वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१६
← वैयाकरणसिद्धान्तमञ्जूषा-१५ | वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-१६ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-१७ → |
अथ पञ्चमीविभक्त्यर्थविचारः
कारकविभक्तिरूपञ्चम्या अपादानमर्थः । "अपादाने पञ्चमी" [ 2।3।28 ] इति सूत्रात् । तल्लक्षणबोधकञ्च "ध्रुवमपायेऽपादानम्" [ 1।4।24 ] इति सूत्रम् । अत्रापायो विश्लोषः सम्बन्धाभावः । स च न वास्तवसम्बन्धपूर्वकः, किन्तु बुद्धिपरिकल्पितसम्बन्धपूर्वकोऽपि । एवमभावोऽपि बुद्धिपरिकल्पितो बोध्यः । अत एव जुगुप्सादिपूर्वकनिवृत्तिलक्षकतामाश्रित्य 'जुगुत्साविराम' इत्यादिप्रत्याख्यानं भाष्योक्तम् ; "यतश्च निर्द्धारणम्" [ 2।3।141 ] इति सूत्रप्रयोगः, 'यतो यतो विरज्यते' इत्यादिप्रयोगश्च संगच्छते । तज्जनकगतिविशेषोऽप्यत्रापायः ---
'गतिर्विना त्ववधिना नापाय इति कथ्यते'
इति हरिस्वरसात् । अवध्यन्वययौग्यविभागानुकूलत्वं विना क्रियाया नापाय शब्दवाच्येतेति तदर्थः ।
अयाय इति चावर्त्तते, अन्वेतीति चाध्याह्रियते, तेनापायान्वयि यदपाये ध्रुवं गतिरूपापायानाश्रयः, तदपादानमिति तदर्थः । एवञ्च व्यापारतावच्छेदकसम्बन्धेन विभागजनकप्रकृतधातूपात्ततत्क्रियानाश्रयत्वे सति आश्रयतया तदुपात्तविश्लेषान्वयि तदपादानमिति फलितम् । कर्तृ वारणाय सत्यन्तम्, धावतोऽश्वात् पतति, कुड्यात् पततोऽश्वात् पतति इत्यादिसंग्रहाय प्रकृतधातूपात्तेति । परस्परान्मेषावपसरत इत्यादिसंग्रहाय तत्क्रियेति । 'निवर्तेत ततस्ततः' इत्यादौ प्रवृत्त्यभावरूपधात्वर्थस्य विषयतासम्बन्धावच्छिन्नविशेषणतयाऽवधौ सत्त्वात् तत्राव्यापप्तिवारणाय सम्बन्धविशेषनिवेशः । उदासीनेऽतिव्याप्तिवारणाय विशेष्यदलम् । स चार्तआदवधिरेव । अवधित्वञ्च पूर्वोक्तविश्लेषाश्रयत्वसमानाधिकरणः स्वरूपसम्बन्धविशेषः, पदार्थान्तरं वा । तत्र विश्लेषस्य धातुलभ्यत्वादवधित्वेनावधिः पञ्चम्यर्थः ।
न चावधित्वेन भाने मानाभावः, अवध्युपलक्षकध्रुवग्रहणस्य मानत्वात् । अन्यथा ह्यपायरूपक्रियान्वय्यपादानमित्यर्थकेनापायेऽपादानमित्यनेनैव सिद्धे तद्वैयर्थ्यं स्पष्टमेव । न च वृक्षस्य सम्बन्धसामान्येन पतनक्रियान्वयेऽपादानत्वाभावार्थं तत्, वाच्यवृत्त्याऽलाभात् । मातुः स्मरतीत्यादौ कर्मत्वभाववत्तदुपपत्तेश्च ।
