व्योमवती/प्रथमः भागः

विकिस्रोतः तः
व्योमवती
प्रथमः भागः
[[लेखकः :|]]
द्वितीयः भागः →

।। श्रीः ।।
।। व्योमवती ।।
।। व्योमवती-1
प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः।
पदार्थधर्मसङ्ग्रहः प्रवक्ष्यते महोदयः ।।
प्रमितिविशिष्टानन्तर्यप्रतिपादनाच्च तदभावनिरासः। अतश्शब्दोऽपि हेतौ वर्तमानो विशिष्टदेशकुलप्रसूतमविप्लुतेन ब्राह्मणेनाविप्लुतायां ब्राह्म [ण्यां] विघ्नु [?]देशवसितायादु[मु]पजातं शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिविशवदन्तेवासिनमाहेति। तथा च साङ्गांश्चतुर्वेदानां [नू] वसुमते[तिः] ब्राह्म [णः][भगव] त्वलं [न्त मुलू] कमाजगाम। न ह वै सशरीरस्य प्रियाप्रिययोरुपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छान्दोग्य0 8।12।1) इति वाक्यादशरीरावस्था [यां] सुखदुखमनिशं प्रतिपद्यते।
पकाणाददर्शनमाप्तवत्। तच्च यथोपपन्नं भगवानधिकारिणं दृष्ट्वा समाधिबलादेकस्मिन्नणावुत्पन्नषट्पदार्थतत्त्वज्ञानो महेश्वरेणो [पदिष्ट] सूत्रकरणे प्रवृत्तः।
तदर्थसिद्धये सूत्रसन्दर्भस्य चातिसंक्षिप्तत्वा [द] वेधि [द्य] तया वा अस्मदादेस्तत्त्वज्ञानं न स्यादिति प्रशस्तपादसंक्षेपता [पः ?] ....त्वादिवदप्रतिभासनादधिकार्यभावः, तदसत्। उपदेशव्यङ्ग्यत्वात्। तथआहि, द्रव्यादिषु इव कृतसमयस्य अनुगतं ज्ञानमि ..ब्राह्मणोऽयमिति ज्ञाने पश्चाद्भाविबाधकानुपपत्तेः प्रमाणतया शिषअटपदार्थाधिकारिसिद्धेर्निर्विषयत्वान्न दोषः। निरभिधेयत्वम् अवि [सि] द्धं द्रव्यादि .भावश्च निरस्तं एव, तदभिधानात्। तथा प्रयोजनोपन्यासात् तदभावश्चेति।
अथ किं पुनश्च विज्ञानं किं वा निःश्रेयसमिति वाच्यम्। अवस्थितपदार्थवि [न] वानामात्मविशेषगुणानामत्यन्तोच्छित्तिः, न धर्मार्थकामाः, तेषामल्पसाधनसाध्यत्वात्।
निःश्रेयसपदार्थविचारः
अथ निःश्रेयसास्तित्वे किं प्रमाणम् ? विष्णु [? भु] चेतनमनुमानभागव, तथाहि, नवानामात्मविशेषगुणानां सन्तानोऽप्यन्तमिच्छद्यते सन्तानत्वात्, यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यमानो दृष्टः, यथा प्रदीपसन्तानः, तथा चायं सन्तानः, तस्माद् ..तमुच्छिद्यत इति। सन्तानत्वस्य च व्याप्त्या बुद्ध्यादिषु सम्भवात् पक्षधर्मतया असिद्धत्वाभावः। तत्समानधर्मिणि च प्रदीपादावुपलम्भादविरुद्धत्वम्। न च पक्षे परमाण्वादावस्ति सं .....इत्यनैकान्तिकत्वाभावः। विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरनुपलम्भान्न कालात्ययापदिष्टः। न चायं स्त्प्रतिपक्ष इति पञ्चरूपत्वात् प्रमाणम्।
अथ निर्हेतुकाविना ....प्रतिवश्यन्तादे ? रेव हेतुर्वाच्यः, यतः समुच्छिद्यत इति। स तूक्त एव। तत्त्वज्ञानं निःश्रेयसहेतुरिति निर्देशाच्च तत्त्वज्ञानमविशिष्टत्वान्न प्रतिव्यक्त्यपेक्षं किन्तु .इत्यादि लक्षणा [तु] । तथाहि, द्रव्यादिलक्षणलक्षितेषु उत्पद्यते तत्त्वज्ञानमिति।
अथ तत्त्वज्ञानस्य निश्रेयसकारणत्वे समुत्पन्नतत्त्वज्ञानस्त्वनन्तरमेवापमृद्यं [?] मनस्यसम्भवेऽस्मदादीनां तत्त्वज्ञानानुपपत्तिः। अथ योगजधर्मादुपजाततत्त्वज्ञानोऽस्मदादेस्तत्त्वज्ञानसम्पादनाय कणादः सूत्राणि करोतीत्यवस्थां इष्यते गतार्ह [?] तत्त्वज्ञानस्य निःश्रेयसकारणे सत्यप्यभावान्नैष दोषः। विशिष्टतत्त्वज्ञानस्य निःश्रेयसकारणत्वाभ्युपगमात्। तथाहि, उपजातेऽपि श्रौतेतत्त्वज्ञानेऽस्मदादीनां...निःश्रेयसं योगैभ्यासजनिततत्त्वज्ञानस्यासम्भवात्। श्रौते हि तत्त्वज्ञाने समुत्पन्ने योगाभ्यासे प्रवर्तमानस्य अभ्यासवशादात्मन्यशेषविशेषालिङ्गितेऽन्त्यं तत्त्वज्ञानमुपजातं नि [श्श्रे] यसकारणमिति।
तथा ह्युपलब्धं सम्यग्‌ज्ञानस्य मिथ्याज्ञाननिवृत्तौ शुक्तिकादाविति। सम्यग्‌ज्ञानस्य ज्ञानान्तरविरोधित्वाद् उत्तरकालभाविना मिथ्याज्ञानेनापि सम्यग्‌ज्ञानस्य विरोधः सम्भवत्येव। यदि सा मनःसन्तानोच्छित्तिर्विवक्षितेति। यथा हि सम्यग्‌ज्ञानान्मिथ्याज्ञानस्य सन्तानोच्छेदः, नैवं मिथ्याज्ञानात् सम्यग्‌ज्ञानस्येति।।
निवृत्ते च मिथ्याज्ञाने तन्मूलत्वाद् रागादयो नश्यन्ति कारणाभावेन कार्यस्यानुत्पादादिति। रागाद्याभावे च तत्कार्याप्रवृत्तिर्व्यावर्तते। तदभावे च धर्माधर्मयोरनुत्पत्तिः। आरब्धकार्ययोश्चोपभोगात् प्रक्षय इति।।
अथ सञ्चितयोर्विचारः।।
कथं तत्त्वज्ञानादेवेति ? यथोक्तम्,
यथैधैंसि समिद्धोऽग्निर्भस्मसात् कुरुते क्षणात्।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा।। इति ।।
(गीता 4।37)
ननूपभोगादेव प्रक्षय इत्यप्यागमोक्तम्। यथोक्तम्,
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि।
अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम्।।
(देवीभा0 9।29।69-70; 40।73)
तथा च विरुद्धार्थत्वादुभयोः कथं प्रामाण्यमिति ? भोगाच्च प्रक्षयेऽप्यनुमानमप्यस्ति। पूर्वकर्माणि, उपभोगादेव क्षीयन्ते, कर्मत्वात्, यद्यत् कर्म तत्तद् उपभोगादेव क्षीयते यथा आरब्धशरीरं कर्म, तथा चामुनि कर्माणि, तस्माद् उपभोगादेव क्षीयन्त इति। उपभोगेन च प्रक्षये कर्मान्तरस्यावश्यभावात् संसारानुच्छेदः।।
तदसत्। समाधिबलादुत्पन्नतत्त्वज्ञानो हि कर्मणाञ्च साध्यमर्थं विदित्वा युगपच्छरीराणि निर्मायोपभोगक्त इति। न च कर्मान्तरोत्पत्तिर्मिथ्याज्ञानजनितानुसन्धानाख्यस्य सहकारिणोऽभावात्।।
अथ मित्थ्याज्ञानाभावेऽभिलाषस्याभावाद् भोगानुपपत्तिः ? तन्न उपभोगं विना हि कर्मया अनुपपत्तेः, जानन्नपि तदर्थितया प्रवर्तत एव। वैद्योपदेशादातुपवदौषधावरणे। ज्ञानमप्येवम्। अशेषशरीरोत्पत्तिद्वारेणोपभोगात् कर्मणां विनाशे व्यापारादग्निइति व्याख्येयं न तु साक्षात्। न चैतद् वाच्यम्, तत्त्वज्ञानिनां कर्मविनाशस्तत्त्वज्ञानात्, इतरेषान्तु उपभोगादिति। ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणाभावात्।
अन्ये तु मिथ्याज्ञानजनितसंस्कारस्य सहकारिणोऽभावाद् विद्यमानान्यपि कर्माणि न जन्मान्तरे शरीररम्भकाणीति मन्यन्ते। अत्र च कार्यवस्तुनो नित्यत्वं स्यादिति दूषणम्।
अथ अनागतयोर्धर्माधर्मयोरित्पत्तिप्रतिषेधे तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठानं तर्हि कथम् ? प्रत्यवायपरिहारार्थम्। तथाहि,
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्।
ज्ञानञ्च विमलीकुर्वन्नभ्यासेन तु पाचयेत्।।
अभ्यासात्पक्वविज्ञानः कैवल्यं लभते नरः।। इति ।।
केवलन्तु काम्ये निषिद्धे च प्रवृत्तिप्रतिषेध इति। यद् वा तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठाने न निवर्तते धर्मोत्पत्तिस्तथैवाभिसन्धानात्, तत्फलसन्यासो वा। तथाहि सर्वकर्माणां परमगुरावर्पणमिति श्रूयते। न वा प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य (न्या. सू. 4।165) इत्यलम्।
अथास्तु तत्त्वज्ञानं निःश्रेयसकारणम्। अवधारणन्तु निषिध्यते। सन्यासादिक्रियायाश्च मोक्षहेतुत्वेन श्रवणात्। तथाहि,
सन्यस्यन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः।
ममैष मण्डलं भित्वा प्रयाता लोकमक्षयम्।।
(सन्न्यासोपनिषत् 2।6)
द्वावेतौ पुरुषौ लोके सूर्यमण्डलभेदिनौ।
परिव्राड् योगयुक्तश्च रणे चाभिमुखे हतः।।
(परा0 स्मृ0 3।37) इत्याद्युक्तम्।
सत्यम्। सन्न्यासादिक्रियायाः सूर्यमण्डलभेदित्वेन ऊर्ध्वगमनहेतुत्वमिष्टत एव। यदि नाम लोकमित्यभिधानादक्षयत्वमधस्तनलोकापेक्षया प्रधानभूतेति।
न च नवानानात्मविशेषगुणानामत्यन्तोच्छित्तिर्निःश्रेयसं सूर्यमण्डलभेदित्वेन भवतीति, तस्य विशेषगुणवियुक्तात्मरूपतया सर्वत्र भावात्। अत एव न तत्त्वज्ञानकार्यत्वादनित्यत्वमिति वाच्यम्, विशेषगुणोच्छेदस्य प्रध्वंसरूपत्वात् तदुपलक्षितात्मन एव नित्यत्वादिति। कार्यवस्तुनश्चानित्यत्वमिति। न च बुद्ध्यादिनाशे गुणिनस्तथा भावः, तादात्म्यप्रतिषेधस्य वक्ष्यमाणत्वात्।।
अथ मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न कृतबुद्धयः प्रवर्तन्त इति आनन्दरूपो मोक्ष इष्यतामिति मनुषे। यथोक्तम्----
आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिपद्यते। इति।
