वैयाकरणसिद्धान्तमञ्जूषा/वैयाकरणसिद्धान्तमञ्जूषा-१
वैयाकरणसिद्धान्तमञ्जूषा वैयाकरणसिद्धान्तमञ्जूषा-१ [[लेखकः :|]] |
वैयाकरणसिद्धान्तमञ्जूषा-२ → |
वैयाकरणसिद्धान्तमञ्जूषायाः प्रकरणानां विषयाणाञ्च अनुक्रमणिका
वर्णस्फोटसामान्यनिरुपणम्
स्फोतपदार्थः
प्रकृतिप्रत्ययादीनां काल्पनिकत्वम्
स्थानिनां वाचकत्वादिविचारः
शक्तिनिरुपणम्
वृत्तिभेदाः
नैयायिकमतम्
अपभ्रं शेषु शक्तिसिद्धिः
जनकत्वानिरुक्तिः
नैयायिकोक्तिः
प्रकाशकृदुक्तिः
साधुत्वनिरुक्तिः
वाक्यपदीयोक्तिः
भाषाशब्देषु सुबुत्पत्तिविमर्शः
शक्तित्रैविध्यम्
लक्षणानिरुक्तिः
तत्र तत्तन्मतम्
लक्षणाद्वंविध्यम्
प्रकारान्तरेण लक्ष्णाद्वैविध्यम्
यौग्यतानिरुक्तिः
प्रकाशकृदुक्तिः
शुद्धाया भेदद्वयम्
गौर्वाहीकः
तत्र नव्यमतम्
कुवलयानन्दमतम्
मीमांसकमतम्
व्यञ्जनानिरुक्तिः
गतोऽस्तमर्कः
शब्दवलृत्तिविचारो विस्तरेण जिप्पण्याम्
धात्वर्थविचारः
गुरुमतम्
मण्डनमिश्रमतम्
प्राचीननैयायिकमतम्
धात्वर्थे नव्यमतविचारः
मीमांसकनव्यमतनिरासः
अकर्मकत्वसकर्मकत्वनिरुक्तिः
निपातसामान्यार्थविचारः
नैयायिकमतनिरासः
वैयाकरणमतम्
टिप्पण्यां निपातार्थविस्तरः
नञर्थविचारः
नव्यमतम्
एवकारार्थविचारः
टिप्पण्यामेकारार्थविचारः
तत्र नैयायिकनव्यमतसमीक्षा
टिप्पण्यां परिसङ्ख्यार्थः
विस्तरः
तिङर्थविचारः
टिप्पण्यां तद्विस्तरः
मूले नैयायिकमतम्
'अनभिहिते' इत्यस्यार्थविचारः
कृतिफलयोराख्यातार्थत्वम्
टिप्पण्यां तदादीनां नानार्थत्वनिरासः
मीमांसकमतम्
टिप्पण्यां तदुपपत्तिः
अरुण्यां पिङ्गाक्ष्या इति मन्त्रार्थविचारः
टिप्पण्यां तदुपपत्तिः
अरुणया पिङ्गाक्ष्या इति मन्त्रार्थविचारः
टिप्पण्यां तदुपपत्तिः
टिप्पण्यां तदुपपत्तिः
टिप्पण्यां तद्वेतोरिति न्यायः
नानृतं वदेत्
टिप्पण्यां तद्विस्तरः
मूले भट्टमतम्
टिप्पण्यामाख्यातार्थस्य वैविध्यम्
मूले नव्यमतविमर्शः
टिप्पण्यां 'सुप आत्मनः' इत्यस्यार्थविचारः
आख्यातार्थवर्तमानत्वादिविचारः
तदन्वयप्रकारः, लक्षणानि च
नैययिकनव्यमतम्
नैयायिकनव्यतरमतम्
टिप्पण्यां तक्रन्यायस्वरुपविचारः
विध्यादिविहितलिङर्थः
प्रवर्तकत्वनिरुक्तिः
ज्योतिष्टोमविचारः
मीमांसकमतखण्डनम्
भगवद्कीताविरोधपरिहारः
अर्थवादप्रामाण्यविचारः
सनाद्यर्थविचारः
कृदर्थविचारः
नैयायिकनव्योक्तिनिरासः
टिप्पण्यां क्रियावाचकत्वविचारः
टिप्पण्यां तुमुन्नर्थविस्तरः
टिप्पण्यां तुमुन्तर्थविस्तरः
नैयायिकमतम्
नैयायिकनव्यमतम्
हरिमतम्
नामार्थविचारः
टिप्पण्यां तद्विस्तरः
मूले उपलक्षणत्वनिरुक्तिः
टिप्पण्यां 'नागृहीतविशेषणा' न्यायविमर्शः
कुब्जशक्तिवादः
टिप्पण्यां तत्स्वरूपम्
भट्टमतोल्लेखः
तत्तदाचार्यदिशा विचाराः
टिप्पण्यां स्वरूपसूत्रप्रामाण्यम्
भाष्यकृदुक्त्युल्लेखः
शाब्दिकदिशा लिङ्गविचारः
संख्यायाः प्रातिपदिकार्थत्वचर्चा
टिप्पण्यां नामार्थनिष्कर्षः
अनुकरणानुकार्ययोर्भेदाभेदचर्चा
अतीतनलादिविषयकविचारे
नैयायिकनव्यमतदूषणम्
'गवित्ययमाह' इत्यर्थविचारः
'उद्भिदा यजेत' इति श्रुत्यर्थविचारः
मीमांसकमतोपन्यासः
कथितपदत्वस्य क्वचिददोषत्वम्
टिप्पण्यां शब्दसयापिशाब्दबोधविंषयत्वम्
सर्वानामपदेषु शक्तिग्रहविचारः
अपूर्वे शक्तिग्रहत्वोपपत्तिः
हर्यादिपदशक्यताविचारः
सुबर्थविचारः
प्रथमार्थः
टिप्पण्यां सम्बोधनार्थविचारः
कारकद्वितीयार्थः
टिप्पण्यां कर्मत्वपरिष्कारः
कर्मवेविध्यम्
द्विकर्मत्वोल्लेखः
तदुदाहरणानि
नैयायिकमतखण्डनम्
मीमांसकमतम्
ुपपदद्वितीयाविभाक्त्यर्थनिरूपणम्
कारकतृतीयार्थः
हरिमतम्
उपपदतृतीयार्थः
कारकचतुर्थ्यर्थः
शूलपाणिमतम्
नव्यतरमतम्
तत्तदुदाहरणानां शाब्दबोधप्रकारः
उपपदचतुर्थीनिरुपणम्
पञ्चमीविचारः
टिप्पण्यां विविधमतविमर्षः
'जनिकर्तुः' इत्यत्र समासविचारः
उपपदपञ्चमीनिरुक्तिः
षष्ठ्यर्थनिरुक्तिः
टिप्पण्यां तद्विस्तरः
सप्तम्यर्थविचारः
सङ्ख्याविवक्षानिर्णयः
सङख्याप्रसङ्गादुद्देश्यविधेययोर्विवक्षाऽविक्षाकथनम्
समासशक्तिः
टिप्पण्यां तद्विशेषः
टिप्पण्यां भेदपदार्थविचारः
प्रदीपकृन्मतम्
मीमांसकमतम्
टिप्पण्यांमेकार्थीभावः
टिप्पण्यां निषादस्थपतिशब्दे समासविचारः
जहत्स्वार्थानिरुक्तिः
व्यपेक्षावादः
प्रत्ययत्वनिरुक्तिः
समाससयानर्थक्ये प्रातिपदिकसञ्ज्ञासिद्धिः कथम्?
