वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/धात्वर्थनिर्णयः
← मङ्गलाचरणम् | वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः) धात्वर्थनिर्णयः [[लेखकः :|]] |
लकारार्थनिर्णयः → |
।। फलव्यापारयोरिति ।।
फलं च व्यापारश्चैतयोरर्थयोर्वाचकत्वेन धातुः स्मृतः। फलव्यापारयोर्वाचको धातुः। फलव्यापारौ च धातुवाच्यावित्यर्थः। तिङस्तु आश्रये स्मृताः। प्रत्यासत्त्या फलाश्रये कर्मणि व्यापाराश्रये कर्तरि च वाचकत्वेन तिबादयः स्मृताः। कर्मकर्तारौ तिबादिवाच्यावित्यर्थः। भावार्थकतिङां धात्वर्थानुवादकमात्रत्वान्न तेऽत्र ग्राह्याः। फलं प्रति व्यापारः प्रधानम्। फलनिरूपितविशेष्यतावान् व्यापारः, फलं च तद्विशेषणमित्यर्थः। तिङर्थस्तु, कर्तृकर्मणी प्रत्यासत्त्या फलव्यापारयोर्विशेषणम्। फलव्यापारौ विशेष्यौ कर्तृकर्मणी च तद्विशेषणे इत्यर्थः। इत्यतीव संक्षिप्तः कारिकार्थः।
ननुयल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य। तल्लिङ्गं तद्वचनं सैव विभक्तिर्विशेषणस्यापि।। इत्यभियुक्तोक्तेर्विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमलाभात्स्मृता इत्यस्य विशेष्यवाचकपदोत्तरवचनविरुद्धवचनान्तस्य धातुरित्यत्रैकवचनान्ते विशेष्येऽन्वयो न स्यादत आहधातुरित्यत्रेत्याद्यन्वय इत्यन्तम्। अनन्वितार्थकविभक्त्यादित्यागेनान्वययोग्यविभक्त्यादिकल्पनं विपरिणामः। स्मृतशब्दोत्तरमेकवचनं प्रयुज्योच्चारणं वचनविपरिणामोऽत्रेत्यर्थः। विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनिममादेव `शुक्लः पटाः' इत्यादौ विशेष्यविशेषणभावेन नान्वयबोधः। न चलिङ्गसंख्याविभेदेऽपि विशषणविशेष्यता। विभक्तिः पुनरेकैव विशेषणविशेष्ययोः।। इति न्यायात् `वेदाः प्रमाणम्' इत्यादाविव प्रकृतेऽपि स्मृता इति धातुरित्यत्र विशेषणं स्यादिति वाच्यम्। यत्र विशेष्यवाचकपदोत्तरविभक्तिबोध्यसंख्याविरुद्धसंख्याया विवक्षाऽऽवश्यकी तत्रैव तन्न्यायप्रवृत्तेः। यथाविशेष्यवाचकपदं `प्रमाणम्' इति, तत्रत्यविभक्तिबोध्यसंख्याएकत्वं तद्विरुद्धसंख्या वेदा इति बहुत्वसंख्या तद्विवक्षायास्तत्राऽऽवश्यकत्वेन लक्षणसंगतिः। वेदाः प्रमाणमित्यव वेदेषु एकजातीयप्रमाणत्वं बोधयितुमिष्टम्। तच्च वेदगतबहुत्वसंख्याविवक्षां विनाऽनुपपन्नामित्यादि लुमञ्जूषायां सुबर्थविचारे शेषे द्रष्टव्यम्। प्रकृते स्मृता इति बहुत्वसंख्याविवक्षायां कारणाभाव इति भावः।
फलव्यापारयोरिति द्विवचननिर्देशेन फले व्यापारे च धातोः पृथक्शक्तिरिति सूचितं, न तु फलावच्छिन्नव्यापार एका शक्तिः। तथा सति विशेष्यविशेषणभावे विनिगमनाविरहेण व्यापारावच्छिन्नफले चैका शक्तिरिति शक्तिद्वयकल्पनासाम्येऽपि फलावच्छिन्नव्यापारत्वं व्यापारावच्छिन्नफलत्वं चेति गुरुशक्यतावच्छेदकद्वयकल्पनापत्तेः। किं च फलस्य व्यापारस्य त विशिष्टविषयैकशक्त्योपस्थितत्वात्पदार्थैकदेशत्वेन तण्डुलं पचतीत्यादौ फले तण्डुलस्य, चैत्रेण तण्डुलः पच्यते इत्यादौ व्यापारे चैत्रस्य चान्वयो न स्यात्। पदार्थः पदार्थेनेतिन्यायात्। यत्र विशेषणान्वयश्चिकीर्षितस्तत्रेतराविशेषणत्वेन(इतरनिरूपितावितविशेषणत्वानापन्नत्वेन) ज्ञायमानत्वस्य नियमात्। विशिष्टविषयैकशक्त्याऽर्थोपस्थितेर्विशेष्यविशेषणभावापन्नत्वेनैवानुभवात्। अत एव घटपदात् घटत्वविशिष्टघटविषयैकशक्त्युपस्थितघटत्वे नित्यत्वविशेषणाभिप्रायेण नित्यो घट इति प्रयोगो न भवति। पदार्थैकदेशे घटे नील इति विशेषणान्वयस्तु भवत्येव। घटस्येतराविशेषणत्वेन ज्ञायमानत्वात्। एवं राजपुरुष इति वृत्तावपि राज्ञि ऋद्धस्येति विशेषणान्वयो न भवति। राज्ञः पुरुषविशेषणत्वेन ज्ञायमानत्वात्। सुन्दरो राजपुरुष इति पुरुषे सुन्द इति विशेषणान्वयो भवत्येव। पुरुषस्येतराविशेषणत्वेन ज्ञायमानत्वात्। ऋद्धस्य राज्ञः पुरुष इति वाक्ये तु एकार्थीभावाभावेन विशेषणान्वयकाले राज्ञ इतराविशेषणत्वेन ज्ञायमानत्वाद्राज्ञि ऋद्धस्येति विशेषणान्वयो भवति। वाक्ये पृथक्पदार्थोपस्थित्यनन्तरमाकाङ्क्षादिवशाद्विशेष्यविशेषणभावेनान्वयः। वृत्तौ तु विशेषणविशेष्यभावापन्नैव पदार्थोपस्थितिरिति विशेषात्। एतदेव पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेति न्यायतात्पर्यम्। अन्यथा राज्ञः पुरुष इति वाक्येऽपि राज्ञः पुरुषेऽन्वयो न स्यात्। पुरुषत्वविशिष्टपुरुषविषयैकशक्त्युपस्थितपुरुषस्य पदार्थैकदेशत्वादिति बोध्यम्।
तत्र फलांश उत्सर्गतो व्यापारविशेषणम्। जन्यजनकभावः, संसर्गः फलानुकूलो व्यापार इति विशेषणविशेष्यविशेष्यभावेनैतयोरन्वयः। ननु हरिपदादुपस्थितयोसूर्यसिंहयोः परस्परं विशेषणविशेष्य(आधाराधेय)भावेनान्वयबोधाननुभवात्, `वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये' इति कोशाद्वाशब्दोपस्थितविकल्पाः द्योरर्ययोः परस्परं विशेष्यविशेषणभावेनान्वयस्यादृष्टत्वाच्च विभिन्नपदोपस्थितयोरेवान्वय इति नियमाङ्गीकारावस्यकत्वेनैकपदोपस्थितयोः फलव्यापारयोस्तथाऽन्वयो न स्यादिति पृथक्शक्तिस्वीकारोऽयुक्त इति चेन्न। परमते लडाद्यर्थकृतिवर्तमानत्वाद्योः स्वमतेऽपि तिङर्थाश्रयसंख्ययोञ्च परस्परमन्वयदर्शनेन च तादृशनियमस्य संकोचनीयतया व्युत्पत्तिवैचित्र्या फलव्यापारयोः परस्परान्वयाङ्गीकारे बाधकाभावात्। अथ पृथक्शक्तिपक्षे गमनमिति पदात्स्वातन्त्र्येण फलस्य प्रतीत्या गमनं न व्यापार इति प्रतीत्यापत्तिस्तद्वारणायैकशक्तिपक्ष एवाङ्गीकर्तुमुचित इति चेत्तदपि न। प्रथमोपस्थितत्वेनान्तरङ्गत्वात्फलव्यापारयोस्तावत्प्रथमतो विशेषणविशेष्यभावेनान्वयो भवति पश्चात्त्वर्थान्तरेण। ततश्च फलस्य स्वातन्त्र्येणानुपस्थितेर्गमनपदाद्व्यापारस्यैव फलविशेषणकस्य विशेष्यतया प्रतीतिर्न विपरीतस्येति गमनं न व्यापार इति प्रतीत्यनापत्तेः।
ऋमप्राप्तं फलांशमाचष्टे फलं विक्लित्त्यादीति। विक्लित्तिःशिथिलीभावोऽवयवविभागविशेषस्तत्संयोगो वा। तस्य च विक्लित्तित्पादिविशेषरूपेण वाच्यता न तु फलत्वेन सामान्यरूपेण। तत्तद्विशेषरूपेणैव तद्वोधस्यानुभवसिद्धत्वात् धातुत्वादिकमजानतामपि काव्यज्ञादीनां तथा बोधाच्च। अत एव वाक्यार्थप्रदर्शनावसरेविक्लित्त्यनुकूल उत्पत्त्यनुकूल इत्यादिविशेषरूपेणैव फलबोध उच्यमानः संगच्छते। यद्यपि लोके यदुद्देशेन क्रियाप्रवृत्तिस्त्वत्त्वं फलत्वं तथाऽप्यत्र पारिभाषिकं तद्गृह्यते। अन्यथा पाकोद्देश्याया बुभुक्षानुवृत्तेरनिष्पत्तावपाक्षीदिति प्रयोगानापत्तेः। तथा परोपकाराय सतां प्रवृत्तयः। परोपकाराय वहन्ति नद्य इत्यादौ परोपकाररूपफलस्य व्यापारव्यधिकरणस्य सत्त्वात्प्रवृत्त्यादिक्रियाणामकर्मिकाणामपि सकर्मकत्वापत्तेः। किंचिदुद्दिश्यैव लोके क्रियापवृत्तिदर्शनेन सकर्मकाकर्मकव्यवहारस्य दुर्बोधत्वाच्च।
विक्लित्त्यादिनिष्ठं पारिभाषिकफलत्वं च`कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयतवे च सति तद्धात्वर्थत्वम्' इति। तण्डुलं पचतीत्यत्र पच्धात्वर्थफ्त्कारादिव्यापारजन्यत्वे सति तादृशव्यापारनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वं पच्वात्वर्थे विक्लित्तौ वर्तत इति कृत्वा लक्षणसमन्वयः। एवंअग्नेर्माणवकं वारयतीत्यादौ संयोगानुकूलव्यापाराभावानुकूलव्यापाररूपे धात्वर्थे संयोगानुकूलव्यापाराभावे लक्षणसमन्वयात्फलत्वमूह्यम्। अत्र `कर्तृप्रत्ययसमभिव्याहारे' इत्युपलक्षणं न तु विशेषणम्। न कर्तृप्रत्ययसमभिव्याहारे यस्यार्थस्य फलत्वं, कर्मप्रत्ययसमभिव्याहारेऽपि तस्यैवार्थस्य फलत्वं भवतीति बोध्यमिति यावत्। आः कर्मप्रत्ययस्थले पच्यते तण्डुलः पक्वस्तण्डुल इत्यादौ विक्लित्त्यादेर्विशेष्यत्वेऽपि नो अफलत्वापत्तिः। अत्र प्रथमविशेषणदले जन्यत्वे सतीत्येतावन्मात्रोक्तौ विभागजन्यसंयोगादिरूपे पतत्याद्यर्थे विभागस्य कृतीसाध्यत्वेन जन्यत्वात्फलत्वापत्तिः स्यात्तद्वारणाय जन्यत्वे निरूपकतासंबन्धेन धात्वर्थो विशेषणम्। धात्वर्थनिरूपितजन्यत्वे सतीत्यर्थः। निरुक्तविभागस्य च धात्वर्थनिरूपितजन्यत्वाभावान्नातिप्रसङ्गः। नन्वेवमपि विभागस्य उत्तरदेशसंयोगानुकूलव्यापाररूपगम्यादियत्किंचिद्धात्वर्थजन्यत्वात्फलत्वापत्तिस्तदवस्थैवेति चेन्न, धातोस्तदिति विशेषणात्। प्रत्यासत्त्या यद्धात्वर्थत्वं यद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वं वा तद्धात्वर्थनिरूपितजन्यत्वे सतीत्यर्थः। तथा च निरुक्तविभागे पतिधात्वर्थसंयोगनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वेऽपि पतिधात्वर्थत्वेऽपि च पततिधाथ्वर्थनिरूपितजन्यत्वाभावान्न फलत्वम्। नन्वेवं प्रयागात्काशीं गच्छतीत्यादौ गम्याद्यर्थव्यापारजन्यत्वाद्विभागस्य फलत्वापत्तिरिति चेन्न। तद्धात्वर्थत्वमिति विशेष्योपादानात्। तद्धातुजन्योपस्थितिविषयत्वमित्यर्थः। उत्तरदेशसंयोगानुकूलो व्यापारो गम्याद्यर्थः। तत्र पूर्वदेशविभागमन्तरोत्तरदेशसंयोगस्यात्यन्तासंभवेन नान्तरीयकतया विभागस्योत्तरदेशसंयोगानुकूलव्यापाररूपगमिधात्वर्थजन्यत्वेऽपि गमिधातूपस्थितिविषयत्वाभावान्न फलत्वमिति भावः। नन्वेवमपि पर्णं पततीत्यत्र विभागजन्यसंयोगे पततिधात्वर्थविभागजन्यत्वे सति तद्धात्वर्थत्वात्फलत्वापत्तिरिति चेत्। तद्वारणाय तद्धात्वर्थनिष्ठेत्यादिसत्यन्तं द्वितीयविशेषणम्। ततश्च निरुक्तसंयोगस्य पततिधात्वर्थजन्यत्वेऽपि पततिधात्वर्थत्वेऽपि च पततिधात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतापन्नत्वाभावान्न फलत्वम्। एवं च पततिधात्वर्थे विभागसंयोगयोर्मिथः फलत्ववारणाय सत्यन्तं विशेषणद्वयम्। तेन वृक्षात्पर्णं भूमौ पततीत्यादौ विभागाश्रयस्य वृक्षादेः, संयोगाश्रयस्य भूम्यादेश्च न कर्मत्वमित्यूह्यम्। इदं च क्वचिदकर्मकधातौ व्यापारमात्रं धात्वर्थ इति मतेन। फलव्यापारयोर्धातुरिति प्रायोवादाभिप्रायेण। तन्मतानङ्गीकारे तु सत्यन्तं द्वितीयविशेषणं न देयमिति वोध्यम्। तेन तद्धात्वर्थजन्यत्वे सति तद्धात्वर्थत्वम्। इत्येव फललक्षणम्। अत्र जन्यत्वं चाऽऽरोपितानारोपितसाधारणं ग्राह्यम्। तेनेश्वरस्तिष्ठति, पत्ये शेते, इत्यादौ नाव्याप्तिः। ईश्वरस्थितेः पत्युद्देश्यकशयनादेश्च वस्तुतो धात्वर्थाजन्यत्वात्स्थितौ शयनादौ च जन्यत्वारोपात्। स्थित्यनुकूलो व्यापारस्तिष्ठतेरर्थः। शीङादेश्च शयनविषयकोऽध्यवसायोऽर्थ इति ज्ञेयम्। आदिशब्दात् `आस्ते' इत्यस्य ग्रहणम्। गां पयो दोग्वीत्यादौ चान्तःस्थितद्रवद्रव्यनिष्ठविभागानुकूलव्यापारानुकूलव्यापारो दुहरर्थः। तत्र गोपनिष्ठतद्धात्वर्थव्यापारजन्यत्वात्तद्धात्वर्थनिरूपितप्रकारतापन्नत्वात्तद्धात्वर्थत्वाच्च गोनिष्ठव्यापारस्य फलत्वं, विभागस्यापि गोनिष्ठतद्धात्वर्थव्यापारजन्यत्वात्तद्धात्वर्थनिष्ठेत्यादिविशेषणविसेष्योभययुक्तत्वाच्च फलत्वं बोध्यम्। आदिपदादजां ग्रामं नयतीत्यादि। नन्वेवमग्नेर्माणवकं वारयतीत्यादौ संयोगानुकूलव्यापाराभावस्येव संयोगस्यापि माणवकनिष्ठतद्धात्वर्थव्यापारजन्यत्वादित्रितययुक्तत्वात्फलत्वापत्तिरिति चेदस्तु नाम। नहि तावन्मात्रेण कश्चिद्दोषो भवति। उत्तरदेशसंयोगानुकूलव्यापारानुकूलव्यापारे नीधात्वर्थेऽजानिष्ठतद्धात्वर्थव्यापारजन्यत्वादिविशिष्टसंयोगरूपफलाश्रयत्वाद्ग्रामस्येवाग्नेरपि कर्मतायां द्वितीयापत्तिरिति तु न वाच्यम्। कर्मसंज्ञायामभावप्रतियोगिव्यापारजन्यफलस्याग्रहणात्। अन्यथा वारणार्थानामिति सूत्रं कर्तुरीप्सिततममित्यस्यापवादः स्यात्। ततश्च माणवकमित्यत्रापि द्वितीयानापत्तेः। तण्डुलं पचतीत्यादौ कर्मसंज्ञायाश्चरितार्थत्वात्। पश्य मृगो धावतीत्यादौ दृशिदात्वर्थनिष्ठविशेष्यातानिरूपितप्रकारतापन्नत्वेऽपि धावनादेर्न फलत्वम्। दृशिधात्वर्थनिरूपितजन्यत्वाभावाद्दृशिदात्वर्थत्वाभावाच्च। अन्यता प्रधानानुरोधिकर्मत्वस्य बलवत्त्वान्मृगस्य कर्तृत्वं न स्यात्। एवं माषेष्वश्वं बध्नातीत्यादौ यदा पुष्ट्यर्थे माषभक्षणायैव माषक्षेत्रेऽश्वबन्धनं तदा भक्षणस्य बध्नात्यर्थजन्यत्वाभावाद्बध्नात्यर्थत्वाभावच्च न फलत्वमिति भक्षणाश्रयत्वेऽपि माषाणां न कर्मत्वमिति बोध्यम्।
एवं फलं निरूप्य व्यापारं निरूपयतिव्यापारस्त्विति। व्यापारलक्षणं चधात्वर्थफलजनकत्वे सति धातुवाच्यत्वम्। पचतीत्यादौ विक्लित्त्यादिधात्वर्थफलजनकत्वाद्धातुवाच्यत्वाच्च फूत्कारादेर्व्यापारत्वमित्यर्थः। धातुवाच्यत्वमित्येतावन्मात्रोक्तौ विक्लित्त्यादेर्व्यापारत्वप्रसङ्गः। अतो धात्वर्थफलजनकत्वे सतीत्यन्तं विशेषणम्। तावन्मात्रोक्तौ काष्ठैस्तण्डुलं पचतीत्यादौ काष्ठतण्डुलनिष्ठप्रज्वलनावयवसंयोगमार्दवार्हत्वस्वस्वावान्तरक्रिययोर्विक्लित्त्यात्मकधात्वर्थफलजनकत्वाद्व्यापारत्वापत्तौ तृतीयाद्यनापत्तिः। अतो धातुवाच्यत्वमिति विशेष्यम्। तथा च देवदत्तनिष्ठफूत्कारादिव्यापारस्य धातुवाच्यत्वविवक्षणेन काष्ठादिगतक्रियाणां धातुवाच्यत्वाभावान्न दोषः। काष्ठादिगतक्रियाणां धातुवाच्यत्वविवक्षायां तु भवत्येव तासां व्यापारत्वम्। अत एव स्थाली पचति काष्ठानि पचन्तीत्यादि संगच्छते। धातुवाच्यव्यापाराश्रयस्यैव कर्तृत्वादिति भावः। एवं च फलानुकूलो व्यापारो धात्वर्थो बोध्यः। ननु किं करोतीति प्रश्ने यथा पचतीत्युत्तरं भवत्येवमस्तीत्युत्तराभावादस्त्यादीनां क्रियावाचकत्वं न स्यादिति चेन्न, अयमेव फलानुकूलो व्यापारः क्रियाशब्देन भाष्यादिषु व्यपदिष्ट इत्याशयेनव भूषणसारकृता भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया' इति व्यापारलक्षणस्योक्तत्वात्। वक्ष्यति च ग्रन्थकारोऽपिव्यापारो भावना सैवोत्पादना सैव च क्रिया, इति व्यापारस्यैव क्रियात्वम्। उत्पत्त्यर्थकभूधातुप्रकृतिकण्यन्तात् `ण्यासश्रन्थो युच्' इति भावे युवा निष्पन्नो भावनाशब्द उत्पत्त्यनुकूलब्यापारमाचष्टे। अभिधाशब्दस्तु अभिदधातिजनयति फलमिति व्युत्पत्त्या फलजनकव्यापारमाचष्टे। तत्राभिपूर्वाद्दधातेः `आतश्चोपसर्गे' इति कर्तरि कप्रत्ययः। तथा च भावनाभिधापरपर्याया साध्यत्वेनाभिधीयमानार्थात्मिका क्रिया व्यापार इत्यर्थः। अत्र भावनाभिधेत्युक्तिस्तु व्यापारस्य धात्वर्थत्वेऽपि भावनादिपदवाच्यस्यार्थविशेषस्याऽख्यातार्थत्वमिति भ्रमनिरासार्था। क्रियेत्युक्तिस्तु भवतेर्ण्यन्तस्य शुद्धेन करोतिना तुल्यार्थत्वप्रदर्शनार्थेति बोध्यम्। न चैवं धात्वर्थव्यापारस्य क्रियात्वोक्तौ सामान्यविशेषतया प्रश्नोत्तरभावेन सामानाधिकरण्यात्पच्याद्यर्थव्यापारस्य क्रियात्वसिद्धावषि अस्त्यादीनां क्रियात्वानुपपत्तिः पुर्वोक्ता तदवस्थैवेति वाच्यम्। आसन्नविनाशं कंचिदुद्दिश्य किं करोतीति प्रश्ने अस्तीत्युत्तरस्य सर्वसंमतत्वेनास्त्यादीनामपि क्रियात्वस्य सूपपादत्वात्। क्रियाशब्दप्रवृत्तिनिमित्तस्य `पदान्तरसमभिव्याहारमन्तरा साध्यत्वेन प्रतीयमानत्वस्य' करोतीत्यादाविवास्त्यादावपि सत्त्वेन क्रियात्वस्यायत्नसिद्धत्वाच्च। अत्र साध्यत्वं मुख्यत्वात्पदान्तरार्थनिरपेक्षं स्वतः सिद्धं ग्राह्यम्। पदान्तरार्थसापेक्षस्य तस्य गौणत्वात्। एवं च पदान्तरसमभिव्याहारं विनापि साध्यत्वरूपेण प्रतीयमानत्वं व्यापारत्वमिति यावत्। घटं करोतीत्यादौ करोतिसमभिव्याहारे धटादीनामपि साध्यत्वेन प्रतीयमानत्वादतिव्याप्तिवारणाय पदान्तरादिविनैवेत्यन्तस्य निवेशः। करोत्याद्यसमभिव्याहारे तु घटादीनां सिद्धत्वेनव प्रतीतेः। करोत्यादिप्रयोग एव घटस्य साध्यत्वं प्रतीयते करोतेस्तु सिद्धत्वेनव प्रतीतेः। करोत्यादिप्रयोग एव घटस्य साध्यत्वं प्रतीयते करोतेस्तु स्वतोऽपीत्यर्थः। अधिश्रयणाद्यधः श्रयणान्तक्रियासमूहस्य पदान्तरप्रयोगमन्तराऽपि साध्यत्वेन प्रतीयमानत्वादुक्तव्यापारत्वमक्षतमिति भावः। उक्तार्थस्य निर्मुलत्वं निरसितुमाहउक्तं चेत्यादि। यावदिति। सकलमित्यर्थः। सकलपदार्थमेव विवृणोतिसिद्धमित्यादिना। तथा च द्वैविध्यमेव सकलपदार्थः। अपाक्षीदित्यादो सिद्धं, पचति पक्ष्यतीत्यादावसिद्धं वा वस्तु साध्यस्वरूपेण तत्प्रकारेणाभिधीयमानं क्रियेत्युच्यत इत्यर्थः। किमियं तादृशेऽ(स्वत एव साध्यत्वेन प्रतीयमाने)र्थे क्रियाशब्दस्य रूढिरिति चेन्नेत्याहआश्रितक्रमेति। आश्रितः क्रमो येन(रूपेण)तदाश्रितक्रसं, तदेव रूपं स्वरूपं यस्याः साऽऽश्रितक्रमरूपा, तस्या भाव आश्रितक्रमरूपत्वं तस्मात् क्रियेत्यभिधीयते। क्रियास्वरूपं हियदवयवाः क्रमेणोत्पद्यन्ते तत्। क्रमेणोत्पद्यमानावयवसमूहस्वरूपेति यावत्। अयं भावःआश्रितक्रमरूपत्वादित्येतत्क्रियाशब्दार्थप्रदर्शनम्। तथा च क्रियत इति क्रिया। तत्र केन क्रियते किं च क्रिपत इत्याकाङ्क्षायांप्रत्त्यासत्त्या अवयवानां क्रमेणोत्पत्त्या तद्द्वारा यत्क्रियते साध्यते समूहरूपं वस्तु तत्क्रियेत्युच्यत इत्यर्थः। क्रमिकावयवोत्पत्तिसाध्यसमूहात्मकं वस्त्वेव क्रियास्वरूपमिति यावत्। अनेन क्रियाया आश्रितक्रपरूपत्वं प्रदर्शितम्। क्रमवती क्रियेत्यभियुक्तोक्तविवरणामपि क्रियाया आश्रितक्रमरूपत्वादेव संगच्छते। आश्रितक्रमरूपत्वादेव च क्रियायाः साध्यत्वेन प्रतीतिर्निर्वहतीति वोध्यम्। अधिश्रयणाद्यधःश्रयणान्तानामवयवानां क्रमेणोत्पत्तेः पच्यादिवाच्यव्यापारसमूहस्योक्तरूपं क्रियास्वरूपमक्षतम्। यत्र चाऽऽश्रयतादौ न क्रमिकावयवोत्पत्तिमान् व्यापारस्तत्र क्रमिकावयवोत्पत्तिमत्त्वस्याऽऽरोपः कार्यः। फलेऽपि स्वजनकव्यापारगतक्रमिकावयवकत्वारेपः। अत एव फलमात्रवाच्कस्य क्रियानिबन्धनदातुत्वसिद्धिः। एवं च व्यापारसमुदायः क्रियेति सिध्यति।
ननु भवत्वेवं व्यापारसमूहस्य क्रियात्वं तथाऽपि तस्य साध्यत्वप्रकारेण प्रतीतौ किं प्रमाणमिति जिज्ञासायां क्वचित्क्रियान्तराङ्क्षाक्वचित्क्रियान्तरानाकाङ्क्षादर्शनरूपप्रमाणेन साध्यत्वरूपेण प्रतीतिं ब्यवस्थापयितुमाहपचति पाक इत्यादि। पचतीत्यत्र पच्वातोः, पाक इत्यत्र घञ्प्रत्ययाच्च विक्लित्त्यनुकूलव्यापारस्य धात्वर्थस्य प्रतीतौ समानायामपि पचतिशब्देन क्रियावगतौः पुनः क्रियाया आकाङ्क्षा न भवति अतस्तादृशक्रियागतं क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं साध्यत्वमित्याहतथा चेत्यादि क्रियान्तराकाङ्क्षोत्थितिप्रतिबन्धकतावच्छेदकतया सिद्धो यो जातिविशेषस्तद्रूपं साध्यत्वमित्यर्थः। इदमेव च कारकान्वययोग्ग्रतावच्छेदकं पूर्वापरीभूतावयत्वसमानाधिकरणं च भवति। सिद्धजातिविशेष एव वैजात्यशब्देन व्यवह्रियते। तच्च वैजात्यमतिरिक्तं पचत्यादिशब्द एव वेत्यन्यदेतत्। तच्च साध्यत्वं सर्वत्रवै धातुप्रतिपाद्यम्। पाक इत्यादौ घञन्तेऽपि पच्धातुना साध्यत्वेनैव क्रियाऽभिधीयते। अत एव ओदनस्य पाक इत्यत्रौदनपदोत्तरं कर्तृकर्मणोरिति कर्मणि षष्ठी सिद्धा। अन्यथा कारकाणां साध्यत्वेन प्रतीयमानक्रियायामेवान्वयनियमात् सा न स्यात्। घञादिना तु सिद्धत्वेन क्रियाऽभिधीयते। पाक इत्युक्ते भवति नष्टो वेत्यादिक्रियान्तराकाङ्क्षोत्थानात्। सिद्धत्वं च क्रियान्तराकाङ्क्षोत्यापकतावच्छेकरूपम्। क्रियाकाङ्क्षोत्थापकतावच्छेदकतया सिद्धो यो जातिविशेषो(वैजात्यं)तद्रूपमित्यर्थः। एवं च पच्धात्वर्थेऽन्वये शोभनं पाकः घञर्थेऽन्वये शोभनः पाक इति साध्यत्वसिद्धत्वव्यवस्थया व्यवस्थितः प्रयोगः। एतच्च ग्रन्थकारोऽप्यग्रे वक्ष्यतिसाध्यत्वेनं क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घञादिनिबन्धनः।। इति। तत्रेति पाक इत्यादिघञाद्यन्त इत्यर्थः। विशेषस्त्वग्रे वक्ष्यते। न चैवं हिरुगाद्यव्ययानां क्रियाप्रधानत्वव्यवहारस्य तद्धितश्चेति सूत्रे भाष्ये क्रियमाणस्यानुपपत्तिस्तदर्थानां साध्यत्वेनाभानादिति वाच्यम्। तादृशव्यवहारस्य तदर्थानां क्त्वान्तादिवात्क्रियामात्र विशेषणनिबन्धवनत्वात्। यथा धातुसंबन्धाधिकारविहितक्त्वान्ताद्यर्थस्य व्रजतीत्यादिक्रियामात्रविशेषणत्वं तद्वद्धिरुगाद्यव्ययार्थानां क्रियामात्रविशेषणत्वम्। मात्रपदेन नामार्थनिरूपितविशेषणत्वव्यावृत्तिरित्यर्थः। तथा च गौणस्तत्र तथा व्यवहार इति भावः। हिरुगाद्यर्थानां साध्यत्वेन प्रतीयमानक्रियात्वाभावादेव न तत्र कारकान्वयः। साध्यत्वेन प्रतीयमानक्रियायामेव कारकान्वयनियमात्। हिरुगाद्यर्थानां क्रियान्तराक्वाङ्क्षासत्त्वेन प्रतीयमानक्रियात्वाभावात्। नन्वेवं धातुतः क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपेणापेरिथतौ कृष्णं नमेच्चेत्सुखं यायादित्यत्राऽऽकाङ्क्षाया अभावेन नमनसुखप्राप्तिरूपक्रिययोर्हेतुहेतुमद्भावेनान्वयो न स्यादिति चेन्न। चेच्छव्दसमभिव्याहारसाचिव्योनाऽऽकाङ्क्षोत्थापनात्। परे तुवस्तुतः साध्यत्वं निष्पाद्यत्वमेव। तेनैव रूपेण बोधस्यानुभवसिद्धत्वात्। स्पष्टं चेदं `सुट्कात्पूर्वः' इत्यत्र भाष्ये। तत्र हिधातूपसर्गयोः कार्यमन्तरङ्गमित्याद्युक्त्वा`नैतत्सारं पूर्वं हि धातुः साधनेन युज्यते पश्चादुपसर्गेण, साधनं हि क्रियां निर्वतयति, तामुपसर्गो विशिनष्ठि' इत्युक्तम्। साधनंतद्बोधकः प्रत्ययः, क्रियां निर्वर्तयतिसाध्यत्ववैशिष्ट्येन वोधयति, अतस्तत्प्रयुक्तं कार्यं पूर्वमिति वृद्धास्तदर्थमाहुः। एतद्भाष्यप्रामाण्येन साध्यत्वेन भानमङ्गीकृतम्। तथा च पच्याद्यर्थे साध्यत्वेन ज्ञाते तत्र साधनाकाङ्क्षाया अवस्यंभावित्वात्' साधनाकाङ्क्षोत्थापकतावच्छेदकरूपवत्त्वमेव साध्यत्वम्। अत एव ओदनं भुक्त्वा व्रजतीत्यादौ भुजिक्रियायामोदनमित्यादिकारकाणामन्वयो भवति। अन्यथा धातुसंबन्धे विहितक्त्वाप्रत्ययसमभिव्याहारेण भुजिक्रियाया ब्रजत्यादिक्रियाकाङ्क्षासत्त्वात् क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपसाध्यत्वेनाभानात्तत्रौदनमित्यादिकारकान्वयो न स्यात्। भुजिक्रियाया धात्वर्थत्वं च न स्यात्। साध्यत्वेन प्रतीयमानक्रियायामेव कारकान्वयनियमात्। तादृशोति। साध्यत्वेन प्रतीयमान क्रियाया इत्यर्थः।तादृशक्रियाया एव धात्वर्थत्वाच्च। एवं कृष्णं नमेच्चेदि यादौ चेत्पदेनापि उत्थापिताकाङ्क्षादर्शनात् पूर्वोक्तसाध्यत्वेनाभानादव्याष्त्यादिर्दोष एवेत्याहुः। निरुक्तसाध्यत्वमेवासत्त्वभूतत्वमित्याहतद्रूपवत्त्वमिति। धातुपस्थितक्रियामात्रवृत्तिवैजात्ये सिद्धे सति लाघवात्तस्यैवासत्त्वरूपत्वमङ्गीकर्तुमुचितं न त्वतिरिक्तस्य लिङ्गसंख्याद्यनन्वयित्वादेरित्याशयः। किं तु तत्पूर्वोक्तं वैजात्यं लिङ्गाद्यनन्वयित्वसमानाधिकरणमेव।
एतदेवेति। पूर्वोक्तसाध्यत्वाभिन्नमसत्त्वभूतत्वमनुसंधायैवेत्यर्थः। असत्त्वभूतोभावश्चेति। चकारोऽवधारणार्थः। भाव एवेत्यर्थः। एवकारेण सत्त्वभूतस्य भावस्य व्यावृत्तिः। तिङ्पदैस्तिङन्तपदैः। अभिधीयत इत्यस्य प्राधान्येनेत्यादिः। तथा चासत्त्वभूतो भाव एव तिङन्तपदैः पचतीत्यादिभिः प्राधान्येनाभिधीयत इत्यर्थः। तेन कृदन्तपदैर्विशेषणत्वेनासत्त्वभूतभावप्रतिपादनेऽपि न काचिद्धानिः। अयं चेति। साध्यत्वेन प्रतीयमानक्रियारूपश्चेत्यर्थः। फूत्कारत्वाधःसंतापनत्वादितत्तद्रूपेण पच्यादिशक्य इत्यर्थः। तत्र हेतुमाहपचतीत्याद्यनुभवसिद्धत्वादित्यन्तेन। अत एव पचतीत्यादितः फूत्कारत्वादितत्तद्विशेषरूपेण शाब्दबोधे जातेऽयं फूत्कारादिमान्नवेति संशयो न जायते। सामान्यरूपेण बोधे तु एकतरकोटिनिश्चयाभावेन संदेहापत्तिर्दुर्वारेत्यर्थः। ननु यद्येवमनुभवबलात्पचतीत्यादितः फूत्कारत्वादित्तत्तद्विशेषरूपेण बोधोऽङ्गीक्रियते चेच्छक्यतावच्छेदकानां फूत्कारत्वादीनां नानात्वादेकशक्तेर्वक्तुमशक्यत्वात्पच्यादेर्नानार्थत्वापत्तिः स्यात्। नानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वं हि नानार्थत्वम्। यथा`हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ' इति कोशाद्धरिशब्दस्य सिंहाश्वसूर्येषु सिंहत्वाश्वत्वसूर्यत्वरूपेण शक्तिर्वाच्यताख्या। सा च सिंहत्वादिनानाधर्मावच्छिन्ना(ना.ध. समानाधिकरणा), तादृशशक्तेर्निरूपको हरिशब्दः, तन्निष्ठनिरूपकतावच्छेदको धर्मःहरीतिवर्णानुपूर्वी, सा चैकैवेति तादृशैकधर्मवत्त्वं हरिशब्दे वर्तत इति कृत्वा हरिशब्दो नानार्थक इति लक्षणसमन्वयः। तच्च पच्यादीनामक्षतमिति भावः। नानार्थत्वापत्तिं परिहर्तुमाहतदादिन्यायेनेति। तदिदमादिशब्देभ्यो घटपटादयोऽनेकार्था घटत्वादितत्तद्विशेषधर्मपुरस्कारेण यद्यपि प्रतीयन्ते तथापि न ते हर्यादिशब्दवदनेकार्था इत्युच्यन्ते। यतो घटत्वादिनानाधर्मावच्छिन्नानुगतबुद्धिविषयत्वरूपैकधर्मपुरस्कारेण तेभ्यो नानाधर्मशलिनोऽर्थाः प्रतीयन्ते। अनुगतैकधर्मपुरस्कारेण नानाधर्मशाल्यर्थप्रत्यायकस्य च नैव नानार्थकत्वम्। द्रव्यत्वेन घटपटाद्यर्थप्रतिपादकद्रव्यशब्दवत्। अननुगतनानाधर्मावच्छिन्नशक्तिनिरूपकतावच्छेदकैकधर्मवत्त्वस्यैव नानार्थत्वात्। नन्वेवं येन रूपेण बोधस्तस्यैव शक्यतावच्छेदकत्वौचित्याच्छक्यतावच्छेदकस्य च तत्पदशक्तिग्रहविषयत्वेन घटपदाद्घटत्वस्येव बुद्धिविषयत्वस्य तदादिपदजन्यशाब्दबोधे भानापत्त्या घटत्वादितत्तद्विशेषरूपेणेष्यमाणो बोधस्तदादिभ्यो न स्यादिति चेन्न। बुद्धिविषयत्वस्योपलक्षणत्वादुपलक्षणस्य च तत्पदशक्तिग्रहाविषयत्वेन शाब्दबोधे भानाभावे नादोषात्। उपलक्षणत्वं चतत्पदजन्यबोधविषयत्वेन तत्पदशक्तिग्रहाविषयत्वम्। तदुक्तं वैयाकरणभूषणकारैः`बुद्धिविषयत्वरूपेणोपस्थितघटत्वादिशालिषु बुद्धिविषयतावच्छेदकवति शक्तं तदादिपदमित्येव तदादेः शक्तिग्रहः। बुद्धिविषयत्वमुपस्थितावनुगमकमात्रं न तु तदंशे शक्तिः' इति। सोऽयं तदादिन्यायः। तद्वत्प्रकृतेऽपि शक्यतावच्छेदकानां फूत्कारत्वादीनामनुगमकस्यशक्य तावच्छेदकावच्छेदकस्य बुद्धिविशेषादेःफूत्कारादिविषयकबुद्धेः सत्त्वेन, बुद्धिविषयत्वरूपेणोपलक्षणीभूतेन बुद्धिविशेषेण फूत्कारादिविषयकबुद्धेः सत्त्वेन, बुद्धिविषयत्वरूपेणोपलक्षणीभूतेन बुद्धिविशेषेण फूत्कारत्वादीनानुगमय्य तदवच्छिन्ने पच्यादीनां शक्तेः स्वीकरणसंभवान्न नानार्थत्वपत्तिः। शक्यतावच्छेदकनानात्वेऽपि शक्यतावच्छेदकवच्छेदकस्यैकस्यैव संभवादिति भावः। बुद्धेः शक्यतावच्छेदकत्वं विषयतासंबन्धेन। आदिना बुद्धिविशेषविषयत्वस्य परिग्रहः। अत्र केचित्नानार्थत्वपरिहाराय फूत्कारादिसकलैतत्साधारणं क्रियात्वं नाम धातुवाच्यत्वसमानाधिकरणं जातिविशेषं परिकल्पयन्ति। स च जातिविशेषो जलपदशक्यतावच्छेदकतया जलत्वसिद्धिवत् क्रियापदशक्यतावच्छेदकतया सिध्यति। तथा च क्रियात्वेन रूपेण फूत्कारादीनां प्रतीतेः पच्यादीनां नैव नानार्थत्वमित्याहुः। तन्न। येन रूपेण बोधस्तस्यैव शक्यतावच्छेदकत्वनियमात्तत्तद्विशेषरूपेण बोधानापत्तेः। न च पच्यादिसमभिव्याहारबलाद्विशेषरूपेण बोधः स्यादिति वाच्यम्। सामान्यरूपेण विशेषरूपेण चेत्युभयरूपेण बोधकल्पनया गौरवापत्तेः। किंच कल्प्यमानधर्मपुरस्कारेण शाब्दबोधो नेष्टः। अन्यथा सैन्धवादिपदशक्यतावच्छेदकतयाऽश्वलवणादिवृत्त्येकधर्मकल्पनापत्त्या तत्रापि नानार्थत्वोच्छेदापत्तिः। अश्वत्वादिनैव प्रतीतेरनुभवसिद्धत्वान्न तत्र धर्मान्तरकल्पना युज्यत इति चेत्। समैवात्रापि फूत्कारत्वादिनैव प्रतीतिरनुभवसिद्धेति हर्यादिशब्दवत्पच्यादीनां नानार्थत्वमिष्टमेव। तदादिशब्दानां तु बुद्धिविषयत्वात्प्रकसामान्यरूपेणैव बोधकत्वस्य `शेषे' इत्यादिसूत्रस्थभाष्यादितो लाभादिति परे वदन्ति। आख्याते क्रियैकत्वेति। अयं भावःक्रमेणोत्पद्यमानावयवधटितो व्यापारसमूहः क्रियेत्युक्तम्। तत्रावयवव्यापाराणामनेकत्वात्क्षणनश्वराणां क्रमवतां तेषां युगपत्संनिधानासंभवेन समूहाभावात् समूहगतैकत्वाभिप्रायेणैका क्रियेति वक्तुमशक्यत्वाच्चां `आख्यातेनैका क्रिया प्रत्याय्यते' इति व्यवस्थाया अनुपपत्तौ प्राप्तायां त व्यवस्थामुपपादयतिव्यवस्थाऽपीत्यादिना। व्यवस्थाऽपि एका क्रियेति नियमोऽपि अपिर्नानार्थत्वानापत्तिसमुच्चायकः। अवच्छेदकेति। अधिश्रयणाद्यधःश्रयणान्ता व्यापाराः शक्याः। तन्निष्ठशक्यतावच्छेदका धर्मा अधिश्रयणत्वादयः। तेषामप्यवच्छेदको यो बुद्धिविशेषस्तदेकत्वं गृहीत्वेत्यर्थः। येन रूपेण शक्यता स धर्मः शक्यतावच्छेदकः। अधिश्रयणत्वादीनां शक्यतावच्छेकानां बुद्धिविषयत्वरूपेण शक्यता संपन्नेति विषयतासंबन्धेन शक्यतावच्छेदकतावच्छेदको धर्मो बुद्धिः। सा च बुद्धिः समूहालम्बनरूपा एकैवेति तादृशबुद्धिगतमेकत्वमधिश्रयणादिव्यापारेष्वारोप्य क्रियैकैवेति व्यवस्थेति भावः। अथवा तादृशबुद्धिस्थसमूहगतमेकत्वं गृहीत्वैवेत्यर्थः। स्वोक्तार्थे वाक्यपदीयं प्रमाणयतिउक्तं चेत्यादिना। गुणभूतैरिति। क्रमेण जन्म येषां तेषां बुद्धिस्थानामधिश्रयणादीनां व्यापाराणां समूहं प्रति गुणभूतैस्तत्तद्रूपेण फूत्कारत्वादिना भासमानैरवयवैर्युक्तः संकलनात्मिकया(समूहालम्बनात्मिकया)एकत्वविषयकबुद्ध्या प्रकल्पितो योऽभेदस्तद्रूपो यः समूहः स क्रियेति व्यवह्रियत इत्यर्थः। अत्र गुणभूतैरित्यस्याङ्गभूतैरित्यर्थे पौनरुक्त्यापत्तिरतो गुणशब्दो धर्मपरः, भूतशब्दो `ये प्राप्त्यर्थास्ते ज्ञानार्थाः, इति न्यायेन भू प्राप्तावित्युक्तेर्ज्ञानपरो वर्तमानक्तप्रत्ययान्त इति तत्तद्रूपेण भासमानैरित्यर्थकः। प्रत्यासत्त्या समूहं प्रतीत्युक्तम्। क्षणनश्वराणां वस्तुभूतसमूहासंभवाद्बुद्ध्येत्युक्तम्। एवं च समूहव्यवहारो बुद्धिकृतो विकल्प एव न वास्तव इति भावः। शब्दज्ञानानुपाती वस्तुशून्यो विकल्प इति पतञ्जल्युक्तः। शब्दज्ञानामात्रेण बुद्धावनुपतनशीलः बाह्यार्थरहितः विशेषेण कल्प्यत इति विकल्पः बुद्धिपरिकल्पित इति तदर्थः। अवावयवाश्रयं पौर्वापर्यं समुदायाश्रयमेकत्वं चेति स्पष्टमेव लभ्यते। बुद्धिस्थत्वादिरूपशक्यतावच्छेदकानुगमकबोधकमिदं वचनमिति भावः। ननु यदि व्यापारस्य समुदायात्मकत्वं तर्हि अधिश्रयणाद्येकैकाशयेन स्ताली पचतीति प्रयोगो न स्यादिति चेन्न। एकैकावयवेऽपि समूहत्वरूपस्याऽरोपात्तदुपपत्तिः। आरोपे च तादृशप्रतीतिरेव प्रमाणम्। अत एवोक्तं हरिणाएकदेशे समूहे वा व्यापाराणां पचादयः। स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः। इति। तुल्यरूपमित्यस्य तुल्येनाभिन्नेन स्वभावेन युक्ता एते धातवोऽभिन्ना इत्यर्थः। एतेन पचतीति बुद्धेः सर्वत्रानुवर्तमानत्वात्प्रत्यवयवमपरिसमाप्तस्य समूहस्य एकैकावयवेऽपि आरोपः स्वष्ट एवोक्तो भवति। वस्तुतस्तु अधिश्रयणादिरपि नैकक्षणात्मकस्तस्यापि हस्तप्रसारणपात्रादानचुल्लीसंयोजनादयोऽवयवाः सन्त्येवेति सोऽपि समूहरूप एवेति बोध्यम्। अध्यासगृहीतयैव क्रियया आख्यातस्य शक्तिरूपसंबन्धग्रहो बोध्यः। अत एव फूत्कारस्यातीतत्वमात्रेण व्यापारान्तरवर्तमानदशायामपाक्षीदिति न भवति भूतत्वादेः समुदायेन संबन्धादिति ज्ञेयम्। ननु तत्तद्रुपेण वाच्यत्वेन विक्लित्त्यनुकूलः फूत्कारादिरित्येव शाब्दबोधः स्यान्नतु विक्लित्त्यनुकूलो व्यापार इति सामान्यरूपेणेति चेन्न। धातूनामनेकार्थत्वात्कदाचित्सामान्यरूपेण क्रियात्वेन बोधाङ्गीकारात्। तत्र यदा यो वक्तृबुद्धिस्थः स तदा वाच्यः। तदैव तदाश्रयः कर्ता। धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते, इति हर्युक्तेः। अत एव काष्ठं पचति स्थाली पचतीति संगच्छते। एतेन काष्ठेन पचतीत्यपि नानुपपन्नम्। तदा तद्व्यापारस्य धात्वर्थत्वेनाविवक्षणात्। एवं च काष्ठाक्रियाया वाच्यत्वे तृतीया न स्यात्। अवाच्यते प्रथमा न स्यादित्याद्यपास्तम्। अत्र शक्तनावच्छेदकं पचित्वादिकं तत्तदानुपूर्वीविशेषरूपं, नतु धातुत्वम्। गच्छत्यादावपि तस्य(धातुत्वस्य) सत्त्वेनातिप्रसक्तत्वात्। अतिप्रसक्तस्य च शक्ततानवच्छेदकत्वात्। अन्यूनानतिरिक्तवृत्तिधर्मस्यैवावच्छेदकत्वादिति भावः।
एवं संक्षेपतो धात्वर्थं निरूप्य वक्तुमारभतेआश्रये त्वितीति। फलव्यापारयोर्मध्ये व्यापारस्योत्सर्गतः प्राधान्येऽपि लः कर्मणि चेति सूत्रे, फलव्यापारयोर्दातुरिति मूले च फलाश्रयस्य कर्मणः। प्राङ्निर्देशात्तदनुरोधेनाऽऽहफलाश्रये, फलाश्रयः कर्मेत्यादि। कृत्रिमाकृत्रिमन्यायेन फलायव्यापाराश्रययोरेव कर्मकर्तुपदाभ्यां ग्रहणस्योचितत्वं नतु लौकिकयोः स्पन्दकृतिमतोरित्यर्थः। स्वतन्त्रः कर्तोति सूत्रेण धातूपात्तप्रधानीभूतव्यापाराश्रयस्यैव स्वतन्त्रस्य कर्तृसंज्ञाविधानात्। कृतिमत एव कर्तृसंज्ञाविधाने घटो भवति काष्ठानि पचन्तीत्यादौ घटादेः सा न स्यादिति भावः। तत्र फलव्यापारयोर्धातुलम्यत्वान्न तदंशे आख्यातस्य शक्तिः, किंत्वाश्रयमात्र इत्याहतत्रेत्यादिना। अन्यलम्यत्वादिति। अनन्यलभ्यस्यैव शब्दार्थत्वादिति न्यायात्। फलव्यापारयोर्धातुनैव लाभे सति पुनस्तत्राऽख्यातस्य शक्तिकल्पनं गौरवापादकमिति भावःननु आश्रये शक्तिस्वीकारे आश्रयेत्वं शक्यतावच्छेदकं वाच्यम्। आश्रयत्वं चाऽऽधारत्वम्। तच्च निरूपकादिभेदाद्भिन्नम्। तथाचाऽऽश्रयत्वस्य नानात्वाच्छ। क्तिनानात्वापत्तिः स्यादत आहतत्तदिति। कर्तृत्वाद्यखण्डशक्तिस्वरूपमित्यर्थः। यद्यपि कर्तृत्वादिशक्तेरपि निरूपकभेदान्नानात्वमवश्यमङ्गीकार्यं भवति। अन्यथा `अद्य भुक्त्वाऽयं व्द्यहे व्द्यहाद्वा भोक्ता' इत्यत्र `इत्यत्र `सप्तमीपञ्चम्यौ कारकमध्ये' इति सूत्रस्थाकारकशब्दस्य शक्तिपरत्वेऽपि कर्तृत्वशक्तेरेकत्वेन कर्तृत्वशक्तिद्वयमध्यस्थकालवाचकाद्द्व्यहशब्दात् सप्तमीपञ्चम्योरनुपपत्तिः स्यात्। अद्यतनभुजिक्रियाव्द्यहोत्तरीदनीयभुजिक्रियाभ्यां कर्तृत्वशक्तेर्भेदे तु न काचिदनुपपत्तिस्तथाऽपि आश्रयतात्वेनानुगतस्य तस्य(आश्रयत्वस्य)शक्यतावच्छेदकत्वे शक्तिनानात्वादिदोषासंभवादिति भावः। ननु फलाश्रयव्यापाराश्रययोराख्यात(तिङ्)वाच्यत्वे किं मानम्?। न च पचतीत्युक्ते आश्रयप्रतीति र्जायमानाऽऽव्यातस्य तत्र शक्तिं कल्पयेत्। यथा घटपदात्कम्बुग्रीवादिमदर्थप्रतीतिर्जायमाना घटपदस्य कम्बुग्रीवादिमति शक्तिं कल्पयति, यद्यस्मात्प्रतीयते तत्तस्य वाच्यमिति न्यायादिति वाच्यम्। अन्यथाऽनुपपद्यमानाया एव प्रतीतेर्मानत्वात्। अन्यथा गङ्गादिपदस्य तीरादावपि शक्तिकल्पनापत्तेः। तत्र लक्षणयैव निर्वाह इति चेत्प्रकृतेऽपि अन्यथा निर्वाहसंभवादित्याशयवान् पृच्छतिनन्वनयोरित्यादिना। मीमांसकमतेनेयमाशङ्का। ते हि फलं धात्वर्थ आख्यातार्थो भावना(फलानुकूलव्यापारः)इति वदन्ति। पचतीत्याद्युक्ते जायमानामाश्रयप्रतीतिमन्यथा योजयितुमाहप्रतीतेरिति। फलाश्रयव्यापाराश्रयप्रतीतोरित्यर्थः। अस्याः संभवादित्यत्रान्वयः। संभवं प्रदर्शयतिलक्षणयेति। गङ्गापदाल्लक्षणया गङ्गातीरस्येव भावनावाचकादाख्यातात्तदाश्रयस्य ग्रहणमिति भावः। नन्वाख्यातस्याऽऽश्रये लक्षणायां भावनाप्रतीतिर्न स्यात्। तत्प्रतीत्यर्थमाख्यातस्यभावनायां शक्तिकल्पने आश्रये लक्षणाया असंभवो युगपद्वृत्तिद्वयविरोधात् भावनाश्रयत्वेन भावनाश्रये लक्षणायामपि भावनायाः प्राधान्येन प्रतीतिर्नस्यात्। विशिष्टे लक्षणायां गौरवप्रसङ्गाच्चेत्यरुचेराहआक्षेपादिति। आक्षेपो नामार्थापत्तिर्मीमांसकमते। तार्किकमते त्वनुमानम्। अर्थापत्तिर्यथायेन विना यदनुपपन्नं तेन तत्कल्प्यते। पीनो देवदत्तो दिवा न भुङ्क्ते, इत्यत्र भोजनं विनाऽनुपपन्नेन योगाभ्यासाद्यजन्यपुष्टत्वेन भोजनं कल्प्यते तच्च दिव। न भुङ्क्ते इति निषेधात् रात्रिभोजनमादाय पर्यवस्यति तद्वत्प्रकृते भावनाया(व्यापारस्य)कर्तारं विनाऽनुपपत्त्या कूर्तृरूपं स्वाश्रयं सा कल्पयति इति भावः। तार्किकमते तु भावनं पक्षीकृत्य सकर्तृकत्वं साध्यते कार्यत्वात्, पटवदित्यनुमि। तिजनकं व्याप्तिज्ञानादिकमाक्षेप इत्यर्थः। एवं फलस्यापि स्वाश्रयं विनाऽनुपपत्त्या तेनस आक्षिप्येत। आक्षेपलभ्यस्यापि शाब्दबोधविषयत्वाभ्युपगमादाख्यांतजन्यशाब्दबोधे भावनायाः प्रतीतिर्न विरुद्धेति भावः। ननु पृत्त्या पदजन्यपदार्थोपस्थितेः शाब्दबोधहेतुत्वेनाऽऽक्षेपलभ्यस्य शाब्दबोधविषयत्वं वक्तुमनुचितम्। किं चाऽऽक्षिप्ते कर्त्रादावाख्यातार्थसंख्यान्वयानुपपत्तिः। कर्त्रादेर्वृत्त्याऽनुपस्थितत्वात्। शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति न्यायात्। शाब्दबोधविषयसिद्धिसंपादनेन निवार्यत इति तदर्थादित्यरुचेराहप्रथमान्तपदाद्वेति स्वसमभिव्याहृतदेवदत्तादिप्रथमान्तपदादेव आश्रयप्रतीतेः संभवान्न प्रतीतिराख्यातस्याऽऽश्रये शक्तिकल्पनायां प्रमाणमिति तात्पर्यम्। अत आहअत्रोच्यत इत्यादिना। फलाश्रये व्यापाराश्रये च तिङां शक्तिरित्यर्थे पाणिनिसूत्रं प्रमाणयतिलः कर्मणिoइति। नन्विदं सूत्रं तिङां कर्मणि शक्तिं ग्राहयेन्न कर्तरि, तत्र कर्तृपदाश्रवणादित्याशङ्क्याऽऽहअत्र हीत्यादि। चकारेण `कर्तरि कृत्' इति पूर्वसूत्रस्थं कर्तरीति सप्तम्यन्तं पदं प्रकृतसूत्रेऽनुकृष्यत इत्यर्थः। भवतु कर्तरीत्यस्यानुकर्षस्तथाऽपीदं सूत्रं लकाराणामेव कर्त्राद्यर्थे शक्तिं बोधयेदत आहबोधकतारूपामित्यादि। बोधजनकतारूपामित्यर्थः। तिबादिशक्तिम्। तिबादिनिष्ठां शक्तिमित्यर्थः। अयं भावःप्रयोगदशायां तिबादीनामेव श्रवणात्तत एव चार्थबोधस्य जायमानत्वार्त्तिबादिनिष्ठामर्थबोधकतारूपां शक्तिं लाघवेन प्रक्रियानिर्वाहाय निबादिस्थानित्वेन कल्पिते लकारे आरोप्य कर्मणि कर्तरि चानेन सूत्रेण लकारा विधीयन्त इति तात्पर्यम्। तथा चाऽऽख्यातपदवाच्यस्य तिङ आश्रये शक्तिरिति कण्ठरवेणोक्तं पाणिनिनाऽऽचार्येणेति भावः। ननु तिबादिभ्य एवार्थबोधस्य सिद्धत्वाल्लकारस्य क्वापि प्रयोगेष्वश्रवणाल्लस्येत्यनुक्त्वा तिप्तसित्यादिसूत्रेण स्वातन्त्र्येणैव तिबादयो विधीयन्ताम्। वर्तमाने तिङ्, तिङः शतृशानचावप्रथमासमानाधिकरणे, इत्येवं रोत्या लट्पदस्थाने तिङ्पदघटितन्यासान्विधाय तिबाद्यनुवादेन वर्तमानादिकालाश्च विधीयन्तामिति चेन्न। टितो लकारस्य स्थाने विहितानामात्मनेपदानां टेः स्थाने एत्वविधायकस्य टित आत्मनेपदानां टेरे, इत्यादेरसांगत्यापत्तेः। टितो लकारस्यैवाभावात्ननु वर्तमाने तिङ्ट्, अनद्यतने तिङ्ट्, इत्यादिन्यासान् कृत्वा