सामग्री पर जाएँ

वैशेषिकसूत्रम् (कणादः)

विकिस्रोतः तः
वैशेषिकसूत्रम् (कणादः)
[[लेखकः :|]]

अथातो धर्मं व्याख्यास्यामः । १,१.१ ।
यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १,१.२ ।
तद्वचनादाम्नायप्रामाण्यम् (ऊ,व्,भ्व् आम्नायस्य प्रामाण्यम्) । १,१.३ ।
पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । १,१.४ ।
रूपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणाः । १,१.५ ।
उत्क्षेपणं अवक्षेपणं आकुञ्चनं प्रसारणं गमनं इति कर्माणि । १,१.६ ।
सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणां अविशेषः । १,१.७ ।
द्रव्याणि द्रव्यान्तरं आरभन्ते । १,१.८ ।
गुणाश्च गुणान्तरम् । १,१.९ ।
कर्म कर्मसाध्यं न विद्यते । १,१.१० ।
कार्याविरोधि द्रव्यं कारणाविरोधि च । १,१.११ ।
उभय्तथा गुणः । १,१.१२ ।
कार्यविरोधि कर्म । १,१.१३ ।
क्रियावद्गुणवत्समवायिकारणं इति द्रव्यलक्षणम् । १,१.१४ ।
द्रव्याश्रय्यगुणवान्संयोगविभागेष्वकारणं अनपेक्ष इति गुणलक्षणम् । १,१.१५ ।
एकद्रव्यं अगुणं संयोगविभागेष्वनपेक्षं कारणं इति कर्मलक्षणम् । १,१.१६ ।
द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । १,१.१७ ।
तथा गुणः । १,१.१८ ।
संयोगविभागानां कर्म । १,१.१९ ।
न द्रव्याणां व्यतिरेकात् । १,१.२० ।
गुणवैधर्म्यान्न कर्मणाम् । १,१.२१ ।
द्रव्याणां द्रव्यं कार्यं सामान्यम् । १,१.२२ ।
द्वित्वप्रभृतयश्च संख्याः पृथक्त्वं संयोगविभागाश्च । १,१.२३ ।
असमवायात्सामान्यं कर्म कार्यं न विद्यते । १,१.२४ ।
संयोगानां द्रव्यम् । १,१.२५ ।
रूपानां रूपम् । १,१.२६ ।
गुरुत्वप्रयत्नसंयोगानां उत्क्षेपणम् । १,१.२७ ।
संयोगविभागाः कर्मणाम् । १,१.२८ ।
कारणसामान्ये द्रव्यकर्मणां कर्माकारणं उक्तम् । १,१.२९ ।
कारणाभावात्कार्याभावः । १,२.१ ।
न तु कार्याभवात्कारणाभावः । १,२.२ ।
सामान्यं विशेष इति बुद्ध्यपेक्षम् । १,२.३ ।
भावः सामान्यं एव । १,२.४ ।
द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । १,२.५ ।
अन्यत्रान्त्येभ्यो विशेषेभ्यः । १,२.६ ।
सदिति यतो द्रव्यगुणकर्मसु । १,२.७ ।
द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता । १,२.८ ।
एकद्रव्यवत्त्वान्न द्रव्यम् । १,२.९ ।
गुणकर्मसु च भावान्न कर्म न गुणः । १,२.१० ।
सामान्यविशेषाभावाच्च । १,२.११ ।
एकद्रव्यवत्त्वेन द्रव्यत्वं उक्तम् । १,२.१२ ।
सामान्यविशेषाभावेन च । १,२.१३ ।
गुणे भावाद्गुणत्वं उक्तम् । १,२.१४ ।
सामान्यविशेषाभावाच्च । १,२.१५ ।
कर्मणि भावात्कर्मत्वं उक्तम् । १,२.१६ ।
सामान्यविशेषाभावाच्च । १,२.१७ ।