तथा `सुखेनाहमस्वाप्सम्' इति सुषुप्त्यवस्थोत्तरकालं स्मरणान्यथानुपपत्त्याऽनुभवो ज्ञायते। तत्र च अभिधानानमानयोर्व्यापारोऽनुपलब्धो बाह्येन्द्रियाणाञ्च इत्यन्तः---करणस्य व्यापारो ज्ञायत इति मानसं प्रत्यक्षम्। अनुमानञ्च, आत्मा, सुखस्वभावः, अत्यन्तं प्रियबुद्धिविषयत्वाद् अनन्यपरतयोपादीयमानत्वाच्च, यद् यदेवंविधं तत्तत्सुखस्वभावं यथा वैषयिकं सुखम्, तथा चात्मैकविधिः, तस्मात् सुखस्वभाव इति।
तदेतसत्। बाधकोपपत्तेः। तथाहि, तस्य अनित्यतायामुत्पत्तिकारणं वाच्यम्। न च मोक्षावस्थायात्मान्तःकरणसम्बन्धः शरीरसम्बन्धापेक्षः सम्भवति, शरीरादेरभावात्। न चासमवायिकारणं विना वस्तूत्पत्तिर्दृष्टा।
अथ नित्यं तत् सुखमिति चेत्, अज्ञातसंवेदनन्तु यदि नित्यं मुक्तावस्थायामिव संसारावस्थायामपि भावादविशेषप्रसङ्गः। स्मरणानुपपत्तिश्च अनुभवस्यैवास्थानात्। संस्कारानुपपत्तिश्च अनुभवस्य निरतिशयत्वात्।
अथ संसारावस्थायां वाऽन्यविषयव्यासङ्गाद् विद्यमानस्याप्यनुभवस्यासंवेदनम्, तदभावाच्च मोक्षावस्थायां वेदनमित्यस्ति विशेषः।
तदसत्। नित्यसुखे ह्यनुभवस्यापि नित्यत्वाद् व्यासङ्गानुपपत्तिः। तथाहि, आत्मनो रूपादिविषयकज्ञानोत्पत्तौ विषयान्तरे ज्ञानानुत्पत्तिर्व्यासङ्गः। एवमिन्द्रियस्याप्येकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानजनकत्वं व्यासङ्गः। न चैवमात्मनो रूपादिविषयकज्ञानोत्पत्तौ नित्यसुखे ज्ञानानुपपत्तिः, तज्ज्ञानस्यापि नित्यत्वात्। न च शरीरादिना प्रतिबध्यत्वादसंवेदनमिति वाच्यं नित्यत्वादेव। तथाहि, प्रतिबन्धकं कार्यव्याघातकृदुच्यते। न च नित्यसुखज्ञानस्यानुपपत्तिः सम्भवति। तथा उपभोगार्थत्वाच्च शरीरादेर्भोगप्रतिबन्धकत्वानुपपत्तिः। यद् यदर्थं तत् तस्यैव प्रतिबन्धकमिति नोपलब्धम्। प्रतिबन्धकत्वेन `तदपहन्तुरिंसाफलं न स्यात्।' तथाहि, प्रतिबन्धविघातक उपकारक एवेति दृष्टम्। तेन हि नित्यसुखसंवेदनप्रतिबन्धकस्य शरीरादेरपहन्तुर्हिंसाफलस्याभाव इत्यलम्।
अथानित्यं तत्संवेदनमिति चेत्, न। उत्पत्तिकारणाभावात्।
अथ योगजधर्मापेक्षः पुरुषान्तःकरणसंयोगोऽसमवायिकारणमिति चेत्, न। योगजधर्मस्याप्यनित्यतया विनाशेऽपेक्षाकारणाभावात्।
अथाद्यसंयोगजधर्मादुपजातं विज्ञानमपेक्ष्य उत्तरं विज्ञानं तस्माच्चोत्तरमिति सन्तानः, तन्न, प्रमाणाभावात्। तथा च शरीरसम्बन्धानपेक्षं विज्ञानमेव आत्मान्तःकरणसंयोगस्यापेक्षाकारणमिति न दृष्टम्। न च दृष्ट्या विपरीतं शक्यते ह्यनुज्ञातुम्। अकस्मिकन्तु कार्यं न भवत्येव। अत एव नित्यसुखज्ञानस्याभावात् `सुखेनाहमस्वाप्सम्' इति ज्ञानं नेदं स्मरणम्। किं तर्हि ? दुःखकारणानुस्मरणाभावेन तदभावानुमितिज्ञानमेतत् `सुखेनाहस्वाप्सम्' इति। अथ सुबुप्त्यवस्थान्तराले दुःखकारणसंवेदनाद् दुःखेनाहमस्वाप्समिति ज्ञानमेतत्। एवं तर्हि तदभावात् सुखेनाहमिति भविष्यतीति।
अथगमस्तर्हि कथम् `आनन्दं ब्रह्मणो रूपम्' इत्यादि। मुख्ये हि बाधकोपपत्तेर्गौण इति। तथाहि, दुखाभावेऽयमानन्दशब्दः प्रयुक्तो दृष्टः, सुखशब्दो दुःखाभावे। यथा भारक्रान्तस्य वाहकस्य तदपाय इति।
यच्चानुमानम् आत्मा सुखस्वभाव इति। तत्र यदि सुखस्वभावत्वं सुखत्वजातिसम्बन्धित्वम्, तन्नात्मनि सम्भाव्यते गुण एवोपलम्भात्। न ह्येका अहङ्कारादिवदपरा जातिर्द्रव्यगुणयोः साधारण्युपलब्धेति। अथ सुखाधिकरणत्वम्, तन्नास्ति, नित्यानित्यत्वविक्ल्पानुपपत्तेः। तथा सुखत्वाधिकरणत्वे सुखाधिकरणतायां वा तज्ज्ञानस्य नित्यानित्यत्वविकल्पः। .साधनं वा अत्यन्तप्रियबुद्धिविषयमनन्यपरतयोपादीयमानत्वञ्च अनेकान्तादसाधनं दुःखाभावेऽपि भावात्। अनन्यपरतयोपादीयमानत्वञअचासिद्धं सुखार्थमुपादानात्। तथा अत्यन्तप्रियबुद्धिविषयत्वमप्यसिद्धं दुःखातायामप्रियबुद्धेरपि भावादित्यनुमानद्वयमप्रमाणम्।
यदि च मोक्षावस्थायां नित्यं सुखमस्तीत्यभिलाषेण प्रवर्तेत, न मुक्तः स्याद्रागस्य बन्धनरूपत्वात। अथ बुद्ध्यादिकमुपच्छेदयामीति द्वेषादपि प्रवर्तमानस्य तदेव दूषणम्, नानुकूलत्वात्। तथा च प्रतिकूलस्यादोषस्य प्रतिषेधस्य तद्रागेऽपि समानमित्यदूषणमेतदित्यन्यदूह्यम्।
अथ सर्वगुणोच्छेदाद् वरं वैषयिकं सुखं दुःखसाधनपरिहारेण भोक्तव्यमिति मन्यसे, तन्न, तस्य दुःखानुषङ्गेण दुःखरूपतया हेयत्वात्। येषाञ्चैतदनुपादेयं न तान् प्रति इदमर्थवच्छास्त्रम्। सन्ति च वैषयिकसुखद्वेषिणः पुरुषास्तान् प्रतीदं शास्त्रम्। ते च यद्युपदेशमपेक्षन्ते नोपायान्तरादेवार्थं प्रतिपद्यानिष्ठाने प्रवर्तन्त इति। मोक्षास्तित्वे च प्रमाणोपपत्तेः। शेषं वचनमात्रमित्युपेक्ष्यते।
अन्ये तु अन्यथाभूतादेव साधनाद् अन्यथाभूतं मोक्षं मन्यन्ते। यथोक्तम्, गुणपुरुषान्तरविवेकदर्शनं निःश्रेयसाधनमिति। तथाहि, पुरुषार्थेन हेतुना प्रधानं प्रवर्तते। पुरुषार्थश्च द्वेधा शब्दाद्युपलब्धिर्गुणपुरुषान्तरविवेकदर्शनञ्च। सम्पन्ने हि पुरुषार्थे चरितार्थत्वान्न प्रधआनं शरीरादिभावेन परिणमत इति द्रष्टुः स्वरूपेणावस्थानं भवतीति। विज्ञातं वा द्रव्टृतया कुट्टिनीस्त्रीवद् भोगसम्पादनाय पुरुषं नोपसर्पतीति।
तदेतत् सर्वमसत्। प्रधानासत्त्वस्य वक्ष्यमाणत्वात्। स्थिते हि प्रधानसद्भावे पुरुषस्य तद्‌विवेकदर्शनमुपपद्यते। उपेत्य वा ब्रूमः। यदि प्रधानं पुरुषस्थं निमित्तमनपेक्ष्य प्रवर्तते मुक्तात्मन्यपि शरीरादिसम्पादनाय प्रवर्तेत, अविशेषात्। अथादर्शनापेक्षमिति चेत्, यस्य हि गुणपुरुषान्तरविवेकदर्शनानुपपत्तिस्तं प्रति प्रधानं प्रवर्तते, न चासौ मुक्तात्मनीति, तन्न। मुक्तात्मन्यपि विवेकदर्शनस्य विनाशेन प्रवृत्तिप्रसङ्गात्। न चानुत्पत्तिविनाशयोरदर्शनत्वेन विशेषं पश्यामः। अथादृष्टापेक्षं प्रवर्तत इति चेत्, तदसत्। तस्यापि प्रधाने शक्तिरूपतया व्यवस्थितस्य उभयत्राविशेषात्। तथा शरीरादिवैचित्र्याभावश्च तस्यैकरूपत्वात्। न च परिणामवैचित्र्याच्छरीरादिवैचित्र्यम्। तद्वैचित्र्ये कारणाभावात्। कथञ्च साम्येनावस्थितं तत्प्रधानं वैषम्यमवाप्नुयात्, पुरुषार्थस्य प्रवृत्तिहेतोरभावात् ? सद्भावे वा पुरुषार्थस्य तदर्था प्रवृत्तिर्न भवेद् विद्यमानत्वादेव। न च प्रवृत्तिहेतुं विना कर्म [णि] प्रवर्तमानस्योपरमो युक्तो हेत्वाभावात्।
यच्चेदं द्रष्टुः स्वरूपेणावस्थानमित्युक्तं तदिष्यत एव, विशेषगुणरहितस्यावस्थानीभ्युपगमात्।।
अथ चिद्रूपस्यावस्थानम्, तन्नास्ति, अनित्यत्वेन, चिद्रूपताया विनाशात्। न चाक्षाद्यन्वयव्यतिरेकानुविधायिनश्चैतन्यस्य नित्यत्वे प्रमाणमस्ति। आत्मरूपतेति चेत्, तस्याश्च आत्मतादात्म्ये पर्यायमात्रम्। व्यतिरेके तु संयोगादिभिरनैकान्त्यम्। गुणगुणिनोश्च तादात्म्यप्रतिषेधं वक्ष्यामः।
यच्चेदं द्रष्टृतया विज्ञातन्तु पुरुषं नोपसर्पतीति। असदेतत्, अचेतनत्वात्। तथाहि, अचेतनतया प्रधानस्य अहमनेन द्रष्टृतया विज्ञातमिति विज्ञानाभावे पूर्ववत्प्रवृतिरविशिष्टेत्यलमतिप्रसङ्गेन।
अन्ये तु अस्थिरादिभावनावशाद् रागादिवियुक्तज्ञानोत्पत्तिर्निःश्रेयसमिति मन्यन्ते। तथाहि, सर्वं क्षणिकमिति भावयतो विषयेष्वासक्तिर्व्यावर्तते ममेदमिति सम्बन्धाभावात्। तथा सर्वं निरात्मकमिति भावनायां नाहं परः, न ममायमिति परिग्रहद्वेषाभावे भवत्येव विशुद्धचित्तसन्तानोत्पत्तिरिति। तथा च पटाद्यर्थस्य प्रतिषेधात् सर्वं शून्यमिति च। एवं हि दुःखसमुदयनिरोधमार्गेषु विशिष्टज्ञानं निःशेयसकारममिति। तथाहि, दुःखं रूपादिस्कन्धपञ्चकम्, तस्य समुदायः कारणं समुदेत्यस्मादिति, तयोर्निरोधो विनाशस्तस्योपायो मार्ग इत्येषु विशिष्टज्ञानवशाच्छुद्धचितसन्तानस्तदुच्छेदो वा निःश्रेयसमिति युक्तम्।
नैतदेवम्। क्षणिकादिभावनाया मिथ्यारूपत्वात्। न च मिथ्याज्ञानस्य निःश्रेयसकारणत्वमितिप्रसङ्गात्। यथा च न क्षणिकत्वम्, शून्यत्वम्, नैरात्म्यं वा तथा वक्ष्यामः। अथासक्तिप्रतिषेधार्थमेवं भावनीयम्, तन्न। अन्यथापि भावात्। तथाहि, पदार्थतत्त्वज्ञानं प्रवृत्तेः कारणम्, दोषदर्शनञ्च निवृत्तेरिति दृष्टम्। यथा मधुविषसंपृक्तेऽन्नेदोषादर्शनाद् गुणबुद्धितः प्रवर्तते दोषदर्शनाच्च निवर्तते, नार्थप्रतिषेधात्। एवं पुत्रादावपि आत्मीयवैरूप्यदर्शनमेव निवृत्तिकारणमिति वाच्यम्। न सम्बन्धाभावः। तत्प्रतिषेधो भाव्यः। उक्तञ्च न्यायभाष्यकृता `रूपादिषु निमित्तसंज्ञा भावनीया नानुव्यञ्जनसंज्ञेति इत्थं केशाः' (4।2।3) इत्यादि। या चेयं दुःखसमुदायनिरोधमार्गेषु भावना सा यदि दुःखं तत्कारणं तयोर्निरोधस्तदुपायश्चेति इष्टं न प्रतिषिध्यते। तथा हि दुःखं स्वरूपत एव, अन्यद् दुःखकारणत्वात्। तच्च रूपं संज्ञा वेदनां संस्कारो विज्ञानमिति रूपादिस्कन्धपञ्चकमन्यद् वा भवतु। सुखमपि दुःखं दुःखानुषङ्गादिति सर्वं दुःखं तस्य विच्छेदोपायस्तत्त्वज्ञानमिष्यत एव।
