वैयाकरणभूषणसारः (काशिकाटीकासहितः)/सङ्ख्याविवक्षादिनिर्णयः
वैयाकरणभूषणसारः (काशिकाटीकासहितः) सङ्ख्याविवक्षादिनिर्णयः [[लेखकः :|]] |
का : 49
भावप्रत्ययार्थं = त्वादप्रत्ययार्थम्, वार्तकवचनं = वार्तिकरूपं वचनमित्यर्थः । हरिणेत । एवं च हर्युक्तौ वार्तिकत्वभ्रमस्तेषामिति भावः । त्वतलोरिति विशेषोपादानेनेमनिजादेरन्यार्थक- त्वशङ्का स्यादत आह__त्वतलोरित । भावेति । अयं = वक्ष्यमाणः । अर्थः =तात्पर्यार्थः । वदति = बोधतीत्यर्थः । न संभवतीति । तत्पक्षे__राजपुरुषादिसमासजन्यबोधे संसर्गस्याप्रकार- त्वात् तत्पक्षे राजपुरुषत्वमित्यत्र त्वप्रत्ययस्य भेद एवार्थ इत्यशयः । एवं पुरुषरूपेण वस्तुगत्या राजसंबन्धवान् यः पुरुषः स समासार्थ इति पक्षे-त्वप्रत्ययार्थः पुरषत्वमेव, तद्वयक्तमात्रनिरूपता- धेयत्वसंबन्धेन प्रकृत्यर्थस्य तत्रान्वयः, अत एव तत्पक्षे कृत्तद्धितेत्यादिवचनमावश्यकमिति शङ्कानवकाशः । इत्यन्वयबोधः = इति शाब्दबोधः । तद्धितान्तेऽपिशक्तिसत्त्वेन पृथगुपस्थितिविषयार्थयोः संसर्गस्यैवान्वयत्वेन यथाश्रुतासंगत्यापत्तेः, शाब्दत्वं तु तत्राप 'शब्दयामी'त्यनुभवादित्यन्यत्र विस्तरः । 'उपस्थितयोः संबन्धोऽन्वय' इति मते तु यथाश्रुतमेवास्तु । अव्यभिचरितसंबन्धे तु=अपत्यापत्यवत्संबन्धस्याव्यभिचरितसंबन्धत्वे तु । यथा सत् सत्तयोः संबन्धः कदापि न व्यभिचरितस्तथानयोरपि, सत उत्पत्तिप्रभृति-आविनाशात् संबन्धस्य विद्यमानत्वादपत्यस्योत्पत्तिप्रभृति-आविनाशादुक्तसंबन्धस्यापि तथात्वादिति भावः । 'गोत्रं च चरणैः सहे'त्यनेनापत्यवस्यापि जातित्वबोधनाज्जात्याभेदसंबन्धस्य तिरोधानात् जातिरेव तत्र प्रकार इति सैव त्वाद्यर्थ इति तात्पर्यार्थः । जातिप्रयुक्तकार्यमेवातिदिश्यते, न जातित्वं तस्येति पक्षान्तरसूचनाय तुशब्दः । अर्थान्तरवृत्तिरिति । 'ऐन्द्रत्व'मित्यादौ देवताद्यर्थकतद्धित उदाहार्य इत्यर्थः । तद्धितान्तत्वेपीति । अत एव संबन्धार्थकत्वप्रसक्तिः । अभेदप्रत्ययादिति । मतुपो लुग्विधानं तु 'पटस्य शुक्रल' इति गुणगुणिनोर्भेदव्यवहारस्यापि सत्त्वाच्छुक्लवानित्यविष्टप्रयोग- निवृत्त्यर्थम् । जातावेवेति । लोकनिरूढेन 'सोऽय'मिति प्रत्ययेन भेदसंबन्धस्य तिरोधानान्न संबन्धे प्रत्ययः, एवं 'शुक्ल' इत्यादावपि । पाचकादौ तु क्रिययाभेदस्यैव प्रतीतेर्व्यभिचाराच्च क्रयासंबन्धाज्ञानमूलिकैव शब्दस्य द्रव्ये प्रवृत्तिः, एवं राजपुरुषादावपीति__तत्तत्संबन्ध एव
तत्तदुत्तरबावप्रत्ययार्थः । 'नीलघटत्व'मत्यादौ नीलघटादिवृत्तर्घटत्वादिकमेव त्वादिवाच्यत्वे- नाश्रयति, न तु संबन्धिविशेषणाऽभिन्नरूपत्वेन, पूर्वोत्तरपदार्थयोर्विशेष्यविशेषणभावातिरिक्त- संबन्धस्याभावात् । घटत्वमेव नीलघटशब्दप्रवृत्तिनमित्तं, नीलादिविशेषणबलात्तु घटत्वरूपेण
