्रोतुमिच्छाम्यहन्तात विष्णुशङ्कर-
संज्ञितम्” । मनुरुवाच “यथा उमेश्वरन्तात तथा कार्य्य-
मिदं व्रतम् । किन्तु पीतानि वासांसि केशवाय प्रक-
ल्पयेत् । गन्धपुष्पं तथा धूपं सुगन्धञ्च जनार्दने ।
कार्य्यं पूजनसम्भारे लड्डुकादिरसं दधि । एवन्तौ
पूजयित्वा तु प्रतिमास्थण्डिलेऽपि वा । आहूय ब्रा-
ह्मणौ वत्स! वेदवेदाङ्गपारगौ । यती वा व्रतसम्पन्नौ
जटाकाषायधारिणौ । तौ भोजयेद्विधानेन शूलपाणि-
जनार्दनौ । क्षभाप्य विधिना वत्स! सर्वकामप्रसाधकौ ।
भूमात्रं दक्षिणां विष्णार्मौक्तिकं शङ्कराय च । दत्त्वानु-
व्रजतो लोकौ क्रमाद्देहक्षये ततः” ।
  • शङ्करार्कव्रतं कालिकापु० “अथ चानेन मार्गेण शुभां
तामेव चाष्टमीम् । सम्प्राप्यादित्ययोगेन प्राग्विधानेन वा
नरः । किन्तु दक्षिणनेत्रस्थं भास्करञ्चार्चयेद्बुधः ।
पद्मरागेण हैमेन योज्येदं सेपनं शृणु । नेत्रे न्यस्य
ललाटाधः कुङ्कुमं रक्तचन्दनम् । वृत्तन्तु योज्य मध्ये
तु हरं पूर्ववदर्चयेत्” । अर्द्धचन्द्राकारं तन्मध्ये वृत्तञ्च
कृत्वा हेमनिबद्धं पद्मरागं वृत्तमध्ये निधाय सूर्य्य-
रूपनेत्रं कुर्य्यादित्यर्थः । “अभावे पद्मरागादेर्हेम
सर्वत्र योजयेत् । रुद्रवीजं परं पूतं यतस्तच्चैव सर्वदा ।
शुक्लमाल्याम्बरं वल्कं नैवेद्यं च घृतप्लुतम् । शेषः
पूर्वविधानेन कर्त्तव्यो विधिविस्तरः । किन्तूपोष्य प्रकु-
र्वीत सप्तम्यां विजितेन्द्रियः । शङ्करार्कयुतं पूज्य घृतं
गव्यञ्च पारयेत्” ।
  • शनिव्रतं भविष्योत्तरे “अतो यमस्य दिवसे स्नानमभ्यङ्गपूर्व-
कम् । कार्य्यं देयञ्च विप्राय तैलमभ्यङ्खहेतवे । यस्तु
संत्वत्सरं यावत् प्राप्ते शनिदिने नरः । तैलं ददाति
विप्राणां स्वशक्त्यान्यजनस्य तु । ततः संवत्सरस्यान्ते
प्राप्ते तस्य दिने पुनः । लौहपटार्पितं सौरिं तैलकुम्भे
विनिक्षिपेत् । लौहे वा मृण्मये चाथ कृष्णवस्त्रयुगा-
न्वितम्” इत्यादि ।
  • शर्करासप्तमीव्रतं पद्मपु० “शर्करासप्तमीं वक्ष्ये सर्वकल्मष-
नाशिनीम् । आयुरारोग्यमैश्वर्य्यं ययानन्त्यं प्रजायते ।
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः । प्रातःम्नात-
स्तिलैः शुक्लैः शुक्लमाल्यानुलेपनः । स्थण्डिले पद्म-
मालिख्य कुङ्कुमेन सकर्णिकम् । तस्मिन्नियमः
सवित्रे धूपं पुष्पं निवेदयेत् । स्थापयेदव्रणं कुम्भ शर्करा-
पात्रसंयुतम् । शुक्लवस्त्रेण संवेष्ट्य शुक्लमाल्यानुलेपनैः ।
सहिरण्यं यथाशक्त्या मन्त्रेणानेन पूजयेत्” इत्यादि ।
  • शाकसप्तमीव्रतं भविष्यपु० “सप्तम्यां सोपवासस्तु रात्रौ भुङ्क्ते
तु यो नरः । कृतोपवासः षष्ठ्यां तु पञ्चम्यामेककाल-
भुक् । दत्त्वा तु संस्कृतं शाकं भक्ष्यभोज्यैः सुसंस्कृतम् ।
देवाय ब्राह्मणेभ्यश्च रात्रौ भुञ्जीत वाग्यतः ।
यावज्जीवं नरः कश्चिद्व्रतमेतच्चरिष्यति । तस्य श्रीर्विजय-
श्चैव त्रिवर्गश्च विवर्द्धते । मृतः स्वर्गमवाप्नोति विमान-
वरमास्थितः” । “शाकं सुसंस्कृतं कृत्वा भक्ष्यभोज्यसम-
न्वितम् । दत्त्वा विप्रे यथाशक्त्या पश्चाद्भुङ्क्ते निशि
व्रती । कार्त्तिके शुक्लपक्षस्य ग्राह्योऽयं कुरुनन्दन! ।
चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम् । अगस्ति
कुसुमैश्चाव्र पूजा कार्य्या विभावसोः” । कार्त्तिकशुक्ल-
सप्तम्यामारभ्य प्रतिमासं कुर्वता पुनर्मासचतुष्टयम् यावत्
शुक्लसप्तमी तस्यां तस्याञ्च पारणं कार्य्यम् । एकस्मिन्
वर्षे वारत्रयं पारणं भवति एवमेव वर्षान्तरेषु तादृशं
व्रतं यावज्जीवं कर्त्तव्यम्” ।
  • शान्ताचतुर्थीव्रतं भविष्यत्पु० “माघमासि तथा शुक्ला या
चतुर्थी महीपते! । ला सर्वशान्तिदा नित्यं शान्तिं
कुर्य्यात् सदैव हि । म्नामं दानं बलिः कर्म सर्वमस्यां
कृतं विभो! । भवेत्सहस्रगुणितं प्रसादाद्दन्तिनः सदा ।
कृत्वोपवासं यस्तस्यां पूजयेद्विघ्ननायकम् । तस्यां होमा-
दिकं कर्म भवेत्साहस्निकं नृप! । लवर्ण गुड़पूर्णञ्च
घृताक्तं तच्च भारत! । दत्त्वा भक्त्या तु बिघ्नेशं फलं
साहस्निकं लभेत्” ।
  • शान्तितृतीयाव्रतं गरुड़पु० “तृतीयायां महामाग! कर्त्त-
व्यञ्च व्रतं शृणु । येनानन्तभवारब्धमेनः क्षपयति द्विज! ।
ग्रहपीड़ादिकैरन्यैरुपसर्गैः प्रपीड़ितः । अस्यां शान्तिं
प्रकुर्वीत यतवाक्कायमानसः । स्थण्डिलं रचयित्वा तु
नरोवीजप्रसूनकैः । चक्राब्जं मण्डलं कुर्यादस्विन्नसित-
पृष्ठ ५०५५
तण्डुलैः । तत्र चावाहयेद् देवं नरसिंहाकृतिं विभुम् ।
प्रसन्नमधुरोदारवीक्षणक्षपितार्त्तिकम् । अशेषभयविध्वंस-
चतुरं पुरुषं हरिम् । अभयं भयतप्नानां ददतं ददतं
वरम्” इत्यादि । “होमाच्च द्विगुणं प्राहुस्तर्पणं
मन्त्रनिश्चयः । तस्य तद् द्विगुणं प्राहुर्जप एष विधि-
क्रमः । नियोगारम्भसमये नियमान् प्रतिपालयेत् ।
त्रयं चाहरहः कुर्वन् नक्तकालं समापयेत्” । नियमान्
मौनादीन् । त्रयञ्चाहरहः पूर्वं नक्तकालं समापयेत् ।
त्रयं होमतर्पणजपान् अहरहः प्रतिदिनं संख्या च
सङ्कल्पितहोमसंख्यापेक्षया । “हविष्याशी जितक्रोधो
यतवाक्कायमानसः । नित्यं त्रिःषवर्ण स्नायात्
सदाचाररतो मुनिः । न चानृतकथोऽनग्निर्ब्रह्मचारी
जितश्रमः” । यस्त्वेतत् कुरुते मर्त्त्यः श्रद्धाभक्ति-
समन्वितः । स सर्वार्त्तिविनिर्मुक्तो शान्तिमाप्नोति
नैष्ठिकीम्” ।
  • शान्तिपञ्चमीव्रतं भविष्यपु० “तद्धद्भाद्रषदे मासि पञ्चम्यां
श्रद्धयान्वितः । यत्नाल्लिख्य नरो नागान् कृष्णवर्णादि-
वर्णकैः । पूजयेद्गन्धधूपैस्तु सर्पिर्गुग्गुलपायसैः । तस्य
तुष्टिं समायान्ति पन्नगास्तक्षकादयः । आसहस्रञ्जला-
त्तस्य न भयं नागतो भवेत् । तस्मात् सर्वप्रयत्नेन
नागान् संपूजयेद्बुधः । तथैवाश्वयुजे मासि पञ्चम्यां
कुरुनन्दन! । कृत्वा कुशमयान्नागानिन्द्राण्या सह
पूजयेत् । यस्तस्यां विधिवन्नानान् शुचिर्भक्त्या
समन्वितः । पूजयेत् कुरुशार्दूल! तस्य शेषादयो नृप! ।
नागाः प्रीता भवन्तीह शान्तिमाप्नोति वा विभो! ।
प्रशान्तिलोकमासाद्य मोदते शाश्वतीः समा” ।
  • शान्तिव्रतं वराहपु० “शान्तिव्रतं प्रवक्ष्यामि शृणुष्वैकमना
नृप! । येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनः ।
पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि पार्थिव! । आरभ्य
बर्षमेकन्तु भुञ्जीयादम्लवर्जितम् । नक्तन्तु पूजयेद्देवं
हरिं शेषोपरिस्थितम् । एवं यः कुरुते भक्त्या व्रत-
मेतन्नराधिप! । तस्य शान्तिर्भवेन्नित्यं नागेभ्यश्चाभयं
तथा । शेषाहिभोगशयनस्थमपांप्रसूतिं सपूज्य यज्ञ-
पुरुषं पतगेन्द्रकेतुम् । येनम्लमत्त्यमधुरं सितपञ्चमीषु
तेषां न नागजनितं भयमस्ति किञ्चित्” ।
  • शाम्भरायणीव्रतं भविष्योत्तरे “तस्मात् पोर्थ! प्रयत्नेन
प्रतिमासं समाहितः । मासि मास्यच्युतं पूज्य भवेथा-
स्तन्मनास्तथा । ये शाम्भरायणिकथाचरितव्रतेन वर्षाणि
सप्त विधिना सुधियो नयन्ति । ते स्वर्गलोकमभिलभ्य
कृताधिवासाः कल्पायुतं सुतशतैरपि न च्यवन्ति” ।
  • शिलाचतुर्थीव्रतं भविष्योत्तरे “लवणैर्धान्यकैर्युक्तं जीरकं
मरिचानि च । हिङ्गं शूण्ठीं हरिद्राञ्च सर्वं
परिकरं तथा । चतुर्थ्यामेकभक्ताशी सकृद् दत्त्वा कुटुम्बिने ।
गृहेषु सप्तसु तथा शिलायुक्तानि भारत! । एतच्छिला-
व्रतं नाम लक्ष्मीलोकप्रदायकम्” ।
  • शिवचतुर्दशीव्रतं मत्स्यपु० “शृणुष्याबहितो ब्रह्मन् वक्ष्ये
माहेश्वरं व्रतम् । त्रिषु लोकेषु विख्यातं नाम्ना
शिवचतुर्दशी । मार्गशीर्षे त्रयोदश्यां सितायामेकभोजनः ।
प्रार्थयेद्देवदेवेशं त्वामहं शरणङ्गतः । चतुर्दश्यां निरा-
हारः समभ्यर्च्य च शङ्करम् । सुवर्णवृषभं कृत्वा
भोजयेच्चापरेऽहनि । एवं नियमकृत् सुत्वा प्रातरुत्थाय
मानवः । कृतम्नानजपः पश्चादुमया सह शङ्करम् ।
पूजयेत् कमलैः शुक्लैः गन्धधूपानुलेपनैः” । “पञ्चदश्यां
ततः पूज्य विप्रान् भुञ्जीत वाग्यतः । तद्वत्कृष्णचतु-
र्दश्यामेतत् सर्वं समाचरेत् । चतुर्दशीषु सर्वासु कुर्य्यात्
पूर्ववदर्चनम् । ये तु मासविशेषास्तु तान्निबोध क्रमा-
दिह । र्मार्गर्शीर्षादिमासेषु क्रमादेतदुदीरयेत्” ।
आश्विनान्तेष्विति ज्ञेयम् इत्यादि ।
  • शिवनक्तव्रतं भविष्यपु० “कृष्णाष्टमीं तु नक्तेन कृत्वा
कृष्णचतुर्दशीम् । इह भोगानवाप्नोति परत्र शिवमृ-
च्छति” ।
  • शिवरथव्रतं विष्णुधर्मोत्तरे “कृत्वैकभक्तं हेमन्ते माघमासे
तु यन्त्रितः । माधान्ते च रथं कुर्य्याच्चित्रवस्त्रोपशी-
भितम् । श्वेतैश्चतुर्भिः संयुक्तं वृषभैः समलङ्कृतम् ।
शोभितं ध्वजमालाभिश्चित्रचामरदर्पणैः । तण्डुलाढ़क-
पिष्टेन लिङ्गं कृत्वा सवेदिकम् । विन्यस्य रथमध्ये तु
पूजयेत् कृतलक्षणम् । तद्रात्रौ राजमार्गे च शङ्खभेर्य्या-
दिभिः स्वनैः । भ्रामयित्वा ततः पश्चाच्छिवायतनमान-
येत् । तत्र जागरपूजाभिः प्रदीपाद्युपशोभितैः । प्रेक्ष-
णीयप्रदानैश्च क्षपयेत शनैर्निशाम् । प्रभाते स्नापन कृत्वा
तद्भक्तानाञ्च भोजनम् । दीनान्धकृपणानाञ्च यथाशक्त्या
च दक्षिणाम् । रथं शोभासमायुक्तं शिवाय विनि-
वेदयेत् । भुक्त्वा च वान्धवैः सार्द्धं प्रणम्येशं गृहं
व्रजेत्” ।
  • शिवरात्रिव्रतं स्कन्दपु० नागरखण्डे “माघस्य कृष्णपक्षीय
तिथिश्चैव चतुर्दशी । तस्या रात्रिः समाख्याता शिव-
पृष्ठ ५०५६
रात्रिरिति द्विजाः! । तस्यां सर्वेषु लिङ्गेषु सदा संक्रमते
हरः । विशेषादमरैः सर्वैः ख्याता सैवं कणेश्वरे ।
माथमासस्य कृष्णायां चतुर्दश्यां सुरेश्वर! । अहं
यास्यामि भूमिष्ठो रात्रौ नैव दिवा कलौ । लिङ्गेषु च
समस्तेषु चलेषु स्थावरेषु च । प्रपूजयेत् सम्पदिच्छुः
सर्वपापविशुद्धये । तस्यां रात्रौ हि मे पूजां यः
करिष्यति मानवः । मन्त्रैरेतैः सुरश्रेष्ठ! विपाप्मा
स भविष्यति” । स्कन्दपु० “माघमासे तु या कृष्णा फाल्-
गुनादौ चतुर्दशी । सा तु पुण्या तिथिर्ज्ञेया सर्वपाप-
विनाशिनी । शान्तात्मा क्रोधहीनस्तु तपस्वी ह्यनसू-
यकः । तस्मै देयमिदं देवि! गुरुपादानुगे सदा ।
अन्यथा यो ददातीदं स दाता नरकं व्रजेत् । वर्षे वर्षे
महादेवि! नरोनारी पतिव्रता । वीक्षयामि जगत्
सर्वं कोमां भक्त्या प्रपूजयेत् । शिवमन्त्रैर्जपं कृत्वा
होममर्चनदीपनम् । जागरं शिवरात्र्यान्तु शिवं पश्येत्
समाहितः । मम भक्तो नरो देवि! शिवरात्रेरुपोषकः ।
गणत्वमक्षयं दिव्यमक्षयम् शिवशासनम् । सर्वं कृत्वा तु
भजते गोगानमृतसम्भवान् । एवं द्वादश वर्षाणि
शिवरात्रेरुपोषकः । योमां जागरते रात्रिं मनुजः स्वर्ग-
माप्नुयात् । अकृत्वा मां न जानाति व्रतमेतदुदाहृतम् ।
शिवञ्च पूजयित्वा यो जागर्त्ति च चतुर्दशीम् । मातुः
पयोधररसं न पिबेत् स कदाचन । यदीच्छेच्चाक्षयान्
भोगान् दिवि देवसमः पुमान् । आगमोक्तविधिं कृत्वा
प्राप्नोति सकलं फलम्” ।
  • शिवलिङ्गव्रतं शिवधर्मोत्तरे “सितचन्दनतोयेन स्नाप्य लिङ्गं
विलेप्य च । श्वेतैर्विकसितैः पद्मैः संपूज्य प्रणिपत्य च ।
पङ्कजे विमले सौम्ये निच्छिद्रे पुष्पिते घने” । सौम्ये रम्ये
“मध्ये केमरजालस्य स्थाप्य लिङ्गं कतीयसम् । अङ्गुष्ठ-
मात्रं विधिवत् सर्वगन्धमयं शुभम् । स्थाप्य दक्षिण-
मूर्त्तौ तु बिल्वपत्रैः समर्चयेत् । एवं योऽर्चयते लिङ्गं
पद्मे गन्धमयं शुभम् । सर्वपापविनिर्मुक्तः शिवमेवाभि-
गच्छति । एतद्व्रतोत्तमं गुह्यं शिवलिङ्गं महाव्रतम् ।
भक्तस्य ते मयाख्यातं न देयं यस्य कस्यचित्” ।
  • शिवव्रतं कालोत्तरे “अतःपरं प्रवक्ष्यामि व्रतानान्तु
यथाक्रमम् । अष्टम्यान्तु चतुर्दश्यां पक्षयोरुभयोस्तथा ।
उपोष्य संयतो मूत्वा त्रिविधेनान्तरात्मना । ततोऽपराह्ले
शुचिना विशेषात् पूजयेच्छिवम् । पूर्वोक्तेन विधानेन
जपचोमादिमाचरेत् । पूजवेत् परया भक्त्या गुरुवाक्