यच्चेदं रागादिवियुक्तज्ञानं विशिष्टभावनात इति, तन्नास्ति। क्षणिकत्वे कार्यकारणभावप्रतिषेधस्य वक्ष्यमाणत्वात्। उपेत्यवादेन तूच्यते, न रागादिमतो विज्ञानात् तद्रहितस्योत्पत्तिर्युक्तेति। तथाहि [?] यथा हि `बोधाद् बोधरूपता' ज्ञानान्तरे, तद्वद् रागादिरपि स्यात् तत्तादात्म्यात्। विपर्यये वा तदभावप्रसङ्गादिति। न च विलक्षणादपि कारणाद् विलक्षणकार्यस्योत्पत्तिदर्शनाद् बोधाद् बोधरूपतेति प्रमाणमस्ति। अत एवास्य ज्ञानस्य ज्ञानान्तरहेतुत्वेन पूर्वकालभावित्वं समानजातीयत्वमेकसन्तानत्वं वा न हेतुर्व्यभिचारात्। तथाहि, पूर्वकालभावित्वं तत्समानक्षणैः, समानजातीयत्वञ्च सन्तानान्तरज्ञानैर्व्यभिचारीति। तेषां हि पूर्वकालभावित्वेन समानजाचीयत्वेऽपि न विवक्षितज्ञानहेतुत्वमिति। एकसन्तानत्वञ्च अन्यथाज्ञानेन व्यभिचारीति। अथ नेष्यत एवान्त्यं ज्ञानं सर्वदा आरम्भात्। तथाहि, मरणशरीरज्ञानमपि ज्ञानान्तरहेतुर्जाग्रदवस्थाज्ञानञअच सुषुप्त्यवस्थाज्ञानस्यापीति। नन्वेवं मरणशरीरज्ञानस्यान्तराभावशरीरज्ञानहेतुत्वे गर्भशरीरज्ञानहेतुत्वे वा सन्तानान्तरे विज्ञानजनकत्वप्रसङ्गो नियमहेतोरभावात्। अथ इष्यत एव उपाध्यायज्ञानं शिष्यज्ञानस्यान्यस्य कस्मान्न भवतीति ? अथ कर्मवासना नियामिकेति चेत्, न। तस्यापि ज्ञानव्यतिरेकेणासम्भवात्। तथाहि, तत्तादात्म्ये सति विज्ञानं बोधरूपतया विशिष्टं बोधाच्च बोधरूपतेत्यविशेषेण विज्ञानं विदध्यादित्यलम्।
यच्चेदं सुषुप्त्यवस्थाज्ञानस्य जाग्रदवस्थाज्ञाने कारणत्वमिति, असदेतत्। सुषुप्त्यवस्थायां ज्ञानसद्भावे जाग्रदवस्थातो न विशेषः स्याद् उभयत्रापि स्वसंवेद्यज्ञानस्य सद्भावविशेषात्। यद्वा निद्रयानभिभूतत्वं विशेष इति चेत्, असदेतत्। तद्धर्मतया तस्यापि तादात्म्येनाभिभावकत्वासम्भवात्। व्यतिरेके तु रूपादिपदार्थानामेव सत्त्वात् तत्स्वरूपं निरुप्यम्। अभिभवश्च यदि विनाशः, न विज्ञानस्य सत्त्वं विनाशस्य वा निर्हेतुकत्वम्। अथ तिरोभावः, न विज्ञानस्य सत्त्वेन तत्सत्तैव संवेदनमित्यभ्युपगमे तस्यानुपपत्तेः। अथ सुषुप्त्यवस्थायां विज्ञानासत्त्वेनान्त्यज्ञानसद्भावादेकसन्तानत्वं व्यभिचारीति।
यच्चेदं विशिष्टभावनावशाद् रागादिविनाश इति, असदेतत्। निर्हेतुकत्वाद् विनाशस्याभ्यासानुपपत्तेश्च। अभ्यासो ह्यवस्थितस्यार्थस्यातिशयाधायकत्वादुपपद्यते, न क्षणिकज्ञानमात्र इति। अत एव योगिनि सकलकल्पनाविकलं विज्ञानमत्पद्यते। न च सन्तानापेक्षयातिशयस्तस्यैवासम्भवात्, अविशिष्टाद् विशिष्टोत्पत्तेरयोगाच्च। तथाहि, पूर्वस्मादविशिष्टाद् उत्तरोत्तरं सातिशयं कथमुपजायत इति चिन्त्यम्।
यच्च सन्तानोच्छित्तिर्निःश्रेयसमिति, तन्न। निर्हेतुकतया विनाशस्योपायवैयर्थ्यमयत्नसाध्यत्वात्।
अन्ये तु अनेकान्तभवनतो विशिष्टप्रदेशेऽक्षयशरीरादिलाभो निःश्रेयसमिति मन्यन्ते। तथा च नित्यभावनायां ग्रहानित्यत्वे च द्वेष इत्युभयपरिहारार्थमनेकान्तभावनेति। एवं सदसदादिष्वपि योज्यम्। प्रत्यक्षञ्च स्वदेशकालकारणधारतया सत्त्वं परदेशादिष्वसत्त्वमित्युभयरूपता। तथा घटादिर्मृदादिरूपतया नित्यः सर्वावस्थासूपलम्भात्। घटादिरूपतया चानित्यस्तदपायात्। एवमात्माप्यात्मरूपतया नित्यः सर्वदा सर्वकार्येषु कर्तृत्वं कार्यान्तरेषु चाकर्तृत्वमित्यूह्यम्। अथ स्वशब्दाधिभिधेयत्वं शब्दान्तरानभिधेयत्वञ्चेति।
तदेतदासाम्प्रतम्, मिथ्याज्ञानस्य निःश्रेयसकारणत्वेन प्रतिषेधात्। अनेकान्तज्ञानञ्च मिथ्यैव, बाधकोपपत्तेः। तथाहि, नित्यानित्ययोर्विधिप्रतिषेधरूपत्वाद् अभिन्ने धर्मिण्यभावः। एवं सदसत्त्वादेरपीति। यच्चेदं घटादिर्मृदादिरूपतया नित्य इति, असदेतत्। मृदरूपतायास्ततोऽर्थान्तरत्वात्। तथाहि, घटादर्थान्तरं मृद्‌रूपता। मृत्त्वं सामान्यं तस्य तु नित्यत्वेन घटस्यातथाभावस्ततोऽन्यत्वात्। घटस्य तु कारणाद् विलयोपलब्धेरनित्यत्वमेव। यच्चेदं स्वदेशादिषु सत्त्वं परदेशादिष्वसत्त्वमिष्यत एवेतरेतराभावस्याभ्युपगमात्। तथाहि, इतरस्मिन् देशादावितरस्य घटस्याभावो नानुत्पत्तिर्न प्रध्वंसस्तत्र तस्य सर्वदा सत्त्वात्। द्वैरूप्ये तु स्वदेशादिष्वनुपलम्भप्रसङ्गः। एवमात्मनोऽपि नित्यत्वमेव। यच्चेदं स्वदेशादिषु सत्त्वं परदेशादिष्वसत्त्वमिष्यत एवेतरेतराभावस्याभ्युपगमात्। तथाहि, इतरस्मिन् देशादावितरस्य घटस्याभावो नानुत्पत्तिर्न प्रध्वंसस्तत्र तस्य सर्वदा सत्त्वात्। द्वैरूप्ये तु स्वदेशादिष्वनुपलम्भप्रसङ्गः। एवमात्मनोऽपि नित्यत्वमेव। सुखदुःखादेस्तद्गुणत्वेन ततोऽर्थान्तरस्य विनाशेऽप्यविनाशात्। कार्यान्तरेषु चाकर्तृत्त्वं न प्रतिषिध्यते। तथाहि, यद् यस्यान्वयव्यतिरेकाभ्यामुत्पत्तौ व्याभिप्रियत इत्युपलब्धं तत् तस्य कारणं नान्यस्येत्यभ्युपगम्यते। एवं शब्दान्तरानभिधेयत्वेऽपि न सर्वं सर्वशब्दाभिधेयमित्यभ्युपगमात्।।
न चानेकान्तभावनातो विशिष्टशरीरादिलाभेऽस्ति प्रतिबन्धः। न चोत्पत्तिधर्माणां शरीरादीनामक्षयत्वं न्याय्यम्। तथा मुक्तावप्यनेकान्तो न व्यवर्तत इति मुक्तो न मुक्तश्चेति स्यात्। एवञअच सति स एव मुक्तः संसारी चेति प्रसक्तम्। एवमनेकान्तोऽप्यनेकान्ताभ्युपगमे दूषणम्। वस्तुनो हि सदसद्रूपताऽनैकान्तिकः। तस्याप्यनैकान्तिराभ्युपगमे रूपान्तरमपि प्रत्यक्षम्, एवं नित्यानित्यरूपताव्यतिरिक्तञ्च रूपान्तरमित्यादि वाच्यम्।
अन्ये तु आत्मैकत्वज्ञानात् परमात्मनि लयः सम्पद्यत इति ब्रुवते। तथाहि, आत्मैव परमार्थः सन्, ततोऽन्येषां भेदे प्रमाणाभावात्। प्रत्यक्षं हि पदार्थानां सद्भावग्राहकमेव न भेदस्येत्यविद्यासमारोपित एवायं भेद इति मन्यन्ते।
तदप्यसत्। आत्मैकत्वज्ञानस्य मिथ्यारूपतया निःश्रेयससाधनत्वानुपपत्तेः। मिथ्यात्वञ्च आत्माधिकारे वक्ष्यामः, व्यवस्थातो नानात्मानः (वै0 सू0 3।2।20) इति सूत्रेण।
एवं शब्दाद्वैतविज्ञानमपि मिथ्यारूपतया न निःश्रेयससाधनमिति द्रष्टव्यम्। तथाहि, सर्वार्थानां शब्दरूपतेति प्रमाणाभावः। अथ भेदेऽपि प्रमाणाभाव इति चेत्, तदसत्। चक्षुरादिना शब्दरूपतावियुक्तानामर्थानां प्रतिभासनात्। शब्दरूपता हि श्रावणत्वमर्थस्य सतः। न चार्थेष्वेतदस्ति श्रोत्रेणाग्रहणात्। अथ शब्दस्यैवावस्थाभेदाद् ग्रहणवैचित्र्यमिति चेत्, तन्न। शब्दरूपतायामेव तत्स्यात्, तत्र च प्रमाणाभाव एव। अथ शब्दसम्पर्केण प्रतिभास एव प्रमाणमिति चेत्, न। अकृतसमयस्य वाय्वादेस्तदन्तरेणापि प्रतिभासनात्। न च शब्दान्तरेण सम्पर्को युक्तः समयवैयर्थ्यप्रसङ्गादिति। शब्दरूपतायां साध्यायां न शब्दसम्पृक्तप्रतिभासः प्रमाणम्। अत एव वैखरी मध्यमा पश्यन्ती सूक्ष्मा चेति भेदप्रतिपादनुमुन्मत्तभाषितम्। न च शब्दाद्वैतज्ञानात् सूक्ष्मावस्था सम्पद्यत इत्यस्ति प्रतिबन्धः।।
एकस्मिंश्चाद्वैते प्रतिषिद्धे प्रतिबन्धसमानतया सर्व एवाद्वैतभेदाः प्रतिषिद्धा भवन्तीत्यात्मैकत्वप्रतिषेधादेवेदं प्रतिषिद्धं भविष्यतीत्युपरम्यते।।
अन्ये तु महेश्वरप्रसादादशुद्धैश्वर्यविनाशे तद्गुणसंक्रान्ति मन्यन्ते। तच्चासत्। अन्यगुणानामन्यत्र वृत्तेरदर्शनात्। महेश्वरप्रसादश्च मुक्तौ न प्रतिषिध्यते तस्यास्तदधीनत्वादिति स्थितमसद्‌वादप्रतिषेधात्। षट्पदार्थसाधर्म्यवैधर्म्यतत्त्वज्ञानं मुक्तस्य निःश्रेयसकारणमिति।।
सूत्रस्थ---अथेत्यादिशब्दविचारः
अथेत्यादिवाक्यस्य [?] सूत्रेणापि सम्बन्धो व्याख्यानान्तरमिति मन्यन्ते, तच्चासत्। सर्वस्मिन् व्याख्याने सूत्रितत्वोपदर्शनं भाष्यस्येष्यत एव। अथातो धर्मं व्याख्यास्यामः (वै. सू. 1।1।1), यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः (वै. सू. 1।1।2) इति। [पूर्व] सूत्रे अथशब्दोऽप्यान्तर्ये वर्तत इत्यन्यस्यासम्भवान्नमस्कारानन्तरमिति लभ्यते। स च ज्ञानप्रस्तावाद् ईश्वरस्यैवेति। भाष्यकारश्च सूत्रकाराभिमतं परस्य गुरोर्नमस्कारमनूद्यापरस्य नमस्कारं करोतीति व्याख्येयं न तु कणाद एव, स्वात्मनि क्रियाविरोधात्।
नापि कणान् अत्तीति कणाद इति कणशब्देन स्वकर्मफलस्याभिधानात् कष्टव्युत्पत्त्या संसार्यात्मनः। तन्नमस्कारे प्रयोजनाभावात्।।
