सामग्री पर जाएँ

वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१२

विकिस्रोतः तः
← वैयाकरणसिद्धान्तमञ्जूषा-११ वैयाकरणसिद्धान्तमञ्जूषा
वैयाकरणसिद्धान्तमञ्जूषा-१२
[[लेखकः :|]]
वैयाकरणसिद्धान्तमञ्जूषा-१३ →

अथ सुबर्थविचारः

अथैतत्प्रकृतिकसुबर्थो निर्णीयते

तथादौ प्रथमाविभक्तचर्थविचारः

तत्र प्रथमाद्वितीयातृतीयाचतुर्थीपञ्चमीषष्ठीसप्तमीत्याख्या विभत्कयः सप्त ।तत्र प्रथमायाः शक्तिग्राहकं सूत्रम् "प्रातिपादिकार्थे प्रथमा" इति । यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्योपस्थितिः, स तत्प्रातिपदिकार्थः। तेन शक्यलक्षयगौणालां सर्वाषां संग्रहः । 'कृष्णः सुन्दरः' इतयादौ प्रकृत्यर्थानुवादिका विभक्तिः, अभेदः संसर्गः, कृष्णाभिन्नः सुन्दर इति बोधः । लिङ्ग तु प्रातिपदिकस्य वार्थः । प्रात्ययो द्योतक इतिनिरूपितं नामार्थवादे संख्याऽपि वाच्या, द्योत्या वेत्यपि तत्रैव निरूपितम् । 'सिहो माणवकः, द्रोणो ब्रीहिः' इत्यादौ सिहदिरोणादिणादिपदानां सिहसदृशे द्रोणपरिच्छेदौ च लक्षणा बोध्या ।

अत्र सूत्रे प्रातिपदिकशब्देन तत्प्रकृतिकलिङ्गबोधकप्रत्ययविशिष्टमपि गृह्यते, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति परिभाषणात् । तेन 'इन्द्राणी' इत्यादौ प्रथमासिद्धिरिति दिक् ।

इदमपि सूत्रं क्तियायोग एव प्रवर्त्तते, "कर्मणि द्वितीया" [2।3।2] इत्यादिसाहचर्यात्, तथैवाकाङ्क्षितत्वाच्च । अत एव 'तिङ्समानाधिकरणे प्रथमा' । अत एव 'अस्तिर्थवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति' इति भाष्यादिग्रन्थः सङ्गच्छते । यत्र तु क्तिया न श्रूयते, तत्राप्‌यध्याहारो बोध्यः । एकशब्दादावपि अनन्वितार्थकप्रयोगापेक्षयाऽनुवादकप्रयोगस्य न्याय्यत्वादेकवचनादि बोध्यमित्याहुः ।

संबोधनमपि प्रथमार्थः, "सम्बोधने च" [2।3।4।7] इति सूत्रस्वरसात् । तत्र सम्बोधनं ज्ञापनम्, अत एव ज्ञाप्यर्थकः 'सम्बोध्यमानो द्वदत्तः' इति व्यवहारः सङ्गच्छते । तज्ज्ञापनार्थमेव सम्बोधनविभत्क्यन्तपदघटितवाक्यप्रयोगः, तत्फलं प्रवृत्तिनिवृत्त्यादिकम् । तत्र समित्युपसर्गोपादानं सम्यक्त्वबोधनार्थम् । तेनसम्बोधनविभक्तिपनुवाद्यविषयिणी 1. [fn अत एव सम्बोधनविभक्तेरपि कारकविभक्तित्वं सिध्यति । अयं भावः-- 'सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः । प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ।।'

इति हर्युत्केः, लाधवाच्च बोधाय सम्मुखीभावः सम्बोधनमिति व्युत्पत्तेःमुखपरावृत्तयाद्यभिव्यङ्गचोऽभिमुखीभाव एवात्र सम्बोधनम् ।

तस्य च सङ्खयाया इव प्रकृत्यर्थे देवदत्तादेराश्रयत्वसम्बन्धेनान्वयः । तस्य विभक्त्यर्थत्वम्, प्रकृत्यर्थत्वमेव व्त्यन्यदेतत् । प्रकृत्यर्थस्य च क्रियासु विनियुज्यते इत्युक्त्या प्रवर्तनान्वयद्वारा विध्यर्थप्रवर्तनायामेवान्वयः ।

तथाऽन्वयस्वीकारादेव 'नामार्थधात्वर्थयोरभेदान्वय एव' इति व्युत्पत्तिविरोधोऽपि न । प्रवर्तनायाश्च विषयत्वसम्बन्धेन गमनक्रियायामन्वयः ।