नीलादिव्यक्तिभाने नीलसमानाधिकरणघटत्वादिकमेव प्रवृत्तिनिवृत्तिनिमित्तत्वेन भासते, उपाधिभेदाद् घटत्वादेरपि भेदः, अतो घटत्वस्यातिप्रसक्ततया कथं नीलघटादिशब्द- प्रवृत्तिनमित्तत्वमिति शङ्गानवकाशः । 'धवखदिरत्व'मित्यादौ जातिसमुदायस्तद्वाच्यः, समुदायस्यानुद्भूतावयवत्वे एकवचनम्, उद्भूतावयवत्वे पुनर्द्विवचनादकमपीति बोध्यमिति वदन्ति, तद् ध्वनयन्नाह__दिगिति । तार्किकास्तु__कर्मधारयोत्तरबावप्रत्ययः पदार्थतावच्छेदकयोनीऽलत्व- घटत्वाद्योः सामानाधिकरण्यवचन इत्यूचुः ।।
प्रकृत्यर्थविशिष्टेति । संयोगादिसंबन्धेन वस्तुगत्या दण्डादिविशिष्टेत्यर्थः, तत्र स्योगादिः संसगमर्यादया भासत इति तत्र न शक्तिः, किं तु प्रकृतेर्दण्डे, आश्रये च प्रत्ययस्य । मात्रपदेन संयोगादिरूपसंबन्धव्यावृत्तिः, अत एव 'पाचक' इत्यादावपि संबन्धो न शक्यः । उक्तं च भट्टैः__
'पाकं तु पचिरेवाह कर्तारं प्रत्ययोप्यकः ।
पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित् ।।' इति ।
न चानन्तद्रव्येषु शक्तिग्रहासंभवः, परम्परया एकं दण्डत्वादिकमुपलक्षणीकृत्य तत्संभवादित्यरुणाधिकरणोक्तरीत्या द्रष्टव्यमिति भावः । 'मीमांसकाना'मित्यस्य 'मत' इति शेषः । तदभिधानम् = संबन्धाबिधानम् । ननु 'दामोदर'त्वमित्यादौ भावपदेन दामोदरादिनिष्ठो धर्मविशेषो गृह्यत इति तदनभिधानं, 'दण्डित्व'मित्यादौ पुनर्भावः संयोगादिरेवातस्तदभिधाने किं बाधकमित्याशङ्कापनुत्त्यै हैतुमाह__प्रकृतीति । हि = यस्माद्धेतोरुक्तत्वरूपो भावस्तदुत्तरत्वादि- प्रत्ययेनाभिधीयतेऽतो 'दण्डित्व'मित्यत्र संयोगस्य तव मते दण्डिपदजन्यबोधीयप्रकारत्वाभावेन- त्वादिप्रत्ययेनाभिधानं न स्यादित्यर्थः । पदयोः क्रमेण व्यवृत्तिमाह__अन्यथेति । अन्यथा = धर्ममात्रस्य बावपदार्थत्वे । द्रव्यत्वादेरिति । तस्यापि घटसमवेतत्वात्, घटपदजन्यबोधे प्राकरत्वं तु नेति न घटपदोत्तरत्वादिना तदभिधानम् । दण्डादेश्चेति । दण्डिपदजन्यबोधे तस्य प्रकारत्वात्, दण्डसंयुक्तदेवदत्तादौ समवेतत्वाभावात्तु न 'दण्डित्व'मित्यत्र त्वादिना दण्डादिरभिधीयते, अत्र समवेतत्वं न समवायेन वर्तमानत्वं, घटत्वत्वमभावत्वमित्यादौ घटत्वत्वादेरसमवेतत्वेन त्वादवाच्यतानुपत्तेः, अपि तु प्रकारतावच्छेदकसंबन्धेन तत्र वर्तमानत्वरूपम् । संबन्धः प्रकार इति । तथा च दामोदरादिपदजन्यबोधीयप्रकारत्वाभावात् तदुत्तरत्वादिप्रत्ययेन संबन्धाभिधानवद्दण्डित्वमित्यादावपि संबन्धस्य तेनानभिधानं स्यादिति समुदितार्थः । 