टिप्पण्यां साहित्यशब्दार्थः
विधेयाविमर्शविषये आलङ्कारिमतोपन्यासः
पुष्पवन्तशब्दार्थविचारः
हरिकारिकोपन्यासः
अरुणयादिविचारः
मीमांसकमतम्
भाष्योक्तदुरुपपादेतिशब्दार्थसङ्घटनम्
वृत्तिमात्रे एकार्थीभावः
एकशेषेऽप्येकार्थीभावः
एकसेषस्यावैयर्थ्यम्
एकशेषे साहित्यमानम्
साहित्यप्रकारकबोधाभावे तन्त्रव्यवहारः
टिप्पण्यां हरिकारिकाविमर्शः
टिप्पण्यां 'कपिञ्जलान्' इत्यादि वाक्यार्थविचारः
मीमांसकमतोपन्यासः
क्लिष्टाव्ययीभावसमस्तपदानामर्थाः
तादृशतत्पुरुषपदार्थाः
तादृशबहुब्रोहिपदार्थाः
तादृशद्वन्द्वादिपदार्थाः
सुबन्तप्रकृतिकक्यजाद्यार्थाः
सुबन्तप्रकृतिकक्यजाद्यार्थः
भावप्रत्ययार्थआः
मीमांसकमतम्
कैयटोल्लेखः
काकतालीयशब्दव्युत्पत्तिः
च्व्यर्थविमर्शः
स्फोटनिरुपणम्
पदवाक्यस्फोटो
स्वमतप्रतिपादनम्
टिप्पण्यां तदुपपत्तिः
वाक्यशक्तिः
अखण्डपदवाक्यस्फोटः
जातिस्फोटनिरुपणम्
ग्रन्थसमाप्तिः
इति वैयाकरणसिद्धान्तमञ्जूषानुक्रमणिका
वैयाकरणसिद्धान्तमञ्जूषा
नागेशभट्टविदुषा नत्वा 1 साम्बमिति लघुमञ्डीषादौ । साम्बसदाशिवम् ।
वैयाकरणसिद्धान्तम़ञ्जषेयं विरच्यते 1 क विलिख्यते । ।। 1 ।।
अथ वर्णस्पोटसामान्यनिरुपणम्
तत्राष्टौ स्फोटा इति सिद्धान्तः । वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, अकण्डपदवाक्यस्फोटौ ; एते पञ्च व्यक्तिस्फोटाः । व्यक्तिस्फोटत्वञ्चैषाम् -- जात्यनवच्छिन्नस्यैव तदवच्छिन्नस्य वा, 2 ख नास्ति केवलं प्रकृतिप्रत्ययपदादेर्वाचकत्वात् । यथा चैतत्, तथार्ग्रे निरुपयिष्यामः । वर्णापदावाक्यभेदेन त्रयो जातिस्फोटाः, इत्यष्टौ ।
तत्र स्फुटत्यर्थोऽस्मादिति स्फोटो वाचक इति यावत् । एवञ्च वर्णस्फोटादिपदानां वर्णादयो वाचका इत्यर्थः । 3 ख नास्ति अत्र वर्णशब्देन प्रकृतिप्रत्ययो 2 ग्रह्यौ इति शेषः । तत्र 4 ख नास्ति 'रामः', 'भवति', इत्यादौ 5 ख तत्रादावानु o तत्तदानुपूर्व्यवच्छिन्नवर्णसमुदायरूपाः, प्रकृतिप्रत्ययभागाः प्रयुज्यमानपदवाक्यादौ श्रूयमाणा वा वाचकाः, न तु तैः स्मृता आदेशिन इति वर्णस्फोटपक्षः । सरो रस इत्यादावविशेषवारणाय तत्तदानुपूर्व्यवच्छिन्नेति ।
प्रयुज्यमानपदान्तर्गता वर्णा वाचका न वा इति विप्रतिपत्तिशरीरम् । अत्र विधिकोटिः, परेषाम्, निषेधकोटिरस्माकम् । स्यादेतत् - प्रयोगसमवाय्यादेशभूततिबादीनां बहुत्वादनन्तशक्ततावच्छेदकक्लपनापत्तेर्न वाचकत्वम् ; किन्तु तैः स्मृताः स्थानिभूता लादय एव, तत्र हि लत्वस्य जातिरुपस्यैकस्यैव शक्ततावच्छेदकत्वात् । नच 1ख 'भू तल्ल' इत्यत्रेत्यधिकः पाठः । 'भू तल्ल' इत्यतोऽपि बोधः स्यादिति वाच्यम्, बोधे 'भवति' इति समभिव्याहारस्य कारणतायाः 'भू --- ति' इत्यतो बोधवारणाय तवाप्यावश्यकत्वेन दोषाभावादिति चेत्, न, लकारमविदुषां बोधानापत्तेः । न च तिङ्क्ष्वेव शक्तिभ्रमाद्बोदः, पदतदर्थघटितशक्तेर्भ्रमस्योपपादयितुमशक्यत्वात्, भ्रमत्वे मानाभावाच्च, व्याकरणभेदेन कटचडादिभेदैः 'रामः' इत्यादौ सु-सि-वादिभेदैश्च स्थानिनामप्यनन्ततयाऽनन्तशकततावच्छेदककल्पनापत्तेस्तदवस्थत्वाच्च । न चैक एव तेषु शक्तः, विनिगमनाविरहात् । न च वेदाङ्गतया पाणिनीयव्याकरणबोधितस्थानिनां वाचकत्वमिति वाच्यम्, अन्याध्ययनवतामेतदप्यजानता़ञ्च2 ख नास्ति भोधानापत्तेः । यत्तु, 'रामः' इत्यादौ सु- सि-रु इत्यादेशिबेदाद्येन सर्वं व्याकरणमधीतं तस्य विनिगमानाविरहेण बोधप्रतिबन्धः स्यादिति । तत्, न; स्मारकलिपेरिव स्मर्यस्मारकाननुगमस्यादोषत्वात्, यस्यैबोद्बोधकसामग्री, तेनैव स्मृतेन बोधसम्भवात् । यत्र तु बहूनां सा, तत्र सर्वैस्तैरित्यदोषात् ।
किञ्च, शक्तिग्राहकशिरोमणिना व्यवहारेण श्रूयमाणेष्वेव 3 ख शक्तिग्रहात् । शक्तिग्रहो न4 ख ' न स्थानिषु' इति नास्ति स्थानिषु ।
अपि च, आदिशिनां स्मरणकल्पनायां यजस्माकं वाचकतावच्छेदकम्, तत्तवमते स्मारकतावच्छेदकं वाच्य्, येन केनचिद्रूपेण स्मारकतवेऽतिप्रसङ्गात् । तथा च 'तद्धेतोः' इतिन्यायेन तेषां वाचकतावच्छेदकत्वमेवोचितम् । 'पपाच' इत्यादावनेकेषां स्मारकतावच्छेदकत्वापत्तेश्च ।
किञ्च, स्थानिनां वाचकत्वे तिक्षु कृतिवाचकत्वम्, शत्रादिस्थले कर्त्रादिवाचकत्वम् ; इति
मीमांसकनैयायिकसंमता व्यवस्था न सिध्येत् । न च "कर्तरिकृत्" 3।4।67 इत्यनुशासनाच्छानजादीनां5 ख शानच्त्वादिना । कर्त्तार्थ इति वाच्यम्, तस्य तद्विधावप्रवृत्तैः1 आदिना सुबुत्पत्तिः । । अन्यथा कर्मणि शानचो दौर्लभ्यापत्तेः । न च नामार्थयोर्भेदेनान्वयायोगात् 'चैत्रः पचमानः' इत्यादौ अनन्वयवारणाय तत्र लस्य कर्ता वाच्य इति वाच्यम्, " लः कर्मणि " 3।4।69 इति सूत्रस्य वैरूप्यापत्तेः । न च लत्वस्य शक्ततावच्छेदकत्वेऽपि तिबाद्यादेशजन्यलकारोपस्थितेरेव कृत्युपस्थापकत्वान्नः; शत्रादिस्मारितात् ; स्वरूपेणोच्चारिताद्वा तत्प्रतीतिरिति वाच्यम्, यत एवं वदता शत्रादिस्थले किमादेशानां वाचकत्वमम्युपेयते, उत स्थानिनाम् ? नाद्यः, अर्धजरतीयापत्तेः । नान्त्यः, वैरूप्यापत्तेः । नचादेशानामेव वाचकत्वे "लः कर्मणिo"3।4।69 इत्यनुशासनासंगतिः, वस्तुतस्तिङादिनिष्ठाया एव शक्तेरनुशासनलाघवाय कल्पिते लकारे कल्पितत्वात्तदुपपत्तेः ।