सल्लिङ्गाविशेषाद्विशेषलिङ्गाभावाच्चैको भावः । १,२.१८ ।

रूपरसगन्धस्पर्शवती पृथिवी । २,१.१ ।
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च । २,१.२ ।
तेजो रूपस्पर्शवत् । २,१.३ ।
वायुः स्पर्शवान् । २,१.४ ।
त आकाशे न विद्यन्ते । २,१.५ ।
सर्पिर्जतुमधूच्छिष्टानां पार्थिवानां अग्निसंयोगाद्द्रवताद्भिः सामान्यम् । २,१.६ ।
त्रपुसीसलोहरजतसुवर्णानां तैजसानां अग्निसंयोगाद्द्रवताद्भिः सामान्यम् । २,१.७ ।
विषाणी ककुद्मान्प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् । २,१.८ ।
स्पर्शश्च । २,१.९ ।
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २,१.१० ।
अद्रव्यवत्त्वाद्द्रव्यं (C,व्,भ्व् ऊ अद्रव्यवत्त्वेन) । २,१.११ ।
क्रियावत्त्वाद्गुणवत्त्वाच्च (व् ओमित्स्) । २,१.१२ ।
अद्रव्यवत्त्वेन नित्यत्वं उक्तं (C,भ्व्) (व् अद्रव्यत्वेनानित्यम्, ऊ अद्रव्यत्वेन) । २,१.१३ ।
वायोर्वायुसंमूर्च्छनं नानात्वे लिङ्गम् । २,१.१४ ।
वायोरिति सति स्न्निकर्षे प्रत्यक्षाभावाद्दृष्टं लिङ्गं न विद्यते । २,१.१५ ।
सामान्यतोदृष्टाच्चाविशेषः । २,१.१६ ।
तस्मादागमिकम् । २,१.१७ ।
संज्ञाकर्म त्वस्मद्विशिष्तानां लिङ्गम् । २,१.१८ ।
प्रत्यक्षपूर्वकत्वात्संज्ञाकर्मणः । २,१.१९ ।
निष्क्रमणं प्रवेशनं इत्याकाशस्य लिङ्गम् । २,१.२० ।
तदलिङ्गं एकद्रव्यवत्त्वात्कर्मणः । २,१.२१ ।
कारणान्तरानुक्êप्तिवैधर्म्याच्च । २,१.२२ ।
संयोगादभावः कर्मणः । २,१.२३ ।
कारणगुणपूर्वः कार्ये गुणो दृष्टः कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतां अगुणः । २,१.२४ ।
परत्र समवायात्प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । २,१.२५ ।
लिङ्गं आकाशस्य । २,१.२६ ।
द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २,१.२७ ।
२८ तत्त्वं भावेन । २,१ ।
पुष्पवस्त्रयोः सति सन्निकर्षे गन्धान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । २,२.१ ।
एतेनाप्सूष्णता व्याख्याता । २,२.२ ।
व्यवस्थितः पृथिव्यां गन्धः । २,२.३ ।
तेजस्युष्णता । २,२.४ ।
अप्सु शीतता । २,२.५ ।
अपरस्मिन्परं युगपदयुगपच्चिरं क्षिप्रं इति काललिङ्गानि । २,२.६ ।
द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २,२.७ ।
तत्त्वं भावेन । २,२.८ ।
कार्यविशेषेण नानात्वम् । २,२.९ ।
नित्येष्वभावादनित्येषु भावात् । २,२.१० ।
कारणे कालाख्या । २,२.११ ।
इत इदं इति यतस्तद्दिशो लिङ्गम् । २,२.१२ ।
द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २,२.१३ ।
तत्त्वं भावेन । २,२.१४ ।
कार्यविशेषेण नानात्वम् । २,२.१५ ।