'दण्डित्व'मित्यादौ संबन्धवाच्यत्वे मीमांसकोक्तां युक्तिमनूद्य दूषयति__यदेति । स्वसमवेतः = प्रकृतिजन्यबोधविशेष्यसमवेतः । वाच्यः = प्रकृतिवाच्यः, प्रकृतिजन्यबोधप्रकार इति यावत्, यद्वा त्वादि प्रत्ययवाच्यः, तदभिधानयोग्य इति यावत् । प्रकृतिजन्यबोधीयप्रकारताश्रयो हि तदभिधानयोग्यः । सम्बन्धो वाच्य इति । प्रकृतिजबोधप्रकारोऽपि स्वसमवेतः सम्बन्धस्त्वादिवाच्य आश्रित इत्यर्थः । प्रपञ्चितं चैतदिति । अयं भाव-'दण्डि'त्यादौ सम्बन्धावाच्यत्वे
दण्डित्वमित्यत्रापि सम्बन्धस्य वाच्यत्वं न स्यात्, प्रतीतेस्तद्वदेवोपपत्तेः, न च त्वादैर्वैयर्थ्यापत्त्या सम्बन्धे वाच्यत्वं कल्प्य इति चेन्न, 'घटत्व'मित्यादौ क्लप्तपदार्थतावच्छेदकशक्त्यैव निर्वाहात् । 'कृत्तद्धिते'त्वादिवचनं तु हरेर्न मुनेर्यद्बलात्कल्पना स्यात् । अनुभवानुरोधात्सम्बन्धे त्वादिशक्तिकल्पनमिति चेन्न, शक्त्यन्तरकल्पनामपेक्ष्येनादीनां क्लृप्तशक्तौ धर्मीवत्सम्बन्ध-
विषयत्वेनोपपत्तौ पृथक्शक्तिकल्पना योगात्, तथा सति क्लृप्तपदार्थतावच्छेदकशक्त्यैव तद्भानसम्भव इत्यादि तत्र प्रपञ्चितमिति । इदं वैषम्यम् = दामोदरत्वमत्यादौ सम्बन्धो न वाच्यो दण्डित्वमित्यादौ तु वाच्य इति वैषम्यमित्यर्थः । वक्ष्यमाणेति । वक्ष्यमाणश्चासौ शेपश्चेत्यर्थः । परे तु__इनादेः सम्बन्धावाचकतेवऽपि दण्ड्यदिपदस्य सम्बन्धज्ञानादेव प्रवृत्तिरिति संबन्धस्यैव प्रवृत्तिनिमित्ततया त्ादिवाच्यत्वसम्भव इति प्रतिपन्नाः । इत्यत्र = इत्याकारकजिज्ञासायां सत्यात् ।।
मूले__'प्रकृत्यर्थप्रकरता'मित्यस्या'पन्न'मिति शेषः__इत्यमिप्रेत्याह-प्रकारतया भास- मानमिति । प्रकारत्वात् = घटत्वत्वस्य प्रकारत्वात् घटत्वपदोत्तरत्वप्रत्ययवाच्यत्वं स्यादित्यर्थः । धर्ममात्रमिति । धर्मत्वेन वाच्यता, न तु तत्तद्रूपेण, शत्तयानन्त्यप्रसङ्गादिति वदन्ति । न च गुरुधर्मे लक्षणेति वाच्यत्वं, शक्तावेव लाघवादरो न लक्षणायामित्यत्र विनिगमनाविरह इति भावात् । वस्तुतस्तु__गौरवं नास्त्येवेत्याह_व्द्यक्तीति । अपरे तु__'घटत्वत्व'मित्यात्राविद्यको धर्मविशेषस्तदर्थो न तु घटेतरासमवेतत्वेत्यादिरूपो गौरवादित्याहुः । निरुक्तबावस्य त्वाद्यर्थत्वे वार्तिककृत्संमतिमाह__उक्तं चेत्यादिना । 'यस्य गुणस्ये'त्यत्र गुणशब्द उपकारकपर इत्यभिप्रेत्याह__विशेषणतयेति । उक्तं च कैयटीये__'गुणशब्देन यावान् कश्चित् पराश्रयो भेदको जात्यादिः सर्व इह गृह्यते' इति । 'भावा'दित्येतद् व्याचष्टे__आश्रयत्वादित । 'द्रव्ये' इत्येतद् व्याचष्टे__विशेष्य इति । गुणे इति । गुणिपरशुक्लादिभ्यो गुण, गुणपरेभ्यस्तु तेभ्यस्तद्वृत्ति- जातावत बोध्यम्, अण्वादिशब्दा नित्यं गुणिपरा इति-तेभ्यः परिमाणरूपो गुण एव प्रत्ययः, 'परिमाणं चतुर्वधमणु महद्दीर्घं ह्रस्वं चे'त्यस्य त्वण्वादिवृत्तिरित्यर्थोवसेयः ।