न च कर्त्तुः पर्णस्यापादानत्ववारणाय तत् स्यात्, तदनुकूलव्यापारेन्वयेऽपि विभागेऽन्वयाभावात्, परत्वात् कर्तृसंज्ञया बाधाच्च । अत एव 'आश्रयोऽवधिरुद्देश्यः' इत्यादिनाऽवधेरेव पञ्चम्यर्थत्वमुक्तं हरिणा ।
एतेन विभाग आश्रयश्च पञ्चम्यर्थ इत्यपास्तम् । 'वृक्षाद्विभजते' इत्यादौ विभागस्य बोधावृत्त्यापत्तेश्च । तत्रावधेरेव पञ्चम्यर्थत्वे किमर्धजरतीयेन त्वद्रीत्या पञ्चम्यास्तत्रासाधुतापत्तेश्च । न्यायनये घटं जानातीत्यादौ द्वितीयाया भवताप्यसाधुत्वस्योक्तत्वात् ; अपायवदपादानमित्येव सिद्धे ध्रुवग्रहणैयर्थ्यापत्तेश्च, विभागस्य धातुलभ्यत्वाच्च ।
न च वृक्षात् पर्णं पततीत्यादौ वृक्षस्य विश्लेषाश्रयत्वात् परत्वेन कर्मतापत्तिः, वृक्षं त्यजतीतिवदिति वाच्यम्, फलतावच्छेदकसम्बन्धेन तस्य तदनाश्रयत्वात्, कर्तृ निष्ठविभागीयसम्बन्धस्यैव तत्त्वात् । वृक्षं त्यजतीत्यादौ व्यापारव्यधिकरणविभागस्यैव धात्वर्थत्वेन भवत्येव कर्मत्वम् ।
एतेन विभाग एव पञ्चम्यर्थः, आश्रयत्व प्रकृतिप्रत्ययार्थयोः संसर्गः, विभागस्य जन्यताम्बन्धेन धात्वर्थऽन्वय
इत्यपास्तम् । विभक्त्यर्थप्रकृत्यर्थयोः क्लृप्तस्याभेदान्वयस्य त्यागापत्तेश्च । अपायोऽपादानमित्येव सिद्धे इतरवैयर्थ्यापत्तेश्च ।
एवञ्च वृक्षात्पर्णं पततीत्यादाववधित्वेनावधिः पञ्चम्यर्थः । तत्राभेदेन प्रकृत्यर्थो विशेषणम्। स च संयोगानुकूलविभागानुकूलव्यापाररूपपतिधात्वर्थैकदेशे विभागे विशेषण् । भूमिनिष्ठसंयोगानुकूलवृक्षावधिकविभागानुकूलो व्यापारः पर्णवृत्तिरिति बोधः ।
न चैवमपि 'वृक्षात् स्यन्दते' इति स्यादिति वच्याम्, आसनाच्चलित इतिवदिष्टापत्तेः । क्रियामात्रार्थत्वे तु व-क्षे स्यन्दत इत्येव ।
'वलाहकाद् विद्योतते'1[fn 'विद्युत्' इत्यस्य शेषो बोध्यः । ] इत्यादौ विद्योततेर्निः सरणपूर्वके विद्योतने लक्षणा । निःसरणं विभागजनकक्रिया । एवञ्च वलाहकावधिकविभागजनकक्रियोत्तरकालिकं विद्योतनं विद्युद्रूपाश्रयवृत्तीति बोधः । इदमुपात्तविषयमित्युच्यते ।
यदा तु प्रत्यक्षसद्धमागमनं मनसि निधाय कुतो भवानिति प्रश्ने पाटलिपुत्रादति चोत्तरयति, तत्र पदजन्यपदार्थोपस्थितेः शाब्दबोधजनकत्वानङ्गीकर्तृनये प्रत्यक्षदृष्टोपस्थितागमन एवान्वयः । मतान्तरे तु प्रत्यक्षदृष्टार्थेन सम्बन्धिविधया स्मृतपदादुपस्थितागमनेनेति बोध्यम् । इदमेवाभिप्रेत्याहुः --- 'गम्यमानाऽपि क्रिया कारकविभक्तौ प्रयोजिका' इति ।