आदित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताच्च प्राची । २,२.१६ ।
तथा दक्षिणा प्रतीच्युदीचि च । २,२.१७ ।
एतेन दिगन्तराणि व्याख्यातानि । २,२.१८ ।
सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । २,२.१९ ।
दृष्टं अदृष्टाम् । २,२.२० ।
दृष्टं च दृष्टावत् । २,२.२१ ।
दृष्टं यथादृष्टां अयथादृष्टां उभयथादृष्टत्वात् । २,२.२२ ।
विद्याविद्यातश्च संशयः । २,२.२३ ।
श्रोत्रग्रहणो योऽर्थः स शब्दः । २,२.२४ ।
तस्मिन्द्रव्यं कर्म गुण इति संशयः । २,२.२५ ।
तुल्यजातीयेष्वर्थान्तरभूतेषु च विशेषस्योभयथा दृष्टत्वात् । २,२.२६ ।
एकद्रव्यवत्त्वान्न द्रव्यम् । २,२.२७ ।
अचाक्षुषत्वान्न कर्म । २,२.२८ ।
गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । २,२.२९ ।
सतो लिङ्गाभावात् । २,२.३० ।
नित्यवैधर्म्यात् । २,२.३१ ।
कार्यत्वात् । २,२.३२ ।
अभावात् । २,२.३३ ।
कारणो विकारात् । २,२.३४ ।
दोषात् । २,२.३५ ।
संयोगाद्विभागाच्छब्दाच्च शब्दनिष्पत्तेः । २,२.३६ ।
लिङ्गाच्चानित्यः । २,२.३७ ।
द्वयोस्तु प्रवृत्त्योरभावात् । २,२.३८ ।
संख्याभावात् । २,२.३९ ।
प्रथमाशब्दात् । २,२.४० ।
सम्प्रतिपत्तिभावाच्च । २,२.४१ ।
सन्दिग्धाः सतिबहुत्वे । २,२.४२ ।
संख्याभावः सामान्यतः । २,२.४३ ।

प्रसिद्धा इन्द्रियार्थाः । ३,१.१ ।
इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरत्वे हेतुः । ३,१.२ ।
सोऽनपदेशः । ३,१.३ ।
कारणाज्ञानात् । ३,१.४ ।
कार्याज्ञानात् । ३,१.५ ।
अज्ञानाच्च । ३,१.६ ।
अन्य एव हेतुरित्यनपदेशः । ३,१.७ ।
संयोगि समवाय्येकार्थसमवायि विरोधि च, कार्यं कार्यान्तरस्य, कारणं कारणान्तरस्य, विरोध्यभूतं भूतस्य, भूतं अभूतस्य, अभूतं अभूतस्य, भूतं भूतस्य । ३,१.८ ।
प्रसिद्धपूर्वकत्वादपदेशस्य । ३,१.९ ।
अप्रसिद्धोऽनपदेशः । ३,१.१० ।
असन्सन्दिग्धश्चानपदेशः । ३,१.११ ।
विषाणी तस्मादश्वो विषाणी तस्माद्गौरिति च । ३,१.१२ ।
आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् । ३,१.१३ ।
प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । ३,१.१४ ।
आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्च मनसो लिङ्गम् । ३,२.१ ।
द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३,२.२ ।
प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकं मनः । ३,२.३ ।
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्यात्मलिङ्गानि । ३,२.४ ।
द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३,२.५ ।
यज्ञदत्त इति सति सन्निकर्षे प्रत्यक्षाभावाद्दृष्टं लिङ्गं न विद्यते । ३,२.६ ।
सामान्यतोदृष्टाच्चाविशेषः । ३,२.७ ।