तत्तत्कालार्थकति बादेस्तत्तदनुबन्ध आसज्यताम्। तथा च टित आत्मनेपदानामित्यादेर्नासांगत्यमिति चेत् तथापि लिटस्तझयोरेशिरेच्, लुटः प्रथमस्य डारौरसः, इत्यादरसंगतिः स्यात्। तत्र तत्र न्यासान्तररचने गौरवापत्तेरित्यास्तां तावत्। आदेशनिष्ठाया बोधकताशक्तेः कल्पिते स्थानिन्यारोपे दृष्टान्तमाहरामान् रामैः, इत्यादौ नकारविसर्गादित एव तत्तदर्थप्रतीत्या तन्निष्ठां बोधकताशक्तिमर्थवत्येव स्थान्यादेशभाव इति नियमात्तत्स्थानिघटिते समुदाये आरोप्य कर्मकरणादौ यथा शस्भिसादयो विधीयन्ते तद्वदिति भावः। लः कर्मणीति सूत्रार्थविषये शङ्कतेन चेति। लः कर्मणीति सूत्रे कर्मकर्तृपदे कर्मत्वकर्तृत्वरूपधर्मार्थके। भावप्रधाननिर्देशात्,(भावःप्रकृतिजन्यबोदे प्रकारः, प्रधानं विशेष्यं, यत्रेत्येतादृशनिर्देशाच्छवव्दोच्चारणादित्यर्थः। लक्षणया स्वारासिकविशेषणस्य विशेष्यतया दिशेष्यस्य च विशेषणतया बोधजनकादिति तात्पर्यम्। यथा घटनिष्ठं घटत्वमित्येवं घटत्वविशेष्यकं घटपदमिति)लाघवानुरोधाच्च। धर्मिपरत्वे तु घटत्वविशिष्टघटे घटशब्दस्येव कर्मत्वविशिष्टे कर्मणि कृतिविशिष्टे कर्तरि च शक्तिः कल्प्या। अनन्तानां फलानां कृतीनां च शक्यतावच्छेदकत्वं स्वीकर्तव्यं भवति। तथा चातिगौरवं भवति। कृतेः शक्यत्वे तु कृतित्वस्य जातिरूपतयै कत्वात् शक्यतावच्छेदकैकत्वेन लाघवं भवतीत्यर्थः। कर्तृत्वं कृतिः कर्मत्वं च फलमिति। ननु कर्तृत्वकर्मत्वयोः खतं कृतिफलरूपत्वमिति चेत्उच्यते। यत्नार्थककृञ्धातोः कर्तरि तृच्प्रत्ययेन निष्पन्नः कर्तृशब्दो यत्नवानित्यर्थं वक्ति। तदुत्तरस्त्वप्रत्ययश्च प्रकृतिजन्यबोधीयविशेषणीभूतयत्नवाचकः। यत्नश्च कृतिरिति कर्तृत्वस्य कृतिरूपत्वं, कर्मशब्दस्य फलाश्रये पारिभाषिकत्वात्तदुत्तरत्वप्रत्ययेन प्रकृत्यर्थप्रकारीभूरफलबोधनात्कर्मत्वस्य फलरूपत्वं च सिद्धमित्यर्थः। फलव्यापारयोश्च धातुनैव प्रतिपादनाल्लकारस्य पुनस्तत्र शक्तिकल्पनमत्यन्तायुक्तमिति नेदं सूत्रमाख्यातस्य कर्तृकर्मणोः शक्तिं बोधयतीति भावः। दर्शनान्तरीयरीत्येति। अन्यद्दर्शनं दर्शनान्तरं, मीमांसादर्शनं तद्रीत्येत्यर्थः। धात्वर्थत्वाभावादिति। विक्लित्त्यादिफलमेव धात्वर्थः, प्यापारः प्रत्ययार्थः इति मीमांसका मन्यन्ते। बहूनां धातूनां व्यापारे शक्तिकल्पनापेक्षयाऽल्पानां तिबादिप्रत्ययानां तत्र शक्तिकल्पने लाघवात्। पचतीत्यस्य पाकं करोतीति विवरणात् फलं धातोरर्थः। `ति' इत्याख्यातस्य भावनार्थककृधातुना विवरणाच्च प्रत्ययस्यै(आख्यातस्यै) व व्यापारा(भावना)र्थकत्वं युक्तम्। विव्रियमाणविवरणयोः समानार्थकत्वस्य क्लृप्तत्वादित्यर्थः। तथा च धातुलभ्यत्वाभावाद्व्यापारे लकारविधिः संभवेत्। एवं फलस्य धातुलभ्यत्वेऽपि तदाश्रयत्वरूपे कर्मत्वे लकारविधिः स्यादित्युच्यते चेत्। तर्हि कर्त्राद्यर्थे विहितानां ण्वुल्तव्यदादीनां कृत्प्रत्ययानामपि कर्तृकर्मार्थवाचकत्वं न स्यात्। कर्तरि कृत्, तयोरेवo इत्यादिसूत्रस्थकर्तृकर्मपदयोः, लः कर्मणि चo इतिसूत्रस्थकर्तृकर्मपदवत्कर्तृत्वकर्मत्वपरत्वाङ्गीकारात्। यदि लाघवमात्रपक्षपातेन लः कर्मणीतिसूत्रस्थकर्तृकर्मपदयोः कर्तृत्वकर्मत्वार्थप्रतिपादकत्वं स्वीक्रियते तर्हि कर्तरि कृदित्यादिसूत्रस्थकर्तृकर्मपदयोरपि कर्तृत्वकर्मत्वार्थप्रतिपादकत्वस्वीकार उचितः, लः कर्मणीतिसूत्रस्थकर्तृकर्मपदे कर्तृत्वकर्मत्वरूपधर्मपरे, कर्तरि कृदित्यादिसूत्रस्थकर्तृकर्मपदे तु धर्मविशिष्टधर्मिपरे इत्येवं वैषम्यकरणे बीजायावादिति भावः। तथा च फूत्कारत्वादिकं ण्वुलादीनां शक्यतावच्छेदकं, विक्लित्तित्वादिकं तु तव्यादीनां शक्यतावच्छेदकं स्यान्न त्वाश्रयत्वमिति तात्पर्यम्। तुल्ययोगक्षेममिति। तुल्यो योगक्षेमोऽर्थप्रतिपादकत्वं यस्येत्यर्थः। ननु पाचको देवदत्त इत्येवं देवदत्तोनाभेदान्वयानुभवबलात्कृतां कर्त्रादिवाचकत्वमावश्यकं भावनायास्त्वाक्षेपेण लाभः सेत्स्यति, तद्वत् देवदत्तः पचतीत्यत्राभेदान्वयदर्शनादाख्यातानां कर्तृवाचकत्वमास्तां, भावनाया आक्षेपेण लाभसंभवाद्वाच्यत्वं मा भूदित्याहअपि चेति। मीमांसकानामिति। मते, इति शेषः। नन्वाख्यातानां कर्तृवाचकत्वे ततः कथं भावनाप्रतीतिरित्यत आहभावनाया एवेत्यादि। तथा सतिआक्षेपलभ्यत्वे सति। न स्यादिति। भावनाया आख्यातवाच्यत्वाभावात्प्राधान्यं न स्यादित्यर्थः। वाच्यार्थस्यैव प्राधान्येन भानमिति नियमादिति भावः। अन्यथाऽग्निमानयेत्यादावाक्षिप्तपात्रस्यापि प्राधान्येन भानापत्तेः। उक्तामनिष्टापत्तिं निषेधतिइति चेन्नेति। तिङन्ते आक्षेपलभ्याया अपि भावनाया मुख्यविशेष्यत्वमुपपादयतिघटमानयेत्यादाविति। अन्वयव्यतिरेकाभ्यां लाघवाच्च जातिः पदार्थ इति निर्धारितेऽमूर्तायां जातावानयनादिक्यान्वयासंभवात्तदन्वयोपपत्तये जात्याक्षिप्तायाः स्वाश्रयव्यक्तेर्यथा प्राधान्यमनुभववलात्स्वीक्रियते तथाऽऽख्यातवाच्यकर्त्राक्षिप्तभावनायाः प्राधान्यमनुभवसिद्धमुपपादयितुं शक्यमित्यर्थः। अनेन वाच्यार्थस्यैव प्राधान्यमिति नियमस्य व्यभिचारो दर्शित इति भावः। अनेकमन्यपदार्थे, इत्यनुशासनेन पिङ्गे अक्षिणी यस्या इति विग्रहदर्शनात्प्रधानषष्ठ्यर्थ एव बहुव्रीहेः साधुत्वं प्रतिपाद्यते। षष्ठ्यर्थशब्देन च प्रकृत्यर्थोपसर्जनको विभक्त्यर्थः संबन्ध एव प्रतीयते। उक्तं चारुणाधिकरणेबहुव्रीहिः समासोऽयं मतुबर्थे विधीयते। अस्यात्रेति च संबन्धे मत्वर्थीयः प्रवर्तते।। इति। तथा च प्रधानषष्ठ्यर्थे मतुपो विधानेऽपि गोमन्तमानयेत्यादौ पुरुषानयनदर्शनेन संबन्धाक्षिप्तधर्मिणि एव प्राधान्यानुभवबलाद्वाच्यार्थस्यैव प्राधान्यमिति नियमस्य व्यभिचारः स्पष्ट एवेति भावः। पाकं करोतीति। भावनार्थककृधातुना विवरणाद्भावनाया आख्यातवाच्यत्वमिति चेत्। करोतीत्याख्यातेन कर्तुरपि विवरणस्य जायमानत्वेन पचतीत्यत्रत्याऽऽ
ख्यातस्य भावनायां शक्तिरुत कर्तरीत्यनिश्चयः स्यादित्यर्थः। कर्तुर्विवरणविषये शङ्केतेन चेति। पचतीत्यत्रत्याख्यातस्य भावनार्थककृधातुना यद्विवरणं कृतं तच्छब्दार्थविवरणं, करोतीत्यत्रत्याख्यातेन यत्कर्तुर्विवरणं कृतं तत्तु न शब्दार्थविवरणं किंतु पचतीत्यतः कर्तुर्बोधो जायतामिति तात्पर्यविषयीभूताक्षेपलभ्यकर्तुर्विवरणमिति कृत्वाऽऽख्यातस्य भावनायामेव शक्तिर्निश्चितेति न पूर्वक्तानिश्चयावसर इति भावः। कर्तुर्विवरणमशब्दार्थविवरणमित्यत्र दृष्टान्तमाहपाकमिति। पच् धातोर्विक्लित्तिमात्रवाचकत्वेऽपि पाकमिति कर्मणि द्वितीयाश्रवणात्तद्गतकर्मत्वस्य यथा तात्पर्यतो विवरणं कृतं न शब्दार्थविवरणं तद्वदित्यर्थः। ननुपाकमिति द्वितीययाऽशब्दार्थकर्मत्वविवरणादशब्दार्थस्यापि संसर्गस्य विवरणदर्शनेऽपि तदतिरिक्तस्याशब्दार्थविवरणस्यादृष्टत्वाद्दृष्टान्तान्तरमाहइतरेतरेति। धवखदिरावित्यादीतरेतरयोगद्वंद्वघटकपदावाच्यस्य समुच्चयांशस्य विग्रहवाक्यस्थचकारद्वयेन विवरणवदित्यर्थः। तथा चाशब्दार्थविवरणं न तदाख्यातार्थनिर्णायकमित्यर्थः। तादृशार्थविवरणस्याऽऽख्यातार्थनिर्णायकत्वे गुह्यमाणे तु भावनायाः शब्दार्थत्वविरहेऽपि तात्पर्यविषयीभूतत्वेनाऽऽक्षेपलभ्यत्वाद्विवरणोपपत्तौ सत्यां भावनाया अप्याख्यातवाच्यत्वं भवदभीष्टं सिध्येत्किंतु कर्तुरेव वाच्यत्वं भवेदित्यर्थः। कर्तुरेवाऽऽख्यातवाच्यत्वमावश्यकमित्याहकिं चेति। यथा चैत्रः पक्तेत्यादौ चैत्रेणाभेदान्वयबोदस्यानुभवसिद्धत्वात्कृतां कर्त्रादिवाचित्वमावश्यकं तथा देवदत्तः पचतीत्यादौ देवदत्ताभिन्नकर्तृको वर्तमानो विक्लित्त्यनुकूलो व्यापार इतिशाब्दबोधाद् देवदत्तादिनाऽभेदान्वयबोधानुभवादाख्यातानामपि कर्त्रादिवाचित्वमावश्यकमित्यर्थः। तथा च भावनाया आख्यातवाच्यत्वं सुतरां दुर्लभं स्यादिति भावः। ननु यत्र विशेषणविशेष्यवाचकपदयोः समानविभक्तिकत्वं तत्रैवाभेदान्वय इति नियमः। समानविभक्तिकत्वं च विशेषणवाचकपदे विशेष्यवाचकपदोत्तरविभक्तिसजातीयविभक्तिमत्त्वम्। साजात्यं च विभक्तित्वव्याप्य(सुप्त्व्याप्य) प्रथमात्वद्वितीयात्वादिधर्मेण ग्राह्यम्। अत एव `नीलो घटम्' इति वाक्यान्नाभेदान्वयबोधापत्तिरिति शङ्कतेन चाभेदेत्यादिना तच्चात्र नास्तीत्यन्तेन। तच्चेति। अभेदान्वयबोधनियामकसमानविभक्तिकत्वं चेत्यर्थः। अत्रेति। देवदत्तः पचतीत्यादौ नास्तीत्यर्थः। प्रथमाविभक्तितिङ्विभक्त्योः सुप्त्व्याप्यधर्मेण साजात्याभावात्। तथा चाभेदान्वयबोधनियमकाभावादेवाभेदान्वयबोधासंभवान्नाऽऽख्यातस्य कर्त्रादिवाचकत्वं युक्तमिति भावः। समानविभक्तिकत्वनियमस्य व्यभिचारं दर्शयितुमाहसोमेनेति। अत्र लक्षणां विना सोमस्य यागार्थत्वं योगेनाभेदान्वयश्चानुपपन्नमिति सोमपदस्य मत्वर्थे सोमवपि लक्षणया सोमवता यागेनेष्टं भावयेदिति विशिष्टविधानाद्वाक्यभेदप्रसङ्गोऽपि नेति न्यायप्रकाशादौ मीमांसकैर्निर्धारितम्। तत्र तृतीयातिङ्विभक्त्योः सुप्त्वव्याप्यधर्मेण साजात्याभावादभेदान्वयबोधो न स्यात्। मीमांसकैस्तु सोऽङ्गीकृत एवेति समानविभक्तिकत्वानियमस्य व्यभिचारो दुष्परिहर इत्यर्थः।
स्तोकं षचतीति। फलस्यापि व्यपदेशिवद्भावेन फलाश्रयत्वात्कर्मत्वम्। अत एव तत्समानाधिकरणे स्तोकमित्यत्र द्वितीया बोध्या। अत्र धात्वर्थव्यापारजन्यफले स्तोकपदार्थस्याभेदेनान्वयः स्पष्ट एव। अत्रापि पूर्ववन्नियमस्य व्यभिचार ऊह्यः।
ननु समानविभक्तिकनामार्थयारेभेदान्वय इत्यभियुक्तोक्तेर्नामार्थयोरेवाभेदान्वये समानविभक्तिकत्वं नियामकं नान्यत्रेत्यत आहराजपुरुष इति। राजपदं राजस्वत्ववत्परं लक्षणया। तादृशस्य राजपदार्थस्य पुरुषेणाभेदान्वयः। राजनिरूपितस्वत्ववदभिन्नः पुरुष इति बोधात्। अत्र पूर्वपदे विभक्तोरश्रवणाद्विशेष्याभावप्रयुक्तो विशिष्टाभावः। आद्योदाहरणद्वये तु विभक्त्योः सत्त्वेऽपि विशेषणीभूतसाजात्याभावप्रयुक्तो विशिष्टाभाव इति विशेषः। एवं च समानविभक्तिकत्वनियमस्य नामार्थद्वयविषयकत्वेऽपि व्यभिचारः सुतरां दुर्वार इति भावः तथा च देवदत्तः पचतीत्यादावभेदान्वयबोधस्य निष्प्रत्यूहत्वादभेदान्वयबोधोपपत्तये कर्त्रादौ शक्तिराख्यातस्यावश्यं गले पततीति तात्पर्यम्।
ननु भावनैवाऽऽख्यातवाच्याऽस्तु देवदत्तः पचतीत्यादौ जायमाना देवदत्ताख्यातार्थयोः सामानाधिकरण्यप्रतीतिस्त्वन्यथानुपपत्त्याऽख्यातस्य कर्तरिलक्षमयोपपद्येतेत्याशयेन शङ्कतेन चेति। सामानाधिकरण्यं पदयोरेकधर्मिप्रतिपादकत्वम्। तथा च लक्षणयैवाभेदबोधनिर्वाहे कर्तर्याख्यातस्य शक्तिस्वीकारो निरर्थक इति भावः। लक्षणया कर्तुरुक्तत्वात्सामानाधिकरण्यस्य निर्वाह क्रियमाणे। पिङ्गाक्ष्यादियौगिकेति। योगोऽवयवशक्तिः, तत्पुरस्कारेणार्थाभिधाने प्रवृत्तानां शब्दानामित्यर्थः। द्रव्यवाचित्वानापत्तोरिति। लक्षणयैव द्रव्यबोधनिर्वाहाद्द्रव्यवाचित्वं न स्यादित्यर्थः। किं तु संबन्धवाचित्वमेव युक्तं स्यादिति भावः। इत्यादितद्धितानामपीति। वैश्वदेवीत्यादिसमुदायघटकतद्धितानामपि द्रव्यवाचित्वं न स्यादिति भावः।
योगिकशब्दानां संबन्धवाचित्वमेव विशदयतिअनेकमन्येत्यादि। अनेकमन्यपदार्थेअनेकं प्रथमान्तमन्यस्य पदस्यार्थे वर्तमानं वा समस्यते स बहुव्रीहिरित्यर्थकेनोक्तसूत्रेण पिङ्गे अक्षिणी यस्या इति विग्रहप्रदर्शनाद्धेतोर्यस्या इति पदोपस्थितप्रधानषष्ठ्यर्थ एव बहुव्रीहेः साधुत्वलाभादित्यर्थः। षष्ठ्यन्तेन च प्रकृत्यर्थोपसर्जनकः षष्ठ्यर्थः संबन्ध एव प्रतीयते इति `यस्याः' इति अन्यपदार्थमन्तर्भाव्य पिङ्गाक्षिशब्दयोर्वृत्तिः। अतः प्रधानसंबन्धार्थ एव बहुव्रीहेः साधुत्वं लभ्यत इति तात्पर्यम्। उक्तं चारुणाधिकरणे वार्तिकेबहुव्रीहिः समासोऽयं मतुबर्थे विधीयते। अस्यात्रेति च संबन्धे मत्वर्थीयः प्रवर्तते।। इति। देवतार्थकतद्धितस्यापि विश्वे देवा देवता अस्या इति विग्रहे षष्ठ्यर्थसंबन्धस्यैव प्राधान्यदर्शनात्संबन्धस्यैव वृत्तिवाच्यत्वमवसीयते।
ननूक्तरीत्या प्रधानषष्ठ्यर्थसंबन्धस्यैव बहुव्रीह्यदिवृत्तिवाच्यत्वमस्तु का हानिरिति चेदाहतथा चेति। अरुणयेत्यादिवाक्ये द्रव्यानुक्तेरिति। आकृत्यधिकरणन्यायेनारुणपदस्याऽऽरुण्यगुण एव शक्तिकल्पनात् पिङ्गाक्ष्यादिपदस्य निरुक्तरीत्या प्रधानषष्ठ्यर्थसंबन्ध एव शक्तिकल्पनाच्च द्रव्यानुक्तेरित्यर्थः। स्ववाक्येति। स्वं क्रयणभावना। तत्प्रतिपादकं यदरुणया पिङ्गाक्ष्येत्यादिवाक्यं तादृशवाक्यगतपिङ्गाक्ष्यैकहान्यन्येति बहुव्रीहिवृत्तिवाच्यद्रव्य एवाऽऽरुण्यस्यान्वय इत्येवं प्रतिपादकस्यारुणाधिकरणस्योच्छेदापात्तिरित्यर्थः।
इत्थं ह्यरुणाधिकरणम्ज्योतिष्टोमे श्रूयते`अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति, इति। अत्रारुणोति प्रकृतिभागः। क्रीधातुश्चाभिधात्री श्रुतिः। क्रीणातीत्यत्रत्याख्यातप्रत्ययो विधात्री श्रुतिः। अरुणयेति तृतीयाप्रत्ययो विभक्तिरूपा विनियोक्त्री श्रुतिः। अरुणाशब्दस्त्वारुण्यगुणमात्रवाचको लाघवात्। न त्वारुण्यगुणविशिष्टं द्रव्यमभिधत्ते। गुणविशिष्टेऽर्थेऽरुणाशब्दस्य शक्तिस्वीकारे गौरवापत्तेः। अनन्यलस्यस्यैव शब्दार्थत्वात्। आश्रयद्रव्यस्याऽऽक्षेपेण लाभसंभवात्। तथा चात्रारुणयेति तृतीया श्रुत्या प्रकृत्यर्थस्याऽऽरुण्यगुणस्य सोमक्रयसाधनत्वं प्रतीयते। तच्चानुपपन्नम्। क्रयो नाम कंचित्पदार्थं दत्त्वा कस्याचित्पदार्थस्य ग्रहणम्। दानं ग्रहणं च वासोहिरण्यादिमूर्तपदार्थस्यैव संभवति। न त्वमूर्तस्य गुणमात्रस्य। तस्याऽऽश्रयीभूताद्द्रव्यान्निष्कृष्य दानाद्यसंभवात्। ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम्। प्रकरणं च ग्रहचभसाद्यखिलद्रव्येष्वारुण्यगुणं निवेशयति। तत्रैषाऽक्षरयोजनाअरुणयेत्येतत्पृथग्वाक्यम्। तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयतेयानि ज्योतिष्टोमे साधनद्रव्याणि तानि सर्वाण्यरुणानि कर्तव्यानीत्येवं पूर्वपक्षयित्वा, पिङ्गाक्ष्येकहायनीशब्दयोः पिङ्गे अक्षिणी यस्याः, एकं हायनं यस्या इति चान्यपदार्थे विहितेन बहुव्रीहिसमासेन द्रव्यवाचित्वात्। द्रव्यं चात्र गौरवे। गवा ते क्रीणानीति मन्त्रलिङ्गात्। पिङ्गाक्ष्यैकहायन्येति च पदद्वये तृतीयाश्रुतिर्द्रव्यस्य क्रयणक्रियासाधनत्वं बोधयति। तथाऽरुणयेति तृतीयाश्रुतिरप्यारुण्यगुणस्य क्रयसाधनत्वं बोधयति। तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्याद्रव्यावच्छेदकत्वंनाम स्वाश्रयत्वेन द्रव्यग्रहणम्। स्वशब्देन गुणग्रहणम्। तथाच गुणशब्देन तादृशगुणाश्रयीभूतद्रव्यं ग्राह्यम्।द्रव्यावच्छेदकत्वं कल्प्यते। द्रव्यं चात्र स्ववाक्यगतैकहायन्येव संनिहितत्वात्। तथा चाऽऽरुण्यगुणविशिष्टैकहायन्या सोमं क्रीणातीत्यर्थः पर्यवस्यतीति सिद्धान्त उक्तः। सोऽसंगतः स्यात्। पिङ्गाक्ष्यादिपदानामुक्तरीत्या प्रधानषष्ठ्यर्थसंबन्धार्थकत्वेन तेषां द्रव्यवाचित्वाभावात्।
अत्रेदं बोध्यम्। यद्यपि यस्येत्याद्यन्यपदार्थे प्रकृत्यर्थोपसर्जिनः षष्ठ्यर्थः संबन्धः प्रधानतया प्रतीयते तथाऽपि चित्रगुर्देवदत्त इति बहुव्रीहिसमासे सामानाधिकरण्यानुरोधाच्छब्दशक्तिस्वभावाच्च षष्ठ्यर्थसंबन्धोपसर्जनः प्रकृत्यर्थः प्रधानमित्येवं विशेष्यविशेषणभावव्यत्यासं वृत्तौ प्रकल्प्य पिङ्गाक्ष्यादिबहुव्रीहेर्द्रव्यवाचित्वं निर्वाह्यम्।
मीमांसावार्तिककृतोऽपि
सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते।
नहि संबन्धवाच्यत्वं संभवत्यतिगौरवात्।। इत्याहुः।
अयं भावःसंबन्धो हि संबन्धिद्वयनिरूप्यः संबन्धिभ्यां भिन्नश्चेत्यनुभवसिद्धम्। तत्र चित्रगिरित्यादावनुशासनानुरोधेन संबन्धस्य सांसर्गिकविषयतया वाच्यत्वं कल्पनीयम्। तथा चात्र गोरूपस्यैकस्य संबन्धिनः प्रातिपदिकादुक्तत्वे ऽपि संबन्धस्योभयनिरूप्यत्वेन संबन्ध्यन्तरभानं विना भानायोगाद्द्वितीयसंबबन्धिनोऽपि वाच्यत्वं कल्पनीयमिति शक्तिद्वियकल्पनापत्त्याऽतिगौरवाद् बहुव्रीहौ संबन्धमात्रवाच्यत्वं न संभवतीत्यर्थः। आवस्यकद्वितीयसंबन्धिनैवाऽक्षेपात्संवन्धबोधोपपत्तावन्यलभ्यत्वेन संबन्धवाच्यत्वासंभवश्च। तदुक्तंसंबन्धिनैव संबन्धः प्रत्येतुं यदि शक्यते। पुनस्तस्याभिधाशक्तिं कः श्रुतेः परिकल्पयेत्।। इति। एवं च पिङ्गाक्षीवैश्वदेवीत्यादियौगिकपदानामुक्तरीत्याद्रव्यवाचित्वमवश्यमङ्गीकार्यमिति।
अत एव चित्रगोसंबन्धीति समासार्थः। यत्संबधिन्यश्चित्रा गाव इति विग्रहार्थः। वृत्तौ विशेष्यविशेषणभावव्यत्यास इत्युक्तत्वाद् वृत्त्यर्थप्रदर्शनार्थेकल्पिते चित्रा गावो यम्येति वाक्येऽपि विशेष्यविशेषणभावव्यत्यासाच्चित्रगोसंबन्धीत्येवार्थः। विशेष्यपविशेषणभावव्यत्यासप्रदर्शनायैव चित्रा गावो यस्य स इति प्रयुज्यते वृद्धैः। तत ए च न वृत्तिविग्रहयोः समानार्थत्वभङ्ग इत्युक्तं लघुमञ्जूषायां नागेशभट्टैरिति ज्ञेयम्।
तथाऽऽरुण्यस्यामूर्तस्य साक्षात्क्रयसाधनत्वासंभवेऽपि स्वाश्रयीभूतद्रव्यद्वारा परम्परया तस्य क्रयसाधनत्वसंभवात्। यथाऽरुणेति स्त्रीप्रत्यय आरुण्यगुणाश्रयीभूतगोरूपद्रव्यगतं स्त्रीत्वं द्योतयन् परम्परयाऽडऽरुण्यगुणस्य स्त्रीत्वेन संबन्धं बोधयति तथाऽरुणयेति तृतीयाप्रत्ययोऽप्यारुण्यगुणाश्रीभूतस्य गोरूपद्रव्यस्य क्रयसाधनत्वं द्योतयन् परम्परयाऽऽरुण्यगुणस्य क्रयसाधनत्वं बोधयतीति न किंचिदनुपपन्नमिति।
मूलयुक्तेरिति। द्रव्यवाचकत्वसाधिका या मूलयुक्तिःअसाधारणयुक्तिःसामानाधिकरण्यं पिङ्गाक्षी गोः, वैश्वदेवी आमिक्षेत्यत्रानुभवसिद्धं सामानाधिकरण्यं, तस्य आक्षेपादिनोपपत्तेः सत्त्वादित्यर्थः। एवं च योगिकानां पिङ्गाक्ष्यादिपदानां, वैश्वदेव्यादिघटकप्रत्ययस्य च न किंचिद्द्रव्यवाचकत्वसाधकं, तत्मतीतेराक्षेपादिनोपपत्तेरिति तेषां द्रव्यवाचित्वं न स्यादित्येवमादि विस्तरेण निरूपितं वैयाकरणभूषणे तत्तत एवावगन्तव्यमिति।
ननु लः कर्मणि, इति पाणिनिसूत्रेण लकाराणां कर्त्राद्यर्थे शक्तेरुक्तत्वात् `आश्रये तु तिङः' इत्यनुपपन्नमत आहबोधकतेति। बोधजनकतारूपा शक्तिरित्यर्थः। तिङ्क्ष्वेवेति। तिङ्निष्ठैव व्यवहारकाले प्रयोगदशायां तिङामेव सत्त्वेन तेभ्य एव कर्त्राद्यर्थबोधस्यानुभवसिद्धत्वादित्यर्थः।
वाक्यार्थज्ञाने पदार्थज्ञानस्य कारणत्वादादौ पदार्थनिरुपणमिति संगतिं प्रदर्शयन् वाक्यार्थं विशेष्य निरूपयितुमाहफले प्रधानमिति। फलेविक्लित्त्यादौ व्यापारः प्रधानं विशेष्य इत्यर्थः। फलनिरूपितप्राधान्यवान् व्यापारः फलं च तद्विशेषणमित्यर्थः। आश्रये त्विति। फलाश्रये व्यापाराश्रये च। फलव्यापारयोर्धातुलभ्यत्वादाश्रयमात्रमर्थः। अनन्यलभ्यो हि शबादार्थ इति न्यायात्। तथा चाऽऽश्रयत्वमेव शक्यतावच्छेदकम्। तिङ इति। आदेशिनो लकारस्यार्थेन तिङोऽर्थवत्त्वमादायेदं बोधकत्वं, प्रयोगे लकाराभावेन तिबादिभ्य एव कर्त्राद्यर्थबोधस्यानुभवसिद्धत्वात्तिङ एव तत्र शक्तिरित्यभिप्रायेण वा। तिङर्थइति। कर्तृकर्मसंख्याकालाः। तत्रेति। कर्त्राद्यर्थानां मध्ये। कर्ता व्यापारे विशेषणमाधाराधेयभावसंबन्धेन व्यापारनिरूपितविशेषणतावान् कर्तेत्यर्थः। कर्तृनिष्ठो व्यापार इति बोधात्। एवमेव कर्म फले विशषणं फलनिरूपितविशेषणतावत्कर्मेत्यर्थः। तण्डुलादिनिष्ठा विक्लित्त्यादिरिति बोधात्। संख्येति। कर्तृप्रत्ययसमभिव्याहारे कर्तरि संख्याया विशेषणत्वेनान्वयः। कर्मप्रत्यये कर्मणि संख्याया विशेषणत्वेनान्वय इत्यर्थः।
ननु धात्वर्थस्य फलव्यापारात्मकस्य प्रकृत्युपस्थापितत्वेन तस्यापि प्रत्यासन्नतया तत्र कुतो न संख्याया विशेषणत्वेनान्वयः। किं च संख्यायाः प्रत्ययार्थत्वात् प्रकृत्यर्थे धात्वर्थ एव तदन्वयस्य न्याय्यत्वात्सुबर्थसंख्यायाः प्रकृत्यर्थ एवान्वयस्य दृष्टावाच्चाऽऽख्यातार्थसंख्याया अपि धात्वर्थ एवान्वय उचित इत्याशङ्कां निराकुर्वन् कर्त्रादौ संख्यान्वये हेतुमाहसमानप्रत्ययोपात्तत्वादिति येन प्रत्ययेन कर्तृकर्मार्थ उक्तस्तेनैव प्रत्ययेन संख्यार्थोऽप्युक्त इति हेतोर्धात्वर्थापेक्षया प्रत्यासत्त्यतिशयात्कर्तृकर्मणोरेव संख्यान्वयस्य न्याय्यत्वादित्यर्थः। एवं च समानाभिधानश्रुतेः समभिहारात्मकवाक्यापेक्षया प्रबलत्वेनैकप्रत्ययोपात्तार्थे संख्यान्वयमकृत्वा प्रथमान्तार्थे संख्यान्वयकरणं नैयायिकानामत्यन्तानुचितमिति सूच्यते। तथा च यादृशः कार्याकारणभावः फलितस्यं निर्दिशतिआख्यातार्थसंख्येति। आख्यातशब्दो मीमांसकादिभिः केवलतिङ्क्षु प्रयुज्यते, वैयाकरणैस्तु तिङन्तेषु प्रयुज्यते, आख्यातमाख्यातेनेत्यत्र भाष्ये तथा दर्शनात्। आख्यातं तिङ्, तदर्थः संख्या, सा प्रकारःविशेषणं यत्र तादृशबोधे विशेष्यतासंबन्धेन आख्यातजन्या या कर्तृकर्मार्थोपस्थितिः सा हेतुः तादृशबोधे कारणमिति कार्यकारणमभावः सिद्धः। तत्प्रत्ययप्रतिपाद्यसंख्यायास्तत्प्रत्ययप्रतिपाद्यकर्तृकर्मरूपेऽर्थेऽन्वय इति याव्त। अत्र कर्तृकर्मविशेष्यकेत्यंशोऽपि निवेश्यः। तथा चाऽऽख्यातार्थसंख्याप्रकारककर्तृरूपार्थविशेष्यकबोधत्वं, तादृशकर्मरूपार्थविशेष्यकबोधत्वं च कार्यतावच्छेदकम्। आख्यातजन्यकर्तृभूतार्थोपस्थितित्वं तादृशकर्मरूपार्थोपस्थितित्वं च कारणतावच्छेदकम्। कार्यत्वकारणत्वयोरवच्छेदकः संबन्धः समवाय इति बोध्यम्। अत्र कार्यतावच्छेदककोटौ कर्तृकर्मरूपार्थविशेष्यकबोधं प्रतीत्येवोक्तौ पक्ता पाचक इत्यादावाख्यातजन्यकर्तृकर्मोपस्थित्यभावेन हेतोर्व्यभिचारात्कर्तृप्रत्ययेनाभीष्टः कर्त्रादिविशेष्यकबोधो न स्यादिति तत्राऽऽख्यातार्थसंख्याप्रकारकेत्यंशो निवेशितः। तथा चआख्यातार्थसंख्याप्रकारकबोधं प्रति आख्यातजन्यकर्तृकर्मोपस्थितेर्हेतुत्वेन पक्ता पाचक इत्यादौ यत्किंचिदर्थप्रकारक(धात्वर्थव्यापारप्रकारक)कर्तृविशेष्यकबोधो निराबाधः। आख्यातार्थकालप्रकारकबोधापत्तिवारणाय संख्यापदं निवेशितम्। ननु पक्तेत्यादौ व्यापारप्रकारकबोधोपपत्तये संख्याप्रकारकेत्येतावतैव सिद्धौ संख्याया आख्यातार्थेति विशेतु षणं किमर्थमिति चेन्न। आख्यातजन्यकर्तृकर्मोपापस्थितेरभावेन घट इत्यादौ सुबर्थैकत्वादिसंख्याप्रकारकबोधो न स्यात्। आख्यातार्थसंख्याप्रकारकबोधे हि तादृशोपस्थितिनियमः, न तु सुबर्थसंमख्याप्रकारकबोधे इति तत्सार्थक्यात्। कारणतावच्छेदककोटौ कर्तृकर्मपदं परित्यज्याऽऽख्यातजन्योपस्थितिर्हेतुरित्येवोक्तौवर्तमाने लट् इत्यादिसूत्रविहितलडादीनां वर्तमानादिकालवाचित्वपक्षे कालस्याप्याख्यातजन्योपस्थितिविषयत्वात्तत्र पचतीत्याख्यातार्थसंख्यायाः प्रकारतयाऽन्वयः कर्तव्यो भवेत्। तद्वारणाय कर्तृकर्मेति विषयतयोपस्थितेर्विशेषणं दत्तम्। तथाचाऽऽख्यातजन्योपरिथतिविषयत्वेऽपि कालस्य कर्तृकर्मरूपत्वाभावान्न तत्राऽऽख्यातार्थसंख्यायाः प्रकारतयाऽन्वय इति भावः। ननु देवदत्तस्तण्डुलं पचति, देवदत्तेन तण्डूलः पच्यते इत्यादौ आख्यातार्थैकत्वसंख्यायास्तण्डुलरूपे कर्मणि प्रकारतयाऽन्वयः स्यात्। तथाऽऽख्यातार्थसंख्याया देवदत्तरूपे कर्तरि प्रकारतयाऽन्वयः स्यात्। तयोस्तण्डुलदेवदत्तपदाभ्यामुपस्थितिसत्त्वात्। तथा च तत्र व्यभिचारः स्यात्। तद्वारणाय कर्तृकर्मणोराख्यातजन्यत्वं विशेषणं दत्तम्। तथा च निरुक्तप्रयोगे आख्यातार्थैकत्वबहुत्वसंख्यायास्तण्डुलदेवदत्तपदान्तरादुपस्थितयोः कर्मकर्त्रोर्न प्रकारतयाऽन्वयः। किं त्वाख्यातादुपस्थितयोः कर्तृकर्मणोरेवान्वयः। काष्ठैस्तण्डुलं पचतीत्यत्रत्याख्यातप्रत्ययेन स्वार्थसंख्याप्रकारककरणादिविशेष्यकान्वयबोधाजननात्तत्र व्यभिचारवारणाय कर्तृकर्माविसेष्यकत्येक्तं कार्यतावच्छेदककोटौ। एवं चाऽऽख्यातजन्यकर्तृकर्मोपस्थितिराख्यातार्थसंख्याप्रकारककर्तृकर्मविशेष्यकबोधनियामिकेत्यर्थः। अत्रेदं बोध्यम्। व्यभिचारो नाम कार्यकारणभावभङ्गः। व्यभिचारश्च द्विविधः। अन्वयव्यभिचारो व्यतिरेकव्यभिचारश्च। तत्र कारणसत्त्वे कार्याभावादाद्यः। कार्यसत्त्वे कारणाभावाद्द्वितीयः। काष्ठैस्तण्डुलं पचतीत्यत्र आख्यातजन्यकर्तृकर्मोपस्थितिरूपकारणसत्त्वेऽपि आख्यातार्थसंख्याप्रकारककरणविशेष्यकान्वयबोधरूपकार्याभावादन्वयव्यभिचारः। पक्ता पाचक इत्यादौ कर्तृप्रत्ययेन कर्तृविशेष्यकबोधरूपकार्यसत्त्वेऽपि आख्यातजन्यकर्तृकर्मोपस्थितिरूपकारणाभाववाद्व्यतिरेकव्यभिचार इति। उभयत्रापि निरुक्तव्यभिचारवारणायतत्तद्विशेषणं दत्तमित्यन्यत्।
एवं स्वमते कार्यकारणभावं निरूप्य नैयायिकमते कार्यकारणभावप्रयुक्तं गौरवं दर्शयितुमाहनैयायिकादीनामिति। तार्किकाणां मते प्रथमान्तार्थमुख्यविशेष्यकः शाब्दबोध इत्याख्यातार्थसंख्यायाः प्रथमान्तार्थ एवान्वयः। यथाऽऽख्यातोपात्तकृतेः प्रथमान्तार्थेऽन्वयस्तथाऽऽख्यातोपात्तसंख्याया अपीत्यर्थः। तथा चैवं कार्यकारणभावो वक्तव्यःआख्यातार्थसंख्याप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिर्हेतुरिति। सोऽपीति। उक्तकार्यकारणभावोऽपि। चन्द्र इवेत्यादि। चन्द्र इव मुखं दृश्यते, भुक्त्वा व्रजति मैत्रः, इत्यत्र चन्द्रस्य क्त्वान्तार्थभोजनस्य च प्रथमान्तार्थत्वेन तत्र दृश्यते व्रजतीत्याख्यातार्थसंख्यायाः प्रकारतयाऽन्वय आपद्येत। स च नेष्टः। चन्द्रभोजनयोराख्यातार्थसंख्यान्वयाननुभवात्। ननु क्त्वान्तस्य कथं प्रथमान्तत्वमिति चेदुच्यते। अत्र समानकर्तृकयोः क्रियारूपार्थयोर्मध्ये पूर्वकालसंबन्धी योऽर्थस्तद्वाचकात्क्त्वेत्यर्थकेन `समानकर्तृकयोः' इति सूत्रेण क्त्वि तदर्थजिज्ञासायां कर्तरि कृत्' इति न प्रवर्तते। `अव्ययकृतो भावे, इति वार्तिकारम्भाद्भाव एव क्त्वाप्रत्ययस्यार्थः। स चाप्यसत्त्वभूत एव। पाक इत्यादाविव लिङ्गसंख्याननुभवात्। तथाच क्त्वावाच्यक्रियाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि किंत्वेकवचनमेव तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात्। तच्च प्रथमोपस्थितत्वात्प्रथमाया एव। तस्य चाव्ययादाविति लुगित्यन्यत्। ननु क्त्वाप्रत्ययस्य भावमात्रार्थकत्वाङ्गीकारेऽहं भुक्त्वा व्रजमीत्यादावस्मच्छब्दात्तृतीयापत्तिः। न च तिङन्तेन कर्तुरमिहितत्वान्नेति वाच्यम्। तिङन्तार्थकर्तुरुक्तत्वेऽपि क्त्वान्तार्थकर्तुरनभिधानादिति चेन्न। प्रधानतिङन्तार्थक्रियानिरूपितशक्त्यभिधानात्क्त्वान्तार्थगुणक्रियानिरूपितशक्तेरप्यभिधानस्य भाष्येऽङ्गीकारात्। तदुक्तंप्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्। शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते। इति। तथा च क्त्वाप्रकृत्यर्थक्रियायाः क्रियान्तरे विशेषमत्वात् प्रधानक्रियानिरूपितकर्तृत्वशक्तेस्तिङोक्तत्वेन तद्विशेषणीभूतक्रियानिरूपितकर्तृत्वशक्तेरप्युक्तत्वादभिहिते प्रथमैव।?एवं च चन्द्रभोजनयोः प्रथमान्तपदजन्योपस्तितिविषयत्वस्य सत्त्वेन तत्र व्यभिचारवारणाय प्रथमान्तपदजन्योपस्थितावितरविशेषमत्वानापन्नेति विशेषणं दातव्यं भवति। तस्य च प्रथमान्तेतरार्थनिष्ठविशेष्यतानिरूपितविशेषणतानाक्रान्तत्वमर्थः। तथा चाऽऽख्यातार्थसंख्याप्रकारकबोधं प्रतीतरार्थनिष्ठविशेष्यतानिरूपितविशेषणतानापन्नप्रथमान्तपदजन्योपस्थितिः कारणमिति वाच्यमित्यतिगौरवं भवतीत्यर्थः। चन्द्र इव मुखमित्यत्र चन्द्रनिरूपितसादृश्यवन्मुखमिति बोदाच्चन्द्रस्येवार्थसादृश्यनिष्ठविशेष्यतानिरूपितविशेषणतापन्नत्वात्, तथा भुक्त्वा व्रजतीत्यत्र भोजनकर्तृकर्तृकं भोजनोत्तरकालिकं व्रजनमिति बोधोदयात्क्त्वाप्रकृत्यर्थक्रियायाः क्रियान्तरे विशेषणत्वात्तिङन्तार्थव्रजनक्रियानिष्ठविशेष्यतानिरूपितविशेषणतापन्नत्वाद्भोजनक्रियायाः, नोक्तस्थलद्वये चन्द्रभोजनयोर्दृश्यते व्रजतीत्याख्यातार्थसंख्यायाः प्रकारतयाऽन्वयबोधापत्तिरूपे दोषः। अतिगौरवमिति। वैयाकरणमते अख्यातार्थसंख्याप्रकारकबोधं प्रति आख्यातजन्यकर्तृकर्मोपस्थितेः कारणत्वाच्चन्द्रभोजनयोराखअयातार्थत्वाभावात्तत्र संख्यान्वयबोधस्याप्रसक्ततया नेतराविशेषणत्वं तत्र निवेशनीयमिति लाघवं, परमते तु तन्निवेशनीयमित्यतिगौरवमित्यर्थः। इदमपीति। परमत उक्तगौरवमपि। अथवा स्वमते परमतापेक्षया लाघवमपीत्यर्थः। परैरपि गौरवपरिहारार्थं कर्तृकर्मणोराखअयातवाच्यत्वं मन्तव्यमित्यर्थे प्रमाणमिति यावत्।
एवं तिङर्थान्तर्गतकर्तृकर्मसंख्यानां बिशेषणत्वं प्रसाध्य कालस्यापि तत्प्रसाधयतिकालस्त्विति। भूतभविष्यद्वर्तमानत्वाख्यः कालो धात्वर्थव्यापारनिरूपितविशेषणतावान्, व्यापारश्च विशेष्य इत्यर्थः। कालस्य व्यापारविशेषणतायां प्रामाण्यं दर्शयितुमाहतथा हीत्यादिना। धातोः(3191)इत्यइत्यधिकाराद्धातोरिति लभ्यते। तच्च धातोरिति पदं भू सत्तायामित्याद्यर्थनिर्देशाद्भूवादिसूत्रप्रामाण्याच्च फलव्यापारोभयात्मकं धात्वर्थमुपस्थापयद्धातुजन्यबोधे विशेष्यतया प्रतीयमानत्वाव्द्यापारमेवोपस्थापयति वर्तमाने इति धात्वर्थव्यापारविशेषणम्। तथा च वर्तमाने यो व्यापारः क्रिया तद्वाचकाद्धातोर्लडिति वर्तमाने लडिति सूत्रस्यार्थः। वर्तमानत्वद्योतको लडिति यावत्। एवं च गुणानां च परार्थत्वात्, इति न्यायेन वर्तमान इत्यादिकालवाचकं न कर्तृकर्मणोर्विशेषणं किंतु प्राधान्याव्द्यापारस्यैव विशेषणम्। इत्थं च पचतीत्यत्रैकाश्रयकः पाकानुकूलो वर्तमानकालिको व्यापारः, पच्यत इत्यत्रैकाश्रयिका या विक्लित्तिस्तदनुकूलो वर्तमानो व्यापार इति च शाब्दबोधः। कर्मरि कर्तणि च प्राचीनमते व्यापारमुचकतण्डुलादिपदसमभिव्याहारस्थले चाऽऽख्यातोपस्थापितकर्मणस्तण्डुलादिभिः सममभेदान्वयः। एवं कर्तृवाचकचैत्रादिपदसपभिव्याहारे आख्यातोपस्थापितकर्तुश्चैत्रादिभिः सममभेदान्वयः। तथा च तण्डुलं पचति चैव इत्यत्र तण्डुलनिष्ठविक्लित्त्यनुकूल एकचैत्राभिन्नलडर्थकर्तृनिष्ठो वर्तमानकालिको व्यापारः। तण्डुलः पच्यते चैत्रणेत्यत्र तण्डुलाभिन्नलडर्थकर्मनिष्ठविक्लित्त्यनुकूल एकचैत्रनिष्ठो वर्तमानकालिको व्यापार इति बोधः। अत्र मूलेप्राधान्यादिति वदता कर्माख्यातस्थले फलस्य प्राधान्यात्फले वर्तमानत्वान्वय इति सूच्यते। तथा च तण्डुलः पच्यते चैत्रेणेत्यत्र चैत्रनिष्ठव्यापारजन्या तण्डुलाभिन्नलडर्थकर्मनिष्ठा वर्तमानकालिकी विक्लित्तिः, इति बोधः। परं त्विदं न समीचीनमिति भाति। अग्रे `नापि फले विक्लित्तिः, इति बोधः। परं त्विदं न समीचीनमिति भाति। अग्रे `नापि फले तदन्वयः' इत्युपक्रम्य निरुक्तरीत्या व्यापारारम्भसत्त्वे फलस्य भावित्वेनाविद्यमानत्वात्तत्र वर्तमानकालान्वयासंभवेन पच्यत इत्यनापत्तेः पक्ष्यते इत्यापत्तेश्च। तस्मात्कर्माख्यातेऽपि व्यापार एव वर्तमानकालान्वयः। कारकप्रकारकबोध इव कालप्रकारकबोधं प्रति विशेष्यतासंबन्धेन धातुजन्यभावनोपस्थितेर्हेतुत्वेन क्लृप्तत्वात्। एवं च ग्रामं गत इत्यत्र क्तप्रत्ययार्थकर्तृविशेषणीभूते व्यापारे एव वर्तमानकालान्वयः। तथा च चैत्रनिष्ठवर्तमानव्यापारजन्या तण्डुलाभिन्नलडर्थकर्मनिष्ठा विक्लित्तिरिति बोदः। अन्ये तु यदा यस्य प्राधान्यं तदा तस्मिन् कालान्वयः। प्राधान्यं च फलव्यापारयोरुभयोरपि दृष्टमिति नात्र कालप्रकारकबोधं प्रतीत्यादिनियमावकाशः। फलानुत्पत्तिदशायां व्यापारसत्त्वे फले वर्तमानत्वारोपात्पच्यत इति प्रयोगस्य नानुपपत्तिः। एकैकावयवेऽपि समूहरूपारोपादधिश्रयणकालेऽपि यथा पचतीति प्रयोगस्तद्वदित्यर्थः। आरोपे च प्रतीतिरेव शरणमित्याहुः। एवं च फलस्य विशेष्यत्वे तत्रैव कालान्वय इति बोध्यम्। एतत्पक्षे द्योतकत्वेनैव कालस्याऽऽख्यातार्थत्वम्। वर्तमाने लड्भवति नाम वर्तमानकालवाचको लड्भवतीति पक्षे कालस्याऽऽख्यातार्थत्वं शक्यतयेति बोध्यम्। ननु येनाऽऽख्यातप्रत्ययेन कर्तृकर्मरूपोऽर्थः प्रतिपाद्यते तेनैवाऽऽख्यातेनैकत्वादिका संख्यापि प्रतिपाद्यत इति द्वयोरर्थयोः समान एकोऽभिधायकः शब्द इत्यर्थिकया समानाभिदानश्रुत्या यथा संख्यायाः कर्तृकर्मणोरन्वयोऽङ्गीकृतस्तथा कालस्यापि पूर्वोकर्मणोरन्वये सति लक्ष्यैकचक्षुष्कानुसारेण दूषणान्याहअतीतेति। यन्निष्ठा विक्लित्त्यनुकूला भावना व्यतीता समाप्तेति यावत्। तादृशे कर्तरि विद्यमाने सति पचतीतिप्रयोगापत्तेः। व्यापारविगमेऽपि कर्तुर्विद्यमानत्वात्। कालत्य कर्त्राद्यर्थेऽन्वय इति पक्षे लः कर्मणीत्यनेनैकवाक्यतया यद्धातोः कर्ता वर्तमानकाले भवति तादृशाद्धातोर्लडित्यर्थात्। कालस्य व्यापारेऽन्वय इति सिद्धान्ते कर्तृनिष्ठव्यापारस्य वर्तमानत्व एव लडिष्यते। तत्रैव च पचतीति प्रयोगः। तथाऽतीतभावनाके कर्तरि अभीष्टोऽपाक्षीदिति प्रयोगो न स्यात्। कर्तुर्विद्यमानत्वात्। तथा विक्लित्त्यनुकूलव्यापारे अनारब्धे कर्तुर्विद्यमानत्वे च सति पक्षअयतीत्यभीष्टः प्रयोगो न स्यात्। किंतु पचतीत्येव प्रयोग आपद्येतेत्यादिदूषयणग्रस्तत्वान्न कर्तृकर्मणोः कालान्वयवादः समीचीनः। ननु फल एव कालान्वयोऽस्तु। तथा सति न पूर्वोक्तदूषणावकाश इत्यनुसंधाय निरस्यतिनापि फल इत्यादिना। फले कालान्वयाङ्गीकारे विक्लित्तिरूपफलानुत्पत्तिदशायां व्यापारस्य वर्तमानत्वे पचतीति प्रयोगो न स्यात्। फलस्यावर्तमानत्वात्। स्याच्च पक्ष्यतीति प्रयोगे इतीष्टहानिरनिष्टापत्तिश्चेत्यर्थः। आखअयातार्थकालस्य कर्तृकर्मणोः फले चान्वये सति दूषणान्यभिधाय कालस्य व्यापारेऽन्वयेऽपि दोषमभिधातुमुपक्रमतेन चाऽऽमवातेत्यादिना। आमवातो रोगविशेषः। तेन जडीभूतं काष्ठवच्चेष्टारहितं हस्तपादाद्यवयवगतस्पन्दशून्यं कलेवरं शरीरं यस्य ताट्टशपुरुषे ऊर्ध्वदेशसंयोगानुकूलयत्नरूपव्यापारस्य विद्यमानत्वेन फलात्यन्तासंभवेऽपि तत्रोत्तिष्ठतीति प्रयोग आपद्येत। तथा च आख्यातार्थकालस्य कर्तृकर्मणोः फलव्यापारयोश्चाप्यन्वये सर्वपक्षेषु दूषणस्य तुल्यत्वाद्व्यापारे कालान्वय इत्यस्यैव पक्षस्य समाश्रयणमनुचितम्। फले कालान्वयाङ्गीकारे तदानीं फलानुत्पत्तेर्न तादृशप्रयोगापत्तिरितिशङ्ककाशयः। सिद्धान्ती तादृशप्रयोगापत्तिं परिहर्तुमाहपरयत्नस्येति। यत्नस्याऽऽत्मनिष्ठगुणत्वनोन्तरङ्गत्वादन्यनिष्ठस्य तस्यान्येन प्रत्यक्षतया ज्ञातुमसक्यत्वान्न तादृशप्रयोगः। तादृसार्थं बोधयिष्यमीतिच्छया शब्दप्रयोगकरणे तादृशार्थज्ञानस्यावश्यापेक्षितत्वादित्यर्थः। ननु परनिष्ठप्रयत्नस्याप्रत्यक्षत्वेऽपि अनुमानेन यत्नावगतौ सत्यामुत्तिष्ठतीति प्रयोगापत्तिर्दुर्वारेत्याक्षिप्येष्टापत्त्या परिहरतिकिं चिच्चेष्टेत्यादिना। हस्तपादादिशरीरावयवगताक्रिययेत्यर्थः। आदिना तदीयलेखादि ग्राह्यम्। अनुमानप्रयोगश्चेत्थम्चैत्रनिष्ठचेष्टां पक्षीकृत्य, प्रयत्नजन्यत्वं साध्यते, चेष्टात्वात्, मन्निष्ठचेष्टावत्। इति। अथवा जडीभूतोऽयमुत्थानानुकूलयत्नवान्, विजातीयचेष्टावत्त्वात्, अहमिवेति। अयमुत्तिष्ठतीति। उत्थानानुकूलयत्नवान् वर्तते किंतु शक्त्यभावाच्छक्तिरूपसहकारिकारणाभावादूर्ध्वदेशसंयोगात्मकं फलं नैव जन्यत इति लोकानुभवसिद्धत्वादामवातजडीकृतपुरुषविषये उत्तिष्ठतीति प्रयोग इष्यत एवेति भावः। एवं चेति। पूर्वोक्तानां युक्तीनामवश्याङ्गीकरणीयत्वे चेत्यर्थः। चत्वारोऽपि तिङर्था विशेषणान्येव धात्वर्थो व्यापार एव प्रधानं विशेष्य इति बोध्यम्। विशेषणान्येवेत्येवकारेण तिङर्थे विशेष्यत्वस्य व्यावृत्तिः। व्यापार एवेत्येवकारेण फलस्य तिङर्थस्य कर्त्रादेश्च व्यावृत्तिर्बोध्या।