घटत्वत्वादशब्दे व्यक्तय एव त्वादवाच्या इत पक्षान्तरमाह__जातिवाचकानामिति । घट- त्वादिशब्दनामित्यर्थः । व्यक्त्य एवेत । स्ववृत्तित्वसंबन्धेन तीसां वाच्यतावच्छेदकत्वमिति बोध्यम् । एवं तत्र तत्र त्वाद्यर्थमुक्त्वा शाब्दबोधमाह__तथा चेति । 'घटत्व'मित्यत्र प्रकृत्यर्थस्य स्वेतरासमवेतत्वविशिष्टनिखिलस्वसमवेतत्वसंबन्धेन प्रकारता, प्रत्ययार्थे धर्मे एतावता साधरण- धर्मलाभः, एतदभिप्रायेणैवा'साधारणो धर्म' बोध इत्यवादीत्, न त्वसाधारणधर्मत्वेन शक्तिस्तस्येरावृत्तित्वविशिष्टसकलप्रकृत्यर्थवृत्तित्वरूपत्वेन गौरवात् । अथवा वस्तुतो योऽसाधारणो धर्मस्तन्निष्ठाधेयत्वसंबन्धेन प्रकृत्यर्थान्वयस्तेन घटत्वमित्यत्र न द्रव्यत्वादिभानम् । तत्सूचनग्रयोजनकोऽपीति । तस्य = वार्तिकस्यसूचनायेत्यर्थः । 'अपि'शब्दः पक्षान्तरत्स- सूचनाय,__यद्वेतिशब्द इत्यर्थस्य समुच्चयाय, 'वार्तिकसूचनप्रयोजनक' इत्यनेनायं पक्षो वार्तिकोक्त इत्यप्रामाण्यशङ्का निरस्ता । वार्तिकव्याख्यानं बृहद्भूषणोक्तमाह__बवन्तीति । वाचकत्वनेति । वाचकतासंबन्धेनेत्यर्थः । प्रवर्तन्ते__अस्यार्थेष्विति शेषः । धातूनामनेकार्थत्वाद् भूधातुः प्रवृत्त्यर्थकः,
प्रवृत्तिश्च प्रकृते प्रयोगरूपा । एवं च भावशब्दः शब्दप्रतिपादक इत्याह__भावाः इति । अत्र 'स्व'शब्द आत्मवाचीत्याह__स्वेन रूपेणेति । स = शब्दात्मा, तेषां = शब्दानाम् । वार्तिकस्थचरमभावपदार्थमाह__भावः प्रवृत्तिनिमित्तमिति । ननु शब्दस्य प्रवृत्तिनिमित्ततं कथं ? शक्ये प्रकारस्यैव तत्त्वादत्याशङ्कां निरसितुमाह__अयं भाव इत्यादिना । तत्तद्वाच्यः कश्चिदित । विशेषरूपेणानुपस्थित्या नलत्वादरूपविशेषधर्मावच्छिन्ने श्क्तिग्रहासंभवेन सामान्यरूपेणैव
बोधोऽभ्युपेयः, 'इदं पदं क्कचिच्छक्तं पदत्वात्__साधुपदत्वा'दिति सामान्यतोऽनुमित्यात्मक- शक्तिग्रहसत्त्वात् । नागरिकान् प्रत्यबोधकत्वापत्तेरिति । तेषां प्रायो विशेषरूपाज्ञानेन, विशेषरूपेण शक्तिग्रहसंभवात्, गारमोणानां तु विशेषतो ज्ञानसंभवान्नाबोधकत्वामिति सूचयितुं__'नागरिका' नित्युक्तम् । तच्च विशेषरूपेणानभिज्ञपरम्, तेन कस्यचिन्नागरिकस्य विशेषरूपेण बोधेऽपि नासंगतिः । एवमेवेति । एतत्पदवाच् इत्याकारक एव, न तु__तत्तज्जात्यादीति,__'अनुभव' इत्यनुपज्यते । अत एव जन्मान्तरीणसंस्कारवाशाद्वशेषरूपेण शक्तिग्रहे सति विशेषरूपेण भानं नलादीनामित्यपास्तम् । विशेषरूपेणानुभवाभावेनानन्तसंस्कारकल्पने मानाभावात्, तत्तद्वाचक- पदश्रवणं विना तेषां विशेषरूपेण स्मरणापत्तेश्च । उद्बोधकाभावान्न स्मरणमिति तु न साम्प्रतं, तत एव