तस्मादागमिकम् । ३,२.८ ।
अहं इति शब्दव्यतिरेकान्नागमिकम् । ३,२.९ ।
यदि च दृष्टप्रत्यक्षोऽहं देवदत्तोऽहं यज्ञदत्त इति । ३,२.१० ।
देवदत्तो गच्छति विष्णुमित्रो गच्छतीति चोपचाराच्छरीरप्रत्यक्षः । ३,२.११ ।
सन्दिग्धस्तूपचारः । ३,२.१२ ।
अहं इति प्रत्यगात्मनि भावात्परत्राभावादर्थान्तरप्रत्यक्षः । ३,२.१३ ।
न तु शरीरविशेषाद्यज्ञदत्तविष्णुमित्रयोर्ज्ञानविशेषः । ३,२.१४ ।
सुखदुःखज्ञाननिष्पत्त्यविशेषादैकात्म्यम् । ३,२.१५ ।
नाना व्यवस्थातः । ३,२.१६ ।
शास्त्रसामर्थ्याच्च । ३,२.१७ ।

सदकारणवत्तन्नित्यम् । ४,१.१ ।
तस्य कार्यं लिङ्गम् । ४,१.२ ।
कारणभावाद्धि कार्यभावः । ४,१.३ ।
अनित्यं इति च विशेषप्रतिषेधभावः । ४,१.४ ।
अविद्या च । ४,१.५ ।
महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः । ४,१.६ ।
अद्रव्यवत्त्वात्परमाणावनुपलब्धिः । ४,१.७ ।
रूपसंस्काराभावाद्वायावनुपलब्धिः । ४,१.८ ।
अनेकद्रव्येण द्रव्येण समवायाद्रूपविशेषाच्चोपलब्धिः । ४,१.९ ।
एतेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । ४,१.१० ।
तदभावादव्यभिचारः । ४,१.११ ।
संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि । ४,१.१२ ।
अरूपिष्वचाक्षुषत्वात् । ४,१.१३ ।
एतेन गुणत्वे भावे च सर्वेन्द्रियज्ञानं व्याख्यातम् । ४,१.१४ ।
प्रत्यक्षाप्रत्यक्षाणां अप्रत्यक्षत्वात्संयोगस्य पञ्चात्मकं न विद्यते । ४,२.१ ।
गुणान्तराप्रादुर्भावाच्च त्र्यात्मकं अपि न । ४,२.२ ।
आत्मसंयोगस्त्वविप्रतिषिद्धो मिथः पञ्चानाम् । ४,२.३ ।
अनेकदेशपूर्वकत्वात् । ४,२.४ ।
धर्मविशेषात् । ४,२.५ ।
कार्यविशेषात् । ४,२.६ ।
समाख्याभावात् । ४,२.७ ।
संज्ञादिमत्त्वात् । ४,२.८ ।
सन्त्ययोनिजा वेदलिङ्गाच्च । ४,२.९ ।

आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म । ५,१.१ ।
तथा मुसलकर्म हस्तसंयोगाच्च । ५,१.२ ।
अभिघातजे मुसलकर्मणि व्यतिरेकादकारणं हस्तसंयोगः । ५,१.३ ।
तथात्मसंयोगो हस्तमुसलकर्मणि । ५,१.४ ।
मुसलाभिघातात्तु मुसलसंयोगाद्धस्ते कर्म । ५,१.५ ।
तथात्मकर्म हस्तसंयोगाच्च । ५,१.६ ।
संयोगाभावे गुरुत्वात्पतनम् । ५,१.७ ।
नोदनविशेषाभावाद्नोर्ध्वं न तिर्यग्गमनम् । ५,१.८ ।
प्रयत्नविशेषान्नोदनविशेषः । ५,१.९ ।
नोदनविशेषादुदसनविशेषः । ५,१.१० ।
हस्तकर्मणा दारककर्म व्याख्यातम् । ५,१.११ ।
तथा दग्धस्य विस्फोटनम् । ५,१.१२ ।
प्रयत्नाभावे गुरुत्वात्सुप्तस्य पतनम् । ५,१.१३ ।
तृणकर्म वायुसंयोगात् । ५,१.१४ ।
मणिगमनं सूच्यभिसर्पणं इत्यदृष्टकारितानि । ५,१.१५ ।
इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः । ५,१.१६ ।