अथशब्दार्थः `अनु' शब्देनोक्त एव। `अतः' शब्दोऽपि वचनवृत्त्या धर्मं व्याख्यास्याम इति, विविधमनेकप्रकारेण यदुत्पद्यते यतश्च नोत्पद्यत इत्या [इति] प्रतिबोधं यावत् तावत् प्रतिपादयिष्याम इति धर्मव्याख्यानार्थमेव षट्पदार्थोपवर्णनम्। अत एव पदार्थो धर्मैः संगृह्यत इति पदार्थधर्मसङ्ग्रह इत्युक्तम्। उत्तरसूत्रस्य तु विवरणं महोदयः, महानुदयः स्वर्गापवर्गलक्षणोऽस्माद् भवतीति महोदय इत्युक्तम्। धर्मात् सुखं ज्ञानञ्चेति, ज्ञानोत्पत्तौ तस्यैव प्राधान्यात् तदुपसर्जनतया शेषं व्याख्यानत इति।
अथावयवार्थः।
*प्रणम्य हेतुमीश्वरम्* इति। प्रेत्युपसर्गेण प्रणामतिशयं दर्शयति। हेतुत्वं निमित्तकारणत्वम्। तच्चान्येषामप्यस्तीति ईश्वरपदम्। ईश्वरशब्दाश्चान्यत्र वर्तमानोऽपि ज्ञानप्रस्तावान्महेश्वर एव वर्त्तते। ळङ्कुराज् ज्ञानमन्विच्छेत्0 इति वचनात्।
ननु व्यर्थं तर्हि हेतुपदम्, ज्ञानप्रस्तावाद् विशेषणसिद्धेः, नैतदेवम्। स्तुतेर्गुणसंकीर्त्तनरूपतया सकलकार्यकर्तृत्वाभिधानात्। अन्यथा ह्यन्तराभिधानेनैव गतार्थत्वाद् व्यर्थं स्यादुभयाभिधानम्।
तदेवमीश्वरप्रणामानन्तरं मुनिं प्रणमति। मुनयश्चन्येऽपि विशिष्टज्ञानवैराग्यवन्तो भवन्तीति विशेषणम्। * कणाद * इति। विशिष्टज्ञानसम्बन्धित्वञ्च तदभिहितपदार्थानां प्रमाणान्तरेणासाधनाद् विज्ञायते। अत एव तत्त्वज्ञानसद्भावे मिथ्याज्ञानस्य रागद्वेषहेतोरभावाद् द्वेषवैराग्यं निश्चीयते।
कणानत्तीति कणादस्तमिति विशिष्टाहारनिमित्तसंज्ञोपदर्शनेनासच्चोद्यनिरासः।।
तच्च
कणान् वा भक्षयेत् कामं माहिणाणि दधीनि च। इत्यादि युक्तियुक्तम्।।
युक्तिबोधश्च न प्रवृत्तेः कारणं प्रवृत्तौ सत्यां तद्भावात्। तथाहि, श्रवणे प्रवर्त्तमानो विजानाति युक्तमयुक्तं वेति। न तदवबोधे प्रवृत्तिरितरेतराश्रयत्वप्रसङ्गात्। अतो विशिष्टपुरुषप्रणीतत्वोपबोधे सत्यादौ श्रवणे प्रवृत्तिर्युक्ता। तथाहि, मनुना प्रणीतं व्यासेन प्रणीतमिति मत्वा प्रवर्तन्ते जनाः।
तदेवं परापरगुनमस्कारापेक्षधर्मविशेषेऽधर्मप्रतिबन्धात् तत्तत्कार्याणामभावे भवत्येवाविघ्नतः शास्त्रपरिसमाप्तिरिति। ननु चायुक्तमेतत्। सत्यपि नमस्कारे शास्त्रपरिसमाप्तेरदर्शनात् कादम्बर्यादौ। असत्यपि दर्शनात् प्रमाणततोऽर्थप्रतिपत्तौ (्या. भा. 1।1।1) इत्येवमादौ।
सत्यम्। शास्त्रपरिसमाप्तेः कार्यत्वादवश्यं कारणं वाच्यमित्यन्यस्यासम्भवाद् धर्मविशेषः कारणमिति। स च नमस्कारादन्यस्माद् वा भवतु, न नियम्यत इत्येके। अन्ये तु साधनविश्षाद् विशिष्यत इति नमस्कारादेवोपजायते धर्मविशेषः कारणमिति।
अथ नमस्काराभावे तर्हि कथं शास्त्रपरिसमाप्तिरिति ? न, तत्रापि कार्यसद्भावेन कारणसद्भावसिद्धेः। वाचिकनमस्काराभावेऽपि मानसो नमस्कारो ज्ञायत इति। एकदा हि विशिष्टनमस्कारसद्भावे परिसमाप्तेरुपलम्भादिति। तथाहि, मानसनमस्कारोपचितो वाचिको नमस्कारः परिसमाप्तेः कारणमिष्यते, मानसस्तु केवलोऽपीति। अत एव क्वचिद् वाचिकसद्भावेऽपि मानसनमस्काराभावादपरिसमाप्तिर्युक्तेति। तस्य चाभावः कार्यानुत्पादेनैव ज्ञायत इति। नमस्काराच्च धर्मः सम्पद्यत इत्यागमाद् व्याप्तिग्रहणम्। तथा लौकिकोऽपि पुरुषः कृतनमस्क्रियः क्रियाकरणे प्रवर्तमानो दृष्टः, किं पुनर्भगवान् मुनिरनवद्यवादी।
अन्ये तु असच्चोद्यनिरासार्थं कणान् ददातीति, दयत इति वा व्युत्पत्त्यन्तरमाश्रयन्ते। अत्र किल वैशेषिकसूत्ररचनाकरण इत्युच्यत इति चिन्त्यमेतत्। प्रसिद्ध्यपरिज्ञानपरिहारार्थं चोपात्तमित्यलम् असद्‌व्याख्यानैरिति।
तदेवं परापरगुरुनमस्काराद् यतोऽन्तरायप्रध्वंसो यतो वा अन्तेवासी यथोक्तलक्षणसम्पन्नः, अतोऽन्तरमेव प्रतिपक्षक्रियानन्तरितः पदार्थधर्मसंग्रहः पर्वक्ष्यत इति। न च क्त्वाप्रत्ययादेव विशिष्टानन्तर्यप्रतिपत्तिः। तस्य हि समानकर्तृकत्वे सति पूर्वकालभावित्वमात्रे भावात्। तथआहि, भोजनान्तरं शयानादिक्रियाव्यवधानेऽपि भुक्त्वा व्रजतीति प्रयोगो भवत्येव। अत्र चेश्चप्रणामानन्तरमेव मुनेर्नमस्कारस्तदनन्तरमेव प्रवचनक्रियेति। न च अप्रतिपक्षक्रियाव्युदासोऽवयवलनादेर्भावादिति।
* पदार्थधर्मसंग्रहः * इति। पदार्थानां धर्मास्तेषां संग्रह इत्युत्तरपदप्राधान्येऽपि धर्माणां धर्मिनिष्ठतया संग्रहो भवत्येव। धर्मिणां संग्रह इति सुखदुःखसाधनत्वधर्मावबोधे सति प्रवृत्तिनिवृत्त्योर्भावाद् धर्माणामिह प्राधान्यं न निषिध्यते। तत्त्वज्ञानञ्चात्र प्रधानतया विवक्षितम्, तद् धर्मिषूपसर्जनतयापि लभ्यत एव।
यद्वा तत्त्वज्ञानप्रधानक्रियासम्बन्धाद् उभयेषां प्राधान्यमिति पदार्थाश्च धर्माश्चेति समासः। स्वतन्त्र्यं हि प्रधानक्रियासम्बन्ध एव। न धर्मितादात्म्यं धर्माणमिति वक्ष्यामः। पदार्थधर्माणां संग्रह इति निबन्धान्तरैर्विस्तरोक्तानां संक्षेपेणाभिधानम्। भावव्युत्पत्त्या तत्त्वज्ञानमित्यपरे।
स च * प्रवक्ष्यते * कथयिष्यते। किंविशिष्टः ? महानुदयस्तत्कार्यञ्च निःश्रेयसमस्माद् भवतीति *महोदयः* इति।
द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यांम्यां तत्त्वज्ञानं निःश्रेयसहेतुः।
`पदार्थधर्मसङ्ग्रह' इत्यादिसामान्योक्तेर्विभजनाय द्रव्यादिवाक्यम्। तच्च विशेषदर्शनाच्छेषप्रतिषेधपरम्, भवत्येव विभागाच्चेयत्तावधारणमिति षण्णामेवाभिधानात् षडेव पदार्था इति लभ्यते।
अथ अभावः कस्मान्नोपसंख्यायते ? भावोपसर्जनतया प्रतिभासनात्। तथाहि, नाप्रसिद्धभावसद्भावस्य नारिकेरद्वीपवासिनस्तदभावप्रतीतिरिति। भावपरिज्ञानापेक्षित्वादभावस्य न पृथगुपसंख्यानम्। ज्ञाते हि भावे तदभावः प्रतीयत एव। तथाहि, द्रव्यपरिज्ञानात्तदभावपरिज्ञानमे.....ज्ञानं लभ्यते। तेषाञ्च प्राधान्यमुपदर्शितमेव।
* तत्त्वज्ञानम् * इति सम्यक्त्वस्य विशेष्यं ज्ञानमिति। न तु तत्त्वञअच तज्ज्ञानञअचेति। उभयपदव्यभिचारे सामानाधिकरण्याभावात्। तत्त्वं हि पृथिव्यां गन्धः, न च ज्ञानम्। ज्ञानञ्च मिथ्याज्ञानमपि, न च तत्त्वमिति व्यभिचारेऽपि धर्मधर्मिशब्दान्न सामानाधिकरण्यम्। तत्त्वं हि सम्यक्त्वं ज्ञानधर्म एव।
अन्ये तु तत्त्वे प्रधानत्वादात्मनि साधर्म्यवैधर्म्याभ्यामुपजातमिति मन्यन्ते। प्राधान्यन्तु द्रव्यादिपदार्थानां मध्ये पुरुषस्य। तत्र हि अभ्यासवशादुपजातस्य निःश्रेयसकारणत्वाभ्युपगमात्। न च मिथ्याज्ञाने प्रसङ्गो निःश्रेयसहेतुत्वेन विशेषणात्। मिथ्याज्ञानस्य निःश्रेयसहेतुत्वासम्भवादिति। निःश्रेयसस्य च हेतुर्यथा तत्त्वज्ञानं तथोक्तमेवादिवाक्ये। तच्चात्मज्ञानमितरविविक्तत्वादितरपदार्थज्ञानापेक्षमित्यर्थवद्‌द्रव्यादिसाधर्म्यवैधर्म्यज्ञानम्।।
तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेव।
अथास्तु संग्रहात्तत्त्वज्ञानमवधारणे तु व्याघातः। तथाहि, यदि संग्रहादेव तत्त्वज्ञानम्, सूत्रकारस्य न स्यात् संग्रहाभावात्। अथ संग्रहाद् भवत्येव, तदसत्। मन्दमतेः सत्यपि संग्रहे तदभावात्। अथ संग्रहात् तत्त्वज्ञानमेव, तन्नास्ति दुःखादेरपि दर्शनादित्य3शङ्कापरिहारार्थम् * तच्चेश्वरचोदना * इत्यादि। तथाहि, अस्मदादेः संग्रहमादेव तत्त्वज्ञानम्। यच्च सूत्रकारस्य ज्ञानं तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादिविशेषादेवेति। न च स एवस्त्सिति वाच्यम्, अस्मदादेस्तथाविधधर्माभावात्। तथा संग्रहाद् भवत्येव तत्त्वज्ञानम् यदि नाम * तच्चेश्वरश्चोदनाभिव्यक्ताद् धर्मादेव * समुच्चीयमानावधारणमनिर्दिष्टप्रतिषेधार्थम्। मन्दमतेस्तु विशिष्टधर्माभावान्न भवत्यपि। अस्तु वा संग्रहात् तत्त्वज्ञानमेव न दुःखादिकम्, यदि नाम ईश्वरचोदनाभिव्यक्ताद् धर्मादेव। यस्य विशिष्टधर्मसद्भावस्तस्याल्पीयसा प्रयासेन तत्त्वज्ञानं सम्पद्यत इति।
यद् वा कस्माद् धर्मस्यादौ सूत्रे व्यावर्णनमीश्वरस्य वा नमस्कार इति चोद्यपरिहारार्थं तच्च तत्त्वज्ञानमीश्वरचोदनाभिव्यक्ताद् धर्मादेव भवतीत्यतस्तस्यादो प्रतिज्ञानमीश्वरस्य च नमस्कार इति। धर्मात् तत्त्वज्ञानमिति। तथाधर्मस्य सद्भावे किं प्रमाणमित्यपेक्षायामिदमेवावर्तनीयम् `ईश्वरस्य चोदनेति'। चोदना हि प्रवर्तकं वाक्यं तत्प्रधानत्वाद् वेदश्चोदनेति। सा चेश्वरप्रणीतत्वात् प्रमाणम्। तयाभिव्यक्तात् प्रकाशिताद् धर्मादेवेति।
अथ के द्रव्यादयः पादर्थाः ? किंस्वरूपाः ? किञ्च तेषां साधर्म्यम् ? किंरूपश्च वैधर्म्यम् ?