?0केचित्तु?0, पदाध्याहारेऽपि साक्षात् पदस्यानुच्चारणाद् गम्यमानापि इत्यस्यैव विषयमाहुः ।
तत्र किम्शब्दः प्रश्नविषयार्थः । एवञ्च प्रश्नविषयावधिकविभागानुकलो व्यापार इति बोधः । प्रश्नवाक्ये उत्तरवाक्ये च पाटलिपुत्रावधिकेत्यादिः ।
एतदेवापेक्षितक्रियमित्युच्यते . वृक्षात् पततीति तु निर्दिष्टविषयमित्याहुः ।
1 [fn अत्र 'जुगुप्साविराम' इत्यनेनापादानत्वम् । यद्विषयकत्वेन जुगुप्सादयोविवक्षिताः, तदपादानमिति तदथः । अनिष्टसाधनत्वज्ञानरूपा निन्दा जुगुप्सतेरर्थः । विषयत्वादिः पञ्चम्यर्थः, अपादानत्वशक्तिर्वा ।
तादृशनिन्दापूर्वकनिवृत्तौ धातोर्लक्षणां स्वीकृत्य "ध्रुवमपाय" इत्यनेनैव अपादानत्वम् । एवमेव इदं वार्तिकम् उत्तरसूत्राणि च प्रत्याख्यातानि भाष्यकृता । ] 'अधर्माज्जुगुप्सते, विरमति, प्रमाद्यति' इत्यत्रानिष्टसाधनताज्ञानरूपा निन्दा जुगुप्सतेरर्थः । विषयत्वं पञ्चम्यर्थः । अधर्मविषयकानिष्टसाधनताज्ञानमिति बोधः । विरमतेः कृत्यसमानाधिकरणवृत्तिध्वंसविशिष्टकृत्यभाबोऽर्थः । कृतिश्च सर्वत्रैकविषयैवाकाङ्क्षावशाद् भासते । वैशिष्ट्यञ्च समभिव्याहृतकर्तृपदबोध्यशरीरजातीयशरीरघटितसामानाधिकरण्येन । चैत्रादिपदैर्विशिष्टात्मबोधनेन शरीरस्यापि बोधनात् । साजात्यञ्च देवदत्तादिपदोपस्थापितदेवदत्तत्वादिजात्यैव । तेन भाविदेहान्तरावच्छेदेनाधर्मकरणेऽपीदानीन्तनदेहमादाय देवदत्तोऽधर्माद्विरमति इति प्रयोगसिद्धिः । नापि युवशरीरावच्छेदेनाधर्मं कुर्वत्यपि बालशरीरावच्छिन्नचरमवृत्तिध्वंसमादाय विरमतीति प्रयोगः । नापि पूर्वापरकालयोरधर्मकरणे मध्ये मुहूर्त्तमात्रमकरणे विरमतीति प्रयोगः, तत्कृतिध्वंसस्य कृतिसमानाधिकरणत्वात्। नापि तत्तद्देहावच्छिन्नचरमकृतिध्वंसमादाय विरमतीति प्रयोगः । पञ्चम्यर्थस्तु विषयतैव । एञ्चाधर्मविषयकृत्यसमानाधिकरणकृतिध्वंसविशिष्टकृत्यभावो देवदत्तिरिति बोधः । एवं प्रमाद्यतेः समानदेशत्वसमानकालत्वोभयसम्बन्धेनाधिकारविशिष्टेष्टसाधनताज्ञानाबावः पञ्चम्यर्थो विषयत्वमिष्टसाधनताज्ञानेऽन्वेति । अत्र जुगुप्सादीनां यद्विषयकत्वेन विवक्षा, तदपादानम् ।