नोदनादाद्यं इषोः कर्म कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरं उत्तरं च । ५,१.१७ ।
संस्काराभावे गुरुत्वात्पतनम् । ५,१.१८ ।
नोदनादभिघातात्संयुक्तसंयोगाच्च पृथिव्यां कर्म । ५,२.१ ।
तद्विशेषेणादृष्टकारितम् । ५,२.२ ।
अपां संयोगाभावे गुरुत्वात्पतनम् । ५,२.३ ।
तद्विशेषेणादृष्टकारितम् । ५,२.४ ।
द्रवत्वात्स्यन्दनम् । ५,२.५ ।
नाड्या वायुसंयोगादारोहणम् । ५,२.६ ।
नोदनात्पीडनात्संयुक्तसंयोगाच्च । ५,२.७ ।
वृक्षाभिसर्पणं इत्यदृष्टकारितम् । ५,२.८ ।
अपां सङ्घातो विलयनं च तेजसः संयोगात् । ५,२.९ ।
तत्रावस्फूर्जथुर्लिङ्गम् । ५,२.१० ।
वैदिकं च । ५,२.११ ।
अपां संयोगाद्विभागाच्च स्तनयित्नुः । ५,२.१२ ।
पृथिवीकर्मणा तेजःकर्म वायुकर्म च व्याख्यातम् । ५,२.१३ ।
अग्नेरूर्ध्वज्वलनं वायोश्च तिर्यग्पवनं अणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानि । ५,२.१४ ।
हस्तकर्मणा मनसः कर्म व्याख्यातम् । ५,२.१५ ।
आत्मेन्द्रियमनोऽर्थसन्निकर्षात्सुखदुःखे तदनारम्भः । ५,२.१६ ।
आत्मस्थे मनसि सशरीरस्य सुखदुःखाभावः स योगः । ५,२.१७ ।
कायकर्मणात्मकर्म व्याख्यातम् । ५,२.१८ ।
अपसर्पणं उपसर्पणं अशितपीतसंयोगः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि । ५,२.१९ ।
तदभावे संयोगाभावोऽप्रादुर्भावः स मोक्षः । ५,२.२० ।
द्रव्यगुणकर्मवैधर्म्याद्भावाभावमात्रं तमः । ५,२.२१ ।
तेजसो द्रव्यान्तरेणावरणाच्च । ५,२.२२ ।
दिक्कालावाकाशं च क्रियावद्भ्यो वैधर्म्यान्निष्क्रियाणि । ५,२.२३ ।
एतेन कर्माणि गुणाश्च व्याख्याताः । ५,२.२४ ।
निष्क्रियाणां समवायः कर्मभ्यः प्रतिषिद्धः । ५,२.२५ ।
कारणं त्वसमवायिनो गुणाः । ५,२.२६ ।
गुणैर्दिग्व्याख्याता । ५,२.२७ ।
कारणेन कालः । ५,२.२८ ।

बुद्धिपूर्वा वाक्यकृतिर्वेदे । ६,१.१ ।
न चास्मद्बुद्धिभ्यो लिङ्गं ऋषेः । ६,१.२ ।
तथा ब्राह्मणे संज्ञाकर्मसिद्धिर्लिङ्गम् । ६,१.३ ।
बुद्धिपूर्वो ददातिः । ६,१.४ ।
तथा प्रतिग्रहः । ६,१.५ ।
तयोः क्रमो यथानितरेतराङ्गभूतानाम् । ६,१.६ ।
आत्मगुणेष्वात्मान्तरगुणानां अकारणत्वात् । ६,१.७ ।
अदुष्टभोजनात्समभिव्याहारतोऽभ्युदयः । ६,१.८ ।
तद्दुष्टभोजने न विद्यते । ६,१.९ ।
दुष्टं हिंसायाम् । ६,१.१० ।
समभिव्याहारतो दोषः । ६,१.११ ।
तददुष्टे न विद्यते । ६,१.१२ ।
विशिष्टे प्रवृत्तिः । ६,१.१३ ।
समे हीने चाप्रवृत्तिः । ६,१.१४ ।
एतेन हीनसमविशिष्तधार्मिकेभ्यः परादानं व्याख्यातम् । ६,१.१५ ।
तथा विरुद्धानां त्यागः । ६,१.१६ ।
सम आत्मत्यागः परत्यागो वा । ६,१.१७ ।
विशिष्टे आत्मत्यागः । ६,१.१८ ।