तदेवं द्रव्यादिसाधर्म्यज्ञानस्य निःश्रेयसकारणत्वमभ्युपगम्य तत्स्वरूपपरिज्ञानार्थमाह *अथ के द्रव्यादयः पदार्थाः किंस्वरूपाः किञ्च तेषां साधर्म्यं किंरूपञ्च वैधर्म्यम्* इति। द्रव्यादिषु वा नानारूपतया परैरभिधानात् संशये सतीदम्।
तथाहि, विशेष्यं द्रव्यमिति केचित्।
क्रयविक्रयोग्यञ्चेत्यादि। विपर्यतो वा द्रव्यादीनमसत्वं मन्यमानः। अथ के द्रव्यादयः पदार्थाः। न सन्तीत्याह। तदभावान्न साधर्म्यं नापि वैधर्म्यमिति।
तथाहि, चक्षुःस्पर्शनाभ्यां रूपस्पर्शयोः प्रतिभासनान्न तद्‌व्यतिरिक्तं द्रव्यमस्ति। यच्चेदं घटादिज्ञानं तन्न प्रमाणं कल्पनाज्ञानत्वात्। बाधकञ्च प्रमाणमस्ति वृत्तिविकल्पादि। तथा चावयवा अवयविनि वर्तन्त इति नाभ्युपगतम्। अवयवी चावयवेषु वर्तमानः किमेकदेशे वर्तते व्याप्या वा ? एकदेशेन वृत्ताववयवान्तरप्रसङ्गः। अथैकदेशे वर्तते, अनेकवृत्तित्वव्याघातः, एकद्रव्यञ्च द्रव्यं स्यात्। तत्र चावयवविभागाभावान्नित्यत्वम्, एकस्य च क्रमयोगपद्याभ्यामजनकत्वम्, रूपाद्यनुत्पत्तिश्च, अनेकरूपादेर्दनकत्वाभ्युपगमात्। अवयवेषु चावयवीति प्रतिभासाभावः, तस्यैकद्रव्यत्वात्। अथ न प्रत्येकं परिसमाप्त्या वर्तते, किं तर्हि सर्वावयवेष्वेक एवेति ? तत्राप्येकस्वरूपेणावयवान्तरप्रवृत्तौ तेषामेकताप्रसङ्गः, तदवयववृत्तिरूपत्वादवयविनः। स्वरूपान्तरेण चानेकत्वम्, स्वरूपभेदस्य भेदलक्षणत्वादिति वृत्त्यनुपपत्तेरसत्त्वम्। वृत्त्या हि सत्त्वं व्याप्तम्, सा च व्यावर्त्तमाना स्वव्याप्तं सत्त्वं गृहीत्वा व्यावर्तत इत्याशयः। [अ] परस्य गवाश्वादिवद् भिन्नदेशतया ग्रहणम्। तदग्रहे तद्बुद्ध्यभावाच्च, इत्यवयविनोऽसत्त्वे रूपादिसमुदायमात्रं घटादय इति, समुदायः समुदायिभ्यो नार्थान्तरमिति संवृतिसन्नेव।
एवं विज्ञानमात्रं सर्वम्। ततोऽर्थान्तरस्य सद्भावे प्रमाणाभावादित्येवं शून्यत्वादिवादा अपि यथावसरं निराकर्तव्या इति नेह प्रतन्यते।।
तत्र द्रव्याणि पृथिव्यप्तेजोववाय्वाकाशकालदिगात्ममनांसि सामान्यविशेषसंज्ञयोक्तानि नवैवेति। तद्‌व्यतिरेकेणान्यस्य संज्ञानभिधानात्।
संशयिताव्युत्पन्नयोर्द्रव्यस्वरूपप्रतिपादनार्थमाह * तत्र द्रव्याणि * इत्यादि। तथाहि, प्रत्यक्षेण रूपादिव्यतिरिक्तस्य द्रव्यस्यावधारणाद् विपर्यस्तव्युदासः। रूपं हि चक्षुषैव गृह्यते स्पर्शस्त्वगिन्द्रियेण। द्वीन्द्रियग्राह्यन्तु द्रव्यम्। कथमेतत् ? प्रतिसन्धानात्। तथाहि, यमहमद्राक्षं चक्षुषा तमेव स्पृशामि, यञ्चस्पृशं तमेव पश्यामीति। न च द्वाभ्यामिन्द्रियाभ्यामेकार्थग्रहणं विना प्रतिसन्धानं न्याय्यम्। रूपस्पर्शयोश्च प्रतिनियतेन्द्रियग्राह्यत्वादेतन्न सम्भवतीति।
अथेदं कल्पनाज्ञानमिति चेत्, किमिदं कल्पनाज्ञानं नामेति ? अथ क्षणिकत्वान्निर्विकल्पकज्ञानसमकालमर्थविनाशे स्मरणानन्तरभाविनोऽपि निर्विकल्पकज्ञावनदर्थान्वयव्यतिरेकानुविधानादर्थजत्वमेव। अथार्थजत्वे निर्विकल्पकज्ञानसमकालमेवार्थस्य सद्भावादिन्द्रियणाञ्चाविचारकत्वेन स्यादेतदिति, तन्न। सहकार्यभावात्। तथाहि, इन्द्रियमर्थएषु सविकल्पकज्ञानोत्पत्तौ सङ्केतस्मरणापेक्षम्। अथ स्मरणे वार्थस्येन्द्रियस्य च किमतिशयाधानमनतिशयनिवृत्तिरिष्यते ? न। तस्यैवातिशयत्वात्। तथाहि, यद् यस्य सद्भावे कार्यं करोति तत्तस्यातिशयः। स्मरणसद्भावे चेन्द्रियं कार्यकुदिति स्मरणमेव तस्यातिशयः। स्मरणाद् वा कारकसाकल्यमेवातिशयः सम्पद्यते, तद्‌वैकल्यञ्चानतिशयो निवर्तते। साकल्ये हि कार्यकरणादिति। एते यदाहुः,
यः प्रागजनको बुद्धेरुपयोगाविशेषतः।
स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः।। (प्र0 विनि0, पृ0 42)
इति, एतदपास्तं भवति, उपयोगीविश्षस्यासिद्धत्वात्। तथाहि, निर्विकल्पकबोधे नेन्द्रियस्य सङ्केतस्मरणमस्ति, सविकल्पके त्वस्तीत्युपयोगविशेषः।।
सविकल्पकज्ञानस्यार्थजत्वविचारः
अथ शब्दाकारं सविकल्पकं ज्ञानम्। शब्दरूपता चार्थे नास्ति, प्रथमेन्द्रियसन्निपात एव सविकल्पकोत्पत्तिप्रसङ्गात्। चक्षुरादिना वा परिच्छेदः, श्रोत्रपरिच्छेद्यत्वेन दर्शनादिति निर्विषयत्वं सविकल्पकज्ञानस्य, तदसत्। आकारवादप्रतिषेधस्य वक्ष्यमाणत्वान्न शब्दरूपता ज्ञानेऽस्ति। ज्ञानवैलक्षण्ये तु सहकारिवैलक्षण्यमेव कारणमित्युक्तम्।
द्रव्यासत्त्वे चान्यन्निमित्तं वाच्यं प्रतिसन्धानस्य। अथास्त्येवानादिकालपरिपुष्टवासनेति चेत्, न। तस्याः सद्भावे प्रमाणाभावात्। अथ सविकल्पकं ज्ञानमेव प्रमाणमिति चेत्, न। अन्यथापि भावात्। तथाहि, अर्थसद्भावेऽप्युपपद्यत इति कथं वासनासद्भावे प्रमाणम्। अन्वयव्यतिरेकाभ्यामन्यत्रापि च कार्यकारणभावावगतिस्तौ वेन्द्रियस्येहापि स्त इति। अथ निर्विकल्पकज्ञानोत्पत्ताविन्द्रियस्य व्यापारात्तदधीनतया च सविकल्पकेऽपि व्यापार इव संलक्ष्यते न वस्तुतः। तन्न। अक्षणिकत्वे सत्युभयत्रापि व्यापारसम्भवात्। न च निर्विकल्पकज्ञानमेव सङ्केतस्मृतिद्वारेण सविकल्पकज्ञानोत्पत्तौ कारणमित्यस्ति प्रतिबनधः। प्रत्यक्षस्य नियमेन स्वलक्षणविषयत्वेन क्रमाविषयत्वात्, अनुमानन्तु सामान्यविषयमेवेति। न च प्रतिबद्धं लिङ्गमस्ति। कार्यञ्चान्यथा स,म्भवतीति न क्रमे प्रमाणम्।
स्वमंवेदनवादिनश्च विज्ञानं स्वपरिच्छेदे एव प्रमाणं नार्थान्तरस्येति। यदि च वासनैव निमित्तम्, सा न विज्ञानादर्थान्तरम्, रूपरसगन्धस्पर्शशब्दज्ञानव्यतिरिक्तस्य निमित्तस्यानभ्युपगमात्। तादात्म्ये तु बोधरूपतया सर्वत्राविशेषाद् विकल्पवैचित्र्यं न स्यात्। अथ विकल्पवैचित्र्यादेव वासनावैचित्र्यं न कार्यत इति चेत्, तासाञ्च विज्ञानादभेदे विज्ञानवदेकताप्रसङ्गः, विज्ञानस्य वानेकत्वमनेकार्थतादात्म्यात्। विपर्यये वा तादात्म्यानुपपत्तेः। यदि च वासना विशिष्यज्ञानहेतुर्बाह्या चेति, संज्ञामात्रं भिद्येत अर्थो वासनेति। अथ व्सतुरूपैव वासना, न तर्हि तस्या ज्ञानजनकत्वम्, अर्थक्रियाकारित्वस्य वस्तुलक्षणत्वात्।
अथ स्मरणानन्तरभावित्वं सविकल्पकत्वम्, तच्चार्थजत्वस्य प्रसाधितत्वान्न दूषणम्। अभ्युपगमे वा निर्विकल्पकस्यापि सविकल्पकत्वप्रसङ्गः। तथाहि, रूपस्मरणानन्तरं रसरससन्निपाचे रसज्ञानमुत्पद्यते। तत्र च स्वस्मृतेः पूर्वकालभावित्वात् समनन्तरकारणत्वं बोधाद् बोधरूपतेति न्यायादस्तु तस्यापि कल्पनात्वं स्मरणानन्तरभावित्वात्। न चात्र बोधरूपतया समनन्तरकारणत्वमन्यत्र स्मृतिरूपतयेति वाच्यम्। बोधादर्थान्तरस्य स्मृतिरूपस्य तादात्म्ये सत्यभावात्। न चाभेदे सति वियवसिथोपपद्यते क्वचिद् बोधरूपतया समनन्तरकारणत्वं क्वचिद्रूपान्तरेणेति। अतो न स्मरणानन्तरभावित्वं सविकल्पकत्वम्। न चार्थजत्वसिद्धौ नामजात्याद्युल्लेखनोत्पत्तिर्दूषणमिति। कल्पनात्वस्यासम्भवात् प्रतिसन्धानं द्रव्यसिद्धौ प्रमाणम्।
एवं घटादिज्ञानस्याप्यालम्बनं वाच्यं तस्य हि सम्यग्‌ज्ञानत्वात्, न रूपादिसमुदायः, रूपादीनां प्रतिनियतेन्द्रियग्राह्यतया तत्समुदायस्यैकेन्द्रियाविषयत्वात्। न चापरमार्थसतो रूपादिसमुदायस्य ज्ञानजनकत्वम्। तस्य चानुपलब्धत्वे नाणूनां सद्भावे प्रमाणमस्ति, तेषां हि कार्यगम्यत्वात्। न चासंहतः परमाणुरस्ति, षट्केन युगपद् योगादिति तस्याप्यसत्त्वं परमार्थतः। असञ्चीयमानश्चास्मद्दर्शनविषयो न भवत्येवेति घटादिबुद्धेर्निर्विषयत्वप्रसङ्गः। न चाबाध्यमानज्ञानस्यानालम्बनत्वमित्यभिन्नत्वादभिन्नावयविविषयत्वम्।
अथास्ति वृत्तिविकल्पादिबाधकमिति चेत्, न। तस्याप्रमाणत्वात्। तथाहि, वृत्त्यनुपपत्तेरसत्त्वमिति। किमिदं स्वतन्त्रसाधनमुत प्रसङ्गसाधनमिति ? यदि स्वतन्त्रसाधनम्, अवयवी धर्मी नास्तीति साध्यमिति प्रतिज्ञावाक्ये पदयोर्व्याघातो यथा, इदं नास्ति चेति। हेतोराश्रयसिद्धत्वञ्च धर्मिणोऽप्रसिद्धत्वात्। तथा स्वमते रूपादीनां सत्त्वम्। न च वृत्तिरस्तीति व्यभिचारः समवायनभ्युपगमात्। अथ परव्याप्या परस्यानिष्टापादनमिति। परेण हि अवयवी अभ्युपगत इति धर्मत्वेनोपात्तस्तस्य प्रतिपाद्यत्वादिति। तत्र यदि परेण प्रमाणात् प्रतिपन्नस्येनैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य। न चानेनैव तस्य बाधात् तदन्तरेण पक्षधर्मत्वादिति। अथाप्रमाणेन प्रतिपन्नस्तर्हि प्रमाणं विना प्रमेयस्यासिद्धिरिति वाच्यम्, किमनुमानोपन्यासेन, तस्यापक्षधर्मतया अप्रमाणत्वात्। न च परस्य वृत्त्या सत्त्वं व्याप्तं तदन्तरेणाप्यकाशादावुपलम्भादित्यनेकान्तः स्वरूपासिद्धश्च, वृत्तेः समवायस्य सिद्धत्वात्।
यच्चेदं नैकदेशेन सर्वात्मना वा वर्त्तत इत्येवमेकादेशयावृत्तित्वात्। न च भेदशब्दस्याभिन्नावयविन्युपपत्तिः, बहुषु दृष्टत्वात्। तथाहि, बहूनामन्यतमाभिधानमेकदेशः, निरवशेषता च सर्वशब्दस्यार्थः। तथा विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानविषयत्वात् प्रकारान्तरेण वृत्तिः प्राप्नोति। अन्यथा हि न वर्त्तत इति वाच्यम्। न चैकदेशे सति वृत्तिर्यथा वंशस्य स्तम्भेषु, निर्दिशानामवृत्ति [त्व] प्रसङ्गात्। परमाणुनाञ्च वृत्त्यभावे द्व्यणुकादिप्रक्रमेण कार्यानुत्पत्तिः।
अथायं विकल्पार्थः, तत्र किं व्याप्या वर्त्तते उत, अव्याप्या वेति। तत्र रूपा [? व] त् स्वाश्रयव्यप्तित्वेनाभ्युपगमः, संयोगादिवदव्याप्यत्वं वृत्तित्वेनेति। तथाहि, अवयवेषु अवयवी वर्त्तते समवायवृत्त्या न तु रूपान्तरेणेति स्वभावविकल्पेऽपि निरस्तः।
अथ अवयवी गृह्यमाणो यदि अशेषावयवग्रहणद् गृह्यते मध्यापरभागावयवानामग्रहणाच्चाग्रहणमेव स्यात्। एकावयवग्रहणे?तु सास्नामात्रोपलम्भेऽप्युपलम्भः स्यात्, नैतदेवम्। भूयोऽवयवेन्द्रियसन्निकर्षानुगृहीतेन अवयवीन्द्रियसन्निकर्षेण ग्रहणात्। कार्यसद्भावाच्च कारणचिन्ता प्रवर्त्तत इत्यपरोक्षाज्ञाने सिद्धेऽवयविन्येतत्कारणमित्युच्यते। एवं देशभेदेनाग्रहणादिति रूपादिभिर्व्यभिचारः। तथाहि, रूपादयो न देशभेदेन गृह्यन्ते तथापि सन्तः परस्परं भिन्नाश्चेति प्रतिभासभेदस्य विद्यमानत्वात्। गवादयोऽपि प्रतिभासभेदादेव भिद्यन्ते न देशभेदात्, निर्देशानामभेदप्रसङ्गात्। एवं तदग्रहे तद्बुद्ध्यभावाच्चेत्ययमपि विरुद्धः। तथाहि, तेषामवयवानामग्रहे तस्मिन्नवयविनि बुद्ध्यभाव इत्ययमर्थोऽवयवग्रहेऽवयविनि बुद्धिरित्यवयविनः सत्त्वम्। तथा च विशेषग्रहणाद् विशेष्यबुद्धेर्न चासत्त्वं न चाप्यभेदः। तथावयविग्रहेऽवयवग्रहोऽसिद्धः, मन्दमन्दप्रकाशे सति संस्थानमात्रस्यावयविनो ग्रहणादिति। अयञ्चावयविवादोऽस्मद्गुरुभिर्विस्तरेणोक्त इति नेह प्रतन्यते। सिद्धे चावयविनि प्रायस्तदाश्रिता गुणादयोऽपि सिद्ध्यति च।