चोराद्विबेति ; त्रायते वा इत्यादौ अनिष्टज्ञानं भयम्, तन्निवृत्त्यनुकूलो व्यापारस्त्राणं पञ्चम्यर्थो हेतुः । "भीत्रार्थानां भयहेतुः" [ 1।4।25 ] इति सूत्रस्वरसात् । स च धात्वर्थैकदेशेऽनिष्टेऽन्वेति । भयहेतुरित्यस्य भयैकदेशानिष्टहेतुरित्यर्थः । 1[fn अनेन 'चोरापादानकमनिष्टज्ञानम् इत्याकारको बोधो मञ्जूषाकृन्मते' इति लिखन्तः काशिकाकाराः 'अन्यस्योष्णीषमन्यमस्तके स्तापितम्' इति वाक्यं चरितार्थितवन्तः । ] चोरहेतुकानिष्टज्ञानम्, 2 [fn ननु यस्य चोरहेतुकमनिष्टमप्रसिद्धम्, तथापि तद्धेतुकत्वेन स्वस्यानिष्टं संभावयति, तत्र 'चोरादयं बिभेति' इति प्रयोगो न स्यात्, तदीयानिष्टे चोरहेतुकत्वस्य बाधादिति चेत्, न ; तद्धेतकान्यदीयानिष्टस्य तस्मिन्, तदीयानिष्टे वा चोरहेतुकत्वस्यारोपेणादोषात् ।
अत्रापि सम्बन्धित्वेन विवक्षायां चोरपदात्षष्ठी भवति । अत एव 'कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे' इति रामायणप्रयोगः संगच्छते । अथवा 'कस्य संयुगे' इत्याकारकोऽन्वयो बोध्यः ।
नैयायिकास्तु --- प्रयोज्यतापकारकत्वं पञ्चम्यर्थः । तस्य संभावनायामन्वयः । अतः चोराधीनानिष्टस्याप्रसिद्धत्वास्थले न दोषः, चोरप्रयोज्यानिष्टसंभावनया भयस्य सत्त्वात् 'चोरो ममानिष्टं कुर्यात्' इति सम्भावनायाः सत्त्वात् । एवञ्च शत्रुभ्रमेण 'मित्रादपि बिभेति' इति वाक्यस्यापि प्रामाण्यं संगच्छते ।
एवञ्च भयार्थकधातृयोगे भयहेतुत्वेन संभावनमपादानमित्येको वाक्यार्थः, त्राणार्थकधातुयोगेऽनिष्टप्रयोजकं तदित्यपरवाक्यार्थं इत्याहुः । ] तद्धेतुकानिष्टनिवृत्त्यनुकूलो व्यापार इति च बोधः । न च यत्कण्टकादिजन्यभयमेव न प्रसिद्धम्, ततः पञ्चमी न स्यात्, इष्टापत्तेः । पञ्चम्या इष्टत्वे तु तत्र हेतुत्वामारोप्यैव प्रयोगः । एवमेव चाकाशो न पश्यति, परमाणुं न पश्यति इत्यादिफ्रयोगनिर्वाहः, दर्शनादावाकाशकर्त्तृत्वादिकमारोप्य तस्यैव निषेधकरणाद्, बोधाच्च, शशश्रृङ्गं नासतीत्यादिवत् । तत्र हि शब्दबलात् प्रतीतस्य शशश्रृङ्गास्तित्वस्य निषेधः क्रियते "अत्यन्तासत्यपि ज्ञानमर्थे शब्दं करोति हि" इत्यभ्युपगमात् । अयोग्यतानिश्चयस्तु न शाब्दबोधप्रतिबन्धकः । अन्यथाऽन्यथा व्युत्पन्नं प्रति प्रतिवादिशब्दो मूक एव स्यात् । प्रतिवादिनः शब्दाद् वाक्यार्थाप्रतीतौ तत्खण्डनकथाऽप्युच्छिद्येत । आहार्यः शाब्दबोधः इत्यपरे । अत एव शशश्रृङ्गं नास्तीत्यादेः शब्दसाधुता इष्यत एवेत्याहुः ।
'अध्ययनात् पराजयते' इत्यत्र कृत्यसाध्यत्वधीसमानाधिकरणः कृत्यभावोधात्वर्थः । पञ्चम्यर्थो विषयत्वम् । कृत्योश्चैकविषयत्वं व्युत्पत्तिबललभ्यम् । एवञ्चाध्ययनविषयकृत्यसाध्यत्वधीसमानाधिकरणकृत्यभावो देवदत्तवृत्तिरिति बोधः ।