साधनादिकैः । ततस्तु पञ्चगव्यैश्च प्राशयेच्चुलुकत्रयम् ।
अमत्तश्चोपसम्स्पृश्य हविष्यान्नेन वर्त्तनम् । अनेन
विधिना यत्नाद् यावज्जीवं ब्रतं चरेत् । पिता पितामह-
श्चैव तथैव प्रपितामहः । वसन्ति शिवलोकेषु शिवव्रत-
प्रभावतः । एतच्छिवव्रतं नाम व्रतानामुत्तमोत्तमम्” ।
तत्रैवान्यव्र “पौषमासे तु सम्प्राप्ते पक्षयोरुभयोः सुत! ।
चतुर्दश्यामथाष्टम्यां पौर्णमास्यामथापि वा । नित्यं
निवंर्त्य विधिवत् ततः काम्यं समाचरेत् । विशेषपूजा
तत्रैव कर्त्तव्या शुद्धचेतसा । नैवेद्यं यावकप्रस्थं खण्डं
क्षीराज्यसंस्कृतम् । रुद्रसंख्यांस्तु वै विप्रान् भोजयेच्चैव
दक्षयेत् । वितस्तिमात्रां प्रकृतिं यावपिष्टेन निर्मिताम् ।
सशृङ्गखुरलाङ्गूलकृतभूषान्तु कारयेत् । शिवाय तु
प्रदातव्या कपिला गुरवे ततः । स्ववाहनसमायुक्ता व्रत-
पुण्यमतः शृणु!” । वर्षसाध्यम् “अनेन विधिमा माघे
खड्गं पिष्टमयं शिवे । समप्यं च विधानेंन चक्रवर्त्ति-
पदं लभेत् । फाल्गुने तु तथा चक्रं निवेद्य तत्पदं
लभेत् । चैत्रे शिवं पिष्टमयं निवेद्य च शिवाग्रतः ।
स मुञ्चति ब्रह्महत्यां शिवलोकमवाप्नुयात् । वैशास्वे
मासि दण्डाग्रं शिवस्याग्रे निवेदयेत् । हस्तार्द्धं
पिष्टकं कार्य्यं पूजान्ते तु निवेदयेत् । सुच्यते सर्वपापेभ्यो
रुद्रलोके महीयते । ज्यैष्ठे पिष्टमयं खड्ग शिवाय
विनिवेदयेत् । मुच्यते तु कृतघ्नत्वाद्रुद्रलोके तु गच्छति ।
आषाढ़े पिष्टजं पात्रं शिवाय विनिवेदयेत् । मुच्यते
दुष्कृतैः सर्वैरिह जन्मनि सञ्चितैः । ध्वजं पिष्टमयं
यस्तु शिवस्याग्रे निवेदयेत् । श्रावणे तु विधानेन
सोऽक्षय मोक्षमाप्नुयात् । मासे भाद्रपदे यस्तु गदां पिष्टमयीं
ददेत् । निधीशत्वं स सम्प्राप्य शिवलोके महीयते ।
मासि चाश्वयुजे शूल दत्त्वार्द्धपिष्टसम्भवम् । शिवाय
पुरतो देय भ्रूणहत्यां व्यपोहति । कार्त्तिके तु
गदाचक्रं शिवस्याग्रे निवेदयेत् । सप्तजन्मकृतं पाप
दहत्यग्निरिवेन्धनम् । मासे वै मार्गशीर्षे तु कमलं पिष्ट-
सम्भवम् । शिवाय विधिना देयं सर्वैश्वर्य्यमवाप्नुयात् ।
सर्वेषाञ्चैव नक्तन्तु व्रतानां कीर्त्तितं मया । नित्यपूजान्तु
निर्वर्त्य काम्यपूजान्तु कारयेत्” । तत्रैवान्यत्र “अश्वं वै
मार्गशीर्षे तु यस्तु पिष्टमयं ददेत् । शिवं सम्पूज्य
विधिवत् सूर्य्यलोके महीयते । दिव्यं वर्षसहस्रन्तु
तदन्ते स्यान्महीपतिः । पौषे पिष्टमयी दन्ती शिवस्याग्रे
निवेद्यते । त्रिःसप्तकुलसयुक्तः शिवलोके महीयते ।
पृष्ठ ५०५७
दिव्यं वर्षसहस्रन्तु तदन्ते स्यान्महीपतिः । चक्रवर्त्ती
महावीरः सर्वैश्वर्य्यसमन्वितः । माघे चाश्वरथं यस्तु
शिवाय विनिवेदयेत् । उद्धरेत्सोऽपि नरकात् स्वपितॄन्
रौरवादितः । शिवलोके तु वसति दिव्यवर्षायुतत्रयम् ।
तदन्ते तु महीं कृत्स्नां न च खण्डां भुनक्ति सः ।
फाल्गुने वृषयूथन्तु पिष्टोत्थं रुद्रसंख्यया । निवेद्य तु
शिवस्याग्रे त्रैलोक्याधिपतिर्भवेत् । दिव्यं वर्षसहस्रन्तु
तदन्ते स्यान्महीपतिः । चक्रवर्त्ती महावीरः सर्वैश्वर्य्य-
समन्वितः । चैत्रे गृहमिन्दुमयं दासदासीसमन्वितम् ।
गृहोपकरणैर्युक्तं विचित्राङ्गणचर्चितम् । पूजान्ते
परया भक्त्या शिवाय विनिवेदयेत् । दिव्यवर्षशतान्यष्टौ
रुद्रलोके महीयते । जातिस्मरस्तदन्ते तु चक्रवर्त्तित्व-
माप्नुयात् । मासि वैशाखसंज्ञे तु सप्तव्रीहिशराव-
कान् । शिवाय पुरतो दद्यात् पूजान्ते प्रीतचेतसा ।
स याति शिवसायुज्यं बन्धुभिः सहितो नरः । पलानां
द्वे शते यस्तु गुग्गुलन्तु दहेत् सुधीः । ज्यैष्ठे मासि
शिवस्याग्रे पूजान्ते भक्तिसंयुतः । त्रिःमप्तकुलसंयुक्तः
शिवलोके महीयते । तदन्ते पृथिवीं भुङ्क्ते न च खण्डां
ससागराम् । बलिमण्डलकं कार्य्यं आषाढ़े शूलपाणिनः ।
नानाभक्ष्यैर्विरचितं नानाभक्ष्यससन्वितम् । नाना-
चित्रसमाकीर्णं कर्त्तव्यं बलिमण्डलम् । संपूज्य परमे-
शानं ततस्तस्य निवेदयेत् । पितॄन् पितामहांश्चैव उद्धृत्य
प्रपितामहान् । पुत्रपौत्रसमायुक्तः शिवलोके महीयते ।
दिव्यवर्षसहस्राणि तदन्ते पृथिवीपतिः । श्रावणे मासि
देवस्य विमानं पुष्पसम्भवम् । पूजावसाने दातव्यं
विचित्ररचनाकुलम् । वर्षायुतप्रमाणन्तु रुद्रलोके
महीयते । योगीशो जायते शान्तो येन मोक्षं व्रजेत्तु सः ।
मासि भादूपदे यस्तु रुद्रपूजां चरेत् तदा । गुग्गुलं
प्रथमं धूपं सुरदारु ततो दहेत् । बिल्ववीजं घृतं तद्वत्
तथा नानाघृतान्वितम् । पञ्चमं ह्यगुरुं दद्यात् धूपं
सर्वात्मना विभोः मासमेकन्दहेद् यस्तु नैरन्तर्येण
भक्तितः । याति सायुज्यतां शम्भोः सपुत्रः सहबान्धवः
यस्त्वर्कपत्रपुटकं पूरयेत् क्षीरसर्पिषा । मासमश्वयुजं
शम्भोर्नैरन्तर्येण भक्तितः । तस्य पुण्यफलं वक्तुं न
शक्तोऽस्मि षड़ानन! । तत्कुले पतिता ये तु डिम्भा-
डिम्भाहता पुनः । ते प्रयान्ति माहाभागा रुद्रलोके
यथासुखम् । वर्षायुतायुतं साग्रं तदन्ते तु नरेश्वराः ।
जायन्ते शिवभक्ताश्च ज्ञानिनो वीतकल्मषाः । शिवदीक्षां
समासाद्य ते यान्ति परमाङ्गतिम् । वस्त्रावृतमिक्षुरसं
पुटकन्तु शिवाग्रतः । पूजान्ते दापयेद् यस्तु मासि प्राप्ते
च कार्त्तिके । देहान्ते रुद्रलोके तु मादते सह
बान्धवैः । व्रतान् ते चैव संपूज्य शिवभक्तान् यथाविधि ।
हैमवस्त्रान्नपानैश्च वित्तशाठ्यं विना सुत!” । पद्मपु०
“आषाढ़ादिचतुर्मास्यां वर्जयेन्नखकृन्तनम् । वृन्ताकभ-
क्षणञ्चैव मधुसर्पिर्घटान्वितम् । कार्त्तिक्यान्तत् पुनर्हैमं
ब्राह्मणाय निवेदयेत् । रुद्रलोकमवाप्नोति शिवव्रतमनु-
त्तमम्” ।
  • शिवाचतुर्थीव्रतं भविष्यपु० “शिवा शान्ता सुखी राजन्!
चतुर्थी त्रिविधा स्मृता । मासि भाद्रपदे शुक्ला शिवा
लोकेशपूजिता । तस्यां स्नानं तथा दानमुपवासोजप-
स्तथा । क्रियमाणं शतगुणं प्रसादाद्दन्तिनो नृप! ।
गुड़लवणघृतानां दानं शुभकरं स्मृतम् । गुड़पूपा-
स्तथा वीर! पुण्यं ब्राह्मणभोजनम् । चतुर्थ्यां
नरशार्दूल! पूजयेत सदा स्रियः । गुड़लवणपूजाभिः
श्वश्रूश्वशुरमातरः । ताः सर्वा सुभगा, स्युर्वै विघ्नेश-
स्यानुमोदनात् । कन्यकाश्च विशेषेण विधिनानेन पूजयेत्” ।
  • शिवापवीतव्रतं शिवधर्मोत्तरे “पौर्णमास्यां तथाषाढ्यां शिवं
संपूज्य यत्नतः । उपवीतं शिवे दद्याच्छिवभक्तांश्च
भोजयेत् । पुनरेव च कार्त्तिक्यां पूज्य शम्भुं क्षमापयेत् ।
यतीनां दक्षिणां दत्त्वा सूत्रवस्त्रादिपूर्विकाम् । यः
कुर्य्यात् सकृदप्येवं चातुर्मास्यां पवित्रकम् । कल्पकोटि-
सहस्राणि रुद्रलोके महीयते” ।
  • शीलतृतीयाव्रतं पद्मपु० “अनग्निपक्वमश्नाति तृतीयायान्तु
यो नरः । गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम् ।
वृहदानन्दकृत् पुंसां शोलव्रतमिद स्मृतम्” ।
  • शीलावाप्तिव्रतं विष्णुधर्मोत्तरे “भगवन्! कर्मणा केन
शीलवान् पुरुषो भवेत् । कुलजातिश्रुतेभ्यस्तु शीलमेव
विशिष्यते” । मार्कण्डेय उवाच “आग्रहायण्यतीते तु
मासमेकं दिने दिने । पूर्ववत् पूजयेद्दवं वराहमपरा-
जितम् । घृतेन स्नापयेद्देवं घृतेन जुहुयाद्धरिम् । घृतं
द्विजेभ्यो दद्याच्च घृतमेव निवेदयेत् । त्रिरात्रोपोषितः
पौष्यां घृतपात्रेण च द्विजम् । पूजयेच्च सुवर्णेन
यथाशक्ति नराधिप! । कृत्वा व्रतं मासमिदं यथोक्तमासाद्य
नाकं सुचिरं मनुष्यः । मानुष्यमासाद्य च शीलवान्
स्यात् प्राप्नोति पुष्टिं चिरजीवितञ्च ।
  • शुक्रव्रतं भविष्योत्तरोक्तम् “शुक्रं ज्येष्ठासु संप्राप्य पूजये-
पृष्ठ ५०५८
न्नक्तभोजनः । पूर्वोक्तक्रमयोगेण द्विजसन्तर्पणेन तु ।
सप्तमे त्वथ संप्राप्ते सौवर्णं कारयेत्सितम् (शुक्रम्) ।
रौप्ये वा कांस्यपात्रे वा स्थापयित्वा भृगोः सुतम् ।
संपूज्य परया भक्त्या श्वेतवस्त्रानुलेपनैः । अग्रे तस्य
प्रदातव्यं पायसं प्लतसंयुतम्” ।
  • शुद्धिव्रतं वह्निपु० “एवं वा द्वादश मासानुपोष्यैकादशीं
बुधः । स यः करोति शुद्धात्मा कृतकृत्यः सुखी भवेत् ।
सुनामद्वादशी पूज्या नाम्ना द्वादशभिस्तथा । द्वादश
धेनवो देया हरिः कामान् प्रयच्छति । दिवि देवाः स
देवेन्द्राः कृत्वा कर्माण्यनेकशः । पश्चादाराधयन्तीह
हरिं शुर्द्धिव्रतेन हि” ।
  • शुभद्वादशीव्रतं वराहपु० “शृणु राजन्! महाभाग!
शुभव्रतमनुत्तमम् । येन सम्प्राप्यते विष्णुः शुभेनैव न
संशयः । मासि मार्गशिरे पुण्ये प्रथमाव्दात् समाचरेत् ।
एकभक्तं सिते पक्षे यावत् स्याद्दशमी तिथिः । ततो
दशम्यां मध्याह्ने स्नात्वा केशवमर्चयेत् । भुक्त्वा सङ्कल्पतः
प्राग्वद् द्वादश्यां शुद्धमानसः । केशवेति हरिं पूज्य
दद्यात्तत्प्रीतये तिलान् । सहिरण्यं तथा कृष्णद्वादश्यां
प्रयतो नृप! । तामप्येवमुषित्वा च यवान् दद्याद्
द्विजातये । कृष्णायेति हरिर्वाच्यो दाने होमे
तथार्चने । चातुर्मास्यामथैवन्तु क्षपित्वा राजसत्तम! ।
चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः शुचिः । सक्तुपात्राणि
विप्राणां सहिरण्यानि दापयेत् । श्रावणादिषु मासेषु
तद्वद्गोविन्दमर्चयेत् । त्रिषु मासेषु यावत्तु कार्त्तिकः
स्यादिहागतः । तमप्येवं क्षपयित्वा दशम्यां प्रयतः
शुचिः । अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः” ।
  • शुभसप्तमीव्रतं पद्मपु० “अन्यामपि प्रवक्ष्यामि शोभनां
शुभसप्तमीम् । यामुपोष्य नरोरोगात् शोकदुःखात् प्रमुच्यते ।
शुक्ले चाश्वयुजे मासि कृतस्रानजपः शुचिः ।
वाचयित्वा द्विजश्रेष्ठानारभेच्छुभसप्तमीम् । कपिलां पूजये-
द्भक्त्या गन्धमाल्यानुलेपनैः । नमामि सूर्य्यसम्भूता-
मशेषभुवनालयाम् । त्वामहं सर्वकल्याणशरीरां सर्व-
मिद्धये । अथाहृत्य तिलप्रस्थं ताम्रपात्रे कृतं नवम् ।
काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुड़ान्वितम् । फलैर्नाना-
विधैर्भक्ष्यैः सर्वोपस्करसंयुतैः । दद्याद्विकालवेलाया-
मय्य मा प्रीयतामिति । पञ्चगव्यं तु संप्राश्य स्वपेद्भूमौ
विमत्सरः । ततः प्रभाते सुस्नातो भक्त्या सन्तर्पयेद्
द्विजान् । अनेन विधिना दद्यात् मासि मासि सदा
नरः । वाससी वृषभं हैमं तद्वच्छन्दोऽश्वपूजनम् ।
वत्सरान्ते च शयनमिक्षुदण्डगुणान्वितम् । सोपधानक-
विश्रामभाजनासनसंयुतम् । ताम्रपात्रे तिलप्रस्थं
सौवर्णवृषभैर्युतम् । दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति”।
  • शूलदानव्रतं शिवधर्मोत्तरे “अमावस्यां निराहारः अव्द-
मेकं नियन्त्रितम् । शूलं पिष्टमयं कृत्वा वर्षान्ते विनि-
वेदयेत् । शिवाय राजतं पद्मं सौवर्णकृतकर्णिकम् ।
भक्त्या च विन्यसेत् मूर्ध्नि शेषं पूर्ववदाचरेत् । कामतो-
ऽपि कृतं पापं भ्रूणहत्यादिकञ्च यत् । तत् मर्वं
शूलदानेन नश्यत्येव न संशयः । महापद्मविमानेन
नरो नारीसमन्वितः । युगकोटिशतं साग्रं शिवलोके
महीयते” ।
  • शैलव्रतं विष्णुधर्मोत्तरे “अथातः संप्रवक्ष्यामि तव शैलव्रतं
शुभम् । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।
बिन्ध्यश्च पारिपात्रश्च सप्तैते कुलपर्वताः । चैत्रशुक्लम-
मारम्भात् प्रत्यहं दिनसप्तकम् । तेषां संपूजनं कृत्व-
बहिःस्नानं समाचरेत् । गन्धमाल्यनमस्कारधूपदीपान्न-
सम्पदा । यवैर्होमं तथा कुर्य्याद् दद्याद्विप्रे यवानपि
नित्यं यवान्नमश्नीयात् कुर्य्यात् संवत्सरं व्रतम् । तस्याव-
साने दद्यात्तु यवप्रस्थांश्च विंशतिम् । वावचकाय
द्विजेन्द्राय सुवर्णं काञ्चनस्य तु” ।
  • शैवनक्षत्रपुरुषव्रतं विष्णुधर्मोत्तरे “उपवासेष्वशक्तानां नक्त
भोजनमिष्यते । यस्मिन् व्रते तदप्यत्र श्रूयताक्षयं महत्
शिवनक्षत्रपुरुषं शिवभक्तिमतां नृणाम् । तस्मिन्नक्षत्रयोगे
च पुराणज्ञाः प्रचक्षते । फाल्गुनस्यामले पक्षे यदा