अत्रेदं बोध्यम् - अत्र पक्षेऽर्थबोधानुकूला वृत्तिर्वर्णं समूह एव पर्याप्ता, न प्रत्येकम् । तथा सति प्रत्येकमर्थवत्त्वात्प्रातिपादिकत्वा1आदिना सुबुत्पत्तिः । द्यापत्तौ 'धनम्, वनम्' इत्यादौ'न लोपाद्यापत्तेः ।
कुञ्च, प्रत्येकं शक्तिमत्त्वे प्रत्येकं वर्णादर्थबोधापत्तिः । किञ्च, द्वितीयादिवर्णोच्चारणस्य वैयर्थ्यापत्तिः । न च प्रत्येकं वर्णैरर्थस्मरणमात्रं जन्यते, चरमेण पुनः स्पष्टं जन्यते, प्रत्यक्ष इव स्मृतावपि वैजात्यस्वीकारे बाधकाभावादितिवाच्यम्, प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वाद्, गुरुत्वाच्च् । न च प्रत्येकावृत्तैः कथं समुदायवृत्तित्वम्, द्वित्वादिवदुपपत्तेः । अत एव 'अर्थवन्तो वर्णाः' इति प्रघट्टके "हयवरट्" [मा. सू. 5 सूत्रे 'धातुप्रतातिपदिकप्रतययानामेकवर्णनामर्थदर्शनात् प्रातिपदिकान्येकार्थानि 2तत्रत्या भाष्यानुपूर्वी तु 'प्रतिपदिकान्येकवर्णान्यर्थवन्ति आभ्याम्, एभिः, एषु' । -- आभ्याम्, आभिः, एषु,' इति भाष्य उक्तम् । स्पष्टन्तु "अर्थवत्" 1।2।45 सूत्रे भाष्ये --- 'प्रकृतिः प्रकृत्यर्थे वर्तते, प्रत्ययः प्रत्ययार्थे' इति ग्रन्थे ।
चरमवर्णं एव शक्तः, पूर्वपूर्ववर्णानुभवजसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रादर्थधीः, नापि प्रतिवर्णं प्रातिपदिकत्वापत्तिरित्येकदेशिनः ।
इति वर्णस्फोट3 अत्र सामान्यनिरूपणमिति युक्तः पाठः ।
अथ शक्तिनिरूपणम्
अत्र घटादिपदादुपस्थिताकाशादेः शाब्दविषयत्ववारणाय शाब्दबोधे वृत्तिग्रहजन्योपस्थितिर्हेतुरिति सिद्धान्तः1 अयमाशयः --- शब्दानां समवायेनाकाशे वर्तमानत्वात् 'एकसम्बन्धिज्ञानमपरसम्न्धिनं स्मारयति' इति नियमेन घटपदेनाकाशस्याप्युपस्थित्या आकाशस्यापि शाब्दूबोधे भानं स्यात् । तच्च नेष्टम्, इतितद्विषयकशाब्दबोदं प्रति तत्पदनिष्ठवृत्तिज्ञानजन्योपस्थितिः कारणमिति कार्यकारणभावः स्वीकर्त्तव्यः । एवञ्चाकाशस्य वृत्त्याऽनुपस्थितत्वात् शाब्दबोधे भानं न भवति । । वृत्तिश्च त्रिधा -- शक्तिर्लक्षणा, व्यञ्डना च । वृत्तित्वं शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदपदार्थ1 ख. पदार्थे । सम्बन्धत्वम् । बोधकत्वेन पदविषयकसंकेतरूपतात्पर्यस्य वृत्तित्ववारणाय पदार्थोपस्तित्यनुकूलेति । तच्च साक्षादेव शाब्दोपयोगि न पदार्थोपस्थितिद्वारेति बोध्यम् ।
तत्र शक्तिः कः पदार्थ इति चेत्, अत्र ?0नायायिकाः?02 तत्र ईश्वरेच्छारूपा शक्तिरितिमतं प्राचीननैयायिकानाम् । तेषां नये आधुनिकसंकेतेऽपि शक्तिरस्त्येव, 'एकादशेऽहनि पिता नाम कुर्यात्' इति ईश्वरेच्छायाः तत्रापि सत्त्वात् । सम्प्रदायविदस्तु, आधुनिकसंकेते न शक्तिरिति मन्यन्ते । गदाधरभट्टाचार्यार्तु,
इच्छामात्रं शक्तिः, नत्वीश्वरेच्छा, एवञ्च आधुनिकसंकेतेऽपि शक्तिरस्त्येव ।
मिमांसकमते तु शक्तिः पदार्थान्तरम् । सा च पदपदार्थयोर्वाच्यवाचकभाव नियामिका । वैशिष्ट्याख्यम्बन्धेनार्थनिष्ठा सा शक्तिः प्रतियोगित्वसम्बन्धेन चपदनिष्ठेति ।
प्राचीनवैयाकरणास्तु बोधजनकतां शक्तिमाहुः । तथा चोक्तं भूषणे दीक्षितैः --
इन्द्रियाणांस्वविषयेष्वनादिर्योग्यता यथा ।
अनादिर्थेश्शब्दानां सम्बन्धो योग्यता तथा ।।'
शक्तिनिo 37 काo
इन्द्रियाणाम् = चक्षुरादीनाम्स्वविषयेयु = चाक्षुषेषु घटादिरूपेषु यथाऽनादिर्योग्यता = तदीयचाक्षुषादिकारणता, तथा शब्दानामपि अर्थेन सह तद्बोधकारणतैव योग्यता, सैव शक्तिरित्यर्थः ।
नागेशमते तु, वाच्यवाचकभाव एव शक्तिरिति अनुपदमेव स्फुटीभविष्यति । अस्माच्छब्दादयमर्थोबोध्य इत्याकारा, इदं पदमिममर्थं बोधयत्विकारा वा ?0ईश्वरेच्छा?0 शक्तिः । तस्याश्च यद्यपि विषयत्वलक्षणः सम्बन्धः पदे चार्थे च, तथापि तस्यां बोधजनकत्वेन; बोधनिखष्ठजन्यतानिरूपकत्वेन; वा विषयो वाचकः । बोधविषयत्वेन तस्यां विषयो वाच्यः । तेन पदं न वाच्यम्, अर्थो न वाचकः ।3 ख. एतेन अदोषात्, नास्ति । एतेनेश्वरेच्छाया अतिप्रसक्तत्वात् न तत्र शक्तित्वमिति परास्तम्, तत्तद्विषयविशेषितायास्तादृशविलक्षणविषयतासम्बन्देन तत्तत्पदनिष्ठायास्तत्तत्पदशक्तित्वाम्युपगमेनादोषात् । सा चेयं साधुशब्दनिष्ठैव, नापभ्रं शादिनिष्ठा, तेषां शक्तत्वव्यवहाराभावात्, साधुत्वापतेश्च ।
नन्वपभ्रंशादपि शक्तिभ्रमेणार्थंप्रत्ययाङ्गीकारात् सन्मात्रविषयके1 ख. सन्मात्रविषकेच्छेति । भगवत्संकेते2 ख. नास्ति । तेषामपि विषयत्वावश्यकतया च शक्तत्वापत्तिः, अन्यथा भगवदिच्छायाः सन्मात्रविषयकत्वोच्छेदापत्तिः । एवं लाक्षणिकगह्घादिपदस्यापि तीरादिवाचकत्वापत्तिः, उक्तयुक्तेः3 ख. नास्ति न च तादृशेच्छया भगवदुच्चरितत्वं शक्तिरपभ्रं शादयश्चनार्थप्रत्यायनेच्छया भगवदुच्चरिता इति तेषु नातिप्रसङ्ग इति मिश्रोक्तं युक्तमेवेति वाच्यम्, वेदस्थलाक्षणिकेषु शक्त्यापत्तेः । किञ्च, आधुनिकसंकेतितमैत्रादपदेऽव्याप्तिः देवदत्तेत्यादिस्वरूपाणां भगवदनुच्चारितत्वात् । न च नामपदेन सर्वेषामुच्चारितत्वमस्त्येवेति वाच्यम्, 'नापभ्रंशितवै' इत्यादिनाऽपभ्रंशत्वेनापभ्रंशानामपि तदुच्चारित्वादिति चेत्? न; तत्पदबोधत्वप्रकारतानिरूपितविशेष्यतासम्बन्धेन भगवदिच्छावत्त्वमेव शक्तिः, तस्याश्च पदार्थस्मृत्यन्यथानुपपत्तया कल्प्यमानसम्बन्धत्वस्यावश्यकत्वात् साधुसंस्कृते एव कल्पनम्, नापभ्रंशलाक्षणिकादौ, आरोपेणैवोपपत्तेः, वृत्त्यन्तरेण निर्वाहाच्च । किञ्च, यथा समवायैक्यमते1 