द्रव्यादिपदार्थोद्देशप्रकरणम्
तत्र द्रव्येषु प्रतिज्ञां करोति * द्रव्याणि * परमार्थसन्तीत्यबाध्यमानज्ञानविषयत्वात्, यद् यदबाध्यमानज्ञानविषयं तत्तत् परमार्थसत्, यथा विज्ञानम्, तथा अबाधअयमानज्ञानविषयाण्यमूनि, तस्मात् परमार्थसन्तीति। अत्र पक्षीकृतेष्वबाध्यमानज्ञानविषयत्वमिति पक्षधर्मत्वम्। परमार्थसति च ज्ञाने ज्ञानविषयत्वं वक्ष्याम इति सपक्षे सत्त्वम्, विपक्षाच्च खरविषाणादेर्व्यावृत्तिरिति। विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरनुपलम्भादबाधितविषयत्वम्। असत्प्रतिपक्षोपपत्तेश्च प्रामाण्यमिति।।
एवं *पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि* इत्यत्र द्वन्द्वः समासः सर्वेषां स्वातन्त्र्यात्। अत्र च द्रव्याणीति प्रतिज्ञायां द्रव्यत्वयोगः साधनं वक्ष्यति, तथा पृथिव्यादिभेदे च पृथिवीत्वादिविशेषलक्षणमिति। एतानि च * सामान्यविशेषसंज्ञयोक्तानि * सामान्यसंज्ञा द्रव्यमिति, विशेषसंज्ञा च पृथिवनीत्वादयस्ताभिरुक्तानि। कियन्ति ? * नवैवेति * अवधार्यन्ते, न्यूनाधिकप्रतिपादकप्रमाणाभावात्। तथाहि, पृथिव्यादिसद्भावस्य वक्ष्यमाणत्वान्न न्यूनता।
अथाधिक्योपलब्धेस्तदभावेऽसिद्धः। तथाहि, छाया, द्रव्यम्, क्रियावत्त्वाद् गुणवत्त्वाच्चेति। क्रियावत्त्वञ्च प्रत्यक्षेणापि ज्ञायते, चक्षुर्व्यापाराद् गच्छतीति ज्ञानोत्पत्तेः, देशान्तरप्राप्तेश्च। तथाहि, गतिमती, छाया, देशान्तरप्राप्तिसत्त्वात, यो यो देशान्तरप्राप्तिमान् स स गतिमानुपलब्धः, यथा देवदत्तः, तथा देशान्तरप्राप्तिमती छाया, तस्माद् गतिमती। गुणवत्त्वञ्च---
आतपः कटुको सक्षश्छाया मधुरशीतला। इत्यागमात्।
तदेतदसत्। भासामभावरूपत्वाच्छायायाः। तथाहि, यत्र यत्र वारकद्रव्येण तेजसः सन्निधिर्निषिध्यते तत्र तत्र छायेति व्यवहारः। वारकद्रव्यगताञ्च क्रियामातपाभावे समारोप्य प्रतिपद्यते छाया गच्छतीति। अन्यथा हि वारकद्रव्यगतं क्रियामातपाभावे समारोप्य प्रतिपद्यते छाया गच्छतीति। अन्यथा हि वारकद्रव्यगतं क्रियापेक्षितत्त्वं न स्यात्। यच्चेदं देशान्तरप्राप्तिमत्त्वं तत् किं देशान्तरेण संयोगः समवायो वा ? न संयोगस्तस्यापि साध्यत्वात्। तथाहि, द्रव्यत्वसिद्धौ संयोगः सिध्यति संयोगाद् द्रव्यत्वमितीतिरेतरताश्रयत्वं स्यात्। अथ देशान्तरप्राप्तिः समवायः ? सोऽप्यसिद्धः, न ह्येकत्र समवेतोऽन्यत्र समवैतीति। छाया त्वेकत्र सम्बद्धोपलब्धा पुनर्देशान्तरेऽप्युपलभ्यते। न च क्रियावत्त्व देशान्तरसमवायात् सिध्यति, तस्यायुतसिद्धेष्वेव भावादिति, क्रियावत्त्वमसाधनम्। यच्चेदमागमान्माधुर्यं शैत्यं वा छायायास्तदप्युपचारात्। ये हि मधुरद्रव्यस्य शीतद्रव्यस्य वा गुणास्ते छायासंसेवनाद् भवन्तीति तत्कार्यकर्तृत्वेन तथोक्ताः। तस्मात् क्रियावत्त्वाद् गुणत्त्वाच्च द्रव्यं छायेति न वाच्यम्। न च द्रव्यान्तरमस्तीत्युपपन्नम्, नवैव द्रव्याणीत्यवधारणात्।
अत्र केचिद् द्रव्याणि नवैव न्यूनाधिकप्रतिपादकप्रमाणाभावे सति व्यवच्छेद्यव्यवच्छेदकभावापन्ननवलक्षणयोगित्वात्, उभयाभिमतघटादिनवद्रव्यादिवदिति हेतुं ब्रुवते। तथआहि, आधिक्यप्रमाणाभावो दर्शित एव। न च लक्ष...यथावसरं वक्ष्याम इति। तथआ सर्वज्ञाने मुनिना पृथिव्यादिसंज्ञाव्यतिरेकेण संज्ञान्तरानभिधानाद् द्रव्यान्तरासत्त्वमिति। यदिह भावरूपं मयोपसंख्यातव्यमिति हि प्रतिज्ञा मुनेः।।
गुणाश्च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्चेति कण्ठोक्ताः सप्तदश। `च' शब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिगुणाः।
तथआ गुणेषु प्रतिज्ञां करोति। * गुणाः * परमार्थसन्तः पूर्वोक्तादेव साधनात्। तथा गुणव्यवहारे गुणत्वयोगं साधनं वक्ष्यति। रूपादिभेदे च तद्विशेषलक्षणमिति। ते तु * रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्चेति कण्ठोक्ताः * सूत्रकारेणेति वचनवृत्त्याभिहिताः, तांश्च वक्ष्यामः। समासश्चात्र द्वन्द्वः। न्यूनाधिकव्यवच्छेदार्थं सामर्थ्यलब्धाः पुनरुच्यन्ते संख्याया * सप्तदश * इति। * `च' शब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः * चेति। अदृष्टशब्देन धर्माधर्मयोरभिधानात् सप्त भवन्तीति।
अथ संस्कारस्य त्रैविधअयादाधिक्यं स्यात् ? न। संस्कारत्वजात्यपेक्षयैकत्वात्। न चैवमदृष्टत्वं वाच्यम्, अत्रैवान्तर्भावस्य वक्ष्यमाणत्वात्। * इत्येवम् * उक्तप्रकारेण। * चतुर्विंशतिगुणाः * इति न्यूनाधिकव्यवच्छेकभावापन्नचतुर्विंशतिलक्षणयोगित्वाद् उभयाभिमतघटादिचतुर्विंशतिद्रव्यत्वदिति।
अथ निर्गुणत्वाद् गुणानां संख्यायोगोऽनुपपन्नः ? न, उपचाराभ्यपगमात्। तथा हि मुख्ये बाधकप्रमाणसद्भावे स्तयुपचारः कल्प्यते। स च निमित्तापेक्ष इत्यसाधारणधर्मयोगो निमित्तम्। यत्र हि संख्योपलब्धा तत्रासाधारणधर्मयोगोऽपीति तत्समरणादध्यारोपः प्रवर्त्तत इति। व्याकन्तु निमित्तमर्थाक्रियाजनकत्वं वा। नैकार्थसमवायस्तस्याव्यापकत्वात्। तथआहि, गुणकर्मणामेकार्थसमवायो न सामान्यादीनामित्यव्यापकमुपचारेऽनिमित्तमेतादिति। नापि धर्मरुपसंख्या तद्‌व्यतिरेके प्रतिषेधस्य वक्ष्यमाणत्वात्।
अन्ये तु विशेषणविशेष्यभावेनैव संख्यात्र विशेषणमित्युपचारासम्भवं मन्यन्ते। तथाहि, संख्याविशिष्टज्ञानान्यथानुपपत्त्या विशेषणविशेष्यभावस्य द्रव्य इव गुणादौ चाविशेषोपलब्धेरुपचारः कथम् ? संयुक्तं समवेतं वा विशेषणमिति नियमानभ्युपगमाच्च। नैतदेवम्। गुणकर्मसामान्यानां समवेतानामेव विशेषणमिति नियमानुभ्यपगमाच्च। नैतदेवम्। गुणकर्मसामान्यानां समवेतानामेव विशेषणत्वोपलब्धेः। न च गुणेषु निर्गुणतया संख्यासमवायः सम्भवति। असमवेतानाञ्च गुणकर्मसामान्यानां विशेषणत्वे मिथ्याज्ञानाद्यभावः, तद्विशिष्टज्ञानस्योभयत्राविशेषादिति वक्ष्यामः। तस्मादुपचरित एव गुणादिष्वेकादिव्यवहारो व्याख्येयः।।
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि। गमनग्रहणाद् भ्रमणपरेचनस्यन्दनोर्ध्वज्वलनतिर्यक्‌पवनपतननमनोन्नमनादयो गमनविशेषा न जात्यन्तराणि।
तथा कर्मणि प्रतिज्ञां करोति * कर्माँणि * परमार्थसन्ति पूर्वोक्तादेव साधनात्। कर्माणीति व्यवहारे कर्मत्वयोगं साधनमिति वक्ष्यति, उत्क्षेपणादिभेदे च त [त्त] त्सामान्यमिति। तथा * उत्क्षेपणापक्षेपणाकुञअचनप्रसारणगमनानि * इति द्वन्द्वः समासः। न्यूनाधिकव्यवच्छेदार्थञ्च * पञ्चैवकर्माणि * इत्यवधारणम्। अत्र तु पञ्चलक्षणयोगित्वं सविशेषणं पूर्ववत्साधनम्।
अथ भ्रमणादीनामुपलम्भादवधारणानुपपत्तिः। न गमन एवान्तर्भावादित्याह * गमनसङ्गृहीतास्तद्भेदा एव। * न जात्यन्तराणि *
अन्ये तु गमनविशेषा एव न भवन्ति भ्रमणादयः, किं तर्हि ? जात्यन्तराणीति मन्यन्ते। एतच्च असद्‌व्याख्यानमिति वक्ष्यामः कर्मपरीक्षायाम्।
सामान्यं द्विविधं परमपरञ्च। तच्चानुवृत्तिप्रत्ययकारणम्। तत्र सत्ता परं महाविषयत्वात्। सा च सत्तानुवृत्तेरेव कारणमिति सामान्यमेव। द्रव्यत्वाद्यपरम् अल्पविषयत्वात्। तच्च व्यावृत्तेरपि हेतुत्वात् समान्यं सद् विशेषाख्यामपि लभते।
एवं सामान्ये प्रतिज्ञां करोति * सामान्यम् * परमार्थसदिति पूर्ववत्साधनम्। सामान्यव्यवहारे तु लक्षणं वक्ष्यमाणं साधनमिति भेदं निरूपयति * द्विविधम् * केन रूपेणेत्याह * परमपरञ्च * इति। * अनुवृत्तिप्रत्ययकारणम् * इति कार्येण सत्तां दर्शयति। तथाहि, यदनुगतज्ञानं द्रव्यगुणकर्मानिमित्तं तदर्थान्तरसम्बन्धाद् भवतीति वक्ष्यमस्तत्परीक्षायाम्। तदेतदसाधारणत्वात् सामान्यस्येतरस्माद् भेदकमपि भवति। तथाहि, द्रव्यगुणकर्मानिमित्तमबाध्यमानञअचानुगतं ज्ञानं न सामान्यं विना भवतीत्यसाधारणमेव। तत्र परापरभेदं निरूपयन्नाह * सत्ता परम् * सामान्यमिति। कुतः ? * महाविषयत्वात् * । तथाहि द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वम्, सत्ताया द्रव्यादिविषयव्यापकत्वेन महाविषयत्वात् परत्वमिति। यो हि यद्विषयं व्याप्नोति स तदपेक्षया परो यथाल्पविषयपार्थित्वापेक्षया महाविषय इति। * सा च सत्तानुवृत्तेरेव कारणमिति सामान्यमेव *। यद्यप्यसामान्यादिभ्यो व्यावर्तते तथापि सामान्यं वस्त्वनुवृत्तज्ञानस्यैव कारणमिति सामान्यमेव। तथा * द्रव्यत्वाद्यपरमिति * । द्रव्यत्वमादिर्येषाम् इत्यादिग्रहणात् गुणत्वकर्मत्वपृथिवीत्वादेर्ग्रहणम्। तच्च सत्तापेक्षया * अल्पविषयत्वाद् * अपरमिति। तद्धि सामान्यलक्षणयोगित्वेन * सामान्य सद् * उपचरतोऽत्र *विशेषाख्यामपि लभते * न चोपचारो निमित्तं विना [प्र] वर्त्तत इत्याह * व्यावृत्तेरपि हेतुत्वात् * इति। न केवलमनुवृत्तेरेव, किं तर्हि ? व्यावृत्तज्ञानस्यापि हेतुत्वात्। विशेषणे हि व्यावृत्तज्ञानजनकत्वं दृष्टं तच्चेहाप्यस्तीत्युपचारः प्रवर्तते। मुख्यास्तु विशेषास्तल्लक्षणयोगिन एव।।
नित्यद्रव्यवृत्तयोऽन्त्या विशेषास्ते च खल्वत्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव।
एवं विशेषेषु प्रतिज्ञां करोति * विशेषाः * परमार्थसन्त इति पूर्ववत्साधनम्। * नित्यद्रव्यवृत्तयः * इति। तथा बुद्ध्यादयोऽपि नित्यद्रव्येष्वेव वर्त्तन्त इति विपक्षैकदेशवृत्तिव्यवच्छेदार्थं नित्यद्रव्येषु वृत्तिरेवेत्यवधारणम्, न चैवं बुद्ध्यादाय इति। नित्यद्रव्येष्वेव वृत्तिरेव एषामिति सावधारणं वाक्यमेतत्। द्रव्यगुणकर्माणि तु नित्यद्रव्येष्वनित्यद्रव्येषु च वर्त्तन्त इति। सामान्यञ्चाद्रव्येऽपीत्युपपन्नमवधारणम्। नित्यद्रव्येष्वेवेत्यन्ययोगव्यवच्छेदेन नित्यद्रव्येषु वर्त्तमानत्वाद् विशेषा इतरस्माद् भिद्यन्त इति।
अन्ये तु पदार्थापेक्षया लक्षणं विवक्षितमिति नित्यद्रव्येष्वेव वर्त्तमानत्वं हेतुरिति ब्रुवते। तच्चायुक्तम्। विपक्षैकदेशवृत्तेरगमकत्वात्। न पदार्थापेक्षयाप्ययोगव्यवच्छेदं विना विपक्षैकदेशाद् बुद्ध्यादेरस्य व्यावृत्तिरिति।