हस्तः प्रजायते । तदा ग्राह्यं व्रतं चैतन्नक्तेनाभ्यर्च्य
शूलिनम् । शिवायेति च हस्तेन पादौ संपूजयेद्विभोः” ।
  • शैवमहाव्रतं विष्णुधर्मोत्तरे “प्रतिमासं प्रवक्ष्यामि शैवव्रत-
मनुत्तमम् । धर्मकामार्थमोक्षार्थं नरनार्य्यादिदेहिनाम् ।
पौषे मासे तु सम्प्राप्ते यः कुर्य्यान्नक्तभोजनम् । सत्य-
वादी जितक्रोधः शालिगोधूमगोरसैः । पक्षयोरष्टमीं
यत्नादुपवासेन वर्त्तयेत् । त्रिसन्ध्यमर्चयेदीशमग्निकार्य्यञ्च
भक्तितः” । वर्षसाध्यम् “त्रिस्नानञ्चाग्निहवनं भूशय्या
नक्तभोजनम् । पक्षयोरुपवासेन चतुर्दश्यष्टमीं क्षिपेत् ।
इत्येवमादिनियमैराचरेत शिवव्रतम् । शिवभक्ता तु
या नारी ध्रुवं सा पुरुषो भवेत् । स्त्रीत्वमत्युत्तमं सा
चेत् काङ्क्षते शृणुयाद् व्रतम्” ।
पृष्ठ ५०५९
  • शैवोपवासव्रतं भविष्यपु० “चतुर्दश्यां तथाष्टम्यां पक्षयोः
शुक्लकृष्णयोः । योऽव्दमेकं न भुञ्जीत शिवार्चनरतो
नरः । यत् पुण्यमक्षयं प्रोक्तं सततं सत्रयाजिनाम । तत्
पुण्यं सकलं तस्यां शिवलोकञ्च गच्छति” ।
  • शौर्णव्रतं वराहपु० “अतःपरं प्रवक्ष्यामि शौर्य्यव्रतमनुत्तमम् ।
येन भीरोरपि महत् शौर्य्यं भवति तत्क्षणात् । मासि
चाश्वयुजे शुद्धा नवमी समुपोषिता । सप्तम्यां कृतसङ्कल्पः
स्थित्वाष्टम्यां निरोदनः । नवम्यां प्राशयेत् पिष्टं प्रथमं
भक्तितो नृप! । ब्राह्मणान् भोजयेद्भक्त्या देवीञ्चैब तु
पूजयेत् । दुर्गां देवीं महाभागां महामायां
महाप्रभाम् । एवं संवत्सरं यावदुपोष्य विविवन्नृप! ।
व्रतांन्ते भोजयेद्धीमान् यथाशक्त्या कुमारकान् ।
हेमवस्त्रादिमिः स्नातान् पूजयित्वा तु शक्तितः । पश्चात्
क्षमापयेत्क्षान्तुं देवी मे प्रीयतामिति । एवं कृत्वा
भ्रष्टराज्योलभेद्राज्यं न संशयः । चविद्यो लभते विद्यां
भीरुः शौर्य्यञ्च विन्दति” ।
  • श्रद्वाव्रतं पद्मपु० “कृत्वाप्रलेपनं शम्भोरग्रतः केशवस्य च ।
स सर्वपापनिर्मुक्तः शिवलोके महीयते । राजा
भवति सम्भूतः सार्वभौमो महेश्वरः । एतत् श्रद्धाव्रतं
नाम बहुकल्याणकारकम्” ।
  • श्रवणद्वादशीव्रतं भविष्योत्तरे “एकादशौ यदा शुक्ला श्रव-
णेन समन्विता । विजला सा तिथिः पोक्ता मक्तानां
विजयप्रदा । एकादश्यां सोपवासो रात्रौ संपूजयेद्धरिम् ।
रौप्पसौवर्णपात्रे वा दारुवंशमयेऽपि वा । आच्छाद्य
पात्रं वासोभिरक्षतैः पलसंमितैः । मार्गचर्मेण गन्धैश्च
भक्त्या वा शक्त्यपेक्षया । तिलाढ़केन वित्ताढ्यः प्रस्थेन
कुड़वेन वा । अलामे यवगोधूमैः फलैः शुद्धतिलैर्भवेत् ।
पुष्पैर्गन्धैः फलैर्धूपैः कालोत्थैरर्चयेद्धरिम् । नानावि-
चैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुड़ोदनैः । म्रवित्तस्यासुलारेण
सहिरख्यञ्च कारयेत् । मन्त्रेण तु शतगुणं भक्त्या लक्ष-
गुणोत्तरम् । भक्तिमन्त्रगुणोपेतं कोटिकोटिगुणोत्तरम् ।
एभिर्मन्त्रपदैस्तत्र पूजयेद्गरुड़ध्वजम् । उपहारैर्नर-
श्रेष्ठ! शुचिर्भूत्वा समाहितः” । “एषा व्युष्टिः
समाख्याता एकादश्यां मया तव । पूर्वमेव समाख्याता
द्वादशी श्रवणान्विता । उपोष्यैकादशीं पश्चाद् द्वादशी-
मप्युपोषयेत् । मचात्र विधिलोपः स्यादुभयोर्देवता हरिः” ।
एकादश्यां द्वादस्यां चाम्बतरस्यां वा श्रवणयुक्तायां
श्रवणयुक्तोपषासेमैव व्रतद्वयसिद्धिः एकस्मिन् व्रते पूर्व-
मन्यां तिथिमुपोष्य पश्चादपारयित्वा नान्योपोष्या इति
यो विधिलोपः स एकदेवताकत्वेन न भवतीत्यर्थः । “बुध
श्रवणसंयुक्ता द्वादशी सङ्गमोदकम् । स्नानं दध्योदनं
सम्यगुपवासः परो विधिः । सगरेण ककुत्स्थेन धुन्धु-
मारेण गाधिना । एतैश्चान्यैश्च राजेन्द्र! कामाच्च द्वाद-
शीव्रतम् । सा द्वादशी बुधयुता श्रवणेन साकं सासौ
जयेति कथिता ऋषिभिर्नभस्ये । तामादरेण समुपोष्य
नरोऽमरत्वमाप्नोति पार्थ! अणिमादिगुणोपपन्नम्” ।
विष्णुधर्मोत्तरे “उपवासासमर्थानां किं स्यादेकमुपोषि-
तम् । महाफलं महादेव! तन्ममाचक्ष्व पृच्छतः” ।
कृष्ण उवाच “या राम! श्रवणोप्रेता द्वादशी महती तु
सा । तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम् ।
प्राप्तोत्ययत्नात् धर्मज्ञ! द्वादशद्वादशीफलम् । दध्योदन-
युतं तस्यां जलपूर्णं घटं द्विजे । वस्त्रसंवेष्टितं दत्त्वा
छत्रोपानहमेव च । न दुर्गतिमवाप्तोति जातिमग्र्याञ्च
विन्दति । अक्षय्यं स्यानमाप्नोति नात्र कार्य्या विचा-
रणा । श्रवणद्वादशीयोगे बुधवारो भवेद् यदि । अत्यन्तं
महती नाम द्वादशी सा प्रकीर्त्तिता । स्नानं जप्यं तथा
दानं होमः श्राद्धं सुरार्चनम् । सर्वमक्षयमाप्नोति
तस्यां भृगुकुलोद्वह! । तस्मिन् दिने तथा स्नातो यत्र
क्वचन सङ्गमे । स्वर्गङ्गास्रानजं राम! फलं प्राप्नोत्य-
संशयम् । श्रवणे सङ्गमाः सर्वे परपुष्टिप्रदाः सदा ।
विशेषात् द्वादशीयुक्ते बुधयुक्ते विशेषतः । तथैव
द्वादशी प्रोक्ता बुधश्रवणसंयुता । तृतीया च तथा
प्रोक्ता सर्वकामफलप्रदा । तथा तृतीया धर्मज्ञ! तथा
पञ्चदशी शुभा” ।
  • श्रीपञ्चमीव्रतं गरुड़पु० “यदिन्द्रेण पुरा चीर्णं श्रीवियुक्तेन
पार्थिव! । श्रीसमृद्धिकरे तद्धि शृणु श्रीपञ्चमीव्रतम् ।
मार्गशीर्षे सिते पक्षे पञ्चम्यां पन्नगोत्सवे । उपवासस्य
नियमं कुर्य्यात् पद्मां स्मरेद्धृदि । स्वर्णरौप्यां यथा शक्त्या
ताम्रां मृत्काष्ठजामथ । चित्रपट्टगतां देवीं लक्ष्मीं
क्ष्मापाल! कारयेत् । पद्मासनां पद्महस्तां पद्मां पद्मदले-
क्षणाम् । दिग्गजेन्द्रैः स्नाप्यमानां काञ्चनैः कलमौ-
त्तमैः” । लक्ष्मीरूपनिर्माणन्तु विष्णुधर्मोत्तरोक्तं वेटित-
व्यम् । तद्यथा “समुत्थिता श्रीः कर्त्तव्या शङ्खाम्बु-
जकरा शुभा । सुखस्थिता महाभाग! पद्मे पद्मकरा
शुभा । द्विभुजा चारुसर्वाङ्गी सर्वाभरणभूषणा । द्वौ
च मूलकरौ मूर्घ्नि कार्य्यौ विद्याधरो सुभाविति । ततो
पृष्ठ ५०६०
यामत्रये याते निम्नगाया मृदाथ वा । स्नानं कुर्य्याद-
संभ्रान्तः शक्तिमदुषचारतः । देवान् पितृंश्च सन्तर्प्य
ततो देवगृहं ब्रजेत् । तत्रस्थां पूजयेद्देवीं पुष्पैस्तत्काल-
सम्भवैः । फलानि च यथालाभं विरूढ़ं धान्यसञ्चयम् ।
ततः सुवासिनी पूज्या कुङ्कमैः कुसुमेन च । मोजयेन्म-
धुरान्नेन प्रणिप्रत्य विसर्जयेत् । ततस्तु तण्डुलप्रस्थं
धृतपात्रेण संयुतम् । ब्राह्मणाय प्रदातव्यं सा श्रीर्म्मे
प्रीयतामिति । निर्वर्त्यैतदशेषेण ततो भुञ्जीत वाग्यतः ।
मासानुमासं कर्त्तव्यं विधिनानेन भारत! । श्रीर्लक्ष्मीः
कमला सम्पत् पद्मा नारायणी तथा । पद्मधृतिः स्थितिः
पुष्टिस्तुष्टिः सिद्धिः क्षमा क्रमात् । मासानुमासं
राजेन्द्र! प्रीयतामिति कीर्त्तयेत् । वस्त्रमण्डपिकां कृत्वा
पुष्पगन्धादिवासिताम् । शय्यायां स्थापयेल्लक्ष्मीं सर्वोप-
स्करसंयुताम् । सौभाग्याष्टकसंयुक्तां नेत्रपट्टावृतस्तनीम् ।
सप्तधान्यसमोपेतां रसधातुसमन्विताम् । पादुकोपानह-
च्छत्रभाजनासमसंस्कृताम् । देवीं संपूज्य विधिवद् ब्रा-
ह्मणाय कुटुम्पिने । व्यासाय देदविदुषे यस्मे वा
रोचते स्वयम् । सोपस्करां सवत्साञ्च धेनुं दत्त्वा क्षमा-
पयेत् । यः पञ्चमीव्रतमिदं दयितं मुरारेर्भक्त्या
समाचरति पूज्य मृगोस्तनूजाम् । राज्यश्रियं स भुवि भव्य-
जनोपभोग्यं “भुक्त्वा प्रयाति भवनं मधुसूदनस्य । माहा-
त्म्यमाप वक्ष्यामि पञ्चम्यास्तव भारत! । जयेति या च
विख्याता ब्रतिनां जयदायिनी । यस्माज्जया
जयाशब्दं करोति व्रतिनो बुधाः! । परिपूर्णं व्रतं यस्यां
सा ज्ञेया जयपञ्चमो । जया च विजया चैव जयन्ती
पापनाशिनी” । जया, कार्त्तिकशुक्लपञ्चमी श्रवणेन यदा
युक्ता शुक्लपक्षे तु पञ्चमी । उत्तराफाल्गुनी यस्यामि-
न्दुवारसमागमः । आरभेत नरस्तस्यां व्रत पूर्वमुपोषितः ।
चतुर्थ्यामेकभक्ताशी ब्रह्मचारी जितेन्द्रियः । धृतिमान्
कृतसकल्पो भवेन्नियमवान्नरः । ततःकल्यं समुत्थाय स्नात्वा
नियतमानसः । धृतसङ्कल्पया पत्न्या कुर्य्याद् बिल्वस्य
चार्चनम् । बिल्वमूले ततः कुर्य्याद् वेदिं पुष्पाक्षतैर्यु-
ताम् । स्थापयेत् कलसानष्टौ तस्यामष्टसु दिक्षु वा ।
तन्मध्ये बिल्वमूले तु स्थापयेच्च महाघटम् । सौवर्णं
राजतं ताम्रं मार्त्तिकं वा शुभान्वितम्” इत्यादि ।
  • व्रीप्राप्तिव्रतं विष्णुधर्मोत्तरोक्तं “श्रीविहीनस्य लोकेऽस्मिन्
जीवितस्यापि किं फगम् । तस्माद्व्रतं समाचक्ष्व येम
स्याच्छ्रीयुतो नरः” । मार्कण्येत जताच “वैशाख्यां
समतीतायां प्रतिपत्प्रभृति क्रमात् । पूर्ववत् पूजयेद्देवं
श्रीसहायं दिने दिने” । पूर्ववदिति चैत्र्यादिरूपावाप्ति-
व्रतवत् । “पुष्पमूलैः फलैश्चैव जुहुयादक्षतानि च ।
बिल्वांश्च वह्नौ सततं गोरसैर्भोजयेद् द्विजान् । त्रि-
रात्रोपोषितो ज्यैष्ठ्यां कनकं प्रतिपादयेत् । वस्त्रयुग्मञ्च
राजेन्द्र! तेन साफल्यमश्नुते । कृत्वा ब्रतं मासमिदं
यथोक्तमासाद्य मासं सुचिरं मनुष्यः । मनुष्यमासाढ्य
विवृद्धतेजाः श्रिया युतः स्याज्जगति प्रधानम्” ।
  • श्रीवृक्षनवमीव्रतं भविष्योत्तरे “तस्माद्भाद्रपदे चैव शुक्लपक्षे
कुरूत्तम! । नवम्यामर्चयेद्भक्त्या ईषत्सूर्य्योदयेऽनध! ।
श्रीवृक्षं विविधैरत्नैरनग्निपतितैः फलैः । तिलपिष्टान्न-
गोधूमैर्धूपगन्धानुलेपनैः । ईषद्भानुकराक्रान्त! श्रीतरो
वै नभस्तले । मन्त्रेणानेन राजेन्द्र! पूजयेद्भक्तिसंयुतः ।
सप्तकृत्वस्ततोऽभ्यर्च्य श्रीवृक्षं प्रणिपत्य च । ब्राह्मणान्
भोजयेद्भक्त्या श्रीदेवी प्रीयतां मम । ततो भुञ्जीत
मौनेन तैलाहारविवर्जितम् । अनग्निपक्वं मृत्पात्रे
दधिधान्यफलं शुभम् । एवं यः कुरुते पार्थ! श्रीवृक्षाभ्य-
र्चनं नरः । नारी व दुःखशोकाभ्यां मुच्यते नात्र
संशयः” ।
  • श्रीव्रतं विष्णुधर्मोत्तरे चैत्रशुक्लस्य पञ्चम्यां पूजयित्वा तथा
श्रियम् । सकृदेवाप्लुयादेतत् फलं संवत्सरोदितम” ।
“अथातः संप्रवक्ष्यामि श्रीव्रतं नाम ते व्रतम् । चेत्र-
शुक्लतृतीयायां स्नानमभ्यङ्गपूर्वकम् । कृत्वा शुक्लाम्बरो
राजच्छ्रक्लमाल्यानुलेपनः । तिष्ठेद् घृतोदनाहारो
भूमौ सुप्यान्निशां च ताम् । चतुर्थ्याञ्च तथा स्नानं
बहिरेव समाचरेत् । पञ्चम्याञ्च विशेषेण शुक्लाम्बरधरः
शुचिः । लक्ष्मीं संपूजयेत् पद्मैः कृतकेऽकृतकेऽपि वा ।
शुक्लेन गन्धमाल्येन घृतदीपेन वाप्यथ” इत्यादि ।
  • षष्ठीव्रतं ब्रह्मपु० “कृतोपवासः पञ्चम्यां षष्ठ्यां योऽर्चयते
रविम् । नियमव्रतचारी च रवेर्भक्तिसमन्वितः । सप्तम्यां वा
महाभाग! सोऽश्वमेघफलं लभेत्” । विष्णुधर्मोत्तरे
“षष्ठ्याञ्च शुक्लवक्षस्य ये नरा भौमवासरे । व्रतञ्चरति
यत्नेन तथा तासां पृथव् पृथक् । न तेषां दुर्लभं कि
ञ्चित् भविष्यति सुरोत्तम! । द्वियोगे हि गुणं तेषा
फलं स्कन्द! भविष्यति । त्रियोगे पूजनं कृत्वा मासेषु
सुरसत्तम! । अक्षयं जायते पुण्यं नात्र कार्य्या विचारणा”।
  • संवत्सरव्रतं विष्णुधर्मोत्तरे “इदमन्पत् प्रुवक्ष्यामि पञ्च-
पृष्ठ ५०६१
मूर्त्तिव्रतं तव । संवत्सरः स्मृतो वह्निस्तथार्कः परिवत्सरः ।
इदापूर्वस्तथा सोमो ह्यनुपूर्वः प्रजापतिः । उत्पूर्वश्च
तथा प्रोक्तो देवदेवो महेश्वरः । तेषां मण्डलविन्यासः
प्रान्वदेव विधीयते” । प्राग्यदिति नीलश्वेतरक्तपीत
कृष्णकैः मण्डलविन्थासाः कर्त्तव्याः “प्राग्वत् प्रपू-
जनं कार्य्यं होमः कार्य्यो यथाविधि । तिलैर्ब्रीहिय-
वैश्चैव घृतेन सितसर्षपैः । तल्लिङ्गैरथ वा मन्त्रैर्न्नामभिः
प्रत्यहं क्रमात् । नक्ताशनस्तथा तिष्ठेत् प्राग्बद्दिवसपञ्च-
कम् । चैत्रशुक्लं समारभ्य पञ्चमीप्रभृतिक्रमात् । संवत्-
सराख्ये वर्षेतु व्रतमेतत् समाचरेत् । पूजावसाने दातव्याः
सुवर्णाः पञ्च यादव! । चतुर्वेदविदे देयं शाखाभेदेन
