वैराग्यशतकम् (अप्पय्यदीक्षितविरचितम्)

विकिस्रोतः तः
Jump to navigation Jump to search
वैराग्यशतकम्
अप्पय्यदीक्षितः

आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश ।
न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत्‌ ॥ १ ॥

धीसचिवं धैर्यबलं संकल्पविरोधि शान्तिधनम्‌ ।
विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम्‌ ॥ २ ॥

राज्ञो बिभेति लोको राजानः पुनरितोऽपि वैरिभ्यः ।
आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम्‌ ॥ ३ ॥

भिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः ।
एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य ॥ ४ ॥

ये न किमपि चेष्टन्ते कार्यप्रतिकार्ययोर्विरहात्‌ ।
सन्तस्त एव मुक्ताः संदेहे गौतमः साक्षी ॥ ५ ॥

पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः ।
अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य ॥ ६ ॥

के चोराः के पिशुनाः के रिपवः केऽपि दायादाः ।
जगदखिलं तस्य वशे यस्य वशे स्यादिदं चेतः ॥ ७ ॥

विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि ।
आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता ॥ ८ ॥

किं विषयान्परिहर्तुं वस्तव्यं मेरुकन्दरेष्वबुधैः ।
नह्यद्भिरनासेक्तुं धातुषु रोहन्ति पद्मानि ॥ ९ ॥

अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे ।
परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ १० ॥

स्वेनोपभुक्तमर्थं सूकरजातिस्मरो मनुष्य इव ।
दूरे जुगुप्समानो धीरो वैराग्यमाद्रियते ॥ ११ ॥

शैशवमिव कौमारे तत्तरुणिम्नीव स इव वृद्धत्वे ।
न स्वदते धीराणां कामस्य विचेष्टितं शान्तौ ॥ १२ ॥

शतशः परीक्ष्य विषयान्सद्यो जहति क्वचित्क्वचिद्धन्याः ।
काका इव वान्ताशनमन्ये तानेव सेवन्ते ॥ १३ ॥

चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः ।
कर्तव्येऽपि प्रेमणि कथमिह धीरा विरज्यन्ते ॥ १४ ॥

तृणवद्भ्रमन्ति चपलाः स्त्रीनामनि चण्डमारुते चलति ।
धरणिधरा इव सन्तस्तत्र न किंचित्प्रकम्पन्ते ॥ १५ ॥

कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम्‌ ।
सन्तः शमसुखरसिकाः सुधासनाः सूकरान्न इव ॥ १६ ॥

विक्षेपमात्रभाजो विकासकाष्ठागतज्ञानाः ।
स्वस्यापि चेष्टितानि स्वयमीक्षन्ते परस्येव ॥ १७ ॥

अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान्‌ ।
अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान्‌ ॥ १८ ॥

पुष्णति पुरुषे सलिलैर्मुष्णति पुष्पं फलं च तरव इव ।
वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च ॥ १९ ॥

नित्यानित्यविवेकः सर्वेषां घटाघटत्वयोरास्ते ।
स विवेको यः शान्तिक्रुदविवेकोऽन्यः समस्तोऽपि ॥ २० ॥

अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः ।
एवं ब्रह्मसुखेऽपि प्रवर्तते कोऽपि भाग्यवशात्‌ ॥ २१ ॥

पुत्रगुणाः स्वातन्त्र्ये दारगुणाश्चादिवेदनावसरे ।
भ्रातृगुणा दायविधौ द्रष्टव्या मोक्ष्यमाणेन ॥ २२ ॥

का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम्‌ ।
तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ २३ ॥

पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम्‌ ।
परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु ॥ २४ ॥

शान्तिरलभ्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः ।
क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावेते ॥ २५ ॥

नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः ।
ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ २६ ॥

कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते ।
चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ॥ २७ ॥

विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः ।
दृशि देयमौषधं को दृश्ये दत्त्वा सुखी भवति ॥ २८ ॥

दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः ।
रोदनशरणा जननी परलोकगतस्य को बन्धुः ॥ २९ ॥

पश्यन्ति म्रियमाणान्मरिषतोऽनुमिमते स्मरन्ति मृतान्‌ ।
कथयन्ते चैवमसच्चेष्टन्ते नित्यवत्तु परम्‌ ॥ ३० ॥

कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति ।
तस्यामेव रजन्याः कः प्रतिभूः स्वस्य सत्तायाम्‌ ॥ ३१ ॥

कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि ।
क्रीता बलिनो महिषाः कृतकृत्याः स्म इति मन्यन्ते ॥ ३२ ॥

आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि ।
विफल;अं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ ३३ ॥

दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः ।
नहि शर्कराभिलाषिभिरिक्षोः काण्डानि पूज्यन्ते ॥ ३४ ॥

प्रायो मुख्यति चेतः प्राणभृतः प्राणनिर्गमावसरे ।
पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते ॥ ३५ ॥

शमयितुमौदरमग्निं संसाराख्याम्बुधौ निमज्जन्ति ।
तुहिनव्यथानिवृत्यै नहि वेश्मनि पावको देयः ॥ ३६ ॥

आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम्‌ ।
अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ ३७ ॥

अर्थानामधिकानां राज्ञा चौरेण वा नाशः ।
अन्ने खल्वतिभुक्ते वमनं वा स्याद्विरेको वा ॥ ३८ ॥

प्रणमति परिसान्त्वयति प्रणिपतति सदा परिभ्रमति ।
आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः ॥ ३९ ॥

जननादृष्टात्पितरौ पुत्रा जामातरोऽप्ययादृष्टात्‌ ।
कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम्‌ ॥ ४० ॥

स्वपितुः परलोकाय स्वयमनुदिवसं यदाचरति ।
क्रियतातामिदमुपमानं किं नालं पुत्रवैराग्ये ॥ ४१ ॥

अननुगते दारिद्र्ये किमनुगतं लक्षणं दृष्टम्‌ ।
कामस्यपूर्तिर्यदि कृपणं जगदा चतुर्वदनात्‌ ॥ ४२ ॥

न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम्‌ ।
तत्त्दिव पामराणामाकिंचन्यं धनं विदुषाम्‌ ॥ ४३ ॥

स्वीक्रियते यदि तृष्णा स्वीकर्तव्यं जगत्समस्तमपि ।
स्वीक्रियते यदि शान्तिः स्वात्मापि स्वस्य भवति न वा ॥ ४४ ॥

यद्दाताररं वशयति यत्परिजनमस्य सान्त्वयति ।
यदपत्रपते नान्तर्भावालाभः स कस्य समः ॥ ४५ ॥

प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः ।
चुलुकेनाम्भः पातुं खनितव्यः किं तटाकोऽपि ॥ ४६ ॥

यामार्धमसंस्काराद्यामद्वयमशनाच्च सुव्यक्ते ।
शारीरे सौन्दर्येऽप्यभिनिविशन्ते कियन्मूढाः ॥ ४७ ॥

वन्ध्येत्याहुस्तरुणीं जरतीति परित्यजन्ति बहुपुत्राम्‌ ।
अभिनिन्दत्यल्पसुतां का गृहिणी कामिनो हृद्या ॥ ४८ ॥

यान्ति शुचमकृतदारा द्वे भार्ये नेति कृतदाराः ।
ते परदारा नेति स्त्रीभिस्तृप्तान्न पश्यामः ॥ ४९ ॥

मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम्‌ ।
तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः ॥ ५० ॥

शुक्रविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि ।
स्त्रिय इति विहितं विधिना कियदत्र जना निमज्जन्ति ॥ ५१ ॥

वेदानधीत्य विधिवन्मीमांसयित्वा तदर्थं च ।
दाराः कर्तव्या इति केनेदं प्रहसनं कथितम्‌ ॥ ५२ ॥