एवञ्च 'देवदत्त त्वं गच्छ' इत्यादौ अभिमुखीभवद्देवदत्ताभिन्नयुष्मग र्योद्देश्यकप्रवर्तनादिविषयो गमनमिति बोधः ।] क्तियान्वयिनी चेति बोध्यम् । तेन 'राजा भव , युध्यस्व, इन्द्रशत्रुर्वर्धस्व' इत्यादौ न सम्बोधनविभक्तिः, इदानीमपि राजत्वस्यासिद्धत्वेनानुवाद्यत्वाभावात् । अत एव 'राजन् युध्यस्व' इत्यस्य कुमारावस्थायाम् ; 'राजाभव, युव्यस्व' इत्यस्य च राजावस्थायां न प्रयोगः । हेशब्दादिकञ्च सम्बोधनतात्पर्यग्राहकम् । अचेतने तु चेतनात्वारोपेण गौणः प्रयोगः ।

अत्र च समबोधनं प्रकृत्यर्थ प्रति विशेष्यम्, क्रयां प्रति च विशेषणम् । तेन 'राम पाहि' इत्यादौ रामसम्बन्धिसम्बोधनविषयस्त्राणमिति बोधः । सम्बोधनविभक्तोरनुवाद्यविषयतया अनुवाद्यस्य च विधेयसाकाङ्क्षतया, विधेयस्य च क्रियारूपत्वेन तदन्वयस्यैवौचित्यात् ।

'हे देवदत्त त्वं सुन्दरः' इत्यादौ 'असि' इत्यध्याहारो बोध्यः । अत एव धिङ् मूर्खेत्यादौ क्रियाध्याहारे प्रथमा । मूर्खसम्बन्धिसम्बोधनविषया निन्द्या क्रियेति वोधः । क्रियाया निन्द्यत्वञ्च सर्वासंतमूर्खादिकर्तृकत्वमेव । तदभावेद्वितीया, मूर्खसम्बन्धिनिन्देति बोधः । अत एव 'व्रजानि देवदत्त' इत्यादौ 'एकतिङ्वाक्यम्' इत्येकवाक्यत्वादामन्त्रितस्य चेति निघातसिद्धिः । क्रियां प्रत्यविशेषणत्वे तु नैतत्सिघ्येत् । े

यत्तु, 'राम पाहि' इत्यत्र सम्बोध्यरामकर्तृकं रक्षणमर्थः । सम्बोधनं प्रकृत्यर्थ प्रति विशेषणम्, प्रकृत्यर्थश्चाख्यातार्थेऽभेदेन विशेषणम् । उक्तरीत्या बोधे तु 'भो ब्काह्यणास्त्व पच' इति प्रयोगापत्तिः ।

न चैवम् 'राम पाहि' इत्यादौ प्रथमपुरुषापत्तिः, "युष्मद्युपपदे" [2।4।205] इत्यत्र युष्मदित्यस्यार्थपरत्वेन युष्मदश्च सम्बोध्यमानार्थकतया रामेत्यस्यापि तदर्थत्वादक्षतेरिति, तत् न: 'हि राम शिवो गच्छति काशीम्' इत्यादौ प्रत्ययार्थान्वस्य वक्तुमशक्यत्वात् ।

किञ्च युष्मदित्यार्थपरत्वे 'हेराम भवान् गच्छति' इत्यत्र मध्यमपुरुषापत्तिः: भवदर्थस्य सम्बोध्यासम्बोध्यसाधारणत्वेऽपि प्रकृते सम्बोधनसमभिव्याहारेण सम्बोध्यमात्रार्थत्वात् । अर्थपरत्वाभावे तु 'राम पाहि' इत्यादौ मध्यमो दुरुपपादः, त्वमित्याध्याहारे तु तस्यैवाख्यातार्थेनाभेदान्वयात् 'राम' इत्यनेनान्वयो दुरुपपादः ।

यत्तु, भो ब्राह्यणास्त्वं पचेति स्यादिति, तत्,न :किमत्र सर्वेषां सम्बोध्यमानब्राह्यणानां कर्तृत्वम्, उत अन्यतमस्यैव, उत सम्बोध्यमानातिरिक्तस्य ? नाद्यः, त्वमित्येकवचनान्तेनोल्लेखानापत्तेः : न द्वितीयः, अन्येषां ज्ञापने फलाभावेन तज्ज्ञापनस्य व्यर्थत्वापत्तेः । 'त्वं भुङक्ष्व, त्वं स्नाहि' इत्यादिभिन्नक्रियाप्रतिपादनतात्पर्ये त्विष्टापत्तिः । एतेन तृतीयोऽपि निरस्तः ।

किञ्च, शब्दशक्तिस्वाभाव्येन सम्बोधनविभक्त्यन्तपदसमभिव्याहारे युष्मदस्तत्पदबोध्यपरामर्शकत्वस्यैव लोकसिद्धत्वेन तदतिरिक्तस्य त्वंपदार्थतावक्तुमशक्या । अत एव तव मते 'हे देवदत अयं पचति' इत्यादौ सम्बोध्यमानस्य कर्तृ त्वं न, शब्दशक्तिस्वाभाव्येन सम्बोध्येन सम्बोध्यमानातिरिक्तस्यैवेदार्थत्वादिति दिक् ।

इति प्रथमाविभक्त्यर्थविचारः । </poem>