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय.(C,व्) (ऊ दृष्टादृष्टप्रयोजनानां दृष्टाभावे प्रयोजनं अभ्युदयाय.) । ६,२.१ ।
अभिषेचनोपवासब्रह्मचर्यगुरुकुलवासवानप्रस्थ्ययज्ञदानप्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय । ६,२.२ ।
चातुराश्रम्यं उपधाच्चानुपधाच्च । । ६,२.३ ।
भावदोष उपधा । ६,२.४ ।
अदोषोऽनुपधा । ६,२.५ ।
इष्टरूपरसगन्धस्पर्शं प्रोक्षितं अभ्युक्षितं च तच्छुचि । ६,२.६ ।
अशुचीति शुचिप्रतिषेधः । ६,२.७ ।
अर्थान्तरं च । ६,२.८ ।
अयतस्य शुचिभोजनादभ्युदयो न विद्यते यमाभावात् । ६,२.९ ।
विद्यते चानर्थान्तरत्वाद्यमस्य । ६,२.१० ।
असति चाभावात् । ६,२.११ ।
सुखाद्रागः । ६,२.१२ ।
तन्मयत्वात् । ६,२.१३ ।
तृप्तेः । ६,२.१४ ।
अदृष्टात् । ६,२.१५ ।
जातिविशेषाच्च रागविशेषः । ६,२.१६ ।
इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिः । ६,२.१७ ।
ततः संयोगो विभागश्च । ६,२.१८ ।
आत्मकर्मसु मोक्षो व्याख्यातः । ६,२.१९ ।

उक्ता गुणाः । ७,१.१ ।
गुणलक्षणं चोक्तम् । ७,१.२ ।
इदं एवंगुणं इदं एवंगुणं इति चोक्तम् । ७,१.३ ।
पृथिव्यां रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याः । ७,१.४ ।
अग्निसंयोगाच्च । ७,१.५ ।
गुणान्तरप्रादुर्भावात् । ७,१.६ ।
एतेन नित्येष्वनित्यत्वं उक्तम् । ७,१.७ ।
अप्सु तेजसि वायौ च नित्या द्रव्यनित्यत्वात् । ७,१.८ ।
अनित्येष्वनित्या द्रव्यानित्यत्वात् । ७,१.९ ।
कारणगुणपूर्वाः पृथिव्यां पाकजाश्च । ७,१.१० ।
अप्सु तेजसि वायौ च कारणगुणपूर्वाः पाकजा न विद्यन्ते । ७,१.११ ।
अगुणवतो द्रव्यस्य गुणारम्भात्कर्मगुणा अगुणाः । ७,१.१२ ।
एतेन पाकजा व्याख्याताः । ७,१.१३ ।
एकद्रव्यवत्त्वात् । ७,१.१४ ।
अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । ७,१.१५ ।
कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत् । ७,१.१६ ।
तद्विपरीतं अणु । ७,१.१७ ।
अणु महदिति तस्मिन्विशेषभावाद्विशेषाभावाच्च । ७,१.१८ ।
एककालत्वात् । ७,१.१९ ।
अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः । ७,१.२१ ।
अणुत्वमहत्त्वाभ्यां कर्मगुणा अगुणाः । ७,१.२२ ।
एतेन दीर्घत्वह्रस्वत्वे व्याख्याते । ७,१.२३ ।
कर्मभिः कर्माणि गुणैर्गुणाः । ७,१.२४ ।
तदनित्ये । ७,१.२५ ।
नित्यं परिमण्डलम् । ७,१.२६ ।
अविद्या विद्यालिङ्गम् । ७,१.२७ ।
विभवान्महानाकाशः । ७,१.२८ ।
तथा चात्मा । ७,१.२९ ।
तदभावादणु मनः । ७,१.३० ।
गुणैर्दिग्व्याख्याता । ७,१.३१ ।
कारणेन कालः । ७,१.३२ ।
रूपरसगन्धस्पर्शव्यतिरेकादर्थान्तरं एकत्वं तथा पृथक्त्वम् । ७,२.१ ।
तयोर्नित्यत्वानित्यत्वे तेजसो रूपस्पर्शाभ्यां व्याख्याते । ७,२.२ ।