ननु भावनाया धातूवाच्यत्वे कर्त्रादेश्च तिङ्वाच्यत्वे तस्याः प्रत्ययार्थं प्रति विशेषणत्वापत्तिः प्रकृतिप्रत्ययार्थयोरिति व्युत्पत्तेरित्याक्षिप्य प्रत्याचष्टेयद्यपीति। पक्ता पाचक इत्यादौ विक्लित्त्यनुकूलव्यापारराश्रय इति बोधानुभवात्प्रकृतिप्रत्ययार्थयोर्मध्ये प्रत्ययार्थस्य प्राधान्यं दृश्यते तद्वत्पचतीत्यादावपि तिङर्थकर्त्रादेः प्राधान्यं धात्वर्थभावनायाश्च तन्निरूपितं विशेषणत्वं स्यादित्याक्षेपः। तत्रोत्तरमाहतथापि भावप्रधानमिति। आख्यातामित्यन्तमाख्यातलक्षणप्रतिपादकं वाक्यम्। अत्राऽऽख्यातं भावप्रधानगित्येवमुद्देश्यविदेयभावः कल्प्यः। अन्यथा प्राथम्याद्भावप्रधानमित्युद्देश्यं, आख्यातमिति च विधेयं स्यात्। ततश्च त्वया मयाऽन्यैश्चैधनीयमित्यादौ भावप्रधानके नाम्न्यतिप्रसङ्गः स्यात्। उद्देश्यविदेयभावस्थले विधेये उद्देश्यतावच्छेदकनिरूपितव्यापकत्वभानमौत्सर्गीकम्, इति नियमात्, आख्यातेआख्यातत्वावच्छिन्ने प्रधानभावार्थप्रतिपादकत्वं बोध्यते। प्रकृते उद्देश्यतावच्छेदकमाख्यातत्वं तच्च व्याप्यम्। प्रधानभावार्थप्रतिपादकत्वं विधेयतावच्छेदकं तच्च व्यापकमिति बोद्यम्। आख्यातं तिङन्तम्। आख्यातमाख्यातेनेत्यत्र भाष्य तिङन्त एवाऽऽख्यातपदस्य शक्त्यवधारणात्। प्राधान्यं चोपरिथतत्वात्स्ववाचकप्रकृतिप्रत्ययार्थनिरूपितम्। स्वपदेन धात्वर्थभावना। तद्वाचकः पचादिर्धातुः। तत्प्रकृतिकः प्रत्ययः पचतीत्यत्र तिङ्प्रत्ययः। तदर्थः कर्त्रादिः। तन्नरूपितं प्राधान्यं बोध्यम्। तिङन्तं तिङर्थनिष्ठप्रकारतानिरूपितधात्वर्थनिष्ठविशेष्यताकबोधजनकमित्यर्थः। लक्ष्यतावच्छेदकं च तिङन्तत्वमिति यावत्। भावः प्रधानं यस्मिंस्तदिति बहुव्रीहिः। भावोऽत्र क्रिया। सा च क्रि यतेऽनेनेतिकरणव्युत्पत्त्या व्यापारं, क्रियत इति कर्मव्युत्षत्त्या च फलं प्रतिपादयति। ततश्च तिङन्ते फलव्यापारयोः प्राधान्यं, तत्र ++कर्ता वाच्यो यस्येति बहुब्रीहिः। तिङन्तं चान्यपदार्थः। कर्तृवाचके तिङन्त इत्यर्थः। एवं कर्मवाच्ये, इत्यत्रापि बोध्यम्।+ कर्तृवाच्ये व्यापारस्य कर्मवाच्ये तु फलस्य प्राधान्यमिति विभागः। सत्त्वप्रधानानीति। अत्रापिनामानि सत्त्वप्रधानानीत्युद्देश्यविधेयभावयोजना। अन्यथा यथाश्रुते सत्त्व(द्रव्य)निष्ठविशेष्यताकबोधजनकत्वमुद्दिश्य नामत्वविधाने पचतीत्यादौ तिङन्ते आश्रयत्वसंख्यानिष्ठप्रकारतानिरूपितकर्त्रादिसत्त्वनिष्ठाविशेष्यताकबोधजनकोऽतिप्रसङ्गः स्यात्। सत्त्वं द्रव्यं लिङ्गाद्यन्वयि तत्प्रधानं यत्रेति विग्रहाल्लिङ्गादिनिष्ठप्रकारतानिरूपितमुख्याविशेष्यताशाल्यर्थप्रतिपादकानि भवन्तीत्यर्थः। एतदेव च नामलक्षणम्। लक्ष्यतावच्छेदकं स्वादिप्रत्ययविधानाधित्वरूपं नामत्वम्। भूवादिसूत्रस्थेति। इत्थं हि तत्र सूत्रे भाष्यम्पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्ति, इति। अनेन च स्पष्टमेव पच्याद्यर्थक्रियाकर्तृकभवतिक्रियायाः प्राधान्यं बोध्यते। अन्यथा प्रकृतिप्रत्ययौ सहार्थं ब्रूत इति नियमेन धात्वर्थक्रियाया आख्यातार्थकर्त्रादिविशेषणत्वेनावरुद्धायाः पदार्थान्तरे विशेषणतयाऽन्वये निराकाङ्क्षात्वाद् भवत्यर्थक्रियायामाख्यातार्थकर्त्रादिविशेषणपच्यादिक्रियाणामन्वयप्रदर्शनं भाष्यकृत्कृतमसंगतं स्यात्। तेनाऽऽख्यातार्थनिष्ठप्रकारतानिरूपितं प्राधान्यं धात्वर्थक्रियाया अवगम्यत इत्यर्थः। तथा च भावप्रधानमित्यादिनिरुक्तात्पच्यादयः क्रियाः, इति निरुक्तभाष्याच्च धात्वर्थभूतभावनायाः प्रत्ययार्थापेक्षयाऽपि प्राधान्यं निश्चीयते। एवं च पूर्वोक्तनिरुक्तभाष्यप्रामाण्याभ्यां प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति नियमस्य तिङन्ते परित्यागरूपः संकोचोऽवश्यमङ्गीकार्यः, अन्यता प्रत्ययार्थप्राधान्यवादिनां मीमांसकादीनां भवतामेव निरुक्तादिविरोध इति भावः। प्रकृतिप्रत्ययार्थयाः प्रत्ययार्थस्य प्राधान्यमिति नियमरयासंकोचे दूषणान्तरमाहअपि चेति। देवदत्तः पचतीत्यादौ कर्तुस्तिङ्प्रत्ययार्थत्वेन प्रधान्यात्तस्य देवदत्तादिभिः सह देवदत्ताभिन्नो यस्तिङर्थः कर्तेत्येवमभेदान्वयबोधात्प्रथमान्तार्थस्यापि देवदत्तादेः प्रादान्यापत्तौ पश्य मृगो धावतीत्यत्र मृगकर्तृकधावनकर्मकं दर्शनमित्येवंरूपं भाष्यकृत्प्रदर्शितमेकवाक्यत्वं न संगच्छेत। भावनाया धातुवाच्यत्वे कर्त्रादेस्तिङ्वाच्यत्वे प्रकृतिप्रत्ययार्थयोरिति नियमेन धावनक्रियाविशेष्यस्य प्रथमान्तपदवाच्यमृगस्य दृशिक्रियायां कर्मत्वेनान्वये द्वितीयापत्तेः। तथा च धावनाश्रयमृगकर्मकदर्शनाश्रयस्त्वमित्यर्थे पश्य मृगं धावतीति वाक्यस्यैव संभवेन तादृशवाक्यस्य विलय एव स्यादित्यर्थः। मूले प्रथमान्तेत्यादिद्वितीयापत्तेरित्यन्तेन प्रत्ययार्थप्राधान्यवादिमते एकवाक्यत्वानुपपत्ता कारणं प्रतिपादितमिति बोध्यम्। अत्रेदं बोध्यम्धावुधातोः कर्तरि लटा वा, शीघ्रगतिवाचिनः सृधातोः शिति धौरादेशेन वा धावतीति रूपं सिध्यति। धावनं नामोत्तरदेशसंयोगानुकूल उत्कटवेगवान् व्यापारः। लडर्थः कर्ता। तत्र मृगस्याभेदेनान्वयः। तथा च मृगाभिन्नो यो लडर्थः कर्ता तन्निष्ठो देशविशेषसंयोगानुकूलो वेगवत्तरो व्यापार इत्येवं व्यापारमुख्याविशेष्यकः शाब्दबोधो वैयाकरणमते। तथा पश्येत्यत्र लोण्मध्यमपुरुषैकवचनं दृश् धातोः पश्यादेशश्च। दृश्धात्वर्थश्चाक्षुषज्ञानानुकूलो व्यापारः। तथा च युष्मदर्थाभिन्नलोडर्थकर्तृनिष्ठश्चाक्षुषज्ञानाकूलो विधिविषयो व्यापार इति बोधः पृथक्। एकपदार्थेऽपरपदार्थसंसर्गः संसर्गमर्यादया भासते न तत्र संसर्गार्थकशब्दापेक्षेति मृगकर्तृकधावनक्रियायाः कर्मत्वेन दृशिक्रियायामन्वये मृगाभिन्नलडर्थकर्तृकश्चाक्षुषज्ञानानुकूलो विधिविषयो व्यापार इत्येकवाक्यतया बोधः। तत्र धावनस्य दृशिक्रियाकर्मभूतस्य धातुवाच्यतया धातोश्च प्रातिपदिकसंज्ञाविरहेण न तस्माद् द्वितीयाप्रसक्तिः। पचति भवतिपचिक्रिया भवतीति, पक्ष्यति भवतिभविष्यन्ती पाकक्रिया सूक्ष्मरूपेण भवतीति च भाष्ये क्रिययोः क्रियाकारकभावेनान्वयाङ्गीकारात्तत्तुल्यन्यायात्पश्य मृगो धावतीत्यत्रापि क्रिययोस्ततोऽन्वयबोधोऽभ्युपगत इति भावः। प्रत्ययार्थप्राधान्यवादिनां मते उत्तरदेशसंयोगानुकूलवेगवत्तख्यापारवान् मृग इति बोधात्ताट्टशबोधे विशेष्यभूतस्य मृगस्य दृशिक्रियायां कर्मतयाऽन्वयः कर्तव्यः स्यात्। स च न संभवति। कर्मभूतस्य मृगस्य प्रातिपदिकार्थतया पश्येत्यत्रत्यतिङा तदनभिधानेन चानभिहिताधिकारीयकर्मणि द्वितीयेति द्वितीयापत्तिविरोधात्। अयं भावःधावनं प्रति विशेष्यभूतो मृगः। स च दृशिक्रियां प्रतिसाक्षाद्विशेषणं दृशिक्रिया चात्र प्रधानम्। तथा च धावतीत्यत्रत्यतिङा मृगरूपस्य कर्तुरुक्तत्वादभिहिते प्रथमेति मृगपदोत्तरं प्रथमा प्राप्ता, अथ च दर्शनक्रियानिरूपितकर्मत्वात्तदुत्तरं द्वितीया च प्राप्ता। तत्र प्रथमाऽन्तरङ्गा, मृगो धावतीत्येकवाक्याश्रितत्वात्। द्वितीया तु बहिरङ्गा, पश्य मृगो ध वतीत्युभयवाक्याश्रितत्वात्। ततश्च द्वितीयां बाधित्वा प्रथमोपस्थितत्वेनान्तरङ्गत्वात् पूर्वं प्रथमयैव भाव्यम्। ततो दर्शनक्रियायां संबन्धेऽपि भुक्तवन्तमिति न्यायेनान्तरङ्गात्वाज्जातसंस्कारबाधायोगान्न द्वितीयापत्तिः। नापि एकवाक्यतया मृगकर्तृकं धावनकर्मकं दर्शनमित्यर्थे पश्य मृगो धावतीति प्रयोगविलयापत्तिरिति चेत्। उच्यतेपद्यपि बहिरङ्गदर्शनक्रियापेक्षत्वाद्द्वितीया बहिरङ्गा तथाऽपि तृशिक्रियायाः प्राधान्यात्प्रधाननिरूपितकार्यस्य च लोके सर्वतो बलवदत्त्वदर्शनादन्तरङ्गामपि प्रथमां बाधित्वा प्रधानक्रियानुरोधिनी द्वितीया प्रसज्येतेति। व्यापारमुख्यविशेष्यकशाब्दबोधवादिमते तु नायं दोषः। मृगस्य धावनं प्रति विशेषणत्वेनान्तरङ्गत्वाज्जातस्य प्रथमारूपसंस्कारस्यानिवृत्तेः। तार्किकाणां मते फलानुकूलो व्यापारो धात्वर्थः। लकाराणां कृतौ शक्तिर्लाघवात्। कृतेश्चाऽऽश्रयतासंबन्धेन प्रथमान्तार्थेऽन्वयः। प्रथमान्तार्थमुख्यविशेष्यकश्च शाब्दबोधः। तथा च नैयायिकमते पश्य मृगो धावतीत्यस्येत्थं शाब्दबोधःउत्तरदेशसंयोगानुकूलव्यापारानुकूलकृतिमानमृगः। पश्येत्यत्र च तमित्यध्याहृत्य चाक्षुषज्ञानानुकूलव्यापारानुकूलकृतिमान् युष्मदर्थस्त्वमित्यर्थः पृथगेव न त्वेकवाक्यतया मृगपदोत्तरं द्वितीयापत्तेरिति। द्वितीयापत्तिवारणमाशङ्क्य निराकारोतिन चैवमित्यादिना। एवमिति। मृगशब्दाद् द्वितीयापत्तावित्यर्थः। लटः शतृशानचाविति सूत्रेऽप्रथमान्तेन समानाधिकरणस्य लटः स्थाने शतृशानचोर्विधानान्मृगपदोत्तरं द्वितीयाप्रबुत्तौ धावतीत्यत्र प्रक्रियादशायां लटः स्थाने नित्यं शता प्रसज्येत। तथा च तिबाद्यप्रवृत्तिभियैव द्वितीया न करिष्यत इति शङ्ककाशयः। सिद्धान्ती तु शतृप्रसङ्गो न द्वितीयाप्रवृत्तिप्रतिबन्धकः। किं तु कर्मणोऽभिहितत्वं तत्प्रतिबन्धकम्। न हिशतरि प्रवृत्तेऽपि कर्मणोऽभिधानं भवति, कर्तरि लटः सत्त्वात्। ततश्च कर्मणोऽनभिहितत्वस्य तदवस्थत्वाद्द्वितीयापत्तिर्दुःसमाधेयेत्यनुसंधायाऽऽहएवमपीति। शतरि प्रवृत्तेऽपत्यिर्थः। मृगस्य दृशिक्रियायां कर्मतयाऽन्वये सति कर्मणोऽनभिहितत्वेन मृगपदोत्तरं द्वितीयाप्रवृत्तेर्दुष्परिहरत्वाद् धावन्तं मृगं पश्येत्येवंम वाक्यस्यैव योग्यत्वात्पश्य मृगो धावतीति प्रयोगस्य सर्वथाऽसंभव एवेत्यर्थात्।
मृगपदोत्तरं द्वितीयाया अप्रसक्त्या पश्य मृगो धावतीति प्रयोगसंभवमाशङ्क्य निराकुरुतेन च पश्येत्यत्रेत्यादिना। पश्येति दर्शनक्रियायां कर्मतया मृगस्य नान्वयः। किंतु तत्र तमिति स्वतन्त्रं कर्माध्याहार्यम्। तथा च यो मृगो धावति तं पश्येत्यर्थात्पश्य मृगो धावतीति प्रयोगसंभव इति सङ्काशयः। अध्याहारो न युक्तः। तथा सति मृगो धावतीत्येकं वाक्यं तं पश्येति च द्वितीयमिति वाक्यभेदरूपगौरवापातादित्यर्थः। किं च पश्य मृगो धावतीति वाक्यान्मृगनिष्ठोत्कटधावनकर्मकं दर्शनमित्येकवाक्यतया बोधस्य सर्वानुभवासिद्धाद् दृशिक्रियायां कर्मतासंबन्धेन मृगनिष्ठोत्कटधावनस्यैवान्वयः प्रतिपादयितुमभीष्टः। स च व्यापारमुख्यविशेष्यकबोदवादिनां वैयाकरणानां मते सामीचीन्येनोपपद्यते। उत्तरदेशसंयोगानुकूलं मृगाभिन्नलडर्थकर्तृनिष्ठमुत्कटधावनमित्येवं धावतीत्यस्माद्विशेष्यतया प्रतीतस्योत्कटधावनस्य दर्शनक्रियायां कर्मतयाऽन्वयात्। कर्त्रादेस्तिङ्वाच्यत्वमङ्गीकृत्य प्रत्ययार्थप्राधान्यवादिनां मते प्रथमान्तमुख्यविशेष्यकशाब्दबोधवादिनां तार्किकाणां मते च नोपपद्यते। उत्तरदेशसंयोगानुकूलव्यापारानुकूलकृत्याश्रयमृगकर्मकं दर्शनमिति शाब्दबोधोदयान्मृगपदोत्तरं प्रसक्तद्वितीयायाः परिहारार्थं दर्शने तमिति कर्माध्याहारः। तत्र तमिति तच्छब्देन केवलमृगस्य धावनानुकूलकृत्याश्रयमृगस्य वा परामर्शेऽपि प्रतिपिपादयिषितस्य मृगनिष्ठोत्कटधावनकर्मकं दर्शनमित्यर्थस्य तद्वाक्यात्प्रतीत्यनुपपत्तेः। ननूत्कटधावनक्रियाविशिष्टमृगस्य तच्छब्देन परामर्शे सति `विधिप्रतिषेधौ विशेषणमुपसंक्रामतः सति विशेष्ये बाधे' इति न्यायेन शिखी ध्वस्य इत्यत्र विशेष्यभूते शिखिनि ध्वंसान्वयं परित्यज्य तद्विशेषणभूतशिखायां ध्वंसान्वयपर्यवसानवन्मृगनिष्ठोत्कटधावनक्रियाया एव कर्मतया दर्शनेऽन्वयस्य पर्यवसानेन न निरुक्तविवक्षितार्थानुपपत्तिरिति चेन्न। दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात्। तथा हि शिखी ध्वस्य इति दृटान्ते विशेष्यभूते शिखाविशिष्टे पुरुषे प्रत्यक्षेण ध्वंसान्वयस्य बाधात्तद्विशेषणे शिखायां ध्वंसान्वयपर्यवसानं युक्तम्। दार्ष्टान्तिके पश्य मृगो धावतीत्यत्र तु विशेष्यभूते मृगे दर्शनक्रियाकर्मत्वस्य बाधाभावेन विशेष्यभूतमृगस्यैव कर्मतासंबन्धेन दर्शनेऽन्वयस्योचित्वात्तद्विशेषणभूतोत्कटधावनक्रियायाः कर्मतया दर्शनेऽन्वयस्याप्रामाणिकत्वेनात्यन्तानुचितत्वादिति बोध्यम्। प्रकृतविषयमुपसंहरतिएवं चेति। आख्यातार्थकर्त्रादिविशेष्यशाब्दबोधस्वीकर्तृमते प्रथमान्तार्थविशेष्यकबोधवादिमते च भाष्यकृत्संमतैकवाक्यतानुपपत्तिरूपदोषघ्रौव्ये चेत्यर्थः। भावना संख्याकालाद्यतिरिक्तो धात्वर्थव्यापारः प्रकारो विशेषणं यस्मिंस्तादृशबोधं प्रति विशेष्यतया प्रथमान्तपदजन्यार्थोपस्थितिः कारणमित्येवं बोधोपस्थित्योः कार्यकारणभावो नैयायिकोक्तो नाऽऽदरणीयः। उक्तदोषदुष्टत्वादित्यर्थः। स्वसंमतनिष्कर्षमाहकिं त्विति। आख्यातार्थस्तिङर्थो यः कर्ता तत्प्रकारकबोधे जननीये विशेष्यतासंबन्धेन भावनाया धातुजन्योपस्थितिः कारणमित्येवं बोधोपस्थित्योः कार्यकारणभावोऽवसेयः। देवदत्तस्तण्डुलं पचतीत्यस्माद्देवदत्ताभिन्नो यो लडर्थः कर्ता तन्निष्ठस्तण्डुलनिष्ठविक्लित्त्यनुकूलो व्यापार इति बोधस्यानुभवसिद्धत्वात्। यद्यप्ययं व्यापारः फूत्कारत्वादितत्त्द्विशेषरूपेण धातुवाच्यस्तथाऽपि धातूनामनेकार्थत्वात्कदाचित्सामान्यरूपेणापि धातुवाच्यो भवति। अत एव वाक्यार्थप्रदर्शनसमये विक्लित्त्यनुकूलो व्यापार इति सामान्यरूपेण बोध उच्यते, न तु विक्लित्त्युनुकूलः फूत्कारादिरित्येवं विशेषरूपेण निर्दिश्यत इति संगच्छते। एवं च मूले भावनात्वावच्छिन्नविषयतयेति यद्धातुजन्योपस्थितेर्विशेषणमुक्तं तद्धातुना कदाचिद्भावनात्वप्रकारकबोधो जन्यत इत्यभिप्रेत्य बोध्यम्। एवं, तिङर्थकर्मप्रकारकबोधे जननीये तत्तात्फलनिष्ठविशेष्यतासंबन्धेन धातुजन्योपस्थितिः कारणमित्यपि कार्यकारणभावः स्वीकर्तव्यः।
ननु धात्वर्थव्यापारस्य कृत्प्रत्ययार्थं प्रत्येव विशेषणत्वं नतु तिङर्थं प्रतीति अनुभूयमाननियमसंपत्तये भावनाप्रकारकशाब्दबोधे जननीये कृत्प्रत्ययजन्योपस्थितिः कारणमित्येवं बोधोपस्थित्योः कार्यकारणभावोऽवश्यमङ्गीकरणीयः। तथा च पचति भवतीत्यादितः क्रियाप्रकारकक्रियाविशेष्यकः शाब्दबोदोऽत्यन्तासंभवी। क्रियाप्रकारकबोधे हेतुभूतायाः कृत्प्रत्ययजन्योपस्तितेरभावादित्याशङ्क्य निराचष्टेभावनाप्रकारकेति। यथा गन्तेत्यादावन्यदेशसंयोगानुकूलव्याराश्रय इति प्रत्ययार्थमुख्यविशेष्यकशाब्दबोधस्य सर्वानुभवसिद्धत्वाद्भावना प्रकारः विशेषणं यस्मिंस्तादृशबोधे जननीये धात्वर्थभावनानिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन कृज्जन्यार्थोपस्थितिः कारणमित्येवं बोधोपस्थित्योः कार्यकारणाभावोऽङ्गीक्रियते तद्वद्धात्वर्थभावनाप्रकारकबोधे जननीये धात्वर्थभावनानिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन धातुजन्यभावतोपस्थितिः कारणमित्यपि कार्यकारणभावः कल्प्यः। निरुक्तकार्यकारणभावकल्पने प्रमाणमाहपश्य मृग इत्यादि। पचति भवतीत्यादावेकवाक्यतया भावनाप्रकारकभावनाविशेष्यकबोधस्य भाष्यादिसंमतत्वादित्यर्थः। दिगिति। पचति भवतीत्यादौ तिङन्तात् परस्य तिङन्तस्य निघातवारणाय कृतं तिङ्ङतिङ' इति सूत्रीयमतिङ्ग्रहणं निरुक्तस्थले एकवाक्यत्वाभावे समानवाक्यस्थत्वविरहादेव निघाताप्राप्तौ व्यर्थं सत्तिङन्तसमुदायेऽप्येकवाक्यत्वं सूत्रकाराभिमतमिति सूचयतीत्यर्थः। यद्वा धावनानुकूलकृतिमान्मृग इति विशिष्टार्थवाचिनो धावति मृग इति वाक्यस्य दर्शनक्रियायां कर्मतासंबन्धेनान्वयः। तथा सति नामार्थधात्वर्थयोरभोदेनान्वयोऽप्युत्पन्न इति व्युत्पत्तिविरोधो न। वाक्यस्य नामार्थत्वाभावात्। नापि द्वितीयापत्तिः। वाक्यस्याप्रातिपदिकत्वात्। तात्पर्यानुरोधाच्च दर्शनकर्मत्वस्य धावने पर्यवसानमित्येवं रीत्यैकवाक्यत्वसंभवेऽपि भावप्रधानमिति वचनस्य भाष्यसंमतार्थकस्य विरोधो दुर्वारो नैयायिकानामित्यर्थ इति। इत्थं चेति। प्रत्ययार्थस्य कर्त्रादेर्धात्वर्थं प्रति विशेषणत्वे प्रत्ययार्थसंख्यायाः प्रत्ययार्थकर्त्रादिविशेषणत्वे यद्वाऽऽख्यातार्थकर्तृप्रकारकबोधे जननीये धात्वर्थभावनोपस्थितेः, आख्यातार्थकर्मप्रकारकबोधे जननीये धात्वर्थफलोपस्थितेर्हेतुत्वे चेत्यर्थः। पचतीत्यत्रैकर्तृको विक्लित्त्यनुकूलो वर्तमानकालिको व्यापार इति बोधाकारः। भावप्रधानमाख्यातम्, क्रियाप्रधानमाख्यातम्, इति निरुक्तभाष्यानुरोधात्। एवं पच्यते इति कर्माख्यातेऽपि एककर्मिका या विक्लित्तिस्तदनुकूलो वर्तमानकालिको व्यापार इति व्यापारविशेष्यको बोधाकारः प्राचीनमतेन द्रष्टव्यः। नवीनास्तु पक्वस्तण्डुल इत्यादिकर्मकृदन्तस्थले व्यापारप्रयोज्यविक्लित्त्याश्रयस्तण्डुल इति बोदात्फलस्य व्यापारं प्रति प्राधान्यं दृष्टमिति कर्मतिङन्तेऽपि फलस्यैव मुख्यविशेष्यकत्वं युक्तमिति वदन्ति। तिङन्तेऽपि फलस्य मुख्यविशेष्यकत्वादेव प्रत्ययार्थे स्वप्रकृत्यर्थविशेष्यान्वयित्वमिति नियमस्य न त्यागः। पच्यते इत्यत्र प्रत्ययार्थे कर्मणि प्रकृत्यर्थःव्यापारावच्छिन्नफलं, तत्र विशेष्यं यय्फलं विक्लित्तिः तस्या आश्रयतासंबन्धेनान्वयाल्लक्षणसमन्वयः। तण्डुलाभिन्नकर्माश्रयिका व्यापारजन्या विक्लित्तिरिति बोधात्। भावार्थकतिङां धात्वर्थानुवादकमात्रत्वाद्भावतिङन्तस्थले धात्वर्थमावनैव मुख्यं विशेष्यम्। न च लडादिभिस्तत्र वर्तमानत्वं न बोध्येतेति वाच्यम्। वर्तमानत्वस्य धात्वर्थव्यापारविशेषणतया तिङो द्योतकत्वं तथैवानुभवात्। वाचकत्वपक्षेःऽप्यगत्याऽनुभवानुरोधेन तस्य धात्वर्थव्यापारविशेषणत्वस्वीकारात्। अथैवं तत्र संख्याप्रत्ययोऽपि कथमिति चेन्न। भावलकारे हि संख्यान्वयिकर्तृकर्मणोरप्रतीतेस्तत्रत्या संख्याऽनन्वितैव। न च वर्तमानत्ववद्भावनायामेव संख्यान्वयोऽस्त्विति शङ्क्यम्। भावनाया लिङ्गसंख्यानन्वयित्वेनैव धातुनोपस्थापनात्। एतदेव तस्या असत्त्वरूपत्वंमित्युच्यते। किंतु न केवला प्रकृतिः प्रयोक्तव्या नापि केवला प्रत्यय इति नियमेव साधुत्वार्थमेकवचनमेव प्रयुज्यते। तत्रापि नैवैकत्वसंख्यापेक्षा। एकवचनमुत्सर्गतः करिष्यत इति भाष्यसिद्धान्तात्। अयं भावःएकवचनम्, द्वयोर्द्विवचनम्, इति भङ्क्त्वा सूत्रन्यासः। बहुषु बहुवचनम्, इति यथास्थितमेव। तत्र द्वित्वबहुत्वयोर्द्विवचनबहुवचननियमे सति तयोरविषये संख्यानपेक्षणेनैकवचनमिति लभ्यत इति तदर्थ इति।
कर्तृवाचकचैत्रादिपदसमभिव्याहारस्थले त्वाख्यातोपस्थापितकर्तुश्चैत्रादिभिः सममभेदान्वयः। तथा चैकतण्डुलाश्रयिका या विक्लित्तिस्तदनुकूलैकचैत्राभिन्नाश्रयिका वर्तमानकालिकी भावनेति तण्डूलं पचति चैत्र इत्यत्र बोधः। एवं कर्मवाचकतण्डुलादिपदसमभिव्याहारेऽपि आख्यातोपस्थापितकर्मणस्तण्डुलादिभिः सममभेदान्वयात्तण्डुलः पच्यते चैत्रेणेत्यत्र एकचैत्राश्रयिका एकतण्डुलाभिन्नाश्रयिका या विक्लित्तिस्तदनुकूला सांप्रतिकी भावनेनति बोध इत्याशयेनाऽऽहदेवदत्तादिपदप्रयोगे त्विति। आख्यातार्थकर्त्रादिभिरिति। समानविभक्तिकनामार्थयोरेवाभेदान्वय इति। व्युत्पत्तेः सोमेन यजेत स्तोकं पचति, राजपुरुष इत्यादौ व्यभिचरितत्वेन दुष्टत्वादिति भावः।
आख्यातार्थकर्तृप्रकारकबोधे जननीये विषयतासंबन्धेन धातुजन्यभावनोपस्थितिः कारणमित्युक्तं, किं तु धातुमात्रस्य व्यापारवाचित्वं न दृश्यते नश्यतीत्यादौ व्यापारप्रतीतेरननुभवात्। तथा च तत्रोक्तकार्यकारणभावव्यभिचार इत्याशयेनाऽऽहघटो नश्यतीत्यत्रेति। अयं भावःनश् धातोर्न केवलं नाशोऽर्थः। किं तु `णश अदर्शने' इति धातुपाठात्अदर्शनानुकूलो व्यापारोऽर्थः। स च व्यापारः प्रतियोगितासहितनाशसामग्रीसमवधानम्। अत्र नाशसामग्र्याः प्रतियोगितासाहित्यं च निरूपकतासंबन्धेन बोध्यम्। तथा च घटनिष्ठा या प्रतियोगिता, तन्निरूपिका या नाशसामग्री तत्समवधानमेव व्यापार इत्यर्थः। नाशसामग्री च शनैः शनैः क्रमिकावयवविशरणादिरूपा। एवं च घटाभिन्नाश्रयकोऽदर्शनानुकूलो व्यापार इति बोधान्न कार्यकारणभावभङ्ग इत्यर्थः। अत एवनश् धातोरदर्शनानुकूलव्यापारार्थकत्वादेव। तस्यां सत्यामितिः क्रमेणावयवविशरणाद्यात्मिकायां सामग्र्यां सत्यामित्यर्थः। अवयवक्षरणात्प्रकादर्शनानुकूलव्यापारसत्त्वपर्यन्तं नश्यति, व्यापारात्यये नष्टः, व्यापारस्य भावित्वे नङ्क्ष्यतीति प्रयोग उपपद्यते इत्यर्थः। देवदत्तो जानाति, इच्छतीत्यादौ वाक्यार्थबोधं वर्णयतिदेवदत्ताभिन्नाश्रयक इत्यादि। स चव्यापारश्चेत्यर्थः। अन्तत आश्रयतैवेति। अन्ततो गत्वा विचारे क्रियमाणे ज्ञानेच्छादिनिरूपिताऽऽश्रयतैव तदनुकूलो व्यापार इत्यर्थः। ज्ञानेच्छादीनामाश्रयमन्तराऽनुपलम्भात्तदुपलम्भजनकत्वेनाऽऽश्रयतैव व्यापारः। आश्रयताप्रापका ये व्यापारास्तदारोपादाश्रयज्ञानं पौर्वापर्यसत्तवाद्व्यापारत्वमित्यर्थः। वस्तुत आत्ममनःसंयोगोऽपि ज्ञानेच्छाद्यनुकूलव्यापारः संभवतीति बोध्यम्।। 2 ।।
अथ क्व फले आश्रयान्वयः क्व च व्यापार इति प्रसङ्गसंगत्या तत्तात्पर्यग्राहकं वक्तुं भूमिकामारचयतिनन्वाख्यातस्येत्यादिना। `आश्रये तु तिङः स्मृताः' इत्यनेनाऽऽख्यातस्य नाम केवलस्य तिङः कर्तृकर्मणोः शक्तिरुक्ता। ततश्च पचतीत्यत्रत्यतिपः सकाशात्कर्तृकर्मोभयबोध आपद्येत। उभयत्रापि शक्तेः सत्त्वादित्यर्थः। ननु सकृदुच्चारितः शब्दः सकृदर्थं गमयति, इति, अन्याय्यं चानेकार्थत्वं विना प्रमाणमिति च न्यायान्नैकदैवार्थद्वयबोध इत्यत आहकर्तृमात्रबोधवदिति। मात्रशब्देन कर्मार्थस्य व्यावृत्तिः। कर्मंमात्रस्यापीति। अत्र मात्रशब्दः कर्त्रर्थव्यावर्तकाः। बोधापत्तिरिति। यथा अनेकार्थकादपि हर्यादिशब्दात्कदाचित्सिंहमात्रस्य कदाचिच्चाश्वमात्रस्य बोधो जायते तात्पर्यग्राहकस्य प्रकरणादेः समानन्वात्तथा पचतीत्यत्रापि कदाचित्कर्ममात्रस्यापि बोधापत्तिः शक्तेः समानत्वादिति भावः। तात्पर्यग्राहकमिति। तत्तदर्थप्रतीतिर्भवत्वितीच्छयोच्चरितत्वरूपतात्पर्यविषयकग्रहजनकमित्यर्थः। शास्त्रप्रवर्तकाचार्यानुभवसिद्धतात्पर्यग्राहकमिति यावत्। तेन कस्यचिदाधुनिकस्य पच्यत इत्यत्र कर्तृबोधे तात्पर्यसत्त्वेऽपि पाणिन्याद्याचार्यतात्पर्याभावान्न कर्तृबोधः, किं तु कर्मबोध एवेत्यत आहफलब्यापारेति। तत्रेति तयोरित्यर्थकम्। ततश्च तयोःफलव्यापारयोर्मध्ये इत्यर्थः। ननु यदि तङ् फल आश्रयान्वयं द्योतयेत्तर्हि एधते निविशत इत्यादावाख्यातार्थश्रयस्य फलेऽन्वयापत्त्याऽतिप्रसङ्गोऽतोऽत्रोपसर्गप्रयुक्तत्वाभावविशिष्टः परस्मैपदिभ्य एवोत्पन्नस्तङ् ग्राह्यः। यगादिसमभिव्याहृतस्ताङिति यावत्। तेन निरुक्तादिस्थले न दोषः। यगिति। ननु सुख्यति दुःख्यतीत्यादिकण्ड्वादियगन्तस्थलेऽतिप्रसङ्गवारणाय तङ्समभिव्याहृतो यग्गृह्येत तथाऽपि कण्डूयते इत्यादौ दोष एवेति तन्निरासाय सार्वधातुके यगिवि सूत्रविहित एव यगत्र ग्राह्यः। एवं चिणपि `चिण्भावकर्मणोः' इति विहित एव ग्राह्यः। तेन दीपजनेति चिणन्तेऽदीपीत्यादौ नातिप्रसङ्गः। आदय इति। आदिना चिण्वदिट्। यथा कारिष्यते घट इत्यादौ। तथा `कुषिरञ्जोः प्राचांo' इति विहिते श्यन्परस्मैपदे अपि द्योतके। यथा रज्यति घटः स्वयमेवेत्यादौ। लिडादावप्युक्तरीत्या प्रकरणादिकमेव द्योतकत्वेनानुसंधेयम्। तङादयः कर्मद्योतकाः शबादयश्च कर्तृद्योतका इत्येवं व्यवहारोपपत्तय आहफलान्वय्याश्रयस्येत्यादिना समुदायार्थ इत्यन्तेन। तात्पर्यं ग्राहयन्तीति। तत्तदर्थप्रतीच्छिं जनयन्तीत्यर्थः।। 3 ।।
निरुक्ततात्पर्यग्राहकत्वमाक्षिपतिएमिति। तङादीनां फले, शबादीनां च व्यापारे आश्रयान्वयद्योतकत्वे सतीत्यर्थः। व्यभिचार इति। कार्यकारणभावभङ्गः। अबोधि सः, पच्यते ओदनः स्वयमेवेत्यादौ च यगादिसत्त्वेऽपि फले आश्रयान्वयाभावाच्छबादीनामसत्त्वेऽपि व्यापारे आश्रयान्वयसत्त्वाच्च कारणसत्त्वे कार्याभावरूपोऽन्वयव्यभिचारः, कार्यसत्त्वे कारणाभावरूपो व्यतिरेकव्यभिचारश्चाऽऽयातीत्यर्थः। व्यभिचारमेव रपष्टयितुं तत्साधनप्राक्रियां विशदयतिकर्मणः कर्तृत्वेति। यदा सौकर्यातिशयं द्योतयितुं कर्तुः पुरुषस्य व्यापारो न विवक्ष्यते किं त्वोदनादिकर्मगत एव व्यापारो विक्लित्त्याद्यनुकूलत्वेन विवक्षितस्तदा पच् धातोः कर्तरि लकारे कृते `कर्मवत्कर्मणाo' इति शास्त्रेण कार्यातिदेशविधानाद्यगात्मनेपदादीनां सत्त्वेऽपि आख्यातात्कर्तुरेव बोधादाख्यातार्थाश्रयस्य व्यापार एवान्वयो न तु फले इत्यर्थः। तथा अबोधीत्यत्रापि बुध्यतेः कर्तरि लुङि तत्स्थाने आत्मनेपदप्रथमपुरुषैकवचनतादेशे दीपजनेत्यादिना चिणि चिणो लुगिति तादेशस्य लुकि सत्यत्रापि नाऽऽश्रयस्य फलेऽन्वयः किं तु व्यापार एवेत्यत आहउत्सर्गोऽयमित्यादि। क्रर्मकर्त्रिति। पच्यत ओदनः स्वयमेवेत्यादौ, आदिपदात्क्रमादमुं नारद इत्यबोधि स इत्यादौ च विपर्ययात्वैपरीत्य त् तङादिः कर्मद्योतकः शबादिश्च कर्तृद्योतक इत्येवंरूपः पूर्वोक्तोऽर्थः, उत्सर्गः उत्सृज्यते क्वचित्त्यज्यते इति व्युत्पत्त्या सामान्यभूतो बहुषूदाहरणेपु तथा सत्त्वात्प्रायिको न तु सार्वत्रिक इत्यर्थः। तस्मात्पूर्वोक्तार्थस्यासार्वत्रिकत्वात्। यथोचितंअननुगतमपि व्युत्पत्त्यनुसारित्वादुचितमिति यावत्। यथागमंशास्त्रानुसारेणैव द्योतकत्वं स्वीकर्तव्यमिति भावः। एतदेव शाब्दबोधवर्णनेन स्पष्टयितुमाहअत्र हीति। नारद इत्यबोधत्यिस्य शाब्दबोधं प्रदर्शयन्नाहसामान्येति। पूर्वं त्विषां चय इति, ततः शरीरीति, ततः पुमानिति ततो नारद इति क्रमिकज्ञानमध्ये पूर्वं पूर्वं सामान्यज्ञानमुत्तरोत्तरं च विशेषज्ञानमिति बोध्यम्। एकनारदेति। एको यो नारदस्तद्विषयकं ज्ञानमित्यर्थः। अत्र निपातेनेतिशब्देन कर्मणोऽभिहितत्वान्न नारदशब्दोत्तरं द्वितीया। भट्टनागेशमते तु `नारदः' इत्याकारकं यज्ज्ञानं तदनुकूल इत्यादिर्बोधोऽवगन्तव्यः। तत्र नारद इति प्रथमान्तस्याप्रातिपदिकत्वान्न द्वितीयाप्राप्तिरपि। क्वचिन्निपातेनेति तु ते नानुमन्यन्ते। तिङ्कृत्ताद्धितसमासानामेव भाष्ये परिगणनात्। यदुक्तं यथागपमिति तत्तात्पर्यमाहसकर्मकेत्यादि। व्यापारव्यधिकरणफलवाचको यो धातुस्तत्समभिव्याहृतं भावकर्तृसाधारणभावकर्मणोः, सार्ववातुके यगित्यादिसूत्राविहतं यच्चिण्यगादिकं तद्द्योतकमिति भावः। पच्यते ओदनः स्वयमेवेत्यादौ कर्मवादित्यनेन शास्त्रातिदेशपक्षे भावसाधारणविधिविहितयगात्मनेपदयोः सत्त्वात्फल एवाऽऽश्रयान्वयकर्तव्यतारूपाऽतिव्याप्तिः स्यात्। तत्परिहाराय सकर्मकेत्यादि समभिव्याहृतान्तं विशेषणं दत्तम्। तथा च कर्मकर्तरि धातोः प्रायेणाकर्मकत्वादत्रत्ययगात्मनेपदयोः सकर्मकधातुसमभिव्याहृतत्वाभावान्न तयोः कर्मद्योतकतेति भावः। अबोधि श्रीकृष्ण इत्यादौ चिणः सकर्मकधातुसमभिव्याहृतत्वेनातिप्रसङ्गः स्यात्तद्वारणाय भावसाधारणेत्यादि यगादेर्विशेषणम्। ततश्चाबोधीत्यत्रत्यचिणो दीपजनेति विहितत्वेन भावसाधारणविधिविधेयत्वाभावान्न तस्य कर्मद्योतकत्वमित्यर्थः। चिण्यगादिविधायकतत्तच्छास्त्रज्ञानरहितस्य तु प्रकरणादिकमेव तात्पर्यग्राहकम्। एवं लिडादावपि बोध्यम्। अन्यथा `पेचे, इत्यत्र कर्तृकर्मणोरुभयोरपि समानत्वात्तात्पर्यग्राहकदौर्लभ्येनानवस्था प्रसज्येत। एतेनाऽऽख्यातस्य कर्मकर्तृभावेषु शक्तिसत्त्वेन पचतीत्यादौ सर्वत्रैव भावना यथा प्रतीयते तद्वत्कर्मकर्तृभावानां सर्वत्र प्रतीत्यापत्तिस्तेषु शक्तिसत्त्वादिति परास्तम्। यगादेस्तात्पर्यग्राहकत्वकथनादिति बोध्यम्।। 4 ।।
अथ सामान्यत उक्तं धातोर्व्यापरवाचित्वं साधकबाधकविचारेम द्रढयितुं भूमिकामारचयतिएवमित्यादि। आश्रये तु तिङ स्भृता इत्यादिनिरुक्तरीत्या वाक्यार्थं निरूप्येत्यर्थः। ननु सामान्यतो धातोर्व्यापारवाचित्वकथनानन्तरमवसरसंगत्या साधकबाधकयुक्तिभिस्तद्व्यवस्थापनमेवाऽऽदावुचितं न वाक्यार्थोपवर्णनमित्याशङ्क्याऽऽहसूचीकटाहेति। यत्र कश्चिल्लोहकारः प्रथमतः कर्तव्यत्वेन प्राप्तमपि कटाहनिर्माणं बह्वायाससाध्यत्वात्परित्यज्य पश्चात्कर्तव्यत्वेन प्राप्तमपि सूचीनिर्माणं स्वल्पायाससाध्यत्वाद् यत्प्रथमं करोति सऽयं सूचीकटाहन्यायः। लोकव्यवहारेऽपि एकदैव कार्यद्वयप्रसङ्गे लघु कार्यं पूर्वं क्रियते पश्चाच्च महदिति प्रसिद्धमेव। तथा चैतन्न्यायानुसारेण खण्डनीयवादिविप्रतिपत्तीनां स्वल्पत्वाद् दुर्बोधत्वाभावाच्च तन्निराकरणेन वाक्यार्थस्य सुप्रतिपादतया सुगमतया च स एवाऽऽदौ वर्णितः, न तु धात्वर्थो व्यवस्थापितः। तत्र निराकरणीयवादिविप्रतिपत्तीनां बहुत्वान्नैकविधदुरूहतर्कजालजटिलत्वाच्च तस्य तदानीं दुरधिगमत्वादिति ज्ञेयम्। लडाद्यन्त इति। अत्रान्तशब्दः परसमीपबोधकः। लडादिरन्तः परसमीपो यस्मादित्यतद्गुणसंविज्ञानबहुव्रीहिः। तथा च लडाद्यन्त इत्यस्य धातावित्यर्थः। धातौ भावनाया अवाच्यत्वमित्यन्वयेन धातुनिष्ठवाचकतानिरूपितवाच्यत्वाभावो भावनासंबपन्धीति वदतः प्राभाकरादीन् प्रतीत्यर्थः। यद्वा भावनानिष्ठवाच्यतानिरूपितवाचकत्वाभावो धातौ इति वदत इत्यादिरर्थः। भावनाया धातुवाच्यत्वे, तयोः प्रत्ययार्थप्राधान्यमिति न्यायेन तस्याः प्राधान्यानुपपत्त्या धात्ववाच्यत्वमिति हि तेषामाशयः। प्राभाकरादिनित्यादिशब्देन नैयायिकसंग्रहः। यद्यपि फलानुकूलो व्यापारो धात्वर्थ इति नैयायिका मन्यन्ते तथाऽपि नासौ तन्मते भावनाशब्दव्यवहार्यः। एवं च मीमांसकानुद्दिश्य साधकबाधकयुक्तिभिर्भावनाया धातुवाच्यत्वं नैयायिकान् प्रति धात्वर्थव्यापारस्य भावनापदवाच्यत्वं च द्रढयितुमाहव्यापारो भावनेति। यो ह्यर्थो व्यापारशब्देनोच्यते स एवार्थो भावना, उत्पादना, क्रियेति शब्दैर्व्यवह्रियते इतिकारिकपूर्वार्धस्यार्थः। कीदृशो ह्यर्थो व्यापारपदव्यपदेश्यः? इति चेद्धरिकारिकोक्त्यनुसारेणोच्यतेफूत्कारत्वादितत्तद्रूपेण भासमानैरवयवैर्युक्तः, संकलनात्मिकया बुद्ध्या प्रकल्पितो योऽभेदस्तद्रूपः, यः क्रमजन्मनां बुद्धिस्थानामधिश्रयणादीनां व्यापाराणां समूहः स इति। तादृशार्थवाचकव्यापारपदं भावनादिशब्दैर्विव्रियत इति विव्रियमाणविवरणयोः समानार्थत्वेन धातोर्भावनावाचित्वं सिध्यति। फलव्यापारयोर्धातुरित्युक्तत्वादिति भावः। भावना सैवेत्यत्र सा एवेति पदविभागः। यो हि व्यापारः सैव भावनेत्यर्थः। उद्देश्यप्रतिनिर्देश्ययोरैक्यमापादयत्सर्वनाम तदन्यतरलिङ्गभागित्यभियुक्तोक्तेः। यत्कर्म णा चेत्स कर्तेतिवत्। यद्वा स एवेति पुंलिङ्गनिर्द्देशोऽस्तु। यो व्यापारः स एव भावनेत्यर्थः।सोऽचि लोपे चेत्पादपूरणमिति स इत्यस्य सोर्लोपे साधुत्वादिति भावः। ननु स्यादेतत्पूर्वोक्तं सर्वं युक्तं, यदि धातोर्व्यापारवाचित्वं सिध्येत्, तत्रैव किं प्रमाणमिति जिज्ञासायां तस्मात्करोतिर्धातोः स्याद्व्याख्यानमित्यग्रे वक्ष्यमाणतया पचतिपाकं करोति, गच्छतिगमनं करोति, इंत्येवं व्यापारार्थककृञा पच्यादिधातुविवरणस्यैव प्रमाणत्वमिति प्रदर्शयन्नाहपचतिपाकमुत्पादयतीत्यादि। ननु व्यापारो भावना सैवेति कारिकायां या क्रिया सैव भावना सैव चोत्पादना, इत्युक्तेऽपि क्रियाया भावनात्वसिद्धौ किमर्थं व्यापारपदं निवेशितमित्यत आहव्यापारपदं चेति। अयत्नानामिति। कृतिपदवाच्यो यः प्रयत्नस्तद्भिन्नानामपि फूत्कारादिव्यापाराणां तत्तद्विशेषरूपेण भावनापदवाच्यत्वसिद्ध्यर्थं व्यापारपदमुपात्तम्। क्रियाशब्देन तु भावार्थकशप्रत्ययव्युत्पन्नेन कृतिशब्दवद्यत्नार्थकेन कृतेरेव चेतनमात्रनिष्ठाया भावनापदवाच्यत्वं लभ्येत न तु चेतनाचेतसाधारणानां व्यापाराणामिति भावः। क्रियापदं च तादृशव्यापाराणां धातुवाच्यत्वं क्रियापदवाच्यत्वं च बोधयितुमित्यर्थः। अत एवेति। तेन तेन रूपेण व्यापारस्य धातुवाच्यत्वादेव। बोधः सर्वसिद्ध इति। सर्वानुभवसिद्धस्य विशेषरूपेण बोधस्यापह्नवोऽयुक्त इति भावः। एवं व्यापारस्य विशेषरूपेण धातुवाच्यत्वादेव चैत्रः पचतीति वाक्यजन्यबोधदशायां चैत्रः फूत्कारादिमान्न वेति संशयो न जायते, सामान्यरूपेम बोधे तु अस्ति नास्तीत्यन्यतरकोटिनिश्चयाभावेन संदेहो दुर्वार इति भावः। अथ फूत्कारत्वादीनां गुरुत्वान्नानात्वाच्च वाच्यतावच्छेदकत्वस्वीकारोऽयुक्त इति तदपेक्षया लघुत्वादेकत्वाच्च कृतित्वस्यैव धातुवाच्यतावच्छेदकत्वस्वीकार उचित इति नैयायिकसंमतनियमद्वारा धातोः कृतिवाचकत्वं साधयन्नाशङ्कते तटस्थःन चैवमित्यादिसाध्वीत्यन्तेन। एवमिति। उक्तरीत्या फूत्कारादिब्यापाराणां धातुवाच्यत्वे। एषांफूत्कारत्वादीनाम्। शक्यतावच्छेदकत्वे स्वीकृते सतीति शेषः। गौरवेति। तेषां गुरुत्वादनेकत्वाच्चेत्यर्थः। कृतित्वमेवेति। फूत्कारत्वाद्यपेक्षया कृतित्वस्यप्रवृत्तित्वरूपकृतित्वमिष्टसाधनताज्ञाननिरूपितकार्यतांवच्छेदकतयासिद्धो जातिविशेषः।लघुत्वाज्जातित्वेनकत्वाच्चेत्यर्थः। एवकारेण फूत्कारत्वादेर्व्यावृत्तिः। तदवच्छेदकमिति। धातुवाच्यतावच्छेदकं वक्तव्यमित्यर्थः। तथा च विक्लित्त्यनुकूला कृतिर्धांत्वर्थोऽस्त्विति शङ्काभिप्रायः। कृतिश्च यत्न एव। नन्वेवं कृतेर्धातुवाच्यत्वे रथो गच्छतीत्यादावचेतने रथादौ यत्नस्य बाधाद्व्यापारादिप्रतीतिः सर्वानुभवसिद्धा कथं निर्वाह्येत्यत आहरथो गच्छतीत्यादाविति। जानातीत्यस्य देवदत्त इत्यादिः। आदिपदादिच्छति नश्यतीत्यादिपरिग्रहः। व्यापारत्वादीत्यादिनाऽऽश्रयत्वप्रतियोगित्वयोः परिग्रहः। स च लक्षणयेत्यर्थः। नैयायिकरीतिरिति। लकाराणां कृतौ शक्तिर्लाघवान्न तु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवादिति मन्यमानैर्नैयायिकैर्व्यापारे आश्रयत्वे वा लक्षणामङ्गीकृत्य यथा रथो गच्छतीत्ययं प्रयोगः साधितस्तद्वत्कृतेर्धात्वर्थत्वेऽपि शङ्ककेन मया साधयितुं शक्य इत्यर्थः। अत्र तटस्थस्य कृतेर्धात्वर्थत्वसमर्थनार्थमेव नैयायिकरीत्यनुसरणं न त्वन्याशसमर्थन इति बोध्यम्।
अवच्छेदकत्वे हीत्थं नियमःसंभवति लघौ, गुरौ तदभाव इति। मानान्तरसिद्धे लघुधर्मेऽवच्छेदकत्वे संभवति सति गुरुधर्मेऽवच्छेदकत्वं न कल्पनीयम्। यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छेदकत्वं प्रमेयधूमत्वसमनियते शुद्धधूमत्व एवाङ्गीक्रियते न तु प्रमेयत्वविशिष्टधूमत्वे, लघुगुरुधर्मयोरुभयोरपि शब्दशक्त्यात्मकमानान्तरसिदधत्वादिति हि तस्यार्थः, न तु मानान्तरागम्येऽपि लघुधर्मे केवललाघवानुरोधेन तत्स्वीकार्यमिति। ततश्च फूत्कारत्वाद्योपक्षया कृतित्वस्य लघुधर्मत्वेऽपि मानान्तरगम्यत्वाभावाद्दृष्टान्तबलेन च गुरुधर्मेऽप्यवच्छेदकत्वस्वीकारसंभवात्प्रकृतस्थले निरुक्तनियप्रसंगत्यसंभवेनायुक्ता तटस्थाशङ्केत्याशयेनाऽऽहशक्यतावच्छेदकत्वस्यापीति। यथआ गङ्गायां घोष इत्यत्र लक्षणयोपस्थितार्थगते गङ्गातीरत्वात्मके गुरुधर्मे लक्ष्यतावच्छेदकत्वं स्वीक्रियते तद्वत्फूत्कारत्वादिगुरुधर्मेऽपि शक्यतावच्छेदकत्वस्वीकारे बाधकाभावादित्यर्थः। तयोर्वैषम्येति। शक्तिलक्षणयोरुभयोरपि पदतदर्थसंबन्दरूपत्वाविशेषेण लक्ष्यतावच्छेदकत्वं गुरुधर्मे शक्यतावच्छेदकत्वं तु न तत्रेत्येवं वैलक्षण्यकरणस्य प्रमाणाभावेनानुचितत्वात्पचतीत्यतो विक्लित्त्यनुकूलो यत्न इति बोधस्याऽऽनुभविकानामनुदयाच्च सर्वथाऽयुक्तं तटस्थाशङ्कितं धातोः कृतिवाचकत्वमिति भावः।
ननु न केवललाघवानुरोधेन कृतित्वस्य धातुवाच्यतावच्छेदकत्वमाशङ्कितं किंतु मानान्तरगम्यत्वसंभवसहकृतेनैव लाघवेनेति सूचयंस्तस्य मानान्तरगम्यत्वसंभवमाशङ्कतेन चेति। अयं भावःकृञो यत्नार्थकत्वमवश्यमेष्टव्यम्। यत्नजन्यत्वानुसंधानदशायामेव पटः कृत इति कृतव्यवहारदर्शनात्। यत्नजन्यत्वानुसंधानाभावे तु तत्राङ्कुरः कृत इति कृतव्यवहारदर्शनात्। किं त्वङ्कुरो जात इत्येवमकृतव्यवहारदर्शनात्। इत्थं च पचतीत्येतद्धटकपच्धातोः पाकं करोतीत्येवं यत्नार्थककरोतिना विवरणात्, किं करोतीति यत्नविषयकप्रश्ने पचतीत्युत्तरस्य यत्नार्थकत्वं विनाऽनुपपत्तेश्च यत्न एव धातोरथं इति शङ्काभिप्रायः यत्नश्च कृतिरेव। संभवेदेवं यदि कृञो यत्नार्थकत्वं सुवचं स्यात्, तदेव तु दुर्लभमिति दूरे धातोर्यत्नार्थकत्वकथनमित्यभिप्रेत्याऽऽहरथ इति। अत्र रथपदानुपादाने गमनानुकूलयत्नस्य चैत्रादिचेतननिष्ठस्य विद्यमानत्वेन न तादृशप्रयोगहानिरतो `रथः' इत्युक्तम्। अङ्कुरः कृत इत्येतावन्मात्रोक्तौ यत्नापरपर्यायेश्वरीयकृतिजन्यत्वमादाय निरुक्तप्रयोगोपपत्तिरत उक्तं बीजादिनेति। एवं च रथबीजादावचेतने यत्नस्य सर्वथा बाधात्तादृशप्रयोगासंगत्या नैव कॉञो यत्नवाचित्वमपि तु व्यापारवाचित्वं विना निरुक्तप्रयोगानुपपत्तेः कृञो व्यापारे लाक्षणिकत्वान्न तेन यत्नार्थकत्वभङ्ग इति वाच्यम्। संभवति मुख्यार्थकत्वे लाक्षणिकार्थकल्पनाया अन्याय्यत्वात्। तथा च बहुशः कृञो व्यापारवाचित्वदर्शनेन व्यापार एव कृञः शक्तिरुचितेति तादृशार्थककरोतिना धातोर्विवरणाद्विव्रियमाणविवरणयोः समानार्थकत्वनियमाद्धातोर्व्यापारवाचित्वमवश्यं स्वीकरणीयमित्याशयः। विवरणं च तत्समानार्थकपदान्तरेण तदर्थकथनम्। पचतीत्यनेन समानार्थकं यत्पदान्तरं पाकं करोतीत्याकारकं तेन पचतीत्यस्यार्थकथनमिति बोध्यम्।
अथ कृञोऽकर्मकतापत्तेरिति कारिकोत्तरार्धमवतारयितुं भूमिकामारचयतिकिंचेत्यादिना। भावनायाःव्यापाररूपभावनायाः। अवाच्यत्वेधातुनिरूपितवाच्यत्वाभावे तिङ्निरूपितवाच्यत्वाभावे च सतीत्यर्थः। ततश्च फलमात्रस्य धात्वर्थत्वे पर्यवसन्ने स्वजनकव्यापारव्यधिकरणधात्वर्थफलाश्रयत्वं, धात्वर्थफलाश्रयत्वमेव वा कर्मत्वं वक्तव्यम्। अत्र स्वपदेन फलं ग्राह्यम्। एवं च उत्पत्त्यर्थकाद्भूधातोस्तदनुकूलव्यापारवाचके णिच्प्रत्यये कृते घटं भावयतीत्यत्र उत्पत्तिरूपधात्वर्थफलाश्रयत्वेन कर्मत्वाद्यथा घटपदोत्तरं द्वितीया भवति तद्वद् घटोभवतीत्यत्रापि उत्पत्तिरूपधात्वर्थफलाश्रयत्वेन कर्मत्वाद् घटपदोत्तरं द्वितीयापत्तिः स्यात्। अत्रेदं बोद्यम्। णिजन्तस्थले स्वजनकेत्यादि प्रथमं कर्मलक्षणं, द्वितीयं तु शुद्धे णिजन्ते चेति। घटो भवतीत्यत्र घटपदोत्तरं द्वितीयापत्तिं वारयितुं शङ्कतेन चात्र घटस्येति। कर्मसंज्ञाया बाधादिति। घटो भवतीत्यत्र घटस्य कर्तृत्वेन प्रतीतेघटस्योत्पत्तिरूपफलाश्रयत्वेऽपि परया कर्तृसंज्ञया कर्मसंज्ञाया बाधान्न द्वितीयापत्तिरिति भावः शङ्ककस्य। यदुक्तं घटस्य कर्तृत्वं तन्न संभवतीत्याहअनुगतेति। चेतनाचेतनैतदुभयवृत्तिकर्तृत्वलक्षणस्य त्वया वक्तुमशक्यतया घटस्य कर्तृत्वाभावाद्दुर्निवारा द्वितीयोत्यर्थः। गटस्याकर्तृत्वमेव प्रतिपादयतिकृत्याश्रयत्वस्येत्यादि। यदि तत्तद्धात्त्वर्थफलानुकूलकृत्याश्रयत्वं कर्तृत्वमुच्यते तर्हि प्रयत्नापरपर्यायायाः कृतेश्चेतनमात्रनिष्ठधर्मत्वेनाचेतने तदभावेन घटोऽस्तीत्यादावव्याप्तिः। कारकचक्रेति। प्रकृतधातूपात्तक्रियान्वययोग्यकारकसमुदायप्रवर्तकत्वं तदिति चेत्स्थाली पचति असिश्छिनत्तीत्यादौ स्थाल्यादेरचेतनस्य कारकचक्रप्रवर्तकत्वाभावेनाव्याप्तिरेव। अभावादिति। घटस्याचेतनत्वात्कृत्याश्रयत्वस्य कारकचक्रप्रयोक्तृत्वस्य चाभाव इति भावः। तथा च कृत्यादिमत एव कर्तृसंज्ञाया उक्तत्वात्कृत्याद्यभावे कर्तृसंज्ञाप्राष्त्यभावेन कर्मसंज्ञाया अनपवादत्वाद्वितीयापत्तिर्दुर्वारेत्यर्थः। मम मते धातूपात्तव्यापाराश्रयत्वेन कर्तृत्वान्न द्वितीया किंतु प्रथमैवेति न दोषः। एवं धातोर्व्यापारावाचकत्वावादिनैयायिकमतं निराकृत्य फलं धात्वर्थः, व्यापारः प्रत्ययार्थ इति वादिनं मीमांसकं प्रत्याचष्टेधात्वर्थानुकूलेति। अयं भावःस्वतन्त्रः कर्तेति सूत्रे स्वातन्त्र्यंधात्वर्थ फलानुकूलव्यापाराश्रयत्वं, तच्च घटे उत्पत्त्यनुकूलव्यापारसत्त्वेनाबाधितमेवेति तादृशस्वातन्त्र्यमेव कर्तृत्वं मया मन्यत इति। तदपि न, अतिव्याप्तत्वादित्याहकारकमात्रेति। मात्र शब्दः कार्त्स्न्ये। कर्मकरणादिसर्वेष्वपि कारकेषु तत्तद्धात्वर्थफलानुकूलयत्किंचित्क्रियाश्रयत्वसत्त्वेनातिप्रसङ्गः। क्रियाजनकत्वस्यैव कारकत्वादित्यर्थः। ननु सर्वेषु कारकेषु घात्वर्थानुकूलव्यापाराश्रयत्वरूपस्वातन्त्र्यसत्त्वेऽपि यस्य आख्यातोपात्तव्यापाराश्रयत्वेन स्वातन्त्र्यं विवक्ष्यते तस्यैव कर्तृसंज्ञा भवति इति स्वतन्त्रः कर्तेति सूत्रप्रणयनसामर्थ्यादवगम्यते। अन्यथा परया कर्तृसंज्ञया बाधादपादानादिसंज्ञा निर्विषयाः स्युः। ततश्च काष्ठैः स्थाल्यां तण्डूलं पचतीत्यादौ करणादिकारकप्रयोगस्य विलय एव स्यात्। अत एव लघुमञ्जूषायां नागेशभट्टैरुक्तं सुबर्थविचारेसर्वेषां स्वस्वव्यापारद्वारा स्वातन्त्र्येणैव क्रियानिष्पादकत्वात्कर्तृकारकत्वम्। अत्र स्वातन्त्र्येत्यस्य स्वातन्त्र्यविवक्षयैवेत्यत्थः ततः केन कः किं पचतीत्यादिविवक्षायां स्वस्वव्यापारवशेन करणादित्वं भवत्येवेति। हरिमाऽप्युक्तम्निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणादित्वसंभवः।। यथा पुत्रजन्मनि पित्रोः कर्तृत्वेऽपि कः कस्यां का च कस्मादितिभेदेन विवक्षायामयमस्यामियमस्मात्पुत्रं जनयतीति व्यवहारोऽप्युपपद्यत इति च। कारक इति सूत्रे भाष्येऽप्युक्तम्स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा, इति। विवक्षितस्वातन्त्र्यवतीति तदर्थः। एवं च स्वातन्त्र्स्य विवक्षाधीनत्वान्नातिप्रसङ्गो नापि घटो भवतीत्यत्र द्वितीयाप्रसङ्गःघटनिष्ठधात्वर्थफलानुकूलव्यापारस्यैव स्वातन्त्र्यविवक्षणेन कर्तृसंज्ञाया अपरिहार्यत्वादित्यत आहअप चेत्यादि। उच्छिन्नः स्यादिति। यदि व्यापाररूपा भावना धातुवाच्या न स्यात्तर्हि सकर्मकोऽयं धातुरयं चाकर्मक इत्येवं विभागः सर्वथा दुरुपपाद इत्यर्थः। सिद्धान्तसंमतं सकर्मकलक्षणमाहस्वार्थफलेत्यादि। स्वपदेन धातुर्ग्राह्यः। तथा च धातुवाच्यं यत्फलं तादृशफलव्यधिकरणो यो व्यापारस्तद्वाचकत्वं धातोश्चेद्भवति तदा सोऽयं धातुः सकर्मक इत्युच्यते। भूप्रभृतावकर्मकेऽतिप्रसङ्गवारणाय स्वार्थफलव्याधिकरणेति व्यापारविशेषणम्। तथा च भूप्रभृतेरकर्मकधातोः स्वार्थफलसमानाधिकरणव्यापारवाचकवान्न सकर्मकत्वमित्यर्थः। ननु भूप्रभृतीनामपि पच्यादिधात्वर्थफलव्याधिकरणव्यापारवाचकत्वादतिप्रसङ्गस्तदवस्थ एवेति चेन्न। फले स्वार्थेतिविशेषणदानात्। स्वार्थो यत्फलं तद्व्यधिकरणेत्यर्थाद्भूप्रभृतेर्व्यापारस्य पच्यादिधात्वर्थफलव्यधिकरणत्वेऽपि स्वारथफलव्यधिकरणत्वाभावान्न क्षतिः। ननु ग्रामं गच्छति चैत्रः, इत्यादौ गम्यादिधात्वर्थफलस्य संयोगस्य द्विष्ठत्वेन ग्रामचैत्रोभयवृत्तित्वाच्चैत्रनिष्ठव्यापारस्य गम्यादिधात्वर्थफलव्यधिकरणत्वाभावेनाव्याप्तिः। तथा च गम्यादिधातोः सकर्मकत्वं न स्यादिति चेन्न। फलव्यधिकरणत्वं च फलतावच्छेदकसंबन्धेन यत्किंचित्तद्धात्वर्थफलाधिकरणभिन्नवृत्तित्वं विवक्षितम्। फलाधिकरणयोर्द्वयर्मध्ये किंचिदेकं यत्फलाधिकरणं तदपेक्षया भिन्नवृत्तित्वं व्यापारस्येति तदर्थः। व्यापारस्य यत्किंचित्फलाधिकरणभिन्नवृत्तित्वं ग्राह्यं नतु यावत्फलाधिकरणभिन्नवृत्तित्वमिति यावत्। तथा च गम्यादिव्यापारस्य यावत्फलाधिकरणभिन्नवृत्तित्वाभावेऽपि गम्यादिधात्वर्थसंयोगात्मकफलाधिकरणयोर्ग्रामचैत्रयोर्मध्ये यदेकं फलाधिकरणं ग्रामः, तदपेक्षया भिन्नो यश्चैत्रस्तद्वृत्तिव्यापारवाचकत्वान्न सकर्मकेषु गम्यादेरसंग्रह इत्यर्थः। न च घटो भवतीत्यत्र उत्पत्त्यनुकूलो व्यापारो भूधात्वर्थः। तत्र व्यापारस्य घटवृत्तित्वं, फलस्य तूत्पत्त्यात्मकस्य कालिकसंबन्धेन कालवृत्तित्वमिति कृत्वा स्वार्थफलव्यधिकरणव्यापारवाचकत्वादकर्मके भूप्रभृतौ सकर्मकलक्षणातिव्याप्तिरिति शङ्क्यम्। फलतावच्छेदकसंबन्धेनेति निवेशनात्। तथा च फलतावच्छेदको यः संबन्धः, तेन संबन्धेन किंचिद्यत्फलाधिकरणं तदपेक्षया यद्भिन्नं तद्वृत्तित्वं व्यापारस्य विवक्षितमित्यर्थः। एवं च घटो भवतीत्यादौ भूप्रभृतेर्व्यापारस्य कालिकसंबन्धेन फलाधिकरणकालापेक्षया भिन्नो यो घटस्तद्वृत्तित्वेऽपि फलतावच्छेदकसमवायसंबन्धेन यदुत्पत्तिरूपफलाधिकरणं घटस्तद्वृत्तित्वेन फलव्यधिकरणत्वाभावान्नातिव्याप्तिरिति भावः। ननु जीवतीत्यादितः प्राणान् धारयतीति संप्रत्ययात्प्राणधारणानुकूलो व्यापारो जीवतेरर्थः। तत्र व्यापारो देवदत्तादिनिष्ठः। धारणात्मकं फलं च प्राणनिष्ठम्। धारणं समवस्थापनम्। तथा च स्वार्थफलव्यधिकरणव्यापारवाचकत्वाज्जीवत्यादावकर्मकेऽतिप्रसङ्ग इति चेत्स्वार्थफले धात्वर्थामविष्टाश्रयकत्वं विशेषणं देयम्। धात्वर्थाप्रविष्टाश्रयकस्वार्थफलेत्यादि लक्षणम्। धात्वर्थेऽप्रविष्टोऽनन्तर्भूत आश्रयो यस्य फलस्येति तदर्थः। तथा चात्र धारणात्मकधात्वर्थफलाश्रयस्य प्राणस्य धात्वर्थेऽन्तर्भूतत्वान्नातिप्रसङ्ग इति भावः। एवमविवक्षितकर्मकत्वाभाववत्त्वमपि स्वार्थे विशेषणं देयम्।
