वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-२३
← वैयाकरणसिद्धान्तमञ्जूषा-२२ | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-२३ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-२४ → |
अथ समस्तपदेषु क्लिष्टेषु बोधो लिख्यते
पूर्व भूतो भूतपूर्वः । पूर्नमिति क्तियाविशेषणम्, भूधातुरुत्पत्त्यनुकूलव्यापारार्थः, पीर्वशब्दश्च पूर्वकालवृत्तिपरः । एवञ्च पूर्वकालवृत्त्यतीतोत्पत्त्यनुकूलव्यापाराश्रय इति बोधः ।
अपदिशम्--अत्र वृत्तिविषये 'अप' शब्दो मध्यद्योतकः, दिशोर्मध्यमित्यर्थः ।
बरौ इत्यधिहरि--अत्राधिः अधिकरणशक्तिद्योतको हरिरूपाधिकरण इत्यर्थः ।
उपकृष्णमित्यत्र उपः समीपद्योतकः कृष्णसमीपम् इत्यर्थः ।
दुर्यवनम्--इत्यत्र दुःशब्दः ऋद्धयभावस्य द्योतकः । यवनसम्बन्धो ऋद्ध्यभाव इति बोधः । ऋद्धिर्धनादिमत्तवम् ।
निद्रा सम्पप्रति न युज्यते इत्यतिनिद्रम्--अत्र निद्राशब्देन निद्राकर्तृकवर्त्तमानयुक्तत्वक्रियाभावो लक्ष्यते । एतद्द्योतकोऽतिः ।अतिनिद्रमासीदित्यादिप्रयोगेषु अतिनिद्रमित्य तथा व्यवहारविषये लक्षणेत्याहुः ।
वृत्तौ विशेष्यविशेषणभाववैपरीत्येन वर्त्तमानयुक्तत्वाभाववती निद्रेति बोध इत्यन्ये ।
इतिहरीति--हरिशब्दः स्वरूपपरः, इतिः प्रकाशद्योतकः, हरिशब्दसम्बन्धी प्रकाश इति बोधः ।
अनुरूपमित्यस्य रूपप्रतियोगिकयोग्वदित्यर्थः । योग्यताद्योतकोऽनुः ।
यथाशक्ति--समभिव्याहृतपदार्थानतिक्रमोऽत्र यथाशब्दद्योत्यः ।
सहरि देवदत्तः--इत्यत्र देवदत्तवृत्तिहरिप्रतियोगिकसादृश्यमिति बोधः ।
अनुज्येष्ठं प्रणमतीत्यादौ ज्येष्ठक्रमेण प्रममतीत्यर्थः ।
सचक्रमित्यत्र चक्रप्रतियोगिकैककालिकत्वसमनियतसाहित्यवदिति बोधः, यौगपद्यार्थेन समासविधानादिति बोध्यम् । प्रकृतेऽपि यौगपद्यस्य गुणतया प्रवेशान्न दोषः ।
सक्षत्रम्--अत्र क्षत्रशब्दो भावप्रधानः, क्षत्रियत्वविषया संपत्तिरिति बोधः । सहब्दः सम्पत्त्यथः । अनुरूप आत्मभावः संपत्तिः--योग्यस्वप्रवृत्तिनिमित्तवत्तवमिति यावत् ।
सतृममत्ति--अत्र बुद्धिविशेषविषयत्वरूपं साहित्यं सहार्थः । तृणसहितमित्यर्थः । तेन हि सकलमभ्यवहार्य भुङ्क्त इति प्रतीयते, यस्तृणानि भश्क्षयेत्, कथमन्यत् स परित्यजेदिति प्रतीतेः । अत्रैव चास्य तात्पर्यम्, न तु तृणभक्षणे । नात्तित्येव बोध इत्यपि कश्चित् ।
साग्नि अधीते--अत्रापि अग्निग्रन्थसहितमिति वाच्योऽर्थः । तत्सहिताध्ययनेन चतदन्तग्रन्थाध्ययनसमाप्तिर्गम्यते । एतावतैवान्तवचनत्वं सहस्य ।
केचित्तु, अन्तत्वं साहित्यञ्च सहद्योत्यम् । तेनान्त्याग्निग्रन्थसहितकर्मकमध्ययनमिति बोध इत्याहुः ।
यावच्छ्लोकमच्युतप्रमामाः--परिमाणपरिच्छेद्यत्वं यावद्द्योत्यम्, श्लोकपरिमाणभूतसंख्यापरिच्छिन्नाः
प्रणामा इति बोधः ।
अक्षपरीत्यादौ विपरीतवर्त्तनं पर्यर्थः । वैपरीत्यञ्च जयापेक्षया । अक्षाणाञ्च करणत्वेनान्वयः । अक्षकरणकविपरीतवर्त्तनमिति बोधः । पराजय इति यावत् ।
अनुवनमशनिर्गतः--अत्र वनशब्दस्य समोपपरत्वम् तद्गतलणत्वञ्चानुद्योत्यम् । एवञ्च वनसमीपदेशनिष्ठज्ञापकतानिरूपितज्ञाप्यतावद्गमनकर्मीभुतोऽशनिरिति बोधः ।
अनुगङ्ग वारणसी--इहायामः, तद्गतलक्षणत्वञ्चानुद्योत्यम् । लक्ष्यञ्च वाराणस्यायामः, वाराणस्याः स्वरूपेणाज्ञाप्यत्वात् । एवञ्च गङ्कापदेन गङ्कादैर्घयवती लक्ष्यते । दैर्घ्यज्ञापकत्वं दैर्घ्यस्य सदृशत्वेनेति बोध्यम् ।
पारेगङ्गापारादिति, षष्ठीसमासेन व्याख्यातम् ।
द्धिमुनि व्याकरणस्य--व्याकरणसम्बन्धिवंश्यत्ववन्तौ द्वौ मुनी इति बोधः । वंश्यत्वमेकार्थीभावगम्यम् ।
द्विमुनिव्याकरणमित्यत्र वैश्यत्ववद्द्विमून्यभिन्नं व्याकरणमिति बोधः । विद्यातद्वतोरभेदविवक्षयासाधु ।
सप्तगङ्गमित्यादौ सप्तगङ्गासमाहार इति बोधः । उन्मत्तगङ्गमित्यदौ उन्मत्तगङ्गाधिकरणीभूत इति बोधः ।
इत्यव्ययीभावः ।