निष्पत्तिश्च । ७,२.३ ।
एकत्वपृथक्त्वयोरेकत्वपृथक्त्वाभावो । ७,२.४ ।
कर्मभिः कर्माणि गुणैर्गुणाः । ७,२.५ ।
निःसंख्यत्वात्कर्मगुणानां सर्वैकत्वं न विद्यते । ७,२.६ ।
एकत्वस्याभावाद्भाक्तं न विद्यते । ७,२.७ ।
कार्यकारणैकत्वपृथक्त्वाभावादेकत्वपृथक्त्वे न विद्येते । ७,२.८ ।
एतदनित्यनितयोर्व्याख्यातम् । ७,२.९ ।
अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । ७,२.१० ।
एतेन विभागो व्याख्यातः । ७,२.११ ।
संयोगविभागयोः संयोगविभागाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.१२ ।
कर्मभिः कर्माणि गुणैर्गुणाः । ७,२.१३ ।
युतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते । ७,२.१४ ।
गुणत्वात् । ७,२.१५ ।
गुणे च भाष्यते । ७,२.१६ ।
निष्क्रियत्वात् । ७,२.१७ ।
असति नास्तीति च प्रयोगात् । ७,२.१८ ।
शब्दार्थावसंबद्धौ । ७,२.१९ ।
संयोगिनो दण्डात्समवायिनो विषाणाच्च । ७,२.२० ।
दृष्टत्वादहेतुः प्रत्ययः । ७,२.२१ ।
तथा प्रत्ययाभावः । ७,२.२२ ।
संबद्धसंबन्धादिति चेत्सन्देहः । ७,२.२३ ।
सामयिकः शब्दादर्थप्रत्ययः । ७,२.२४ ।
एकदिक्कालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परं अपरम् । ७,२.२५ ।
कारणपरत्वात्कारणापरत्वाच्च । ७,२.२६ ।
परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.२७ ।
कर्मभिः कर्माणि गुणैर्गुणाः । ७,२.२८ ।
इहेति यतः कार्यकारणयोः स समवायः । ७,२.२९ ।
द्रव्यत्वगुणत्वकर्मत्वप्रतिषेधो भावेन व्याख्यातः । ७,२.३० ।
तत्त्वं च । ७,२.३१ ।

द्रव्येषु ज्ञानं व्याख्यातम् । ८.१ ।
मन आत्मा च । ८.२ ।
ज्ञाननिर्देशे ज्ञाननिष्पत्तिर् उक्ता । ८.३ ।
गुणकर्मस्वसन्निकृष्टेषु ज्ञाननिष्पत्तेर्द्रव्यं कारणं कारणकारणं च । ८.४ ।
सामान्यविशेषेषु सामान्यविशेषाभावात्तत एव ज्ञानम् । ८.५ ।
सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । ८.६ ।
द्रव्ये द्रव्यगुणकर्मापेक्षम् । ८.७ ।
गुणकर्मसु गुणकर्माभावद्गुणकर्मापेक्षं न विद्यते । ८.८ ।
समवायिनः श्वैत्याच्छ्वैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते । ८.९ ।
द्रव्येष्वनितरेतरकारणात्कारणायौगपद्यात् । ८.१० ।
तथा द्रव्यगुणकर्मसु कारणाविशेषात् । ८.११ ।
अयं एष कृतं त्वया भोजयाइनं इति बुद्ध्यपेक्षम् । ८.१२ ।
दृष्टेषु भावाददृष्टेष्वभावात् । ८.१३ ।
अर्थ इति द्रव्यगुणकर्मसु । ८.१४ ।
द्रव्येषु पञ्चात्मकं प्रत्युक्तम् । ८.१५ ।
भूयस्त्वाद्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने । ८.१६ ।
तथापस्तेजो वायुश्च रसरूपस्पर्शज्ञानेषु रसरूपस्पर्शविशेषात् । ८.१७ ।