विविगमनाविरहात्प्रकारान्तरेण सकर्मकत्वं लक्षयतिस्वार्थव्यापारेत्यादि। स्वार्थःधात्वर्थः, धातुवाच्य इत्यर्थः। एतादृशो यो व्यापारस्तद्व्यधिकरणं यत्फलं तद्वाचकत्वं सकर्मकत्वमित्यर्थः। व्यापारव्यधिकरणत्वं च व्यापारानधिकरणवृत्तित्वं वोध्यम्। धातुवाच्यो यः फूत्कारादिव्यापारस्तदधिकरणं देवदत्तादि, तदनधिकरणं यत्तण्डुलादि, तद्वृत्तिविक्लित्त्यादिफलवाचकत्वात्पच्यादौ लक्षणसमन्वयः। फलतावच्छेदकसंबन्धनिवेशनादि पूर्ववद्वोध्यम्।
असंभवीति। निरुक्तं सिद्धान्तसंमतं सकर्मकत्वमन्यथानुपपन्नमिति धातोर्व्यापाररूपभावनावाचकत्वमवश्यमङ्गीकरणीयमिति भावः। प्रकारान्तरेण सकर्मकत्वस्य व्यवस्थितत्वमाशङ्क्य प्रत्याचष्टेअन्यतमत्वं तत्त्वमित्यादिना। सकर्मकत्वेनाभिमता यावन्तो धातवस्तान् प्रत्येकं प्रातिस्विकरूपेण परिगणय्य तावत्समुदायघटकत्वरूपमन्यतमत्वं तदेव च तत्त्वं सकर्मकत्वमिति चेन्नैतद्भद्रम्। एकस्यैवेति। एकानुपूर्व्यवच्छिन्नस्यैवेत्यर्थः। दर्शनादिति। यथा नदी वहतीत्यत्र वहधातोः स्यन्दनेऽर्थेऽकर्मकत्वं, भारं वहतीत्यत्र प्रापणार्थके सकर्मकत्वं च। तत्र सकर्मकधातुसमुदाये वहेः पाठे स्यन्दनार्थकेऽकर्मके तस्मिन्नतिप्रसङ्गः। तत्रापाठे तु प्रापणार्थके तस्मिन्नेवाप्रसङ्ग इत्येवमतिप्रसक्त्यप्रसक्तिदोषदर्शनादिति भावः। तदेतदिति। निरुक्तं दोषजातं मनसिकृत्याऽऽहकृञोऽकर्मकतेति। ननु सकर्मकत्वं नाम स्वजनकव्यापारव्यधिकरणफलवाचकत्वम्। स्वशब्देन फलं ग्राह्यम्। तथा च फलजनको यो व्यापारस्तादृशव्यापारानाधिकरणवृत्ति यत्फलं तद्वाचकत्वमित्यर्थः। तादृशं च सकर्मकत्वं करोतौ सूपपादम्। तथाहियत्नः, फलतावच्छेदकविषयतासंबन्धेन घटादिनिष्ठः, तज्जनकव्यापारस्त्वात्मनःसंयोगात्मको देवदत्तनिष्ठ इति कृञः स्वजनकव्यापारव्यधिकरणफलवाचकत्वादिति। निरुक्तसकर्मकभिन्नत्वं चाकर्मकत्वम्। तच्च करोतौ वक्तुमशक्यमिति कृञोऽकर्मकतापत्तिरसंगतेत्याहअयं भाव इति। फलमात्रमिति। मात्रपदेन व्यापारस्य व्यावृत्तौ सत्यां करोतीत्यादौ यत्नप्रतीतेः फलस्थानीयः केवलयत्नः करोतेर्वाच्योऽर्थ इत्यङ्गीकार्यम्। तथा च यतिवदिति। यथा यत्नार्थको यतिधातुरकर्मकत्वेन सुप्रसिद्धस्तथा कृञोऽप्यकर्मकत्वापत्तिः। यतिकृञोरुभयोरपि फलस्थानीययत्नवाचित्वस्य समानत्वात्। ततशअच न पूर्वोक्तं स्वजनकव्यापारेत्यादिसकर्मकत्वं वक्तुमुचितमिति भावः। किं त्वस्मद्रीत्या स्वार्थफलेत्यादिमूलोक्तमेव सकर्मकत्वं स्वीकार्यम्। अन्यथा सिद्धान्तमनादृत्य स्वोक्तसकर्मकत्वस्यैव स्वीकारे यतिधातोर्यत्नत्यापि फलतावच्छेदकविषयतासंबन्धेन घटादिनिष्ठत्वत्स्वजनकमनःसंयोगादिव्यापारानीधकरणवृचित्वेन सकर्मकत्वापत्तिः। ततश्च सिद्धान्तसंमतं सकर्मकत्वं कृञो यत्नमात्रवाचित्वे न संभवतीत्यकर्मकतापत्तिर्दुष्परिहरैवेति भावः। ननु फलसमानाधिकरणव्यापारवाचित्वमेवाकर्मकत्वव्यवहारकारणं, तच्च करोतौ नास्तीति कथमकर्मकत्वापत्तिरित्यत आहउक्तरीत्येति। सिद्धान्तोक्तसकर्मकधातुभिन्नधातुत्वमकर्मकत्वमित्यार्थिकोक्तरीत्येत्यर्थः। अन्यथा व्यापाररूपभावनाया धात्ववाच्यत्वे फलसमानाधिकरणव्यापारवाचित्वरूपाकर्मकत्वापत्तेरसंभवदुक्तिकत्वापत्त्या यतेरप्यकर्मकत्वानापत्तेः। फलसमानाधिकरणव्यापारवाचकत्वाभावादिति भावः। एवं च कृञः फलस्तानीयत्वेन यत्नोऽर्थो नेष्ट इत्यर्थः। ननु सर्वस्यापि धातोर्व्यापारावाचकत्वे धातुमात्रस्याकर्मकत्वसंभवात्कृञ इति विशिष्योक्तिरनुचितेत्याहकृञ इति। कृञ्पदमजहल्लक्षणया शक्यलक्ष्ययावद्धातुसंग्राहकमित्यर्थः। अकर्मकतेति। धातुमात्रस्य फलमात्रवाचकत्वे व्यापारावाचकत्वेन सर्वेषामप्यकर्मकता स्यात्। सकर्मकतेति। फलवाचकत्वं सकर्मकत्वं चेत्सर्वेषामेव सकर्मकता स्यादित्यर्थ। तथा च सकर्मकाकर्मकविभागोच्छेद इति धातुमात्रस्य केवलफलवाचित्वं न युक्तं किंतु व्यापारवाचित्वमप्यङ्गीकार्यमिति भावः। अथ प्रकारान्तरेण कृञोऽकर्मकतेतिमूलमवतारयितुं भूमिकामारचयतिअथवेत्यादि। प्रसाध्येति। व्यापारो भावनेति पूर्वर्धस्य विवरणद्वारा सर्वस्यापि धातोर्व्यापारवाचित्वावश्यकत्वं प्रसाध्येत्यर्थः। तदिति। फलांशस्यापि सर्वदातुवाच्यत्वावश्यकत्वं प्रतिपादयन् जानातिकरोतीत्यादौ सवि ज्ञानेच्छाकृत्यर्थकधातावित्यर्थः।षयार्थकधातौ फलांशवर्जं केवलज्ञानादिक्रियामात्रवाचित्वं यदुक्तं नैयायिकैस्तद्दूषयितुमाहकृञ इति। मात्रपदं फलव्यावृत्त्यर्थम्। सकर्मकाणां प्रायः फलव्यापारैतदुभयार्थकत्वम्। जानातिकरोत्यादीनां तु ज्ञानयत्नादिव्यापारार्थकत्वम्। अकर्मकाणां सर्वेषां न फलवाचकत्वं, फलस्य ततोऽननुभवात्। किंतु व्यापारमात्रवाचकत्वमेवेति नैयायिकैः कैश्चिदभ्युपगतमित्यर्थः। ननूक्तरीत्या फलावाचकत्वेऽपि फलव्यधिकरणव्यापारवाचकत्वरूपं सकर्मकत्वं करोत्यादेरपि संभवत्येव। उत्पत्त्यादिरूपफलव्यधिकरणयत्नाद्यभिन्नव्यापारवाचित्वात्। तथा च कथं कृञोऽकर्मकत्वमित्याशङ्कां समादातुमाहअयं भाव इति। धात्वर्थ इति। सर्वस्यापि धातोर्यत्किंचित्फलव्यधिकरणव्यापारवाचित्वेऽपि फलस्य सर्वत्रैव धात्वर्थत्वाभावेन स्वार्थफलेत्यादिसिद्धान्तोक्तसकर्मकत्वोच्छेद इत्यर्थः। समनन्तरोक्तं सकर्मकत्वं तु नाऽऽश्रयितुं शक्यं, यतिस्यन्द्यादेरपि धात्ववाच्ययत्किंचित्फलव्यधिकरणव्यापारवाचकत्वेनातिव्याप्तत्वादिति भावः। ननु सकर्मकत्वव्यवहारानुरोधेन पच्यादेरस्तु फलांशोऽपि वाच्यः। कृञादेस्तु यत्नादिरूपव्यापारमात्रवाचित्वमेव। तत्र सकर्मकत्वव्यवहारस्तु कर्मान्वितार्थवाचकत्वनिबन्धनो गौणः। एवं च तत्र धात्वर्थतावच्छेदकफलशालित्वरूपमुख्यकर्मत्वविरहेऽपि विषयत्वरूपं लाक्षणिकमेव कर्मत्वं संभवेदित्याशङ्कामनुसंधायाऽऽहन च कृञादावित्यादि युक्तमित्यन्तम्। भाक्तत्वेऽपीति। लाक्षणिकत्वेऽपीत्यर्थः। असंभवादिति। मुख्ये संभवति तत्रैव कार्यसंप्रत्ययो नतु गौण इति न्यायाद्रौणकमंणि लकारासंभव इत्यर्थः। एतदेव दृष्टान्तेन स्पष्टयतिन हीति। गङ्गापदस्य तीरे लक्षणानिबन्धनत्वेऽपि न हि तेनार्थेन स्नानपानादिकार्यं निर्वर्तयितुं शक्यत इत्यर्थः। उत्पत्त्यनुकूलयत्नवाचित्वे करोतेर्नोक्तदोषः समायातीत्याहएवं चेति। यत्नमात्रमिति। उत्पत्तिरूपफलव्युदासः। एवं च नैयायिकाभिमतयत्नमात्रवाचित्वं निषिध्यते, उत्पत्तिरूपफलानुकूलयत्नार्थकत्वं तु स्वाभीष्टमेवेति भावः।। 5 ।।
अत एवेति। कृञो य्नमात्रार्थकत्वस्यानिष्टत्वादवेत्यर्थः। ननु तर्हि कृञः कीदृशार्थकत्वमिष्यते तदाहकिं तूत्पादनमिति। उत्पादनपदस्योत्पत्त्यनुकूलयत्नाद्यर्थकत्वेनोत्पत्तिरूपफलसहितं यत्नादि कृञोऽर्थोऽभिमत इत्यर्थः। यत्नादीत्यादिशब्देन यत्नभिन्नव्यापारस्यापि संग्रहः। बीजादिनाऽङ्कुरः कृत इत्याद्यनुरोधात्। बीजादावचतने यत्नस्य बादात्तत्त्यागेऽपि शक्त्यैव यत्नभिन्नव्यापारप्रतीतिरिति भावः। वाच्यत्व इति। फलस्य धातुवाच्यत्वावश्यकत्व इत्यर्थः। युक्त्यन्तरमिति। अन्या युक्तिः। मयूरव्यंसकादित्वात्समास इति भावः। तदेव युक्त्यन्तरं स्पष्टयतिअत इत्यादिना। यस्मात्कृञो व्यापारस्थानिकयत्नमात्रमर्थो न, किंतूत्पत्त्यनुकूलयत्नादिरेवेत्यत इत्यर्थः। कर्मवत्स्यादिति। तथा च फलस्योत्पत्तिरूपस्य कर्मस्थतया कर्मवत्कर्मणेति कर्मवद्भावात्कर्मकर्तरि क्रियते घटः स्वयमेवेत्यादौ यगादयोऽप्युपपद्यन्त इत्यपरमनुकूलमिति भावः। यदि व्यापारस्थानिकयत्नमात्रमेवार्थः स्यात्तदा कर्मवद्भावो न स्यात्। व्यापारस्थानिकयत्नस्य घटादौ बाधात्। फलस्योत्पत्तिरूपस्य स्वीकारे तु पच्यते ओदनः स्वयमेवेतिवत् क्रियते घटः स्वयमेवेत्युपपद्यत इत्याशयः। सूत्रं लक्ष्यत इति। कर्मवत्पदघटितकर्मवत्कर्मणेतिसूत्रविहितं लक्ष्यत इत्यर्थः। अत एव सूत्रविहितं यगादीत्यन्वय उपपद्यते। सूत्रस्यैव लक्षयत्वे तस्य यगादित्यनेनान्वयो न स्यात्। किंतु सूत्रं यगदीत्यनन्वितमेवावतिष्ठेतेति भावः। अत्रेदं बोध्यम्कार्यातिदेशपक्षे साक्षादेव कर्मवत्कर्मणेतिसूत्रविहितत्वं यगादेरस्ति, शास्त्रातिदेशपक्षे तु परम्परयेति। तन्न स्यादिति। कर्मस्थया क्रियया तुल्या क्रिया फलरूपा फलसमानाधिकरणव्यापाररूपा वा यत्र तादृशः कर्ता कर्मवद्बवतीत्यर्थकस्य कर्मवत्कर्मणेतिसूत्रस्याप्राप्तेः, कृञः फलवाचकत्वाभावात्, तदर्थयत्नस्य तु घटादावचेतने बाधेनात्यन्तासत्त्वादित्यर्थः। ननु तत्र कर्मवद्भावाभावे इष्टापत्तिरेवेति चेन्न। कर्मवत्कर्मणोतिसूत्रे क्रियते घटः स्वयमेवेति कर्मवद्भावोदाहरणपरभाष्यविरोधापत्तेः। ननु घटादौ कर्मणि समवायसंबन्धेन यत्नस्यासत्त्वेऽपि विषयतासंबन्धेन यत्नस्य घटनिष्ठत्वमबाधितमेव। अत एव घटं जानातीत्यत्र फलतावच्छेदकविषयतासंबन्धेन ज्ञानस्य घटनिष्ठत्वेन कर्मत्ववद्यन्तस्यापि विषयतासंबन्धेन घटनिष्ठतया तस्य कर्मत्वाद् घटं करोतीति प्रयोग उपपद्यते। न चैवं घटं यतत इत्यपि स्यादिति वाच्यम्। यतिदातुपस्थितयत्नस्य विषयतया फलत्वव्यवहाराभावेन विषयतायाः फलतावच्छेदकत्वानङ्गीकारात्। एवं च कृञः केवलयत्नमात्रार्थकत्वेऽपि क्रियते घटः स्वयमेवेति भाष्योक्तं कर्मवद्भावोदाहरणमुपपन्नमेवेति चेन्न। दृशअयते घटः स्वयमेवेत्यादिप्रयोगापत्तेरित्याशयेनाऽऽहयथा दृश्यते घट इति। घटावृत्तित्बादिति। दर्शनस्य=ज्ञानस्य घटमात्रनिष्ठत्वाभावेन कर्मस्थक्रियकत्वाभावाद्यथा दृश्यते घटः स्वयमेवेति कर्मवद्भावो न भवतीत्यर्थः। तथा कृञः केवलयत्नमात्रार्थकत्वे घटं करोतीत्यादेरुपपादनेऽपि यत्नस्यापि घटमात्रनिष्ठत्वाभावेन कर्मस्थक्रियकत्वाभावात्क्रियते घटः स्वयमेवेति कर्मवद्भावो न स्यादिति भावः। अयं भावः`कर्मवत्कर्मणा तुल्यक्रियः' इति हि योऽयं कर्मवद्भाव उक्तः स तु कर्मस्थक्रियकाणामेव भवति, न तु कर्तृस्तक्रियकाणामिति सिद्धान्तः। यत्र कर्ममात्रवृत्ति फलं स कर्मस्थक्रियकः। यथा पचति भिनत्तीत्यादौ। न हि विक्लित्तिद्विधाभवनादिकं कथमपि कर्तृगतं भवतीति। यत्र तु कर्तृकर्मोभयवृत्ति फलं भवति स कर्तृस्थक्रियकः। यथा पश्यति घटं, गच्छति ग्रामं, इत्यादौ। पश्यतेश्चाक्षुषज्ञानरूपस्य फलस्य समवायविषयतोसंबन्धाभ्यां कर्तृकर्मोभयनिष्ठत्वात्। गच्छतेः पुरोदेशसंयोगरूपस्य फलस्य च समवायसंबन्धेन कर्तृकर्मोभयनिष्ठत्वात्। एवं हासस्यापि चित्तवृत्तिविशेषस्य समवायविषयतासंबन्धाब्यामुभयनिष्ठत्वं बोध्यम्। एवं च दृशेः फलस्य ज्ञानस्योभयनिष्ठत्वेन कर्तृस्थक्रियत्वात्कर्मस्थक्रियत्वाभावेन यथा दृष्टान्ते कर्मवद्भावो न प्राप्नोति तथा दार्ष्टान्तिकेऽपि यत्नस्य समवायविषयतासंबन्धाभ्यामुभयनिष्ठत्वेन कर्तृस्थक्रियकत्वात्कर्मस्थाक्रियकत्वाभावेन कर्मवद्भावो नैव प्राप्नुयादिति परमार्थः। अधिकमग्रे वक्ष्यते।। 6 ।।
अतिप्रसङ्गमुद्भाव्य निराकर्तुं भूमिकामारचयतिएवमिति। स्वार्थफलव्यधिकरणेत्यादेरेव सकर्मकत्वव्यवहारप्रयोजकतया सिद्धान्तसंमतत्वेन क्रियते धटः स्वयमेवेत्यत्र कर्मवद्भावसिद्ध्यर्थं करोतेरुत्पत्तिरूपफलसहितयत्नवाचित्वाङ्गीकारे इत्यर्थः। कृञादेरिति। आदिपदेन पच्यादिसंग्रहः। जानातीत्यादेरपीति। आदिपदेन गम्यादेः संग्रहः। विषयावच्छिन्नावरणभङ्गादिफलेति अवच्छेदकतासंबन्धेन विषयनिष्ठावरणभङ्गरूपफलेत्यर्थः। आवरणभङ्गादीत्यादिपदेन संयोगादिग्रहणम्। अन्यथेति। उक्तवैपरीत्ये। आवरणभङ्गादिफलावाचकत्वे, इत्यर्थः। अनापत्तेरिति। स्वार्थफलव्यधिकरणेत्यादेः सकर्मरकत्वव्यवहारप्रयोजकस्य तत्राविद्यमानत्वादित्यर्थः। तथाचेति। आवरणभङ्गादिफलवाचकत्वे सतीत्यर्थः। किं न स्यादिति। क्रियते घटः स्वयमेवेत्यत्र यथा घट उत्पत्तिरूपफलाश्रयस्तथाऽऽवरणभङ्गरूपफलाश्रयोऽपि भवतीत्यतो ज्ञायते घटः स्वयमेवेति किं न स्यादित्यर्थः। तथा च स्वार्थफलेत्यादिरूपं सकर्मकत्वं सिद्धान्तसंमतमपि स्वीकर्तुमयोग्यं भवतीति गूढाभिप्रायः। किं च गम्यते ग्रामः स्वयमेवेत्यादिप्रयोगापत्तिरूपो दोषोऽपीत्याशङ्क्याऽऽह
निर्वर्त्ये चेत्यादि। ननु निर्वर्त्यविकार्यकर्मणोः कर्मवद्भावो भवति न प्राप्यकर्मणीत्यत्र किं बीजमित्यत आहसिद्धान्तोऽत्रेति। कर्मवत्कर्मणेति सूत्रे भाष्य इत्यर्थः। तत्र हि धातोरेकाच इत्यतो धातोरित्यनुवर्तते। धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थात्करणत्वाद्यवस्थायां वस्तुतः सतोऽप्यसिस्थाल्योर्व्यापारस्य धातुवाच्यत्वाभावादेवासिश्छिनत्ति, स्थाली पचतीत्यादौ करणाधिकरणाभ्यां तुल्यक्रिये कर्तरि दोषानतिप्रसक्तेरतिरिच्यमानं कर्मणेति पदं कर्मस्थक्रियां लक्षयतीति सिद्धान्तो व्यवस्थापित इत्यर्थः। कर्मस्थक्रियकत्वं च प्राप्यभिन्नकर्मण्येव संभवतीति प्राप्यभिन्नकर्मस्वरूपं दर्शयितुमाहईप्सितमिति। कर्तुरीप्सिततमं कर्म त्रिधेत्यर्थः। तेनेप्सितभिन्नकर्मण आधिक्येऽपि न दोषः। प्राप्यत्वं चेति। आद्ययोर्लक्षणे सुबर्थनिर्णये ग्रन्थकृदेव वक्ष्यति। क्रियाकृतविशेषेति। क्रियाकृतविशेषेण तद्विशिष्टत्वेनानुपलभ्यमानत्वमित्यर्थः। यद्वा अनुपलभ्यमानः क्रियाकृतविशेषो यत्रेति बहुव्रीहिः। राजदन्तादित्वाद्विशेषणस्य परनिपातः। तथा च यद्धातुकर्मणि प्रायः क्रियाकृतविशेषो नैवोपलब्यते तद्धातुकर्मप्राप्यं कर्मेति फलितम्। वक्ष्यत इति। क्रियाकृतविशेषाणामित्यादिवाक्यपदीयेनेत्यर्थः। कर्मस्थविशेपोत्पादकक्रियार्थकत्वरूपं कर्मस्थक्रियकत्वं कर्मवद्भावप्रयोजकमिति स्पष्टयितुं तदन्वयं तद्व्यतिरेकं च प्रतिपादयतिनहीत्यादिना। यत्र कर्मदर्शनसमसमयं कर्मगतः क्रियाकृतविशेषः कश्चित् ज्ञातुं शक्यते तादृशं कर्म निर्वर्त्यं विकार्यं वा भवति। घटं करोतीत्यादौ स्वरूपलाभात्मको विशेषः। सोमं सुनोतीत्यादौ तु चूर्णीभावरूपो विशेष इति ज्ञेयम्। यत्र तु कर्मदर्शनेन कर्मभगतः क्रियाकृतविशेषः कश्चिदपि नैवावगन्तुं शक्यस्तत्प्राप्यं कर्मेति अत उक्तंकेनचिददृष्टः, केनचिद्गत इति कर्मदर्शनेन ज्ञातुं सर्वथाऽशक्यमिति। तदेवमत्रेत्थमन्वयव्यतिरेकप्रयोगःयत्र कर्मणि क्रियाकृतविशेषो दृश्यते तत्र कर्मवद्भावः, यत्र तु नैव दृश्यते न तत्र कर्मवद्भाव इति। तदाहघटादेर्दृश्यादाविति। घटादेरित्यादिशब्देन ग्रामस्य संग्रहः। दृश्यादावित्यादिशब्देन गमेः परिग्रहः। तथा च दृशधात्वर्थनिरूपितघटरूपकर्मणः, गमधात्वर्थनिरूपितग्रामात्प्रककर्मणश्च प्राप्यकर्मत्वादित्यर्थः। नोक्तातिप्रसङ्ग इति। न कर्मवद्भावापत्तिरिति भावः। धातोः फलवाचकत्वसाधकमन्येषां युक्त्यन्तरमाहधातुनामिति। फलावाचकत्वे धातूनां केवलव्यापारवाचकता पर्यवस्यति। संयोगरूपफलभाने गमधातोः, विभागरूपफलभाने च त्यजधातोः समभिव्याहारस्य नियामकत्वाच्च ग्रामं गच्लतीत्यत्र न विबागबोधप्रसङ्गः। नापि वृक्षं त्यजतीत्यत्र संयोगबोधातिप्रसङ्गश्च। त्यजिगम्योरिति। तादृशार्थकयावद्धातूपलक्षणम्। पर्यायतापत्तिः, क्रियावाचकत्वाविशेषादिति। त्यजिगम्योरकजातीयक्रियावाचकत्वाविशेषादित्यर्थः। शक्यतावच्छेदकैकत्वे सति विभिन्न शक्ततावच्छेदकत्वस्यैव पर्यायतापदवाच्यत्वादीति भावः। एकस्या एव क्रियायाः संयोगविभागजनकत्वात्त्यजिगम्योः पर्यायतापत्तिरिति यावत्। तथा च गच्छति त्यजतीत्यनयोरविशेषापत्तिः। ग्रामं गच्छतीत्यर्थे त्यजतीति प्रयोगस्य, वृक्षं त्यजीत्यर्थे गच्छतीति प्रयोगस्य चाऽऽपत्तिरित्यर्थः। ननु त्यजिगम्योरनुक्रमेण विभागसंयोगोपलक्षितव्यापारार्थकत्वमङ्गीक्रियते। ततश्च न पूर्वोक्तोऽविशेषापत्तिरूपो दोषोऽत आहफलस्योपलक्षणत्वेऽपीति। उपलक्षणत्वं नाम तत्पदजन्यबोधविषयत्वेन शक्त्यविषयत्वम्। एकक्रियाया एवेत्यादिजनकत्वादिति। तथा च संयोगविभागयोर्गमित्यजिधात्वर्थव्यापारजन्यत्वस्य समानत्वाद् गमिधात्वर्थव्यापारे संयोग एवोपलक्षणं न विभागः, तथा त्यजिधात्वर्थव्यापारे विभाग एवोपलक्षणं न संयोग इत्यत्र विनिगमकाभावादुभयोरप्युभयत्र व्यापारे उपलक्षणत्वोपगमे निरुक्तापत्तिर्दुष्परिहरैवेति फलेऽपि धातोः शक्तिश्वश्यमब्युपगन्तव्येति भावः। धातोः फलवाचकत्ववादमुपसंहरन्नाहतस्मादिति। उक्तयुक्तिभ्यः सकर्मकधातूनां फलवाचित्वमवश्यमेष्टव्यमित्यर्थः। निर्विवादमिति। स्वार्थफलसमानाधिकरणव्यापारवाचित्वरूपाकर्मकत्वस्य धातोः फलवाचित्वाभ्युपगममन्तराऽसंभवादित्यर्थः। भू सत्तायामिति। भ्वादिगणे फलस्यैव निर्देशाद्भवतीत्यादितः सत्तादिबोधस्य सर्वानुभवसिद्धत्वाच्चेत्यर्थः। अत एवेति। सकलधातूनां फलवाचकत्वादेवेत्यर्थः। संगच्छत इति। तण्डुलानोदनं पचतीत्यतस्तण्डुलान् विक्लेदयन्नोदनं निर्वर्तयतीति संप्रत्ययात्तण्डुलानां विकार्यकर्मत्वमोदनस्य निर्वर्त्यकर्मत्वमभिमतं तन्निर्वाहार्थमुत्पत्तिविकृतिरूपफलद्वयार्थकत्वपरमेव `द्व्यर्थः पचिः' इति भाष्यम्। एकस्यैव व्यापारस्योक्तफलद्वयजनकत्वात्। व्यापारद्वयपरत्वे त्वसंगतिः स्पष्टैवेति भावः। दिगिति। दिगर्थस्तु अकर्मकाणामपि फलवाचकत्वमावश्यकम्। अन्यथा धातुषु सत्तादिफलनिर्देशस्य वैफल्यापत्तेः। धातुसामान्यशक्तिस्वभावात्पच्यादेरिवभ्वादेरपि व्यापारबोधसंभवात्। किं च जानात्यादेः सकर्मकत्वाय ज्ञानाद्यनुकूलव्यापारवाचित्वमङ्गीकार्यम्। तथा च चक्षुर्जानातीत्यपि स्यात्। चक्षुष्यपि ज्ञानानुकूलचक्षुर्मनःसंयोगसत्त्वादिति चेन्न। स्थाली पचतीतिवदिष्टापत्तिग्रस्तमित्याशय इति।। 7 ।।
एवं समनन्तरोक्तयुक्तिभिः फलव्यापारयोर्वाच्यत्वे साधित `तिङ्प्रत्ययवाच्यैव भावना' इति मण्डनमिश्रानुयायिमतमाशङ्क्य निराकर्तुं भूमिकामारचयतिएवं सिध्यत्वित्यादिना। वाच्यत्वमिति। उक्तयुक्तिभिर्व्यापारस्य तिङन्तजन्यबोधविषयत्वे सिद्धेऽपि धातुवाच्यत्वेऽनिर्मयः, पचतीत्यत्र प्रकृतिप्रत्यययोर्द्वयोः क्रमेण पाकं करोतीति पदद्वयेन विवरणदर्शनाद्भावनायास्तिङ्वाच्यत्वस्यापि वक्तुं शक्यत्वादिति भावः। न धातोरिति। पचतीत्यतः पाकानुकूला भावनेत्येवं प्राधान्येन प्रतीयमानव्यापारस्य प्रत्ययार्थस्य प्राधान्यमिति नियमादाख्यात(तिङ)वाच्यत्वस्यैव वक्तुमुचितत्वेन धातुवाच्यत्वं नैव वक्तुं शक्यमित्यर्थः। प्रत्ययार्थस्य प्राधान्यमिति नियमस्य तिङुपात्तसंख्यायास्तदुपात्तकर्तरि विशेषणतयाऽन्वयात्संख्यादौ व्यभिचरितत्वादाहतदागमे हीति। पशुना यजेतेत्यत्रैकवचनोपात्तैकत्वस्य करणत्वेन न क्रियायामन्वयः, किंतु प्रकृत्यर्थे, `प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति व्युत्पत्तेरिति स्वीकारे एकत्वस्य यागाङ्गत्वाभावात्तदभावेऽपि यागावैगुण्यात्तदविवक्षितमेव स्यादिति पूर्वपक्षे प्राप्ते`तदर्थस्तुशब्दवत्शब्दवाच्यं यथा भवति तथोपलक्ष्यते एकत्वं, हियतः'तदागमेएकवचनश्रवणे दृश्यतेऽतस्तस्याङ्गत्वज्ञानं, यथाऽन्येषां विशेषणानां पशुलौहित्यादीनामिति। तथा च विशिष्टस्य श्रुत्याऽङ्गत्वबोधनेन पशुवाचित्ववच्छब्दबोध्यस्यास्य विशेषणस्याङ्गत्वोपपत्तिरिति भावः। एवं च तत्र यथा एकवचनागमे एकत्वं दृश्यतेऽतस्तदर्थत्वमेवं पचतीत्यादावाख्यातश्रवणे सति व्यापारबोधात्तस्य तदर्थत्वमेवाङ्गीकार्यमन्यथोक्तन्यायविरोदापत्तेरिति भावः।
नन्वेनं पूर्वोक्तसकर्मकत्वाकर्मकत्वविभागोच्छेदः, व्यापारस्य धात्वर्थत्वाभावात्। एवं धातूपात्तव्यापाराश्रयत्वात्मककर्तृत्वस्य दुर्वचत्वेन देवदत्तः पचीत्यादौ देवदत्तादिरूपे कर्तरि प्रत्ययो न स्यादित्यतः सकर्मकत्वादिकमन्यादृशमेव वदतिएवं चेति। व्यापारस्य तिङ्प्रत्ययवाच्यत्वे चेत्यर्थः। स्वयुक्तेत्यादि। स्वं प्रकृतधातुः, तेन युक्तं यदाख्यातं तदर्थो यो व्यापारस्तद्व्यधिकरणं यत्फलं तद्वाचकत्वं सकर्मकधातुत्वमित्यर्थः। ननु फलसमानाधिकरणव्यापारवाचकभवतीत्यादेः पच्यादियुक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वात्सकर्मकत्वापत्तिरिति चेन्न। आख्याते स्वयुक्तेति विशेषणदानात्। यद्धातोः सकर्मकत्वं वक्तुमभीष्टं स धातुः स्वपदेन ग्राह्यः। अत्र च भवत्यादेः सकर्मकत्वमापादयितुमिष्टम्। तथा च भवत्यादियुक्ताख्यातार्थव्यापारसमानाधिकरणफलवाचकत्वेन तादृशाख्यातार्थव्यापारंव्यधिकरणफलवाचकत्वाभावान्न भवत्यादेः सकर्मकत्वमित्यर्थः। स्वयुक्तत्वं च स्वाव्यवहितोत्तरवर्तित्वम्। तेन चैत्रः पचति, भवति घटः, इत्यत्र पच्युत्तराख्यातस्य भूधात्वव्यवहितयुक्तत्वेऽपि भूदात्वव्यवहितोत्तरवर्तित्वाभावान्न भवतावतिप्रसङ्गतादवस्थ्यम्। स्वोत्तरवर्तित्वमात्रनिवेशे तु घटो भवति पचति मैत्र इत्यत्र पच्युत्तराख्यातस्य भूधातूत्तरवर्तित्वेन तादृशाख्यातार्थव्यापारव्यधिकरणफलवाचकत्वेन भूधातावतिप्रसङ्गः स्यात्। अव्यवहितत्वांशनिवेशे तु पच्युत्तराख्यातस्य भूदात्वव्यवहितोत्तरवर्तित्वाभावेन नातिप्रसङ्ग इति बोध्यम्। कर्तृत्वमिति। आखअयातार्थो यो व्यापारस्तदाश्रयत्वं कर्तृत्वं वक्तव्यमित्यर्थः। यथा चैत्रः पचतीत्यादौ चैत्रादेः। चैत्रो मैत्रेण पाचयतीत्यादौ प्रयोज्यप्रयोजकयोरपि णिजर्थाख्यातार्थाश्रयत्वात्कर्तृत्वम्। देवदत्तेन पच्यते देवदत्तेन स्थीयत इत्यत्राप्याख्यातार्तव्यापाराश्रयत्वाद्देवदत्तस्य कर्तृत्वं ज्ञेयम्। इत्यादीति। आदिशब्दात् स्वयुक्ताख्यातार्थव्यापारसमानाधिकरणफलवाचकत्वमकर्मकत्वं, स्वयुक्ताख्यातार्थव्यापारजन्यफलाश्रयत्वं कर्मत्वमित्यनयोः संग्रहः। मीमांसकंमन्यमिति। आत्ममाने खश्चेति खश्। इत्यादि वदन्तमात्मानं मीमांसकं मन्यमानं प्रत्याहतस्माकरोतिरिति। हेतोः पूर्वमनुक्तत्वादाहअभिप्रायस्थेति। तस्मादिति तच्छब्दस्य बुद्धिस्थपरामर्शकत्वादिति भावः। गमनवानिति प्रतीत्यापत्तिरिति। भावार्थकल्युडन्तगमनशब्दार्थस्य संयोगरूपफलस्य ग्रामे सत्त्वाद् ग्रामः संयोगवानितिवद् ग्रामो गमनवानिति प्रयोगस्य साधुत्वापत्तेरित्यर्थः। संयोगाश्रयत्वादिति। फलानुत्पादे पाको भवतीति प्रयोगस्य कस्याप्यसंप्रतत्वादाहव्यापारसत्त्व इति। लक्ष्यैकचक्षुष्कदर्शनानुसारेणाऽऽहअनापत्तिरिति। फलमुत्पद्यतां मा वा, व्यापारप्रवृत्तिदशायां पाको भवतीति प्रयोगस्य सर्वाभीष्टत्वादिति भावः। व्यापारविगम इति। व्यापारनाश इत्यर्थः। इत्यापत्तिश्चेति। व्यापारनाशे पाको विद्यत इति कस्याप्यननुमतत्वादुक्तं फलसत्त्व इति। व्यापारविगमेऽपि फलसत्त्वानुरोधेन पाको विद्यत इत्यापद्येत फलमात्रस्य धात्वर्थत्वादिति भावः। उक्तदोषानुद्धरतियदिति। भावप्रत्ययस्येति। भावविहितत्युड्घञादेर्धात्वर्थफलानुकूलव्यापारवाचकत्वं स्वीक्रियत इत्यर्थः। नानुपपत्तिरिति। ल्युड्घञादिवाच्यव्यापारस्य ग्रामेऽसत्त्वान्न ग्रामो गमनवानिति प्रयोगापत्तिरित्यर्थः। एवं विक्लित्त्यनुकूलव्यापारस्य घञ्वाच्यस्य कर्तृतासंबन्धेन भवतीतिभवनादावन्वयान्नाप्यनापत्त्यापत्ती इत्यर्थः। तदेतन्निराटष्टेतन्नेति। ननु फलमात्रस्य धात्वर्थत्वे भावविहितघञादेः फलमात्रवाचकत्वस्यैव युक्तत्वात्कथं फलानुकूलव्यापारवाचकत्वमत आहकर्त्राख्यातवदिति। अयं भावःयथा लः कर्मणि चेति सूत्रेऽनुवृत्तकर्तरीत्यस्याऽऽकृत्यधिकरणन्यायाद्भावप्रधाननिर्देशाद्वा कर्तृत्वपरत्वं, कर्तृत्वं च व्यापाराश्रयः कर्तोति परिभाषणात्कर्तृशब्दोत्तरीयत्व प्रत्ययस्य च प्रकृतिजन्यबोधीयपकारभूतव्यापारवाचकत्वेन व्यापार एवेत्यभ्युप गम्य लः कर्मणीति सूत्रेण व्यापारे लकारविधानं मीमांसकैरङ्गीक्रियते तथा ल्युड्घञादीनामपि कर्तरि कृत्, इत्यनेनैव सूत्रेण व्यापारे विधानसंभवाद् `भावे' इति सूत्रस्थभाष्यविरोधापत्तेश्चेत्यर्थः। तत्र हि `सत्त्वभूतो भावो घञादेरर्थः' इत्युक्तम्। `कर्तरि कृत्' इत्यनेन व्यापारे कृतां विधाने तु लकारवदसत्तवभूतव्यापारवाचकत्वं घञादेः स्यात्। ततश्च पूर्वोक्तभाष्यविरोधः स्पष्ट एवेति भावः। विरोधापत्तेश्चेति चो हेतौ, यतो वैयर्थ्यमतस्तद्विरोधापत्तिरिति योजनायामुक्तिवैचित्र्यमन्तरेण नाधिकं किमपि प्रतिपादितं स्यादिति बोध्यम्। म.म.हरिशासकृतकाशिकाख्यटीकायांतद्भाष्यविरोधेति प्रतीकस्य धृतत्वात्तदुपात्तवैयाकरणभूषणसारपुस्तके तादृश एव पाठ आसीदित्यनुमीयते, इत्यलम्। इत्यभ्युपेयमिति। पूर्वोक्तदूषणसमुदायपरिजिहिर्षया यत्नातिरिक्तो व्यापारोऽपि अपिशब्देन फलं धात्वर्थः, यत्न आख्यातार्थ इत्यङ्गीक्रियते चेदित्यर्थः। सकलव्यापारलाभेति। विनिगमनाविरहाद्यत्नोऽपि, अपिशब्दाद्व्यापारश्च धातुवाच्यत्वेनाऽऽश्रीयत इत्यर्थः। गौरवमिति। संखअयायां कालादौ चाऽऽख्यातस्य शक्तिरस्तु, न तु यत्नेऽपि। अन्यलभ्यतया पुनस्तत्र शक्तिकल्पनानौचित्याद्गौरवमित्यर्थः। धातोश्चेतनाचेतनसाधारणव्यापारवाचित्वादेव लः कर्मणीति सूत्रेण तिङां कर्तृकर्मवाचिद्वं संगच्छते, संगच्छते च कर्तरि कृदित्यनेन ण्वुल्तृजातीनामिव घञादेरपि कर्तृवाचित्वप्राप्तौ तद्बाधनार्थं `भावे' इति विधायकानुशासनमपीति भावः। गौरवमित्यन्तेन ग्रन्थेन तस्मादित्यनेन सूचितोऽभिप्रायस्थहेतुसमुदायः स्पष्टीकृतः। उक्तहेतुसमुदायादेव करोतिः पच्यादिधातोरेव व्याख्यानंविवरणं न तु पचतीत्यादिघटकतिङ्प्रत्ययस्येत्याहपचतीत्यस्येति। पचतीत्यस्येति। पचतीत्यत्र भागद्वयं, पच्धातुस्तदुत्तरस्तिप्रत्ययश्चेति। तत्र पाकं करोतीति पदद्वयेन यद्विवरणं क्रियते तत्र पाकमिति कृधातुश्चेत्येतद्द्वयं पचतीत्येतद्घटकपच्धातोरेव विवरणं, न तु तद्घटकति। प्रत्ययस्येत्यर्थः। तथा च कृधात्वर्थः कृतिरपि व्यापारवद्धातुवाच्यैवेति भावःतदपीति। पचतीत्यस्य पाकं करोतीति विवरणमपि तिङां भावनारूपव्यापारार्थकत्वं साधयितुं नालम्। अपिशब्देन प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमेति न्यायसमुच्चयः। सोऽपि न्यायो भावनायास्तिङर्थत्वं संसाधयितुं नालं, तस्य दूषयिष्यमाणत्वादिति भावः। बाधकमिति। भावनाया धात्वर्थत्वे प्रकृतिप्रत्यययोरिति न्यायविरोध इति मीमैंसकोक्तं बाधकमित्यर्थः। तन्मतमिति। पचतीत्येतद्घटकपच्धातोः पाकमिति विवरणं तदुत्तरतिप्रत्ययस्य तु कृधातुरिति मीमांसकमतमित्यर्थः। दूषयतिदूषणोद्भावनेन प्रत्याचष्टेन त्वसावित्यादिना। असौ कृधातुस्थिङां व्याख्यानंविवरणं न भवतीत्यर्थः। तद्विवरणं तु करोतीत्येतद्घटकस्तिप्रत्यय इत्याशयः। कृधातोस्तिङ्विवरणत्वाभावे हेतुमाहपक्ववानित्यादाविति। सिद्धान्ते हि पक्ववानित्यत्र पच्धात्वर्थो न कर्मकारकं किंतु क्रियारूप एव। कर्म तु तण्डुलः। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमिति नियमसंरक्षणाय तिङन्तस्थले प्रत्ययस्यैव व्यापारार्थकत्वं मीमांसकैरङ्गीक्रियते। वैयाकरणैस्तु प्रकृतिप्रत्ययार्थयोरिति व्युत्पत्तिर्न नियामिका किं तूत्सर्गवचनं तत्। यदि च सर्वत्र व्युत्पत्त्यनुसारेणैव बोधः स्वीक्रियेत तर्हि पक्ववानित्यत्रानन्वयापत्तिरिति दूषणं दीयते। तामेवानन्वयापत्तिं विशदयतिअयं भाव इत्यादिना। सहार्थं ब्रूत इति। संबद्धार्थं बोधयतः। अर्थद्वयमध्ये कस्य विशेष्यत्वं कस्य च विशेषणत्वमित्यपेक्षायामाहतयोरिति। प्रकृतिप्रत्ययार्थयोर्मध्ये प्रत्ययार्थः प्रत्ययवाच्योऽर्थः प्रधानंनाम प्रकृत्यर्थनिष्ठप्रकारतानिरूपितविशेष्यतावानित्यर्थः। पूर्वोक्तव्युत्पत्तिसिद्धकार्यकारणभावं शब्दतः प्रदर्शयतिविशेष्यतयेति। प्रकृत्यर्थनिष्ठप्रकारताकबोधे जननीये विसेष्यतासंबन्धेन तादृशप्रकृत्युत्तरप्रत्ययजडन्यार्थोपस्थितिः कारणमित्यर्थः। पक्ववानित्यत्र प्रकृतिप्रत्ययार्थयोः परस्परान्वयप्रयोजकमुभयोः कारकत्वं प्रदर्शयतिपाकः कर्मकारकमिति। पाकः फलांशः। तस्य व्यापारजन्यत्वात्फलस्यापि व्यपदेशिवद्भावेन फलाश्रयत्वाच्च कर्मत्वमित्यर्थः। कर्तृकारकमिति। कर्तरि कृत्, इत्यनुशासनात्क्तवतुप्रत्ययार्थः कर्तृकारकमित्यर्थः। द्वयोः कारकयोः परस्परान्वयासंभवे प्रभाममाहअरुणाधिकरणरीत्याऽस्मद्रीत्या चेति। अरुणाधिकरणेहिअरुणया पिङ्गाक्ष्या, एकहायन्या सोमं क्रीणातीत्यत्रारुणयेत्यादिपदत्रयेऽपि तृतीयोपात्तस्य करणकारकस्य पार्थक्येन क्रयभावनायामन्वयःआरुण्यकरणिका पिङ्गाक्षीकरणिका एकहायनीकरणिका च या भावना तादृशभावनासाध्यभूतेन क्रयेण सोमं भावयेदिति बोधः। या चाऽऽरुण्यगुणविशिष्टा गौः सैव पिङ्गलवर्णाक्षिमती सैव चैकहायनविशिष्टेत्येवमबेदबोधस्तु पार्ष्ठिकः प्रत्यासत्तिन्यायाज्जायत इत्युक्तम्। तथा च कारकाणां क्रियायामेवान्वयो, न तु तेषां परस्परमन्वय इति स्पष्टमेव प्रतिपादितम्। तथा करोति क्रियां जनयतीति व्युत्पत्त्या कारकशब्दः क्रियाजनकपरः। क्रियाजनकमिति ज्ञाते जनकस्य च जन्याकाङ्क्षानियमेन का सा क्रियेति जिज्ञासोदयात्क्रियाया अपि जन्याया जनकाकाङ्क्षतया च तयोः क्रियाकारकयोरेव परस्परान्वयौचित्यरूपया कारकाणां क्रियायामेवान्वयनियमसाधिकया सुबर्थनिर्णये वक्ष्यमाणरीत्यर्थः। अनवयासंभव इति न ह्युक्तरीतिद्वयेन कारकाणां परस्परमन्वयः कथमपि संभवतीत्यर्थः। अत्रायं विशेषो बोध्यःयन्मीमांसकमते अरुमया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणातीत्यादौ विशेष्यविशेषणानां सर्वेषां क्रियायामन्वयः, परस्परमन्वयस्तु पार्ष्ठिको मानसिकः। वैयाकरणमते तु विशेषणविशिष्टविशेष्यस्येति। अत एव नीलोत्पलमित्यादौ सामर्थ्यात्समास उपपद्यते। नियमस्यैवासंभवेनेति। भवन्मते फलमात्रस्य धात्वर्थत्वेन पक्ववानित्यादिस्थले व्यभिचारात्प्रकृतिप्रत्ययार्थयोरन्वयनियमस्यैवासंभवेन क्व प्रत्ययार्थप्राधान्यबोधकः पूर्वोक्तकार्यकारणभावः? स तु सुतरामसंभवीति क्वशब्देन सूचितमित्यर्थः। ननु पूर्वोक्तरीत्या कारकाणां मिथोऽन्वयासंभवेऽपि भट्टपादोक्तरीयाऽन्वयः संभवेदित्याशङ्कतेन चसंबन्धमात्रमिति। यजेतेत्यत्र श्रुत्यासमानपदरूषया धात्वादिश्रुत्या, धात्वर्थभावयोःधात्वर्थभावनयोः फलव्यापारयोरित्यर्थः। संबन्धमात्रंसंबन्धसामान्यमुक्तं, तत्र तृतीयादिविभक्त्यभावेन करणत्वादिविशेषरूपेणान्वयासंभवात्संबन्धसामान्येनान्वयः प्रतिपादितः, तदेकांशनिवेशेतस्य संबन्धसामान्यस्य य एकांशः करणत्वादिसंबन्धाविशेषस्तन्निवेशे तद्बोधने, अस्याःश्रुतेः, व्यापारःसामर्थ्यं, न विद्यतेनास्तीत्यर्थः। तथा प्रकृतेऽपि पाकसंबन्धी कर्तेत्यन्वयः संभवतीति कर्मत्वादिविशेषरूपेण बोध एव क्रियापेक्षेति शङ्किवाभिप्रायः। फलस्य कारकत्वेनायोग्यत्वात्तथाऽन्वयोऽप्यसंभव्येवेत्याहयोग्यताविरहादिति। ननु अर्थाबाधो योग्यतेति तादृशयोग्यतायाः सत्त्वाद्योग्यताविरहोक्तिरयुक्तेत्यत आहअन्वयप्रयोजकरूपवत्त्वस्येति। कारकान्वयकरणे प्रयोजकंहेतुभूतं यद्रूपं तादृशरूपवत्त्वस्य तथात्वाद्योग्यतारूपत्वादित्यर्थः। तादृशं रूपं तु कारकाणां धातूपस्थाप्यक्रिययैवान्वयनियमात्क्रियात्वं, तदेव च योग्यत्वमिति भावः। तदुक्तं मूलेक्रियात्वमेव हीत्यादि वक्ष्यत इत्यन्तम्। अन्वयप्रयोजकपदेनान्वयि तावच्छेदकस्याभिधानम्। यदवच्छिन्नेऽन्वयस्तस्यैव ह्यन्वयितावच्छेदकत्वं ज्ञेयम्। कारकाणां क्रियात्वावच्छिन्नेऽन्वयनियमात्क्रियात्वमेव हि कारकान्वयितावच्छेदकमिति तात्पर्यम्। तदेतदिति। कारकाणां मिथोऽनन्वयप्रयोजकमित्यर्थः। विवरणेनेति। तत्समानार्थकपदान्तरेण तदर्थकथनेनेत्यर्थः। पक्ववानित्यत्रत्यप्रकृतिप्रत्ययार्थयोः कर्मत्वकर्तृत्वे दर्शयतिकृतवान्पाकमिति। क्त्ववत्वर्थकर्त्राक्षिप्यमाणभावनायां पाकस्य कर्मत्वेनान्वयसंभवान्न पक्ववानित्यत्रानन्वय इत्याशयादुक्तं वस्तुत इति। प्रत्ययार्थः प्रधानमित्यस्येति। अत्रोद्देश्यविधेयभेदेन द्विधा नियमाकारः संभवतीत्याहयः प्रधानमिति, यः प्रत्ययार्थ इति च। द्विविधनियमेऽपि व्यभिचारमाहअजाऽश्वेत्यादि। यः प्रप्रानमिति प्रथमनियमेऽजादेर्विशेष्यस्य प्रत्ययार्थत्वाभावाव्द्यभिचारेण प्राधान्यं न स्यात्। किंतु स्त्रीप्रत्ययार्थस्यैव प्राधान्यपत्तिः। यः प्रत्ययार्थ इति द्वितीयनियमे व्यभिचारमाहछाग्यादेरिति। अत्र स्त्रीत्वस्य प्रत्ययार्थत्वेऽपि द्योत्यार्थस्य प्रकारतया भाननियमाव्द्यभिचारः, प्रकृत्यर्थस्य प्राधान्यानापत्तिश्चेति भावः। एवं च दूषणग्रस्तत्वात्पत्ययार्थः प्रधानमित्ययं न नियमः, किंतु सामान्यवचनमिति न तद्बलाव्द्यापारस्याऽऽख्यातार्थत्वं वक्तुं सुशकमित्याशयः। कथं तर्हि पचतीत्यादौ व्यापारस्य विशेष्यतया बोध इत्यत आहविशेष्यत्वादिनेति। व्युत्पत्त्यनुरोधादिति। व्युत्पत्तिःशब्दानामर्यावबोधकशक्तिग्रहः। तदनुरोधाद्वाक्यार्थावबोधकशक्तिग्रहानुरोधात् व्यापारविशेष्यकः शाब्दबोध इत्यर्थः। तथा च व्युत्पत्तिः अर्थावबोधकशक्तिग्रह एव व्यापारविशेष्यकशाब्दबोदनियामिका, न प्रत्ययार्थत्वादीति भावनाया धात्वर्थत्वेऽपि न प्राधान्यानुपपत्तिरिति भावः। यतो बोधो हि व्युत्पत्त्यनुसारी, न तु बोदानुसारिणी व्युत्पत्तिरित्यभियुक्तानुभवात्। मीमांसकैस्तु वाक्यार्थबोधे भावनायाः प्राधान्यं दृष्ट्वा तदनुसारेण तस्या आख्यातप्रत्ययार्थत्वं कल्प्यत इत यत्तद् बोदानुसारेण व्युत्पत्तिकल्पनमिति अभियुक्तानुभवविरुद्धत्वादत्यन्तानुचितमित्याशापः। बोधस्य व्युत्पत्त्यनुसारित्वं प्रदर्शयतिअत एवेति। तादृशार्थबोधजनकशक्तिग्रहवशादेव प्रथमान्तविशेष्यक एव शाब्दबोधो नैयायिकैरङ्गीक्रियते। शक्यतावच्छेदकप्रकारक एवेति। येन रूपेण शक्यार्थबोधस्तस्यैव शक्यतावच्छेदकत्वनियमादालंकारिकैर्लक्षणायां गङ्गायां घोषः, जाता लता हि शैले, इत्यादौ गङ्गात्वलतात्वादिनैव लक्ष्यार्थप्रतीतिस्वीकाराद्विलक्षणशैत्त्यपावनत्वादिप्रतीतिचमत्कारो विपरीतपदप्रतिपाद्यं वैपरीत्यं च संगच्छत इत्युच्यते। नैयायिकास्तु गङ्गातिरे घोष इति वक्तव्ये गङ्गायां घोष इत्युक्तिसामर्थ्यादेव शैत्यपावनत्वादिप्रतीतिरित्याहुः। घटः कर्मत्वमिति। विपर्ययेणवैपरीत्येन। व्युत्पन्नानांघटः, कर्मत्वं, आनयनं, इत्येवमसंबद्धशब्दधटितवाक्ये आधाराधेयभावसंबन्धेन घटप्रकारककर्मत्वविशेष्यकबोधजनकताग्रहवतामित्यर्थः। नैयायिकनव्यानामिति। कर्मदारयसमासे नैयायिकशब्दस्य न्यायमधीते वेत्ति वेति व्युत्पत्त्या क्रियाशब्दत्वेन पाठकपाचकादिवदनियमेन पूर्वनिपातः कृतः। `एकपदस्य पदान्तरव्यतिरेकमयुक्तान्वयाननुभावकत्वमाकाङ्क्षा' इत्याकाङ्क्षास्वरूपम्। पदस्येति षष्ठ्यर्थो निष्ठत्वम्। पदनिष्ठमित्यर्थः। तथा च घटपदनिष्ठं कर्मत्वपदव्यतिरेकप्रयुक्तमन्वयाननुभावकत्वं समीक्ष्य निरुक्तवाक्पाच्छाब्दबोधोऽभ्युपेयते यैस्तन्निर्देशार्थं नव्यपदमुपात्तम्। तथा च तादृशवाक्यादपि तेषामर्थबोधो जायते, तादृशव्युत्पत्तिरहितानां तु न जायते। तदुक्तंअन्येषां तन्निराकाङ्क्षमेवेति। आधाराधेयभावसंसर्गेण शाब्दबोधे निराकाङ्क्षमित्यर्थः। इत्याद्युक्तं सर्वं संगच्छत इति भावः। अत एवेति। बोधस्य व्युत्पत्त्यनुसारित्वादेदेत्यर्थः। प्रधानप्रत्ययार्थवचनमिति।(पा.सू.1256)एतत्सूत्रस्वरससिद्धःयः प्रधानं स प्रययार्थः, इति पक्षः। सूत्रस्यार्थस्त्वेवम्अत्राशिष्यमित्यनुवर्तते। तथा च `प्रधानं प्रत्ययार्थः, इति वचनं न कर्तव्यम्। तत्र हेतुमाहअर्थस्यान्येति। अर्थस्यविशेष्यत्वादिना बोदस्य लोकव्युत्पत्तिसिद्धत्वादिति। एवं सत्यपीति। व्युत्पत्त्यनुसारेण व्यापारस्य विशेष्यतया बोधसिद्धौ सत्यामपीत्यर्थः। भावप्रधानमितिवचनमेवेति। अवधारणार्थकैवकारेण प्रकृतिप्रत्ययार्थयोरित्यस्य व्यावृत्तिस्तस्यौत्सर्गिकत्वात्सामान्यवचनत्वाच्चैतस्य विशेषवचनत्वेनापवादत्वादिदमेव धात्वर्थत्वेऽपि व्यापारस्य विसेष्यतया शाब्दबोधे प्रमाणत्वेनाऽऽदरणीयमिति भावः। तत्राऽऽख्यातपदेन दातुरुच्यते। आख्यायते सर्वतः प्रधानभूतोऽर्थोऽनेनेति व्युत्पत्तेः। नामादिप्रकृतीनामेवोद्देशात्। `नामान्याख्यातजानि' इति निरुक्ताच्च। न ह्यख्यातप्रत्ययजन्यं तदन्तजन्यं वा नाम संभवति?। अत एव `सर्वं नाम धातुजपाह व्याकरणे शकटस्य च तोकम्' इति पूर्वोक्तनिरुक्तसमानार्थकं वाक्यं महाभाष्ये पठितम्। तथा च वाक्ये सर्वापेक्षया प्रधानीभूतार्थकत्वं धातुलक्षणं पर्यवस्यति। प्राधान्योक्तिस्तु तन्मुख्यविशेष्यक एव बोधो जायत इति स्फोरणाय, न तु तस्य लक्षणे निवेश इति बूषणकारसंमतः पन्थाः। नव्यवैयाकरणास्तुतत्राऽऽख्यातपदेन तिङन्तं गृह्यते, आख्यातमाख्यातेनेत्यत्र तथैवार्थप्रतीतेः। `चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च' इत्युपक्रमाच्च। भावकालकारकसंखअयाश्चत्वारोऽर्था आख्यातस्य। तत्रभावप्रधानमिति। भावो दात्वर्थः। धात्वर्थश्च फलव्यापारान्यतरो बोध्यः। पधानं विशेष्यमिति यावत्। तथा च भावः प्रधानं यस्मिन्निति बहुव्रीहिः। आख्यातां तिङन्तं फलव्यापारान्यतरप्रधानकं बोधं जनयति। नामानिप्रातिपदिकानि। सत्त्वप्रधानानिसत्त्वंद्रव्यं लिङ्गसंख्यान्वयि। तत्प्रधानानितद्विशेष्यकाणि ज्ञानानि अन्वयबोधात्मकानि जनयन्तीति भावः। यथा पचतीत्यत्र व्यापारप्रधानको बोधः। पच्यते इत्यत्र फलप्रधानको विक्लित्त्यादिरूपार्थो बोध्यत इत्यादिकमाहुः। एवं प्रधानं प्रत्ययार्थ इत्यस्यानादरणीयत्वं प्रतिपाद्य यः प्रत्ययार्थः स प्रधानमित्यर्थे मूलस्य, तदागमे हीति न्यायस्याप्यनादरणीयत्वं दर्शयितुमाहतदागमे हीत्यादि। अतिव्याप्तमिति। अतिव्याप्तश्चातिव्याप्तं चेति पुंनपुंसकयो `नपुंसकमनपुंसकेन' इति नपुंसकैकशेषः, एकवचनं च। अतिव्याप्तमतिप्रसक्तं व्यभिचरितामिति यावत्। व्यभिचरितत्वमेव स्पष्टयतिकृञोति। अत्र किं कृतम्? इति प्रश्नः, पक्वमित्युत्तरम्। एवं च प्रश्नोत्तररूपं विवरणम्। तत्र किं कृतमिति प्रश्ने किंविषयको व्यापारः कृत इत्यर्थप्रतीत्या व्यापारविषयस्य जिज्ञास्यत्वमवगम्यते। पक्वमित्यत्र कर्मणि क्तप्रत्ययः सामान्ये नुपंसकत्वं च। तथा च पक्वमित्यतो जिज्ञास्यविषयानवगमेनास्योत्तरत्वासंगत्या व्यापारबोधकत्वे स्वीकृते तस्य प्रत्ययार्थत्वाभावाव्द्यभिचार इत्यर्थः। पक्वमित्यपीत्यपिना पक्ववानित्यस्य समुच्चयः। तत्रापि भावनाया आक्षेपादिना प्रतीयमानत्वेऽपि प्रत्ययार्थत्वाभावेन व्यभिचारसंभवात्। पक्वमित्यत्रापीति। यथा पचतीत्यत्र पच्धातोः पाकमित्यनेन तिप्रत्ययस्य च करोतीतिभावनार्थककृधातुना विवरणादाख्यातस्य भावनापरपर्यायव्यापारवाचिमत्वस्वीकारात्कृञा विवरणं प्राधान्येन व्यापारप्रतीतिश्च मन्यते मीमांसकैस्तद्वत्पक्वमित्यत्रापि क्तप्रत्ययस्य भावनार्थककृञा विवरणं भावनाप्रतीतिश्चास्तीति पक्ववान् पक्वमित्यत्रापि भावना प्रत्ययवाच्या स्यादिति तदागमे हीति न्यायस्य कृञा विवरणस्य चातिव्याप्तिरिति भावः। ननु यथा कृञा विवरणात्तदागमे हीति न्यायाच्च तिङां भावना वाच्येत्यङ्गीकृतं तथा कृत्प्रत्ययानामपि सा वाच्येति स्वीक्रियतां, तथा च नातिव्याप्तिरिति चेदाहअपीति। अपिनाऽर्थान्तरं समुच्चीयते। तदेवार्थान्तरं प्रकटयतितथा चेति। अयं भावःतिङन्ते पचतीत्यादौ, कृदन्ते पक्ता पक्ववानित्यादौ चोभयत्रापि भावनाप्रतीतिरस्तीति तावन्निर्विवादमुभाभ्यामपि वादिप्रतिवादिभ्यां स्वीकृतम्। तत्र किं सा भावना धातुना प्रतिपाद्यतेऽथवा प्रत्ययेनेति जिज्ञासायां प्रत्ययेनेति चेत्प्रत्ययानामनेकत्वेनानेकेषु शक्तिकल्पनापत्त्या गौरवं भवति। तस्माद्धातुना प्रतिपाद्यत इति मन्तव्यम्। धातुस्तूभयत्रापि पचिरेक एवेत्येकस्प्रिञ्छक्तिकल्पनयाऽतिलाघवं भवतीत्याशयेनाऽऽहउभयसाधारण्येत्यादि। तिङन्तकृदन्तोभयानुगतत्वेन भावनाप्रतीतेः सत्त्वादित्यर्थः। धातुरेवेति। उभयत्र घटकतयाऽनुप्रविष्टो धातुरेवैकत्वेन लाघवाद्भावनावाचक इत्येव कल्पनं समञ्जसमति। दूषणान्तरमप्याहप्राधान्यापत्तिश्चेति। तिङां भावनावाचकत्वे भावनयैवाऽऽक्षेपात्कर्मकर्त्रर्थमतीतिलाभसंभवेन प्रत्ययार्थत्वाद्भावनायाः प्राधान्यं यथोच्यते मीमांसकैस्तद्वत्कृतामपि भावनावाचकत्वे भावनाया एव प्राधान्यापत्ति। तथा च पक्वस्तण्डुलः पक्ता चैत्र इत्यादौ सामानाधिकरण्यानापत्तिरुक्तातिव्याप्तिपरिहारासंभवश्च स्यादिति भावः।। 8 ।।