शाब्दबोधनिर्वाहे संस्कारस्मरणाद्योर्हेतुत्वासिद्धयापतेतरित्याहुः । उभयमवच्छेदकमिति । जात्यादि, शब्दश्चेत्युभयं शक्यतावच्छेदकमित्यर्थः । तत्र शब्दस्य शक्तिसंबन्धेन शक्यतावच्छेद- कत्वं, जात्यादेस्तु यथायथं समवायादिसंबन्धेन । तथा शक्तिग्रहः = जात्यादिरूपेण शक्तिग्रहः । तथैव = पदप्रकारक एव । शक्तग्रहवैलक्षण्याद्बोधवैलक्षण्यमिति भावः । तथा च = शब्दस्य शाब्दबोधप्रकारत्वे च । शब्दोपि = अपिशब्दो जात्यादिसमुच्चायकः । परे तु__येषां मते शब्दः प्रवृत्तिनिमित्तं तेषां मते शब्दस्त्वाद्यर्थः, येषां मते जात्यादरूपोऽर्थः प्रवृत्तिनिमित्तं, तेषां मते स तदर्थ इति वदन्ति । प्रकृतेर्लक्षणया शब्दपरत्वं, जात्यदिः शाब्दो वा त्वाद्यर्थः, जन्यबोधप्रकारत्व- संबन्धेन प्रकृत्यर्थस्य शब्दस्य प्रत्ययार्थऽन्वयः, अत एव शब्दपरत्वं प्रकृतेः स्वीक्रियते, अन्यथा घटादेः प्रकृत्यर्थस्य शब्दरूपे प्रत्ययार्थेऽन्वयासंभवात्, न हि तत्र समवायादेः संभवः । 'जन्यबोधे'त्याद्युक्तसंबन्धस्याप्यसंभवः । शक्तिसंबन्धस्य संभवेऽपि पटत्वादौ तदसंभव इति शब्द- परत्वमेवादृतमिति बोध्यम् । परे तु__भाष्ये__'तस्य भावः__' इत्यत्रत्यभावशब्दस्याभिप्रायाद्यर्थक- तयाभिप्रायादिष्वतिप्रसङ्गश्हकानिरासो 'यस्य गुणस्य भावादि'ति वार्तिकेन कृतः, 'भाव'शब्देन प्रकृतसूत्रे प्रवृत्तिनिमित्तभूतो धर्मो गृह्यते, न त्वभिप्रायादिरित्यभिप्रायात् । तदनन्तरं डित्थत्वमित्यादौ त्वाद्यनुपपत्तिः, डित्थादिशब्देन व्यक्तेरेव बोधनादित्याशङ्कां__व्यक्तेरेव विशेष्यताप्रकारत्वाभ्यां भावस्य प्रकारताविशिष्टव्यक्तिरूपत्वाद्यर्थस्य चोपगमेन समाधाय__'यद्वा सर्वे भावाः स्वेन__'इत्यादिवार्तिकेन समाधानान्तरं कृतम् । तस्यायमर्थः-स्वशब्दोऽत्रात्मीयपरः, शब्दस्य द्विविधोऽर्थो वाच्यो घटादिः, प्रवृत्तिनिमित्तिरपश्च, तदन्यतराभिधाने त्वादिः । तत्रान्त्यो घटत्वमित्यादौ । तत्र प्रकृतिरर्थपरैव, अर्थस्य घटादेः प्रत्ययार्थे जात्यादिरूपेऽन्वयसंभवात् । 'कुत्वं' डित्थत्व'मित्यादावाद्यः, तत्र प्रत्ययार्थानुपपत्त्या शब्दपरैव प्रकृतिः, शब्दपरात् क्कादिशब्दात् व्यक्तिरूपेऽर्थे प्रत्ययः, एवं च डित्थत्वडित्थशब्दयोः, कुत्कुशबदयोः, पदपदशब्दाद्योः, पर्यायता । अत एव वृद्धिसूत्रे भाष्ये 'कुत्वं कस्मान्न भवति__'चोःकुः' 'पदस्य'
इति, भत्वात्, कथं भसंज्ञा, अयस्मयादीनि छन्दसि' इत्युक्तम् । एवं च कुत्वादिपदस्य कवर्गादरेवार्थः, एवं सति 'तस्य भाव' इति सूत्रस्थतच्छब्दस्य शब्दपरत्वमास्थेयं, तस्य च 'गुणवचने'ति सूत्रेऽनुवृत्तस्यार्थपरत्वमाश्रणीयम्, एवं चार्थस्य त्यागौपादानप्रयुक्तगौरवापत्तिश्च न । न ह शब्दस्य कर्म संभवति, प्रतीयते वा, 'तस्यापत्यम्' इत्यादौ तच्छब्दस्यार्थपरताया एव दृष्टत्वाच्चेति समूचिरे । प्रकृत्यर्थप्रत्ययार्थयोः संबन्धस्त्वाद्यन्तसमुदायशक्यः ।।