'शत्रून् पराजयते' इत्यत्र तिरस्कारानुकूलो व्यापारो धात्वरथः ।
यत्तु, अनिष्टं धात्वर्थः, जन्यत्वं पञ्चम्यर्थः, "पराजेरसोढः" [ 1।4।26 ] इति सूत्रे च ' असोढः' इत्यसयानिष्टसाधनत्वेन विवक्षितोऽर्थ इत्याहुः, तत्, न ; हेतुपदानुवृत्त्यैव सिद्धे 'आसोढः' इत्यस्य वैयर्थ्यापत्तेः, कर्मक्तप्रत्ययान्तासोढशब्दात् त्वदुक्तार्थालाभाच्च ।
'यवेभ्यो गां वारयति' भक्षणादिफलजनकव्यापाराभावानुकूलो व्यापारो धात्वर्थः । "वारणार्थानामीप्सितः" [ 1।4।27 ] इति सूत्रेणापादानत्वं यवानाम्। तत्रेप्सित इत्यस्य वारणार्थधात्वर्थतावच्छेदकफलाश्रयत्वेनेच्छाविषय इत्यर्थः । उदाहरणे च धात्वर्थतावच्छेदकसंयोगरूपफलाश्रयत्वेन गवेप्सितत्वाद् यवानामपादानत्वम् । तत्र कर्मनिष्ठव्यापारस्य भक्षणादेर्भक्षणत्वावच्छिन्नप्रतियोगिताक एवाभावो भासते, व्युत्पत्तिवैचित्र्यात् । तात्पर्यवशाच्च विशिष्यैव शक्तिः, नानार्थत्वमिष्टमेवेत्यपि कश्चित् । एवञ्च यवनिष्ठसंयोगजनकव्यापारस्य भक्षणादेर्गोवृततिर्योऽभावः, तदनुकूलो व्यापार इति बोधः ।
यदि तु प्रतिषिद्धे गवि भक्षयत्यपि वारयतीति प्रयोगः, तदा तादृशाबावप्रकारिकेच्छाविशिष्टो व्यापार एव
धात्वर्थ इति बोध्यम् ।
अत्र केचित्, यत्र नान्तरीयकतया चैत्रादेर्विषादिभोजनं प्रसक्तम्, न तु स्वेच्छया, तत्र तद्भोजननिवर्त्तक्वयापारकर्त्तरि चैत्रं विषाद्वारयतीति प्रयोगवारणाय सन्प्रयोगः । अत एव तत्र सविषादन्नादवारयतीत्येव प्रयोगः ।
न च कूपादन्धं वारयतीति न स्यात्, न हिकपपतनमन्धस्येच्छाविषय इति वाच्यम्, कपपतनत्वेनेच्छाविषयत्वाभावेऽप्यभिमुखदेशगमनत्वेन तस्यापीच्छाविषयत्वाद् इत्याहुः ।
मातुर्निलीयते कृष्णः "अन्तर्धौ येनादर्शनमिच्छति" [ 1।4।28 ] इत्यपादानत्वम् । तत्र नियनमन्यवृत्तिव्यापारजन्यस्वकर्मकदर्शनाभावप्रयोजनकदेशविशेषस्थितिः । अयमेव च सूत्रे अन्तर्धिपदार्थः । पञ्चम्यर्थो वृत्तित्वं धात्वर्थैकदेशे व्यापारेऽन्वेति ।
'उपाध्यायादधीते' इत्यस्य चोच्चारणोत्तरकालिकनियमपूर्वकस्वीकारकानुकूलोव्यापारोऽधीतेरर्थः । पञ्चम्यर्थो वृत्तित्वं तदेकदेशे उच्चारणेऽन्वेति ।
'उपाध्यायादधीते' इत्यस्य चोच्चारणोत्तरकालिकनियमपूर्वकस्वीकारानुकूलो व्यापारोऽधीतेरर्थः । पञ्चम्यर्थो वृत्तित्वं तदेकदेशे उच्चारणेऽन्वेति ।