नित्यद्रव्यवृत्तय इत्यन्त्यपदस्य विवरणमेतत्। तथा च वक्ष्यति नित्यद्रव्याण्युत्पत्तिविनाशयोरन्ते व्यवस्थितत्वादन्तशब्दवाच्यानि। तेषु भवास्तद्‌वृत्तयोऽन्त्या इति व्याख्यायन्ते। * ते च * विशेषा विशेषयन्ति व्यावर्तयन्ति स्वाश्रयमाश्रयान्तरादिति। परीक्षार्थमाह ते चात्यन्तं सर्वदा व्यावृत्तिबुद्धेरेव हेतुत्वाद् विशेषा एव ? न सामान्यमपीति। तथआहि, समानजातिगुणक्रियाधाराः परमाणवः, विशेषसम्बन्धिनः व्यावृत्तबुद्धिविषयत्वात्, यो यो व्यावृत्तज्ञानविषयः स स विशेषसम्बद्धो यथा स्थाण्वादि, तथा च व्यावृत्तज्ञानविषयाः परमाणवः, तस्माद् विशेषयोगिन इति। व्यावृत्तज्ञानविषयत्वञ्च घटादिषूपलब्धमिति नित्येष्वपि साध्यते द्रव्यत्वेनैव हेतुना। न गुणादीनामन्यतरस्यैव परमाणुषु व्यावृत्तज्ञानकारणत्वम्। समानजातिगुणक्रियाधारत्वेन विशेषितत्वात्। न च दृष्टान्ते गुणादिविशेषोपलब्धेरिति दृष्टान्तदार्ष्ट्रान्तिकयोर्वैषम्यापादनेन विलक्षणविशेषसिद्धिरिति वाच्यम्. सर्वानुमानेषु समानत्वादिति। व्यावृत्तज्ञानजनकत्वेन नित्येषु विशेषाणां सद्भाव इति स्थितम्। विस्तरेण तु विशेषपरीक्षायां परीक्षिष्यन्त इत्यलम्।।
अयुतसिद्धानामधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः।
अथ * अयुतसिद्धानाम् * इत्यादिना समवाये प्रतिज्ञां करोति। समवायः परमार्थसन् पूर्वोक्तादेव साधनादिति। लक्षणमुच्यते, इहप्रत्ययहेतुत्वमन्तरालादर्शनस्यापीति सम्बन्धग्रहणम्। तथाहि, दूराद् ग्रामरामयोरन्तरालमपशलमपश्यतामिह ग्रामे वृक्षा इति ज्ञानं दृष्टम्, तथाप्याकाशशकुनिसम्बन्धेन व्यभिचारः। तद् इहप्रत्ययहेतुः सम्बन्धश्चेति। तथाहि, इहाकाशे शकुनिरिति ज्ञानं दृष्टम्, तद्‌व्यवच्छेदार्थम् आधार्याधारग्रहणम्। न चाकाशस्याधारत्वमाधेयत्वं वा, अधरोत्तरभावस्याभावात्। यत्र हि संयोगिद्रव्येष्वधरोत्तरभावस्तत्रैवाधाराधेयभावः कुण्डबदरादावुपलब्धस्तदभावश्चाकाशे, तस्य व्यापकत्वेन शकुनिं व्याप्य सद्भावात्।
अथाकाशस्यातीन्द्रियत्वादिहेति ज्ञानं न स्यात्, तस्य ह्यपरोक्षेष्वेव भावात्। तदसत्। अतीन्द्रियेऽप्याकाशे इहेति ज्ञानं केवलं भ्रान्तम्, तस्य व्यवच्छेदार्थमुपपन्नमाधार्याधारपदम्। इष्टञ्च भ्रान्तेहज्ञानस्य व्यवच्छेदार्थं सम्बन्धपदम्।
अन्ये त्वस्य चोद्यस्य परिहारार्थम् आ समन्तात् काशत इत्याकाशनम्, वर्त्तत इत्युपचारेणाकाशं रश्मयोऽभिधीयन्ते। ते च प्रत्यक्षमित्युपपन्नमिहाकाशे शकुनिरिति ज्ञानमिति मन्यन्ते। तच्चासत्, मुख्यसद्भावेऽप्युपचारकल्पनायमतिप्रसङ्गात्। उक्तञ्चातीन्द्रियेऽप्याकाशेऽपरोक्षज्ञानं भ्रान्तं तद्‌व्यवच्छेदार्थं विशेषणमिति। मूर्त्तद्रव्याभावेन चाकाशेन सम्बन्धाभाव एवेति।।
तथा ह्याधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवाय इत्युक्ते कुण्डः बदरसम्बन्धेन व्यभिचारस्तदर्थमयुतसिद्धानामिति पदम्। युतसिद्धिर्वक्ष्यमाणा, सा विद्यते येषां ते युतसिद्धास्तन्निषेधेन चायुतसिद्धास्तेषामिति। तथाप्ययुतसिद्धानां यः सम्बन्धः सः समवाय इत्युक्ते व्यभिचाराभावः ? तन्न। वाच्यवाचकभावेन विषयविषयिभावेन च व्यभिचारात्। तथा ह्याकाशमहत्त्वमाकाशे समवेतं महत्त्वशब्दवाच्यमित्याकाशमहत्त्वतच्छब्दयोर्वाच्यवाचकभावः सम्बन्धो न च युतसिद्धिर्विभिन्नाश्रयसमवायित्वाभावात्। तथा ह्याकाशमहत्त्वमाकाशे समवेतं तद्वाचकश्च शब्दस्तत्रैवेत्ययुतसिद्धइत्वम्। एवमिच्छाद्यलम्बनं विज्ञानमात्मनि समवेतमिच्छादयश्च तत्रैवेत्ययुतसिद्धत्वे सत्येषां विषयविषयीभाव इत्यनयोर्व्यावच्छेदार्थमाधार्याधरपदम्। न चात्राकाशमहत्त्वशब्दस्तन्महत्त्वाधारः, नापीच्छाद्यालम्बनविज्ञानं तदाधारमिति।
नन्वेवमप्याभ्यामेव व्यभिचारः। तथा ह्ययुतसिद्धानामाधार्याधारभूतानां यः सम्बन्धः सः समवाय इत्युक्तेऽपि वाच्यवाचकभावविषयविषयिभावाभ्यामेव व्भिचारः। तथा ह्याकाशशब्देनाकाशमभिधीयत इत्यनयोराधआर्याधारभावे सति वाच्यवाचकभावः, न चास्ति युतसिद्धिः। एवमात्मालम्बनमहिमिति ज्ञानमात्मन्येवेत्ययुतसिद्धत्वे सत्याधार्याधारभूतयोरस्ति विषयविषयुभाव इति तद्‌व्यवच्छेदार्थविषयविषयिभावयोश्चाधार्याधारभूतेषु तद्विपरीतेषु च सद्भाव इति व्यवच्छेदः।
नन्वेवमयुतसिद्धानामिति व्यर्थमेव, न। अस्यापि सावधारणस्य लक्षणात्तरत्वात्। तथा ह्ययुतसिद्धानामेव यः सम्बन्धः स समवाय इति। वाच्यवाचकविषयविषयिभावौ तु युतसिद्धानामयुतसिद्धानाञ्चेति।
अत्र केचिद् असद्‌दूषणमुद्भावयन्ति। समवायसिद्धौ युतेष्वाश्रयेषु समवायो न युतसिद्धिः। सा विद्यते येषां ते न युतसिद्धाः। तत्प्रतिषेधेन चायुतसिद्धानामभावे न समवाय इति। एतच्चासद्‌दूषणम्, लक्षणस्य विद्यमानव्यवच्छेदकत्वात्। यदि ह्यविद्यमानं लक्षणेनोत्पद्येत भवेदेतद् दूषणमयुतसिद्धानामिति। लक्षणेन समवायाकरणे युतसिद्धानामभावेनायुतसिद्धानामभाव इति लक्षणासम्भव इति, न चैतत्, लक्षणस्य ज्ञापकत्वादिति।
अथायुतसिद्धानामेवाधार्याधारभूतानामेव यः सम्बन्धः स समवाय इति लक्षणद्वयपरिसमाप्ताविहप्रत्ययहेतुरिति व्यर्थम्, न। परीक्षार्थत्वात्। तथाहि, तन्तुषु पट इत्यादि इहप्रत्ययः, सम्बन्धकार्यः, अबाध्यमानेहप्रत्ययत्वात्, यो योऽबाध्यमानोहप्रत्ययः स स सम्बन्धकार्यः, यथेह कुण्डे दधीति प्रत्ययः, तथा चायमबाधअयमानेहप्रत्ययः, त्समात् सम्बन्धकार्य इति। न चात्र समवायपूर्वकत्वं साध्यते, दृष्टान्तस्य साध्यविकलताप्रसङ्गात्। नापि संयोगपूर्वकत्वम्। किं तर्हि ? सम्बन्धमात्रकार्यत्वम्। स च संयोगादिविलक्षणत्वात् समवाय एवेति वक्ष्यामस्तत्परीक्षायामित्यलमतिविस्तरेण।।
उद्देशप्रकरणोपसंहारः
एवं धर्मैर्विना धर्मिणामुद्देशः कृत इति।
एवं द्रव्यादिषु पदार्थेषूक्तेषु सामान्यविशेषसमवायानां लक्षणपरीक्षाश्रवणादन्ते वासिनः प्रक्तनं प्रकरणं किमुद्देशपरं लक्षणपरं परीक्षापरं वेति संशये सति तन्निरासार्थमुपसंहारवाक्यम् * एवम् * इत्यादि प्रधानतया। प्राधान्यं तस्य सर्वत्रोद्देशविधानात्। उद्देशस्तु संज्ञामात्रेण पदार्थाभिधानमिति। लक्षणपरीक्षयोश्च सामान्यादिष्वेव भावादनुषङ्गतोऽभिधानमिति। यद् वा द्रव्यादिपदार्थपरिज्ञानान्निःश्रेयसमिति मत्वा प्रवृत्तस्ततुद्देशपरिज्ञानमात्रान्निःश्रेयसालाभेऽतिप्रकारकतां मन्यमानः श्रवणादन्तेवासी मा व्यावर्ततामिति तदाश्वासनार्थं वाक्यम् * एवं धर्मिर्विना धर्मिणाम् * केवलानामुद्देशः कृतो न लक्षणं नापि परीक्षा। तत्तद्‌द्वारेण साधर्म्यवैधर्म्यपरिज्ञानं श्रौतमुपजातमभ्यासवशाद् आत्मन्यशेषविशेषालिङ्गते विज्ञानमपरोक्षं कुर्वन् निःश्रेयसमुपजनयतीति।।
पदार्थसंख्यावधारणस्य युक्तत्वविचारः
ननु षडेव पदार्था इत्यवधारणाभ्युपगमे धर्माणां व्यतिरेकासम्भवात् कथमस्तित्वादिभिर्विना धर्मिणामुद्देशः कृत इति ? न। अवधारणस्य धर्मिविषयत्वाभ्युपगमात्। तन्न। अस्तित्वादयोऽपि स्वाधिकरणधर्मापेक्षया धर्मिण एवेति, तदपेक्षयापि व्याहतमवधारणम्। तथा ह्यस्तित्वमभिधीयमानत्वाद् अभिधेयत्वाधिकरणम्, एवमभिधेयत्वमस्तित्वाधिकरणमित्यादि योज्यम्।
अथासाधारणधर्माधिकरणत्वेनावधारणमर्थवत्। तदसत्। अस्तित्वादेरप्यसाधारणधर्माधिकरणत्वात्। तथा ह्यस्तित्वभिधेयत्वाद् भिद्यतेऽभिधेयत्वञ्चास्तित्वाद् भिद्यत इति। न चासाधारणधर्मसम्पर्कं विना व्यावृत्तिर्घटत इत्यसाधारणधर्माधिकरणत्वेनावधारणासम्भव इति चेत्, नैतदेवम्। क्रियावद् गुणवत् समकार्यकारणमिति द्रव्यलक्षणम् (वै. सू. 1।1।15), अयोगान्ययोगव्यवच्छेदे द्रव्याश्रितत्वं गुणानाम्, तथा क्षणिकत्वे सति नियमेन मूर्त्तद्रव्यवृत्तित्वं कर्मणाम्, नित्यत्वैकत्वे सति समवायेनानेकवर्त्तमानत्वं सामान्यस्य, अयोगान्ययोग्यव्यवच्छेदेन नित्येष्वेव [द्रव्येषु] वर्त्तमानत्वं विशेषणम्, नियमेनायुतसिद्धसम्बन्धत्वं समवायस्येत्येवं धर्माधिकारिणः षडेवेत्यवधारणेऽप्यदोषः।।
अथ व्यतिरिक्तानामपीयत्ताऽसम्भवादसंख्यातत्वेन तत्त्वज्ञानविषयत्वमिति चेत्, न। पृथिव्यामिवानन्त्येऽप्येकस्य निमित्तस्योपग्रहात् तत्त्वज्ञानविषयत्वमिति। निमित्तन्तु तत्र पृथिव्यां पृथिवीत्वम्, धर्मेषु धर्मरूपतेति।
अथ धर्मेषु नित्यत्वमुतानित्यत्वमिति चेन्नित्यत्वेऽपि धर्मिविनाशे सत्तावदवस्थानाभ्युपगमाददोषः। अनित्यत्वेऽपि द्रव्यस्यैव समवायिकारणत्वाद् गुणादिषु नोत्पत्त्यभावः, विनाशवन्निमित्तकारणादेवोत्पत्त्यभ्युपगमात्। तथाहि, द्रव्यगुणकर्मात्मकं कार्यं समवाय्यादिककारणेभ्यो निष्पद्यमानं दृष्टं विपरीतन्तु निमित्तादेव। तथा च धर्माः, निमित्तादेवोत्पद्यन्ते, द्रव्यगुणकर्मव्यतिरेकिकार्यत्वात्, यद् यद् द्रव्यगुणकर्मव्यतिरेकिकार्यं तत्तन्निमित्तकारणादेवोत्पद्यमानं दृष्टम्, यथा विनाशः, तथा च धर्मा द्रव्यगुणकर्मव्यतिरेकिकार्याः, तस्मान्निमित्तकारणदेवोत्पद्यन्ते। उत्पत्तिधर्माणाञ्चानित्यत्वं दृष्टमित्यस्तित्वादयोऽप्यनित्या इति। अस्तित्वञ्चास्तीति प्रत्ययनिमित्तम्, येन सोऽस्तीति प्रत्ययो भवतीति। अभिधेयत्वं वाभिधेयप्रत्ययकारणमित्यादि सर्वत्र योज्यम्।
अव्यतिरेके तु व्यतिरिक्तैर्वर्मैर्विना धर्मिणामुद्देश्यः कृतः इति व्याख्यानम्। व्यतिरेके बाधकप्रमाणोपपत्तेर्व्यतिरिक्तेति विशेषणं सामर्थ्याल्लभ्यत एव। तथा ह्यवधारणानुपपत्तिर्व्यतिरेकपक्षे।
अथोक्तं विशिष्टधर्माधिकरणत्वेनावधारणं विवक्षितमिति, तन्न। उक्तलक्षणानां ष़डेव पदार्था इत्यवधारणे साधारणधर्माधिकरणानां पदार्थान्तराणामपरिसंख्यातत्वात् तत्त्वज्ञानसम्भव एव। तत्त्वज्ञानार्थञ्चावधारणम्। न च पदार्थान्तराणामज्ञेयत्वम्, सर्वस्य भावप्रपञ्चस्य ज्ञेयतयोपक्षेपात्। तेषु च सामान्यविशेषरूपतया तत्त्वज्ञान कार्यम्। सामान्यं भावरूपता, विशेषस्तु द्रव्यादिवल्लक्षणप्रयोगः। तदतिरिक्तेषु च पदार्थएषु सामान्यतो ज्ञानं न विशेषत इति।।
अथ द्रव्यादिलक्षणवद् धर्मरूपताविशेषस्य सद्भावविशेषणापि तत्त्वज्ञानविषयत्वमिति चेत्, तर्हि पदार्थान्तरसद्भावेऽपि नियतलक्षणापेक्षयावधारणा4भ्युपगमे षडेवेत्यपि न वाच्यम्। समवायसद्भावेऽपि पूर्वलक्षणापेक्षया पञ्चैवेति स्यात्। एवमुत्तरोत्तरपदार्थसद्भावेऽपि पूर्वपूर्वलक्षणापेक्षयावधारणाभ्युपगमे सत्येक एव पदार्थाः स्यात्। तथाहि, द्रव्यलक्षणयोगे एक एव पदार्थो नान्यस्तस्य हि द्रव्यलक्षणयोगित्वे द्रव्यलक्षणयोगित्वे द्रव्य एवान्तर्भावात्।।
अथ गुणादिषु विभिन्नलक्षणसम्बन्धिषु तत्त्वज्ञानाभावप्रसङ्गान्नैवमवधारणम्। एवं तर्हि धर्मेषु षड्लक्षणालक्षितेषु तत्त्वज्ञानाभावप्रसङ्गात् षडेवेत्यवधारणमन्याय्यम्। प्रतिज्ञातञ्च पदार्थेषु साधर्म्यवैधर्म्यप्रतिज्ञानम् [?]