अयं भावः -- समवायस्य एकत्ववादिनां तार्किकाणां मते स्पर्शसमवायस्य रूपसमवायस्य चैक्यात् सम्बन्धसत्वस्य सम्बन्धिसत्त्वनियामकतया 'रूपवान् वायुः' इत्याकारकं प्रत्ययनं स्यात् इति रूपवान् वायुरिति प्रत्यक्षे रूपप्रतियोगिकस्य समवायसम्बन्धस्य सत्ता अपेक्ष्यते, न तु समवायमात्रस्य, एवं वायौ समवायस्य सत्वेऽपि रूपप्रतियोगिकसमवायस्य अभावात् न दोषः । समवायस्य नानात्ववादिनां मते तु दोषलेशोऽपि नास्ति । एकस्मिन्नेव रूपप्रतियोगिकत्वानुयोगिकत्वोभयसत्त्वेऽपि तन्निष्ठसामानाधिकरण्यमात्रं न त्ववच्छेद्यावछेदकभाव इति न वाय्वादेरूपादिमत्त्वम्, तथा गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यताया ईश्वरेच्छाप्रतियोगिकत्वतीरानुयोगिकत्वोभयवत्त्वेऽपि न तयोरवच्छेद्यावच्छेदकभाव इति न तीरादेर्गङ्गादिपदवाच्यत्वम् । यद्वा, तीरादौ गङ्गादिपदजन्यबोधविषयतासत्त्वेऽपि तदंशे शुद्धविषयत्वत्वादिनैव तादृशविषयत्वादिप्रकारकत्वमीश्वरेच्छाया उपगम्यते, न तु गङ्गादिपदजन्यबोधविषयत्वत्वादिनापि तत्प्रकारकत्वम्, मानाभावात् । तदनभ्युपगमेऽपि तस्याः सर्वविषयत्वा1 ख. विषयत्वव्याधातात् । व्याघातात् । न च तथा सति बोधांशे गङ्गादिपदजन्यतानवगाहितया सर्वविषयकत्वानुपपत्तिः, तीरादिविसेष्यतानिरूपितप्रकारतवाच्छेदकघटकतया तदनवगाहित्वेऽपि बोधांशे स्वातन्त्रेण तदवगाहि [तया सर्वविषयकत्वात् त्वोपगमात् । एवञ्च तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेनेश्वरेच्छावत्त्वस्य
ईश्वरेच्छानिरूपिततादृशविशेष्यतावत्त्वस्य2 [ख. 'विशेष्यतावत्त्वस्य वा' इत्यस्याग्रे 'यद्वाशक्तित्वेनैव तद्ग्रहकारण् । अतिरिक्तश्कतिवादिमते तत्त्वेनैव तद्ग्रहात्' इत्यानुपूर्वीकः प्रकृतग्रन्थेनासम्बद्धः पाठो दृश्यते । वा तत्पदशक्यत्वरूपस्य संस्कृतनिरूपितस्यैव प्रवाहादावेव च स्वीकारेण नातिप्रसंङ्गः । न च 1एकदॉतरपक्षपातिनी युक्तिर्विनिगमना । विनिगमनाविरहः, प्रसिद्धत्वादेः सर्वदेशीयशिष्टपरिगृहीतत्वादेश्च विनिगमकस्य सम्भवात् । न चैवमपीश्वरेच्छायाः शक्तित्वे ईश्वरमविदुषां2 [मीमांसकानां बौद्धादीनां च। । बोधनापत्तिः, संकेतत्वेनैव तस्याः शाब्दबोधोपयोगित्वेक्षत्यभावात् । अत एवापभ्रं शादपि शाबेदबोधः, आधुनिकसंकेतस्य सत्त्वात् । न च ईश्वरसंकेतस्यापि गृहीतस्यैव तत्त्वं वाच्यम्, अन्यथा व्युत्पन्नानां बोधापत्तेः, तद्ग्रहश्चास्मादादिव्यवाहारादित्यावश्यकत्वादस्मदाद्युपदेशरूपसंकेत एव शक्तिरस्तु, किमीश्वरसंकेतकल्पनयेति वाच्यम्, एकार्थनिरूपितैकपदनिष्ठा नानापुरुषीया नाना संकेता विनिगमनाविरहेण तावतां शक्तित्वकल्पनापेक्षयैकस्मिन्नीश्वरसंकेत एव तत्त्वकल्पनस्योचितत्वात् । सृष्ट्यादिव्यवहारे भगवद्व्यवहारस्यैव3 ख. 'शक्तिग्राहकत्वेन इत्यत आरभ्य 'तस्यैव' इत्येतत्पर्यन्तः पाठो नास्ति । अतो नापभ्रंशानां साधुत्वम् । तड्ज्ञानञ्च शाब्दबोधे कारणमतः 'ग्राम ग्राम' इत्यादितो न बोधः । लाक्षणिकानामपि क्वचिच्छक्तिसत्त्वादस्त्येव तत्त्वमितयाहुः ।
ज्ञानप्रयत्नाभ्यां विनिगमनाविरहेण परिशेषे मानाभावात्, सर्वेषां तत्त्वे गौरवाच्च पदपदार्थयोः सम्बन्धान्तरमेव शक्तिः । सा च प्रागुक्तयुक्त्या संस्कृत एव, प्रवाहादिनिरूपितैवेति नापभ्रं शलाक्षणिकादीनां शक्तत्वम् ।
किञ्च, संस्कृतस्य सर्वदेश एकत्वाद्, भाषाणाञ्च प्रतिदेशं भिन्नत्वात् गौरवेण संस्कृतैः सह पर्यायतापत्त्या च न तासु शक्तिः । न च कल्प्यमानधर्मसयापि ज्ञानादिभिर्विनिगमनाविरहतादवस्थ्यम्, कल्पनस्य वैयर्थ्यापत्त्योपजीव्यविरोधेन कल्प्यमानधर्मैस्तदनङ्गीकारात् ।
यत्तु, ईश्वरसंकेतितत्वादिरूपं शक्तत्वमेव साधुत्वमित्युक्तम् । तत्, न; संकेतितत्वाद्यज्ञानेन साधुत्वव्यवहारात् । समासादौ साधुशब्दे संकेतादिसत्त्वे तस्यैव शक्तित्वेन शक्त्वापत्तेश्च, प्रकृतिप्रत्ययसमुदाये शक्त्यभावेन तस्याधुतापत्तेश्च । प्रत्येकशक्तिमादाय साधुत्वे च 'बाधते' इतायदिवद् 'बाधति' इत्यस्यापि साधुत्वापत्तेः, द्योतकेषु निपातेषअवव्याप्तेश्च । औषसंदानिकी शक्तिरेव द्योतनेति चेत्, प्रोत्तरजित्वो[द्योत्तरटत्वयोरविशेषेण विनिगमनाविरहाच्छक्ततापत्तौ व्यसज्यवृत्ति1अनेकाधिकरणवृत्तित्वं व्यासज्यवृतित्वम् । शक्तो वाश्रान्त्या अट्द्विर्वचनाद्यव्यवस्थापत्तिः । एतेन 'वृत्तिमत्त्वं तत्' इत्यादि परास्तम्, समासाद्यव्यापनात् । न च जातिविशेषस्तत्, कत्वादिना सङ्करापत्तेः । किन्तु व्याकरणनिष्पाद्यत्वम् ।
तज्ज्ञानं शाब्दबोधे कारममित्यप्युक्तम्, तदजानतामपि बोधात् । किन्त्वसाधुत्वनिश्चयः प्रतिबन्धकः । अत एव साधुतोऽप्यसाधुत्वनिश्चये न बोधः । न चैवमपभ्रं शानामशक्तत्वेनासाधुत्वेन च ततो बोधानापत्तिः, व्युत्पन्नस्य साधुस्मरणात्, अव्युत्पन्नस्य शक्तिम्रमादेव ततो बोधात् ।
व्युत्पन्नाश्च द्विविधा -- तत्तद्वाचकसंस्कृतविशेषज्ञानवन्तः, तद्विकलाश्च । तत्राद्यानां साधुस्मरणं स्पष्टमेव । द्वितीयानां सर्वनामस्मृतेस्तदर्थज्ञापकत्वेन रूपेण साधुस्मृतेर्वा बोध इत्यूह्यम् । न च पामराणां 1 ख. 'शक्तिग्रहे' इति पाठः, स च नितान्तं प्रकृतेऽपार्थकः । शक्त्यग्रहे कथं तद्भ्रमः, पूर्वंपूर्वभ्रमादुत्तरोत्तरभ्रमोपपत्तेः । न चातिरिक्तशक्त्यङ्गीकारेऽपि किं सा सर्वेषां शब्दानां सर्वैरर्थैः समं स्वीक्रियते, उत, कस्यचित्केनचिदेव । तथा हि -- आर्या यवशब्दं दीर्घशूके प्रयुञ्जते, तमेव च बुध्यन्ते, म्लेच्छास्तु प्रियङ्गौ प्रयुञ्जते, तमेव च बुध्यन्ते, इत्येवं नियमो न स्यात् । नहि दीपो रूपकाशनशक्ती रसमपि प्रकाशयतीति वाच्यम्, क्वचिच्छब्दस्य संकेतादपि