यादव! । एकैकं पञ्चकं देयं यथाकालमिदं भवेत् ।
यथेष्टं लोकमाप्नोति कामचारी विहङ्गमः” ।
  • सङ्घाटकव्रतं वराहपु० “शृणुष्वैकमना भद्रे! सङ्घाटकमिदं
व्रतम् । कथयामि महा पूर्वं ब्रह्मणा कथितं मम ।
मासस्य कार्त्तिकस्यापि शुक्लप्रतिपदि व्रतम् । गृह्णीया-
देकभक्तन्तु कृत्वा दन्तादिशोधनम् । सायं सङ्कल्पमाधाय
द्वितीयायामुपावसेत् । तृतीयायामपि तथा चतुर्थ्यां
पारणं भवेत् । शिवं संपूजयेद्भक्त्या उपवासद्वयेऽपि च ।
यत्र विनोपचारेण रात्रौ दद्यात्ततो भुवि । स्वपेत् प्रातः
समुत्थाय स्मृत्वा देवं समर्चयेत्” ।
  • सन्तानदव्रत भविष्योत्तरोक्तम् “कार्त्तिक्यामुपवासी यः
कन्यां दद्यात् स्वलङ्कृताम । स्वकीयां परकीयां वा
नदीसङ्गमके शुभे । एतत सन्तानदं नाम व्रतं सुगति-
दायकम्” ।
  • सन्तानाष्टमीव्रतं विष्णुधर्मोत्तरे “कृष्णाष्टम्यां चैत्रमासे
स्नातो नियतमानसः । कृष्णमभ्यर्च्य पूजाञ्च देवक्याः
कुरुते च यः । निराहारो नरः पश्चात् कृष्णास्य जगतः
पतेः । उपोषितो जपन्मन्त्रं रात्रौ प्रयतमानसः ।
पूजायाञ्चापि कृष्णस्य सप्त वारान् प्रकीर्त्तयेत् । पाषण्डि-
नोविकर्मस्थान् वैडालान् वकनास्तिकान् । प्रभाते च
ततः स्नातो दत्त्वा विप्राय दक्षिणाम् । भुञ्जीत कृत
पूजस्तु कृष्णस्यैव जगत्पतेः । वैशाखज्यैष्ठयोश्चैव पारणं
हि त्रिमासिकम् । उपोष्य देवदेवेशं घृतेन स्नापये-
द्धरिम् । आषाढ़े श्रावणे चैव मासि भाद्रपदे तथा ।
उपोषितो द्वितीयं वै पारणं पूर्ववद्भवेत् । आश्विने
कार्त्तिके सौम्ये तृतीयं पारणं तथा । पौषे माघे
क्रालगुगे च चतुर्थं द्विजसत्तप! । पारणे वारणे पूर्णे
घृतेन स्नापयेद्धरिम् । ब्राह्मणेभ्यो घृतं दद्यात्तथैव प्रति-
पारणम् । कृत्वा व्रतं नाकमनुप्रयाति मानुष्यमासाद्य
च निर्वृतः स्यात् । सन्तानवृद्धिञ्च तथाप्नुतेऽसौ
यावन्महीं सागरमेखलान्ताम् ।
  • सप्तर्षिव्रतं विष्णुधर्मोत्तरे “चैत्रशुक्लादथारभ्य प्रत्यहं
दिनसप्तकम् । मराचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
वशिष्ठञ्च महाभागं पूजयेत् दिवसक्रमात् । कालोद्भवैः
फलैः पुष्पैः गोरसैश्च फलान्वितैः । आचरेत् प्रत्यहं
स्नानं बहिर्नक्ताशनो भवेत् । महाव्याहृतिभिर्होमं
तिलैर्नित्यं समाचरेत् । तर्पयेद्ब्राह्मणांश्चात्र फलमूलैश्च
गोरसैः । वारिधान्यश्च दातव्याः क्षीरपूर्णा द्विजातिषु ।
एवं संवत्सरं कृत्वा व्रतान्ते चाऽऽहिताग्नये । दद्यात्
कृष्णाजिनं राजन्! यथापूर्वं मयेरितम् । व्रतमेतन्नरः
कृत्वा मोक्षोपायञ्च विन्दति” ।
  • सप्तसारस्वतव्रतंविष्णु धर्मोत्तरोक्तम् “चैत्रशुक्लादथारभ्यु प्रत्यहं
दिनसप्तकम् । सुप्रभां काञ्चनाक्षीञ्च विशालां मानसो-
द्भवाम् । मेघनादां सुवेणुञ्च तथैव विमलोदकाम् ।
नित्यं संपूजयेद्भक्त्या बहिःस्नानं समाचरेत् । तासाञ्च
प्रत्यहं नाम्ना दध्ना होमं समाचरेत् । ब्राह्मणान्
भोजयेच्चात्र दध्ना युक्तं सुभोजनम् । घृतोदनं
तथाश्नीयात्सकृदेव तथा निशि । एवं संवत्सरं कृत्वा व्रतं
सारस्वतं नरः । तत्रोष्य सुचिरं कालं मानुष्ये
जायते यदा” इत्यादि ।
  • सप्तसुन्दरकव्रतं भविष्योत्तरोक्तम् “एकभक्ता च सप्ताहं
पौरिणीरत्र भोजयेत् । संपूज्य पार्वतीं भक्त्या गन्ध-
पुष्पविलेपनैः । ताम्बूलसिन्दूरवरैर्नारिकेलफलेन च ।
प्रीयतां कुमुदा देवी प्रण्णिपत्य विसर्जयेत् । एकैकां
पूजयेद्देवीं सप्ताहं यावदेव तु । पुनश्च सप्तमे प्राप्ते ताः
सप्तैव निमन्त्रयेत् । षड़्भ्यः सम्भोजयित्वान्नं
यथाशक्त्या विभूषणैः । भूषयित्वा माल्यवस्त्रैः कर्णवेष्ठा-
ङ्गुलीयकैः । कुमुदा माधवी गौरी भवानी पार्वती
उभा । अम्बिका चेति संपूज्या दर्पणं दापयेत् पृथक् ।
ब्राह्मणं पूजयेत्त्वेकं वाच्यं सम्पन्नमस्तु मे । सप्तसुन्दरकं
नाम व्रतं पापहरं शुभम् । कृत्वा प्राप्नोति सौन्दर्य्यं
सौभाग्यमतुलं तथा” ।
  • समुद्रव्रतं विष्णुधर्मोत्तरे “अथातः सप्रवक्ष्यामि समुद्रव्रत-
मेव ते । चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम् । लवणं
क्षीरं सघृतं दधिमण्डं सुरोदकम् । तथैवेक्षुरसोदक
पृष्ठ ५०६२
स्वादुदध्नैब पूजयेत् । आचरेत् प्रत्यहं स्नानं शुचिर्भूत्वा
तथा बहिः । घृतेन होमं कुर्वीत सप्तम्याञ्च प्रदापयेत्
हविष्याशी भबेन्नक्तं कुर्य्यात् संवत्सरं व्रतम् । संवत्स-
रान्ते दद्याक तथा धेनुं पयस्विनीम् । व्रतेनानेन
चीर्णेन सप्तसागरमेखलाम् । भुवक्ति बसुधां राजा!
सप्तजन्मान्तराणि तु” ।
  • सम्पूर्णव्रतं भविष्योत्तरे “संपूर्णं नाम तच्चापि व्रतं सम्यक्
फलप्रदम् । यच्चीर्णं नरनारीभिर्य्यावत् संपूर्णकालकम् ।
अवश्यन्तच्च कर्त्तव्यं संपूर्णफलकाङ्खिभिः । किञ्चिद्भग्नं
प्रमादेन यद्व्रतं व्रतिनां भवेत् । तत् संपूर्णं भवेत्
सर्वं व्रतेनानेन पाण्डव! । उपद्रवैर्बहुविधैर्महामो-
हाच्च पार्थिव! । यद्भग्नं किञ्चिदेव स्यात् व्रतं विघ्न-
विनायकैः । तत् संपूर्णं भवेत् सर्वं सत्ये सत्यं न
संशयः । काञ्चनं रौप्यकं रूपं शिल्पिना तु धटापयेत् ।
भग्नव्रतस्य योदेवस्तत् स्वरूपं सुनिर्मितम् । रूपं स्त्री-
पुंसयोर्वापि प्रारब्धं तद्व्रतं किल । न च निष्पादितं
किञ्चिद्दैवात् सर्वं तथा स्थितम् । द्विभुजं पङ्कजारूढ़ं
सौम्यं प्रहसिताननम्” । द्विभुजादीनि स्त्रीपुंसयोरूपस्य
विशेषणम् तच्च रूपमज्ञातेषु व्रतेषु, जन्मान्तरकृ-
तानां विस्मृतानाञ्च ज्ञातत्वे तेष्वपीदं प्रायश्चित्तमिति ।
“निष्पादितं शिल्पिना च तस्मिन्नेव दिने पुनः । तस्मा-
न्मासे पुनः प्राप्ते ब्राह्मणो विधिना गृहे । तापयेत्
पयसा दध्ना घृतक्षीररसाम्बुभिः । गन्धचन्दनपुष्पैस्तु
पूजयेत् कुसुमादिना । तोयपूर्णस्य कुम्भस्य मुखे विन्यस्य
चन्दनैः । धूपदीपाक्षतैर्वस्त्रैर्नानाबल्युपहारकैः । अर्घ्यं
दद्याच्च तन्नाम्ना मन्त्रेणानेन पाण्डव! । उपवामेन
हीनस्य प्रायश्चित्तं कृताञ्जलेः । शरणञ्च प्रपन्नस्य कुरु-
ष्वाघ दयां पुनः । परत्र भयभीतस्य भग्नवर्ज्यव्रतस्य
च । कुरु प्रसादं संपूर्णमस्तु मे त्वत्प्रसादतः” ।
  • सम्भोगव्रतं भविष्यपु० “द्वे पञ्चम्यौ हि मासस्य द्वे च प्रति-
पदौ नरः । सोपबासः सुगन्धाश्चः शयीत प्रियया सह ।
खगनिश्चलचित्तस्तु रतिप्रीतिविवर्जितः” । खगनिश्चल-
चित्तः सूर्य्यध्यानपरः “समश्च स्मृतिशीलश्च तस्य पुण्य
फलं शृणु । दिव्यं वर्षसहस्रं तु दिव्यं वर्षशतं तथा ।
ततस्तु भावयत्येनं महादेवं न संशयः” ।
  • सर्पञ्चमीव्रतं भविष्यपु० “पयोव्रतन्तु पञ्चम्यां दत्त्वा नागं
द्विजातये । सौवर्णं सर्पजनितं भयं तस्य न जायते ।
एतत् सर्पव्रतं प्रोक्तं सपेमैत्रीकरं परम्” ।
  • सर्पविषापहपञ्चमीव्रतं स्कन्द० प्रभासख० “श्रावणे मासि
पञ्चम्यां शुक्लपक्षे वरानने! । आरभ्योभयतो लेख्याः
गोमयेन विषोल्वणाः । कृत्वा च कौसुर्मान्नागान्निद्रालीं
च प्रपूजयेत् । घृतोदकाभ्यां पयसा स्नापयित्वा
वरानने! । गोधूमैः पयसा पूज्य लाजाद्यैर्विविधैस्तथा ।
पूजयेत् विधिवद्देवि! दधिदूर्वाङ्कुरैः क्रमात् । गन्ध-
पुष्पोपहारैश्च ब्राह्मणानाश्च तर्पणम् । अथ वा श्रावणे
मासि पञ्चम्यां श्रद्धयान्वितः । यश्चालेख्य नरो नागान्
कृष्णवर्णादिवर्णकैः । गुरुकल्पान् तथा वीश्यां स्वगृहे
विलिखेत् बुधः । पूजयेद्गन्धधूपैश्च पयसा पायसेन च ।
तस्य तुष्टिं समायान्ति पद्मकास्तक्षकादयः । आसप्तमात्
कुलं तस्य न मयं नागतो भवेत् । प्रजप्यते तत्र मन्त्रो
विषस्य प्रतिषेधकः । तस्य प्रजपमात्रे तु न विषं क्रमते
सदा” ।
  • सर्वकामव्रतं विष्णुधर्मोत्तरोक्तम् “अङ्गारकं तथा सूर्य्यं
निरृतिं वा खगेश्वरम् । हवनं वेश्वरं मृत्युं कपाल-
कषकिङ्किणीम् । तत्र वैकादशान् यस्तु देवान् त्रिभु-
वनेश्वरान् । एकादश्यां सोपवासः सोमं सम्पूजयेत्तथा ।
गन्धमाल्यनमस्कारदीपधूपान्नसम्पदा । मार्शशीर्षादथा-
रभ्य यावत् संवत्सरं भवेत् । संवत्सरान्ते दद्याच्च
ब्राह्मणाय पयस्विनीम् । कृत्वा व्रत वत्सरमेतदिष्टं रुद्र-
त्वभाप्नोति नरस्तु राजन्! । रुद्रेण सार्द्धं सुचिरं
वसित्वा कामानप्राप्नोति मनोऽभिरामान् । तथा सर्व-
गतान् रुद्रान् सुदा सर्वत्र पूजयेत् । सर्वकामानवाप्नोति
सर्वगानपराजितान्” । विष्णुधर्मोत्तरे “माघमासे
चतुर्दस्यां कृष्णपक्षे विशेषतः । तथा पितृगणान् राजन्!
क्षीणचन्द्रे च पूजयेत् । सर्वकामसमृद्धस्य यज्ञस्य
फलमश्रुते । श्राद्धं कृत्वा तथा राजन्! सर्वकामानवाप्नुयात्” ।
  • सर्वकामाप्तिव्रतं विष्णु धर्मोत्तरे “कृत्तिकास्वर्चद्देवं कार्त्तिकी-
प्रभृतिक्रमात् । यावत् स्यात् कार्त्तिकी भूयो नरमिंह-
मुपोषितः । अनुलेपनपुष्पाद्यैः सर्वरत्नैः सदैव तु । व्रताक-
लाने दद्याद् गां तथा श्वेतां द्विजातये । श्वेतवत्सयुता-
श्चैव रजतञ्च तथा नृप! । उपोषितः सदा कुर्य्याद्व्रतं
स्याच्छत्रुवर्जितः” ।
  • सर्वव्रतं सौरपु० “मन्दवारयुता पुण्या शुक्लपक्षे त्र्योदशी ।
तस्यामुपोष्य विधिवत् सम्पूज्य निरिजापतिम् । ब्रह्म-
हस्यादिमिः पावैर्सुक्तो भवति मातवः” ।
  • सर्वाप्तिसप्तमीव्रतं भविष्यपु० “कृष्णपक्षे तु माघस्य सर्वाप्तिस्
पृष्ठ ५०६३
अप्तमीं शृणु । यामुपोष्य समाप्नोति सर्वान् कामान्
धराधर! । पाषण्डादिभिरालापमकुर्वन् भानुतत्परः ।
पूजयेत् प्रणतो देवमेकाग्रमतिरंशुपम् । माघादि पारणं
मासैः षड्भिः शुच्यन्तकं स्मृतम्” । शुच्यन्तकम्
आषाढ़ान्तकम् । “मार्त्तण्डः प्रथमं नाम द्वितीयोऽर्कः प्रकी-
र्त्तितः । तृतीयं चित्रभानुस्तु विभावसुरतःपरम् ।
भगेति पञ्चमो ज्ञेयः षष्ठो हंसः प्रकीर्त्तितः । पूर्वेषु
षट्सु मासेषु स्नानप्राशनयोस्तिलाः । श्रावणादिषु
मासेषु पञ्चनव्यमुदाहृतम् । स्नाने च प्राशने चैव
प्रशस्तं पापनाशनम् । प्रतिमासन्तु देवस्य कृत्वा पूजां
यथाविधि । विप्राय दक्षिणां दद्यात् श्रद्दधानः स्त्र-
शक्तितः । पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम् ।
कुर्वीत शक्त्या विधिवद्रविं भक्त्या दिवस्पतिम्”
  • सर्वावाप्तिव्रतं विष्णुधर्मोत्तरोक्तम् “इदमन्यत् प्रवक्ष्यामि
चतुर्मूर्त्तिव्रतं तव । बलं ज्ञानं तथैश्वर्य्यं शक्तिश्च
यदुनन्दन! । विख्यातं देवदेपस्य तस्य मूर्त्तिचतुष्टयम् ।
यदेव रूपं कूर्मस्य वलस्योक्तं तथैव तु । रूपं ज्ञानस्य ते
प्रोक्तं नारसिंहं तथा नृप! । रुद्ररूपं तथैश्वर्य्यं
कथितन्तु मया तव । पूर्वं बलमुखं तस्य वासुदेवमुस्यं भवेत् ।
दक्षिणं वदनं ज्ञानं देवं सङ्कर्षणं विदुः । ऐश्वर्य्यं पश्चिमं
वक्त्रं रौद्रं पापहरं तथा । वाराहञ्च तथा वक्त्रमनिरुद्धं
प्रकीर्त्तितम् । त्रिरात्रोपोषितश्चैत्रे पूर्वं रंपूजयेनुखम्
शुक्लपक्षप्रतिपदि वैशास्वे मासि दक्षिणम् । ज्यैष्ठे
च पश्चिमं वक्त्रमाषाढ़े च तथोत्तरम् । गृहोपयोगि दातव्यं चैत्रे
मासे द्विजातये । रणोपयोगि दातव्यं वैशाखे यादवो-
त्तम! । योगोपयोगि दातव्यं ज्यैष्ठे मासि द्विजातये ।
यज्ञोपयोगि दातव्यं मास्याषोढ़े तथैव च । व्रतमेतन्नरः
कृत्वा पूर्णमासचतुष्टयम् । पारण प्रथमं कृत्वा स्वर्गलोके
महीयते । श्रावणादिषु मासेषु द्वितीयं पारणं भवेत् ।
दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथोदितम् । सौभाग्या-
दिषु भोगेषु तृतीयं पारणं भवेत् । तृतीयं पारणं
कृत्वा भोजयेद्ब्राह्मणाञ्छुचिः । भोजनं गोरसप्रायं
मृद्वीकाशर्करायुतम् । प्राप्ते द्वितीये व्रतपारणे तु
प्राप्नोति देवस्य सलोकतां सः । स्वर्गेन्द्रलोके च यथोक्त
कार्ण भुङ्क्ते सुखं सर्वसमृद्धिकामः” ।
  • सर्षपसप्तमीव्रतं भविष्यपु० “संपूज्य विधिवद्देवं पुष्पधूपादि