धर्मस्वरूपविचारः
तथा धर्मरूपतायाः सकलभेदव्याप्तितया न धर्मेषु तत्त्वज्ञानम्। तथाहि, धर्मरूपतायां किमन्या धर्मरूपताऽस्ति ? उत नास्तीति। सद्भावे तस्यामन्याभिधेयतेत्यनवस्थायां धर्मरूपतायाश्चानेकत्वादेकस्य निमित्तस्योपग्राहकस्याभावान्न धर्मेषु तत्त्वज्ञानं स्यात्।
न च पृथिवीत्वं विनानुगताकारं धर्मेषु सामान्यमस्तीति, धर्मो धर्म इत्यनुगतज्ञानस्यासंवेदनात्। यदि चानुगताकाराशेषर्मव्यापिका स्याद् धर्मरूपता, तस्यास्तर्हि सामान्यरूपत्वात् तद्योगितया धर्माणां द्रव्यादिष्वेवान्तर्भावः, द्रव्यादित्रयस्य सामान्यविशेषवतितिलीभिधानात्। न च धर्मत्वस्य सामान्यलक्षणयोगित्वे सामान्याद् व्यतिरेकः सिध्यति, द्रव्यत्वादेरपि व्यतिरेकप्रसङ्गात्। तथाधर्मरूपतायाश्च धर्मत्वायोगेन धर्मेऽप्यन्येऽस्तित्वादयः, तेषु चाप्यन्यद् धर्मत्वमित्यनवस्थां नातिवर्त्तते।
अथ यदेव धर्मत्वमस्तित्वादेराधेयं तदेवान्येषामाधारस्तादाधेयश्चेति न युक्तमेतत्। एकस्मिन् काले यद् यस्याधारस्तत्तस्यैवाधेयमित्यनुपलम्भात्। तथास्तित्वादेरप्येकस्य निमित्तस्यानेकात्रनुवृत्तौ सामान्यान्तर्भावस्तल्लक्षणयोगित्वात्।
यदि चैकं नित्यमस्तित्वं सर्वत्र पदार्थेष्वस्तीति प्रत्ययजनकं स्यात् किं सत्तया ? स्वरूपसत्त्वेन वा ? अथानेकं प्रतिपदार्थमस्तित्वाभिधेयत्वादीति चेत्, न। धर्मिविनाशेऽपि सत्तावदवस्थानम्। तथाहि, एकाश्रयविनाशेऽप्येकतया सत्तायाः पदार्थान्तरेऽपि सत् सदिति प्रत्ययजनकत्वेनावस्थानम्। धर्माणान्तु प्रतिपदार्थनियतत्वाद् आश्रयान्तरेऽस्तीतिप्रत्ययजनकोऽन्य एव धर्म इति नाश्रयविनाशेऽप्यवस्थाने प्रमाणमस्तीति।।
अथ द्रव्यस्यैव समवायिकारणत्वेन गुणादिषूत्पत्तिकारणाभावाद् आश्रयविनाशेऽप्यवस्थानमिति चेत्। एवं तर्हि द्रव्येष्वनित्यं गुणादिषु च नित्यमिति स्यात्। इष्यत एवेति चेत् तर्हि विनाशवन्निमित्तकारणादेवोत्पद्यन्तेऽस्तित्वादय इति व्याहतमेतत्। तथआस्तित्वादेः प्रतिपदार्थनियतत्वेनानन्त्यात् तेषअवेवास्तीत्याद्यभिन्नव्यवहारदर्शनाद् एकमस्तित्वेष्वस्तित्वमभिधएयत्वेष्वभिधेयं तत्राप्यन्येऽस्तित्वादय इति प्राक्तनमेव दूषणमभ्यूह्यम्।
न चास्तित्वादेर्नियतधर्मिसम्बधाभावे व्यपदेशनियमोऽस्यायं धर्म इति घटते। अथास्तित्वसम्बन्धो यदि समवायस्तर्हि धर्माणां समवायितया द्रव्यादिष्वन्तर्भावः, द्रव्यादीनां पञ्चानां समवायित्ववचनात्। यद्यन्यः सम्बन्धो धर्मात्मकस्तस्यायुतसिद्धसम्बन्धत्वे कथं समवायाद् व्यतिरेकः ? व्यतिरेके वा स एव धर्मो धर्मिव्यापकोऽस्त्वलं समवायेन। तस्य च सम्बन्धान्तराभ्युपगमेऽनवस्था स्यादिति स्वात्मवृत्तित्वमभ्युपेयम्। समवायेन। तस्य च सम्बन्धान्तराभ्युपगमेऽनवस्था स्यादिति स्वात्मवृत्तित्वमभ्युपेयम्। स्वात्मवृत्तित्वं समवाय एव।
यच्चानुमानं निमित्तकारणादेवोत्पद्यन्ते धर्माः, द्रव्यगुणकर्मव्यतिरेककार्यत्वाद् विनाशवदा इत्यत्र कार्यत्वस्य स्वकारणसत्तासम्बन्धरूपतयामसिद्धो हेतुः। विनाशस्य च स्वकारणसत्तासम्बन्धाभावात् साधनविकलश्च दृष्टान्तः। द्रव्यादिव्यतिरेके च प्रमाणाभावात् सन्दिग्धविशेषणो हेतुः। अथ षट्पदार्थष्वस्तीति ज्ञानं व्यतिरेके प्रमाणम्। तथाहि, द्रव्यादिष्वस्तीत्यादिज्ञानानि षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानि, षट्पदार्थेषूत्पद्यमानत्वात्, यानि तु षट्पादर्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानि न भवन्ति न तानि षट्सूत्पद्यन्ते यथा द्रव्यादिज्ञानानि, तथा षट्सु नोत्पद्यन्तेऽस्तीत्यादिज्ञानानि, तस्मात् षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानीति व्यतिरेकी। तथाहि षट्पदार्थेष्वस्तीति ज्ञानं तथा अभिधेय इत्युत्पद्यमानं दृष्टमिति पक्षधर्मत्वम्। न च षट्पदार्थव्यतिरिक्तभावरूपनिमित्तनिबन्धनमुभयाभिमतं विज्ञानमस्तीति सपक्षाभावः। द्रव्यादिज्ञानन्तु षट्पदार्थव्यतिरिक्तभावरूपनिमित्तनिबन्धनं न भवतीति विपक्षस्तस्माच्च षट्पदार्थेषूत्पद्यमानत्वं हि द्रव्यादिव्यावृत्तम्। तथा हि द्रव्यज्ञानं द्रव्य एव न तु गुणादिषु, एवं गुणज्ञानं गुण एव न कर्मादिष्वपीति न षट्सूत्पत्तिरिति विपक्षव्यावृत्तिरेव। विपक्षे प्रत्यक्षागमाभ्यां विरुध्यत इति न कालात्ययापदिष्टः। विशेषानुपलब्धेरेयोगाद् न प्रकरणसम इति। तस्माद् व्यतिरेकसिद्धौ न सन्दिग्धविशेषणो हेतुरिति, नैतदेवम्, षट्सुपदार्थेषूत्पद्यमानत्वं व्यक्त्यापेक्षयाऽसिद्धम्। तथा ह्येकमस्तीति ज्ञानं षट्सु पदार्थेषूत्पद्यते। एवमभिधेयज्ञानञ्चेति। अथ अस्ति द्रव्यम्, अस्ति गुण इत्येवंजातीयकं ज्ञानं षट्सूत्पद्यत इति नास्त्यसिद्धता। तर्हि द्रव्यगुणादिज्ञानं ज्ञानजातीयं षट्सूत्पद्यते। न च षट्पदार्थातिरिक्तभावरूपनिमित्तनिबन्धनमिति व्यभिचारः। यच्च षट्पदार्थातिरिक्तम भावरूपनिमित्तं तस्यानुवृत्तव्यावृत्ततायां प्राक्तनमेव दूषणमूह्यम्। सत्तासम्बन्धेन च पदार्थेषु भावव्यतिरेकाभ्यामस्तीति ज्ञानमुत्पद्यमानं दृष्टमिति विरोधः। अस्तित्वधर्मादेवास्तित्वज्ञानमिति चेत् तर्हि सत्तायां सद्भावे किं प्रमाणमिति वाच्यम्, प्रत्यययवैलक्षण्याभावादित्यतो न व्यतिरेके प्रमाणमस्तीत्यप्रसिद्धविशेषणो हेतुरिति सत्यम्। यदि च अभूत्वा भावित्वमात्रं कार्यत्वविमिष्टं स्यात्तदप्यस्तित्वादिषु सन्दिग्धम्। तथा ह्माश्रये सत्युपलम्भादस्तित्वादेर्न ज्ञायते किमाश्रया वा ते सन्तोऽभिव्यज्यन्ते सामान्यवत्, उतोत्पद्यन्ते रूपादिवदिति। न च निमित्तकारणं विशेषतो निर्देष्टं शक्यते। अथ गुणाश्रयास्तदाधारास्तेषां निमित्तमिति चेत्, एवं तर्हि गुणादीनां कार्याधारतया समवायिकारणत्वादिति निमित्तदेवोत्पत्तिर्विरुध्यते। तथाहि, नियमेनाधार्यधारयोर्यः सम्बन्धः स समवाय एव। अन्यत्वे वा समवायलक्षणं व्यभिचारि स्यात्। असम्बन्धे चोक्तमेव दूषणमित्यतिरिक्तैः * धर्मैर्विना धर्मिणामुद्‌देशः [कृतः] * इति सिद्धम्।
अन्ये तु धर्मैः सह धर्मिण उद्देशः कृतः। केनेति ? * विना * पक्षिणा उलूकेन। सामान्यशब्दश्च विशेषे वर्त्तते प्रकरणादिति ब्रुवते।

"https://sa.wikisource.org/w/index.php?title=व्योमवती/प्रथमः_भागः&oldid=399049" इत्यस्माद् प्रतिप्राप्तम्