*इति त्वादिप्रत्ययार्थनिर्णयः समाप्तः*
प्रसङ्गसंगत्या देवताद्यर्थकतद्धितपरत्ययार्थमाह__सास्य देवतेत्यत्रेति । प्रथमोपात्तस्याप्य- पत्यार्थकतद्धितोपेक्षा तु तत्र प्रत्ययार्थस्यापत्यरूपस्यैकत्वात्, तत्र च प्रकृत्यर्थस्य जन्यजनकभाव- संबन्धादिरूपभेदसंबन्धेन प्रकारतायाः सुगमत्वेन । देवतार्थकतद्धिते तु नानापक्षसंभवेन दुरूहत्वेन तदर्थनिर्णये आदर इति बोध्यम् । देवताविशिष्टमिति । स्वस्वामिभावसंबन्धेन स्वोद्देश्यकत्याग- कर्मत्वसंबन्धेन वा देवताविशिष्टमित्यर्थः । अत एव = प्रकृततद्धितस्योक्तार्थकत्वादेव । तस्यैव = तद्धितस्यैव । विषयार्पणमिति । अस्येति सर्वनाम्नो विशेषबोधकतया तदर्थे विहतस्य तद्धितस्यापि तथात्वेन कोऽसौ विशेष इति जिज्ञासायामामिक्षापदसांनिध्यादामिक्षारूपो विशेष इति प्रतीयत इत्यर्थः । केवलादिति । 'केवलादाग्रेशब्दाद्देवतावाची तद्धितः समुच्छरन् = प्रादुर्भवन्नन्ययुक्ताग्निदैवत्यं प्रतिपादयितुं न क्षम' इति योजना, इतरसापेक्षस्य देवतात्वेऽसामर्थ्या- त्तद्धितवृत्तिरेव न स्यादिति भावः । अत एवाग्निषोमीयादावाग्नेयपदव्यवहाराभावाद् 'आग्नेयं चतुर्धा करोति' इति वाक्यविहितचतुर्धाकरणस्य न प्रवृत्तिः, द्वन्द्वे इतरसापेक्षस्यैव व्यासज्यवृत्ति- देवतात्वादिति स्थितं पूर्वतन्त्रे तृतीयस्य प्रथमचरणे । 'नान्ययुक्ताग्निदैवत्य'मित्यादिना केवलाग्नि- दैवत्यं प्रतिपादयितुं क्षम इति सूचितमिति भवत्युपष्टम्भसंगतिः । देवतायामितीति । बृहद्भू- षणकारास्तु__'आग्नेय' इत्यादौ प्रकृत्यैव लब्धस्य प्रकृत्यर्थस्योद्देश्यत्वमात्रं यथा चतुर्थ्या प्रतपाद्यते, एवमत्रापि प्रत्ययेन देवतात्वं प्रदेयं च प्रतिपाद्यते, देवतात्वस्य निरूपकत्वं प्रदेये संसर्गः, प्रकृत्यर्थस्य तत्राधेयत्वं संसर्गः, प्रदेयत्वं संबन्धित्वेनैव प्रत्ययार्थो न तु दधित्वाद्यात्मक- विशेषरूपेण, अत एवेन्द्रं दधीत्यादि प्रयोगसंगतिः, आभिक्षापदेन विशेषाकाङ्क्षा पूर्यते, एवं चाग्रेयमि यत्राग्रिवृत्तिदेवतात्वनिरूपकमिति बोधः । नन्वेवं__
'तद्धितेन, चतुर्थ्या वा, मन्त्रवर्णेन वा पुनः ।
देवतासंगतिस्तत्र दुर्बलं तु परं परम् ।।' इति__