भिर्बुधः । यथाशक्ति ततः पश्चान्नैवेद्यं भक्तितो न्यमेत् ।
पुष्पाणां प्रवरा जातिर्धूपानां विलवः परः । नन्धानां
कुङ्कुमं श्रेष्ठं लेपानां रक्तचन्दनम् । दोपदाने धृत
श्रेष्ठं नैवेद्यं मोदकं परम् । एतैस्तुष्यति देवेशः
सान्निध्यं चापि गच्छति । एवं संपूज्य विधिवत् कृत्वा
चापि प्रदक्षिणम् । प्रणम्य शिरसा देव! देवदेवं दिवा-
करम् । सुखासीनस्ततः पश्येद्रवेरभिमुखस्थितः । एव
सिद्धार्थकं कृत्वा हस्ते पानीयसंयुतः” । सिद्धार्थकं
पश्ये दित्यन्ययः “कामं यथेष्टं हृदये कृत्वा तं वाञ्छित
नरः । पिवेत् सन्तोषयन् विप्रमस्पृ शन् दशनैः सकृत्” ।
रात्राविति शेषः “द्वितीयायान्तु सप्तम्यां द्वौ गृहीत्वा
तु सुव्रत! । तृतीयायां तु सप्तम्यां पातव्यास्त्रय एव
हि । चतुर्थ्यां वापि चत्वारः पञ्चम्यां पञ्च एव च ।
षट् पिवेच्चापि षष्ठ्यां तु इतीयं वैदिकी श्रुतिः । सप्तम्यां
वारिसंयुक्तां सप्त चैव पिबेन्नरः” । बारिशब्दः द्रववाची
पञ्चगव्यस्य वक्ष्यमाणत्वात् “उदकप्रभृतिं यावत् पञ्च-
गव्येन सप्तमी । एकं तोयेन सहितं द्वौ वापि
घृतसंयुतौ । तृतीयं मधुना सार्द्धं दध्नापि च चतुष्टयम् ।
युक्तास्तु पयसा पञ्च षट् च गोमयसंयुताः । पञ्चगव्येन
वै सप्त पिवेत् सिद्धार्थकान् द्विज! । अनेन विधिना यस्तु
कुर्य्यात् सर्षपसप्तमीम् । बहुपुत्रो बहुधनः सिद्धार्थश्चापि
सर्वदा । इह लोके नरो भूत्वा प्रेत्य याति विभावसुम्” ।
  • सागरध्रतं विष्णुधर्मोत्तरोक्तम् “इदमन्यत् प्रवक्ष्यामि
चतुर्मूर्त्तिव्रतन्तव । नित्यञ्चतुर्षु मासेषु श्रावणाद्येषु
बादव! । चतुःसागरचिह्नानि पूर्णकुम्भांस्तु पूजयेत् ।
चतुरात्मा हरिर्ज्ञेयः सागरात्मा विचक्षणैः । स्नानं
णमाचरेन्नित्यं नदीतोयेन यादव! । होमञ्च प्रत्यहं
कुर्य्यात् सततं तैलवर्जितम् । कार्त्तिकस्यावसामाह्नि
पूजयित्वा द्विजोत्तमान् । तैलं दत्त्वा तु विप्राय
नाकपृष्ठे महीयते । सर्वकामसमृद्धस्य यज्ञस्य लभते फलम्” ।
  • साध्यव्रतं विष्णुधर्मोत्तरोक्तम् “मनोमनस्तथा पाणो नरो
जातश्च वीर्य्यवान् । वीतिर्हयोऽनघश्चैव हंसो नारा-
यणस्तथा । विभुश्चापि प्रभुश्चैव साध्या द्वादश कीर्त्तिताः ।
पूजयेच्छुक्लपक्षे तान द्वादश्यां मार्गशीर्षतः । कृत्वा वतं
वत्सरमेतदिष्ट प्राप्नोति तेषां तु स सलोकमेव । तत्रोष्य
कालं सुचिरं मनुष्यो राजा भवेद्व द्विजपुङ्गवो वा” ।
  • सामव्रतं पद्मपु० “धृतेन स्नापनं कृत्वा केशषस्य शिवस्य च ।
ब्रह्मणो मास्करस्यापि गौर्य्या मम्बोदरस्य च ।
कणतैश्च शुभं कुर्य्यात् पद्मं गोमयमण्डले । समान्ते
हेमकमलं तिलधेनुसमन्वितम्"। समा वर्षम् । “शुद्धमष्ठा-
पृष्ठ ५०६४
ङ्गुलं दद्याच्छिवलोके महीयते । साम गापयतश्चैतत्
सामव्रतमिहोच्यते” ।
  • सारस्वतपञ्चमीव्रतं पद्मपु० “सम्यक् पृष्टं त्वया राजन्!
शृणु सारस्वतं व्रतम् । यस्य सङ्कीर्त्तनादेव तुष्यतीह
सरस्वती । यो यद्भक्तः पुमान् कुर्य्यादेतद्ब्रतमनुत्तमम् ।
तद्वासरादौ संपूज्य विप्रानेतत् समारभेत् । अथवादि-
त्यवारेण ग्रहतारावलेन च । पायसम्भोजयित्वा तु
कुर्य्याद् ब्राह्मणवाचनम् । शुक्लवस्त्राणि दद्याच्च
सहिरण्यानि शक्तितः । गायत्रीं पूजयेद्भक्त्या शुक्लमाल्या-
नुलेपनैः । एभिर्मन्त्रपदैः पश्चात् सर्वं कुर्य्यात् कृता-
ञ्जलिः । एवं संपूज्य गायत्रीं वीणाक्षमणिधारिणीम् ।
शुक्लपक्षेऽक्षतैर्भक्त्या सकमण्डलुपुस्तकाम् । मौनव्रतेन
भुञ्जीत सायं प्रातश्च धर्मवित् । पञ्चम्यां प्रतिप्रक्षे च
पूजयित्वा सुवासिनीः । तस्यां तु तण्डुलप्रस्यं
घृतपात्रेण संयुतम् । क्षीरं दद्यात् हिरण्यञ्च गायत्री
प्रीयतामिति । सन्ध्ययोश्च तथा मौनमेतत् कुर्वन् समार-
भेत् । नान्तरा भोजनं कुर्य्याद् यावन्मासास्त्रयोदश ।
समाप्ते तु व्रते दद्यात् भाजनं शुभतण्डुलैः । पूर्णं
सवस्त्रयुम्मन्तु गां सवत्सां सुशोभनाम् । विप्राय वेदवि-
दुषे । वाचकायाथ पार्थिव! अनेन विधिना यस्तु
कुर्य्यात् सारस्वतं व्रतम् । विद्यावान् धनयुक्तश्च रक्त-
कण्ठश्च जायते । सरस्वत्याः प्रसादेन व्यासवत्
स कविर्भवेत् । नारी वा कुरुते या तु सापि तत्फलभागिनी” ।
  • सारस्वतव्रतं पद्मपु० “सन्ध्यामौनं नरः कृत्वा समान्ते
घृतकुम्भकम् । वस्त्रयुग्मं तिलान् धण्टां ब्राह्मणाय निवे-
दयेत् । लोकं सारस्वतं याति पुनरत्रैव जायते । एतत्
सारस्वतं नाम रूपविद्याप्रदायकम्” ।
  • सार्वभौमव्रतं वराहपु० “सार्वभौमव्रतं चान्यत् कथयामि
ममासतः । येन सम्यक्कृतेनाशु सार्वभौमो भवेन्नरः ।
कार्त्तिकस्य तु मासस्य दशमी शुक्लपक्षगा । तस्यां
नक्ताशनोमर्त्त्योदिक्षु शुद्धबलिं हरेत्” । शुद्धबलिः पवित्र-
द्रव्यैः पूजोपहारः । “विचित्रैर्कुसुमैर्भक्ष्यैः पूजयेच्च द्वि-
जांस्तथा । सर्वा भवत्यः सिध्यन्तु मम जन्मनि जन्मनि ।
एवसुक्त्वा वलिं तासु दत्त्वा शुद्धेन चेतसा । ततोद्धि-
पत्रे भुञ्जीत दध्यन्नञ्च सुसंस्कृतम् । सर्वं पश्चाद्यथेष्टञ्च
एवं मंवत्सरं नृपः । यः करोति नृपोनित्यं तस्य
दिम्बिजयो भवेत्” ।
  • सितसप्तषोततं विष्णुधर्मोत्तरे “मार्गशीर्षस्य मासस्य
नराधिप! । सोपवासन्तु सप्तम्यां कमलैः पूजयेद्रविम् ।
अर्चायां वा स्थले वापि शुक्लैः पुष्पैर्यथाविधि । चन्द-
नेन तु शुक्लेन वटकैः पूरकेण च” ।
  • सिद्धार्थकादिसप्तमोव्रतं मविष्यपु० “वैनतेय! शृणुष्व त्वं
विधानं सप्तमीव्रतम् । एतद्धि परमं गुह्यं रवेराराधनं
परम् । सिद्धार्थकैस्तु प्रथमा द्वितीया चार्कसम्पुटैः ।
तृतीया मरिचैः कार्य्या चृतुर्थी निम्बसप्तमी । षड्युता
पञ्चमी कार्य्या षष्ठी च फलसप्तमी । सप्तम्यनोदना वीर!
सप्तमी परिकीर्त्तिता” । षड्युता इति सिद्धार्थकादि-
षद्भिः प्रकारैर्युता” । इत्येताः सप्तसप्तम्यः कर्त्तव्या
भूतिमिच्छता । तथा चानुक्रमेणासाङ्करणं कथयाम्य-
हम् । माघे वा मार्गशीर्षे वा कार्य्या शुक्ला तु सप्तमी ।
न च स्यान्नियमभ्रंशः पक्षमासकृतो भवेत्” । आर्त्ति-
वशादन्यस्मिन् मासे पक्षे च कार्य्येत्यर्थः” इत्यादि
  • सिद्धिविनायकचतुर्थीव्रतं स्कन्दपु० “गजवक्त्रन्तु शुक्लायां
चतुर्थ्यां पूजयेन्नृप! । यदा वोत्पद्यते भक्तिर्मासे पूज्यो
गणाधिपः । प्रातः शुक्लतिलैः स्नात्वा मध्याह्ने
पूजयेन्नृप! । स्वशक्त्या गणनाथस्य स्वर्णरौप्यां तथाकृ-
तिम् । कृत्वा पूजां प्रयत्नेन स्नाप्य पञ्चामृतैः पृथक्”
इत्यादि ।
  • सुकलत्रप्राप्तिव्रतं विष्णु धर्मोत्तरे “यज्ञं परिसमासाद्य नारीह
सुखमेधते । दुःशीलेऽपि हि कामार्थौ नारी प्राप्नोति
भर्त्तरि । अनाहारा जगन्नाथं सर्वलोकेश्वरं हरिम् ।
कथमाप्नोति चेन्नारी सर्वलोकगुणान्वितम् । सुकलत्र-
युतन्तस्माद्व्रतमच्युततुष्टिदम् । कर्त्तव्यं लक्षणं तस्य
श्रूयतां वरवर्णिनि! । यच्चीर्त्वा सर्वनारीणां श्रेयः प्रा-
प्नोत्यसंशयम् । ऐहिकञ्च सुखं प्राप्य मृता स्वर्गसुखा-
न्यपि । अनुज्ञाप्य स्वपितृती मातृतश्च कुमारिका ।
पूजयेत्तु जगन्नाथं भक्त्या पापहरं हरिम् । त्रिषु-
त्तरेष्वथर्क्षेषु पतिकामा कुमारिका । माधवायेति वै
नाम जपेन्नित्यमतन्द्रिता । प्रियङ्गुणा रक्तपुष्पैर्मधुकैः
कुसुमैस्तथा । समभ्यर्च्याच्युते दद्यात् कुङ्कुमेनानुलेषनम् ।
सर्वौषधिभिः सुस्नाता तमाराध्य जगत्पतिम् । नमोऽस्तु
माधवायेति होमयेन्मधुसर्पिषा । सदैवमुत्तरायोगे
समभ्यर्च्य जनार्दनम् । शोभनं पतिमाप्नोति प्रेत्य स्वर्गञ्च
गच्छति । अतिबाल्ये च यत्किसित् तया पापमनुष्ठि-
तम् । तस्माद्विमुच्यते पापात् सुखिनि चैव जायते ।
दैनैकेन तन्वङ्गि! व्रतं प्राप्य यदिच्छति । तदेव प्रा-
पृष्ठ ५०६५
प्नुयाद्भद्रे! नारायणपरायणा । षण्मासप्रीणनं कार्य्यं
यथाशक्त्या च वै हरेः । पारणान्ते महाभागे!
भोजयेद् ब्राह्मणोत्तमान्” ।
  • सुकुलत्रिरात्रव्रतं विष्णुधर्मोत्तरे “त्र्यहस्पृग्दिवसं प्राप्य
त्रिरात्रोपोषितो नरः । मार्गशीर्षात्तथारभ्य पूजयेत् तु
त्रिविक्रमम् । त्रिवर्णैः कुसुमैर्देवं त्रिभिः प्रयतमानसः” ।
त्रिवर्णैः श्वैतपीतरक्तैः “त्रयोऽनुलेपना देयास्त्रिसारं
धूपमे च” । त्रिसारं गुग्गुलुकटुकश्रीवेष्टकाः “वलिं
त्रिमधुरं दद्यात् त्रींश्च दीपान्नरोत्तम! । यवैस्तिलै-
स्तथा होमः कर्त्तव्यः सर्षपान्वितैः । दद्यात्रिलोहञ्च
तथा द्विजेभ्यः ताम्रं सुवर्णं रजतञ्च राजन्! । न
केवलं सुकुलदं वतन्तु यथेष्टकामाप्तिकरं प्रदिष्टम्” ।
  • सुकृतद्वादशीव्रतं विष्णुधर्मोत्तरे “तथेयं द्वादशी शस्ता
नृणां सुकृतकर्मणाम् । यामुपोष्प द्विजश्रेष्ठ! न याति
नरकं नरः । फाल्गुनामलपक्षस्य एकादस्यामुपोषितः
द्वादश्यां च द्विजश्रेष्ठ! पूजयेन्मघुसूदनम् । एकादश्यां
समुत्तिष्टन् विष्णोर्नामानुकीर्त्तनम् । पूजायां वासुदेवस्य
कुर्वीत सुसमाहितः” ।
  • सुखव्रतं भविष्यपु० “कृष्णाष्टमीं तु नक्तेन यस्तु कृष्णां च
सप्तमीम्” । उपवसेदिति शेषः “इहैव सुखमाप्तोति
परत्र च शुभां गतिम्” । विष्णुधर्मोत्तरे “देवानां
मानवानां वा तत्पक्षाये तथा परे । तेषां संपूजनं कृत्वा
चतुर्दश्यां सुखी भवेत्” । भविष्यपु० चतुर्थी तु चतुर्थी
तु यदाङ्गारकसंयुता । उपोष्य तत्र तत्रैव प्रदेयो
विधिवत् कुजः । उपोष्य नक्तेन विभो! चतस्रः
कुजसंयुताः । चतुर्थ्यान्तु चतुर्थ्यान्तु विधानं शृणु यादृ-
शम्” । एकश्चतुर्थीशब्दः तिथिविशेषवचनः, अपरस्तत्
संख्यापर इति “दशसौवर्णिके मुख्यं दशार्द्धार्द्ध मथापि
वा । सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा ।
विंशत्पलानि पात्राणि विंशत्यर्द्धपलानि च । विंशत्-
कर्षाणि वा वीर! अतीहीनं न कारयेत् । शक्त्या
वित्तस्य भक्त्या च पात्रे ताम्रभयेऽपि वा । प्रतिष्ठाप्य
कुजपात्रे रक्तवस्त्रेण वेष्टयेत् । पुष्पमण्डपिकां कृत्वा
दिव्यैर्धूपैस्तु धूपिताम् । तत्तत्स्थमर्चयेद्देवं पूर्वमन्त्रैः
क्रमेण तु” ।
  • सुखषष्ठीव्रतं विष्णुधर्मोत्तरे “ऋषीणां पूजनं कृत्वा षष्ठ्यां
सुखमवाप्नुयात्” ।
  • सुखसप्तव्रतं आदित्यपु० “अमावास्यान्तु देवाश्च कार्त्तिके
मासि केशवम् । अभयं प्राप्य सुप्तास्तु सुखात् क्षो द
सानुषु । लक्ष्मीर्दैत्यभयान्म्रक्ता सुखं सुप्ता भुजोदरे ।
चतुर्भूजस्य हस्तान्ते ब्रह्मा सुप्तस्तु पङ्कजे । अतोऽर्थं
विधिवत् कार्य्या मनुष्यैः सुखसुप्तिका । दिवा तत्र
न भोक्तव्यमृते बालातुरान् जनान् । प्रदोषसमये
लक्ष्मीं पूजयित्वा ततः क्रमात् । दीपवृक्षाश्च दातव्याः
शक्त्या देवगृहेषु च । चतुष्पथे श्मशानेषु नदीपर्वत-
वेश्मसु । वृक्षमूलेषु गोष्ठेषु चत्वरेषु गुहासु च । वस्त्रैः
पुष्पैः शोभितव्याः क्रयविक्रयभूमयः । दीपमालापरि-
क्षिप्ते प्रदैशे तदनन्तरम् । ब्राह्मणान् भोजयित्वादौ
विभज्य च बुभुक्षितान् । स्वलङ्कृतेन भोक्तव्यं नववस्त्रो-
पशोमिना । स्निग्धैर्मुग्धैर्विदग्धैश्च बान्धवैर्निभृतैः
सह । शङ्करस्तु पुरा द्यूतं ससर्ज सुमनोहरम् ।
कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि सुव्रत! । जितश्च शङ्क-
रस्यत्र जयं लेभे च पार्वती । अतोऽर्थं शङ्करो दुःखी
उमा नित्यं सुखोषिता । तस्माद् द्यूतं प्रकर्त्तव्यं प्रा-
भाते तत्र मानवैः । तस्मिन् भवेज्जयोयस्य तस्य संवत्-
सरं शुभम् । पराजये विरुद्धन्तु लब्धनाशस्ततो
भवेत् । श्रोतव्यं गीतवाद्यादि स्वनुलिप्तैः स्वलङ्कृतैः ।
विशेषवच्च मोक्तव्यं प्रशस्तैर्बान्धवैः सह । तस्यां
निशायां कर्त्तव्यं शय्यास्थानं सुशोभनम् । गन्धपुष्पैस्तथा
वस्त्रैरत्नैर्माल्यैरलङ्कृतम् । दीपमालापरिक्षिप्तं तथा
धूपेन धूपितम् । दयिताभिश्च सहितैर्नेया सा च भ्रवे-
न्निशा । नवैर्वस्त्रैश्च संपूज्य द्विजसम्बन्धिबान्घवान्”