बोधकत्वेन दोषाङभावात् । एवञ्च म्लेच्छानां संकेतादेवबोध इति न दोषः । न च क्वचित्संकेतस्य, क्वचिच्छक्ते र्ज्ञानं कारणमिति व्यभिचारदेकस्यापि तत्त्वानापत्त्याः, गोरवेम च लाघवात्संकेतज्ञानत्वेनैव हेतुतेति वाच्यम्, विनिगमनाविरहेणातिरिक्तपदार्थसिद्धेः प्रामाणुकत्वे तत्प्रयुक्तगौरवस्यादोषत्वात्, अव्यवहितोत्तरत्वादिनिवेशेन व्यभिचारस्याप्यभावात्, म्लेच्छानां शक्तिभ्रमेणैव बोधाच्चेति ।
नवीना वैयाकरणास्तु, गौरवान्नातिरिक्ततत्सिद्धिः, इच्छाविशेषणतया प्रथमोपस्थितत्वेन ज्ञानस्यैव शक्तित्वसभवेऽतिरिक्ततत्कल्पने मानाभावाच्च1 ज्ञानजन्याभवेदिच्छा हीच्छाजन्या कृतिर्भवेत् ।
कृतिजन्या भवेच्चेष्टा चेष्टाजन्यं भवेत् फलम् ।।
इति क्रमदर्नात् ज्ञानस्य प्रायम्यं सिद्धम् ।
किञ्च, अतिरिक्तपदार्थस्याश्रयभेदेन विषयभेदेन च भिन्नत्वेनानन्तपदार्थकल्पनायां विपरीतगौरवापत्तेः । अन्यथा सर्वेभ्यः सर्वबोधापत्तिर्दुर्वारा । 'पटपदं घटत्वविशिष्टघटनिरूपितशक्तिमत्' इति व्यवहारापत्तेश्च । न च घटत्वविशिष्टघटनिरूपितत्वविशिष्टशक्तेर्न पटपदे सत्त्वमिति वाच्यम्, विशिष्टस्यानतिरिक्त्वात् । अत एव नव्यमते समवायनानात्वससिद्धिः ।
एतेन, तद्वाचकत्वं तद्विषयकशाब्दधीजनकतावच्छेदकधर्मवत्त्वम् । स च धर्मो बहुन्यादौ दाहाद्यनुकूलशक्तिवत् पदार्थान्तरमेव । तथाहि -- तृणारणिमणीनां वह्नित्वावच्छिन्नं प्रति कारणत्वे व्भिचारात्, जन्यतावच्छेदकतया वह्निनिष्ठवैजात्यत्रयमभ्युपगम्य कार्यकारणभावत्रयाभ्युपगमे गौरवात्, एकातिरिक्ता वह्निकारणतावच्छेदिका शक्तिस्तृणादौ यथा स्वीक्रियते तथेहापि नानापर्यायैरेकार्थबोधनात् तेषां तदर्थबोधत्वावच्छिन्नं प्रति कारणत्वे व्यभिचारात्, अव्यवहितोत्तरत्वसम्बन्धेन 1ख. 'तत्तत्कारणवैशिष्ठ्यानिवेशे गौरवात् सकलपर्यायेष्वेकाऽतिरिक्ततदर्थबोधः' इति पाठस्त्रुटितः । तत्तत्कारणवैशिष्ट्यनिवेशे गौरवात् सकलपर्यायेष्वेकाऽतिरिक्ततदर्थबोधकारणतावच्छेदकशक्तिसिद्धिः ।
इयांस्तु विशेष- --- दाहाद्यनुकूलशक्तेः स्वरूपसत्या एवोपयोगः, असयास्तु ज्ञाताया एवेति तड्ज्ञाननिष्ठशक्त्यैव तद्वाचकत्वव्यवहारान्नातीतानागतपदादौ दोष इति मीमांसकमतमप्यपास्तम् ।
किञ्च, लाक्षणिकस्यापि शाब्दबोधजनकत्वेन तत्रापि तादृशधर्मकल्पनापत्तौ तस्यापि शक्तत्वापत्तिः । न च लाक्षणिकं नानुभावकम्, किन्तु लाक्षणिकपदघटितवाक्ये तद्घटकार्थान्तरवाचकमेव पदं स्वार्थस्येव तदन्वयप्रतियोगिलक्ष्यार्थस्याप्यनुभावकम्, अतो न दोष इति वाच्यम्, तर्हि घोषादिपदस्य गङ्गातीरादिरूपार्थानुभावकतावच्छेदकशक्तिमत्त्वेन तद्वाचकतापत्तेः । शक्तपदाघटितवाक्यस्यानुभावकतानापत्तै1 ख. अनुभावकतापत्तेश्च । श्च । न च लक्ष्यार्थस्य न शाब्दबोधे प्रवेशः, अपि तु स्मृतस्य तस्य समभिव्याहृतपदार्थेऽसंसर्गाग्रहमात्रम्, अतो न दोष इति वाच्यम्, सर्वत्रैवमेवापत्तौ शाब्दबोधोच्छेदापत्तेः, लक्ष्यार्थोपरागेण 'शाब्दयामि' इत्यनुव्यवसायानापत्तेश्च, विशिष्य तत्पदार्थान्विततत्तदर्थबोधे तत्तत्पदसाकाङ्क्षत तत्पदज्ञानत्वेनावश्यक्लृप्तकारणतयैवोपपत्तौ तद्विषयकशाब्दत्वावच्छिन्नं प्रति शक्तिपुरस्कारेण 2ख. तदवाचकपदज्ञानस्य ।यत्किञ्चिद्वाचकपदज्ञानस्य हेतुत्वे मानाभावाच्च । तस्माल्लात्रणिकमप्यनुवकमेव । किञ्च, तृमादीनामेकशक्तिमत्त्वेन हेतुत्वेऽरणिसम्बन्धसत्त्वे पूत्कारसत्त्वे मन्थनासत्त्वे वह्नित्वावच्छेन्नोत्त्पत्त्यापत्तेः । तादृशजातित्रयमभ्युपेत्य प्रत्येकं कार्यकारणभावत्रये तु तृणत्वावच्छिन्नेन फलजनने एव फूत्कारस्य सहकारित्वाभ्युपगमान्न दोषः । एवं दार्ष्टान्तिकेऽपि घटपदीयशक्तिग्रहे कुम्भपदादगृहीतशक्तिकादपि बोधापत्तिः ।
यदि तु, 'शक्तिमत्त्वेन गृहीततत्तत्पदज्ञानत्वेन हेतुता इत्युच्यते, तर्हि, अनन्तकार्यकारणभावापत्तिः, व्यभिचारवारणाय 1 घटपदश्रवणाव्यवहितोत्तरजायमानकम्बुग्रीवादिमदर्थं प्रति घटपदस्य कारणता, कलशपदश्रवणाव्यवहितोत्तरजायमानकम्बुग्रीवादिमर्थं प्रति कलशपदस्य कारणता,
इत्याकारकाव्यवहितोत्तरत्वाविवेशरूपः । यत्नश्चावश्यक इत्यन्यत्र विस्तरः ।
न च तर्हीश्वरज्ञानमेव तथाऽस्तु, एकस्यैव भगवज्ज्ञानस्य सर्विषयकत्वेन, शब्दार्थव्यवस्थानुपपत्तेः । प्रागुक्तरीत्या वारणन्तु न युक्तिसहम्, प्रसिद्धेरनियतत्वात्, लाक्षणिकेषु सर्वेदेशशिष्टरिगृहीतत्वाच्च, तत्तद्देशनियतसंस्कृतेषु सर्वदेशशिष्टपरिगृहीतत्वाभावेन शक्तिसिद्ध्यनापत्तेश्च । किञ्च, ज्ञानस्य शक्तित्वे बोधकत्वविशेषप्रकारकज्ञानत्वेन हेतुत्वं वाच्यम्, तदपक्षया बोधकत्वज्ञानत्वेन हेतुत्वे लाघवात्, लौकिकानां गवादिपदेभ्यस्तादृशे ज्ञानग्रहाभलवेऽप्यर्थशाब्दधीजनकत्वग्रहानन्तरमेव बोधाच्च तद्विषयकबोधजनकत्वमेव शक्तिः1 ख. 'न च पदर्यार्थधीजनकत्वमर्थेन सम्बन्धं विनाऽनुपपन्नमिति क्लृप्तत्वात् संकेतमेव तत्त्वेन कल्पयतीति वाच्यम्, दरडावपि घ, इत्यधिकः पाठः । स च प्रकृताननुकूलोऽस्पष्टाक्षरश्चेत्युपेक्षितः । । न चाधुनिकदेवदत्तादिपदे संकेतज्ञानादेव बोधक एतत्कारणताया व्यभिचारः, विशेषणतया तच्छाब्दधीजनकत्वास्यापि तत्रावगाहनेनादोषात् । न च स्वान्त्र्येण तज्ज्ञानमावश्यकम्, अन्यथा 'नेदं तद्धीजनकम्' इति जानतः, 'अस्माच्छब्दादयमर्थोबुद्धोऽनेन' इति जानतस्तद्बोधापत्तेरिति वाच्यम्, तत्र बाधेन त्धीजनकत्वस्यानवगाहनात् । अन्यथा 'नेदं रजतम्' इति जानतो भ्रान्तिज्ञस्य पुरोवर्तिनि तुल्ययुक्त्त्या रजतत्वभाने भ्रान्तत्वापत्तेः । संकेतज्ञानाद् बोधस्थलेऽपि कार्यकारणभावलाघवानुरोधेन मानसस्य तद्धीजनकत्वज्ञानस्य कल्पनान्न दोष इत्यपरे ।