दुःखेनोपार्ज्यन्ते पाल्यन्ते प्रत्यहः च लाल्यन्ते ।
वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगुणम्‌ ॥ ५३ ॥

अश्नीत पिबत खादत जाग्रत संविशत तिष्टत वा ।
सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति ॥ ५४ ॥

किं विजितया पृथिव्या किं कान्चनभूभृता करस्थेन ।
किं दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते ॥ ५५ ॥

जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव ।
तावत्सैवाकुलयति तन्त्राणि नवानि चातनुते ॥ ५६ ॥

स्वल्पो जीवनकालः स्वल्पा धीः परिचयः स्वल्पः ।
तदपि तरेम कथंचिच्छ्रुतयो यदि नोपजायन्ते ॥ ५७ ॥

कुत आगतं न जाने क्व नु वा गन्तव्यमिदमपि न जाने ।
संचरसि क्वेदानीं संसारपथे महातमसि ॥ ५८ ॥

तमसावृताश्चरन्तः सविधे दूरे च नावयन्त्यर्थान्‌ ।
अवयन्ति तु विस्पष्टं तडिताभिहते शिरसि मूढाः ॥ ५९ ॥

निमिषन्त्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति ।
ईदृक्षो हि विशेषः स्वर्गः स्वर्ग इति किं तत्र ॥ ६० ॥

कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः ।
संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम्‌ ॥ ६१ ॥

गच्छत्वमरावत्यां गच्छतु चतुराननस्य वा नगरे ।
पुनरागन्तव्यं यदि पुंसा किं साधितं भवति ॥ ६२ ॥

भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च ।
नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति महः ॥ ६३ ॥

विश्लेषणस्वभावान्पश्यन्विषयान्करोति को ममताम्‌ ।
नश्यदवस्थापन्नं कः क्रीणीते धनैरश्वम्‌ ॥ ६४ ॥

अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या ‌ ॥
वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु ॥ ६५ ॥

किं न निगृह्णन्ति मनः किं न भजन्ते जनाः शिवं शरणम्‌ ।
अभिसंधिभेदमात्रान्मोक्षोपाये न बध्यन्ते ॥ ६६ ॥

भोगाय पामराणां योगाय विवेकिनां शरीरमिदम्‌ ।
भोगाय च योगाय च न कल्पते दुर्विदग्धानाम्‌ ॥ ६७ ॥

ब्राह्मणचण्डाला इत्याह मुनिर्यन्महापथिकान्‌ ।
भवमार्गमहापथिकानधिकृत्यैव प्रवर्तितं चैतत् ॥ ६८ ॥

एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे ।
एतावन्तो जगति ब्रह्मानदार्णवस्य कणाः ॥ ६९

अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते ।
विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ ७०

अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलाषकरम्‌ ।
अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानस्वद्योतम्‌ ॥ ७१

अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय ।
क्रीणन्ति न बिल्वदलैः कैवल्यं पञ्चषैर्मूढाः ॥ ७२ ॥

यावत्किल चेष्टन्ते तावत्पाशे निबध्यते ग्रन्थिः ।
निभृतं यदि वर्तन्ते कालेन स्रंसते पाशः ॥ ७३ ॥

उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति ।
स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥ ७४ ॥

कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे ।
साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि ॥ ७५ ॥

वङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान्‌ ।
कीदृक्कृतान्तपुरमिति कोऽपि न जिज्ञासते लोकः ॥ ७६ ॥

त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ ।
कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः ॥ ७७ ॥

पुत्रा इति दारा इति पोष्यान्मूर्खो जनान्ब्रूते ।
अन्धे तमसि निमज्जन्नात्मा पोष्य इति नावैति ॥ ७८ ॥

यच्चिन्तितमधिगर्भं यच्च चिरं चिन्तितं नरके ।
विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे ॥ ७९ ॥

बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः ।
कर्षति मनसो वृत्तिं कुलटेव कुलस्त्रियं मुग्धाम्‌ ॥ ८० ॥

अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घ्यम्‌ ।
अविरलतर्ङ्गसंकुलमैक्षिषि विज्ञानसागरं महताम्‌ ॥ ८१ ॥

घोरं भवमपहातुं केचितघोरं प्रपद्यन्ते ।
संसरणकातराणां संशरणं शांभवी शक्तिः ॥ ८२ ॥

पाशो यदि मोक्तव्यः पशुपतिरेवोपसर्तव्यः ।
न खलु व्यतिमुच्यन्ते पशवः पाशेन संबद्धाः ॥ ८३ ॥

अलमलल्मनुभूताभिर्मातृभिरलमस्तु पितृभिश्च ।
भवितव्यं यदि नित्यवदर्थं मातुः पितुश्चास्तु ॥ ८४ ॥

धन्यास्ते बहुदेवाः स्वामिनि येषां न दुर्भिक्षम्‌ ।
जातु न जानीमो वयमेकं तं स्वामिनं पूर्णम्‌ ॥ ८५ ॥

सन्तु बृहन्तो देवाः किं तु न तान्नन्तुमीहते चेतः ।
आढ्यवदान्यन्यायादन्तकजितमेव चिन्तयेन्मनसि ॥ ८६ ॥

निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम्‌ ।
बन्धुं तमेव चिन्तय बद्धुंमोक्तुं च यः क्षमते ॥ ८७ ॥

सदनं गुरूपसदनं शरणं पञ्चाक्षरीपुरश्चरणम्‌ ।
धनमभिलाषनिरोधनमन्त्याश्रमवर्तिनां पुंसाम्‌ ॥ ८८ ॥

कौ पितरौ कः पुत्रः कः स्वामी यः प्रपञ्चस्य ।
प्रत्यस्तमिते भेदे किमिदं किमिदमिति विप्रश्नः ॥ ८९ ॥

स विधिर्यत्ते विदधति स प्रतिषेदो यतो निवर्तन्ते ।
सोपनिषद्यद्ब्रुवते शैवाश्रमवर्तिनो धीराः ॥ ९० ॥

त्यज संसारसरं भज शरणं पार्वतीरमणम् ।
विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम्‌ ॥ ९१ ॥

भव्यमभव्यं वा नः प्रलिखतु वेधाः सुदुर्मेधाः ।
सव्यमसव्यं वा नः शरणं चरणं महेशस्य ॥ ९२ ॥

वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः ।
शिवमेकं जानीमो न शिवादन्यं विजानीमः ॥ ९३ ॥

दारुणमसिपत्त्रवनं दारुणतममन्धतामिस्रम्‌ ।
का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात्‌ ॥ ९४ ॥

कृतदीक्षो घोरमखे कुलकूटस्थो भरद्वाजः ।
विद्येश्वरेषु कश्चन पितामहो न इति विस्रम्भः ॥ ९५ ॥

कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः ।
अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥ ९६ ॥

नरकायापि न भोगान्नराधमायापि नान्यसुरान्‌ ।
मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम्‌ ॥ ९७ ॥

ज्ञातुं हातुं विषयं श्रोतुं मन्तुं गृहीतुमात्मानम्‌ ।
वत्सा यदि न हि घटते तत्साधयताविमुक्ताय ॥ ९८ ॥

संख्यं योगं निगमा भक्तिः कर्म प्रतीतिरिति ।
एकत्र सकलमेतत्केवलमविमुक्तमेकत्र ॥ ९९ ॥

बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं विजानाति ।
यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात्‌ ॥ १०० ॥

न गृहीतं श्रुतिहृदयं न च न गृहीतं परिप्लवं हृदयम्‌ ।
इच्छामि च धाम परं गच्छामि तु विश्वनाथपुरीम्‌ ॥ १०१ ॥

॥ इति श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकं संपूर्णम्‌ ॥