इत्यादि ।
  • सुगतिव्रतं पद्मपु० “नक्ताशी त्वष्टमीषु स्याद् वत्सरान्ते तु
गोप्रदः । पौरन्दरपदं याति सुगतिव्रतमुच्यते” ।
  • सुगतिद्वादशीव्रतं विष्णुधर्मोत्तरे “एकादश्यां शुक्लपक्षे
फाल्गुने मासि यो नरः । जपन् कृष्णेति देवस्य नाम
भक्त्या पुनः पुनः । देवार्च्चनं वाष्टशतं कृत्वैतत्तु
जपेच्छुचिः । स्नाने प्रस्थानकाले च उत्थाने स्खलिते
क्षये । पाषण्डान्! पतितांश्चैव तथैवान्त्यावसायिनः ।
नालपेत्तु तथा देवमर्चयेच्छ्रद्धयान्वितः । इदञ्चोदाहरेत्
मन्त्रं मनश्चाधाय तत्परः । चैत्रवैशाखयोश्चैवं तद्द्वज्ज्यैष्ठे
च पूजयेत् । मर्त्यलोके गतिं श्रेष्ठां दाल्भ्य! प्राप्तीति
वै नरः । उत्क्रान्तिकाले कृष्णस्य अरणञ्च तथाप्नुयात् ।
आषाढ़े श्रावणे चैव मासि भाद्रपदे तथा । तथैवाश्व-
युजे देवमनेन विधिना नरः । उपोष्य संपूज्य तथा
पृष्ठ ५०६६
केशवेति च कीर्त्तयेत् । गोमूत्रप्राशनात् पूतः स्वर्गलोके
महीयते । आराधितस्य जगतामीश्वरस्य महात्मनः ।
उत्क्रान्तिकाले स्मरणं केशवस्य तथाप्नुयात् । क्षीरस्य
प्राशनं श्रेष्ठं विधिनेदं यथोदितम् । कार्त्तिकादि
यथान्यायं कुर्य्यान्मासचतुष्टयम् । तेनैव विधिना
ब्रह्मन्! तत्र विष्णु प्रकीर्त्तयेत् । स याति विष्णुसा-
लोक्यं विष्णुं स्मरति तत्क्षये । प्रतिमासं द्विजातिभ्यो
दद्याद्दानं यथेच्छया । सुगतिद्वादशीमेतां श्रद्दधानश्च यो
नरः । उपोष्येति तथा नारी प्राप्नोति त्रिविघां गतिम्” ।
  • सुजन्मद्वादशीव्रतं विष्णुधर्मोत्तरे “पौषे मासि सिते पक्षे
द्वादश्यां शक्रदैवते । नक्षत्रयोगगे विष्णुं प्रथमं तु
समचयेत् । ततः प्रभृति विप्रेन्द्र! मासि सासि जनार्द-
नम् । उपोषितः पूजयेत यावत् संवत्सरं गतम् । मासे
च मासे विघिनोदितेन तस्यां तिथौ दानमिति ब्रवीमि ।
प्राश्यं यथावद्विधिवत् क्रमेण तदुच्यमानं निखिलं
निबोध । घृतं तथा व्रीहियवं हिरण्यं यवान्नमम्भश्चणका-
न्नपानम् । छत्रं पयोऽन्नं गुड़फाणिताद्यं सुचन्दनं वस्त्र-
मनुक्रमेण । एकैकमासोक्तमथैकदानं गोमूत्रमम्भो
घृतमामशाकम् । दूर्वादधिव्रीहियवं तिलांश्च सूर्य्यांशुतप्तं
जलमम्बु दार्भम्” ।
  • सुजन्मावाप्तिव्रतं विष्णुधर्मोत्तरे “मेषसंक्रमणे भानोः
सोपवासो नरोत्तम! । पूजयेद्भार्गवं देवं रामं शक्त्या
यथाविधि । वृषसंक्रमणे प्राप्ते तथा कृष्णञ्च पूजयेत् । तथा
मिथुनसंक्रान्तौ पूजयेद्भोगशायिनम् । तथा कुलीरसं-
क्रान्तौ वराहमपराजितम् । नरसिंहं तथा देवं सिंह-
संक्रमणे बिभुम् । कन्यासंक्रमणे देवं तथाश्वशिरसं
यजेत् । तुलासंक्रमणे कूर्मं पूजयेत् भक्तिभावतः ।
अलिसंक्रमणे कल्कि देवं संपूजयेत् नरः । धनुःसंक्रमणे बुद्धं
देवमभ्यर्चयेत् बुधः । तथा मकरसंक्रान्तौ रामं दशरथात्म-
जम् । कुम्भसंक्रमणे राजन्! रामं यादवनन्दनम् ।
मीनसंक्रमणे मत्स्यं वासुदेवन्तु पूजयेत् । पटे वा यंदि
वार्च्चायां गन्घमाल्यान्नसम्पदा । प्रादुर्भावस्य नाम्ना च
च होमं कुर्वीत पार्थिव! । व्रतान्ते जलधेनुन्तु छत्रो-
पानत्समन्विताम् । वस्त्रयुग्मयुतां दद्यात् प्रतिमासं
मकाञ्चनाम् । रात्रौ तु दीपमालाभिर्देवदेवं प्रपूजयेत् ।
कृत्वा व्रतं वत्सरमेतदिष्टं म्लेच्छेषु तिर्य्यक्ष न चापि
जन्म । प्राप्नोत्यवाप्नोति चिरञ्च नाकं कामन्तथाप्नोति
मनोभिमिरामम्” ।
  • सुदर्शनषष्ठीव्रतं गरुड़पु० “अथ षष्ठ्यान्तु राजन्यः समुपोमा
यथाविधि । चक्राब्जमण्डलं कृत्वा कर्णिकायां सुदर्श-
नम् । दलेषु लोकपालानामायुधानि समर्चयेत्” ।
चक्राब्जं चक्रनाभिघटिताब्जम् । “स्वान्यायुधानि पुरतः
प्रतिष्ठाप्य प्रपूजकः । रक्तचन्दनसिद्धार्थरक्तपद्माङ्कुरै-
रपि । रक्तवस्त्रैः सुगन्धाट्यैर्भूषणादिभिरर्चयेत्”
इत्यादि ।
  • सुनामद्वादशीव्रतं वह्निपु० “शृणुष्वैकमना भूप! सुनाम-
द्वादशी शुभा । सर्वपापहरा स्वर्ग्या भुक्तिमुक्तिप्रदा-
यिका । मनसा च चिकीर्षन्ति द्वादशीं ये नरोत्तमाः ।
तेऽपि घोरं न पश्यन्ति पुनः ससारसागरम् । आद्यं
सर्वव्रतानां तु वैष्णवानां नृपोत्तम । ! नरैस्त्रिभिश्च कर्त्तव्यं
विष्णोस्तुष्टिकरं परम् । मार्गशीषे शुभे मासि शुक्ल-
पक्षे यतव्रतः । प्रथमञ्चैव गृह्णीयाद् द्वादशीं विधिव-
न्नरः । मनोवाक्वायचेष्टाभिः सुविशुद्धो जितेन्द्रियः ।
दशम्यां नियतः स्नात्वा प्रणिपत्य जनार्दनम् । हविष्यान्न-
कृताहारः श्रुचिर्भूत्वा भवेद्व्रती । उपलिप्ते शुचौ
देशे भक्षयेद्दन्तधावनम् । उपोष्यैकादशीं सम्यक् पूजयित्वा
जनार्दनम् । सुनामद्वादशीं देव! अहं भोक्ष्ये परेऽहनि ।
एवं सकल्प्य नियमं प्रणम्य गरुड़ध्वजम् । दशम्या-
मेकभक्त्वाशी संयतः संवसेन्निशाम् । एकादश्यां ततः प्रा-
तरेकचित्तः समाहितः । पूर्वं संपूजयेत् सूर्य्यं ततो देवं
प्रपूजयेत्” वर्षसाध्यमिदम् ।
  • सुरूपद्वादशीव्रतम् उमामहेश्वरसंवादे “पौषमासं तु संप्राप्य
पुष्यर्क्षे तु सुशोधयेत् । तस्यां रात्रौ संयतात्मा ध्यात्वा
विष्णुं सनातनम् । श्वेता गौरेकवर्णा च तस्या ग्राह्यञ्च
गोमयम् । अन्तरिक्षात् प्रपतितं शुचिर्मौनमवास्थितः ।
तस्याः कृत्वाऽऽहुतीनाञ्च शतमष्टोत्तरं तिलैः । प्रतीच्यैका-
दशीं कृष्णामुपवासपरायणैः । भाव्यं नियमसंयुक्तैर्विशे
षात् संयतात्मभिः । स्नात्वा नद्यां तड़ागे वा विष्णु
मेवाथ चिन्तयेत् । सौवर्णकं हरिं कृत्वा रौप्यं वाम
स्वशक्तितः । तिलपात्रोपरिस्थे च न्यसेत् कुम्भे
सद्रव्यके” इत्यादि । “एवं यः कुरुते देवि!
सुरूपद्वादशीव्रतम् । नरो वा यदि वा नारी तस्य
पुण्यं शृणुष्व मे । दौर्भाग्य नश्यते तस्य अपि जन्मा-
न्तराजितं । अपि भुव्यस्य सम्पर्को जायत कारणान्त-
रात् । तस्यापि न भवेद् दुःखं वैरूप्यं तस्य जन्मनि” ।
  • सूर्य्यव्रतं विष्णुधर्मोत्तरे “शिरसोवपनं कृत्वा योऽर्चयेत
पृष्ठ ५०६७
दिवाकरम् । तपनस्तोषमायाति वह्निष्टोमञ्च विन्दति ।
अपूपैः सगुडैर्भक्त्या तथा लवणपाचितैः । सहिरण्यैः
समभ्यर्च्य वह्निष्टामफलं लभेत् । सूर्य्याह्नि यस्तु नक्ताशी
संपूजयति भास्करम् । इष्टान् कामानवाप्नोति सूर्य्य-
लोकञ्च गच्छति” । कालोत्तरे “आश्विन्यादित्यवारे तु
यदि शुक्ला चतुर्दशी । स्नानं विशेषतः कार्य्यं शिवस्य
परमात्मनः । अङ्गरागं रोचनया रक्तपुष्पैः प्रपूजयेत् ।
कपिलाज्यं तथा क्षीरं नैवेद्यं परिकल्पयेत्” । पद्मपु०
“माघमास्युषसि स्नानं कृत्वा दम्पत्थमर्चयेत् । भोजयित्वा
यथाशक्त्या बालवस्त्रविभूषणैः । सौभाग्यपदमाप्नोति
शरीरारोग्यमुत्तमम् । सूर्य्यलोकप्रदं नूनं सूर्य्यव्रतमिदं
स्मृतम्” । भविष्यपु० “कृच्छ्रैकभक्तं हेमन्ते माघमास-
मतन्द्रितः । मासान्ते च रथं कुर्य्याच्चित्रवस्त्रोपशोभि-
वम् । श्वेतैश्चतुर्भिर्यु क्तन्तु तुरगैः समलङ्कृतम् । श्वेत
ध्वजपताकाभिः छत्रचामरदर्पणम् । तण्डुलाढ़कपिष्टेन
कृत्वा भानुं नराधिप! । विन्यस्य तं रथप्रस्थे संज्ञया सह
भूपते! तं रात्रौ राजमार्गेण शङ्खभेर्यादिभिः स्वनैः ।
भ्रामयित्वा शनैः पश्चात् सूर्य्यायतनमानयेत् । तत्र चागु-
रुपिष्ठेन प्रदीपाद्युपशोभितम् । प्रेक्षणीयप्रदानैश्च
क्षपयित्वा शनैः शनैः । प्रभाते स्नपनङ्कृत्वा पयसा वा
घृतेन वा । दीनान्धकृपणानाञ्च यथाशक्त्या च दक्षि
णाम् । रथं संवाहनोपेतं भास्कराय निवेदयेत् । भुक्त्वा
च ब्राह्मणैः सार्द्धं प्रणम्यार्कं गृहं व्रजेत्” ।
सौरधर्मोत्तरे “शृणु राजन्! प्रवक्ष्यामि यद्गुह्यं व्रतमुत्तमम् ।
सर्वकामप्रदं पुंसां कुष्ठादिव्याधिनाशनम् । भानोस्तुष्टि-
करं राजन्! भुक्तिमुक्तिप्रदायकम् । तस्य देवस्य
वक्ष्यामि व्रत राजन्! सविस्तरम् । पूजार्घ्यप्राशनं
दानं नैवेद्यं शृणु तत्त्वतः । सर्वतीर्थेषु यत् पुण्यं
सर्वयज्ञेषु यत्फलम् । सर्वदानेन तपसा यत् पुण्यं
समवाप्यते । प्रातः स्नानेन यत् पुण्यं यत् पुण्यं रविवासरे ।
मार्गशीर्षादिमासेषु द्वादशस्वपि भूपतें! । सूर्य्यव्रतं
करिष्यमि यावद्वर्षं दिवाकर! । व्रतं संपूर्णतां यातु त्वत्-
प्रसादात् प्रभाकर!” इत्यादि ।
  • सूर्य्यनक्तव्रतं मत्स्यपु० “तस्मादादित्यवारेण सदा नक्ताशनो
भवेत् । यदा हस्तेन संयुक्तमादित्यस्य च वासरम् ।
उत्पद्यते यदा भक्तिर्भानोरुपरि शाश्वती । तदादित्य-
दिने कुर्य्यादेकभक्तं विमत्सरः । तदारभ्य सदा कार्य्यं
तकमादि यवासरे । नक्तमादित्यवारेण भोजयित्वा द्वि-
जोत्तमान् । ततोऽस्तसमये भानो रक्तचन्दनपङ्कजम् ।
विलिख्य द्वांदशदलं पूज्य सूर्य्येति पूर्वतः” । “इत्यनेन
विधानेन वर्षमेकन्तुंयो नरः । नक्तमादित्यवारेण
कुर्य्यात् स नीरुजो भवेत् । धनधान्यसमायुक्तः पुत्रषौत्र-
समन्वितः । मर्त्त्ये स्थित्वा चिरं कालं सूर्य्यलोकमवा-
प्नुयात्” ।
  • सूर्य्यषष्ठीव्रतं भविष्योत्तरे “मासि भाद्रपदे शुक्ले एकभक्ता-
शनो भवेत् । दन्तधावनपूर्वन्तु षष्ठ्यामुपवसेन्नरः ।
गौरसर्षपकल्केन स्नायात् कायविशुद्धये । रोचनाकृष्ण-
गोमूत्रमुस्ताचन्दनगोसकृत् । दधिकालागुरुञ्चैव ललाटे
तिलकं न्यसेत् । शिलारुणदलैश्चैव सौभाम्बारोग्यकृद्-
यतः । स्रजं कुङ्कुमताम्बूलं सिन्दूरं रक्तमासली ।
वितरेत् सोपवासा हि नारी मङ्गल्यवर्द्धनम् । विधवा तु
विरक्तानि कुमारी शुक्लवासली । ततः स्वभवमे भानुं
पूजयेत् शीतलोदकैः । अपराह्ले ततः स्नात्वा सुनौनी
नियतव्रतः । प्रतिमां स्तपयेद्भानोः पञ्चगन्ध्येन
वारिणा । रक्तचन्दनपङ्केन कुङ्कुमेन समाभेत् ।
अगस्त्यकुसुमैरक्तैः करवीरैः प्रपूजयेत्” ।
  • सूर्य्यसप्तमीव्रतं विष्णुधर्मोत्तरे “चैत्रे शुक्लस्य पक्षे तु
सम्यक् षष्ठ्यामुपोषितः । सप्तम्यामर्चनं कुर्य्याद्देवदेवस्य
र्भूपते! । वहिःस्नानं नरः कृत्वा गोमयेनोपलेपितः ।
लेपयेत्स्थण्डिलं सम्यक् ततो गौरमृदा नृप! । तत्राष्ट-
दलकमलं वर्णकैस्तु समं लिखेत्” इत्यादि ।
  • सोमद्वितीयाव्रतं पद्मपु० “दद्यात्सितद्वितीयायां सिन्धोर्कवण-
भोजनम् । समाप्ते गोप्रदो याति विप्राय शिवगन्दिरम्”
विप्राय सिन्धोर्लवणभोजनं दद्यादित्यन्वयः । सोषश्चात्र
देवता सोमव्रतमिदं स्मृतमिति सोमस्य देवतात्वं गम्यते ।
“कल्पान्ते राजराजस्य मोमव्रतमिदं स्मृतम्” ।
  • सोमव्रतं कालोत्तरे “चन्द्राष्टम्यां रोहिणी स्यात्तदा चन्द्र
व्रतञ्चरेत् । शिवं सम्पूज्य विधिवत् स्नानेः पञ्चामृता-
दिभिः । विलेपनन्तु चन्द्रेण चन्दनेन तु वा हितम् ।
शुक्लवस्त्रैस्तथा पुष्पैः पूजयेत् परमेश्वरम् । नैवेद्यं क्षीर-
कुम्भन्तु सितशर्करया युतम् । प्राशनं चन्दनेनैव रात्री
जागरणं हितम् । आयुःकामैः सदा कार्य्यं कीर्त्ति-
श्रीसाधने हितम् । इति चन्द्रव्रतं नामोदारदानेन जा
यते” । कालिकापु० “वारे सोमस्य वाष्टम्यां पक्षोभौ
साममर्चयेत् । विधिना चन्द्रचूड़ाङ्के प्राज्यान्नेन सचन्द्रकम्” ।
पक्षोभौ अत्रोभयत्र पक्षे नियभोऽष्ठमीसोमयारयोः संयो-
पृष्ठ ५०६८
गमात्रं विवक्षितं, प्राज्यान्नं आज्थबहुलमन्नम् । “द
क्षिणार्द्धं हरन्ध्यायेद्वामोर्द्धन्तु हरिं विभुम्” । इत्यादि
“अष्टम्यां पितरावर्च्य विधिनानेन सुव्रत!” । पितरौ
तावेव देवीदेवौ “वत्सरन्तु तदन्ते तु कर्त्तव्यं यन्निबो-
धत । प्रागुक्तविधिना पूज्य सितं पीतं युगद्वयम् । दद्या-
द्वितानके चैव पताकाथण्टिके तथा । धूपसञ्चारणे
चाषि दीपवृक्षौ सुशोभिनौ” । भविष्यपु०
“ताम्रपात्र पयःपूर्णं कृत्वा तत्स्थञ्च शङ्करम् । प्रच्छा-
द्योपरिवस्त्रेण गन्घपुष्पार्चितं महत् । शिवभक्ते द्विजे
दद्याद्भोजयित्वा विधानतः । प्राच्यां समुदिते सोमे
गतोच्याञ्च रवा गते । पौर्णमास्यां तु वैशाख्यां गृहपात्रं
शिषाय तु । प्रीयतां मे महादेवः सोममूर्त्तिर्जगत्पातः ।