न च जनकत्वम् अनन्यथासिद्धत्वे सति पूर्ववर्तित्वम् । अन्यथासिद्धत्वञ्च अवश्यकल्प्यपूर्ववतिंन एव कार्यसम्भवे तत्सहचरितत्वम् । तेन दण्डरूपरासभादीनां न कारमत्वम् । नियतत्वांशनिवेशे तु न फलम्, तद्व्यावर्त्यस्य रासभादेरन्यथासिद्धत्वेनैव वारणात् । अन्वयव्यतिरेकौ चास्य ग्राहकौ, व्यबिचारज्ञाने सति अन्वयव्यतिरेकाग्रहमप्रयुक्तकारमत्वाग्रह इति तस्यानेकपदार्थघटितस्य कारणतावच्छेदकत्वे गौरवमिति वाच्यम्, तवापीच्छाविशेषमतया तस्य प्रविष्टत्वेन गौरवस्य तुल्यात्वात्, जनकत्वस्य अखण्डोपाधिरूपस्य स्वीकाराच्च2, ख. 'शक्तित्वस्यैव कारणतावच्छेदकत्वाच्चच । तत्त्वन्तु अखण्डोपाधिरूपम् इत्यधिकः पाठः ।' शब्दत्वसमानाधिकरणजनकतासम्बन्धेन बोधस्यैव शक्तित्वाच्च । पूर्वोक्तसम्बन्धेन शक्तिमान् शक्त इत्युच्यते, पूर्वोक्तसम्बन्धावच्छिन्नबोधविषयः शक्य इत्युच्यते । तस्य च तत्तत्पदार्थविषयस्य प्रतिपदं भिन्नस्य क्लृप्यत्वाद गौरवं स्पष्टमेव । कारणतावच्छेदकभेदात् तस्य भिन्नत्व आवश्यके लाघवात् कारणतावच्छेदकधर्मस्वरूपैव कारणता । न चैवं सत्यभेदे अवच्छेद्यावच्छेदकभावानुपपत्ति, एकरूपेण तदनुपपत्तावपि कारमतात्वेनावच्छेद्यत्वस्य स्वरूपोऽवच्छेदकत्वस्य चाभ्युपगमे क्षत्यभावात् । कारणतात्वस्यातिरिक्तस्य सर्वैरप्यङ्गीकारादितिमतेऽपि नास्माकं क्षतिः, कारणतावच्छेदकधर्मस्य यत्कारणतात्वेन ज्ञानं तदेव शक्तिज्ञानमिति स्वीकारात् ।
एवञ्चेदृशजनकत्वस्यापभ्रंशेष्वपि सत्त्वेन तेषामपि शक्त्यव बोधकत्वम् ।
यत्तु, साधुस्मरणाच्छक्तिभ्रमाद्वा बोध इति तत्, न साधुस्मरणं विनापि व्युत्पन्नानां बोधानुभवात् । भवदुक्तसंस्कृतैरयमर्थो न बुद्धः, किन्त्वेतदुक्तभाषयेति व्युत्पन्नव्यवहाराच्च ।
तत्तत्पदपदार्थघटितेश्वरेच्छाया घटादिपदवृत्तित्वेन गृहीताया विभिन्नानुपूर्वीकत्वरूपविशेषदर्शनसत्त्वेन साधारणधर्मदर्शनाभावेन च गगरीपदादौ भ्रमानुपपत्तेश्च । अत एव तत्तत्पदार्थघटितव्याप्तेर्न भ्रम इति तत्र तत्र ?0नैयायिकाः?0 । अतिरिक्तपदार्थरूपाया गृहीतायाः प्रागुक्तयुक्त्यैव गगरीपदादौ ?0एकत्वेन?0 तत्र शक्तेर्भ्रमोऽनुपपन्नः1 ख. 'यदि तु केनचित् गावीति बंडुवेत्यादिवत् गौरिति साधुशब्दस्मरणात् प्रयोज्यस्य बोधे घटस्थस्य गाविशब्दादे वारयबोध इति भ्रमेण शक्तिमपपादयितुं शक्यते तन्मूलन्यषामपि इत्युच्यते तथापि' इत्यधिकः पाठः । । किञ्च, विनिगमनाविरहादपि भाषायां शक्तिः सिध्यति । न च भाषाणामनेकत्वम्, संस्कृतवन्महाराष्ट्रभाषायाः सर्वंदेश एकत्वेन तत्र शक्तेर्दुष्परिहरत्वात् । एतेन भाषान्तरैर्विनिगमनाविरहान्नैकत्र श्कतिरित्यपास्तम्, संस्कृतस्यापि
प्रत्येकभाषाभिर्विनिगमनाविरहात् । न च सकलदेशशिष्टपरिगृहीतत्वं विनिगमकम्, एवं हि दुश्च्यवनशब्दस्य इन्द्रेऽनेडमूकादिशब्दानां मूकवधिरादौ शक्तिसिध्यनापत्तेः शिष्टैस्तदप्रयोगात् । अत एवाप्रयुक्तत्वदोषावसरे दुश्च्यवनादिशब्दानुदाजहार ?0प्रकाशकृत्?0 । न च कोषप्रामाण्येन तत्र तत्कल्पम्, शक्तिभ्रमेण कोशकृतां तत्पाठ इत्यस्यापि कल्पयितुं शक्यत्वात्, वाचकस्य व्यञ्जकत्वे आलङ्कारिकाणां प्राकृतादिभाषोदाहरमबलेन तत्रापि शक्तिसिद्ध्यापत्तेश्च, तत्तद्देशीयशिष्टानां तत्तद्भाषासुजायमानस्य निर्विचिकित्सशक्तत्वप्रत्ययस्य बाधकं विना ब्रमत्वायोगाच्च, भ्रमस्यासंभवाच्च । किञ्च लाघवेन जनकत्वस्यैव शक्तित्वे सिद्धे तस्य चापभ्रंशेष्वपि सत्त्वात् शक्ततं दुर्वारम् । अपभ्रंशाद् बोधस्य त्वयाप्यङ्गीकारात् । शक्तिग्राहकव्यवहारादेस्तुल्यत्वाच्च । एतेन,'साधुशब्दमात्रनिष्ठं बोधकतं शक्तिः' इत्यपास्तम् । न च तेष्वसाधुत्वनिश्चयेन ततो बोधानापत्तिः, असाधुत्वनिश्चयस्य तत्प्रतिबन्धकत्वादिति वाच्यम्, तत्सत्त्वेऽपि संस्कृतमविदुषां प्राकृतादितो बोधेन तस्याप्रतिबन्धकत्वात् . न च तत्र मानसो बोधः, अन्यत्रापि तथात्वापत्त्या शब्दप्रामाण्योच्छेदप्रसङ्गात् । तत्सिद्धमपभ्रंशानां वाचकत्वम्, साधुत्वन्तु परं नास्ति ।
ननु किमिदं साधुत्वम्, यदपभ्रंशेषु नास्ति । न च व्याकरणनिष्पाद्यत्वम्, अनुकरणे शब्दमात्रस्य व्याकरणनिष्पाद्यत्वेन सर्वत्र साधुत्वापत्तौ साध्वसाधुविभागोच्छेदापत्तेः । न च यः शब्दो यत्रार्थे व्याकरणव्युत्पन्नः, स तत्र साधुः, तद्व्युत्पननग्रहश्च क्वचित् स्पष्टोपलभ्यमानव्याकरणात्, क्वचिच्छिष्टप्रयोगकोशादिभिरनुमानात् । तस्य च बाहुलकादिना संग्रहः । यथा पुष्पवन्तपदं साहित्यावच्छिन्नोभयविषयकार्थबोध एव साधुः; नैकरतार्थमात्रबोधे । यथा वा दारशब्दो बहुवचनान्त एव साधुः, नैकवचनान्तः। यथा वा वच्धातुः तिप्तसोः साधुः, नान्तिपर इति वाच्यम्, लाक्षणिकानां तत्तदर्थे व्यत्पादनविरहेण तदर्थे तेषां साधुत्वानापत्तेः, इति चेत् ? न; शिष्टप्रयोगादिभिस्तत्तदर्थेऽपि तेषां व्याकरमव्युत्पाद्यत्वानुमानेनाक्षतेः । आधुनिकलाक्षणिकानान्त्वसाधुत्वमिष्टमेवेत्याहुः ।