धातोरेव भावनावाचकत्वमित्यत्र साधकान्तरं प्रदर्शयन्नाहकिं कार्यमिति। अत्र किंशब्दो न प्रश्नार्थकः किंतु पूर्वत्रोपक्तान्तत्वात्तदनुसंधानमात्रेण छन्दोगताक्षरसंख्यापूरणार्थं प्रयुक्तः। अत एव तं परित्यज्यैव व्याख्यातिकार्यमित्यत्रेति। ऋहलोर्ण्यदिति शास्त्रेण कर्मणि ण्यद्विहित इति शेषः। अनीयरिति। पचनीयमित्यादौ `तव्यत्तव्यानीयरः' इति कर्मण्यनीयर्विर्धीयते णिनिरिति। भूते, इत्यधिकृत्य `करणे यजः, इति सूत्रेण यजेर्भूते कर्तरि णिनिर्विहित इत्यर्थः। एतेकर्माद्यर्थका ण्यदादयः। क्रियायोगमन्तरेणासन्त इति। क्रियान्वयिनामेव कारकत्वेन धातोर्व्यापाररूपक्रियावाचित्वाभावे क्रियान्वयासंभवेन कारकत्वासंभवः, तदसंभवे च `कारके' इत्यधिकृत्य विहितानां कर्मादिसंज्ञानामप्यसंभवात्कर्माद्यर्थेऽसन्तोऽसंभाविता इत्यर्थः। तद्वाच्यतामिति। तथा च कर्माद्यर्थे ण्यदादीनां विधानान्यथासंभव एव भावनाया धातुवाच्यतां पीनत्वान्यथासंभवो रात्रिभोजनमिव बोदयतिसूचयतीत्यर्थः। एतदनुसंधायैदाऽऽहविना क्रियामित्यादि। कारकत्वासंभवेनेति। क्रियान्वयित्वस्यैव कारकत्वात्क्रियामन्तरेण कारकत्वासंभव इत्यर्थः। ननु नेदं कर्माद्यर्थकण्यदादिविधानं धातार्व्यापाररूपक्रियावाचकत्वे मानं ण्यदादीनां कर्माद्यर्थकत्वस्य प्रकारान्तरेणाप्युपपत्तिसंभवादन्यथानुपपन्नस्यैव मानत्वादित्याशङ्क्य समाधत्ते न चेति। भाट्टरीतिरिति। अयं भावःपाचको देवदत्तः, पक्वस्तण्डुल इत्यादौ सामानाधिकरण्यानुभवानुरोधात्कृतां कर्तृकर्माद्यर्थकत्वमुक्त्वा धातोः फलमात्रवाचकत्वेन क्रियावाचकाभावात्कृदन्तस्थले क्रियाप्रतीतिर्न स्यात्, तत्प्रतीत्यभावे च कारकत्वादि च न स्यादिति कृतां कर्तृकर्माद्यर्थकत्वमनुपपन्नमित्याशङ्क्य क्रियां विना कारकत्वासैभवात्तत्र कर्तृकर्मादिकारकैरेव स्वस्वरूपलाभाय क्रियाऽऽक्षिप्यते, आक्षिप्तां तामादाय तत्संबन्धादेव कारकत्वं कारकार्थकः प्रत्ययश्चोपपद्यत इत्येवं भाट्टरीतिर्न युक्तेत्यर्थः। निरुक्तभाट्टरीतेरन्यत्र क्लृप्तरीतिविरुद्धत्वादयुक्त्वं प्रतिपादयन्नाहआख्यातेऽपीति। तिङन्तस्थले व्यापाररूपभावना न धातुवाच्या। तथा सति तस्याः प्राधान्येन प्रतितिर्न स्यात्। किंतु तिङ्संज्ञकाख्यातवाच्यैव सा। वाक्यार्थबोधे सर्वतः प्राधान्येन तस्याः प्रतीयमानत्वात्। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्राधान्यस्य पाठक औपगव इत्यादौ क्लृप्तत्वात्। तदागमे हीति न्यायेन तस्या आख्यातप्रत्ययवाच्यत्वनिश्चयाच्च। तदुक्तम्`प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ सदा। प्राधान्याद्भावना तेन प्रत्ययार्थोऽवधार्ते' इति। न च तत्र कर्तृकर्मप्रतीतिर्न स्यात्तद्वाचकाभावादिति वाच्यम्। भावनाव्यापारः। व्यापारश्च नित्यं साश्रय एव। निराश्रयस्य व्यापारस्यासंभवात्। तथा च यद्याश्रय एव न स्याच्चेद्भावनाऽस्तितामेव न प्रतिपद्यत इति भावनाऽऽत्मस्वस्वरूपलाभाय कर्तारमाक्षिपत्याक्षेपादेव कर्तृकर्मणोः प्रतिपत्तिसंभवे किमिति तद्वाचकत्वमाख्यातस्य कल्पनीयमित्येवंरीत्या मीमासकैः प्राधान्याद्भावनाया आख्यातवाच्यत्वं सिद्धान्तितम्। एवं सति यदि उपर्युक्ता भाट्टरीतिराश्रीयेत तदाआख्यातेऽपितिङ्संज्ञकाख्यातेऽपीत्यर्थः। तथात्वापत्ताविति। कृत्संज्ञकप्रत्ययवत्तिङ्संज्ञकाख्यातप्रत्ययानामपि कर्तृकर्मवाचित्वं स्वीकृत्य ताभ्यां कर्तृकर्मभ्यां स्वस्वरूपलाभायाऽऽक्षिप्तां क्रियामादाय तिङां कर्तृकर्मवाचित्वोपपत्तौ सत्यामित्यर्थः। तत्रापीति। तिङ्संज्ञकाख्यातेऽपि, भावनायाःव्याषारस्य, वाच्यत्वं तिङ्वाच्यत्वं नैव सिध्येदित्यर्थः। तथा चान्यत्र क्लृप्तस्वसिद्धान्तविरुद्धत्वान्निरुक्ता भाट्टरीतिः कार्यमित्यादौ नाऽऽश्रयितुं युज्यत इति भावः। लिङ्गसख्यान्वयेति। पक्ववान् पक्ववती, पक्वस्तण्डुल इत्यादौ विक्लित्त्यनुकूलव्यापारवदभिन्नः पुंस्त्वैकत्वविशिष्टश्चैत्र इत्यादिरीत्या शाब्दबोधोदयात्पुंस्त्वादिलिङ्गैकत्वादिसंख्यान्वयाय कृत्सु कर्तृकर्मादिवाच्यत्वमवश्यमाश्रयणीयमित्यर्थः। तेनकर्तृकर्मादिना, स्वस्वरूपनिरूपकत्वेन व्यापारस्याऽऽक्षेपात्तत्प्रतीतिः स्यादित्येवं मन्यते चेदाख्यातेऽपि एकत्वादिविशिष्टो व्यापाराश्रय इति बोधादेकत्वादि संख्यान्वयाय कर्तृकर्मणी वाच्ये स्याताम्, पक्ववानित्यादौ भूतकालिको देवदत्तकर्तृको व्यापार इति बोधानुरोधेन व्यापारे विशेषणतया कालस्य कारकस्य चान्वयदानार्थं भावनाया अपि वाच्यत्वमवश्यमङ्गीकरणीयं स्यादित्यर्थः। कृत्स्वपीत्यपिना धातोर्व्यापारवाचकत्वावश्यकत्वे समुच्चितं हेत्वन्तरं प्रदर्शयतितथा हीत्यादिना। नखौर्भिन्न इति। व्यापारजन्यद्विधाभवनं भिदिधात्वर्थः। कर्मणि क्तप्रत्ययः। नखैरिति करणे तृतीया। तथा च नखकरणकव्यापारजन्यविदारणाश्रयो हिरण्यकशिपुरिति बोधः। तत्र करोति क्रियां जनयतीति व्युत्पत्त्या क्रियाजनकस्य कारकत्त्रप्रतीतेः क्रियायाश्च जन्यक्रियासाकाङ्क्षत्वाच्च परस्परमन्वयेन सामर्थ्याद्वैयाकरणमते नखभिन्न इति समासो भवति। एवं हरित्रात इत्यत्रापि समास उपपाद्यः। मीमांसकमते तु तिङामेव भावनारूपव्यापारवाचकत्वादत्र तिङभावेन व्यापाररूपक्रियाया अभावादरुणाधिकरणन्यायेन कारकाणां क्रिययैवान्वयात्परस्परं तदनन्वयेनासामर्थ्यान्नखभिन्नयोः करणकर्मकारकयोः समासो न स्यादित्यर्थः। समासाभावे सहेतुकं दृष्टान्तं प्रदर्शयन्नाहपुरुषो राज्ञ इत्यादि। राजसंबन्धी पुरुषः, देवदत्तसंबन्धिनी भार्येत्येवमन्वये विवक्षिते राज्ञो भार्या इत्यनेन यथा समासो न भवति तयोः परस्परमनन्वयेनासामर्थ्यात्तद्वन्नखैर्भिन्न इत्यादौ समासो न स्यादिति भावः। सामर्थ्यमुपपादयितुं शङ्कतेन चाध्याहृतेति। येन विना यदनुपपन्नं तत्तेनाऽऽक्षिप्यते इति न्यायेन नखैरित्यस्य करणकारकत्वेन कारकत्वस्य च क्रियाजनकत्वरूपत्वेन जनकत्वस्य च जन्यत्वमन्तराऽनुपपन्नत्वात्तेन करणकारकेण स्वस्वरूपनिरूपकतयाऽऽक्षिप्यमाणां करोतिक्रियां गृहीत्वेत्यर्थः। सामर्थ्यमिति। अन्वययोग्यत्वरूपमित्यर्थः। तथा च नखकरणकव्यापारजन्यभेदाश्रयः= नखैः कृत्वा भिन्न इति शाब्दबोधजननादध्याहृतक्रियामादाय सामर्थ्यमुपपादनीयमित्यर्थ। एवमध्याहृतक्रियामादाय सामर्थ्योपपादने दृष्टान्तं प्रदर्शयन्नाहदध्योदनo इत्यादिवदिति। दध्ना ओदनः, दध्योदनः। अन्नेन व्यञ्जनमिति तृतीयातत्पुरुषः। संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन समस्यत इति हि तत्सूत्रस्यार्थः। अत्र दध्नेति करणतृतीयान्तस्य विशेषणतया ओदनेऽन्वयस्य बाधाद्विभक्त्यर्थकारकस्य क्रियोपसर्जनन्वेन प्रतीतिनियमाद्विभक्त्यर्थकारकेण विना क्रियामनुपपद्यमानेनाऽऽक्षिप्यमाणोपसेकक्रियाद्वारा सामर्थ्यमङ्गीकृत्य समास उपपादितः। एवं चात्रानुपपत्त्याऽऽक्षेप एवाध्याहारपदार्थः। यदि चात्राध्याहृतक्रियाद्वारा सामर्थ्योपपादनं नाङ्गीक्रियेत चेदसामर्थ्यात्समासो न स्यादिति स्पष्टमेव। एतद्वन्नखभिन्न इत्यादावपि अध्याहृतक्रियाद्वारा सामर्थ्योपपादनमावश्यकमिति भावः। अनया रीत्या नखभिन्न इत्यादौ यदध्याहृतक्रियाद्वारा सामर्थ्योपपादनं तन्न युक्तिसहमिति निराचष्टेतत्र विध्यानर्थक्यादित्यादिना। अयं भावःअन्नेन व्यञ्जनमित्यादेरनुशासनस्य पदविधित्वात्समर्थः पदविधिरितिपरिभाषोपस्थित्याऽध्याहृतक्रियान्तर्भावमन्तरा केवलं स्वरूपेण सामर्थ्यरहितपदानां दध्यादीनां निरुक्तसूत्रेण समासविधानानुपपत्तेरगत्या दध्योदनादावध्याहृतक्रियाद्वारा सामर्थ्योपपादनेन समासाङ्गीकारेऽपि हरिणा कृतं हरिकृतमित्यत्र मीमांसकमतेऽपि कृधातोर्व्यापारवाचकत्वात्तनिरूपितकर्तृत्वं हरौ साक्षादिद्यते। तथा च प्रत्यासत्त्या कृत्प्रत्ययप्रकृतिभूतधातूपस्थाप्यक्रियानिरूपितकर्तृकरणवाचकतृतीयान्तं कृदन्तेन समस्यत इति कर्तृकरणे कृतेत्यस्यार्थांत्क्रियामनष्याहृत्यैव साक्षाद्धात्वर्थान्वयेन शास्त्रस्य चरितार्थत्वेन कर्तृत्वाद्यन्यथानुपपत्त्याऽऽक्षिप्यमाणस्वकर्तृकादिक्रियाजन्यत्वपरम्परासंबन्धमादाय हरित्रात इत्यादौ तत्प्रवृत्तेरयोगात्, मुख्याभाव एव गौणग्रहणं युज्यते नान्यथेत्यर्थादिति भावः। नखमिन्न इत्यादौ मीमांसकरीत्या सामर्थ्योपपादनगाशङ्कतेन चैकस्यामिति। एकस्यामेव क्रियायां कर्मादिभावेन यदर्थयोरन्वयस्तयोः पदयोस्तदेवैकक्रियान्वयित्वमेव सामर्थ्यमिति मीमांसकैरङ्गीकृतम्। अत एव नीलोत्पलमित्यादौ समासः सिध्यति। एकक्रियान्वयित्वरूपसामर्थ्यानाश्रयणे तु नीलोत्पलमित्यादौ सामर्थ्याभावात्समासो न स्यात्। तथा हिनीलशब्दोऽन्वयव्यतिरेकाभ्यां नीलगुणपरः। उत्पलशब्दस्तूत्पलत्वविशिष्टद्रव्यपरः। अथवा सोऽप्याकृत्यधिकरणन्यायेनोत्पलत्वजातिपरोऽस्तु। उभयथाऽपि नीलोत्पलशब्दयोः सामानाधिकरण्येन परस्परमन्वयस्य बाधेनासामर्थ्यात्समासो न प्राप्नोति। उत्पलमस्ति इत्युत्पलस्य कर्तृत्वेनास्तिक्रियायामन्वयः, तादृशोत्पलनिष्ठं च नीलरूपमित्याश्रयद्वारा नीलस्यापि तथाऽस्तिक्रियायामन्वयः। अथवोत्पलमुद्दिश्यास्तीति सत्ता विधीयते, तादृशसत्तामुद्दिश्य तदाश्रयत्वेन नीलगुणो विधीयत इत्येकस्यामस्तिक्रियायां कारकभावेनोद्देश्यविदेयभावेन वाऽन्वयान्नीलोत्पलशब्दयोरेकक्रियान्वयित्वात्मकसामर्थ्यसत्त्वात्समासो निर्बाध इत्यादि वदद्भयो मीमांसकेभ्यो नमोऽस्तु। तथा च प्रकृतेऽपि नोक्तपरम्परासंबन्धेन तयोरन्वयः, किंतु एकक्रियान्वयित्वरूपमेव सामर्थ्यं तच्च नखैरित्यस्य करणत्वेन करोतिक्रियायामन्वयाद्भिन्न इत्यस्य च तस्यामेव कर्मत्वे(स्वनिष्ठविदारणजनकत्वे)नान्वयादस्तीति न समासानुपपत्तिरित्याशयः शङ्कितुरिति भावः। तदेतद्दूषयतिअसूर्यंपश्या इत्यादिना। अस्र्पललाटयोर्दृशितपोः, इत्यस्यायमर्थःअसूर्ये ललाटे च कर्मण्युपपदे दृणेस्तपेश्च खश् स्यादिति। तथा चासूर्यशब्दे उपपदे दृशेः खशि शित्त्वात्पाघ्राध्येपि पश्यादेशे, अरुर्द्विषदजन्तस्येति पूर्वपदस्य मुमागमे असूर्यंपश्येत्यस्य सिद्धिः। सूर्यकर्मकदर्शनाबाववन्त इति बोधः। असूर्यंपश्या राजदारा इत्यत्र दर्शनक्रियाया एवाभावबोधेन सूर्यशब्दार्देन नञर्थस्यान्वयविरहादसमर्थसमासत्वेनाभिमतो भाष्यकारादेरित्यर्थः। अनापत्तेरिति। तव मते तदसमर्थसमासत्वं भज्येत। सूर्यं न पश्यन्तीत्यर्थे नञर्थप्रसज्यप्रतिषेधस्य दर्शतक्रियायामन्वयात्सूर्यस्यापि तस्यामेव कर्मतयाऽन्वयादेकक्रियान्वयतित्वरूपसामरथ्यसत्त्वादित्यर्थः। इत्यादेरित्यादिना अश्राद्धभोजीत्यादिर्ग्राह्यः। श्राद्धं न भुङ्क्ते इत्यर्थेन तस्याप्यसमर्थसमासत्वात्। ननु दर्शनक्रियायामेवोभयोरन्वयाद् भवत्वसूर्यंपश्येत्यादेः समर्थसमासत्वं का हानिरिति चेदाहइष्टापत्तावत्ति। कृतः सर्वो मृत्तिकया इत्यर्थे कृतः `सर्वमृत्तिकः' इति सर्वमृत्तिकयोः समासापत्तिः। मृत्तिकायाः करणत्वेन, सर्वशब्दार्थस्य च कर्मत्वेन कृधात्वर्थेऽन्वयेनैकक्रियान्वयित्वरूपसामर्थ्यसत्त्वादित्यर्थः। अस्मन्मते तु मृत्तिकायाः करणकारकत्वेन कारकस्य च क्रिययैवान्वयनियमात्सर्वशब्दस्य क्रियाशब्दत्वाभावेनान्वयायोग्यतयाऽस मर्थ्यान्नैव समासो भवतीति भावः।सामर्तअयाभावादेव च सर्वश्चर्मणा कृत इत्यर्थे `सर्वचर्मणः' इति निपातनात्समास इत्युक्तं सर्वचर्मणः कृतः खखञाविति सूत्रे। नन्वेकक्रियान्वयित्वेन सर्वमृत्तिकयोः सामर्थ्यसत्त्वेऽपि कर्तृकरणे कृतेत्यनेन करणतृतीयान्तस्य कृदन्तेन समासविधानेन सर्वशब्दस्य कृदन्तत्वाभावात्समासविधायकाप्राप्त्या समासो न स्यादित्याशङ्क्याऽऽहन चात्रेति। सर्वमृत्तिक इत्यत्र समासविधायकाभावो नैवमन्तव्यः। सर्वशब्दस्य कृदन्तत्वाभावेन कर्तृकरणे कृतेत्यस्याप्राप्तावपि `सहसुपा' इत्यस्यैव विधायकस्य सत्त्वादित्यर्थः। ननु सह सुपेत्यस्य समासविधायकत्वाभावे का हानिरिति चेत्तत्राऽऽहअन्यथेति न स्यादिति। तथा चासमर्थसमास इत्युक्तिर्भाष्यकृदादेर्न संगच्छेतेति भावः। ननु सिद्धान्ते सह सुपेत्यगतिकगतित्वात्समर्थपरिभाषाविषयत्वाच्च नात्राऽऽश्रीयते। अन्यथा द्वितीया श्रितेत्यादिसूत्रैस्तत्तत्समासविधानं व्यर्थं स्यात्। सह सुपेत्यत्र समर्थपरिभाषानुपस्थितिश्च कल्पनीया स्यात्। असमर्थसमास इत्युक्तिस्तु निपातनात्समास इत्येवंपरतया निर्वाह्या। तथा च विधायकाभावदनाभिधानाद्वा सर्वमृत्तिक इति समासो न स्यादित्याशयवानाहकिं चेति। भावयति घटमिति। भावनायास्तिङ्वाच्यत्वे फलमात्रे धातोरर्थः। तथा च भूधातोरुत्पत्तिरर्थः। णिजर्थश्च व्यापारः। तस्य चानुकूलतासंसर्गेणोत्पत्तावन्वयः। उत्पत्त्यनुकूलो व्यापार इत्यर्थः। तथा च भावयति घटमित्यत्र णिजर्थव्यापारजन्योत्पत्त्याश्रयत्वाद्घटरय कर्मसंज्ञायां कर्मणि द्वितीया यथा भवति तथा भवति घटः इत्यत्रापि भूधातोरुत्पत्तिरर्थः। तिङश्च व्यापारोऽर्थः। अनकूलतासंसर्गेणान्वये उत्पत्त्यनुकूलो व्यापार इत्यर्थः संपन्नः। तथा च तिङर्थव्यापारजन्योत्पत्त्याश्रयत्वाद्घटरय कर्मसंज्ञायां द्वितीयोत्पत्तौ भवति घटः इत्यस्य स्थाने भवति घटमिति स्यात्। धात्वर्थफलेति। उभयत्रापि घटस्य भूधात्वर्थोत्पत्तिरूपफलाश्रयत्वेन कर्मसंज्ञायाः दूषणमुद्धर्तुमाशङ्कतेन चाऽऽख्यातेति। अयं भावःणिजन्ते प्रयोजकव्यापारो णिजर्थः, स एव णिजन्तोत्तरतिङ्प्रत्ययेनानूद्यते न तु प्रयोज्यव्यापार उच्यते। अणिजन्ते तु तिङ्प्रत्ययेन प्रयोज्यव्यापार आख्यायते। एवं च दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम्। तथा च घटं भावयतीत्यत्र घटस्य कर्तृत्वाभावे सति णिजर्थव्यापारनिरूपितं कर्मत्वं निरपवादमिति द्वितीया भवति। घटो भवतीत्यत्र त्वाख्यातार्थव्यपाराश्रयतया कर्तृसंज्ञया बाधितत्वान्न घटस्य कर्मत्वमित्यर्थ इति। वैयाकरणस्तदेतद्दूषयतिआख्यातार्थव्यापारेति। अण्यन्त(शुद्ध)धातुसमभिव्याहृताख्यातार्थव्यापाराश्रयस्य कर्तृत्व इत्यर्थः। पाचयति देवदत्त इति। पचयति विष्णुमित्र इत्यण्यन्तावस्था। पाचयति देवदत्तो विष्णुमित्रेणेति ण्यन्तावस्था। तत्र ण्यन्तावस्थायामाख्यातार्थव्यापाराश्रयत्वेन विष्णुमित्रस्य कर्तृत्वेऽपि ण्यन्तस्थले णिज्वाच्यप्रयोजकव्यापारस्यैवाऽऽख्यातप्रत्ययेनाभिदानात्ताद्वशाख्यातार्थव्यापाराश्रयत्वेन प्रयोजकदेवदत्तस्यैव कर्तृत्वं स्यान्न तु प्रयोज्यस्य विष्णुमित्रस्य ण्यन्तधआतुसममिव्याहृताखअयातार्थव्यापाराश्रयत्वाभावात्। तथा च विष्णुमित्रस्य कर्तृसंज्ञाया अभावेन कर्तृकरणयोस्तृतीयेति तृतीया न स्यादित्यनिष्टापत्तिरित्यर्थः। मन्मते तु न दोषः। विक्लित्त्यनुकूलव्यापारानुकूलव्यापारः पाचयतेरर्थः। तत्र णिच्प्रकृतिभूतपच्धातुवाच्यव्यापाराश्रयत्वेन विष्णुमित्रस्य कर्तृत्वात्तृतीयोपपत्तेः सुवचत्वात्। ग्रामं गमयतीति। णिजन्तस्थले पूर्वोक्तरीत्या प्रयोज्यस्य विष्णुमित्रस्य कर्तृत्वाभावेन कर्तृनिष्ठव्यापारजन्यफलाश्रयस्य कर्तुरीप्तिततममित्यनेन विहिता कर्मसंज्ञा विष्णुमित्रनिष्ठव्यापारजन्यफलाश्रयस्यापि ग्रामस्य न स्यात्। ग्रामं गच्छति विष्णुमित्र श्यण्यन्तस्थले मीमांसकमते विष्णुमित्रस्याऽऽख्यातार्थव्यापाराश्रयतया कर्तृसंज्ञायां तादृशकर्तृनिष्ठव्यापारजन्यदात्वर्थसंयोगफलाश्रयस्य ग्रामस्य कर्मसंज्ञायां सत्यां यथा गमिकर्मता भवति तद्विण्णिजन्तस्थले विध्णुमित्रनिष्ठव्यापारजन्यधात्वर्थसंयोगफलाश्रयस्यापि ग्रामस्य गमिकर्मता(कर्तृनिष्ठव्यापारजन्यगमिधात्वर्थसंयोगरूपफलाश्रयता)न स्यात्। तदानीं विष्णुमित्रस्य पूर्वोक्तरीत्या कर्तृसंज्ञाया अभावात्। ततश्च ग्रामशब्दोत्तरं द्वितीया न स्यादिति भावः। ननु वैयाकरणमतेऽपि कर्तुरीप्सिततमामिति सूत्रे कर्तृपदं न कर्तृसंज्ञापरं किंतु स्वतन्त्रमात्रपरमित्यवश्यं वक्तव्यम्। अन्यथा देवदत्तो विष्णुमित्रं ग्रामं गमयतीत्यत्र प्रयोज्यस्य विष्णुमित्रस्य गतिवुद्धीतिसूत्रेण कर्मसंज्ञाया विधानेन कर्तृसंज्ञाया विरहाद्ग्रामस्य कर्मसंज्ञानापत्तेः। तथा च ममापि मते नायं दोषःप्रयोज्यस्य विण्णुमित्रस्य धात्वर्थसंयोगानुकूलव्यापाराश्रयत्वरूपस्वातन्त्र्यसत्त्वादिति चेन्न। मीमांसकस्य तव मते आख्यातार्थव्यापाराश्रयत्वस्यैव स्वातन्त्र्यपदार्थत्वात्। कारकमात्रे धात्वर्थफलानुकूलव्यापारसत्त्वेन त्वदुक्तस्वातन्त्र्यस्य कर्मादावतिव्याप्तत्वादिति बोध्यम्। ननु ण्यन्तधातुसमभिव्याहृतस्याऽऽख्यातस्य प्रयोज्यप्रयोजकैतदुभयनिष्ठव्यापारवाचत्वं स्वीक्रियते। ततश्चाऽऽख्यातार्थव्यापाराश्रयत्वेन प्रयोज्यप्रयोजकयोरुभयोरपि कर्तृत्वं सिध्यति। तेन च पाचयति विष्णुमित्रेणेत्यत्र विष्णुमित्रस्य कर्तृत्वात्तत्र कर्तरि तृतीया सिध्यति। सिध्यति च ग्रामं गमयतीत्यत्र प्रयोज्यकर्तृविष्णुमित्रनिष्ठव्यापारजन्यधात्वर्थसंयोगरूपफलाश्रयत्वेन ग्रामस्य गमिकर्मता चेतिचेन्न। घटं भावयतीत्यत्र प्रयोज्यस्य घटस्यापि आख्यातार्थव्यापाराश्रयत्वेन कुलालस्येव कर्तृतापत्तौ कर्मसंज्ञां बाधित्वा परत्वात्कर्तृसंज्ञैव स्यात्। तथा च घटो भवतीत्यत्रेव भावयति घटमित्यस्य स्थाने भावयति घट इति प्रथमा स्यात्। उभयत्रापि घटे आख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वसत्त्वादित्यर्थः। न च प्रयोजकनिष्ठणिजर्थव्यापारजन्यधात्वर्थसंयोगफलाश्रयत्वेन ग्रामस्य कर्मत्वं संभवति तत एव च द्वितीया निर्वहतीति वाच्यम्। तथा सति ग्रामस्य णिजन्तकर्मत्वेऽपि गमिकर्मत्वाभावस्य तदवस्थत्वादिति भावः। ननु ग्रामस्य गमिकर्मत्वाभावे का हानिरिति चेत्तत्राऽऽहतथा चेत्यादिना। इत्यपि न स्यादिति। ग्रामाय गमयतीति ग्रामस्य गमिकर्मत्वाभावे गत्यर्थकर्मणीति चतुर्थ्यपि ग्रामपदोत्तरं न स्यादित्यर्थः। ग्रामपदोत्तरं चतुर्थ्यभावे कारणमाहगत्यर्थकर्मणीति। अध्वभिन्न गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ स्तश्चेष्टायां सत्यामिति तत्सूत्रस्यार्थः। त्वन्मते गत्यर्थकर्मत्वं च संयोगरूपगत्यर्थकधातुसमभिव्याहृताख्यातार्थव्यापाराश्रयरूपकर्तृनिष्ठाख्यातार्थव्यापारजन्यफलाश्रयत्वेनेच्छाविषयत्वरूपं वाच्यम्। वाच्यम्। गम्लॄ गतौ, शल, हुल, पत्लृ गतो, अट, पट गतौ, रघि, लघि गत्यर्थाः, एवमादिर्गत्यर्थको यो धातुस्तादृशधातुसमभिव्याहृतं यदाख्यातं तिङ्प्रत्ययस्तदर्थो यो व्यापारस्तदाश्रयः कर्ता, तादृशकर्तृनिष्ठो यो व्यापारस्तज्जन्यं यत्संयोगरूपधात्वर्थफलं तदाश्रयत्वेनेच्छाविषयो यद्ग्रामादि तद्गत्यर्थकर्म भवति मीमांसकमतेनेत्यर्थः। तथा च प्रयोजकनिष्ठणिजर्थव्यापारप्रयोज्यगमिधात्वर्थसंयोगरूपफलाश्रयत्वेन ग्रामस्य णिजन्तकर्मत्वाद्द्वितीयोपपत्तावपि, णिजन्तसमभिव्याहृताख्यातप्रत्ययस्य प्रयोजककर्तृनिष्ठणिजर्थव्यापाराभिधायित्वेन प्रयोज्यस्य कर्तृत्वाभावात्तादृशाख्यातार्थव्यापाराश्रयरूपकर्तृनिष्ठव्यापारजन्यगमिधात्वर्थसंयोगरूपफलाश्रयत्वात्मिका गमिकर्मता ग्रामस्य न संभवतीति गत्यर्थकर्मणि विहिता चतुर्थी तत्र नैव स्यादिति भावः। अत्रेदं बोध्यम्ग्रामस्य विष्णुमित्रनिष्ठव्यापारजन्यधात्वर्थसंयोगफ़लाश्रयत्वेऽपि विष्णुमित्रस्य कर्तृत्वाभावेन कर्तृनिष्ठव्यादण्डशून्ये पुरुषे दण्डी पुरुष इति व्यवहाराभाववदिति। एतेनेति। ग्रामायेति चतुर्थ्यन्तप्रयोगनिर्वाहेणेत्यर्थः। उमयमिति। प्रयोज्यप्रयोजकोभयनिष्ठव्यापारद्वयमित्यर्थः। अपास्तमिति। गमयतीत्युक्ताख्यातस्य णिजन्तधातुयुक्तत्वेऽपि गत्यर्थकधातुयुक्तत्वाभावेन प्रयोज्यस्य गत्यर्थकधातुयुक्ताख्यातार्थव्यापाराश्रयत्वरूपगत्यर्थकर्तृत्वाभावाद् गत्यर्थकर्मत्वानापत्तौ चतुर्थ्यनुपपत्तितादवस्थ्यादिति भावः। किं च णिजन्तस्थलीयाख्यातस्य प्रयोज्यप्रयोजकोभयव्यापारावाचकत्वमङ्गीकृत्य विष्णुमित्रस्य कर्तृत्वोपपत्तावपि तद्गतकर्तृत्वस्याऽऽख्यातेनाभिहितत्वाद्देवदत्तपदोत्तरमिव विष्णुमित्रपदोत्तरमपि प्रथमाया एव प्राप्त्या तत्र तृतीयोपपत्तेरत्यन्तासंभवात्। अपि च ग्रामं गमयति देवदत्तो विष्णुमित्रमित्यत्र गतिबुद्धीतिसूत्रेणाणौ कर्तुर्विष्णुमित्रस्य णौ कर्मसंज्ञां विधाय कर्तुरीप्सिततममित्यनेनैव सिद्धे गतिबुद्धीति सूत्रं नियमार्थमित्युक्तं भाष्ये। तत्रोद्देश्यत्वलक्षणमार्थप्राधान्यमादाय गमधातूपात्तप्रधानभूतव्यापाराश्रयत्वेन विष्मुमित्रस्य कर्तृसंज्ञा प्राप्ता कर्तुरीप्सितेति कर्मसंज्ञा च प्राप्ता, तयोर्मध्ये परत्वात्कर्मसंज्ञां बाधित्वा कर्तृसंज्ञा स्यात्तद्बाधनार्थं गतीतिसूत्रमावश्यकमिति तस्य निमार्थकत्वमयुक्तमित्याशङ्क्य प्रयोजकव्यापारस्यान्यानधीनत्वलक्षणमार्थप्राधान्यं शाब्दप्राधान्यं चास्तीति तादृशप्राधान्यानुरोधेन प्राप्तकर्मसंज्ञायाः प्राबल्यात्कर्तृसंज्ञा नैव प्राप्नोतीति विप्रतिषेध एव नास्ति। ततश्च निरपवादत्वात्कर्तुरीप्सितेत्येव सिद्धे गतीतिसूत्रं नियमार्थमिति सिद्धान्तितम्। एवं सति णिजन्तस्थलीयाख्यातस्य प्रयोज्यप्रयोजकोभयव्यापारवाचकत्वे आख्यातार्थव्यापाराश्रयत्वस्योभयोरपि समानत्वेन प्रयोज्यं प्रति प्रयोजकस्य प्राधान्यानुपपत्तेः, हेतुमति चेतिसूत्रानुसारेण प्रयोजकव्यापारस्य णिज्वाच्यत्वावगमेनाऽऽख्यातवाच्यत्वानुपपत्तेश्चेति भावः। ननु गत्यर्थकर्मणि पत्ये शेते, इतिवच्चतुर्थीं साधयित्वा गत्यर्थकर्मणीति सूत्रं भाष्ये प्रत्याख्यातम्। तथा च ग्रामस्य गत्यर्थकर्मत्वाभावेऽपि न क्षतिरित्यत आहकिं चेति। तस्मिन् प्रयोग इति। आख्याततदर्थव्यापाराश्रययोरेकवाक्यस्थत्वे सत्येवाऽऽख्यातार्थव्यापापाश्रयस्य कर्तृत्वमित्यवश्यं वक्तव्यम्, अन्यथा घटो विद्यते इत्यत्रत्यं तादृशव्यापाराश्रयत्वमादाय घटं करोतीत्यत्र घटपदोत्तरं प्रथमापत्तिः स्यात्। तथाचाऽऽख्यातविरहिते देवदत्तः पक्तेत्यादिवाक्ये कृदर्थकर्तुरेकवाक्यस्थाख्यातार्थव्यापाराश्रयत्वाभावेन देवदत्तस्य कर्तृत्वं न स्यात्। एवं च कृदर्थकर्तरि कर्तृत्वलक्षणस्याव्याप्तिर्दुष्परिहरेत्याशयः। नन्वाख्यातशून्यस्थलेऽपि प्रथमानुरोधेन तिङन्ताध्याहार आवश्यकः। अन्यथा `तिङ्समानाधिकरणे प्रथमा' इति विहितप्रथमायाः साधुत्वं न स्यात्। एवं च देवदत्तः पक्तेत्यत्रास्तीत्याद्यध्याहाराद्देवदत्तस्य कर्तृत्वोपपत्तिरिति चेन्न। एवं सत्यपि अस्धातुनिरूपितकर्तृत्वोपपत्तावपिपच्धातुनिरूपितकर्तृत्वानुपपत्तिस्तदवस्थौवेति पक्तेत्यत्र पच्धातोः कर्तरि तृच्प्रत्ययानापत्तेः। ननु यद्धातुप्रकृतिकाख्यातार्थव्यापाराश्रयत्वं यस्य गृहीतं तस्मिन्नर्थे तद्धातोः कृत्प्रत्ययो भवति इत्येतावानेव कर्तरि कृत् इत्यस्यार्थोऽभ्युपेयते। देवदत्तः पचतीत्यत्र देवदत्तस्य पच्धातुप्रकृतिकाख्यातार्थव्यापाराश्रयत्वं गृहीतमिति तादृशे देवदत्तरूपेऽर्थे पच्धातोस्तृच् प्रत्ययो भवतीति तदर्थः। यद्वा कृत्प्रत्ययस्य व्यापारोऽप्यर्थोऽङ्गीक्रियते। कर्तृकर्मकृतां कारकभावनोभयवाचकत्वमित्यर्थः। तथा च प्रत्ययार्थव्यापाराश्रयत्वमेव कर्तृत्वं, यथा मैत्रः पचतीत्यादौ मैत्रादेः, देवदत्तेन चैत्रः पाचयतीत्यादौ णिजर्थाख्यातार्थव्यापारयोराश्रयत्वादुभयोः कर्तृत्वम्। तथा देवदत्तः पक्तेत्यादौ कृत्प्रत्ययार्थव्यापाराश्रयत्वेन देवदत्तादेः कर्तृत्वमुपपन्नम्। एवं चाऽऽख्यातरहिते देवदत्तः पक्तेत्यादौ न देवदत्तस्याकर्तृतापत्तिरिति चेन्नेत्याहदिगिति। दिगर्थस्तुधात्वर्थफलप्रकारकानुकूलत्वंसंसर्गकभावनाविशेष्यकबोधे धात्वाख्यातानुपूर्वीधातुकृदानुपूर्व्योर्हेतुत्वं मीमांसकैरङ्गीकरणीयं, वैयाकरणैस्तु तादृशबोधे धात्वानुपूर्व्या एव हेतुत्वमङ्गीकरणीयमिति लाघवं भवति। एवं च लाघवाद्भावनाया धात्वर्थत्वमेव समञ्जसं न प्रत्ययार्थत्वमिति भाव इति। किंच क्रियेत्याद्युत्तरार्धस्यावतरणिकामाहसूत्रानुपपत्तीति। व्यापारस्य धात्वर्थत्वे प्रमाणत्वेन सूत्रानुपपत्तिं प्रदर्शयन्नित्यर्थः। स्वोत्प्रेक्षितत्वमिति। स्वकपोलकल्पितत्वमित्यर्थः। व्यापारनिष्ठधातुवाच्यत्वस्य निर्मूलत्वमिति यावत्। निरस्यतिनिराकारोतिकिंचेति। ननु भूवादय इत्यस्य भूरादिर्येषामिति बहुव्रीहिणा भूप्रभृतयो धातुसंज्ञाः स्युरित्येवार्थो न तु भ्वादिगणपठिताः क्रियावाचका धातुसंज्ञा इति, तद्बोधकशब्दाभावात्। कथं तर्हि भूवादय इति निर्देशः? निपातनान्मङ्गलार्थो वकारागमः`भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते' इति वार्तिककारैरुक्तत्वात्। मङ्गलार्थःमङ्गलसूचकः। यथाऽपूर्वस्य दध्यादेर्लाभो लोके मङ्गलसूचकस्तथेत्यर्थ। एवं च न सूत्रानुपपत्तिरित्याशङ्कां निराकर्तुं तत्सूत्रार्थमाहतत्र भूश्च वाश्चेत्यादिना। व्यास्थाप्रकारवाचिनोरिति। नियमेनावधिसाकाङ्क्षप्रथमरूपोऽर्थो व्यवस्था। यस्मात्पूर्वो नास्ति परश्चास्ति स प्रथम इत्युच्यते। अयं प्रथम इत्युक्तौ तत्रास्य किमपेक्षया प्राथम्यमिति नियमेनावध्याकाङ्क्षायाः सत्त्वाद्भ्वादिगणपठितधातुसमुदायापेक्षया भूधातोः प्राथम्यमित्यर्थः। प्रकारः सादृश्यम्। तथा च निरुक्तार्थयोर्द्वयोरादिशब्दयोः सरूपाणामित्येकसेषः। ततो भूवौ आदी येषामिति बहुव्रीहिः। तत्र व्यवस्थावाचिन आदिशब्दस्य भूशब्देन प्रकारवाचिनश्च वाशब्देनेति यतासंख्यं संबन्धः। ततश्च यादृशः सूवार्थः संपद्यते तमाहभूप्रभृतय इत्यादि। तत्र भूशब्दो द्विविधः। भूम्यर्थकः सत्ताद्यर्थकश्च तथा वाशब्देनेति यथासंख्यं संबन्धः। ततश्च यादृशः सूवार्थः संपद्यते तमाहभूप्रभृतय इत्यादि। तत्र भूशव्दो द्विविधः। भूम्यर्थकः सत्ताद्यर्थकश्च तथा वाशब्दोऽपि द्विविधः। विकल्पार्थको गत्याद्यर्थकश्च। तत्र द्विविधस्यापि वाशब्दस्य लिङ्गसंख्यानन्वय्यर्थकतयाऽसत्त्ववाचित्वेन तत्साहचर्याद्भूशब्दोऽसत्त्ववाची सत्ताद्यर्थको गृह्यते। स च क्रियावाची भवति। तत्साहचर्याद्वाशब्दोऽपि गत्याद्यर्थ एव गृह्यते। तत्सादृश्यं च क्रियावाचकत्वेनैवेत्याशयेनाऽऽहमूलेतच्चेति। वासादृश्यं चेत्यर्थः। क्रियावाचकत्वेनेति। वा गतिगन्दनयोरिति स्मृतेर्यथा तस्य गत्यादिरूपक्रियावाचित्वं तथा भूप्रभृतीनामपि सत्तादिरूपक्रियावाचित्वात्तत्सादृश्यमित्यर्थः। शब्दत्वेन सादृश्यग्रहणे तस्याव्यावर्तकत्वेन वादिशब्दस्य व्यर्थत्वापत्तिः। वाधातोरदादिगणे पाठेनादादित्वेन गत्यर्थकत्वेन वा सादृश्याङ्गीकारे तु सकलभ्वादीनां संग्रहेत्वन स्यादित्यव्याप्तिः। अतो व्याख्यानात्क्रियावाचकत्वेनैव सादृश्यं ग्राह्यमिति भावः। वाधातौ वासादृश्यं प्रयोगभेदेन ज्ञेयम्। यथा वातीत्येतद्घटकवाशब्दस्य क्रियावावित्वं तथा वातः, इत्येतद्घटकवाशब्दस्यापि। प्रत्युच्चारणं शब्दबेदादिति सिद्धान्तादित्यर्थः। तेन भूम्यर्थकभूशब्दस्म विकल्पार्थकवाशब्दस्य च न धातुत्वम्। अन्यथा भूम्यर्थकभूशब्दस्य विकल्पार्थकनिपातवाशब्दस्य च धातुत्वेन प्रातिपदिकत्वाभावात्सुबभावे पदत्वानापत्त्या भूस्तिष्ठति वा गच्छति वेत्यत्रातिङन्तात्पदात्परं तिङन्तं निहन्यते, इत्यर्थकतिङ्ङतिङ इति सूत्रेण तिष्ठतिगच्छतिरूपयोस्तिङन्तयोर्निधातो न स्यान्न स्याच्च भूशब्दात्सुप् भूवाशब्दयोः पदत्वाभावादिति भावः। एवं भूस्त्वा वा मा वा न पातयिष्यतीत्यत्र `त्वामौ द्वितीयायाः, इत्यस्य प्रवृत्तिर्न स्यात्। भूवाशब्दयोः पदत्वाभावादिति बोध्यम्। एवं च सूत्रस्य यादृशोऽर्थः पर्यवसन्नस्तं परिष्करोतिक्रियावाचकत्वे सतीत्यादि। अत्र परिष्कारे भ्वादिगणपठितत्वदलं विहाय क्रियावाचकत्वं धातुत्वमित्युक्तौ तु वर्जनादिक्रियाबोधके हिरुङ्नानेत्यादावतिव्याप्तिस्तद्वारणार्थं भ्वादिगणपठित्वं निवेशितम्। वस्तुतस्तु हिरुगित्याद्यव्ययेभ्यः प्रतीयमानस्य वर्जनाद्यर्थस्य क्रियान्तराकाङ्क्षासत्त्वात्क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपेण प्रतीयमानत्वाभावेन क्रियात्वमेव नास्ति। क्रियावाचकत्वव्यवहाररत्वेषआं क्रियामात्रविशेषणत्वाल्लिङ्गाद्यनन्वयित्वाच्च गौण इत्युक्तं प्रागित्याशयेनाऽऽहइत्यादाविति। आदिशब्देन शिश्ये, इति भावार्थकतङ आणवयति वट्टयतीत्यादेश्च संग्रहः। शिश्ये इत्यत्र एकारस्य धातुसंज्ञायां, आदेच उपदेशेऽशितीत्यात्वं स्यात्। तिङन्तस्य तूपदेशाभावान्नाऽऽत्वप्रसक्तिरित्येकारस्यैव तदापत्तिर्ज्ञेया। तङापत्तिस्तु न। उक्तार्थत्वादिति बोध्यम्। ननु अशितीति पर्युदासपक्ष इव प्रसज्यचप्रतिषेधपक्षेऽपि शित्परत्वयोग्यतैवाऽऽत्वप्रवृत्तौ निमित्तमिति यदि स्वीक्रियते तदा शित्परत्वयोग्यताभावान्नात्राऽऽत्वप्रसक्तिरिति चेत्तह्यांणवयति वट्टयतीत्यादौ धातुसंज्ञायां शास्त्रविषयतया साधुत्वापत्तिर्दोषः। आणवयति वट्टयतीत्यनयोराज्ञापयति वर्तयतीति क्रमेणार्थः।। 9 ।।
ननु तर्हि म्वादिगणपठितत्वं धातुत्वमित्येवोच्यतां माम्तु क्रियावाचकत्वदलमिति चेदाह
सर्वनामाव्यायादीनामिति। गणपठितत्वमात्रोक्तो सर्वनामा यो या तस्यापि धातुत्वं स्यात्। गणपठितया धातुसमानाकारत्वात्सर्वनाम्नो यांशब्दस्य भ्वादिगणे ध्रवेशे बाधकाभावादिति भावः। भवतु धातुत्वं का हानिरत आहधातुत्वे सत्यातो11.श्च्, च्च, अनयोः समाहारः श्चम्। द्वंद्वाच्चुदo इति समासान्तष्टच्। ततः सप्तम्येकबचनं `श्चे' इति बोध्यम्।धातोरित्ययनेनाऽऽकारलोपे याः पश्यसीत्यर्थे यः पश्यसीत्यनिष्टं प्रसज्येतेत्यर्थः। इयं चानिष्ठापत्तिर्लक्ष्यैकचक्षुष्कानुसारेण बोध्या। लाक्षणिक त्वादिति। अत्र लक्षणशब्दो भामा, सत्या, इतिवदेकदेशशक्त्या लक्षणप्रतिपदोक्तपरिभाषापरः। ततोऽर्हतीत्यर्थे तदर्हतीति ठञ्, लक्षणपतिपदोक्तपरिभाषाविषयत्वादित्यर्थः। तथा च प्रतिपदोक्तस्य `या' इत्यस्यैव भ्वादिपदेन ग्रहणं न तु सर्वनाम्नो या इत्यस्य, तस्य लक्षणप्रवृत्त्यनुसंधानसंपन्नस्वरूपकत्वादिति तत्र प्रथमे तदापादनं न संभवतिनकारजावनुस्वारपञ्चमौ झलि धातुषु। सकारजः शकारः श्चे' र्षाट्टवर्गस्तवर्गजः।। धातुषु झल्परानुस्वारपञ्चमौ नकारजौ। यथास्रंसु, अञ्चु, इत्यादि। शचपरः शकारः सकारजः। यथाहरिश्शेते, व्रश्चू इत्यादि। रेफषकाराभ्यां परष्टवर्गस्तवर्गजः, यथा ऊर्णुञ्, ष्ठा इत्यादि। इत्यभियुक्तोक्तेः। एवं च येषां लक्षणप्रवृत्तिज्ञानोत्तरकालिकज्ञानविषयस्वरूपकत्वं तेषामपि धातुपाठे पाठसामर्थ्येन धातुसंज्ञाविधौ लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तेः। द्वितीयेऽपि तदापादनमशक्यमेव। पशुषः, इत्याद्यसिद्ध्यापत्तेः। तथा हिपशुं सनोतीति विग्रहे `जनसनखनक्रमगमो विट्' इति विट्प्रत्यये, विड्वनोपित्यात्वम्। ततः शसि आतो धातोरित्याकारलोपे पशुषः, इति सिध्यति। यदि त्व तो धातोरित्यत्र प्रतिपदोक्त एवाऽऽकारो गृह्येत तदा षा इत्याकारस्य लाक्षणिकत्वात्तल्लोपानापत्त्या पशुषः, इति न सिध्येत्। यस्य रूपस्य लक्षणप्रवृत्तिं विना न संभवस्तस्यैव लाक्षणिकस्य परिभाषाविषयत्वादित्यर्थः। नन्वेवमपि क्त्वः श्नः, इत्यादिसिद्ध्यर्थं वार्तिककृता `आतोऽनापः'इत्याकारेण परिणामितं सूत्रं, तत्कथं याः पश्यसीत्यत्राऽऽकारलोपस्य प्राप्तिरत आहवेत्यादि। अव्ययं यो वाशब्दस्तत्रातिव्याप्तिरित्यर्थः। अतिप्रसङ्ग इति। विकल्पार्थकाव्ययसंज्ञकवाशब्दसदृशस्यैव वाशब्दस्य भ्वादिगणे पाठेनान्यतरग्रहणे विनिगमनाविरहेणाव्ययवाशब्दस्यापि धातुत्कापत्तिरित्यर्थः। धातुत्वापत्तौ का हानिरत आहविकल्पार्थको वातीति प्रयोगः स्यादिति। तथा च गत्याद्यर्थकस्य वातीति प्रयोगस्येष्टत्वेऽपि विकल्पार्थकस्तादृशः प्रयोगो नेष्ट इति भावः। उपलक्षणं चैतदित्याहवाइत्यादाविति। आदिशब्देन सु इत्युपसर्गः। मा, माङ्, स्वरादी च संगृह्यन्ते। यद्यपि धातुषु षुः पठितस्तथाऽपि प्रयोगे सुशब्द एव धातुः। तथा च प्रसवाद्यर्थकसवतीतिपयोगवच्छोभनार्थकः सवतीति प्रयोगोऽनिष्ठः स्यादिति बोध्यम्। क्रियावाचकत्वे सतीत्युक्तो तु न दोषो भवति। ननु क्रियावाचक्तेव सतीत्युक्तावपि वातीत्यत्र विकल्पयतीत्यत्रेवाव्ययवाशब्दादपि विकल्परूपा क्रिया प्रतीयत एवेति चेन्न। हिरुङ्नानेत्यादिम्य इव निपातवाशब्दात्प्रंतीयमानस्य विकल्पार्थस्य क्रियान्तराकाङ्क्षासत्त्वेन क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपेम प्रतीत्यभावेन क्रियात्वाभावादिति बोध्यम्। ननु यद्यव्ययानव्यययोरुभयोरपि वाशब्दयोर्धातुत्वमभिप्रेतं स्यात्तर्हि नार्थनर्देशेन प्रयोजनं, यतः स कृतस्ततस्तत्सामर्थ्यादेवैवमवगम्यते यन्निर्दिष्टार्थानामेव धातुत्वं भवतीति। गणे च गतिगन्धनपोरिव विकल्पार्थस्यानिर्देशाद्विकल्पार्थकाव्ययवाशब्स्य धातुत्वं न संभवतीत्याशङ्क्य समादधातिन च गतिगन्धनेत्यादिना। नियामक इति। अर्थनिर्देशसामर्थ्यान्निर्दिष्टगत्याद्यर्थकस्यैव वाशब्दस्य धातुसंज्ञा भवति, न त्वनिर्दिष्टार्थकस्य विकल्पार्थकवाशब्दस्येत्षेवंरीत्याऽर्थनिर्देशस्यै धातुसंज्ञानियामकत्वं बोध्यम्। अन्यथा तादृशार्थनिर्देशो व्यर्थः स्यादिति भावः। नियामकत्वं निराकरोतितस्येति। सत्ताद्यर्थनिर्देशस्येत्यर्थः। अर्थानादेशनादिति। अर्थस्यसत्तादेः, अनादेशनात्अनाम्नानादित्यर्थः। भाष्येति। मुण्डमिश्रेति सूत्रस्थभाष्येत्यर्थः। आधुनिकत्वलाभादिति। अर्थनिर्देशस्याऽऽधुनिकभीमसेनादिभिः पठितत्वादित्वर्थः। भीमसेनादयो ह्यर्थः ह्यर्थं निर्दिदिशुः। पाणिनिराचायस्तु भ्वेध इत्याद्यपाठीदिति भाष्यवार्तिकयोः स्पष्टम्। अत एव धातुसंज्ञासूत्रे `परिमाणग्रहणं कर्तव्यमियानवधिर्धातुसंज्ञो भवतीति वक्तव्यम्, कुतो ह्येतद्भूशब्दो धातुसंज्ञो भवति न पुनर्भ्वेधशब्दः' इति वार्तिकं तद्भाष्यं च संगच्छते। अर्थानादेशनादित्यस्य सर्वत्रार्थानादेशनादित्यर्थः। अत एव `एवमर्थं खल्वप्याचार्यश्चित्रयति, क्वचिदर्थानादिशति क्वचिन्न, इति नमोवरिवश्चित्र'इति सूत्रे भाष्य उक्तम्, अत एव च `कर्द, खुर्द, गुर्द, गुद, क्रीडायामेव' इत्येवकारस्य धातूनामनेकार्थत्वे ज्ञापकतोक्ता संगच्छते। तस्मात्क्रियावाचको धातुरिति सिद्धम्।। 10 ।।