तस्मै विप्राय तत्पात्रमर्चयेद्भक्तितः शनैः । एवं सोमव्रतं
नाम कृत्वा सोमान्तिकं व्रजेत्” ।
  • सोमवारव्रतं मविष्योत्तरे “तद्वच्चित्रासु संप्राप्य सोमवारं
विचक्षणः । नक्तोक्तविधिना सर्वं कुर्य्यात् पूजादिकं
विधोः । सप्तमे तु ततः प्राप्ते दत्त्वा ब्राह्मणभोजनम् ।
कांस्यपात्रे तु संस्थाप्य सोमं रजतसम्भवम्” । सोमरूपन्तु
चतुर्दशीस्थमहाराजव्रतोक्तं वेदितव्यम् “पात्रे कृत्वा
सोमराज श्वेतवस्त्रैः प्रपूजितम् । पादुकोपानहच्छत्रभा-
जनासनसंयुतम् । होमं घृततिलैः कुर्य्यात् सोमनाम्रा तु
मन्त्रवित् । समिधोऽष्टोत्तरशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिभ्यां दध्ना चेव घृतेन तु” इत्यादि ।
  • सोमाष्टमीव्रतं स्कन्दपु० “वारे सोमस्य चाष्टम्यां पक्षयो-
रुमर्यारपि । विधिवच्चन्द्रचूड़ाभं सोमं सम्पूजयेन्निशि” ।
सोमं उमासहितम् रूपन्तु कृष्णाष्ठम्यामेव व्याख्या-
तम् । “तिलसर्षपकल्केन स्नातोऽमलजलाशये । गृहे
यायतने वापि शिवैकाहितमानसः । ब्रह्मकूर्चेन देवेशं
प्राशयित्वा ततो व्रती” । ब्रह्मकूर्चं पञ्चगव्यम “वामा-
दियाममन्त्रैश्च देवं देवीं तथार्चयेत् । चन्दनेनेन्दु-
युक्तेन् दक्षिणार्द्धं विलेषयेत्” इत्यादि ।
  • सौण्यव्रतं भविष्यपु० “एकादश्यां माषमासे चतुर्दश्यष्ट-
मीषु च । एकभक्तेन यो दद्यात् चेलकान्यर्जुनानि च ।
उपानही कम्बलञ्च पात्रं चित्रं तथोदकम् । करपात्रा-
दिकं वत्स! यथाशक्त्यार्थिने नृप! । आर्त्तत्राणपरो
नित्यमञ्चमेधफलं लभेत् । एतत्सीख्यव्रतं नाम आर्त्त
त्राणकरं परम्” ।
  • सौगन्ध्यव्रतं पद्मपु० “वर्जयेद् यस्तु पुष्पाणि हेमन्तमिशिरे
व्रती । पत्रत्रयञ्च फाल्गुन्यां कृत्वा शक्त्या च काञ्च-
नम् । दद्याद्वैकालवेलायां प्रीयेतां शिवकेशवौ । शिरः-
सौमन्ध्यजननं सदानन्दप्रद नृणाम् । कृत्वा परं पदं
याति सौगन्ध्यव्रतमुत्तमम्” ।
  • सौभाग्यतृतीयाव्रतं वराहपु० “अतःपरं महाराज! सौभा-
ग्यकरणं व्रतम् । शृणु येनाशु सौभाग्यं स्त्रीपुं सामभि-
जायते । फालगुनस्य तु मामस्य तृतीया शुक्लपक्षतः ।
उपोषितेन नक्तेन शुचिनासत्यभाषिणा । सश्रीकञ्च हरिं
पूज्य रुद्रं वा उमया सह” इत्यादि । गरुडपु०
“फाल्गुनादिवृतीयायां लवणं यस्तु वर्जयेत् । समान्ते
शयनं दद्यात् गृहं सोपस्करान्वितम्” । समान्ते
वत्सरान्ते “संपूज्य विप्रमिथुनं भवानी प्रीयतामिति ।
गौरीलोकप्रदं नित्यं सौभाग्यव्रतमुच्यते” ।
  • सौभाग्यव्रतं भविष्यपु० “पौर्णमास्यां तु यः सोमं
पूजयेद् भक्तिमान्नरः । सौभाग्यञ्च भवेत्तस्य इति मे निश्चित
मतिः । मूलमन्त्राः स्रसंज्ञाभिरङ्गमन्त्राश्च कीर्त्तिताः”
इत्यादि ।
  • सौभाग्यशयनव्रतं मत्स्यपु० “तथैवान्यत् प्रवक्ष्यामि सव
कामफलप्रदम् । सौभाग्यशयनं नाम यत् पुराणविदो-
बिदुः” । इत्युपक्रमे “वसन्तमासमासाद्य तृतीयायां
जनप्रियाम् । शुक्लपक्षस्य पूर्वाह्णे तिलैःस्नानं
समाचरेत् । तस्मिन्नहनि सा देवी किल विश्वात्मना सती ।
पाणिग्रहणकैः मन्त्रैरुदूवा वरवर्णिनी । तया सहैव
देवेशं तृतीयायां समर्चयेत्” इत्यादि । “एवं संवत्सरां
यावत् तृतीयायां सदा मनो! । प्राशने दानमन्त्रे च
विशेषोऽयं निसाध मे । गोशृङ्गोदकमाढ्यं स्याद्
वैशाखे गोमयं पुनः । ज्यैष्ठे मन्दारकुसुमं विल्वपत्रं
शुचौ स्मृतम् । श्रावणे दधि मम्प्राश्य नभस्ये च कुशो-
दकम् । क्षीरमाश्वयुजे मासि कार्त्तिके पृषदाज्यकम्” ।
पृषदाज्यं दधिमिश्रं धृतम् “मार्गशीर्षे तु गोमूत्रं पौषे
सम्प्राशयेद् वृतम् । माषे कृष्णतिलांस्तद्वत् पञ्चगव्यञ्च
फाल्गुले । लचिता विजया भद्रा भवानी कुमुदा
शिवा । वासुदेवी तथा गौरी मङ्गला कमला सती ।
उभा च दानकाले तु प्रीयतामिति कीर्त्तयेत् । मल्लिका-
ऽशोककमलकदम्बोत्पलमालतीम् । कुलत्थं करवीरञ्च
वाणमम्लानकुङ्कुमम् । सिन्दुवारञ्च सर्वेषु मासेषु क्र
भतः स्मृतम्” इत्यादि ।
  • सौभाग्यसंक्रान्तिव्रत स्कन्दपु० “अथार्म्या प्रवक्ष्यामि सौ-
पृष्ठ ५०६९
भाग्यसंक्रान्तिमुत्तमाम् । शृणु नारद! यत्नेन
धनैश्वर्य्यप्रदायिनीम् । अयने विषुवे युक्ते व्यतीपातेन
भानुना । संक्रान्तिदिवसे कुर्य्यादेकभक्तं बिमत्सरः ।
पूर्ववद्भानुमभ्यर्च्य तथा चैव सुवासिने । सौभाग्याष्टक-
संयुक्तं वस्त्रयुग्मं सयोषिते । विप्राय वेदविदुषे भक्त्या
तत् व्रतिपादयेत् । एवं संवत्सरे पूर्णे कृत्वा ब्राह्मण-
भोजनम् । पर्वतं लवणं कृत्वा यथाविभवसारतः ।
काञ्चनं कमलं कृत्वा भास्करञ्चैव कारयेत् । गन्धपुष्या-
दिना पूज्य विप्राय प्रतिपादयेत्” ।
  • सौभाग्यावाप्तिव्रतं विष्णुधर्मोत्तरे “माघ्यान्तु समतीतायां
पतिपत्प्रभृतिक्रमात् । पटे वा यदि वार्च्चायां कृष्णं
संपूजयेत् सदा । पूर्बोक्तं सकल कुर्य्याद् विधिं चात्र
नराधिष!” । पूर्वोक्तमिति चैत्रमाससम्बन्धिरूपामापि-
व्रतोक्तमित्यर्थः । “नित्यं समाचरेत् स्नान तथा गन्धप्रिय-
ङ्गुणा । चरुं प्रियङ्गुणा कुर्य्याद्धोमं कुर्य्यात् प्रियङ्गणा” ।
षियङ्गुः कङ्गुसदृशगन्धद्रव्यम् “कालगुन्यान्तु ततो दद्यात्
त्रिरात्रोपोषितो नरः । वस्त्रे च देये नृप! कुङ्कुमाक्ते
क्षाद्रस्य पात्रञ्च तथैव कांस्यम् । सौभाग्यद ह्येतदनु
त्तमन्ते व्रतं ममैतत्कथित नृवोर ।” ।
  • सौरनक्तव्रतं नृसिंहपु० “हस्तयुक्ते वार्कदिने सौरनक्तव्रतं
चरेत् । स्नाव्वाभ्यर्च्य तु विप्रान् वै विरोगो जायते
नरः” ।
  • सौरसप्तमीव्रतं पद्मपु० “यश्चोपबासी सप्तम्यां समान्ते
हेमपङ्कजम् । गाश्चैव शक्तितोदद्याद्धोमान्ते घटसंयुताः ।
एतत् सौरव्रतं नाम सूर्य्यलोकप्रदायकम्” ।
  • स्त्रीपुत्रकामावाप्तिव्रतं भविष्यपु० “एकभक्तेन या नारी
कार्त्तिकन्तु क्षपेन्नृप! । क्षमाहिंसादिनियमैः सञ्जाता
ब्रह्मचारिणी । गुड़ान्नमिश्रं शाल्यन्नं भास्कराय
निवेदयेत् । पुष्पाणि करवीराणि गुग्गुलं साज्यमादरात् ।
सप्तम्याञ्चाथ षष्ट्या वा उपवासरतिर्भवेत् । पक्षयोरुभयो-
रेव श्रद्धया परयान्वितः । इन्द्रनीलप्रतीकाशैर्विमानैः
सार्वकामिकैः । नारी युंनशतं साग्रं सूर्य्यलोके मही
यते” वर्षसाध्यमिदम् ।
  • स्नेहव्रतं पद्मपु० “आषाढ़ादिचतुर्मासानभ्यङ्गं वर्जयेन्नरः ।
पारिते च पुनर्दद्यात्तिलतैलयुत घटम् । भोजनं पायसा-
ज्यञ्च स याति भवनं विभोः । लोकप्रीतिकरं ह्येतत्
स्नेहव्रतिहोच्यते” ।
  • हयपञ्चमीव्रतं शालिहोत्रे “अश्वराडमृताज्जातो वातरंहा
मनोजवः । उच्चैःश्रवाः पूजनीयश्चैत्रशुकुस्य पञ्चमी ।
तत्रैव पूज्या गन्धर्वास्तुरङ्गाणान्तु बान्धवाः । पत्रवाण
धराः केचित् केचित् पत्रैश्च संयुताः । भीमश्चित्ररथ-
श्चैव विख्यातः सर्वविदयम् । तथा सालिशिराः श्री-
मान् प्रद्युम्नश्च महायशाः । नारदश्च कलिन्दश्च गन्ध-
र्वश्च हाहा हुहूः । सुवाहुस्तुम्बुरुश्चैव तथा चित्र-
रथः प्रभुः । चित्राङ्गदश्च विख्यातश्चित्रसेनश्च वीर्य्य-
वान् । सिद्धपूर्णश्च वदरी पर्णाशश्च महायसाः । ब्रह्म-
चारी रतिगुणः सुपर्णोऽतिबलस्तथा । विश्वावसुः सुरे-
न्द्रश्च गन्धर्वोऽविपराक्रमः । इत्येते पूजनीयाः स्यु-
गीर्तिरुच्चावचैः शुभैः । मोदकैः पोलिकाभिश्च परमान्नेन
चाक्षतैः । दध्ना गुड़ेन पयसा शालिपिष्टेन भूरिशः ।
धूपैर्माल्यैस्तथा दीपैर्द्विजानां स्वास्तवाचनैः । एवं हि
पूजिताः सम्यक् तुरगाणां हि बान्धवाः । बलमायुः
प्रयच्छन्ति संग्रामेष्वपराजयम् । आरोग्यं परमा पुष्टि-
स्तथैव च विधीयते” ।
  • हरतृतीयाव्रतं स्कन्दपु० “माघे शुक्लतृतीवायामुपवासन्तु
कारयेत् । रात्रौ सम्भारमाहृत्य गौरीयागस्य मण्डपे ।
अथ पत्र लिखेत् पद्मं मण्डपे मुनिपुङ्गव! ।
उमामहेश्वरं तत्र पूजयेत् सुसमाहितः । पूर्वपत्रे न्यसेद्
गौरीमाग्नेय्यां ललितां न्यसेत् । दक्षिणे तु दमां नाम
नैरृत्यां च स्वधां तथा । पश्चिमे वामदेवीन्तु वायव्यां
मूलगौरिकाम् । उत्तरे तु सुभगान्तु ऐचाम्यां गिरिजां
तथा । उमामहेश्वरं मध्ये गन्धपुष्पैः प्रपूजयेत् । भृङ्गा-
रञ्चैव संस्थाप्य तण्डुलैः परिपूरयेत् । एवं कृत्वा
विधानेन मुने! वर्षचतुष्टयम् । आराधनन्तु देव्याश्च
सौभाग्यजननं परम् । उद्यापनं ततः कुर्य्यात् तस्मिन्नेव
ततो दिने । उमामहेश्वरं हैमं स्वच्छन्दे मञ्चके स्थि-
तम् । वस्त्रैर्गन्धैश धूपश्च दीपमालादिभिस्तया । भक्ष्यै-
तांनाविधैः सम्यक् पूज्य भक्त्या ततो मुने! । तद्वद्गुरुं
सभार्य्यञ्च पूजयेत् द्विजसत्तमम् । गाञ्चैव गुरवे तद्वत्
यस्त्रालङ्कारर्सयुताम् । मिथुनानीह चत्वारि भोजयेत्
सुसमाहितः । उमामहेश्वरं हैमं दत्त्वा भक्त्या क्षमा-
पयेत्” ।
  • हरव्रतं भविष्यपु० “अष्टम्यां पूजितो देवी गोश्रुताभरणो
हरः । ज्ञानं ददातिं विपुलां कान्तिं जातिं बल तथा” ।
गोश्रुताभरणः चक्षुःश्रवोभूषः शिव इत्यर्थः । “मृव्युहा
ज्ञानदश्चैव पापहाः प्रपूजितः । मूलमन्त्रः स्वसज्ञाभि
पृष्ठ ५०७०
रङ्गमन्त्राश्च कीर्चिताः । पूर्ववत् पद्मपत्रस्थः कर्त्तव्यश्च-
तिथोश्वर । गन्धपुष्पोपहारैश्च यथाशक्ति विधीयते” ।
  • हरिव्रते वराहपु० “त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु
सदा प्रिया । द्वादशी च तिथिस्तेऽस्तु कामरूपी च
जायते” । हरिं प्रतीदं बचनम् “घृताशनो भवेद् यस्तु
द्वादश्यां तत्परायणः । स स्वर्गवासी भवति पुमान् स्त्री
ना विशेषतः” ।
  • हरिकालोव्रतं भविष्योत्तरे “शुक्ले भाद्रपदस्यैवं तृतीयायां
समाचरत् । रत्नधान्यैः सवैरूढैः कृत्वा विहितशाद्वले ।
खर्जूरैर्नारिकेलैश्च फलैश्च मधुरैस्तथा । मातुलाङ्गकुसु-
र्मैधान्यकैर्जम्बुकैस्तथा । गन्धैः पुष्पैः फलैर्धूपैर्नैवे-
द्यैर्मोदकादिभिः । प्रीणयित्वा समासाद्य पद्मरागेण
भाविता । घण्टावाद्यादिभिर्गीतैः शुभैर्दिव्यैः कथानकैः ।
पूजनीया महाराज! मन्त्रेणानेन भक्त्रितः । हरेर्नाम्नः
समुत्पन्ने! हरिकालि! हरिप्रिये! । सर्वदा शस्यमूर्त्तिस्थे!
प्रणतार्त्तिहरे! नमः । इत्थं संपूज्य तां देवीं दद्याद्वि-
प्राय दक्षिणाम् । कृत्वा जानरणं रात्रौ प्रभात किञ्चि-
दुद्गते । रात्रौ सुवासिनीभिश्च सा नेया तु जलाशये ।
ततो जलापये रम्ये मन्त्रेणैव विसर्जयेत् । अचिता च
मया भक्त्या गच्छ देवि! सुरालयम् । मम दौर्भाग्य
नाशाय पुनरागमनाय च । एवं यः पाण्डवश्रेष्ठ!
हंरिकावीव्रतं चरेत् । प्रतिवर्षं विधानेन नारी वा
भक्तितत्परा । नीत्वा यत् फलमाप्नोति तदन्येन न
लभ्यते” ।
परिशिष्टम् ।
  • आमलकैकादशोधतं स्कन्दपु० प्रभासख० “फाल्गुनस्य सिते
पक्षे एकादश्यामुपोषितः । स्नात्वा नद्यां तड़ागे वा
वाप्यां कूपे गृहेपि वा । गत्वा गिरौ वने वापि यत्र
सा प्राप्यते शिवा । क्षोरोदे मथ्यमाने तु यदा वृक्षः
समुत्थितः । आमर्दन्देवदैत्यानां तेन सामलकी स्मृता ।
तस्मिन् वृक्षे स्थिता लक्ष्मीः सदा पितृगृहे नृप! ।
शिवालक्ष्मीस्थिनो वृक्षः मेव्यते सुरसत्तमैः । देवैर्ब्रह्मा-
दिभिः सर्वैर्वृक्षोऽसौ वैष्णवः कृतः । तत्र गत्वा हरिः
पूज्यो वृक्षमूलेऽथ वा शिवा । पूज्या पुम्बैः शुभैरात्रौ
कार्य्यं जागरणं नरैः । अष्टाधिकशतैः कार्य्या
फलैस्तस्याः प्रदक्षिणा । प्रदक्षिणीकृत्य ततो० भोक्तव्यं तु
फलं नरैः । करकं जलपूर्णं तु कर्त्तव्यं पात्रसंयुतम् ।
हविष्यान्नन्तु कर्त्तव्यं कथाश्रवणतत्परैः । मुच्यन्ते
देहिनः पापैः कलिजैः कायसम्भवैः । देहान्ते ये नराः
पूर्वं पूज्यन्ते हरिमन्दिरम्” ।
एतानि व्रतानि प्रायेण हेमाद्रिव्रतखण्डोक्तानि प्रसङ्गां-
गतान्यपि कानिचिदुक्तानि । अन्यान्यपि व्रतार्कादावु-
क्तानि दृश्यानि नैमित्तिकानि प्राजापत्यादीनि व्रतानि
तु तत्तच्छब्दे उक्तानि दृश्यानि ।