परे तु, शक्यसम्बन्धित्वेन गृहीतार्थबोधकत्वस्य लक्षणात्वेन शक्यार्थबाधज्ञानस्य लक्षमाजन्यबोधे कारणत्वेन च लक्षणास्थले प्रथमं शक्यबोधस्यावश्यकतया तमर्थमादाय साधुत्वोपपत्तेः । अत एव 'गङ्गायां घोषः' इत्यादौ गङ्गापदस्य तीरपरत्वेऽपि स्त्रीप्रत्ययादि संगच्छते, प्रथमोपस्तितान्तरङ्गार्थमादायैव शास्त्रप्रवृत्त्याऽन्तरङ्गत्वात् स्त्रीत्वादिप्रयुक्तकार्यस्यैव प्रवृत्तेरित्याहुः ।
न चेदृशसाधुत्वस्य क्वोपयोगः ? तज्ज्ञाने शाब्दहेतुतायाः, तदभावनिश्चये तत्प्रतिबन्धकताया वा; प्राङ्निरासादिति वाच्यम्, 'एकः सभ्दः सम्यक् ज्ञातः सुप्रयुक्तः, स्वरगे लोके कामधुग्भवति, साधूनेव प्रयुञ्चीत' इत्यादिबोधितपुण्यजनने तदुपयोगात् । तत्तदर्थे व्याकरणबोधिततत्तद्व्यत्पत्तिज्ञानपूर्वकं साधुशब्दप्रयोगाद्धि धर्म इति सिद्धान्तः । एवञ्च पुण्यजनकतावच्छेदकं तत्तदर्थे व्याकरमव्युत्पाद्यत्वं साधुत्वमिति फलितम् । इदमेवाभ्युदययोग्यतापदेनोच्यते ।
यद्वा, व्याकरणव्यङ्ग्यः शब्दनिषअठः पुण्यजनकतावच्छेदको जातिविशेषः साधुत्वम् । अत एव 'यदिह परिनिष्ठतं तत्साध्वित्यर्थापत्तिलभ्यवाक्यात्साधुत्वबोधकं व्याकरणम्' इतितत्र तत्र भाष्याद्युक्तं संगच्छते । नहि व्याकरणव्युत्पाद्यत्वस्य साधुत्व इदं सङ्गच्छते, तस्य शास्त्रबोध्यत्वासंभवात् । एवञ्च व्याकरणव्युत्पत्तिज्ञानपूर्वकसाधुत्वेन ज्ञातसाधुशब्दप्रयोगाद्धर्म इति लभ्यते । अन्यथा शास्त्रेण साधुत्वबोधनस्य वैयर्थ्यं स्पष्टमेव । इदमेवाभिप्रेत्य 'समानायामर्थावगतौ शब्दैश्चापशब्दैश्च शास्त्रेण धर्मनियमः' म. भा. प. वा. 4,48 इत्यादि भाष्याद्युक्तं सङ्गच्छते । न च कत्वादिना सङ्करः, गुणगतजातौ तस्यादोषत्वात् । तथाहि -- यस्य देवदत्तादेरनोष्ट्या वर्णाः पूर्वं श्रुताः, तस्य कुड्यादिव्यवहितस्यौष्ठ्यवर्णेषु श्रुतेषु यदनुमानं जायते, तदोष्ठ्यानोष्ठ्यसाधारणतदनुमापकजात्यङ्गीकारे सत्येव घटते, न तु तत्तद्व्याप्यनानाजातिस्वीकारे,
ओष्ठ्यमात्रवृत्तिजातेः1 ख. ओष्ठ्यासाधारणजातेः । प्रागगृहीतत्वेनानुमितिसामग्रीवैकल्यात् ।
वस्तुत उपाधिसङ्करवदेव जातिसङ्करोऽपि सर्वत्रास्तु, दूषकताबीजानिरुक्तः2 ख. 'दूषकता ... निरुक्तेः' नास्ति । अखण्डोपाधिरेव वास्तु ।
केचित्तुं, यत्रार्थे योऽनादिप्रयुक्तः, स तत्रार्थे साधुः । न चेदमाधुमिकसंज्ञस्वव्याप्तम्,
व्यवहाराय नियमः यञ्ज्ञायासञ्ज्ञिनि क्वचित् ।
नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ।।
इत्यादि गोत्रसंज्ञासूत्रस्थ 4।1।162 भाष्यादिसंमतपत्रे 1'पौत्रप्रभृतेर्गोंत्रसंज्ञायां यस्यापत्यविवक्षा, तस्य पौत्रप्रभृतेर्गोत्रसंज्ञा भवतीति वक्तव्यम् । गर्गोऽपि हि कञ्चित् प्रति पौत्रः कुशिकोऽपि तत्र माभूदिति । तत्तर्हि वक्तव्यम् । न वक्तव्यम् । समर्थानां प्रथमाद् वा समर्थानां प्रथमस्य यदपत्यं पौत्रप्रभृतीति विज्ञायते' इति हि तत्रत्यं भाष्यम् । तासामप्यनादित्वेन दोषाभावात् । स्वेच्छया यञ्ज्ञाः क्रियन्त इति पक्षे तु आधुनिकसञ्ज्ञानां साध्वसाधुबहिर्भाव एव । न चासाधुबहिर्भावः3 ख. 'न चासाधुबहिर्भावः' इति नास्ति । कथम् तत्तदर्थेऽनादिप्रयुकते शक्तिवैकल्यादिनाऽन्यथोच्चारणविषयत्वस्यैवासाधुत्वपदार्थत्वात् । अत एव सकलदेशशिष्टा यज्ञादिषु तत्तदाधुनिकसाङ्केतिकनामग्रहणे प्रत्यवायं न मन्यन्ते । अन्यथा 'साधीनेव प्रयुञ्चीत, न साधन्, इत्यादिनिषेधसद्भावात् तदापत्तर्दुवारा । एषैव च देशभाषानुसारेम क्रियमाणानाम् 'कूची' 'मंची' 'अप्पि' 'कोंडा' इत्यादिनामधेयानां गतिः । ध्वनितं चेदम् "ऋलृक्" मां. सू. 2 सूत्रे भाष्य इत्याहु ।
नन्वेवं भाषाशब्दानामर्थवत्त्वात्प्रातिपदिकत्वे सुबुत्पत्तौ व्याकरमव्युत्पाद्यत्वात् साधुत्वप्रसङ्ग इति चेत् ? न ; लोकतोऽर्थबोधार्थ प्रयुक्ते शब्दे हि शास्त्रप्रवृत्तिः । एतन्मूलकमेवानभिधानान्न भवतीत्यादिकम् । स्पष्टञ्चेदाम् "सिद्धेशब्दार्थसम्बन्धे" 1।1। आ. 1 ख. 1 "लोकतोऽर्थप्रयुक्ते" [1 । 1। आ. - 1ख. 2 इत्यादिवार्त्तिकभाष्यादौ । नहि प्रकृतिप्रत्ययसमुदायरूपेण वचन्तीत्यादिवद्भाषाशब्दानां प्रयोगः शिष्टानाम् । कॢञ्चैवम्भाषाशब्देभ्यः सुबुत्पत्तौ भाषात्वस्यैव भङ्गापत्तिरितिदिक् ।
तत्सिद्धं शब्दनिष्ठतत्तदर्थविषयकधीजनकत्वमेव शक्तिः । यथा चैवं सति न लक्षणाद्युच्छेदः, तथानुपदमेव निरूपयिष्याम इति प्राहुः ।
नन्वगृहीतशक्तिकस्य बोधादर्शनात् प्राङ्निरूरितशक्तिग्रहो बोधो सहकारीवाच्यः, तत्र तदग्रहः कथमिति चेत्, प्रथमतः प्रयोज्यप्रयोजकवृद्धव्यवहारात् तद्ग्रहः, अनन्तरञ्च कोशव्याकरणाप्तवाक्यादितोऽपीत्यन्यत्र विस्तरः ।