अथ धातोर्व्यापारवाचकत्वमसहमानो धातुत्वलक्षणकुक्षिप्रविष्टक्रिया च धात्वर्थः फलमेव न तदतिरिक्तो व्यापारो नाम कश्चिदिति मनुते। तथा च न भूवादय इति सूत्रानुपपत्तिर्धातोर्व्यापारवाचकत्वे प्रमाणमिति मीमांसकाशङ्कामवतरणिकामुखेनानूद्य निराकरोतिधात्वर्थत्वं क्रियात्वं चेदिति। अत्रावतरणिकायां `क्रिया च धात्वर्थ एव इत्यनेन धात्वर्थत्वमेव क्रियात्वमित्येवं क्रियात्वलक्षणमभ्युपैति शङ्कक इत्याशयेनाऽऽहयदि क्रियात्बं धात्वर्थत्वमेवेति। एवं क्रियात्वलक्षणेऽङ्गीकृते तत्रान्योन्याश्रयदोषं वाक्यार्थज्ञानप्रतिबन्धकं प्रदर्शयतितर्हीत्यादिना। धातुत्वज्ञाने धात्वर्थत्वरूपक्रियात्वज्ञानं कारणं, क्रियात्वज्ञाने च क्रिमावाचकत्वरूपधातुत्वज्ञानं कारणं वाच्यमित्यन्योन्याश्रयात्क्रियात्वं धात्वर्थत्वमिति वाक्यान्न कीदृशोऽप्यर्थबोध उदियादित्यर्थः। मूलेधातुत्वग्रहे। धातुत्वज्ञाने। तदर्थत्वेतिधात्वर्थत्वेत्यर्थः। तदवच्छिन्नेत्यादि। क्रियात्वावाच्छिन्नस्य क्रियारूपार्थस्य यो वाचकस्तन्निष्ठवाचकत्वघटितं धातुत्वज्ञानमित्यर्थः। ग्रहपदमिति। ज्ञानार्थकग्रहपदमध्याहृत्येत्यर्थः। यथाश्रुत इति। ग्रहपदानध्याहार इत्यर्थः। उत्पत्ताविति। यथा बीजाङ्कुरादेरुत्पत्तावन्योन्याश्रयः। अनादित्वात्तस्य परिहार इत्यन्यत्। यथा वा देवदत्तस्य यज्ञदत्ताद् यज्ञदत्तस्य च देवदत्तादिति परस्परस्मात्परस्परस्योत्पतिर्न संभवति, परस्परोत्पत्तौ परस्परस्य कारणत्वं न संभवतीति यावत्। ग्रहे वेति। हलन्त्यमित्यत्र प्रसिद्धः सः। यथाइत्पदार्थज्ञानोत्तरमादिरन्त्येनेति हल्संज्ञासिद्धिः, हल्संज्ञासिद्ध्युत्तरं च हलन्त्यमिति इत्पदार्थज्ञानसिद्धिरित्येवं हलन्त्यमादिरन्त्येनेत्यनयोः परस्परसापेक्षत्वेनान्योन्याश्रयाद् बोधो न संभवति। परस्परज्ञाने परस्परस्य कारणत्वं न संभवति। कार्याव्यवहितनियतपूर्ववर्तिन एव कारणत्वं, तच्च देवदत्तयज्ञदत्तयोरित्पदार्थहल्पदार्थयोश्चोभयोर्न संभवतीति उत्पत्तौ, ग्रहे चैवान्योन्याश्रयस्य प्रतिबन्धकत्वमित्यर्थः। असंगत्यापत्तेरिति। जलप्रवाहस्य नद्यादेराधारो भूमिः, मूमेश्चाऽऽधारो जलमिति भूमिजलयोः परस्परमाधारावेयभावः, यथा वा तन्तुषु पटः, पटे तन्तव इति द्विविधव्यवहारात्तन्तुपटयोः परस्परमाधाराधेयभावेन स्थितिर्दृश्यते तद्वत्प्रकृते धात्वर्थस्य क्रियात्वे क्रियात्वस्य धात्वर्थत्वे बाधकाभावान्निरुक्तस्थलेऽबोधरूपदोषोद्भावनमसमञ्जसम्। ग्रहोत्पत्तिव्यतिरीक्तस्थलेऽन्योन्याश्रयस्य प्रतिबन्धकत्वाभावेनादूषकत्वादिति भावः। अन्योन्याश्रयं परिहर्तुमाशङ्कतेन चान्यतमत्वमिति। यावन्तो धातुपदव्यवहार्यास्तदन्यतमत्वरूपं धातुत्वं `धात्वर्थत्वं क्रियात्वम्' इत्येतद्घटकधातुत्वं मन्ये। तथा च नान्योन्याश्रयसंभव इति भावः। तदेतत्प्रत्याचष्टेवैयर्थ्यापत्तेरिति। 11.तदन्यतमेति। धातुपदव्यवहार्यान्यतमेत्यर्थः।तदन्यतमत्वं पातुत्वमित्यङअगीकृते भूवादयो धातव इत्यनुशासनस्य वैयर्थ्यं स्यात्। धातोः कर्मण इत्यादौ तदन्यतमत्वरूपधातुत्ववतो ग्रहणेनेष्टसिद्धेरिति भावः। न च धातुपदव्यवहार्येत्येतद्घटटकधातुपदार्थपरिचयार्थं तदावश्यकमिति वाच्यम्। व्यापाररूपक्रियावाचकत्वमन्तरा भूवादय इत्येतद्वाक्यार्थबोधासंभवेन धातुपदार्थज्ञानासंभवात्तदन्यतमत्वरूपधातुत्वस्य सुरगुरुणाऽपि ज्ञातुमशक्यत्वात्। अत एवाभिप्रायादाहअस्तु यथाकरमिति। व्यापारसंतान इति। यथा चुल्ल्यधिश्रयणमारब्य चुल्ल्य्धःश्रयणपर्यन्तो व्यापारसमूहः क्रियेतिपदवाच्य इत्यर्थः। एवं भ्वादिषु सर्वत्र धातुषु क्रियापदवाच्यो व्यापारसमूह ऊह्यः। फलव्यापारयोर्धातुरित्युक्तत्वात्। तादृशक्रियावाचकत्वे सति भ्वौदिगणपठितत्वमित्येव भाष्यानसारि धातुत्वलक्षणमस्तित्वत्यर्थः। भूवादय इति सूत्रार्थविषये शङ्कतेननु सत्तादीनिति। सत्ताविक्लित्त्यादयो ये फलांशास्तदन्यतमवाचकत्वे सति गणपठितत्वं धातुत्वमित्यर्थः। लक्षणमिति। भूवादय इति सूत्रजवाक्यार्थंरूपमित्यर्थः। सत्तादिफलवाचकत्वेन वाशब्दसादृश्यं गृह्यते, न क्रियावाचकत्वेनेति तात्पर्यम्। फलांशान्यतमवाचकत्वेत्युपादाने सूत्रवैयर्थ्यशङ्काऽपि नोदेतीति भावः। ननु क्रियावचनो धातुरिति भाष्यव्यवहारः कथं संगमनीयः? फलांशस्य क्रियात्वाभावादत आहधात्वर्थत्वादिति। यत्किंचिन्निष्ठव्यापारात्मकक्रियाजन्यफलवाचित्वाद्धात्वर्थफलस्यापि गौणः क्रियात्वव्यवहार इति चेन्नैतद्भद्रमित्याहअन्यतममध्य इत्यादिना। विकल्पार्थकस्य विकल्पयतीति प्रयोगस्य दर्शनाद्विकल्पस्याप्यन्य तममध्ये प्रवेशावश्यकत्वेन गणपठितवाशब्दसादृश्याद्विकल्पार्थकवेत्यव्यवस्यापि भ्वादिगणे प्रवेशावश्यकत्वेन तत्र धातुत्वातिव्याप्तेर्दुरुद्धरत्वादिति भावः।। 11 ।।
शङ्कतेनन्विति अस्यैवेति। भ्वादिगणपठितत्वे सति क्रियावाचकत्वस्यैव धातुत्वे इत्यर्थः। एवकारेण फलमात्रवाचकत्वस्य व्यावृत्तिः। क्रियाप्रतीत्यभावादिति। अस्ति भवति विद्यते इत्यादितः सत्तारूपफलस्यैव प्रतीतिर्जायते, न तु तदतिरिक्ताया व्यापाररूपक्रियायाः। अत एव किं करोतीति क्रियाप्रश्ने पचतीत्युत्तरवदस्तीत्युत्तरं न, अस्तीत्यतः क्रियाप्रतीत्यभावादित्यर्थः। अधातुत्वप्रसङ्ग इति। अस्त्यादीनां क्रियावाचकत्वाभावाद्धातुत्वं न स्यादित्यर्थः। ततश्च लडादिर्न स्यादत आहअस्त्यादाविति। धर्मिभागेसत्तादिरूपे धर्मिणो भाग इत्यर्थः। सत्तादिफलरूपधर्मघटितोऽर्थो धर्मी। धर्मी च सकर्मकस्थले कर्मपदार्थस्तण्डुलादिः। अकर्मकस्थले तु फलस्य कर्तृनिष्ठत्वात्कर्तृपदार्थो देवदत्तादिरेव धर्मी बोध्यः। वस्तुसद् भाव्यं भावनाप्रतीतिजनकं न भवतीत्यत आहभाव्यत्वेनेति। भावनारूपव्यापारनिष्पद्यत्वेनेत्यर्थः। विवक्षित इति। वक्तुमिष्टत्व इत्यर्थः। फलनिष्पादकव्यापारस्य जिज्ञासितत्व इति फलितोऽर्थः। तदेव जिज्ञासास्थलं प्रदर्शयितुमाहस ततो गतो न वेति गमिदातोर्गत्यर्थाकर्मकेति कर्तरि क्तः। विभागानुकूलो व्यापारोऽत्र गमिधात्वर्थतत्प्रदेशाविधिकविबागानुकूलव्यापारवान्न वेति संप्रत्ययात्। तथा चात्र प्रश्ने पतीयमानां व्यापारविषयकजिज्ञासां सत्तानुकूलव्यापारकथनद्वारा निवर्तयितुमुत्तरमाहमहता यत्नेनास्तीति। प्रतीयत एवेति। अत्र यत्नपदोपादानाद्यत्नजन्या सत्तेति कथनादस् धातोः सत्तानुकूलो व्यापारोऽर्थः प्रतीयत एवेत्यर्थः। न ग इत्यर्थपर्यवसानाज्जिज्ञासानिवृत्तिर्भवतीत्यस्तीत्यस्य प्रश्रोत्तरत्वं च। सुतरामिति। उत्पत्त्याद्यर्थविवक्षायामस्त्यादीनां व्यापारवाचकत्वध्रौव्यमिति शेषः। उत्पत्त्यनुकूलव्यापारप्रतीतेस्तत्र सर्वानुभवसिद्धत्वात्। सत्तार्थकत्वे क्वचिदेव व्यापारप्रतीतिः, उत्पत्त्याद्यर्थकत्वे तु सर्वत्रैव व्यापारप्रतीतिरिति बोधनाय सुतरामिति रतबन्तोक्तिः। उत्पत्त्यादीत्यादिपदेन पराभवतीत्यत्र पराभवस्य संग्रहः। अस्त्यादेरुत्पत्त्यर्थकत्वे रामायणप्रयोगं प्रमामयतिरोहितoo इति। आसीत्, अभवत्, इत्यनयोरुदपद्यतेत्यर्थः। सत्तार्थकत्वेऽनुभवविरोधः। वंशावल्यामुत्पत्त्यर्थस्यैवानुभवसिद्धत्वादिति भावः। अस्त्यादेः सत्तासमानाधिकरणव्यापारवाचकत्वे प्रमाणान्तरमप्याहकिं चेति। लडादिव्यवस्था न स्यादिति। अस्त्यादेर्व्यापारावाचकत्वे वर्तमाने लट्, भूते लुङ्, भविष्यति लृङ्, इत्येवं लडादेर्व्यवस्था न स्यादित्यर्थः। वर्तमानादिकालवृत्तित्वेन विवक्षायां वर्तमाने लडित्यादिना लडादिविधानादित्यर्थः। वर्तमानत्वादीनां कालगतत्वेन सर्वानुभवसिद्धत्वाद्वर्तमानादिशब्दाः कालविशेषबोधकाः। तस्या एवेत्येवकारेण फलं व्यावर्त्यते। फले वर्तमानत्वाद्यनन्वयस्य प्रागुपपादनीदिति भावः। तत्रैव मानमाहक्रियाभेदायेत्यादि। भेदायेति चतुर्थी तादर्थ्ये, तुमर्थादिति वा बोध्या। वर्तमानत्वादिविशिष्टक्रियाया इतरक्रियातो व्यावर्तनाय लडादिबोध्यः काल इत्यर्थः। क्रियाभेदायेत्यस्य सर्वं वाक्यमिति न्यायेन सावधारणत्वाल्लडादिबोध्यः कालः क्रियाया एव भेदकः। अतः क्रियायामेव कालान्वयः। सप्तिङर्थसंख्या तु सर्वस्य = आख्यातप्रतिपदिकार्थस्य भेदिकेति वाक्यपदीयार्थः। भूवादिसूत्रे भाष्येऽप्युक्तंनान्तरेण क्रियां भूतभविष्यद्वर्तमानाः काला व्यज्यन्ते। अस्त्यादिभिश्चापि भूतभविष्यद्वर्तमानकाला व्यज्यन्ते' इति। अस्ति, अभूत्, भविष्यतीति कालविशेषावगमादिति भावः। तस्माद्यद्यत्र क्रिया न स्यात्तर्हि लडादिकमपि न स्यादिति बोध्यम्। तथा च भाष्यकाराद्यनुभव एवास्त्यादीनां व्यापारवाचकत्वे प्रमाणमित्याशयः। अन्यत्राशेषभावादित्युत्तरार्धमवतारयितुं शङ्कतेनन्विति। एवमिति। धातोर्व्यापारवाचकत्वे सतीत्यर्थः अशेषभावादिति। शेषभावःपृथग्भावः। भिन्नादिकरणनिष्ठत्वं, तदभाव एकाधिकरणनिष्टत्वं तस्मात्, भावनाफलयोः सामानाधिकरण्यादित्यर्थः। सा व्यापाररूपा भावना। तथास्पष्टं न प्रकाशते। तत्स्पष्टत्व इति। भावनायाः स्पष्टं प्रतिभान इत्यर्थः। दोष इति। तथा च दूरत्वादिकमिव फलभावनयोः सामानाधिकरण्यं व्यापाररूपभावनायाः स्वष्टप्रतीता प्रतिबन्धकमित्यर्थः। प्रश्न इति। व्यापारविशेषविषयकप्रश्न इत्यर्थः। पचतीत्युत्तरवदिति। पचिधातोर्व्यापारविशेषवाचित्वस्य सुप्रसिद्धत्वात्तस्य प्रश्नोत्तरत्वं युज्यत इत्यर्थः। उत्तरमपि स्यादिति। अस्त्यादीनां व्यापारवाचित्वेऽपि अस्तीत्यस्योत्तरत्वं नेष्यते, व्यापारसामान्यवाचित्वात्तस्य, किमुत व्यापारावाचकत्व इति शङ्ककाशयः। सिद्धान्ती व्यापारसामान्यवाचित्वेऽपि तस्योतरत्वमिष्टमेवेत्याहइष्टापत्तेरिति। तदेवेष्टापत्तिस्थलं दर्शयतिआसन्नविनाशमित्यारभ्योत्तरस्य सर्वसमतत्वादित्यन्तेन। तथा चास्त्यादीनां व्यापारवाचकत्वमवश्यकमिति भावः। इतरत्रआसन्नविनाशभिन्ने। सुस्थतया निश्चित इति। सत्तानुकूलव्यापारनिश्चये सति किं करोतीति प्रश्नोऽन्याविषयक एवेत्यवधारणात्तत्रास्तीत्युत्तरं नेत्यर्थः।। 12 ।।
शङ्कतेनन्विति। एवमिति। अस्याद्यकर्मकाणां व्यापाररूपभावनावाचकत्वे, इत्यर्थः। फलनियतत्वादिति। फलानुकूलव्यापारस्यैक भावनाशब्दवाच्यत्वाफलस्य भावनाशब्दार्थकुक्षिप्रविष्टत्वेन भावनायाः फलनियतत्वगित्यर्थः। कर्मत्वादिति। प्रकृतधातूपात्तप्रधानभूतव्यापारप्रयोज्यफलाश्रयस्येत्यर्थः। क्रियावाचकत्व इति। अकर्पकाणामपि फलानुकूलव्यापारवाचकत्व इत्यर्थः। सर्वेषांसकर्मकाकर्मकोभयेषां फलानुकूलव्यापारवाचकपच्यादिवत्सकर्मकत्वापत्तिरित्याशङ्कां मनसिकृत्याऽऽहफलव्यापारयोरिति। ननु फलव्यापारयोरेकवृत्तित्वस्याकर्मकतानियामकत्वे ग्रामं गच्छति, वृक्षं त्यजीत्यत्र व्यापारवत्तज्जन्यसंयोगविभागरूपफलस्यापि कर्तृवृत्तित्वेन फलव्यापारयोरकनिष्ठत्वाद्गम्यादीनामप्यकर्मकत्वापत्तिरित्यनुसंधायाऽऽहएकमात्रनिष्ठातायाम्ति। एकेतरावृत्तित्वे सति एकवृत्तित्वमेकमात्रनिष्ठत्वमित्यर्थः। एकमात्रेत्यस्य प्रकृतोपयुक्तं फलितार्थमाहभिन्नाधिकरणेति। फलव्यापारयोर्भिन्नाधिकरणवृत्तित्वाभावे, इति यावत्। मात्रशब्दान्तर्भावस्य फलपाहतेन गम्यादाविति। नातिव्याप्तिरिति। गम्यादेरकर्मकत्वव्यवहारो नेत्यर्थः। उक्तलक्षणलक्षितमकर्मकधातुं दर्शयतियथा भ्वादिरिति। धर्मिभेदे, इति। फलव्यापारौ धर्मौ, तदाश्रयभूतौ पदार्थौ धर्मिणो, तयोर्भेदे फलव्यापाराश्रययोः पृथक्तेवे धातुः सकर्मक इत्यर्थः। फलव्यापारयोराश्रयभेदः सकर्मकत्वव्यवहारप्रयोजक इति भावः। तेन संयोगतदनुकूलव्यापारयोराश्रयैक्येऽपि गम्यादौ नाव्याप्तिः। अस् धातोः फलानुकूलव्यापारवाचित्वे वाक्यपदीयं प्रमाणयतिआत्मानमात्मनेति। आत्मानसत्ताम्। आत्मनास्वेन। बिभ्रत्सत्तानुकूलव्यापारवान् भवन्नस्तीति व्यपदिश्वतेव्यवह्रियते। तथा च`डुभृञ् धारणपोषणयोः' इति पाणिनिस्मरणात्स्वधारणानुकूलो व्यापारोऽस्तीत्यत्राप्यवगम्यते। स्वत्वं चात्र सत्तैव। म्रियतौ सत्तात्यागानुकूलव्यापारस्येवात्र तद्वैपरीत्येन सत्ताधारणानूकूलव्यापारस्य स्पष्टं प्रतिपत्तेरिति भावः। नन्वेवमस्तेः सकर्मकत्वं स्यादित्याशङ्क्य तन्निराकरोतितेन कर्मणेति। स्वधारणरूपफलाश्रयभूतेन कर्मणाऽस्तेः सकर्मकत्वं न वक्तव्यमित्यर्थः। तत्र हेतुमाहफलांशेनेति। स्वधारणात्मकफलतदनुकूलव्यापारयोरेककर्तृमात्रनिष्ठत्वादित्यर्थः। नन्वेवमात्मानं जानाति, इच्छतीत्यादौ ज्ञानेच्छादिरूपफलस्यैककर्तृमात्रनिष्ठत्वेन सकर्मकत्वानुपपत्तिमाशङ्क्य निराकर्तुमाहद्वावात्मानावित्यादिना। अयं भावःआत्मन एकत्वेऽप्यात्मभेदः कल्प्यते। एकः शरीरावच्छिन्नोऽपरस्त्वन्तःकरणावच्छिन्न इति। तयोः कर्मत्वकर्तृत्वे दर्शयतितत्रान्तरात्मेत्यादिना। अन्तरात्माअन्तःकरणावच्छिन्नः कर्ता व्यापाराश्रय इत्यर्थः। शरीरात्माशरीरावच्छिन्नः कर्मफलाश्रय इत्यर्थः। एवं चौपाधिकभेदमादाय फलव्यापारयोर्भिन्नाधिकरणनिष्ठत्वाक्षतेर्न सकर्मकत्वानुपपत्तिर्नाप्यकर्मकत्वापत्तिश्चेति बोध्यम्। एवं `आत्मानमात्मना हन्ति सृजत्यात्मामानमात्मना' इत्यत्राप्यौपाधिकभेदसत्त्वान्न सकर्मकाकर्मकलक्षणाव्याप्त्यतिव्याप्ती इति द्रष्टव्यम्। अवेदमवधेयम्। एवं हि जीवतिनृत्यतीत्यादेः सकर्मकत्वापत्तिः। प्राणधारणगात्रविक्षेपादिरूपफलस्य तदनुकूलव्यापारव्यधिकरणत्वसत्त्वात्। धारणस्य प्राणनिष्ठत्वाद्विक्षेपस्य गात्रनिष्ठत्वाव्द्यापारस्य च तद्भिन्नदेवदत्तनिष्ठत्वात्फलस्य व्यापारव्यधिकरणत्वादित्यर्थः। तस्मात्फलाश्रयावाचकत्वे सति फलव्यधिकरणव्यापारवाचकत्वमित्येवं सकर्मकत्वलक्षणं वाच्यम्। ततश्च जीवत्यादेः फलव्यधिकरणव्यापारवाचकत्वेऽपि `जीवप्राणधारणे' नृती गात्रविक्षेपे' स्रंसु ध्वंसु अधःपतने' इत्यनुशासनात्फलाश्रयाणां प्राणगात्राधःप्रदेशानामपि वाचकत्वेन फलाश्रयावाचकत्वाभावान्न सकर्मकत्वमिति। अत एवास्तेः स्वधारणानुकूलव्यापारार्थकत्वेऽपि स्वरूपफलाश्रयवाचकत्वान्न सकर्मकत्वमिति ज्ञैयम्।। 13 ।।
व्यापारस्य धातुवाच्यत्वे शङ्कतेनन्विति। असत्त्वभूतेति। क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकवैजात्यरूपसाध्यत्वेन व्यापाररूपक्रियाया धातुत उपस्थितौ सत्यामित्यर्थः। पाक इति। इत्यादिघञन्तस्थलेऽपीत्यर्थः। तत्प्रत्ययेति। तेन साध्यत्वरूपेण प्रतीत्यापत्तिरित्यर्थः। ननु घञन्ते तथा प्रतीतिरिष्टैवेति चेदाहन चेष्टापत्तिरिति। अनिष्ठापत्तौ हेतुमाहकृदभिहितेति। कृत्प्रत्ययवाच्यो भावोधात्वर्थो, द्रव्यवत्द्रव्यधर्मेण क्रियान्तराकाङ्क्षोत्थापकतावच्छेदकवैजात्यरूपसिद्धत्वरूपेण तुल्यं प्रकाशते भासते, इत्यर्थः। भाष्यविरोधादिति। निरुक्तभाष्याद्भावार्थककृदन्ताल्लिङ्गसंखअयाद्यन्वयित्वरूपसिद्धत्वेनैव क्रियायाः प्रतीतेर्लाभादित्याशङ्क्याऽऽआख्यातशब्द इति। आख्यातशब्द इत्यस्य विवरणमाहपश्य मृग इत्यादि। तथा चाऽऽख्यातशब्द इति बहुव्रीहिः। स चापि आख्यातरूपौ शब्दौ यस्मिन्नित्याख्यातशब्दयोर्द्विवचनान्तयोर्बोध्यः। भागाम्यामित्यस्य तिङन्ताभ्यामिति विवरणदर्शनात्। वाक्यं चान्यपदार्थः। तत्रैव तिङन्तद्वयसंभवात्। अत एव लाघवेऽपि न कर्मधारय इति सूचितम्। एवं चाऽऽख्यातशब्दे इत्यस्यतिङन्तसमुदाये इत्यर्थः। अपव्याख्यानमिति। आख्यातशब्दे कर्मधारयं स्वीकृत्य भागाभ्यामित्यस्य प्रकृतिप्रत्ययरूपभागाभ्यामिति व्याख्यानमशुद्धम्। भागद्वयसत्त्वादिति। पचतीत्यत्रापि प्रकृतिप्रत्ययरूपभागद्वयसत्त्वादित्यर्थः। तथा च पाक इत्यत्रेव पचतीत्यत्र सिद्धावस्थापन्नत्वेन क्रियाप्रतीत्यापत्तेर्भागद्वयस्य क्रियावाचकत्वाभावेन दृष्टान्तासंगत्यापत्तेश्चेति भावः। अन्ये तु साध्यत्वसाधनत्वाभ्यां प्रतीतिमात्रेऽयं दृष्टान्तः। यथा पचतीत्यत्र तिङन्ते धातुरूपप्रकृत्य साध्यत्वेन स्वार्थो बोध्यते, साधनत्वरूपस्वार्थस्तिङा, तथा पाक इत्यत्र धातुना साध्यत्वेन क्रिया प्रत्याय्यते, प्रत्ययेन सिद्धत्वरूपेणेत्यर्थः। इदमेव व्याख्यानं हेलाराजीये दृश्यत इत्याहुः। साध्यसाधनरूपतेति। यथाक्रमं पश्यभागेन साध्यरूपता, धावतिभागेन साधनरूपता यथा शास्त्रे प्रकल्पितेत्यर्थः। तत्र साध्यत्वमाहक्रियान्तराकाङ्क्षानुत्थापकेत्यादि। साधनत्वं तुकारकत्वेनान्वयित्वमिति। अयं भावःपश्येत्यत्र क्रियायाः साध्यत्वं स्वस्मिन् कारकाणामन्वयः स्वस्य वा कारकत्वेनान्यत्रान्वयित्वाभावः। धावतीत्यस्याः साधनत्वं तु कारकत्वेनान्यस्मिन्स्वस्यान्वयः। इत्थं पचति भवतीत्यत्राप्येककर्तृका वर्तमाना या पचिक्रिया एकतत्कर्तृका वर्तमाना भवनक्रियेतिबोदात्तत्राप्यूह्यम्। एवं च पश्य मृगो धावतीत्यादौ एकमृगाभिन्नाश्रयिका या वर्तमाना धावनक्रिया तद्विषयकं यदिष्टसाधनीभूतं दर्शनं तदनुकूला भावनेति बोध इति। ननु आख्यातवाच्यक्रियायाः कर्तृत्वकर्मत्वस्वीकारे कारकत्वेनान्यत्रानन्वयित्वरूपं तस्या असत्त्वरूपत्वं भज्येतेतिचेन्न। `क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः। असत्त्वरूपता तस्या इयमेवावधार्यताम्।। लिङ्गं च क्रियानाधारकाणि च तैः क्रिया न युज्यते, इति हर्युक्तेः कर्तृत्वकर्मत्वेतरकारकत्वव्याप्यरूपेणानन्वयित्वमसत्त्वरूपत्वमित्यर्थस्य लाभेन तिङन्तोपस्थितक्रियायाः कर्तृत्वकर्मत्वस्वीकारेऽपि असत्त्वरूपत्वभङ्गाभावादित्यर्थः। स घञादिष्विति। पाक इत्यादौ प्रकृत्या साध्यावस्थापन्ना प्रत्ययेन तु साधनावस्थापन्ना क्रिया प्रतीयत इत्यर्थः। ननु धावती पश्येत्यत्र क्रिययोर्लिङ्गसंख्यानन्वयित्वेन षाक इत्यत्र च लिङ्गसंख्यान्वयित्वेनोभयत्र साम्याभावात्कथं दृष्टान्तदार्ष्टान्तिकत्वमित्यत आहइयान् परमिति। घञाद्युपस्थाप्येति। क्रियेत्यर्थः। नैवमिति। यादृशी घञाद्युपस्थाप्या क्रिया तादृशी तिङन्तोपस्थाप्या क्रिया न भवतीत्यर्थः। तथा च वैषम्याद्दृष्टान्तदार्ष्टान्तिकभावो नोपपद्यत इति भावः। दृष्टान्तदार्ष्टान्तिकभावे हि सर्वांशेन साभ्यमपेक्षितमित्येवं नैव नियमः। अन्यथा चन्द्रमुखाद्योरपि सर्वांशेन साम्याभावात्सन स्यात्। किं च सर्वांशेन साम्ये दृष्टान्तदार्ष्टान्तिकभावविलय एव। न हि भवति घट इव घटः पट इव पट इति। अपि तु किंचिदंशनैव साम्यमपेक्ष्यते, तच्च प्रकृतस्थलेऽप्यस्तीत्याहतथाऽपीति। तिङन्तोपस्थाप्या क्रिया यथा कारकत्वेनान्यत्रान्वेति तथा घञाद्युपस्थाप्याऽप्यन्यत्र कारकत्वेनान्वेतीति कारकत्वेनान्वयित्वधर्मेण दृष्ठान्तदार्ष्टान्तिकभावोऽवधेयः। ननु पाक इत्यादौ प्रकृतिभूतधातुतः साध्यत्वरूपेण क्रियाप्रतीतौ किं प्रमाणमत आहओदनस्य पाक इतीति। कर्मषष्ठ्या मानत्वादिति। घञ्प्रकृतिधातुना घञेव सिद्धावस्थाया एव क्रियाया अभिधाने कारकाणां साध्यत्वेन प्रतीयमानार्थ एवान्वयनियमादोदनस्याकारकत्वेन तव्द्याप्यकर्मसंज्ञाया असंभवात्कर्तृकर्मणोरिति षष्ठ्यनुपपत्तेरेव घञ्प्रकृतिभूतधातोः साध्यावस्थापन्नक्रियावाचकत्वे प्रमाणत्वादित्याशयः। षष्ठीमुपपादयितुमाशङ्कतेन चाध्याहृतोति। अध्याहतास्तीति तिङन्तोपस्थाप्यसाध्यावस्थक्रियायाः पाकेन पाकस्य चौदनेनेति परम्परयाऽन्वयात्षष्ठी स्यादित्यर्थः। तथा च घञन्ते धातुतः साध्यावस्थाक्रियाया अप्रतीतावप्युपपद्यमानया षष्ठ्या तादृशधातोः साध्यावस्थक्रियावाचकत्वं कल्पयितुं न युज्यत इति चेन्नेत्याहकृदन्तेन योग एवेति। कृत्प्रत्ययप्रकृतिभूतधातूपस्थाप्याक्रेयानिरूपितकर्तृकर्मवाचकादेव कर्तृकर्मणोः कृतीत्यनेन षष्ठीविधानादित्यर्थः। तथा च कृत्प्रत्ययप्रकृतिभूतधातोः साध्यावस्तक्रियावाचकत्वमन्तरा सा कर्मषष्ठी दुर्लभेति भावः। नन्वध्याहृततिङन्तोपस्थितसाध्यावस्थक्रियया कृदन्तस्य योगोऽस्तीति तादृशक्रियाद्वारकः कृदन्तयोगोऽप्यस्तीति न कर्मषष्ठ्यनुपपत्तिरित्याशयेनाऽऽहन लोकाव्ययेति। निषेधाच्चेति। अध्याहृतलादेशप्रकृतिभूतदातूपस्ताप्यक्रियान्वये षष्ठीनिषेधाच्चेत्यर्थः। `कृद्योगा च षष्ठी समस्यते' इति वचनविहित ओदनपाक इति षष्ठीसमासोऽपि कृद्योगषष्ठ्यसंभवान्न स्यात्पष्ठ्यन्तस्योत्तरपदार्थेऽनन्वयेन सामर्थ्याभावाच्चेत्यपि बोध्यम्। न च शेषलक्षणषष्ठ्यैव वाक्यं समासश्चास्त्विति शङ्क्यम्। नलपाकः शुण्ठीपाक इत्यादौ नलादिकर्तृत्वादिप्रकारकबोधस्य सवानुभवसिद्धस्य विलयापत्तोः। तस्मात्कर्मषष्ठ्यनुपपत्तिरेव कृदन्तस्थले धातोः साध्यावस्तापन्नक्रियार्थकत्वे प्रमाणमिति यावत्। ननु भावार्थककृत्प्रत्ययप्रकृतिभूतधातोः साध्यावस्थापन्नक्रियावाचकत्वे तन्निरूपितकर्मत्वस्येव करणत्वस्यापि संभवात्काष्ठैः पाक इत्यपि स्यादित्याशङ्क्येष्टमेवैतदिति परिहरन्नाहएवं रीत्येत्यादीष्टमेवेत्यन्तम्। तिङ्प्रत्ययेनैव साध्यावस्थआपन्नत्वेन व्यापाररूपभावनाऽबिधीयते, इति मन्वाना मीमांसकाः `काष्ठैः पाकः' इति प्रयोगमनेष्टमामनन्ति। एवमिति। यथैदनस्य कर्मतासिद्ध्यर्थं पाक इत्यत्र साध्यावस्थापन्नव्यापापारो धातुनोच्यते तथा फलांशोऽपि धातुना साध्यावस्थापन्न एवोच्यत इत्यर्थः। साध्यावस्थैवासत्त्वावस्थेत्युच्यते वैयाकरणैः। अत एवेति। फलस्मापि असत्त्वावस्थापन्नतया धातुनोच्यमानत्वादेवेत्यर्थः। स्तोकं पचतीतिवदिति। विक्लित्तरूपफलस्यापि व्यपदेशिवद्भावात्फलाश्रयत्वेन कर्मत्वात्तत्समानाधिकरणस्तोकादिशब्देभ्यो यथा द्वितीया भवति तथा स्तोकं पाक इत्यत्रापि धात्वर्थफले साध्यत्वेनोपस्थिते सामानाधिकरण्येनान्वयात्स्तोकमिति द्वितीया भवतीत्यर्थः। उपपद्यत इति। फलांशस्य सत्त्वावस्थापन्नत्वेनोपस्थितौ तु कारकाणां साध्यत्वेन प्रतीयमानार्थ एवान्वयनियमात्सामानाधिकरण्येनान्वयेऽपि साध्यत्वेनोपस्थितार्थेऽन्वयाभावात्स्तोकं पाक इति नोपद्येतेति भावः। नन्वेकस्यैव धात्वर्थस्य वुरुद्धसाध्यत्वसिद्धत्वाभ्यां कथं भानमिति चेन्न। यथा संबन्धिभेदादेकस्यैव पितृत्वं पुत्रत्वं च तथा एकत्रैव कारकलिङ्गादिरूपसंबव्धिभेदादुभयोः संभवेन तयोर्विरोधाभावादित्यर्थः। व्यापारान्वये तु स्तोकः पाक इत्येव। व्यापारस्याकर्मतया तद्विशेषणे द्वितीयाया अप्राप्तेः। फलान्वये द्वितीयां बाधित्वा कर्तृकर्मणोरिति षष्ठी तु न शङ्क्या। कर्तृसाहचर्येण धात्वर्थे भेदैनान्वयिकर्मण एव तत्र ग्रहणादिति लघुञ्जूषायां निरूपितत्वादित्यर्थः।। 14 ।।
एतदेवेति। एकस्या एव क्रियायाः साध्यत्वसिद्धत्वाभ्षां भानमेवेत्यर्थः। साध्यत्वेन क्रियेति। तत्रधञाद्यन्ते। प्रतीयत इति शेषः। साध्यत्वेन क्रियाप्रतीतौ बोदकमाहधातुरूपेति। धातुरूपं निबन्धनं निमित्तं यस्या इत्यर्थः। शब्दशक्तिस्वाबाव्याद्धातुवाच्या क्रिया(फलव्यापारौ)साध्यत्वेन प्रतीयत इति यावत्। फलव्यापारोभयोः साध्यत्वेन प्रतीतिबोधनाय क्रियेति साधारणशब्देन निर्देशः। तान्त्रिकैः फलव्यापारयोः क्रियाशब्देन व्यवह्रियमाणत्वात्। सिद्धभावस्त्विति। सिद्धत्वेन प्रतीतिस्त्वित्यर्थः। घञादीति। घञादिर्निवन्धनं निमित्तं यस्येत्यर्थः। घञादिवाच्या क्रिया(फलव्यापारौ)सिद्धत्वेन प्रतीयत इत्यर्थः। आदिशब्देन क्त्वातुमुन्क्तिन्नादयो ग्राह्याः। घञादिभिर्व्यापारफलयोः सिद्धत्वेन बोधने प्रमाणाभावमाशङ्वय परिहरतिन चेत्यादिना मानत्वादित्यन्तेन। पाक इत्युक्त इति। पाक इत्यादिश्रवणे धात्वर्थघञर्थक्रिययोरभेदान्वये सत्यपि कर्तव्यो वा नाशनीयो वा तिष्ठति वा जायते वा रश्यति वेत्यादिजायमानपाकसाध्यक्रियान्तराकाङ्क्षाया एव मानत्वादित्यर्थः। धातूपस्थाप्यायामिति। पचतीत्यादिस्थल इत्यर्थः। तदसंभवस्योक्तत्वादिति। पचतीत्युक्ते क्रियावगतौ पुनः क्रियान्तराकाङ्क्षाया अजायमानत्वेन क्रियान्तराकाङ्क्षाया असंभवस्योक्तत्वादित्यर्थः। क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपवत्त्वं साध्यत्वमित्यादिनेति शेषः। क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकरूपेणोपस्थितेऽर्थे क्रियान्वयासंभवात्क्रियान्तराकाङ्क्षाया असंभव इति भावः। अनापत्तेरिति। घञ्प्रत्ययेन साध्यावस्थापन्नाया एव क्रियाप्रा अभिधाने तस्या लिङ्गानवयितया तादृशधात्वर्थविशेषणवाचकस्तोकादिशब्दस्यापि पुंस्त्वानुपपत्त्या सामान्ये नपुंसकगित्यस्यैवापत्तेरिति भावः। सिद्धावस्थापन्नक्रियाया बोधने तु तादृशक्रियाया लिङ्गसंख्याद्यन्वयितया तत्समानाधिकरणस्तोकादिशब्दस्यापि लिङ्गसंख्यान्वयात्स्तोकः पाकः, इत्येकत्वं पुंस्त्वं चोपपद्यते। एतदेव विशदयतितस्मादिति। धात्वर्थान्वय इति। धात्वर्थफलान्वयेस्तोकादिशब्देभ्यो द्वितीया नपुंसकलिङ्गता च। धात्वर्थव्यापाररूपभावनायामन्वये ज्योतिष्टोमेन भक्तिपूर्वं यजेतेतिवत्प्रथमासंभवेऽपि नपुंसकलिङ्गमात्रम्। घञर्थव्यापारान्वये तु व्यापारस्य कर्मत्वाभावेन द्वितीयाया अप्राप्तेः प्रातिपदिकार्थेति प्रथमा पुंलिङ्गता च। घञर्थफलस्य पदार्थैकदेशत्वान्न तत्र स्तोकाद्यन्वयः। धात्वर्थफलस्य पदार्थैकदेशत्वेऽपि तत्रेतरपदार्थान्वयो भवत्येव। अन्यथा तण्डुलं पचति स्तोकं पचति स्तोकं पाक इत्यनापत्तोरित्याशयः। घञादेः शक्तिरिति। लिङ्गसंख्याद्यन्वयिव्यापारार्थ, इत्यर्थः। एतेनेति। घञादीनां सिद्धावस्थापन्नव्यापारवाचकत्वाङ्गीकारेणेत्यर्थः। साधुतामात्रमिति। मात्रपदेनार्थाभिधायकत्वव्यावृत्त्या प्रयोगसाधुत्वमेवेत्यर्थः। अपास्तंखण्डितं भवतीत्यर्थः। ननु सिद्धावस्थव्यापारे न घञः शक्तिरभ्युपेयतेऽपि तु घञन्तस्य, तथा च घञन्तशक्त्योपस्थितार्थेऽन्वये स्तोकः पाक इत्युपपद्यत एवेति कातन्त्रपरिशिष्टकारा मन्यन्ते, तन्मतमाशङ्क्य प्रत्याचष्टेन च घञन्तेति। घञन्तानुपूर्व्या इति। सिद्धावस्थापन्नव्यापारेऽर्थे घञन्तरूपसमुदायशक्तौ स्वीकृतायामुभयोरानुपूर्व्याः पाकत्वं यागत्वमित्येवंरीत्या नानाशक्ततावच्छेदकत्वापत्त्या गौरवं भवतीत्यतो लाघवाद् `भावे' इत्यनुशासनानुरोधाच्च घञादेरेव तादृशेऽर्थे शक्तिमभ्युपेत्य घञत्वादेरेव शक्ततावच्छेदकत्वाङ्गीकारस्योचितत्वादित्यर्थः। ननु समुदायशक्तिर्भवद्भिरप्यङ्गीकरणीयैव। अन्यथाऽर्थवत्त्वाभावात्प्रातिपदिकसंज्ञा न स्यात्। कृत्तद्धितेति सूत्रेऽर्थवत्पदानुवृत्तेः सिद्धान्तसंमतत्वात्। प्रत्ययार्थस्य प्रकृत्यर्थ एवान्वयात्समुदायशक्त्यभावे विभक्त्यर्थसंख्गाद्यन्वयोऽपि न स्यादिति समुदायशक्तेरावश्यकत्वेऽपि अनुशासनबलाद्घञोऽपि शक्तिरावश्यक्येव। अन्यथा ण्वुलादेरपि शक्तिर्न सिध्येत्। समुदायशक्त्यैव पक्तेत्यादौ कर्त्राद्यर्थबोधसंभवाण्ण्वुलादेः स्वातन्त्र्येण शक्त्यभाव इष्ट इतिचेन्न `कर्तरि कृत्, इत्याद्यनुशातनविरुद्धत्वात्। जनमेजयतीति विग्रहे ण्यन्तादेजेः खशि खशः शित्त्वात्सार्वदातुकत्वेऽपि कर्त्रर्थकत्वाभावाच्छबनुत्पत्त्या जनमेजय इत्यसिद्धयापत्तेः, खशो ङित्त्वेन गुणनिषेधापत्तेः। तस्माद् घञः शक्तिरभ्युपेयैव। अत एव कृदभिहितभाव इति भाष्यं संगच्छते इति न तद्विरोध इत्याशयवानाहइति दगिति।। 15 ।।
ननु यदि कारकाणां व्यापार एवान्वय इति नियमः स्याच्चेत्तर्ह्येव ओदनस्येति कर्मषष्ठ्यनुरोधेन पाक इत्यादौ धातोर्व्यापारवाचकत्वं सिध्येन्नान्यथा, किंतु तादृशे नियम एव किं मानमित्याशङ्क्याऽऽनन्वित्यादि। संबोधनान्तमिति। संबोदनान्तस्येति। संबोधनविभक्त्यन्तार्थस्येत्यर्थः। यथा अर्थद्वारकः शब्दस्य विशेषणत्वादिव्यवहारस्तथाऽर्थद्वारा संबोधनान्तशब्दस्यैव वाऽन्वय इत्यर्थः। क्रियायामिति। प्रवर्तनाविषये धातुवाच्यव्यापारेऽन्वय इत्यर्थः। ब्रूहि देवदत्तेति। इह विभक्त्यर्थसंबोधने देवदत्तरूपप्रकृत्यर्थनिरूपितं विशेष्यत्वं, ब्रूहितिभाषणक्रियानिरूपितं विशेषणत्वं चेति सिद्धान्तः। `संबोधनपदं यच्च तत्क्रियाय विशेषणम्, व्रजानि देवदत्तेति निघातोऽत्र तथा सति' इति वाक्यपदीयात्। संबोधनस्य क्रियाविशेषणत्वे हेतुमाहनिघातानुरोधादिति। आख्यातं सविशेषणं वाक्यमिति वाक्यलक्षणे सविशेषणमित्यस्य साक्षात्परम्परया च यद्वद्विशेषणं तत्सहितमित्यर्थः। तेनपरम्परयेत्यस्योपादानेन गभीरायां नद्यां मीनोऽस्तीत्यस्यैकवाक्यत्वं सिध्यति। तथा च देवदत्तेति संबोधनपदस्य ब्रूहीतिवचनक्रियायामन्वये सत्येवकवाक्यत्वोपपत्तौ सत्यां`आमन्त्रितस्य च'(8119)इति निघातःअनुदात्तः सिध्यति नान्यथेति भावः। नन्वेकवाक्यत्वाभावेऽपि निघातः कुतो न सिध्यतीत्यत आहसमानवाक्य इति। निमित्तनिमित्तनोरेकवाक्यस्थत्वे सतीत्यर्थः। देवदत्तस्य संबोधने, संबोधनस्य च क्रियायामिति देवदत्तसंबन्धिसंबोधनविषयत्वरूपपरम्परासंबन्धेन देवदत्तस्य क्रियान्वयान्निमित्तनिमित्तनोरेकवाक्यस्थात्वमिति भावः। एवं च देवदत्तसंबन्धिसंबोधनविषयस्त्वदभिन्नकर्तृकं भाषणमिति त्वं ब्रूहि देवदत्तेत्यस्य शाब्दबोधः। तथा व्रजानि देवदत्तत्यस्माद्देवदत्तसंबन्धिसंबोधनविषयो मत्कर्तृकं व्रजनमिति वोधः। केचित्तुसंबोधनविभक्त्यन्तस्यानुवाद्यविषयत्वादनुवाद्यस्य च विधेयसाकाङ्क्षत्वाद्विधेयस्य च क्रियारूपत्वान्न्ययसिद्धोऽयं संबोधनस्य विधेयक्रियान्वयनियमरूपोऽर्थः। तदुक्तं हरिणासिद्धस्याभिमुखीभावमात्रं संबोधनं विदुः। प्राप्ताभिमुख्यो ह्यर्थत्मा क्रियासु विनियुज्यते। अस्यार्थः सिद्धस्यसंबोध्यतावच्छेदकरूपेण देवदत्तत्वादिना सिद्धस्य, संबोधनात्प्राक्काले संबोध्यतावच्छेदकरूपस्यास्तित्वमवश्यमपेक्षितम्, एतेनोद्देश्यत्वे बीजं प्रदर्शितम्, सिद्धं हि लोके उद्देश्यत्वेन प्रसिद्धमिति भावः। अभिभुखोभावेति। संबोधनम्। अभिमुखीकरणं, स्वप्रयुक्तशब्दबोध्याज्ञातार्थग्रहणे सादरत्वसंपादनं, सादरत्वसंपत्त्यनुकूलव्यापारश्च संबोधनविभक्त्यन्तशब्दप्रयोगरूपः। अभिमुखीभावमात्रमित्यनेन फलनिर्देशः, मुखपरावृत्त्यादिना संबोध्यो यदा फलवत्त्वेनानुमितो भवति तदा क्रिया विधीयते, तदाहप्राप्ताभिमुख्य इति। प्राप्तमाभिमुख्यं सादरत्वं येन, स एवार्थःअर्थपूर्ण आत्मा संबोध्यःस्वनिष्ठव्यापारमयोज्यो यो बोदानुकूलव्यापाराश्रयः क्रियासुबोधनीयक्रियासु, विनियुज्यते प्रवर्त्यत इति। तथा च विनियुज्यत इत्यनेन संबोधनविभक्त्यन्तार्थस्य प्रवर्तनाविषयव्यापार एवान्वय इति स्पष्टमेव बोधितमित्याशय इत्याहुः। एवं चस्वप्रयुक्तशब्दबोध्याज्ञातार्थबोधानुकूलव्यापारानुकूलव्यापारः संबोधनपदार्थ इति फलितम्। राम मां पाहीत्यत्र लक्षणसमन्वयःस्वपदेन राम मां पाहीतिवचनप्रयोक्ता कश्चिद्रामभक्तः। तेन प्रयुक्तो यः शब्दःराम मामित्यादिः, तद्बोध्योऽज्ञातश्च योऽर्थःमां पाहीत्यस्यार्थः, तद्बोधानुकूलो योऽभिमुखीभावःसादरत्वसंपत्तिरूपो रामनिष्ठो व्यापारः, तदनुकूलोभक्तनिष्ठो राम मां पाहीति शब्दप्रयोगरूपो व्यापार इति। संबोधनविभक्त्यन्तार्थप्रवर्तनाविषयव्यापारयोर्मिथ उद्देश्यविधेयभावेनान्वयः। अभिगुखीभवद्रामोद्देश्यकप्रवर्तनाविषयो मत्कर्मकं रक्षणमिति बोधः। अन्ये तु तादृशेऽज्ञातार्थबोधे प्रकृत्यर्थस्य समवेतत्वसंबेन्धेनान्वयः। तादृशार्थबोध एव च विषयतासंबन्धेन क्रियाया अन्वयः। तथाच रामसमवेताज्ञातार्थबोधविषयः प्रार्थनाविषयमत्कर्मकं रक्षणमिति शाब्दबोधं वर्णयन्ति। रक्षणं त्राणं, तच्चेष्टलाभं प्रति साहायकाचरणं, अनिष्टपरिहारपूर्वकं मदिष्टसंपादनानुकूलो व्यापार इत्यर्थः। क्रियासु प्रवर्त्यत इत्युक्तत्वात्प्रवर्तनाविषयक्रियायामेव संबोधनान्तार्थस्यान्वयः, स एव च निघातप्रयोजक इत्यवगम्यते। तथा च व्रजानि देवदत्तेत्यत्र व्रजनस्य प्रवर्तनाविषयत्वाभावात्कथमत्र बिघातसिद्धेः फलत्वेन कथनम्। गमनयोग्यकालस्य प्राप्तिविवक्षायां प्रैषातिसर्गमाप्तकालेष्विति लोटः सत्त्वेनव्रजानीत्यतो मत्कर्तृकगमनस्य कालः प्राप्त इत्यर्थावगमादिति चेन्न। तत्र जानीहीत्यध्याहारात्प्रवर्तनाविषयत्वेन विवक्षितायामवबोधक्रियायां व्रजनस्य कर्मत्वेन, देवदत्तस्य चोद्देश्यत्वेनान्वयेन समानवाक्यत्वाक्षतेः। तथा चाभिमुखीभवद्देवदत्तोद्देश्यकं मत्कर्तृकं प्राप्तकालव्रजनकर्मकं प्रवर्तनाविषयो ज्ञानमिति ह्यस्माच्छाब्दबोधः। न च जानीहीत्यध्याहारे तिङन्तद्वयघटितवाक्यस्यैकतिङ वाक्यमिति दरिभाषितं यन्निघातोपयोग्येकवाक्यत्वं तदभावेन निघातासिद्धिरिति वाच्यम्। व्रजानि देवदत्त जानीहीति समुदायस्य योऽर्थस्तस्मिन् व्रजानि देवदत्तेत्यस्य वृत्तिर्वाक्यैकदेशन्यायेन। तथा च श्रूयमाणादेव तादृशार्थबोध इति श्रूयमाणैकतिङ्घटितत्वेन निघातासिद्धिरित्याशयात्। प्रविश पिण्डीमिति हि वाक्यैकदेशन्यायस्योदाहरणम्। तत्र `प्रविश गृहं' इति वाक्यस्यार्थे वाक्यैकदेशस्य प्रविशेत्यस्य प्रयोगः, तथा `पिण्डी भक्षय' इति वाक्यस्यार्थे वाक्यैकदेशस्य पिण्डीमित्यस्य प्रयोगः। तथा च श्रूयमाणात्प्रविशेत्येकस्मादेव प्रविश गृहमिति वाक्यार्थस्य बोधो जायते। अयमेव चाध्याहारपदार्थः। न तु साक्षाद्गृहं भक्षयेत्यनयोस्तत्र प्रयोग आवश्यकः। एवं चैकतिङ् वाक्यमिति भाष्यपठितवार्तिकस्य न विरोधः। पचति भवति देवदत्तेति। अस्य जानीहीति शेषः। नन्वेकतिङिति परिभाषितवाक्यस्यैव निघातोपयोगित्वे पचति भवति देवदत्तोत्यस्य तिङन्तद्वयघटितत्वेनैकवाक्यत्वाभावाद्देवदत्तेत्यस्य निघातो न स्यादत आहसूत्रभाष्योक्तरीत्येति। `पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्ति' इति भूवादिसूत्रस्थभाष्य`आख्यातं सविशेषणं वाक्यं' इति समर्थसूत्रस्थभाष्योक्तरीत्येत्यर्थः। एकवाक्यतासत्त्वादिति। तत्र जानीहीति प्रवर्तनाविषषयज्ञानक्रियायां देवदत्तस्योद्देश्यतया, पचिक्रियाकर्तृकभवनस्य च कर्मतयाऽन्वयादनेकतिङन्तघटितसमुदायेऽप्येकवाक्यतासत्त्वादित्यर्थः। एकतिङ् वाक्यमिति स्वशास्त्रीयनिगातादिकार्यमात्रोपयोग्येव। आख्यातं सविशेषणमिति तु शास्त्रलोकसाधारणमिति भावः। तेन पचति भवति, पस्य मृगो धावतीत्याद्यनेकतिङन्तघटितस्थले, एकतिङित्यस्याभावेऽपि न क्षतिः। समर्थसूत्रस्थभाष्योक्तेन `आख्यातं सविशेषणम्' इत्यनेन तत्र सर्वानुभवसिद्धैकवाक्यत्वस्योपपत्तेः। स्यादेवेति। आष्टमिकेन `आमन्त्रितस्य च' इत्यनेन पदात्परस्य समानवाक्यस्थस्याऽऽमन्त्रितस्य विहितो निघातो देवदत्तस्य भवेदेवेत्यर्थः। अभिमुखीभवद्देवदत्तोद्देश्यकं पचिक्रियाकर्तृकभवनकर्मकं प्रवर्तनाविषयो ज्ञानमिति ह्यस्माच्छाब्दबोधः। एवमनेकतिङन्तघटितसमुदायस्यैकवाक्यत्वे भाष्यकारसंमतिं प्रदर्श्य सूत्रकारसंमतिं प्रदर्शयितुमाह`तिङ्ङतिङः' इत्यादि। अतिङन्तात्परं तिङन्तं निहन्यत इति तदर्थः। तत्र `पचति भवति' इति तिङन्तद्वयसमुदाये तिङन्तात्परस्य भवतीत्यस्य निघातवारणाय कृतमतिङ्ग्रहणं निरुक्तस्थल एकवाक्यत्वाभावेऽनर्थकं सत्तिङन्तसमुदायोऽप्येकवाक्यत्वं सूवकाराभिप्रेतामिति सूचयतीति भावः। तथा च पचति भवति देवदत्तेत्यत्र सूत्रकृद्भाष्यकृतोर्मते निघातः स्यात्। वार्तिकमते तु न स्यादित्याहएकतिङ वाक्यमितीति। एकं तिङ्तिङन्तं यत्रेति बहुव्रीहिः। तथा चैकतिङन्तघटितसमुदायो वाक्यमित्यर्थः। नन्वेकतिङन्तघटितसमुदायस्यैकवाक्यत्वे तिष्ठति देवदत्तः, पचति चैत्र इत्यत्र देवदत्तः पचतीत्यनयोरेकवाक्यत्वे तिङ्ङतिङ इति निघातापत्तिरिति चेन्न। विशेषणविशिष्टक्रियार्थकत्वं विशेषणं निवेशनीयम्। विशेषणविशिष्टक्रियार्थकैकतिङन्तघटितमित्यर्थः। देवदत्तस्य तिष्ठतीत्यनेनान्वयात्पचतीत्यस्य च चैत्रेण संबन्धाद्भिन्नभिन्नवाक्यस्थयोर्दवदत्तः पचतीत्यनयोः समुदायस्य विशेषणविशिष्टक्रियार्थकत्वाभावादेकवाक्यत्वनिघातापत्त्योरनुपपत्तेरिति भावः। मते परं नेति। वार्तिककारमत एव निघातो न स्यादिति मतभेद इति भावः। संभवति मतैक्ये मतभेदो न न्याय्य इत्यभिप्रेत्याऽऽहवस्तुतस्त्विति। एकतिङविशेष्यकमिति। एकं तिङ्तिङन्तं विशेष्यं मुख्यविशेष्यार्थपतिपादकं यत्रेत्यर्थः। तथा च मुख्यविशेष्यभूतार्थबोधकैकतिङन्तघटितसमुदायो वाक्यमित्यर्थः। तदभिप्रायस्येति। एकतिङिति वार्तिकाभिमायस्येत्यर्थः। वैयाकरणभूषणेऽस्माभिरिति। बहुष्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता। तिङन्तेभ्यो निघातस्य पर्युदासस्तथाऽर्थवान्।। बहुष्वपि तिङन्तेषु साकाङ्क्षेषु अन्वययोग्यतावत्सु सत्सु तत्रैकवाक्यता भवतीत्यर्थः। यथा पचति भवाक्षिस्व, हतशायिकाः शय्यन्ते, पश्य मृगो धावतीत्यादि। बहुषु तिङन्तेष्वेकवाक्यतासत्त्वादेव तिङन्तेभ्यः परस्य तिङन्तस्य निघातनिषेधः। सार्थक इत्यर्थकेनोपर्युक्तवाक्यपदीयेन कौण्डभट्टैरुक्तत्वादित्यर्थः। तन्मतेऽपि भवत्येवेति। पचति भवति देवदत्त जानीहीति समुदायस्य मुख्यविशेष्यभूतार्थबोधकैकतिङन्तघटितत्वाद्वार्तिकमतेऽपि देवदत्तेत्यस्य निघातो भवत्येवेत्यर्थः। एवं च सूत्रवार्तिकभाष्यकाराणां मध्ये मतभेदो नास्तीति भावः।