व्रतति स्त्री वृत--अति पृषो० वा ङीप् । १ लतायाम् । २ विस्तारे च अमरः ।

व्रतभिक्षा स्त्री व्रताङ्गं भिक्षा । उपनयनकालविहित-

भिक्षायां तद्विधिः संस्कारतत्त्वे दर्शितो यथा
“अथ भैक्ष्यञ्चरति” । अथ शब्दस्तूष्णीमादित्योपस्थानम-
ग्निप्रदक्षिणञ्च शंसति । “प्रतिगृह्येप्सितं दण्डमुपस्थाय
च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भैक्ष्यं
यथाविधि” इति मनुवचनात् । “भिक्षासमूहं भैक्ष्यं तच्चरति
आहरति इत्यर्थः । “मातरमेवाग्रे ये चान्ये सुहृदो
यावत्यो वा सन्निहिताः स्युः” । याचते इत्यध्याहार्य्यम् ।
सुहृदः स्निग्धहृदयः स्वस्रादयः तथाच मनुः “मातरं
वा स्वसारं वा मातुर्वा भगिनीं निजाम् । मिक्षेत भिक्षां
प्रथमं याचैनं नावमानयेत्” । सन्निहितास्तद्देशस्थाः न
तु प्रतिगृहं गत्वा । (भवति! भिक्षां देहीति) ब्राह्मण-
भिक्षा प्रयोगः । तथा च मनुः “भवत्पूर्वं चरेत् भैक्ष्यमुप-
वीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु
भवदुत्तरम्” । “आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्म-
णक्षत्रियविशां भैक्ष्यचर्य्या यथाक्रमम्” इति याज्ञ-
वल्क्यवचनाच्च । आचार्य्याय भैक्ष्यं प्रणिपत्य वेदयति
(समर्पयति) भोरिति” । “आचार्य्याय निवेद्य प्रतिगृह्णीया-
दिति” गृह्यान्तरवचनात् । भैक्ष्यं भोरिति निवेदनमन्त्रः ।
भैक्ष्यस्य संस्कारार्थत्वात् आचार्य्याय निवेद्य स्वथं तदेव
भुञ्जीत । तथा च मनुः “समाहृत्याथ तद्भैक्ष्यं यावदन्न-
ममायया । निवेद्य गुरवेऽश्नीयात् आचार्य्यः प्राङ्मुखः
शुचिः” । आचार्य्यश्च माणवकाय भैक्ष्यं प्रदाय कर्मशेषं
समापयेत्” ।

व्रतसंग्रह पु० ६न० । व्रतग्रहणार्थं कृतदीक्षायाम् । हेमच०

व्रतादेश पु० व्रतमादिश्यतेऽत्र आ + दिश आधारे ल्युट् ।

उपनयने तत्र हि आचार्येण माणवकस्य व्रतमादिश्यते ।

व्रतिन् पु० व्रतमस्यास्ति इनि । १ व्रतधारके २ यजमाने च ।

अमरः ।


पृष्ठ ५०७१

व्रश्च छेदे तु० पर० सक० ऊदित् वेट् । वृश्चति अव्रश्चीत् अव्राक्षीत् ।

व्रश्चन पु० वृश्च्यतेऽनेन व्रश्च--ल्यु । (छेनि) १ स्वर्णादिच्छेदनार्थे

अस्त्रभेदे अमरः । भावे ल्युट् । २ छेदने न० अमरः ।

व्रात पु० वृ--अतच् पृषो० । समूहे अमरः ।

व्रातीन त्रि० व्रातेन चरति ख । संघजीविनि । “व्रातीनव्या

लदीप्रास्त्रः” भट्टिः ।

व्रात्य पु० व्रातात् समूहात् च्यवति यत् । अव्यवहार्य्ये,

संस्कारहीने, जातिमात्रोपजीविनि, “अत ऊर्द्ध्वं त्रयो-
ऽप्येते यथाकालमसंस्कृताः । सावित्रीप्रतिता क्रात्या
भवन्त्यार्य्यविगर्हिताः” मनुः । तत्र प्रायश्चित्तं मिता० उक्तं यथा
तत्र व्रात्यतायां मनुनेदमुक्तम् “येषां द्विजानां सावित्री
नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान्
यथाविध्युपनाययेदिति” । यच्च यमेनोक्तम् “सावित्रीपतिता
यस्य दश वर्षाणि पञ्च च । सशिखं वपनं कृत्वा व्रतं
कुर्य्यात् समाहितः । एकविंशतिरात्रञ्च पिबेत् प्रसृति-
यावकम् । हबिषा भोजयेच्चैव ब्राह्मणान् सप्त पञ्च वा ।
ततो यावकशुद्धस्य तस्योपनयनं स्मृतम्” इति ।
तदुभयमपि याज्ञवल्कीयमासपयोव्रतविषयम् । यत्तु
वशिष्ठेनोक्तम् “पतितसावित्रीक उद्दालकव्रतञ्चरेत् ।
द्वौ मासौ यावकेन वर्त्तयेन्यासं पयसा पक्षमामिक्षयाष्टरात्रं
घृतेन षड्रात्रमयाचितेन त्रिरात्रसब्सक्षोऽहोरात्रसुपव-
सेदश्वमेधावभृथङ्गच्छेद्वात्यस्तोमेन वा यजेतेति” । तत्रेयं
व्यवस्था यस्योपनयने आपद्भावेन तत्कालातिक्रमस्तस्य
याज्ञवल्कीयव्रतानामन्यतमत् शक्त्यपेक्षया भवति
अनापद्यतिक्रमे तु मानवं त्रैमासिकम् । तत्रैव पञ्चदश-
वर्षादूर्द्धमपि कियत्कालातिक्रमे तूद्दालकव्रतम् ब्रात्य-
स्तोमो वेति । येषान्तु पित्रादयोऽप्यनुपनीतास्तेषामापस्त-
म्बोक्तम् “यस्य पिता पितामहावनुपनीतौ स्यातान्तस्य
संवत्सरं त्रैविद्यकं ब्रह्मचर्य्यम् । यस्य प्रपितामहादेर्ना-
नुस्मर्यते उपनयनन्तस्य द्वादश वर्षाणि त्रैविद्यकं ब्रह्म-
चर्य्यमिति” ।

व्रात्यस्तोम पु० व्रात्ययोग्यः स्तोमः । यज्ञभेदे “स च

यज्ञश्चतुर्विधः” कात्या० श्रौ० २२ । ४ । १ सूत्रादौ दर्शितो
यथा
“व्रात्यस्तोमाश्चत्वारः” सू० “व्रात्यस्तोमसंज्ञकाश्चत्वारः
क्रतवो भवन्ति व्रात्याः प्रसिद्धा एव त्रिपुरुषं पतितसावि-
त्रीकाः । प्रायश्चित्तार्थत्वाच्च लौकिकेऽग्नौ भवन्ति न ह्ये-
तैराधानं प्रयुज्यते अतदङ्गत्वात् तदुक्तमाचार्य्येण स्थप-
तीष्टिं प्रकृत्य लौकिक इति । “द्वितीय उक्थ्यः” सू०
“व्रात्यगणस्य ये सम्पादयेयुस्ते प्रथमेन यजेरन्” सू०
सम्पादनं च गायननर्तकादीनाम् तेषां प्रथमेऽधिकारः ।
ये व्रात्या नृत्यगीतवाद्यशस्त्रधारणादौ स्वयं प्रवीणाः
सन्त उपदेष्टारो भूत्वा स्वां विद्यां व्रात्यसभूहस्य सम्बा-
दयेयुः शिक्षेयुः पाठयेयुः ते प्रथमेन यजेरन् । “द्वितो-
येन निन्दिता नृशंसाः” सू० । नृशंसत्वेन ये निन्दिता-
स्तेषां द्वितीयेऽधिकारः” सं० । ये नृशंसा निन्दितानृभि-
र्मनुष्यैरभिशंसनेन पापाध्यारोपणेन निन्दिताः गर्हिताः
ज्ञातिभिर्वहिष्फृताः ते द्वितीयेन यजेरन्” कर्कः “तृतीयेन
कनिष्ठाः” सू० कनिष्ठाः लघवः । “ज्येष्ठाश्चतुर्थेन”
सू० अधिक्रियन्ते । ज्येष्ठशब्दार्थमाह “अपेतप्रक्षननास्थ-
विरास्तदाख्यास्तेषां ये नृशंसतमः स्याद्द्रव्यवत्तमो
वानूचानतमो वा तस्य गार्हपत्ये दीक्षेरन्” सू० । “स
गृहपतिः कर्त्तव्यः” सं० । अपगतप्रजनेन्द्रियसामर्थ्या यौवना-
पगमे । निर्वीर्य्यप्रजनाः स्थविरा वृद्धास्तदाख्याः । नृशंस-
तमः अत्यन्तं क्रूरकर्मा” भा० ।

व्री वृतौ क्र्या० प्वा० पर० सक० अनिट् । व्रि(व्री)णाति अव्रैषीत् ।

व्री गतौ दिवा० आ० सक० अनिट् । व्रीयते अव्रेष्ट । ओदित्

व्रीणः ।

व्रीड़ क्षेपे दिंवा० पर० सक० लज्जायां अक० सेट् । व्रीड्यते अव्रीड़िष्ट ।

व्रीड़ पु० व्रीड़--घञ् । लज्जायाम् । अ । तत्रैव स्त्री अमरः ।

व्रीस बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । व्रीस-

यति ते व्रीसति ।

व्रीहि पु० व्री--हि किच्च । १ धान्यभेदे २ आशुधान्ये च

अमरः । तद्भेदादिकं भावप्र० उक्तं यथा
“वार्षिकाः कण्डिताः शुक्लाः व्रीहयश्चिरपाकिणः ।
कृष्णव्रीहिः पाटलश्च कुक्कुटाण्डक इत्यपि । शालामुखो
जतुमुख इत्याद्याः व्रीहयः स्मृताः । कृष्णव्रीहिः स
विज्ञेयो यः कृष्णतुषतण्डुलः । पाटलः पाटलापुष्प
वर्णको व्रीहिरुच्यते । कुक्कुटाण्डाकृतिर्व्रीहिः कुक्कु-
टाण्डक उच्यते । शालामुखः कृष्णशूकः कृष्णतण्डुल
उच्यते । लाक्षावर्णं मुखं यस्य ज्ञेयो जतुमुखस्तु सः ।
व्रीहयः कथिताः पाके मधुरा वीर्य्यतो हिताः । अल्पा-
भिष्यन्दिनो बद्धवर्च्चस्काः षष्टिकैः समाः । कृष्णव्रीहिर्वर-
स्तेषां तस्मादल्पगुणाः परे” । ततः अस्त्यर्थे व्रीह्या०
इनिठनौ । व्रीहिन् व्रीहिक तद्विशिष्टे त्रि० बिल्घा०
पुराडाशभिन्ने अवयवार्थे अण् । व्रैह तदवयवे ।

व्रीहिकाञ्चन पु० व्रीहिषु काञ्चनं तद्रूपमस्त्यस्य अच् ।

ममूरे त्रिका० ।

व्रीहिपर्णी स्त्री व्रीहीणामिव पर्णान्यस्याः ङीष् । (शालपानि) क्षुपभेदे राजनि० ।

व्रीहिभेद पु० ६ त० । १ धान्यभेदे (चिना) अमरः । २

धान्यबिशेषे च ।

व्रीहिमय पु० व्रीहेविकारः पुरोडाशः मयट् । व्रीहिविकारे पुरोडाशे । अन्यत्र बिल्वा० अण् ।

व्रीहिराजिका पु० व्रीहिषु राजिकाकारे अस्त्यस्याः अच् ।

कङ्कुधान्ये (काङ्नी) मेदि० ।

व्रीहिश्रेष्ठ पु० व्रीहिषु श्रेष्ठः । शालिधान्ये राजनि० ।

व्रीह्यगार न० ६ त० । धान्यस्थापनस्थाने कुसूले त्रिका० ।

व्रीह्यादि पु० विकाराद्यर्थे इनिटन्प्रत्ययनिमित्ते पा० ग० सू०

उक्ते शब्दगणे स च “व्रीहि माया शाला शिखा माला
मेखला केका अष्टका पताका चर्मन् कर्मन् वर्मन् दंष्ट्ना
संज्ञा वड़वा कुमारो नौ वीणा बलाका यवखद
नौकुमारी (शीर्षान्नञ्)” “नौकुमार्य्योरिकार्थो गणे द्विधा
पाठः” सि० कौ० । “अत इनिठनौ” व्रीह्यादिभ्यश्च” पा० व्रीहो
व्रोहिकः । “न च सर्वेभ्यो व्रीह्यादिभ्य इनिठनाविष्येते
किं तर्हि शिलामालासंज्ञादिभ्य इनिः यवखदादिभ्यः
ठन् । अन्येभ्य उभयम्” सि० कौ० ।

व्रुड़ संवरणे सक० संवाते मज्जने च अक० चु० कुटा० ।

पर० सेट् । व्रुड़ति अव्रुड़ीत् ।

व्रूस बधे वा चु० उभ० पक्षे भ्वा० पर० सक० सट् । ब्रूस-

यति ते ब्रूसति ।

व्रैहेय त्रि० व्रोहीणां भवनं क्षेत्रम् ढक् । ब्रीहिभवनयोग्ये क्षेत्रादौ ।

व्ली गतौ वृतौ च क्र्यादि० पा० प० सक० अनिट् ।

(व्लि)व्ली नाति अव्लैषीत् ।
परिशिष्टम्।

वज्र पु० सामवेदप्रसिद्धे यज्ञभेदे सि० कौ० ।

विजया स्त्री शच्यादिषु मातृषु मातृभेदे

विजयाभिनन्दन पु० कलियुगीयशककर्त्तृ नृपभेदे शकशब्दे

दृश्यम् ।
इति श्रीताराथतर्कवाचस्पतिभट्टाचार्य्य संकलिते
वाचस्प्रत्याभिधाने वकारादिशब्दार्थसङ्कलनम् ।
"https://sa.wikisource.org/w/index.php?title=व्रत(२)&oldid=57850" इत्यस्माद् प्रतिप्राप्तम्