सा चेयं शक्तिस्त्रिधा - रूढिः, योगः योगरूढिश्च । तत्र यत्पदे यदर्थनिरपितं समुदायमात्रे बोधकत्वम्, तत्पदे सा तदर्थनिरूपिता रुढिः । समुदायमात्रेबोधकत्वञ्च तदघटकावयवानां पृथक् स्वार्थनुपस्थापकत्वम् । यथा "मणिनूपुरादौ" । यत्पदीयावयवानामेव यदर्थबोधकत्वम्, सा योगशक्तिस्तदर्थनिरूपिता । यथा पाचकादिपदे । अश्वगन्धादिपदे त्वौषधिविशेषरूपार्थबोधनिरुपिता रूढिः । अश्वसम्बन्धवत्तया वाजिशालादिबोधे तु योगमात्रम् । इदमेव यौगिकरूढमित्युच्यते1 नैयायिकमते शक्तेश्चातुर्विध्यमनुश्रित्य चतुर्धां पदम् --- यौगिकम् रूढम् यौगरूढम् यौगिकरूढमिति, तदनेन प्रत्युक्तम् । । यत्र तदघटकीभूतावयवबोध्यार्थान्वितार्थनिरूपितं समुदायनिषअठबोधकत्वम्, सा योगरूढिः । यथा पङ्कजादिपदे । तत्र
पङ्तजनिकर्तृत्वरूपावयवार्थान्वितपद्मत्वविशिष्टबोधकतायाः समुदाये स्वीकारात् । अन्यथा पङ्कजपदान्नियमेन तदुपस्थितिर्न स्यात् । न च तद्घटकावयवस्य डप्रत्ययरूपस्य पद्मत्वविशिष्टे लक्षणैवास्ताम्, युगपद् वृत्तिद्वयस्य 'गङ्गायां मोनघोषौ स्तः' इत्यादौ परैरपि स्वीकारात् किं समुदायशक्त्या ? इति वाच्याम् अवयवेषु विनिगमनाविरहात् । किञ्च, पङ्कजपदोत्तरविभक्त्यर्थस्य पद्मत्वविशिष्टेऽन्वयानापत्तिः, प्रत्ययानां हि प्रकृत्यर्थान्वितस्वार्थबोधकत्वम्, न संनिहितार्थगततद्बोधकत्वमिति प्रपञ्चप्रकृत्यर्थान्वितस्वार्थबोधकत्वम्, न संनिहितार्थगततद्बोधकत्वमिति प्रपञ्चयिष्यते । किञ्चैकाक्षरकोशावधृतशक्तिककखादिवर्णानां लक्षणयैवोपपत्तौ वकनखादिशब्दानामपि समुदायशक्तिर्विलीयेत । शिष्यानां निर्विचिकित्सशक्तत्वप्रत्ययात्तत्र तथेति चेत्, प्रकृतेऽपि तुल्यम् । न च कदाचिद्योगशक्त्या पङ्कजनिकर्तृत्वमात्रस्य, समुदायशक्त्या च पद्मत्वविशिष्टमात्रस्य ; बोधापत्तिः, अशअवगन्धादिपदात् केवलोषधिविशेषकेवलवाजिशालादिबोधवदिति वाच्यम्, आनुभविक्याः शक्ते फलबलेन विशिष्टबोधनिरूपिताया एव स्वीकृत्या प्रत्येकविषयान्वयबोधपत्त्यसम्भवात् ।
यत्तु, 'रूढेः प्रतिबन्धकत्वान्न केवलयौगिकार्थबोधः' इति । तस्यायम्भावः -- अवयवशक्त्या पङ्कजपदजन्यपद्मत्वानवच्छिन्नविशेष्यताकप्ङ्कजातत्वान्वयबोधे शक्तं पङ्कजपदमित्येवं रूढिज्ञानस्य विरोधित्वम् । अत एव तादृशरूढिज्ञानकाले कर्दमजादिशब्देभ्यः कुमुदबोधेऽपि पङ्कजपदाच्च शक्तिभ्रमादिभिः पङ्कजातत्वेन कुमुबोधेऽपि कुमुद एव पदमत्वेन रूढिभ्रमदशायां तेन रूपेण कुमुदबोधेऽपि च न दोष इति तत्, न ; 'पदमवत् कुमुदमपि समुदायशक्यम्' इति धादशायां पङ्कजातं कुमुदमिति अन्वयबोधानापत्तेः ।
किञ्च, एवयवशक्त्युपस्थितिदशायामपि केवलरूढ्यर्थबोधस्यानिवारितत्वेन तदानीमपि स्थलपद्मे 'पङ्कजम्' इति प्रयोगापत्तिः ।
अथ 'दृष्ट्वा सहस्रनयनो न वृवापि नृप्तः ' इत्यत्र वृषपदस्य पौनरुक्तापत्तिः, सहस्रनयनपदेनैव योगरूढेन तेन रूपेणापि बोधात् । 'कह्लारकैरवमुखेष्वपि पङ्कजेषु' इत्यादौ कुमुदादिविशेष्यकपङ्कजनिकर्तृत्वबोधानापत्तिः । 'भूमौ पङ्कजमुत्पन्नम्' इत्यादौ केवलरूढ्यर्थस्य च बोधानापत्तिरिति चेत्; अत्राहुः -- तत्तत्तात्पर्यग्रहस्य तत्तत्पदसमभिव्याहारस्य वा तत्तद्रूढ्यर्थयोगार्थबोधे प्रतिबन्धकत्वस्वीकारात्; तत्तत्समभिव्याहारस्य केवलतत्तदर्थबोधे कारमत्वस्वीकाराद् वा न दोषः । न चैवमपि 'सहस्रनयनो वृषा' इत्यत्र पौनरुक्त्यनुद्वारः, एकेनैव शक्तिभ्यामुभयार्थबोधसम्भवादिति वाच्यम्, एवं हि सहस्रनयनत्वस्सय रूढ्यर्थे विशेषमतयोद्देश्यस्यावलोकनप्रकर्षस्य पङ्कजाक्षीत्यादौ पङ्कजनिकर्तृत्वप्रतीतिकृतनिन्दाया इवाप्रतीत्यापत्तेः । एवञ्च प्राधान्येन सहस्रनयनत्वप्रतीत्यर्थं तताक्तिरिति न दोषः । स्थितस्येयं गतिः । यत्र तु केवलयोगरूढस्यैव प्रयोगः, प्रकरणादितस्तादृशातिशयादिप्रतीतिश्च, तत्रपर्यायान्तरानुपादानपूर्वकं तत्प्रयोगसामर्थ्येन तदवगतिर्बोध्या । अत एव पङ्कजाक्षीत्यादौ निन्दाप्रतीतिर्नापाद्या, उपमानत्वेन प्रसिद्धत्वादित्याहुः ।
'अभ्यतरार्थमात्रपरत्वे लक्षणा' इत्यपि ?0कश्चित्?0 ।
3
सा चेयं शक्तिः संयोगादिभिर्नार्थशब्देषु नियम्यते । यथा 'सशङ्खचक्रो हरिः' इत्यादौ शङ्खचक्रसंयोगाद्धरिशब्दस्य विष्णौ । तत्र नियमनं नाम उपस्थितयोर्द्वयोरर्थयोरेकतरमात्रार्थविषयकतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकशाब्दबोधजननम्, नानार्थशब्दजशाब्दबोधे तात्पर्यनिर्णयस्य हेतुत्वादित्येके ।
प्रकरणादेकपरार्थोपस्थितिप्रतिबन्धकतेति तु ?0कश्चित्?0 ।
अपरे तु, नियन्त्रणं नाम अपरार्थस्य प्रतमतः शाब्दबोधजननम्, तदनन्तरमस्यापि । न च द्वयोर्बोधे तात्पर्यज्ञानस्य कुत्रोपयोगः, 'अस्मिन्नर्थेऽयं शब्दः प्रमाणम्, अयमर्थः प्रमाणवेद्यः' इति निर्णयद्वारा प्रवृत्तौ तदुपयोगः, न तु शाब्दबोध इति गृहाण । अत एवास्मादर्थबोधद्वयं जायते, वक्तुः परं क्व तात्पर्यमिति न विद्म इत्यनुभवः ।
एतेन प्रकरणादिवशात् प्राकरणिकेऽर्थे तात्पर्यविषयतया निर्मीतेऽतात्पर्यविषयीभूत्दवितीयार्थबोधो व्यञ्जनयेत्यपास्तम्, प्रागुक्तरीत्या शक्त्यैवोपपत्तौ तत्र व्यञ्जनाकल्पनस्य गुरुत्वात् । यत्र तु द्वितीयार्थस्य नैव बोधः, तत्र तदीयशक्त्यंशेऽनुद्बुद्धसंस्कारत्वान्न दोषः । एतेन 'सुरभिमांसं भुङ्गवते' इत्यादेः श्यालकादि प्रयुक्तादेव द्वीतीयाश्लीलार्थबोधः, न पुत्रादिप्रयुक्तादिति व्यवस्थाप्युपपन्ना ।
किञ्च, व्यञ्चनावादिनापि सर्वस्य द्वीतीयार्थबोधवारणाय वक्तृबोद्धव्यादिवैशिष्ट्यप्रतिभादीनामवश्यं व्यङ्ग्यप्रतिभाहेतुत्वमङ्गीकार्यम्, अस्माभिश्च तेषां द्वितीयार्थशक्त्युद्बोधकत्वमङ्गीकार्यमिति प्राहुः ।
इति शक्तिनिरूपणम् ।
}}