कृत्वोर्था इति। अत्र कृत्वःपदं कृत्वोर्थतादृगपरं, कृत्वोर्थसदृशोऽर्थोयेषामिति उष्ट्रमुखवत्समासः। कृत्वसुजादिरित्यर्थः। क्रियाभ्यावृत्तिगणन इति। `र्सख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्यत्र अभ्यावृत्तिःजन्म, उत्पत्तिरिति यावत्। उपसर्गवशाद् `वृतु वर्तने इति धातोरुपत्तौ वृत्तिरिति भावः। क्रियाणां जन्मन उत्पत्तेर्यत्संख्यानं गणनं तत्क्रियाभ्यावृत्तिगणनमित्यर्थः। क्रियाश्च एककर्तृकास्तुल्यजातीया एवापेक्षिताः। भिन्नकर्तृकासु भिन्नजातीयासु च क्रियासु अभ्यावृत्तिप्रतीतेरननुभवात्। एवं च संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच् प्रत्ययौ भवति इति तदर्थः। पञ्चकृत्वो भुङ्क्ते, इत्युदाहरणे निवृत्तभेदाया एकस्या एव भुजिक्रियाया आवृत्त्या जनिता उत्पत्तयः पञ्चसंख्यया गण्यन्ते। आवृत्तिकृतं गलबिलाधःसंयोगरूपफलानेकत्वमिच्छन् भुजिक्रियायाः पञ्च उत्पत्त्यावृत्तीः करोति, यथा विक्लित्तिरूपं फलमिच्छंस्तदनुकूलं फूत्कारादिव्यापारं करोति तद्वदित्यर्थः। गलबिलाधःसंयोगानुकूलव्यापारो भुजिक्रियेति भावः। एवं च पञ्चशब्दस्य पञ्चसंख्योत्पत्तिपरत्वं संख्यायाः क्रियाभ्यावृत्तिगणन इत्युक्तिस्वारस्यात्, प्रत्ययस्तु तद्दोयतकः, पञ्चसंख्योत्पत्तेश्च स्वसमभिव्याहृतक्रिबायामेवान्वयस्यौचित्यात्क्रियायोग एव कृत्वसुजादेः साधुत्वं लभ्यत इत्यभिप्रायः। एवं च पञ्चसंख्योत्पत्तिका वर्तमानकालिका एककर्तृका भुजिक्रियेति बोधः। एवं सकृत्पचति, द्विः पचतीत्यादावप्यूह्यम्। क्रियायोग एव कृत्वसुजादेः साधुत्वादेव द्वै घटावित्यादिवद्द्विर्घट इत्यादिकं न भवति क्रियागणनाभावादिति बोध्यम्।।
कारकामिति। कर्ता कर्म चेत्यादि कारकषट्कमित्यर्थः। कारकशब्दस्य क्रियापरत्वं दर्शयितुं तद्यौगिकार्थमाहकरोति कर्तृकर्मादिब्यपदेशानिति। अस्याः क्रियाया अयं कर्ता, इदं कर्म, इदं करणमित्येवं क्रियानिरूपिता एव हि कर्तुकर्मादिसंज्ञा इत्यर्थः। क्रियान्वयिनामेव संज्ञेति। अयं भावः ध्रुवमपायेइत्याद्युत्तरसूत्रे `क्रियायां' इत्यस्यानुवृत्तौ सत्यां क्रियाया जनकाकाङ्क्षतया तत्र जनकत्वेन यदपाये ध्रुवमित्यस्य संबन्धे क्रियमाणे क्रियाजनकमित्यर्थसंपत्त्या जनकस्य जन्याकाङ्क्षतया जन्य एव जनकस्यान्वय उचित इति क्रियान्वयिनामेवापादानादिसंज्ञा इत्यर्थ इति। अन्ये तु करोति क्रियां निर्वर्तयतीति व्युत्पत्तिदर्शनात्क्रियाजनकत्वं कारकत्वम्। तच्च कर्त्रादीनां षण्णामप्यस्ति। तत्र क्रियाजनकमिति ज्ञाते का सा क्रियेत्याकाङ्क्षोदयेन क्रियायाश्चापि जनकाकाङ्क्षतया येन यदाकाङ्क्ष्यते तत्तेनैवान्वेतीति नियमात्तत्रैवान्वयो युक्तः। क्रियान्वयित्वं कारकत्वमिति तु न। कारकाणां भावनान्वय इत्यस्य क्रियान्वयिनां क्रियान्वय इत्यर्थापत्त्याऽसंगत्यापत्तेः। तत्र प्रकृतधातुवाच्यव्यापाराश्रयः कर्ता, प्रकृतवात्वर्थप्रधानीभूतव्यापारप्रयोज्यपकृतवात्वर्थफलाश्रयत्वेनोद्देश्यं कर्म, कर्तृनिष्ठव्यापारप्रयोज्यस्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकं करणम्, सकलक्रियाकर्मसंवन्धाय क्रियायां यदुद्देश्यं तत्संप्रदानम्, तत्तत्कर्तृसमवेततत्तत्क्रियाज्यप्रकृतधात्ववाच्यविभागाश्रयमपादानम्, कर्तृकर्मद्वारकफलव्यापाराधारोऽधिकरणम्, इति प्राहुः।
प्रथमो वतिरिति तेन तुल्यं क्रिया चद्बति। तुल्यमिति क्रियेत्यस्य विशेषणम्। सामान्याभिप्रायं नपुंसकम्। तृतीयान्तात्तुल्यमित्यर्थे वतिः स्याद्यत्तुल्यं सा क्रिया चेदिति तदर्थः। ब्राह्मणवदधीते, इत्युदाहरणम्। अत्र ब्राह्मणशब्दस्तत्कर्तृकाध्ययनपरः, ब्राह्मणकर्तृकाध्ययनतुल्यं क्षत्रियकर्तृकाध्ययनमिति वोधः। तत्र तस्येवेति वत्यर्थस्य क्रियान्वयित्वाभावात्प्रथमो वतिरित्युक्तम्। देवदत्तवन्मैत्रः सुन्दर इत्यत्र भवतीत्यध्याहार्यम्। अन्यथा सूत्रे क्रिया चेदिति व्यर्थमेव स्यात्। एवं च वत्यर्थसादृश्यस्य क्रियैवाऽऽश्रय इति क्रियायोग एव प्रथमवतेः साधुत्वं लभ्यते। धातुसंबन्धाधिकारेति। `धातुसंबन्धे प्रत्ययाः' अत्र धातोः शब्दस्य धातुना शब्दान्तरेण संबन्धासंभवाद्धातुपदेन दात्वर्थो लक्ष्यते। संबन्धस्य च द्विष्ठत्वाद्धात्वर्थयोः संबन्ध इत्यर्थः। तथा च `धातुसंबन्धे, इत्यधिकृत्य विहितप्रत्ययानां क्रियायोग एव साधुत्वं लभ्यते। यथायाहि याहीती यातीत्यत्र याधातोः क्रियासमभिहारे लोट्, तस्य ह्यदेशे `क्रियासमभिहारे द्वे' इति द्वित्वं यातीत्यनुपयोगश्च। अत्र याहि याहि, इति लोडन्तार्थस्य यातीति तिङन्तोपस्थितक्रियायां सामान्यविशेषभावेनान्वयात् `पुनः पुनरतिशयेन वा यद्यानं तदभिन्नमेककर्तृकं वर्तमानकालिकं यानम्' इति बोधः। एवं पश्यन् ययावित्यत्र भूतकालिकदर्शनकर्त्रभिन्नकर्तृकं यानमित्यर्थः। बृहद्भूषणे तु भोक्तुं पचतीत्युदाह्यतं, तत्र यद्यपि तुमुन्ण्वुलौo इत्युक्तस्तुमुन् न धातुसंबन्धादिकारे विहितस्तथाऽपि क्रियावाचिन्युपपद एव विहितत्वात्क्रियासंबन्धनिमित्तकत्वं तस्याक्षतमेवेति नोदाहरणासंगतिरिति बोध्यम्।
नन्वब्राह्मणमानयेत्यादौ क्रियाभिन्नेऽप्यन्वयदर्शनादाहअसमस्तनञिति। क्रिययैवान्वेतीति शेषः। ननु घटोऽयं न पट इत्यत्रासमस्तस्यापि नञः क्रियायामनन्वयेन नियमासंगत्यापत्तिरित्याशयेनासमस्तनञित्यस्य विवक्षितमर्थमाहसमासायोग्य इति। समासायोग्यत्वमेव विशदयतिप्रसज्येति। प्रसज्यप्रतिषेधशब्दयोः सुप्सुपेति समासः। प्रसज्यआपाद्य, प्रतिषेधोनिषेध इत्यर्थः। प्रसज्य क्रियागुणौ ततः पश्चान्निवृत्तिं करोतीति मञ्जूषायामुक्तत्वात्। ततस्तमर्हतत्यिर्थे तदर्हतीति छप्रत्यये क्रियान्वययोग्य इत्यर्थः। `प्रसज्यप्रतिषेधस्तु क्रियया सह यत्र नञ्' इत्युक्तत्वात्। तिङन्तोपस्थितक्रियान्वय्येव सर्वथा समासायोग्यः, तिङन्तेन समासनिषेधादिति भावः। अन्यथा उत्तरपदार्थान्वयेऽप्यब्राह्मण इत्यादौ समासविकल्पेन पक्षेऽसमस्तत्वात्क्रियान्वयनियमस्य व्यभिचारापत्तिरित्याशयवानाहयथाश्रुतग्रहणायोगादिति। एवं च व्यभिचारवारणायासमस्तनञित्यस्य तिङन्तोपस्थाप्यक्रियान्वयीत्येवार्थो विवक्षितव्य इत्यभिप्रायः। ननु भूतले घटो नास्तीत्यत्र घटाभाव एव घटाभावकर्तृकास्तिक्रियैव प्रतीयते, न तु घटकर्तृकास्तिक्रियाभावः। न च भूतलाधिकरणकघटकर्तृकसत्ताभाव एव नञा बोद्यत इति वाच्यम्। यत्र भूतले वर्तमानकालावच्छेदेन घटसंबन्धाभावस्तत्र भूतलाधिकरणकवर्तमानकालिकसत्ताया अप्रसिद्ध्या तादृशसत्ताभावबोधनासंभवादनुभवविरोधाच्चेत्याशयेन शङ्कमानो ब्रूतेन चासमस्तेत्या दि मानाभाव इत्यन्तम्। समाधत्तेन त्वं पचसीत्यादि। क्रियाया एव निषेधप्रतीतेरिति। युष्मदाद्यर्थाभिन्नलडर्थकर्तृनिष्ठवर्तमानकालिकपचिक्रियाभाव इति बोधादित्यर्थः। तथा च तादृशबोध एवासमस्तनञर्थस्य क्रियान्वये मानमिति भावः। नञर्थाभावस्य प्रतियोगितया क्रियान्वयादेव युष्मदादेस्तिङ्वाच्यकारकवाचित्वरूपसामानाधिकरण्यसत्त्वात्प्रथममध्यमपुरुषाद्युपपद्यते, उपपद्यते चैकवचनद्विवचनादि। नञर्थस्य प्रतियोगितया युष्मदाद्यर्थान्वये तु त्वदभावो मदभावश्चास्तीतिवत् न त्वं पचसीत्यादावपि युष्मदस्मदोस्तिङ्वाच्यकारकवाचित्वरूपसामानाधिकरण्यस्य विरहान्मध्यमोत्तमयोरनुपपत्तिर्द्विवचनबहुवचनानुपपत्तिः प्रथमपुरुषापत्तिश्च स्यादिति भावः। घटो न जायत इत्यत्र क्रियानिषेधप्रतीतौ युक्तिमाहअत एवेति। जननक्रियाया अभावप्रतीरेवेत्यर्थः। विद्यमानेऽपि घट इति। घटस्य विद्यमानतादशायामपीत्यर्थः। घटस्य विद्यमानत्वे घटाभावबोधनस्याशक्यतया तत्र क्रियानिषेधबोधोऽवश्यमभ्यूपगन्तव्य इति भावः। तादृशप्रयोग इति। घटो न जायत इत्येतादृशः प्रयोग इत्यर्थः। घटावस्थितिदशायां घटे स्वकर्तृकोत्पत्त्यनुकूलव्यापाराभावस्य सत्त्वादिति भावः। असमस्तनञर्थाभावस्य प्रतियोगितया नामार्थान्वये तु घटाभावे घटनिष्ठोत्पत्त्यनुकूलव्यापारविरहात्तादृशप्रयोगो नैव स्यादित्याशयः। तथा चेति। न त्वं पचसीत्यादावुक्तरीत्या नञः क्रियाप्रतियोगिकाभावबोधकत्वावश्यकत्वे चेत्यर्थः। अस्तित्वाभाव एवेति। घटकतृकसत्ताया एवाभाव इत्यर्थः। एवकारेण घटाभावो व्यावर्तितः। ननु घटो न जायत इत्यादिपूर्वोक्तस्थलेऽनुपपत्त्या क्रियाप्रतियोगिकाभावप्रतीतिस्वीकारेऽपि घटो नास्तीत्यादौ घटाभावपतीतिरेव स्वीक्रियतां बाधकाभावात्, तथा च तत्रैव नञः क्रियान्वयनियमभङ्ग इत्याशङ्क्य घटाभावप्रतीतिस्वीकारे बाधकं प्रदर्शयतिन हि `घटो न जायते। इत्यादिना। एकत्रोत्पत्तयनुकूलो व्यापारो धात्वर्थः, अपरत्र सत्तानुकूलो व्यापारः। अनयोर्मध्ये धात्वर्थभेद एव विशेषः, एतदतिरिक्तः कश्चिदपि कियानपि विशेषो नास्ति। योऽपि विशेषोऽस्ति सोऽपि नञर्थाभावप्रतियोगिभेदकल्पनेऽकिंचित्कर इत्यर्थः। तथा चोभयत्रापि क्रियाप्रतियोगिकाभाव इत्येवमेकरूप एव शाब्दबोधः। `संभवत्येकरूपत्वे रूपभेदो हि दूषणं' इति युक्तिसिद्धाभियुक्तोक्तेः। सत्येवं यदि विना कारणं नञर्थाभावप्रतियोगिभेदः कल्प्येत तर्हि बोधस्यैकरूपत्वं भज्येत वैरूप्यं च स्यादिति तदेव वैरूप्यं घटो नास्तीत्यत्र घटाभावप्रतीतिस्वीकारे बाधकमित्यशयः। ननु भूतले न घटः, इत्यत्र क्रियावाचकव्याहारविरहिते वाक्ये भूतलवृत्तिघटाभाव एव बोधनीयस्तथा च तत्रैव क्रियान्वयनियमभङ्गोऽत आहतथा च भूतले नेति। अस्तीत्यघ्याहार्यमिति। अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति भाष्यात्। भवन्तीति लटः संज्ञा, लट्परोऽस्तिधातुः प्रयोक्तव्य इति तदर्थादिति भावः। अध्याहारे बीजमाहप्रकारतासंबन्धेनेति। नञर्थाभावनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धेन शाब्दबोधत्वावच्छिन्नं प्रति धातुजन्यभावनोपस्थितिः कारणमित्येवं कार्यकारणभावस्य क्लृप्तत्वादित्यर्थः। अत्र यत्किंचिन्नष्ठप्रकारतानिरूपितनञर्थाभावनिष्ठविशेष्यताकशाब्दबोधजननं कार्यं, तादृशाभावनिष्ठप्रकारतानिरूपितनञर्थाभावनिष्ठविशेष्यताकशाब्दबोधजननं कार्यं, तादृशाभावनिष्ठविशेष्यतानिरूपितप्रकारतासंबन्धावच्छिन्नधातुजन्यव्यापाररूपभावनोपस्थितिः कारणमिति बोध्यम्। क्लृप्तत्वादिति। आवश्यकत्वादित्यर्थः। अन्यथा नञर्थाभावस्य क्रियान्वयनियमो नोपपद्येतेति भावः। शेषमिति। आरोपितत्वं नञ्द्योत्यमनेकमित्यत्रैकवचननियमेन द्विवचनबहुवचनाभावश्चेत्यादीत्यर्थः।। 16 ।।
तथा यस्य च भावेनेति। यस्य च भावेनेत्यनेनैतादृशपदत्रयघटितं, षष्ठी चेत्यनेनैतादृशपदद्वयघटितं च सूत्रं लक्ष्यते इत्याशयवानाहयस्य च भावेन भावलक्षणमित्यत्रेति, षष्ठी चानादरे, इतीति च। अत्र भावशब्दौ धातुवाच्यकियापरौ। यन्निष्ठक्रियया क्रियान्तरं लक्ष्यते ततः सप्तमीति तदर्थः। तत इत्यस्य ज्ञापकक्रियाश्रयवाचकादित्यर्थः। तच्च गोपददुह्यमानपदयोरप्यस्तीति उभाभ्यामपि सप्तमी भवति। ज्ञापकत्वं सप्तम्यर्थः, तस्य च भावलक्षणमित्युक्तेः क्रियायामेवान्वय इति सतिसप्तम्याः क्रियायोग एव साधुत्वं लभ्यते। यथा गोषुदुह्यमानासु गत इति। दुह्यमानानां गवां ज्ञापकत्वं ज्ञाप्यत्वं च गमनक्रियायां शब्दतः प्रतीयते तथाऽपि गोगतदोहनक्रियायाः साक्षाज्ज्ञापकता गवां तु तदाश्रयतया। निर्ज्ञातकालक्रियाया अनिर्ज्ञातकालक्रियायां स्वाधिकरणकालवृत्तित्वज्ञापकत्वात्। वर्तमानदोहनविशिष्टाभिर्गोभिर्ज्ञाप्यगमनवानिति शाब्दबोधे गोदोहनकाले गत इति फलितोऽर्थः। एवमुत्तरसूत्रेऽपीति रुदति रुदतो वेत्यादौ पुत्रादिविषयकोऽनादरोऽधिका भासत इति ज्ञेयम्। तत्स्वरूपंसाधुत्वस्वरूपम्। वक्ष्यतेअसाधुरनुमानेनेत्येतव्द्याख्यानावसर इति शेषः। क्रिययैवेतीति। एवकारोऽयोगव्यवच्छेदार्थः। अयोगः संबन्धाभावः, तस्य व्यवच्छेदो निवृत्तिः। तथा च निरुक्ताष्टकस्य क्रियायोग एव साधुत्वं नान्यथेत्यर्थः। ननु क्रियाशब्दस्य धात्वर्थमात्रे प्रसिद्धेः फलान्वयेनैवोक्ताष्टकस्य साधुत्वे सति न भावनान्वयनियमः सिध्यतीति न तदनुरोधेन भावनायाः पाक इत्यादौ दातुवाच्यत्वं लभ्यत इत्याशङ्क्याऽऽहअयं भाव इति। भूवादयो धातवः, इत्यादिसूत्रेषु बाहुल्येन व्यापाररूपभावनायाः क्रियाशब्देन व्यवहारस्य कृतत्वाद्भावनायां क्रियाशब्दो रूढः। क्रियेत्याकारकः शब्दो रूढ्या भावनां प्रतिपादयतीत्यर्थः। भावनायां क्रियाशब्दस्य रूढिसत्त्वे तथाप्रयोगप्राचुर्यदर्शनमेव प्रमाणमित्यशयेन `प्रायशः क्रियाशब्देनेत्युक्तम्। ननु फलेऽपि क्रियाशब्दः प्रयुक्तो दृश्यते, तत्कथं भावनायामेव क्रियाशब्दस्य सांकेतिकी शक्तिरित्युच्यते, इत्याशङ्क्याऽऽहफलांशे क्वाचित्क इति। क्रियाशब्दे कृञः श चेति सूत्रेण कर्मणि शप्रत्ययः। तथा च क्रियते भावनारूपव्यापारेणोत्पाद्यते इति व्युत्पत्त्या फले यौगिकोऽयं क्रियाशब्दः, स चापि फलें क्वचिदेव प्रयुक्तः। क्वाचित्क इत्यनेन प्रयोगबाहुल्याभाव उक्तः। तेन फलांशे क्रियाशब्दस्य रूढ्यभाव इत्युक्तं भवति। योगात् प्रकृतिप्रत्ययार्थसंबन्धादागतो यौगिकः। अवयवशक्त्यसहकृतसमुदायशक्तिमात्रेणार्थप्रतिपादिका रूढिः, समुदायशक्तिनिरपेक्षावयवशक्त्याऽर्थप्रतिपादिका योगशक्तिः। अवयवार्थानुसंधानसापेक्षत्वेन योगार्थस्य विलम्बोपस्थितिकत्वाद्वहिरङ्गत्वं, अवयवार्थानुसंधानानपेक्षत्वेन तुःरूढ्यर्थस्य शीघ्रोपस्थितिकत्वादन्तरङ्गत्वमित्यन्तरङ्गत्वंहिरङ्गभावमूलकेन योगाद्रूढिर्बंलीयसीतिन्यायेन क्रियाशब्देन व्यापाररूपभावनाया एव ग्रहणावश्यकत्वेन भावनारूपक्रियान्वय एवाष्टकस्य साधुत्वं प्रतिपाद्यते न तु फलान्वयेनेति भाव इति। संज्ञाशब्दस्येति। रूढस्येत्यर्थः। अनपेक्ष्येति। प्रकृतिप्रत्ययात्मकावयवार्थमननुसंधायेत्यर्थः। संज्ञाशब्दस्य प्रकृतिप्रत्ययार्थाननुसंधानप्रवृत्तिकत्वेन बलीयस्त्वे मीमांसाधिकरणं प्रमाणीकरोतिअत एवेति। संज्ञाशब्दप्राबल्यादिति। सापेक्षप्रवृत्तिकशब्दापेक्षया निरपेक्षप्रवृत्तिकशब्दस्य बलीयस्त्वादित्यर्थः। नवमे निर्णीतमिति। नवमाध्याये द्वितीयपादे पञ्चमेऽधिकरणे रथंतरमुत्तराग्रन्थपठितयोरवेर्चोर्गेयमिति निर्णीतमित्यर्थः। तद्धि `यद्योन्यां गायति तदुत्तरयोर्गायति' इति वचने पदान्तरसापेक्षत्वपदान्तरनिरपेक्षत्वाभ्यामर्थप्रतिपादकयोर्द्वयोरुत्तराशब्दयोर्मध्ये पदान्तरनिरपेक्षार्थंप्रतिपादकोत्तराशब्दग्रहणनिर्णयाय प्रवृत्तम्। छन्दः, उत्तरा चेति द्वौ ग्रन्थौ समागानामृक्पाठार्थं स्तः। तत्र च्छन्दोनामके ग्रन्थे नानाविधानां साभ्नां योनिभूता एवर्चः पठिताः। उत्तराग्रन्थे तु तृचात्मकानि सूक्तानि पठितानि। एकस्मिंस्तृचे छन्दोगता योन्यृक्प्रथमा, इतरे द्वे उत्तरे। एवं स्थिते `तदुत्तरयोर्गायति' रथंतरयोन्युत्तरयोर्ऋचोर्गायतीत्यत्र द्विविधे उत्तरे संभवतः। छन्दोग्रन्थे `अभित्वा शूर' इतीयमृक् रथंतरयोनित्वेन पठिता। तस्या उपरि `त्वामिद्धि हवामहे' इत्यादयो बृहदादिसाम्नां योनयः पठिताः। उत्तराग्रन्ते तु `अभि त्वा शूर' इति सूक्ते तस्या ऋच ऊर्ध्वं `न त्वा वाँ अन्ये' इत्येषा साम्नः कस्याप्ययोनिभूता पठिता। तत्र च्छन्दोग्रन्थानुसारेण बृहदादिसामान्तरयोर्यानी द्वे ऋचौ रथंतरस्य स्वयोन्युत्तरे भवतः। उत्तराग्रन्थानुसारेण तृचगते द्वितीयतृतीये ऋचौ स्वयोन्युत्तरे भवतः। तत्र तदुत्तरयोरित्यत्रत्योत्तराशब्देन किं छन्दोग्रन्थानुसारेण रथंतरयोन्युत्तरभूते बृहदादिसामान्तरयोर्योनी `त्वामिद्धि हवामहे' इत्यादी द्वे ऋचौ ग्राह्ये, उत उत्तराग्रन्थानुसारेण रथंतरयोन्युत्तरे तृचगते कस्यापि साम्नोऽनोनिभूते द्वितीयतृतीये `न त्वा वाँ अन्ये' इत्यादी द्वे ऋचौ ग्राह्ये, इत्येवं संदेहे प्राप्ते सतिद्विविधो ह्यत्रोत्तराशब्दः। तत्रैको व्यवस्थावाची, अपरश्च ग्रन्थविशेषवाची। यश्च व्यवस्थावाची सोऽवध्यंशे नित्यसाकाङूक्षः। उत्तरयोरित्युक्ते तत्र कस्मादित्येवमवधअयाकाङ्क्षाया नियमेन जायमानत्वात्। तस्मादवधिवाचकपदान्तरसापेक्षत्वेनैवायं स्वार्थप्रतिपादकः। पदान्तरानपेक्षायां त्वनर्थक एव भवेत्। तदुक्तं शाबरभाष्येऽस्मिन्नेवाधिकरणे`सर्वे हि संबन्धिशब्दाः पदान्तरमनपेक्षमाणा न कंचिदप्यर्थमाहुः। तस्मादपेक्षितं पदान्तरम्। इतरथाऽपरिपूर्णार्थं वाक्यमनभिधायकमेव स्यात्कस्याचिदप्यर्थस्य'। संबन्धिशब्दाःनित्यं संबन्ध्यन्तरसापेक्षाः। उत्तराशब्दस्य वैदिकप्रयोगाद्ग्रन्थविशेषे संज्ञात्वेन विनुयुक्तस्य ग्रहणे तु तस्य पदान्तरनिरपेक्षत्वात्केवलं श्रवणमात्रेणैव परिपूर्मस्वार्थबोधकत्वम्। तदप्युक्तं तत्रैव`संज्ञासंज्ञिग्रहणे न पुनः पदान्तरमपेक्षते, श्रुत्यैव परिपूर्णार्थो गृह्यमाणासु पदान्तरान्तर्यमपेक्षितव्यं भवति' इति। एवं च बृहदादियोन्योरुत्तराशब्दस्य पूर्वऋक्सापेक्षत्वाद्यौगिकी प्रवृत्तिरिति तयोर्बिलम्बेनोपस्थितिः। उत्तराग्रन्थे तु तस्य रूढ्यपरपर्यायसंज्ञात्वेन प्रवृत्तिरिति ग्रन्थस्य झटित्युपस्थितिः। ततश्चोत्तराशब्देनात्रोत्तराग्रन्थे पठितयोरेव शीघ्रमुपस्तितिः कृतेति तत्रैव रथंतरं गेयं, न बृहदादियोनाविति सिद्धान्तितम्। एवं च तत्र यथा संबन्धिशब्दस्य तत्तत्संबन्धिप्रतीतिसापेक्षप्रवृत्तिकत्वेन विलम्बोपस्थितिकत्वाद्दौर्बल्यं, संज्ञाशब्दस्य तु निरपेक्षप्रवृत्तिकत्वेन शीघ्रोपस्थितिकत्वात्प्राबल्यं तथा प्रकृते योगार्थप्रतीतिसापेक्षप्रवृत्तिकयौगिकापेक्षया संज्ञाशब्दस्य योगार्थप्रतीतिनिरपेक्षप्रवृत्तिकत्वात्प्राबल्यमिति भावः।
ननु फलस्यापि `कर्मवत्कर्मणा' इति सूत्रे क्रियाशब्देन व्यवहारादस्तिभवतिविद्यतिषु साध्यत्वेन प्रतीयमानत्वात्सत्तादेरेव क्रियात्वोपपादनाच्च पळस्यापि क्रियाशब्देन ग्रहणे बाधकाभाव इत्याशङ्कयाऽऽहकिं च फलांशोऽपीति। व्यापारविशेषणमित्यर्थः। `फले प्रधानं व्यापारः' इत्युक्त्वादिति भावः। क्वचित्तथाभूतानीति। व्यापारविशेषणानीत्यर्थः। चैत्रस्तण्डुलं पचतीत्यादौ कर्तृतिङन्ते कारकाणां व्यापारविशेषणत्वेन दृष्टत्वादिति भावः। पक्तेत्यादौ कृदन्ते कारकाणां व्यापारं प्रति विशेष्यत्वाक्वचिदित्युक्तम्। गुणानां चेति। `गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्'(जै.सू.3122)अस्यार्थःगुणानांविशेषणानां, परार्थत्वात्विशेष्योपकारित्वात्, समत्वात्विशेष्योपकारित्वरूपसमानधर्मत्वात्, तेषां परस्परं संबन्धो गुणप्रधानभावेनान्वयो नस्यादिति। तथा च यथा फलस्य विशेष्योपकारित्वाद्विशेष्यभूते व्यापार एवान्वयस्तथा कारकाणामपि विशेष्योपकारित्वात्साक्षात्परम्परया वा व्यापार एवान्वयो, न तु क्वचिदपि फले, विशेषणत्वाविशेशान्निराकाङ्क्षात्वाच्च। कारकत्वस्य क्रियाजनकत्वरूपत्वेन जन्यक्रियांश एव तेषां साकाङ्क्षत्वादिति भावः। एतन्न्यायानुगुणं दृष्टान्तं स्वयमेवाऽऽहसर्वे सेवका इति। परस्परं गुणप्रधानभावमनापन्नाः सेवकाः प्राधान्येन यथा राजानमेव सेवन्ते तथा कारकाण्यपि परस्परनिरपेक्षाणी व्यापारमेव विशेष्यत्वेनाङ्गीकुर्वते, न गुणभूतं फलांशमिति न तत्रान्वय इत्यर्थः। किं च कारकाणां नित्यपरतन्त्राणां विशेष्याकाङ्क्षायां धात्वर्थफलांशस्य तथान्वययोग्यतायामपि तस्यापि परतन्त्रस्य विशेष्याकाङ्क्षापूरणसमर्थायां व्यापाररूपभावनायामेवान्वयाङ्गीकारे लौकिकन्यायं प्रदर्शयतिनहि भिक्षुक इति। यथा हि लोकव्यवहारे भिक्षुको भिक्षुकान्तरं न याचते सति भिक्षुकादन्यस्मिन्दातरीत्येवं दृश्यते तथा कारकाण्यपि गुणभूतानि गुणभूतं फलांशं विशेष्यतया नाङ्गीकुर्वते, सत्यामगुणभूतायां विशेष्यतयाऽङ्गीकारयोग्यायां व्यापारात्प्रकभावनायामित्यर्थः। मन्वत इति। अनेन न्यायेन कारकाणां फलान्वयं विहाय भावनान्वयमेव मीमांसका अपि मन्वत इत्यर्थः। एवं चेति। कारणाणां व्यापाररूपभावनायामेवान्वय इत्येवं नियमे चेत्यर्थः। यादृशः कार्यकारणभावः फलितस्तं दर्शयतिविशेष्यतयेत्यादि। कारकादीति। कालफलयोरादिपदेन ग्रहः। कारकादि, प्रकारोविशेषणं यत्रेत्येवमीदृशे शाब्दबोधे जननीये, विशेष्यतयाकारकादिनिष्ठविशेषणतानिरूपितविशेष्यतासंबन्धेन धातुजन्या या भावनोपस्थितिः सा कारणमित्यर्थः। चैत्रस्तण्डुलं पचतीत्यत्र लक्षणसमन्वयःचैत्रस्याभेदसंबन्धेन लडर्थकर्तर्यन्वयः। लडर्थकर्तुश्च निष्ठत्वसंबन्धेन भावनायांव्यापारेऽन्वयः, लडर्थकालस्यापि कालिकसंबन्धेन व्यापार एवान्वयः। तथा तण्डुलरूपस्य कर्मणो निष्ठत्वसंबन्धेन विक्लित्तिरूपे फलेऽन्वयः, फलस्य चानुकूलतासंबन्धेन व्यापारेऽन्वयः। चैत्रं प्रति लडर्थकर्ता विशेष्यः, व्यापारं प्रति च विशेषणम्। तथा तण्डुलं प्रति फलं विशेष्यं व्यापारं प्रति च विशेषणम्। तथा च चैत्राभिन्नलडर्थकर्तृनिष्ठः, तण्डुलनिष्ठविक्लित्त्यनुकूलो वर्तमानकालिको व्यापार इति व्यापारमुख्यविशेष्यकः शाब्दबोध इत्यर्थः। अत्र कर्तृकारकस्य व्यापारे साक्षादन्वयः, कर्मकारकस्य तु फले, फलस्य च साक्षाव्द्यापार इति परम्परया व्यापारे कर्मान्वयः। यथाऽधिकरणकारकस्य कर्तृकर्मद्वारा क्रियान्वयस्तथा कर्मणोऽपि फलद्वारा क्रियायामेवान्वयो न तु फल इति बोध्यम्।
ननु यत्र व्यापारस्य प्राधान्येव प्रतीतिः, यथा पचतीत्यादौ तिङन्ते। तत्रोक्तन्यायेन कारकाणि व्यापारमेव विशेष्यतयाऽङ्गीकुर्वन्तु नाम, किंतु यत्र व्यापारो गुणभूतस्तत्र कथं कारकाणि विशेष्यतया व्यापारमह्गीकुर्युरत आहयत्रापि पक्तेत्यादि। यत्र पक्तेत्यादिकर्त्रर्थकतृजाद्यन्तस्थले प्रकृतिप्रत्ययार्थर्योरिति न्यायेन कर्तुः प्राधान्यात्तद्विशेषणीभूता व्यापाररूपा भावना तत्रापि। निरुक्तकार्यकारणभावानुसारेण विशेषणीभूतभावनायामेव कारकान्वयः। यथा ओदनस्य पक्तेत्यत्र ओदनरूपस्य कर्मणो व्यापार एवान्वयो न तु फले। तस्यामेवेत्येकारेण फलान्वयस्य व्यावर्तितत्वादित्यर्थः। किं च धात्वर्थफले कारकान्वये वाजपेयाधिकरणमसंगतं स्यात्। तद्धि प्रथमाध्यायस्य चतुर्थपादे षष्ठमधिकरणम्। फलं धात्वर्थः, भावना आख्यातार्थः, धात्वर्थस्य च करणत्वेन भावनायामन्वयः। एवं स्थिते तत्रेत्थं पूर्वपक्षः`वाजपेयेन स्वाराज्यकामो यजेत' इत्यत्र वाजपेपॉयशब्देन गुणो विधीयते। वाजस्यान्नस्य पेयं द्रवीभूतो रस इति व्युत्पत्त्या बाजपेयशब्दो यवागूपरः। तथा च सोमेन यजेतेत्यत्र सोमरूपगुण इवात्र यवागूरूपो गुणो विधीयते। न च वाजपेयरूपगुणवता यागेन स्वराज्यं भावयेदित्यर्थलाभाय वाजपेयशब्दे मत्वर्थलक्षणाऽङ्गीकार्येति वाच्यम्। वाजपेयगुणे स्वाराज्यफले च यजेस्तन्त्रेण संबन्धे सति वाजपेयद्रव्येण स्वाराज्याय यतेतेत्येवमर्थलाभात्। ननु यागस्य गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यादित्येवं यागस्य कर्मकारकत्वं भवति। तथा यागेन स्वाराज्यं भावयोदित्येवं यागस्य फलसंबन्धे करणकारकत्वं भवति। तत्कथमुभयसंबन्ध इति चेन्न। यजेः साधारणत्वेनोभयरूपत्वसंभवात्। यजेतेत्यत्र यजधातुना याग उक्तः। प्रत्ययेन भावनोक्ता। तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते। तच्च कर्मत्वकरणत्वयोः साधारणम्। न तत्र कर्मत्ववाचिनी करणत्ववाचीनी वा काचिदसाधारणी विभक्तिः श्रूयते। अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सति यथोचितसंबन्धविशेषस्तत्र तत्र पर्यवस्यति। एवं तन्त्रेण संबन्धाङ्गीकारे वाजपेयद्रव्येन यागं कुर्यादित्यर्थस्य लभ्यमानत्वाद्गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणेति।
सिद्धान्तस्तुयजेस्तन्त्रेणोभयसंबन्धाङ्गीकारे यागे विरुद्धत्रिकद्बयापत्तिः स्यात्। तथा हिउद्देश्यत्वमनुवाद्यत्वं मुख्यत्वं चेति त्रयाणां धर्माणामेकं त्रिकम्। उपादेयत्वं विधेयत्वं गुणत्वं चेति त्रयाणां धर्माणामपरंत्रिकम्। एतत्त्रिकद्वयं मिथः क्रमेण विरुद्धम्। यजेतेत्यत्र प्र्तययवाच्यमावनायाः साध्यं स्वाराज्यफलम्। साधनं यागः। तत्राऽऽद्यमुद्देश्यत्वादित्रिकं साध्यभूतस्वाराज्यफलनिष्ठम्। द्वितीयमुपादेयत्वादित्रिकं साधनभूतयागनिष्ठम्। फलमुद्दिश्य याग उपादीयते। फलमनूद्य यागो विधीयते। फलं प्रधानंमुख्यं, याग उपसर्जनं गुणः। फलस्योद्देश्यत्वं नाम मानसापेक्षाविषयत्वम्। यागस्योपादेयत्वं नामानुष्ठीयमानत्त्रम्। तावुमौ मनःशरीरोपाधिको धर्मौ। अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ। ज्ञातस्य कथनमनुवादः। अज्ञातस्यानुष्ठेयत्वकथनं विधिः। फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे। एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वबावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रीकं, यागस्योपादेयवत्वादित्रिकं भवति। तथा यागस्य वाजपेयस्य च साध्यसाधनभावपर्यालोचनायां यागस्योद्देश्यत्वादित्रिकं, वाजपेयस्योपादेपत्वादित्रिकं च पर्यवस्यति। ततः प्रकृते यागस्य साधनत्वेन साध्यत्वेन चेति प्रकारद्वयेन प्रत्ययवाच्यभावनायां युगपत्तन्त्रेण संबन्धाङ्गीकारे साधनत्वमूलका उपादेयत्वादयस्त्रयो धर्मा यागेऽङ्गीकर्तव्याः। साध्यत्वाच्च तदानीमेव तत्रैव यागे उद्देश्यत्वादयस्त्रयो धर्माः प्राप्नुवन्ति। किं तूपादेयत्वादिभिः साकं विरोधादुद्देश्यत्वादयस्त्रयो धर्मास्तत्र तदानीमेव नाङ्गीकर्तुं शक्यन्ते। अतोऽत्र यागस्य साधनत्वेन साध्यत्वेन चेति प्रकारद्वयेन भावनायां युगपत्तन्त्रेण संबन्धो दुर्वच इति। अस्मिन्नधिकरणे धात्वर्थफलस्य यागस्य करणत्वेन भावनायामन्वये कृते तत्रैव यागे पुनः कारकान्तरान्वये विरुद्धत्रिकद्वयापत्तिर्दोषत्वेनोक्ता। यदि विशेषणीभूते घात्वर्थफले कारकान्तरान्वयः स्यात्तर्हि त्रिकद्वयापात्तिरूपदोषदानमसंगतं स्यादिति भावः। तस्माद्विशेषणीभूते धात्वर्थफले कारकाणामन्वयो नैव भवति किंतु विशेष्यभूते व्यापार एव कारकान्वय इत्यवश्यमङ्गीकार्यमित्याशयेनाऽऽहभूषणे प्रपञ्चितमिति। एवं च पाक इत्यादावोदनस्येत्यादिकारकान्वयसिद्धये व्यापाररूपभावनाया घञन्ते धातुवाच्यत्वमावश्यकमिति सिद्धम्। प्रकारान्तरेण कारकाणां व्यापारान्वयनियमं साधयतामन्येषां वैयाकरणानां मतमुपपादयन्नाहकेचित्त्वित्यादि। अन्वयबोधाकाङ्क्षानिवृत्त्योरिति। अन्वयबोधस्याऽऽकाङ्क्षानिवृत्तेश्चेत्यर्थः। अदर्शनादिति। भूतले धट इत्यत्र भूतलाभिन्नमधिकरणमेकत्वविशिष्टो घटश्चेत्यन्वयबोधस्य, देवदत्तो घटमित्यत्र घटाभिन्नं कर्मेत्याद्यन्वयबोधस्य च संभवेऽपि `सर्वं हि वाक्यं क्रियया परिसमाप्यते' इति न्यायेन वाक्यद्वये क्रमेणास्तिपश्यतीत्यादिक्रियामन्तरेण वाक्यघटकयावत्पदार्थानां परस्परमन्वयबोधाजननादाकाङ्क्षानिवृत्तेरप्यदर्शनादित्यर्थः। तवद्यतिरेकेणेति। सत्तादर्शनादिक्रियाध्याहारेण विना निरुक्तवाक्यद्वयस्य साधुत्वं न लभ्यत इत्यर्थः। आहुरिति। अनेन तदुक्तावस्वरसः सूचितः। स चाप्यसाधुत्वांशे। यदि तु क्रियासाकाङ्क्षावाक्ये साधुत्वं नेष्येत तर्हि `गामित्युक्ते कर्ता क्रिया चानिर्दिष्टे' इत्यादिभाष्योक्तेरसाधुतापत्तेः। वाक्यघटकयावत्पदार्थानां मिथोऽन्वयबोध आकाङ्क्षानिवृत्तिश्च योग्यक्रियाध्याहारेम निर्वाह्ये इत्याशयः। एतावता कारकाणां भावनान्वयनियमः कथं सिध्यतीति चिन्त्यमिति भावः।। 17 ।।
स्वयमित्यादि। निरुक्ताष्टकस्य क्रियान्वय एव साधुत्वे युक्तिमुक्त्वेदानीं क्रियानन्वये प्रतिबन्दीरूपां तां वक्तियदि पक्षेऽपि वत्यर्थ इति। यदि पक्षेसंदिग्धसाध्यवति पर्वतादौ, वत्यर्थःसादृश्यमन्वेति, कारकंअधिकरणादि, नञादिषुनञर्थाभावे, तदितरनामार्थे च, अन्वेतीतीष्येत नैयायिकैरित्यर्थः। तर्हि पुष्पेभ्य इत्यत्र तदितरानामार्थे च, अन्वेतीतीष्येत नैयायिकैरित्यर्थः। तर्हि पुष्पेभ्य इत्यत्र कारकचतुर्थीसिद्धये भवद्भिर्या स्पृहधातुप्रयोगकल्पना कृता सा परित्यक्तव्या भवतीति संक्षिप्तोऽर्थः। पर्वतो वह्निमानिति। तेन तुल्यमित्यनेन क्रियासादृश्ये विहितवतेः क्रियायामेवान्वय इत्येवं न नियमः। महानसवदिति दृष्टान्ते निरुक्तसूत्रेण विहतवतरेर्थस्य सादृश्यस्य पर्वत एवान्वयो, न क्रियायाम्। यथा महानसो वन्हिमांस्तथा पर्वतोऽपीति विवरणेन महानससदृशः पर्वत इत्यर्थप्रतीतेर्वत्यर्थसादृश्यस्य पर्वत एवान्वयस्य दृष्टत्वादित्यर्थः। तथा सप्तम्यधिकरणे चेत्यादिना विहितसप्तम्यादेरर्थस्याधिकरणादिकारकस्य क्रियायामेवान्वय इत्ययमपि नियमो न दृशअयते। `भूतले न घटः' इत्यत्र भूतलवृत्तित्वाभाववान् घटः, अथवा भूतवृत्तिर्घटाभाव इत्यर्थबोधात्कारकाधिकारविहिताधिकरणस्य नञर्थाभाव एवान्वयप्रतीतेः, भूतले घट इत्यत्र भूतलाधेयत्ववान्, भूतलवृत्तिर्वा घट इत्यर्थबोधादधिकरणकारकस्य नामार्थ एवान्वयपर्यवसानादित्यर्थः। एवं वत्यर्थसादृश्यस्य सप्तम्यर्थस्याधिकरणकारकस्य चानुशासनमनादृत्य नामार्थान्वयाङ्गीकारेण तयोः साधुत्वं स्वीकुरुध्वे चेत्तदत्यन्तायुक्तमित्याहत्यज्यतामिति। चतुर्थ्याः स्पृहीति। पुष्पेभ्य इति चतुर्थ्यन्तमात्रप्रयोगे स्पृहयतीतिशब्दाध्याहार एव स्पृहेरीप्सित इति विहितचतुर्थ्याः साधुत्वार्थमनुस्रियते, न तु तत्समानार्थकघात्वन्तरघटितपदाध्याहारो, नाप्यर्थाध्याहारो नैयायिकैस्तत्त्यज्यताम्। अनुशासनविरोधस्य तौल्यादित्यर्थः। अर्धजरतीयमिति। अर्धं जरत्या अर्धजरती, तत्सदृशमर्धजरतीयम्। समासाच्च तद्विषयादितीवार्थे छप्रत्ययइति व्याचक्षते। किंत्वत्रार्धजरतीत्येकदेशिसमासस्येवार्थविषयत्वं कथमिति चिन्त्यम्। एकदेशिसमासोत्तरं गहादित्वादिदमर्थे छ इति व्याख्यानेऽपि एकदेशिसमासस्य पूर्वपदार्थप्रधानत्वाज्जरत्या अर्धस्येदमित्यर्थः स्यात्स तु नेष्टः, किं तु जरत्या अर्धमिदमित्यर्धस्येदंशब्दस्य च सामानाधिकरण्यमभीष्टं न स्यादतः शिवभागवत इत्यत्रेव युगपद्वृत्तिः करणीया। अत्र शिवभगवच्छब्दयोः पूर्वं कर्मधारये कृते ततस्तद्धितवृत्तौ शैवभगवत इति स्यात्। आदौ तद्धितवृत्त्या भागवतं संसाध्य पश्चाच्छिवेन समासविवक्षायां शिवस्य भगवत्यन्वयो न स्यात्। न्तर्गतत्वेन भगवच्छब्दार्थस्यैकदेशत्वात्पदार्थः पदार्थेनेति न्यायात्। अतस्तत्र शिवभगवच्छब्दयोर्भगवदपत्यार्थयोश्च युगपद्वृत्तिद्वये कृते शिवस्य भगवतोऽपत्यमिति वृत्त्यर्थावबोधकं वाक्यं भवति। तद्वज्जरत्या अर्धेनेदमर्थेन च संबन्धविवक्षायां युगपद्वृत्तिद्वये कृते जरत्या इदमर्धमिति वृत्त्यर्थावबोधकवाक्ये इदमर्धशब्दयोः सामानाधिकरण्यं सिध्यति। जरत्या इदमिति जरतीयं, अर्धं च तज्जरतीयं चेति कर्मधारये कृत इदंत्वेन विवक्षितं यज्जरतीसंबन्धि, तदर्धमित्यर्थबोधान्निरुक्तरीत्याऽपि अर्धेदंशब्दयोः सामानाधिकरण्यं निर्वोढुं शक्यम्। ततश्च यथा जरत्या इदमर्धं कामयते, इदं नेत्ययुक्तं तथा क्वचित्पाणिन्यनुशासनमनुस्त्रयते, क्वचित्त्यज्यते चेत्येतदप्यर्धजरतीयसादृश्यादत्यन्तायुक्तमिति भावः।। 18 ।।
एवमिति। यथा निरुक्ताष्टकस्य क्रिययौवान्वयस्ततेत्यर्थः। अत्राऽऽदिशब्देन क्त्वातुमुनादीनां संग्रहः। भावार्थग्रहणम्। इन्यादीनामिति। अत्राऽऽदिशब्देन क्त्वातुमुनादीनां संग्रहः। क्रिययैवेति। गुणभूतयाऽपि क्रिययैवेत्यर्थः। एवकारणं लिङ्गसंखअयाद्यन्वयिद्रव्यव्यवच्छेदः। अन्वयः संबन्ध इत्यर्थः। तदाहअविग्रहा गतादिस्था इति। विविच्येति। विशेषणतामनापद्येत्यर्थः। दिशेष्यतयेति यावत्। न ग्रहणं यस्या इत्यर्थः। एतत्फलितमाहगुणीभूतेति इतरविशेषणतापन्नेत्यर्थः। ग्रामं गत इति। गम्धातोर्गत्यर्थाकर्मकेति कर्तरिक्तः। प्रकृतिप्रत्ययार्थयोरिति क्तप्रत्ययार्थः कर्ता विशेष्यः। तद्विशेषणं प्रकृत्यर्थः पुरोदेशसंयोगानुकलो व्यापारः। संयोगानुकूलव्यापाराश्रय इत्यर्थः। तत्र क्तप्रत्ययार्थकर्तृविशेषणीभूतव्यापारजन्यसंयोगाश्रयत्वेन कर्मत्वाद् ग्रामरूपस्य कर्मणो विशेषणीभूतव्यापारेणैवान्वयः, कारकादिप्रकारकबोधे जननीये विशेष्यतासंबन्धेन धातुजन्यभावनोपस्थितेर्हेतुत्वस्य क्लृप्तत्वात्। तथा च ग्रामनिष्ठसंयोगानुकूलव्यापाराश्रयश्चैत्र इति बोधः। तथेति। यथा ग्रामं गत इत्यत्र क्तप्रत्ययार्थकर्तारं प्रति विशेषणीभूता गमनक्रिया ग्रामरूपकर्मणा संबध्यते तथा कृतपूर्वीत्यत्रेन्यर्थकर्तारं प्रति विशेषणीभूता कृधात्वर्थक्रिया कटरूपकर्मणा संबध्यत इत्यर्थः। कृतपूर्वीति। कटः पूर्वं कृतोऽनेनेति लौकिकविग्रहः। तत्र पूर्वमिति क्रियाविशेषमणम्। कृतपूर्वशब्दयोः सुप्सुपेति समासः। अनेनत्यनुवृत्तौ कृतपूर्वशब्दात् `पूर्वादिनिः, सपूर्वाच्च' इति कर्तरीनिप्रत्बयः। तत्र करोतिक्रयापेक्षया कटस्य कर्मत्वात्कटमिति द्वितीया। ननु कृतः कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन समासो न संभवति। कृतशब्दस्य कटसापेक्षत्वेन सामर्थ्यविरहात्। समासाभावादेव चेनरप्यसंभवः। किं च कृत इति क्तप्रत्ययेन कटस्य कर्मणोऽभिहतत्वात्ततो द्वितीया न प्राप्नोतीति चेन्न। कृतअम् पूर्वअम् इत्यलौकिकविग्रहवाक्ये कटस्यासंनिहिततया कर्मत्वेनान्वयासंभवेन कृञ्धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्यासंभवे सति `नपुंसके भावे क्तः' इति भावे क्तप्रत्यये सति कृतशब्दस्य कटसापेक्षत्वाभावात्समास इनिश्च निर्बाधौ। कर्मणोऽभिहितत्वाभावाश्च। ततश्च कृतपूर्वीति इन्नन्तस्य पूर्वकालिकक्रियाकर्ता `पूर्वं कृतवान्' इत्यर्थः पर्यवस्यति। ततः कर्मत्वविवक्षया किं कृतवान्? इति कर्मजिज्ञासायां कटस्य करोतिक्रियापेक्षया कर्मत्वात्ततो द्वितीया। कटनिष्ठकर्मत्वं च न क्तप्रत्ययेनाभिहितं, तस्य भावे विधानात्। नापीनिना, तस्य कर्तरि विधानात्। ननु कटमित्यत्र द्वितीयां बाधित्वा कर्तृकर्मणोरिति षष्ठी स्यात्कॉद्योगसत्त्वादिति शङ्क्यम्। न च निष्ठायोगे निषेधादेव षष्ठी न भवेदिति वाच्यम्। `नपुंसके भावे क्तस्य योगे षष्ठ्या उपसंखअयानम्' इति वार्तिकवचनेन निष्ठायोगे षष्ठीनिषेधस्यात्राप्रसक्तेरिति चेन्न। तत्र कृद्ग्रहणसामर्थ्याद् वृत्त्यन्तर्भावानापन्नकृद्योगस्य षष्ठीप्रयोजकत्वाङ्गीकारात्। प्रकृते च कृतेत्यस्य तद्धितक्वृत्त्यन्तर्भूतत्वान्न तद्योगः षष्ठीप्रयोजकः। तथा च षष्ठ्यभावे उक्तरीत्या कर्मणोऽनभिहितत्वाद्द्वितीया सुलभैव। एवं च कटं कृतवानित्यत्रेव कटमिति कर्मण इत्यर्थकर्तारं प्रति विशेषणीभूतयैव करोतिक्रिययाऽन्वयः। कारकप्रकारकबोधं प्रतीत्यादिनिरुक्तकार्यकारणभावानुसारादित्यर्थः। कटनिष्ठोत्पत्त्यनुकूलपूर्वकालिकक्रियाकर्तेति, एककटाभिन्नाश्रयिका योत्पत्तिस्तदनुकूलव्यापारवानिति कृतपूर्वीकटमित्यस्माद्बोधः। इन्यादिभिरिति। इन्याद्यर्थकर्त्रादिभिर्गुणभूतेति योजना। इन्यथंकर्तारं प्रति गुणभूता करोतिक्रिया कटकर्मणा संबध्यत द्दति यावत्। अथवा स्ववाचकप्रकृतिकक्तप्रत्ययार्थं प्रति विशेषणभूता करोतिक्रिया इन्यर्थकर्त्रा संबध्यते, इति व्याख्येयम्। स्वंक्रिया, तद्वाचकः कृघातुः, तत्प्रकृतिकः क्तप्रत्ययः, तदर्थो भावः, स च लिङ्गसंख्याद्यन्वितस्तं प्रति गुणभूता करोतिक्रियेति लक्षणसंगतिः। क्तप्रत्ययार्थभावनिरूपितविशेषणबूतकरोतिक्रियानिरूपितमित्यर्थस्य कर्तृत्वमिति यावत्। तेन `कर्त्रादौ विहितानामिन्यादीनां क्रिययैवान्वयः' इत्यवतरणग्रन्थानुगुण्यं भवतीति भावः। ननु गत इत्यादौ कृद्वृत्तिसत्त्वेन वृत्तौ चैकार्थीभावरूपसमुदायशक्त्यङ्गीकारेण गतपदार्थैकदेशगमनक्रियायां ग्रामादिकर्मणामन्वयो दुर्वचः, तत्र गमनक्रियायाः पदार्थैकदेशत्वादित्याशङ्कतेन चेत्यादि। वृत्तिमात्र इति। मात्रं कार्त्स्न्येऽवधारण इति कोशान्मात्रशब्दोऽत्र कृत्स्नार्थकः। कृत्स्नवृत्तिष्वित्यर्थः। वक्ष्यमाणत्वादिति। समासे खलु भिन्नैव शक्तिःइत्यनेन वृत्तिमात्रोपलक्षकसमासग्रहणात्कृत्तद्धितसमासैकशेषसनाद्यन्तधआतुरूपासु पञ्चस्वपि वृत्तिष्वेकार्योभावरूपायाः समुदायशक्तेर्वक्ष्यमाणत्वादित्यर्थः। कथं तत्रान्वय इति। पदार्थः पदार्थेनान्वेति न तु पदार्थैंकदेशेनेति नियमात्पदार्थैकदेशव्यापारे ग्रामकर्मणोऽन्वयः कथमित्याक्षेप इत्यर्थः। तथा चासंगतमिदं दृष्टान्तोपन्यसनमिति भावः। समाधत्तेनित्यसापेक्षेष्वित्यादि। नित्यं संबन्ध्यन्तरसापेक्षेषु शब्देषु उपसर्जनतया वृत्तिघटकेषु सत्स्वपि तेषु वृत्त्येकदेशभूतेष्वेव तन्निरूपितविशेषणस्य देवदत्तादेरन्वयो भवति। एकदेशान्वयेऽपि देवदत्तस्य योगुरुस्तत्कुलमित्यर्थबोधजनकत्वात्। एवं चैकदेशान्वयप्रतिबन्धकं तस्य तादृशार्थबोधाजनकत्वं, यथा ऋद्धस्य राजपुरुष इत्यत्र ऋद्धस्य राज्ञ्यन्वयेऽपि ऋद्धो योराजा, ऋद्धस्य यो राजेति वेत्यर्थबोधाजननम्। राज्ञो यः पुरुषः स ऋद्धसंबन्धीत्येव तत्र बोधात्। तच्च प्रतिबन्धकं नित्यसापेक्षेषु नास्तीत्यर्थः। तदुक्तं वाक्यपदीयेसंबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते।। इति। हि यतो देवदत्तस्य गुरोः कुलमिति वाक्ये या व्यपेक्षाआकाङ्क्षा सा वृत्तावपि न हीना भवति, न निवर्तते, अतो नित्यसापेक्षः शब्दः समस्यते, समासघटके च तस्मिन्विशेषणान्वयो भवति, भवति च देवदत्तस्य यो गुरुरित्याद्यर्थबोघः, तादृशार्थबोधानन्तरमेवाऽऽकाङ्क्षानिवृत्तेरिति तदर्थः। एतत्सर्वमनुसंधायाऽऽहदेवदत्तस्य गुरुकुलमिति। गुरुत्वस्य शिष्यमन्तराऽनुपपद्यमानत्वाद् गुरुः शिष्यांशे नित्यसापेक्षः। शिष्यश्चात्र देवदत्तः। तस्य च पदार्थैकदेशे गुरावन्वये भवति ततोऽपेक्षितार्थबोध इति पदार्थः पदार्थेनेति नियमो नित्यसापेक्षव्यतिरिक्तविषय इत्याशयः। केचिज्जरन्नैयायिका न समासे शक्ति, नापि समासे पूर्वपदे लक्षणामङ्गीकुर्वते। किंतु राजपुरुष इत्यत्र पुरुषपदं राजसंबन्धिपुरुषपरं राजपदं तात्पर्यग्राहकमित्येवमुत्तरपदलक्षणां वदन्ति। तद्रीत्याऽत्र गुरुर्न पदार्थैकदेश इति तत्र विशेषणान्वयस्य साहजिकत्वान्नायं दृष्टान्त इत्यतो दृष्टान्तान्तरं दर्शयतिचैत्रस्य नप्तेति। जन्यशरीरजन्यशरीरं नप्तृपदार्थः। चैत्रः पितामहः, तत्पुत्रो वैशाखः, तत्पुत्रो ज्येष्ठः। तत्र चैवाजन्यशरीरं वैशाखस्य, वैशाखजन्यशरीरं च ज्येष्ठस्येति ज्येष्ठश्चैत्रस्य नप्ता पौत्र इत्यर्थः। तत्र जन्यशरीरजन्यशरीररूपनप्तृपदार्थैकदेशे जन्यत्वे चैत्रस्येति षष्ठ्यन्तार्थस्य स्वनिरूपितत्वादिसंबन्धेनान्वयः। चैत्रनिरूपितजन्यत्ववच्छरीरजन्यशरीरमित्यर्थः। नन्वत्रापि चैत्रस्येति षष्ठ्यन्तार्थस्य न नप्तृपदार्थैकदेशे जन्यत्वेऽन्वयः, किं तु स्वजन्यजन्यत्वसंबन्धेन नप्तृपदार्थविशेष्यभूते शरीर एवान्वयः। जन्यजन्यत्वसंबन्धार्थिका षष्ठीत्यर्थः। तथा च चैत्रजन्यजन्यत्ववच्छशरीरमिति बोधः। अत आहइत्यादाविति। आदिपदाद् घटादन्यः, घटात्पृथगित्यादिपरिग्रहः। अन्यपदार्थैकदेशे भेदे पञ्चम्यन्तार्थघटप्रतियोगित्वस्यान्वयः। घटप्रतियोगिकभेदवानित्यर्थः। तथा पृथक्पदार्थैकदेशे पृथक्त्वे पञ्चम्यन्तार्थघटावधित्वस्यान्वयः। घटावधिकपार्थक्यवानिति बोधः। यद्यपि सर्वत्रैवैकदेशघटितपरम्परासंबन्धेनान्वय इति भाष्य उक्तम्। तदुक्तं हरिणासमुदायेन संबन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह।। इति। येषामर्थानां गुरुकुलादिरूपसमुदायेन संबन्धः,(एतेन एकदेशघटितत्वरूपपरम्परासंबन्धोऽर्थो देवदत्ताद्युत्तरषष्ठ्या इति सूचितम्)तेऽप्यर्था अवयवान् गुर्वादीन् संस्पृश्य संबध्य तद्बताअवयववता समुदायेन गुरुकुलादिना युज्यन्त इति तदर्थात्। अवयवान् संस्पृश्येति वदताऽत्रापि पक्षेऽवयवानां विशेषमसंबन्धलाभः सूचितः। तथाऽप्युक्तस्थले एकदेश एवाऽऽकाङ्क्षासत्त्वादनुभवानुरोधाच्चैकदेशान्वयपक्ष एवाङ्गीकृतः। अत एव देवदत्तस्य गुरुकुलमित्यादिवाक्यजन्यशाब्दबोधोत्तरं गुरुर्देवदत्तीयो न वा, जन्यत्वं चैत्रीयं न वेत्यादिसंशयानुत्पत्तिश्चाऽऽञ्जस्येन संगच्छते। एवं च निरुक्तोदाहरणेषु यथा पदार्थैकदेशेऽपि गुर्वादौ विशेषणस्य देवदत्तादेरन्वयोऽभ्युपगतस्तथा पदाथैंकदेशे गुणभूतभावनायामेव ग्रामादिकर्मणामन्वयाभ्युपगमे बाधकाभाव इत्याशयः। उक्तमर्थमन्यत्राप्यतिदिशतिएवमिति। यथा गतपदार्थैकदेशगुणभूतक्रियायां ग्रामादिकर्मणामन्वयस्तथा भोक्तुं पाक इत्यादावपि पाक इत्यत्र कृद्वृत्तिसत्त्वेन पाकपदार्थैकदेशासत्त्वभूतगुणक्रियायां तुमुनोऽन्वय इत्यर्थः। भोक्तुं पाक इति। तुमुन्ण्वुलौ क्रियायामिति सूत्रेण विहितस्य तुमुनः। क्रियायोग एव विधानादसत्त्वभूतधातूपस्थाप्यक्रियायामन्वयात्साधुत्वमित्यर्थः। भुक्त्वा पाक इति। समानकर्तृकयोः क्रिययोर्मध्ये पूर्वकालसंबन्धिक्रियावाचकात्क्त्वेत्यर्थकसमानकर्तृकयोरिति सूत्रेण विधुत्वं बोध्यम्। अत्र धातुसंबन्धाधिकारात्क्रिपयोरिति लब्धम्। `अव्ययकृतो मावे' इति वार्तिकाद्भाव एवार्थस्तुमुनादेः। अवेदं बोध्यम्पाक इत्यादिघञन्ते प्रकृतिप्रत्ययभागाभ्यां विशेषणविशेष्यभावापन्नासत्त्वसत्तवस्वभावे द्वे क्रिये प्रतिपाद्येते। प्रकृतिभागेनासत्त्वस्वभावा क्रिया, प्रत्ययभागेन च सत्त्वस्वभावा क्रियोपस्थाप्यभोक्तुं, भुक्त्वा, इत्यत्र प्रकृतिप्रत्ययार्थयोः क्रिययोर्वशेषणविशेष्यभावः समानः, किं तु पाक इत्यत्र प्रत्ययार्थक्रियायां यथा लिङ्गसंख्याद्यन्वयित्वरूपं सत्त्वस्वभावात्मकं वैलक्षण्यं प्रतीयते, तादृशं वैलक्षण्यं भोक्तुं, भुक्त्वा इत्यत्र प्रत्ययार्थक्रियायां न प्रतीयत इति विशेषः। एवं चासत्त्वस्वभाव एव भावस्तुमुनादेरर्थ इति। तस्मात्पाक इत्यादौ धात्वंशक्रियां व्यापाररूपामादाय कर्मकरणादिविभक्तिवत्कृतपूर्वो कटमित्यादावपि कर्त्राद्यर्थकाः प्रत्यया इति बोध्यम्।