__मीमांसकोक्तदौर्बल्यानुपपत्तिरिति चेन्न, चतुर्थ्या वाक्याद्देवतात्वसंबन्धलाभः, पृथकपदो- पस्थितहवीरूपसंबन्धिनि तद्धिते तु समानपदश्रुत्यैवेति तद्धितस्य वलवत्त्वोपपत्तेः । अथवा प्रदेयमेव प्रत्ययार्थः, स्ववृत्तदेवतात्वनिरूपकत्वसंबन्धेन प्रकृत्यर्थस्य प्रत्ययार्थेऽन्वयः, तावतैवेन्द्रादे- र्देवतात्वलाभः, देवतात्वघटितसंबन्धेन बोध एवानुशासनतात्पर्यमिति नानुशासनविरोधः, देवता- त्वबोधे एव हि तत्तात्पर्य, न तु तत्प्रकारक एव । उक्तसंसर्गकबोधोऽपि देवतात्वविषयको भवत्येवेति भाव इत्याहुः । देवतात्वं च-दिवेरैश्वर्यकर्मणो देवतेति 'देवात्तल्' इति सूत्रभाष्या- न्मन्त्रकरणकहविस्त्यागजन्यस्वर्गादिफलातिरिक्तफलाश्रयत्वम्, मन्त्रस्तुत्यत्वं च अनुक्रमणिकाया-
मप्युक्तम्__यस्य वाक्यं स ऋषिर्यानेनोच्यते सा देवतेति, अत एवैन्द्रो मन्त्र एन्द्रं हविरिति द्विविधप्रयोगसिद्धिः । देवतानिष्ठं फलं चास्येदं फलं भवत्वितीच्छात्मकप्रतीतिरेव, क इदं कस्मा अदादित्यादिमन्त्रप्रयोज्यस्वामित्वभाज प्रतिग्रहीतर्यतप्रसङ्गनिवृत्तिफलकं 'मन्त्रकरणके'ति हविस्त्वागविशेषणम् । दर्शादिश्राद्धे मृतपत्नीनां देवतात्ववारणायोद्देश्यत्वप्रवेशः । न च तासां त्तत्फलसंबन्धित्वमिति वाच्यं, 'न योपिद्भ्यः पृथग्दद्या'दत्यादिना तासां फलसंबन्धित्वबोधनात्, शूद्रकर्तृकश्राद्धादावपि नमस्काररूपमन्त्रसत्त्वान्न तदीयपित्रादीनां देवतात्वानुपपत्तिः, 'अनुमतोऽस्य नमस्कारो मन्त्र' इति गौतमस्मृतेरिति प्राहुरित्याद्यन्यत्र विस्तरः ।
अभेदेनाप्यन्वय इति । भेदसंबन्धेनान्वयो न संभवति, तस्य बाधितत्वादिति सूचना- यापिशब्दः । अथवा स्ववृत्तदेवतात्वरूपधर्मवत्वसंबन्धेनान्वयनिरासायापिरुपात्तः ।। 53 ।।
लक्षमयैवेति । अन्यादिशब्दोग्न्यादिदेवतायां लाक्षणिक इत्यर्थः । प्रदेये एवेति । 'एव'कारो देवताव्यावृत्तये । निरूढेति । अनादितात्पर्यवती निरूढलक्षणेत्यर्थः । तेन सर्वदा देवतात्वरूपेण प्रतीतिनिर्वाहः । स्थिताः = मीमांसकादिग्रन्थेषु स्थिताः । तत्र शक्तिरिति । तत्र = देये द्रव्ये । द्रव्ये शक्त्यभावेऽपि दध्यादिपदलभ्ये तस्मिन् प्रत्ययलभ्याया देवतायाः स्वनिष्ठदेवतात्व- निरूपकत्वादिसंबन्धेनान्वयाद्विशिष्टलाभसंभवः । तत्प्रतीतेः = द्रव्यप्रतीतेः । सामानाधि- करण्याच्चेति । तथा चाभेदान्वयानुरोधात्तत्र प्रत्ययशक्तिरावश्यकीत भावः । उक्तसंबन्धेन देवताया अन्वयस्तु न युक्तो'नामार्थयो'रिति व्युत्पत्तिविरोधात्, न च देवतावशिष्टद्रव्ये प्रकृते- निरूढलक्षणैवास्तु किं प्रदेये प्रत्ययशक्तिकल्पनयेति वाच्यम्, तथा सति प्रदेयस्य प्रकृत्यर्थ- विशेष्यत्वानापत्तेः, द्योत्यार्थस्य विशेषणत्वनियमात्, अन्यथौपगवादावपि प्रत्ययस्य द्योतकत्वापत्तेः । अन्यथा = सामानाधिकरण्यानुरोधात् प्रदेये शक्त्यनभ्युपगमे । न सिध्येदिति । अस्य वैयाकरणमते' इत्यादिः । देवतात्वमेवेति । देवतायां शक्तिस्वीकारापेक्षयापि लाघवाद्देवतात्वे एव शक्तिकल्पनमेवोचितं, देवतात्वस्य