'ब्रह्मणः प्रजाः प्रजायन्ते' अत्रोपादानं कारणं पञ्चम्यर्थः, "1 [fn जननं जनिः, तस्याः कर्तेति षष्ठीतत्पुरुषः । तृन्प्रत्ययान्तत्वान्न समासनिषेधः । ननु "न लोकाव्यय" इति षष्ठीनिषेधप्रसङ्गः, कारकषष्ठ्या एव स निषेध इति सिद्धान्तात् शेषष्ठीप्रवृत्तौ बाधकाभावात् ।
वस्तुतस्तु -- शेषष्ठ्यास्तृजन्तेनापि समासः सुलभ इति मनोरमाकाराः । ] जनिकर्त्तुः प्रकृतिः " [ 1।4।30 ] इति सूत्रस्वरसात् । तत्र हि प्रकृतिशब्द उपादानकारणपर इति स्पष्टं भाष्यादौ । एवञ्च ब्रह्माभिन्नोपादानकारणजन्या प्रजावृत्तिरुत्पत्तिरिति बोध ।
2 [fn वृत्तिकृतस्तु -- एतत्प्रयोगानुरोधेन "जनिकर्त्तुः प्रकृतिः" इत्यत्र प्रकृतिपदे हेतुमात्रपरिग्रह इत्याहुः । ] 'पुत्रात् प्रमोदो जायते' इत्यादौ "विभाषा गुणेऽस्त्रियाम्" [ 2।3।25 ] इत्यत्र विभाषेति योगविभागात् हेतौ पञ्चमी । उपादानत्वारोपेणेत्यन्ये ।
'हिमवतो गङ्गा प्रभवति' इत्यादौ प्रभवतेः प्रथमः प्रकाशोऽर्थः । हिमवद्धेतुको गह्घाकर्तृकः प्रथमः प्रकाश इत्यर्थः । हेतुः 3[fn अपरे तु -- अधिकरणत्वं पञ्चम्यर्थ इत्याहुः ।
व्युत्पत्तिवादकृतः -- सम्बन्धाधीनत्वं पञ्चम्यर्थं इत्याहुः ।
तार्किकरत्नाकरकृतः -- तादात्म्यं पञ्चम्यर्थः, दर्शनयोग्यत्वाभावावच्छेदक देशाव्यवहितदेशावच्छेदेन दर्शनयोग्यत्वं धात्वर्थः । तादात्म्यस्य धात्वर्थघटकदेशेऽन्वयः । एवञ्च हिमवदभिन्नो यो दर्शनयोग्यत्वाभावावच्छेदकदेशाव्यवहित आद्यबहिः संयोगो धात्वर्थः । प्रकृते बहिः पदार्थः रसातलम्, संयोगध्वंसाव्यवहितोत्तरक्षणवृतत्तित्वं पञ्टम्यर्थः । आश्रयतवमाख्यातार्थः ।
एवञ्च हिमालयानुयोगितसंयोगध्वंसाव्यहितोत्तरक्षणवृत्त्याद्यपृथिवीसंयोगाश्रयत्ववती गङ्गेति बोधः । ] पञ्चम्यर्थः, "भवः प्रभवः" [ 1।4।21 ] इति सूत्रस्वरसात् । प्रभवत्यस्मादिति हि तत्र प्रभवः ।
'प्रासादात् प्रेक्षते' इत्यादौ आरुह्येत्यादिल्यबन्तार्थाध्याहारेण बोधः । पञ्चम्यर्थोऽध्याहृतक्रियाकर्म । 'आसनात् प्रेक्षते' इत्यादावुपविश्येत्याद्यध्याहृतल्बन्तार्थाधिकरणं पञ्चम्यर्थः । अत्रापि शब्दाध्याहार एव, अनुच्चारणस्यैव 'ल्यब्लोपे कर्मणि च' इति वार्त्तिके लोपपदार्थत्वात् ।
'आजघ्ने विषमविलोचनस्य वक्षः' इति तु भेत्तुमिति तुमुनन्ताध्याहारेण व्याख्येयमित्यन्ये ।
इति पञ्चमीविभक्तय्रथविचारः ।