क्रियागुणव्यपदेशाभावादसत् । ९.१ ।
सदसत् । ९.२ ।
असतः सत्क्रियागुणव्यपदेशाभावादर्थान्तरम् (?शभावाद्?) । ९.३ ।
सच्चासत् । ९.४ ।
यच्चान्यत्सतस्तदप्यसत् । ९.५ ।
असदिति भूतप्रत्यक्षाभावाद्भूतस्मृतेर्विरोधिप्रत्यक्षत्वाच्च ज्ञानम् । ९.६ ।
तथाबावे भावप्रत्यक्षत्वाच्च । ९.७ ।
एतेनाघटोऽगौरधर्मश्च व्याख्यातः । ९.८ ।
अभूतं नास्तीत्यनर्थान्तरम् । ९.९ ।
नास्ति घटो गेह इति सतो घटस्य गेहसंयोगप्रतिषेधः । ९.१० ।
नास्त्यन्यश्चन्द्रमा इति सामान्याच्चन्द्रमसः प्रतिषेधः । ९.११ ।
सदसतोर्वैधर्म्यात्कार्ये सदसत्ता न । ९.१२ ।
आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् । ९.१३ ।
तथा द्रव्यान्तरेषु । ९.१४ ।
आत्मेन्द्रियमनोऽर्थसन्निकर्षाच्च । ९.१५ ।
तत्समवायात्कर्मगुणेषु । ९.१६ ।
आत्मसमवायादात्मगुणेषु । ९.१७ ।
अस्येदं कार्यं कारणं संबन्ध्येकार्ह्तसमवायि विरोधि चेति लैङ्गिकम् । ९.१८ ।
एतेन शाब्दं व्याख्यातम् । ९.१९ ।
हेतुरपदेशो लिङ्गं निमित्तं प्रमाणं कारणं इत्यनर्थान्तरम् । ९.२० ।
अस्येदं इति बुद्ध्यपेक्षत्वात् । ९.२१ ।
आत्ममनसोः संयोगविशेषात्संस्काराच्च स्मृतिः । ९.२२ ।
तथा स्वप्नः स्वप्नान्तिकं च । ९.२३ ।
धर्माच्च । ९.२४ ।
इन्द्रियदोषात्संस्काराच्चाविद्या । ९.२५ ।
तद्दुष्टं ज्ञानम् । ९.२६ ।
अदुष्टं विद्या । ९.२७ ।
आर्षं सिद्धदर्शनं च धर्मेभ्यः । ९.२८ ।

आत्मसमवायः सुखदुःखयोः पञ्चभ्योऽर्थान्तरत्वे हेतुस्तदाश्रयिभ्यश्च गुणेभ्यः । १०.१ ।
इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः । १०.२ ।
संशयनिर्णययोरर्थान्तरभावश्च ज्ञानान्तरत्वे हेतुः । १०.३ ।
तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्यां ज्ञानान्तरत्वे हेतुः । १०.४ ।
भूतं इति प्रत्यक्षं व्याख्यातम् । १०.५ ।
भविष्यतीति कार्यान्तरे दृष्टत्वात् । १०.६ ।
तथा भवतीति सापेक्षेभ्योऽनपेक्षेभ्यश्च । १०.७ ।
अभूदित्यभूतात् । १०.८ ।
सति च कार्यासमवायात् । १०.९ ।
एकार्थसमवायिषु कारणान्तरेषु दर्शनादेकदेश इत्येकस्मिन् । १०.१० ।
शिरः पृष्ठं उदरं पाणिरिति तद्विशेषेभ्यः । १०.११ ।
कारणं इति द्रव्ये कार्यसमवायात् । १०.१२ ।
संयोगात्वा । १०.१३ ।
कारणसमवायात्कर्मणि । १०.१४ ।
तथा रूपे कारणकारणसमवायाच्च । १०.१५ ।
कारणसमवायात्संयोगे । १०.१६ ।
तथा कारणाकारणसमवायाच्च । १०.१७ ।
संयुक्तसमवायादग्नेर्वैशेषिकम् । १०.१८ ।
लैङ्गिकं प्रमाणं व्याख्यातम् । १०.१९ ।
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय (S ओमित्स्दृष्टप्रयोजनानां) । १०.२० ।
तद्वचनादाम्नायप्रामाण्यं इति (ऊ,S आम्नायस्य प्रामाण्यम्) । १०.२१ ।