परे तु भोक्तुं पाकः, भोक्तुं गत इत्याद्यसाध्वेव। यत्र कार्ये क्रियावाचकशब्दश्य ग्रहणं तत्र प्राधान्येन साध्यमात्रावस्थक्रियावाचिनो ग्रहणात्। यत्र तु क्रियारूपार्थस्य ग्रहणं तत्र गुणभूतक्रियावाचिनोऽपि ग्रहणम्। अत एव गतपाकादियोगे कारकविभक्तिकृत्वसुच्क्त्वादीनां साधुत्वमित्याहुः। तस्यायमाशयःतुमुन्ण्वुलाविति सूत्रे क्रियार्थायामिति स्त्रीलिङ्गनिर्देशेन क्रियार्थायाः क्रियाया एव लाभे सिद्धे पुनः क्रियाग्रहणेन प्राधान्येन साध्यमात्रावस्थक्रियाप्रतिपादके सति धातोस्तुमुन्ण्वलावित्यर्थः। तथा च गत्यर्थेति कर्तरि क्तप्रत्ययान्ततया कृदन्ते प्रत्ययार्थस्य प्राधान्येन गतशब्दस्य द्रव्यवाचितया क्रियावाचकत्वाभावेन तुमुन एव तत्राप्राप्तेः। एवं पाक इत्यत्र घञो भावार्थकत्वेऽपि `कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति भाष्योक्तेर्लिङ्गसंख्याद्यन्वयित्वरूपद्रव्यधर्मग्राहितया पाकशब्दस्यापि द्रव्यवाचित्वं बोध्यम्। ननु गतशब्दादौ धातोः साध्यमात्रावस्थक्रियावाचितया तन्निबन्धनस्तत्र तुमुन् स्यादिति चेद्भ्रान्तोऽसि। तुमुन्विधौ क्रियार्थोपपदस्येत्यर्थमुपपदसंज्ञाया आवश्यकत्वेनोपपदमिति महासंज्ञया क्रियाफलकक्रियावाचकप्रवृतिके पदे सति तुमुन्ण्वुलावित्यर्थस्याऽऽवश्यकत्वात्। तथा च साध्यमात्रस्वभावक्रियावाचकपदनिक्न्धनस्तुमुन्, साध्यमात्रस्वभावक्रियावाचकत्वेऽपि धातोः पदत्वाभावान्न प्राप्नोतीति भावः। तादृशं च पदं तिङन्तमेव। अत एवात्र सूत्रे न क्रियारूपार्थग्रहणं, किं तु क्रियावाचकशब्दग्रहणम्। उपपदसंज्ञाया पदसंज्ञकशब्दनिष्ठत्वादिति भावः। यत्तूच्यतेतपुंसके भावे क्तस्य धात्वर्थानुवादकत्वेन साध्यमात्रवस्थक्रियावाचकत्वाद्तद्योगे भोक्तुं गतमित्यत्र तुमुन् दूर्वार इति। तत्र साध्यमात्रावस्थक्रियावाचकप्रकृतिभागमादाय तुमुनाशङक्यते चेत्प्रकृतिभागस्य पदत्वाभावत्तदर्थस्य विशेषणत्वेनाप्रधान्याच्च तदाशङ्काया असंभव एव। कृति प्रत्ययार्थस्य प्राधान्येन क्तप्रत्ययस्य प्राधान्येन साध्यमात्रावस्थक्रियावाचित्बात्तदन्तस्य पदत्वाच्च तद्योगे तुमुनाशङ्क्यते चेत्तदपि न। कृदभिहितो भावो द्रव्यवत्प्रकाशते, इति भाष्योक्तेगंतंशब्दोऽपि न क्रियावाची, हन हि वचिरन्तीति। अन्तिपरकाद्वचेः `वदन्ति' इत्यत्रेव वचनार्थाप्रतीतेर्यथा तादृशो वचिर्न प्रयुज्यते शाब्दिकैः प्रामाणिकैस्तद्वत्क्रियाजन्मगणनरूपार्थाप्रतीतेस्त्रिः पाक इत्यादि न प्रयोक्तव्यमित्यर्थः। नन्वभ्यावृत्तिगणन इत्यत्रोपसर्गबलेन वृनुधात्तोरुपत्तौ शक्तेर्नियमितत्वादभ्यावृत्तिशब्दस्य पुनः पुनर्भवनमर्थः। जन्मेति यावत्। तच्च जन्म नैकं, एकस्य गणनायोग्यत्वात्। किं त्वनेकं, अनेकस्यैव गणनार्हत्वात्। तथा च पुनः पुनर्जन्मनो गणनं संखअयानमभ्यावृत्तिगणनम्, तत्र द्रव्यगुणयोः स्वभावसिद्धयोर्न गणनयोग्यं पुनः पुनर्जन्म, यत एकैवतेषामुत्पत्तिः। क्रियायास्तु धातुतो निवृत्तभेदाया एव प्रतीतेर्भवति पुनः पुनरुत्पत्तिर्नाप्यावृत्तिः। पुनः पुनर्जन्मयोग्यस्यैव जन्म चाभ्यावृत्तिपदेनोच्यते, अभ्येत्युपसर्गद्वयस्वारस्यात्। पुनः पुनर्जन्मयोग्या च क्रियैव, न द्रव्यादीत्यभ्यावृत्तिग्रहणादेव क्रियाया लाभे सति पुनः क्रियाग्रहणादत्र साध्यमात्रावस्थैव क्रिया गृह्यते। पाक इत्यादौ च घञुपस्थाप्या तु नोक्तस्वरूपेति न द्विस्त्रिः पाक इत्यादौ सुच्प्रयोग इत्याशयवानाहकेचित्त्वित्यादि। पाक इत्यादौ तादृशीति। पाकशब्दे घञुपस्थाप्या क्रिया साध्यमात्रस्वभावा नैवेत्यर्थः। न च घ़ुपस्थाप्यायास्तथात्वाभावेऽपि तत्प्रकृतिभूतपच्धातूपस्थाप्यक्रियायाः साध्यमात्रस्वभावत्वाक्षतेस्तन्निमित्तकः सुच् दुर्वार इति वाच्यम्। कृदन्ते प्रत्ययार्थस्य प्रायः प्राधान्यदर्शनात्प्राधानभूतया घञर्थक्रियया आत्मनेव स्वप्रकृत्यर्थविशेषणीभूतक्रियागतसाध्यगात्रस्वभावत्वप्रयुक्तकार्यस्याभिभवादित्याशयात्। नन्वेवं रीत्या द्विर्वचनं, द्विः प्रयोगः, इत्याद्यपि न स्यादिति तादृशप्रयोगाणां का गतिरत आहद्विर्वचनमिति चेत्यादि। भाष्यकारादिभिः तादृशप्रयोगकरणाद्द्विर्वचनेऽचीति निर्देशाच्च भावार्थकप्रत्ययप्रकृतिभूततादृशप्रयोगघटकधातूपस्थाप्यक्रियामादाय द्विशब्दे सुज्भवतीति ज्ञाप्यत इत्यर्थः। एवं च विशेषणीभूतक्रियामादाय सुजादिकरणे यत्र सूत्रकारादीनामनुग्रहो दृश्यते तत्रैव कृत्वोर्थाः साधुत्वं लभन्त इति कल्पनात्सर्वं सुस्थम्। अत्र केचित्त्वित्यनेनारुचिः सूचिता। तद्विजं तु द्विर्वचनेऽचीति निर्देशेन यथाकथंचिदपि क्रिया ग्राह्येति ज्ञापनस्यैव न्याय्पत्वात्। क्रियाभ्यावृत्तीत्यत्रत्यं क्रियाग्रहणं स्पष्टार्थमुत्तरार्थं वेति स्पष्टं कैयटादाविति बोध्यम्।। 20 ।।
ननु धाताविवाऽऽख्यातेऽपि भावनाबोधकतारूपा शक्तिस्क्षतैव, मीमांमसकानां तिङ्प्रत्ययाद्भावनाबोधस्य जायमानत्वात्। तथा च कथं धातोरेव वाच्या भावना, न तिङ्प्रत्ययस्येति निर्णीयते, इत्याशङ्कतेननु सिद्धान्त इति। आख्यातशक्तिग्रहेति। आख्याते तिबादिप्रत्यये भावनाबोधकताशक्तिरस्तीति ग्रहवतां मीमांसकादीनामित्यर्थः। बोधादिति। तिबादिप्रत्ययाद्भावनाबोधोदयादाख्याते भावनाबोधकताशक्तिरावश्यकीति भावः। तथा च धातोरेव भावना वाच्यत्यनिर्णय इत्याशङ्कायां समाधत्तेभेद्यबेदकसंबन्धेति। भेद्यंविशेष्यं, भेदकंविशेषणं, तयोर्यः संबन्धस्तादृशसंबन्धरूपो य उपाधिस्तस्य यो भेदः, विशेष इत्यर्थः। तन्निबन्धनमिति। विशेष्यविशेषणभावसंबन्धनिमित्तकं साधुत्वमित्यर्थः। अयं भावःयस्मिन्विशेष्ये यादृशविशेषमान्विते यादृगानुपूर्व्या सूत्रवार्तिकभाष्यकाराद्यन्यतमेन साधुत्वमुक्तं स शब्दस्तत्र साधुरन्यत्रासाधुरेव। अत एव दन्त्यसकारमध्योऽस्वशब्दोऽश्वो साधुर्न, किं तु निर्घने साधुः। एवं तालव्यशकारमध्योऽश्व शब्दोऽश्वे साधुः, न दरिद्रे। एवमाख्यातस्य कर्तुरनभिधायकत्वे धातोश्च भावनानभिधायकत्वेऽसाधुत्वमेव स्यात्। व्याकरणेन तथैव साधुत्वबोधनादिति। ननु व्याकरणं साधुत्वान्वाख्यायकमेव, न तु शक्तिग्राहकम्। अत एव `अथ शब्दानुशासनम्' इत्येव महाभाष्य उक्तम्। ` साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः' इतिवाक्यपदीयेऽपि `साधुत्वज्ञानविषया' इत्येवोक्तं, न त्वर्थबोधिकेत्याशङ्कां दूरीकुर्वन्नाहअयमर्थ इत्यादि। व्याकरणशास्त्रं, अच्परकेगुच्चारणप्रसङ्गे यणुच्चारणीयः, यण्घटितं च तत्साध्वित्येवं शब्दसाधुत्वप्रतिपादकमित्यर्थः। तत्रैंवेति। साधुशब्देष्वेवेत्यर्थः। अवच्छेदकतयेति। अर्थबोधजनकतावच्छेदतया कल्प्यमानो यो धर्मः सैव शक्तिरित्येवं मन्वानानां मीमांसकानां मत इत्यर्थः। एकमेवेति। जनकताया अवच्छिन्नत्वनियमेन जनकतावच्छेदकतया धर्मकल्पनाऽऽवश्यकीति साधुत्वस्यैव शक्तत्वं युक्तमिति शक्तत्वं साधुत्वमित्येकमेव नार्थान्तरमित्यर्थः। साधुशब्देभ्य एवार्थबोधोत्पत्त्यङ्गीकारेण शक्तेः साधुशब्दमात्रवृत्तित्वेन शक्तत्वस्यैव साधुत्वादिति भावः। तद्रीत्येति। निरुक्तमीमांसकरीत्येत्यर्थः। साधुत्वनिर्णय एव शक्तिनिर्णय इति। शक्तिग्रहं व्याकरणोपमानेत्याद्यभियुक्तोक्तौ शक्तिग्राहकेषु प्रथमतो व्याकरणस्य निर्देशाद् व्याकरणस्य तत्तदर्थपुरस्कारेम तेषां तेषां पदानां साधुत्वबोधनार्थं प्रवृत्तत्वेन व्याकरणशास्त्रस्य शक्तिनिर्णायकत्वस्य निष्प्रतिबन्धं सिद्धत्वेन लः कर्मणीत्यादिब्याकरणशास्त्रविरोधाद् भावनाभिप्रायेण तिङ्प्रयोगोऽसाधुरेवेति भावः। ननु साधुत्वं न शक्तत्वं, असाधुशब्दादप्यर्थबोधदर्शनात्। किं तु साधुत्वापेक्षयाऽत्तिरिक्तं तत्। अत एव साधुः शक्त इति प्रयोगः संगच्छते। तयोरेकत्वे तु सहप्रयोगानुपपत्तेरित्याशयेनाऽऽहअतिरिक्तशक्तिवादेऽपीति। साधुत्वमनपभ्रष्टत्वादिरूपं, शक्तिस्त्विच्छाविशेषः पदार्थान्तरं वेति साधुत्वापेक्षयाऽतिरिक्ता शक्तिरित्येवंवादेऽपीत्यर्थः। `नित्ये शब्दार्थसंबन्धे' इत्यत्र समानायामर्थावगतौ शब्देन चापशब्देन चेति धर्मनियमः क्रियते साधुभिर्भाषितन्यं नासाधुभिर्गम्यागभ्योतिवदित्युक्तं, अत्र साधुत्वापेक्षयाऽऽतिरिक्ता शक्तिरिति स्पष्टम्। स्यादेवेति। व्याकरणस्मृतेः शब्दसाधुत्वज्ञापनार्थं प्रवृत्तत्वेऽपि साधुत्वस्य तत्तदर्थविशेषपुरस्कारनिबन्धनत्वेनाऽऽर्थसमाजवशादेवाऽऽयातं शक्तिनिर्णायकत्वमिति कृत्वा व्याकरणविरोधादग्नये स्वाहेति चतुर्थ्यऽग्निनेति तृतीया प्रयोगस्येव भावनायां तिबादिप्रत्ययप्रयोगस्यासाधुता स्यादेवेत्यर्थः। अयं भावः वाक्यस्फोट एव मुख्य इति वैयाकरणसिद्धान्तः। स्फोटो नाम स्फटति प्रकाशतेऽर्थोऽस्मादिति व्युत्पत्त्या वाचक इति। तथा च वाक्यस्फोट इत्यस्य वाक्यं वाचकमित्यर्थः। शक्तिग्राहकशिरोपणिना वृद्धव्यवहारेण प्रथमं वाक्य एव शक्तिग्रहात्तस्यैव लोकेऽर्थबोधजनकत्वान्निराकाङ्क्षस्यार्थस्य वाक्यादेव ज्ञानेन तेनैवार्थस्य परिपूर्णत्वदर्शनाच्च वाक्यस्फोटस्य मुख्यत्वम्। तत्र देशकालर्तृभेदन वाक्यानामानन्त्यात्प्रतिवाक्ये संकेतग्रहस्यात्यन्तासंभवान्निखिलवाक्यानामन्वाख्यानस्य लघूपायेनाशक्यत्वाच्च कल्पनया तत्र पदानि प्रविभज्य पदेषु च प्रकृतिप्रत्ययविभागं परिकल्प्य कल्पिताभ्यामन्वयव्यतिरेकाम्यां पदप्रकृतिप्रत्ययार्थविभागं च परिकल्पयन्ति स्म पाणिन्यादय आचार्याः। तेन घटमानयेत्यादिवाक्ये घटशब्दस्य कम्बुग्रीवादिमानर्थः, आनयेत्यस्य च मत्समीपदेशसंयोगानूकूला क्रियाऽर्थः एवमश्वं नय, गां बधानेत्यादिवाक्येऽप्यूह्यम्। तथा च तालव्यशकारमध्योऽश्वशब्दस्तुरगे साधुः, दरिद्रे त्वसाधुः। पूर्वोक्तरीत्या कल्पितान्वयव्यतिरेकाभ्यां तुरगार्थं एवाश्वशब्दशक्तिकल्पनादिति। न्वस्त्वसाधुतेत्याहयाज्ञे सर्मणीति। यथा यज्ञकर्मणि असाधुशब्दप्रयोगे प्रायश्चितमुक्तं तथा आख्यातस्य भावनायां शक्तिरित्येवंग्रहवद्भिर्याज्ञे कर्मणि भावनाभिप्रायेणाऽऽख्याते प्रयुक्ते सति नानृतं वदेदिति निषेधोल्लङ्घनप्रयुक्तं प्रायश्चित्तं तेषां प्राप्नुयात्। सूत्रकारादिभिराख्यातस्य भावनायामननुशासनात्कर्त्राद्यर्थ एव तद्विधानादिति भावः। ननु जैमिनिमहामुनिसूत्रविरुद्धत्वात्पाणिनिस्मृतिस्त्यज्यतां दुर्बलत्वादिति चेन्न। साधुत्वविषये पाणिनिस्मृतेरेव बलीयस्त्वात्। साधुत्वोद्देशेनैव पाणिनिव्याकरणस्य प्रवृत्तत्वादित्यशयः। वस्तुतो जैमिनीयसूत्रव्याख्यातृवचनविरोधेऽपि सूत्राक्षरविरोधलेशोऽपि पाणिनिस्मृतौ नाऽऽपतति। तथा हि`भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते' इति हि जैमिनिमुनिसूत्रं भावार्थाधिकरणे। दद्याज्जुहुयदित्यादयः कर्मशब्दा भावार्थः = प्राधान्येन क्रियार्थकाः, `भावप्रधानमाख्यातं' इति निरुक्तात्' अतस्तेभ्यः क्रिया प्रतीयेत = प्राधान्येन प्रतीयेत। हियतः प्रादान्याद्धेतोः, एष एव = क्रियारूप एवार्थो विधीयते, न तु द्रव्यरूपः। क्रियायाश्चाऽऽशुतरविनाशित्वात्कालान्तरभाविफलजनकता न संभवतीति द्वारमपूर्वं कल्पनीयमिति तदर्थः। एतत्सूत्राक्षरार्थाद्भावना आख्यातार्थः, न कर्तेत्यादिकं कथमपि न लभ्यत इति विभाव्यतां सुधीभिः। व्याख्यातृभिर्वृत्तिकारादिभिस्तज्जैमिनिसूत्रमेवं व्याख्यातम्भावार्थाःभावनारूपो य आख्यातार्थः, तस्य परिच्छेदोऽर्थः प्रयोजनं येषामेतादृशाः। आख्यातेन भावनासामान्ये उपस्थिते इतरदानादिभावनातो व्यावर्तयन् यागरूपो धात्वर्थोऽवच्छेदको भवत्येवेति भावः। एवमवच्छेदकीभूता ये कर्मशब्दा धात्वर्था इति यावत्। तेभ्यः क्रिया अपूर्वं प्रतीयेत ज्ञायेत। हि यत एषोऽर्थो विधीयते। एकपदश्रुत्या तस्यैव विधानात्। यो विधीयते स तत्करणत्वेन संबध्यत इति व्यप्तिरित। तथा च व्याख्यातृवचनविरोधः, न सूत्राक्षरविरोध इत्याकलनीयं यैमिनिरहस्यवेदिभिः। ननृ दर्शपूर्णमासप्रकारणे `नानृतं वदेत्' इति योऽयमनृतवदननिषेध उक्तः स किं पुरुषमुद्दिश्य विहितोऽथवा दर्सपूर्णमासावुद्दिश्येति संदिह्योभयाकाङ्क्षारूपप्रकरणप्रमाणेन दर्शपूर्णमासयोरयं निषेधः। तथा हिअनृतवदननिषेधस्याभावात्मकत्वेन कथंभावाकाङ्क्षया ग्रहणासंभवात्तित्सिद्ध्यर्थं तत्र क्रियां परिकल्प्यानृतवदननिषेधपरिपालनेन भावयोदित्यर्थे फलविशेषस्यानिर्देशादस्ति अत्र किं भावयेदित्युपकार्याकाङ्क्षा। दर्शपूर्णमासाभ्यां स्वर्गं भावयेदित्यत्रापि कथं भावयेदित्यस्त्युपकारकाकाङ्क्षा। अत उभयाकाङ्क्षया परस्परसंबन्धेनकवाक्यतया दर्शपूर्णमासयोरनृतवदननिषेधपरिपालनेनोपकारं संपाद्य स्वर्गं भावयेदित्यर्थादृर्शपूर्णमासयोरयं निषेधो विधीयते। ततश्च दर्शपूर्णमासप्रकरणे सर्वत्रानृतवदनं वर्जनीयम्। तत्र यदा व्रीहिमयः पुरोडाशः कर्तव्य इत्येवमादवध्वर्युमुक्त्वा ओदनार्थ मे व्रीहयो भविष्यन्तीति यवमयः क्रियतामित्युच्यते तदा निषेधपरिपालनं नैव भवति। पूर्ववदनापेक्षयोत्तरवदनस्य भिन्नत्वेनानृतवदनात्। यो हि पूर्वभाषणविरुद्धमुत्तरं भाषते सोऽनृनतवादीति लोके प्रसिद्धम्। किं त्वनुष्ठानकाले पूर्वोक्तिविरुद्धानुष्ठानेन पूर्वोक्तेरनृत्वमिति `व्रीहिमयः पुरोडाशः कर्तव्यः' इत्याकारकपूर्वसंकल्पस्यानृतवदनत्वमेव भवति। यवमयपुरोडाशानुष्ठानस्य संकल्पविसंवादित्वात्। तथा च क्रतोर्वैर्गुण्यं निषेधोल्लङ्घनं च स्यात्। तस्माद्विसंवादि न वदितव्यम्। एवं षोजशिग्रहणाग्रहणरूपवैकल्पिकप्रयोगारम्भेऽध्वर्य्वादिनाऽन्यतरपक्षं संकल्प्य पुनः पक्षान्तरग्रहणेनं नानृतं वदितव्यम्। अनृतवदनेन क्रतुवैगुण्यान्निषेधोल्लङ्घनाच्च प्रायश्चित्तापत्तेः। यदा तु योऽतुष्ठानवेलायां पूर्वसंकल्पानुसारेणैवानुतिष्ठति तदा सोऽनृतवदनिषेधं परिपालयति। यथआ यवमंय संकल्प्य यवमय एव पुरोडाशः क्रियते, अत्रैव सम्यङ्निषेधस्य परिपालर्नः भवति। यवमयपुरोडाशानुष्ठानस्य पूर्वसंकल्पसंवादित्वात्। नात्र कतोर्वैगुम्यं नापि निषेधोल्लङ्घनमिति सुतरां प्रायश्चित्ताभावः। तथा चैवमनृतवदननिषेधपरिपालनेन दर्शपूर्ममासोपकारे संपादितेऽङ्गिभ्यां दर्शपूर्णमासाभ्यां यत्फल स्वर्गरूपं जननीयं तदेवाङ्गस्यानृतवदननिषेधस्य फलमिति प्रतिपादितं भवति। एवं रित्याऽनृतवदननिधेधस्य दर्सपूर्णमासाङ्गत्वं कर्त्रधिकरणे(जै.सू.3413)सिद्धान्तितं, तदाख्यातेन कर्तुरभिधानं वदतो वैयाकरणस्य मते विरुध्येतेत्याशयेन मीमांसकः शङ्कतेनन्वित्यादि। त्वन्मत इति। आख्यातेन(तिङा)कर्तुरभिघानीमत्येवंवादिवैयाकरणमत इत्यर्थः। क्रत्वर्थ एवेति। नानृतं वदेदिति निषेधस्य दर्शपूर्ममासरूपक्रत्वङ्गत्वमेव न सिध्येदित्यर्थः। नानृतमिति निषेधस्य क्रत्वङ्गत्वासिद्धौ हेतुमाहआख्यातेनेत्यादिना बाध्यत इत्यन्तेन। अयं भावःवैयाकरणमते लः कर्मणीत्यादिसूत्रप्रामाण्यादाख्यातस्य (तिबादेः प्रत्ययस्यः कर्तृकर्माद्यर्थः। धातोश्च फलानुकूला भावनाऽर्थः। प्रत्ययार्थत्वेन कर्तुः प्राधान्यमित्यभिमानः शङ्कितुः। तथा च वदोदित्याख्यातश्रुत्या कर्ता पुरुष उक्तः। धातुना च वदनमुक्तम्। एवं सत्येकपदरूपया विनियोक्त्र्या श्रुत्या स्वधटकप्रकृतिप्रत्ययरूपभागद्वयप्रतिपाद्ययोरर्थयोर्मिथोऽङ्गाङ्गिभावसंबन्धबोधनादाख्यातस्य पुरुषवाचकत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषसंबन्धित्वेन पुरुषार्थत्वं पुरुषधर्मत्वं प्रतीयते। ततश्च प्रतियोगिनोऽनृतवदनस्य पुरुषधर्मतया तन्निषोधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात्पुरुषार्थत्वं भवति। एवं च नानृतं वदेदिति निषेधस्योभयाकाङ्क्षारूपप्रकरणप्रमाणेन क्रतूपकारकत्वरूपं क्रत्वर्थत्वं प्राप्नोति, श्रुतिप्रमाणेन च पुरुषोपकारकत्वरूपं पुरुषार्थत्वं प्राप्नोति। तत्र प्रकरणापेक्षया श्रुतेर्बलवत्त्वात्प्रकरणाप्राप्तं क्रत्वर्थत्वं बाधित्वा नानृतमिति निषेधस्य पुरुषोपकारकत्वात्मकं पुरुषार्थत्वमेव स्यात्। तथा च यदा रागद्वेषादिना अनृतवदने पुरुषस्य प्रवृत्तिः संभवेत्तदाऽनृतवदननिषेधेंन तत्राप्रवृत्तौ सत्यां नानृतवदनजन्यपातकोत्पत्तिरिति न पातकजन्यनरकपाताद्यनर्थानुभवो नापि सत्यवदनरूपपुण्यकंर्मजन्यफलानुभवप्रतिबन्धश्च भवति। अवानृतवदनेऽप्रवृत्तिः पुरुषे उपकारस्तद्द्वारोत्पत्स्यमाननरकाद्यनिष्टप्रतिबन्ध एव फलमित्येवंरीत्याऽनृतवदननिषेधस्य पुरुषार्थत्वमेव सिध्येन्न क्रत्वर्थत्वम्। तथा च पुरुषकर्तृकानृतवदने सति पुरुषस्यैव प्रत्यवायः, न क्रतोरिति क्रतावनृतवदने कतुभ्रेषप्रायश्चित्तानुष्ठानरूपसकलयाज्ञिकमीमांसकाचारविरोध आपतेदित्यर्थः। ननु नानृतमिति निषेधे प्रकरणप्राप्तस्य क्रत्वर्थत्वस्य श्रुतिविरोधे सति बाध्यत्वे किं प्रमाणमिति चेदुच्यतेअङ्गप्रधानसंबन्धबोधकविनियोगविधेः सहकारिभूतानि श्रुत्यादीनि षट् प्रमाणानि। तत्र परस्परविरुद्धयोः प्रमाणयोरेकत्रोपस्तितौ मिथो विरोधात्समुच्चयासंभवेनकेन द्वितीयस्य बाधो वक्तव्यः, स च वलीयप्ता दुर्बलस्येति लोकप्रसिद्धमिति श्रुत्यादिषण्णां गध्ये कस्य बलीयस्त्वं कस्य च दुर्बलत्वमिति जिज्ञासायां `श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्' इति सूत्रयांबभूव भगवाञ्जैमिनिमहर्षिः(3314)। श्रुत्यादीनां विनियोजकानां षण्णां प्रमाणानां मध्ये विरुद्धयोर्द्वयोरेकत्र संनिपाते पारदौर्बल्यं परं परं पूर्वपूर्वाद् दुर्वंलं पूर्वेणोत्तरस्य बाधः। तत्र हेतुःअर्थविप्रकर्षात्, उत्तरप्रमाणस्य पूर्वप्रमाणकल्पकत्वादर्थस्य विनियोगस्याङ्गाङ्गित्वनिर्णयस्य विप्रकर्षाद्विलम्बादिति तदर्थः। अत्रोत्तरोत्तरस्य दुर्बलत्वोक्त्या पूर्वपूर्वस्य बलीयस्त्वं सूचितम्। तत्र निरपेक्षो रवः श्रुतिः। रवः शब्दः। कस्यचित्क्विचिद्विनियोगे कर्तव्ये यः शब्दो विनियोजकं प्रमाणान्तरं नापेक्षते स शब्दः श्रुतिरित्युच्यते। सा हि कस्यचित्क्वचिद्विनियोगे कर्तव्ये स्वोत्तरवर्तिलिङ्गदिप्रमाणपञ्चकमध्ये किमपि नापेक्षते। लिङ्गादीनि पञ्च विनियोजकप्रमाणानि तु स्वस्वपूर्ववर्तियावत्प्रमाणापेक्षयैव विनियोगं कुर्वन्ति। अतस्तेषु लिङ्गादिष्वतिव्याप्तिवारणाय श्रुतिलक्षणे निरपेक्ष इत्युक्तम्। तत्र श्रुतिलिङ्गयोर्विरोधे श्रुतिप्राबल्योदाहरणं प्रदर्श्यते`ऐन्ध्र्या गार्हपत्यमुपतिष्ठते' इति श्रूयते। कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुपे(तै.सं.1422) भो इन्द्र, कदाचिदपि घातको न भवसि। किं त्वाहुतिं दत्तवते यजमानाय प्रीयसे, इति तदर्थः। अयमैन्द्री ऋक्। इन्द्रो देवताऽस्या इत्यैन्द्री। अस्याः श्रुतेरिन्द्ररूपार्थप्रकाशनसामर्थ्यं दृश्यते। तेन च लिङ्गेनैन्द्र्येन्द्रमुपतिष्ठते इति श्रुतिमनुमाय तादृशानुमितश्रुत्याऽस्याऋच इन्द्रोपस्थाने निवियोगो लिङ्गप्रमाणेन संभवति। परं तु ऐन्द्र्या गार्हपत्यमिति निरुक्तप्रत्यश्रुत्याऽस्मा ऋचो गार्हपत्योपस्थाने विनियोगस्य कृतत्वात्प्रत्यक्षश्रुतेश्चानुमितश्रुत्यपेक्षया बलवत्त्वाद्गार्हपत्योपस्थाने विनियोगो भवति। कदाचन स्तरीरसीति मन्त्रे इन्द्रशब्दः `इदि परमैस्वर्ये' इति धात्वर्थानुसारात्परमैश्वर्यगुणयोगेन यज्ञसाधनत्वेन वा गार्हपत्याभिदायको मन्तव्यः। अत्रैन्द्रीशब्दो गार्हपत्यशब्द उपसर्गविशिष्टः स्थाधातुश्चाभिधायको मन्तव्यः। अत्रैन्द्रीशब्दो गार्हपत्यशब्द उपसर्गविशिष्टः स्थाधातुश्चाभिधात्री श्रुतिः। ऐन्द्र्येति तृतीया गार्हपत्यमिति द्वितीया च विनियोक्वी श्रुतिः। तत्र तृतीयया ऐन्द्र्या ऋच उपस्थानाङ्गत्वं प्रतिपाद्यते। द्वितीयया च गार्हपत्यस्योपस्थानाङ्गित्वं बोध्यते। गृहपतिना संयुक्तो गार्हपत्योऽग्निः। `गृहपतिना संयुक्ते ञ्यः'(पा.सू 4490)इति सूत्रेण गृहपतिशब्दात् ञ्यप्रत्ययः। एवं स्थिते यदत्र श्रुतिप्रमाणेन लिङ्गप्रमाणं बाध्यते तत्रेवं युक्तिर्दृश्यतेविनियोजकेषु पट्सु प्रमाणेषु साक्षाद्विनियोजिका श्रुतिरेव। अतः श्रुतिः प्रमाणमूर्धन्यभूतेति सर्वैर्व्यवह्रियते। लिङ्गादीनि पञ्च प्रमाणानि तु न साक्षाद्विनियोजकानि। अर्थप्रकाशनसामर्थअयं लिङ्गमित्युच्यते। यथा कदाचन स्तरीरसीति मन्त्रस्येन्द्ररूपार्थप्रकाशनसामर्थ्यम्। परं तु तादृशसामर्थ्यानुसारिणी `ऐन्द्र्येन्द्रमुपतिष्ठते' इत्येवं विनियोजिका श्रुतिर्यावन्न ज्ञायते तावल्लिङ्गमकिंचित्करमेव। अतः कदाचन स्तरीरिति मन्त्रस्य क्व विनियोग इत्येवमुत्पन्नाकाङ्क्षा, ऐन्द्रमन्त्रस्य क्वचित्कर्मणि विनियोगसाधनाय स्वपुरस्कृते लिङ्गप्रमाणे स्वभावतो विद्यमानां प्रकल्पकत्वशक्तिमुत्तेजयति। ततस्तल्लिङ्गं स्वानुगुणां `ऐन्द्र्येन्द्रमुपतिष्ठते' इत्येवं विनियोजिकां श्रुतिं कल्पयति। तया च श्रुत्या तत्र विनियोग इति लिङ्गप्रमाणं श्रुतिद्वारा परम्परया विनियोजकम्। एवं च श्रुतिः स्वाभिधेयं प्रतिपाद्य द्बितीयक्षण एव विनियुङ्क्ते। लिङ्गं तु मन्त्रपदान्यादौ स्वाभिधेयमर्थं प्रतिपादयन्ति। तत ऊर्ध्वं मन्त्रस्य सामर्थ्यं निरूप्यते। (नाममन्त्रस्येन्द्रविषयकक्रियासाधनत्वमवगम्यते)पश्चात्सामर्थ्यावशात्साधनत्ववाचिनी(ऐब्द्रमन्त्रेणेत्येवं तृतीया विभक्तिः)साध्यत्ववाचिनी(इन्द्रमित्येवं द्वितीयाविभक्तिः) च श्रुतिः(विभक्तिरूपा)कल्प्यते। सा च श्रुतिः `ऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठते' इत्येवं विनियुङ्क्त इति चतुर्थक्षणपर्यन्तं विलम्बते। तथा सति प्रत्यक्षश्रुतौ स्वामिधेयप्रतिपादनविनियोगयोर्मध्यवर्तिनौ सामर्थ्यनिरूपणक्षुतिकल्पनव्यापारौ न स्तः। एवं च श्रुतिप्रमाणेन जायमानो विनियोगः साक्षादेव जायत इत्यव्यवहितः। लिङ्गप्रमाणेन जायमानो विनियोगस्तु श्रुतिं कल्पयित्वा तद्द्वारा जायत इत्येकान्तरितः। एवं वाक्यादिप्रमाणेन जायमानो विनियोगो लिङ्गादि च श्रुतिं च कल्पयित्वा जायत इति द्वित्र्याद्यन्तरिति अत्यूह्यम्। यथा यथा च प्रमाणस्य विनियोगे व्यवधानाधिक्यं तथा तथा तस्य दुर्बलत्वम्। विलम्बेन विनियोजकं यत्प्रमाणं तदपेक्षया शैघ्र्येण विनियोजकस्य प्रमाणस्य प्राः बल्यं युक्त्यैव सिद्धं भवति। लिङ्गाद्युत्तरप्रमां हि स्वापेक्षया यावन्ति पूर्वप्रमाणानि तावन्ति क्रमेण परिकल्प्य तद्द्वारा विनियोगं बोधयति। तेन चैकत्रानेकप्रमाणसंवनिपात उत्तरस्य पूर्वं बाधकं भवति। उत्तरप्रमामस्य बोधो नाम तत्राप्रवृत्तिरेव। यत उत्तरप्रमाणेन वाक्येन स्वापेक्षया पूर्ववृत्तिप्रमाणजातं (लिङ्गश्रुति) परिकल्प्य किंचिदर्थं कुत्रचिद्विनियोक्तं यदा प्रवर्तितव्य तदा पूर्ववृत्तिप्रमाणजातस्य (लिङ्गश्रुत्योर्य) आत्मस्वरूपलाभस्तस्मात्प्रागेव पूर्वप्रमाणेन (लिङ्गेन श्रुत्या वाः सोऽर्थः कुत्रचिद्विनियोज्यते। जाते च विनियोगे क्व विनियोगः, इत्याकाङ्क्षाया निवृत्तत्वादुत्तरप्रमाण(वाक्य)गता लिङ्गादिप्रकल्पकत्वशक्तिरेव व्याहता जायत इति सर्वथा व्यापारोपरमात्तत्र तस्याप्रवृत्तिरिति। एवं च इन्द्ररूपार्थप्रकाशनसामर्थ्यरूपेण लिङ्गप्रमाणेन श्रुतिकल्पनद्वारा यावदैन्द्रमन्त्रस्येन्द्रोपस्थाने विनियोगः कर्तव्यस्यावत् `ऐन्द्र्या गार्हपत्यमिति प्रत्यक्षया तृतीयाश्रुत्या, ऐन्द्रमन्त्रेणेन्द्रमितिश्रुतिकल्पनात्प्रागेव ऐन्द्र्या ऋचो गार्हपत्योपस्थाने विनियोगस्य कृतत्वाल्लिङ्गप्रमाणगता कल्पकत्वशक्तिरेव व्याहन्यत इति प्रत्यक्षश्रुतेर्बलवत्त्वात्तया लिङ्गं बाध्यते। एवं प्रकृते नानृतं वदेदित्यत्राऽऽख्यातश्रुत्या कर्तुरभिधाने सति, उभयाकाङ्क्षारूपप्रकरणप्रमाणेन वाक्यलिङ्गश्रुतीः कल्पियित्वा नानृतमित्यस्य यावद्दर्शपूर्णमासप्रकरणे विनियोगः कर्तव्यस्तावद् वदेदित्येकपदरूपया श्रुत्या नानृतमित्यस्य कर्तरि पुरुषे विनियोगस्य कृतत्वात् क्व विनियोगः, इत्याकाङ्क्षाया निवृत्तत्वात् प्रकरणप्रमाणनिष्ठा वाक्यलिङ्गादिप्रकल्पत्वशक्तिर्व्याहन्यत इति श्रुतेर्बलवत्त्वात्तया प्रकरणप्रमाणं बाध्यते। तथा चानृतवदनक्रियानिषेधाश्रयः कर्तेतिबोधान्नानृतं वदोदिति निषेधस्य पुरुषार्थत्वमेव स्यान्न क्रत्वर्थत्वयित्याशङ्क्य समाधातुमाहइति चेन्नेति। मीमांसकमतेनाऽऽख्यातेन भावनाया अभिधानाच्छ्रुत्या कर्तुः पुरुषस्याप्रतीयमानत्वाच्छ्रुतिविरोधाभावे सति केवलप्रकरणप्रमाणेन नानृतयिति निपेधस्य क्रत्वर्थत्वमेव भवतीति भावः। इदानीं वैयाकरणमते आख्यातेन (तिङा) कर्तुः पुरुषस्याभिधीयमानत्वेऽपि नानृतमिति निषेधस्य न पुरुषार्थत्वं संभवतीत्याहतिङर्थस्त्वित्यादि। अयं भावःलः कर्मणीत्यादिशास्त्रप्रामाण्यादाख्यातेन(तिबादिप्रत्ययेन कर्तुरभिधानेऽपि न तस्य प्राधान्यम्। भावोधात्वर्थःफलव्यापारान्यतरूपः, प्रधानं यत्रेति बहुव्रीहिः। तिङन्तं चान्यपदार्थः। तथा च तिङन्तं भावप्रधानकंतिङर्थनिष्ठप्रकारतानिरूपितधात्वर्थनिष्ठविशेष्यताशालिबोधजनकमित्यर्थकाद् `भावप्रधानमाख्यातम्' इति निरुक्तवचनाद्व्यपाररूपभावनायाः प्राधान्यस्य, तिङर्थकर्त्रादेर्विशेषणत्वस्य चावगमात्। ततश्च प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति न्यायस्य संकोचोऽवश्यं स्वीकार्यः। तथा च प्रकृतीतिङ्भिन्नप्रत्ययार्थयोर्मध्ये प्रत्ययार्थस्य प्राधान्यमित्यर्थत्तिङन्तेऽयं न्यायो न प्रवर्तते। एवं चाऽऽख्यातवाच्यकर्तुर्धात्वर्थव्यापारात्मकभावनां प्रति विशेषणत्वाद्विशेषणस्य च विशेष्यपरतन्त्रत्वान्मम विशेषणं किमिति विशेषणाकाङ्क्षानुदयाद्' गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्' (जै.सू.3122) इति न्यायेन नानृतमिति निषेधस्याङ्गत्वे(विशेषणत्वे)न संबन्धो विशेषणभूते कर्तरि न संभवतीत्याहन हि गुणभूत इति। विशेष्य एवाङ्गित्वस्य न्याय्यत्वाद्विशेषणे(कर्तरि)नानृतमिति निषेधस्य विसेषणत्वेन संबन्धे कृते विशेषणे(कर्तरि)प्रधान्यमप्राधान्यं चेत्येकस्मिन्विरुद्धद्धयमापद्येतेति न विशेषणे विशेषणत्वेन पदार्थान्तरसंबन्धः कर्तुं युज्यते। तदाहगुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रहीतुं नालं न समर्थ इति। इतरविशेषणत्वेनोपस्थिते विशेषणत्वेन पदार्थान्तरान्वयस्य विरुद्धत्वादेव सोमेन यजेतत्यत्र यागेन भावयेदित्येवमाख्यातार्थभावनायां यागस्य विशेषणत्वेनान्वये कृते तादृशे तत्रैव पुनः सोमेन यागं भावयदित्येवं सोमस्य विशेष्यत्वेनान्वयो निराकृतो मीमांसकैः। ननु धात्वर्थभावनाऽपि कथं निषेदं गृह्णीयात्तस्या अपि आख्यातार्थकर्तृसंबन्धित्वादित्यत आहभावना त्विति। प्रधानमिति। यतो भावना तिङर्थकर्तारं प्रति प्रघानंविशेष्यभूताऽतस्तस्या विशेषणत्वेन नञर्थनिषेधेऽन्वये बाधकाभावात्सा निषेधं ग्रहीतुं समर्थैव। अयं भावःवदेदित्यत्र धात्वर्थवदनक्रियां प्रति तिङर्थः कर्ता विशेषणं वदनक्रिया च विशेष्यं, कर्तृनिष्ठा वदनक्रियेति बोधः। अनृतमिति वदनस्य विशेषणंअनृतवदनक्रियेत्यर्थः। तादृशानृतवदनक्रियायाः प्रधानभूताया नञर्थे विशेषणतयाऽन्वयः। तथाच कर्तृनिष्ठानृतवदनाक्रियानिषेध इत्यर्थे संपन्ने किमर्थोऽयं निषेध इति निषेधस्य कैमर्थ्याकाङ्क्षायां प्रकरणप्रमाणाद्वाक्यलिङ्गश्रुतिः कल्पयित्वा तद्द्वारा निषेधस्य दर्शपूर्णमासप्रकरणे विनियोगात्क्रत्वर्थतैव सिध्यतीत्यर्थः। नन्वेवं रीत्या न हिंस्यात्सर्वा भूतानि, न कलञ्जं भक्षयेदित्यादिनिषेधानामपि श्रुत्या पुरुषार्थत्वं न स्यात्, श्रुत्युपस्थितस्य कर्तुः क्रियां प्रति विशेषणत्वात्। यदि तु न कलञ्जमित्यादिनिषेधस्थलेऽन्यस्याङ्गिनोऽसंभवाद्विशेषणभूतकर्तुरपि निषेधोऽङ्गं भवतीत्युच्यते तर्हि, इतरविशेषणत्वेनोपस्थितेऽर्थे विशेषणत्वेनेतरार्थानन्वय इति पूर्वोक्तनियमस्य व्यभिचारेम नानृतं वेददित्यत्रापि निषेधः कर्तुरङ्गं स्यादत आहअस्तु वेद्यादि। क्रतुयुक्तपुरुषधर्म इति। आख्यातस्य कर्तृवाचकत्वे पदश्रुत्या नानृतं वदेदिति निषेधस्य पुरुषार्थत्वं प्राप्नोति, प्रकरणेन च क्रत्वर्थत्वम्। तत्रैकस्यैव कस्यचित्क्वचिद्विनियोगार्थं प्राप्तयोर्द्वियोः प्रमाणयोर्यद्यविरोधः संभवति तर्हि तत्र विरोधकल्पनमन्याय्यम्। विरोधे हि बलाबलविचारेण प्रबलेन दुर्बलस्य बाधः कर्तव्यो भवतीति माहगौरवम्। अविरोध तु कस्याप्यबाधेनोभयोः समावेशइति लाघवम्। प्रकृते नानृतमिति निषेधं विनियोक्तं प्रसक्तयोः श्रुतिप्रकरणयोर्मध्ये श्रुतिस्तं पुरुषे विनियुङ्क्ते, प्रकरणं तु क्रताविति विरोधो भासते तथाऽपि स आभास एव। यतः क्रतावपि पुरुषसंभवेन श्रुतिप्रकरणयोरविरोधे सति उभाभ्यां क्रतुयुक्तपुरुषधर्मत्वं निषेधस्येत्यवगम्यते, श्रुतिप्रकरणाभ्यामेकवाक्यतया निषेधे क्रतुयुक्तः पुरुषोऽङ्गित्वेन समर्प्यत इति यावत्। तथा च क्रतुसंयुक्तपुरुषकर्तृकानृतवदननिषेध इति बोधान्निषेधः साक्षात्पुरुषस्याङूगे, क्रतोस्तु परम्परया निषेधोऽङ्गमिति। यथा स्वयं गुणभूतः सेवको राजानं प्रधानं मन्यते, तस्यापि राज्ञो यद्गुणभूतं पुत्रकलत्रादि तदप्यसौ स्वप्रधानमिति मन्यते तद्वदित्यर्थः। ननु यद्ययं निषेधः क्रतुयुक्तपुरुषार्थः स्यात्तार्हि क्रतौ कर्तुर्यजमानस्य मुखअयत्वात्तेनैवानृतवदननिषेधः संलग्नो भवेदिति यजमानेनवानृतवदनिषेधः परिपालतीयो भवेन्नर्त्विगादिभिरित्यनुष्ठाने वैषम्यं स्यादित्यनुसंधायाऽऽहअनुष्ठाने विशेषाभावादिति। पुरुषस्य क्रतुयुक्तत्वेन विशेषणात्क्रतुयुक्तः क्रतुसंबद्धो यः पुरुषस्तत्कर्तृकं यदनृतवदनं तस्य निषेध इत्यर्थाद्यथा यजमानः क्रतुना संवद्धस्तथर्त्विगादिरपि क्रतुना संबद्ध इति क्रतुसंबद्धत्वाविशेषाद्यजमानवट्टत्विगादिभिरप्यनृतवदनं वर्जनीयमित्यनुष्ठाने विशेषाभाव इत्यर्थः। यदि तु युक्तशब्दस्थाने कर्तृपदं प्रक्षिप्य क्रतुकर्तृपुरुषकर्तृकानृतवदनविषेधःक्रतोर्यः कर्ता पुरुषो यजमानस्तत्कर्तृकानृतवदननिषेध इत्युच्येत तदा यजमानव्यतिरिक्तर्त्विगदिनामनृतवदननिषेधाप्रसक्त्या यजमानेनानृतवदनं वर्ज्यं न तदन्यैर्ऋत्विग्बिरित्यनुष्ठाने विशेषः संजायेत, तथा विशेषो मा भूदित्याकलय्यैव क्रतुयुक्तपुरुषेत्युक्तं मूल इति भूषणसारकर्तुरभिप्रायो बोध्यः।
एकस्यैव निवियोगे प्रसक्तयोर्द्वयोर्विरुद्धप्रमाणयोरविरोधसंपादनेन क्रतुयुक्तपुरुषधर्मत्वसमर्थने मीमांसकाभिमतं दृष्टान्तमाहजञ्जभ्यमानोऽनुब्रूयादिति। जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू इति दर्शपूर्णमासयोः श्रुतम्। जञ्जभ्यमान इत्यत्र जभधातोर्भावगर्हायां यङ्, ततः कर्तरि शानच्। `जभी जृभि गात्रविनामे' इति पाणिनिस्मृतेर्गात्रविनामेन विदारितमुख इति तदर्थः। तत्र किमयं मन्त्रपाठः पुरुषमुद्दिश्य विधीयतेऽथवा क्रतुमुद्दिश्येति संदिह्य वाक्यप्रमाणेन तावज्जज्जभ्यमानपुरुषधर्मत्वेनायं प्रतीयते, शानचा कृत्प्रत्ययेन कर्तुः प्राधान्येनाभिधीयमानत्वात्। प्रकरणप्रमाणेन तु क्रत्वङ्गत्वेन प्रतीयते, वाक्यं च प्रकरणाद्बलीयः, तस्मात्पुरुषधर्मोऽयमिति पूर्वपक्षयित्वावाक्यप्रकरणाब्यामविरुद्धाभ्यां क्रतुयुक्तपुरुषसंकारद्वारा क्रत्वर्थोऽयमिति सिद्धान्तितं जैमिनीये तृतीयाध्याये चतुर्थपादे पञ्चमे जञ्जभ्यमानाधिकरणे। न च प्रकरणाद्वाक्यलिङ्गे श्रुतिं च कल्पयित्वा तया श्रुत्या चतुर्थक्षणे विनियोगः कर्तव्यः, ततः प्रागेव वाक्याल्लिङ्गं श्रुतिं च कल्पयित्वा तया श्रुत्या तृतीयक्षण एव विनियोगस्य कृत्वात्पुरुषार्थत्वनिर्णयेन क्व विनियोग इत्याकाङ्क्षाया विरहान्न क्रतावप्यन्वयः सिध्यतीति वाच्यम्। तथा सति प्रमामयोर्विरोधः स्यात्। विरोधे च बलवता दुर्बलं बाधनीयम्। तच्च न न्याय्यम्। अवाधेनोपपत्तौ बाधस्यान्याय्यत्वादिति न्यायात्। तस्माद्वाक्यप्रमाणेन यदेतन्मन्त्रानुवचनं जञ्जभ्यमानपुरुषाङ्गत्वेन विहितं तत्र सोऽङ्गी जञ्जभ्यमानपुरुषो नासंबद्धः, किं तु क्रतुसंबद्धो ग्राह्य इत्येतत्प्रकरणप्रमाणसाहाय्येन प्रतिपाद्यते। तेन विरोधाभावेन बाधाभावाद्द्वयोः प्रमाणयोः समावेशः साधितः। तथा च क्रतुसंयुक्तजञ्जभ्यमानपुरुषकर्तृकं मन्त्रानुवचनमिति बोदान्मत्रानुवचनस्य पुरुषार्थत्वं पुरुषद्वारा च क्रत्वर्थं च समर्थितमिति भावः। एवं च बलाबलविचारस्व विरोध एवावसरादविरुद्धाभ्यां वाक्यप्रकरणाभ्यां जञ्जब्यमानवाक्ये मन्त्रानुवचनस्य क्रतुयुक्तपुरुषार्थत्ववत्प्रकृतेऽप्यनृतवदननिषेधस्याविरुद्धाभ्यां श्रुतिप्रकरणाभ्यां क्रतुयुक्तपुरुषार्थत्वमेव युक्तमित्याशयः। तदुक्तं भट्टपादैःस्त्र्युपायमांसभक्षादि पुरुषार्थमपि श्रितः। प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात्।। भक्षादीति नपुंसकद्वितीयान्तम्। स्त्र्युपायमांसभक्षादीन् विषयीकृत्य यः प्रतिषेध उक्तः स पुरुषार्थं श्रितोऽपि प्रकरणाश्रयात्क्रतोरङ्गमिष्ट इति तदर्थ इति। अनया भट्टोक्त्या विशेषणे विशेषणत्वेनेतरानन्वय इत्येवंरूपो नियमो न सार्वत्रिक इति ज्ञेयम्। क्रतुसंबन्धी यः पुरुषः, तत्कर्तृकानृतवदनाभाव इति बोधात्पुरुषं प्रति क्रतोर्विशेषणत्वात्पुरुषस्य वदनक्रियां प्रति विशेषणत्वाच्चेति भावः। नन्काख्यातस्य भावनार्थकत्वाभिप्रायेण प्रयोगे तस्य (आख्यातस्य) तत्र (भावनायां) असाधुत्वेनाऽऽख्याताद्भावनाया बोधो न स्यात्, साधुत्वज्ञानस्य शाब्दबोधं प्रति कारणत्वादत आहतदभावेऽपीत्यादि। आख्यातस्य भावनायामसाधुत्वेऽप्याख्याताद्भावानाबोधो भवत्येवेत्यर्थः। अपभ्रंशवदिति। यथाऽपभ्रंशानां साधुत्वभ्रमाद्बोधकत्वेऽप्यसाधुत्वं तथा साधुत्वभ्रमाद्भावनाबोदकत्वेऽपि तस्यां तिबादेरसाधुत्वं स्यादेवेत्यर्थः। ननु पाणिन्याद्यनुशासनस्य निष्प्रमाणत्वात्तिबोदेर्भावनाबोधकत्वेऽपि साधुत्वं निष्प्रतिबन्धमेवेति चेन्न। `व्राह्नणेन निष्कारणं षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इति महाभाष्यकारोद्धृतश्रुतेः, पाणिनीयं महाशास्रं पदसाधुत्वलक्षणम्। सर्वोपकारकं ग्राह्यं कृत्स्नं, त्याज्यं न किंचन।। इति पराशरोपपुराणादेश्चापि प्रमाणत्वात्। ननु साधुत्वज्ञानमन्तराऽपि शाब्दबोधोदयदर्शनात्साधुत्वज्ञानस्य शाब्दबोधकारणत्वाभावेऽपि असाधुत्वज्ञानसत्त्वे शाब्दबोधोदयादर्शनादसाधुत्वज्ञानस्य शाब्दबोधं प्रति प्रतिबन्धकत्वं वक्तव्यमेव। तथा च भावनायामसाधुस्तिबादिरित्येवं वैयाकरणानां ज्ञानसत्त्वात्कथं तिबादेर्भावनाबोधकत्वमित्याशङ्कां समाधातुमाहवस्तुत इत्यादि। तव्द्यतिरेकेति। साधुत्वस्य व्यतिरेकोऽभावः, तन्निर्णयोऽपीत्यर्थः। असाधुत्वज्ञानमिति यावत्। न प्रतिबन्धकमिति शेषोऽस्त्येव। वक्ष्याम इति। साधुत्वज्ञानरहितानामसाधुत्वज्ञानवतामपि गगर्यादिशब्देभ्यो बोधोदयस्य सर्वानुभवसिद्धत्वात्साधुत्वज्ञानं न हेतुर्नाप्यसाधुत्वज्ञानं तत्प्रतिबन्धकमित्यग्रेऽसाधुरनुमानेन(का.38)इत्यत्र शक्तिनिर्णये वक्ष्यत इति सर्वं शिवम्।। 21 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यं धात्वाख्यातयोः सामान्यार्थस्य निरुपणम्।। 1 ।।
रङ्गभट्टतनूजस्य शंकरस्य विनिर्मितौ। पूर्णः सारीयटीकायां धात्वाख्यातार्थनिर्णयः।। 1 ।।