स्वनिरूपकत्वसंबन्धेनान्वयो भविष्यतीति भावः । कर्तृवद्वाच्य- त्वमिति । यथा मीमांसकनये आख्यातस्य कर्ता न वाच्योऽपि तु लाघवाद्भावनैव, आश्रयस्य पदान्तरेण लाभात्, कर्तृत्वविशिष्टबोधस्य तु भावनारूपकर्तृत्वस्य तत्रान्वयेनैव संभवात्, तथात्र प्रदेये पदान्तरलब्धे प्रत्ययार्धदेवतात्वस्यान्वयेनैव विशिष्टलाभम्भभवात् प्रत्ययस्य प्रदेये शक्तिर्न सिध्येत् । न चेष्टापत्तिः, 'आमिक्षां देवतायुक्ता'मित्यनेन प्रदेये तैः शक्तबोधनात् । अत्र चेत् सामानाधिकरण्यानुरोधात् प्रदेये शक्तिकल्पनं, तर्हि आख्यातेऽपि कर्तृवाचकत्वं स्याद्देवदत्तः पचतीत्यत्र कर्तृदेवदत्तयोरनुभूयमानसामानाधिकरण्यानुरोधादिति-सिहावलोकनन्यायेनेदं दूषणं द्रष्टव्यम् । नन्वग्त्यादिपदेन शक्त्यैवाग्त्यादिदेवताया लाभे किं लक्षणयेत्य आह-देवतात्वेति । निरूढपदार्थमाह-अनुपपत्तीति । अन्वयानुपपत्तिज्ञानाभावेऽपि तात्पर्यानुपपत्तिज्ञानसंभवाद- संगतिभाशङ्क्याह__अनादीति । लक्ष्ये योऽनादप्रयोगस्तदवच्छिन्नत्वमित्यर्थः, प्रयोगस्यावच्छे- दकत्वं च-कर्मतासंबन्धेन ।।
मूले एषैव दिगति-एषैव रीतिरित्यर्थः । इत्यत्रेति । एतत्सूत्रानुशिष्टणप्रत्थयान्तदाण्डादि-
शब्दे । प्रहरणविशिष्टेति । अस्यार्थ इत्यत्रान्वयः । अर्थः = णप्रत्ययार्थः । तत्र प्रकृत्यर्थदण्डस्य प्रहरणविशिष्टक्रीडारूपणप्रत्ययार्थैकदेशप्रहरणेऽभेदेनान्वयः । एकदेशेऽन्वयमसहमानः खण्डशः प्रहरणे क्रीडायां च शक्तिमाह-प्रहरणक्रीडे इति । अत्र पक्षेऽभेदेन दण्डान्वितिप्रहरणस्य क्रीडायामाश्रयत्वसंबन्धेनान्वयः । लाघवादाह__क्रीडामात्रमिति । 'मात्र'पदेन प्रहरणव्यवच्छेदः । प्रकृत्यर्थदण्डादेः स्वनिष्ठप्रहरणत्वनिरूपकत्वसंबन्धेनान्वयः । अथवा दण्डपदस्यदण्डप्रहरणे निरूढलक्षणास्निन् पक्षे बोध्या । परे तु-प्रहरणत्वं प्रत्ययार्थः, क्रीडा च, प्रहरणत्वेप्रकृत्यर्थ- स्याधेयत्वं संसर्गः तस्य तु क्रीडयां निरूपकत्वमित्याहुः । अनेन संबन्धेनान्वये तात्पर्यग्राहकं सूत्रस्थं प्रहरणपदमिति तद्भावः । 'सोऽस्य निवास' इति । सुघ्रो निवासो = निवासाधिकरण-
भूतोऽस्य स्त्रौघ्नः । अत्राप पूर्ववत् पक्षत्रयमुन्नेयम्, स्त्रुघ्नाभिन्ननिवासाधिकरणसंबन्धीत्याद्यकारो बोधः । सास्मिन् पौर्णमासीति । प्रथमान्तादस्मिन् पौर्णमासीत्यर्थे प्रत्ययो भवतीति तदर्थः । इतिशब्दः__संज्ञायां यथा स्यादित्येतदर्थः, प्रकृतिप्रत्ययसमुदायश्चेत् संज्ञारूढस्तदेति यावत् । 'चैत्रो मास' इत्याद्युदाहरणम् ।
प्रसङ्गात् कतिपयानुक्ततद्धितार्थो निरूप्यते । चैत्र्यादिशब्दो 'नक्षत्रेण युक्तः कालः' इति सूत्रवहिताणन्तप्रकृतिकडीबन्तः, तत्र चित्रादिशब्दः स्वार्थतत्तन्नक्षत्रयुक्तचन्द्रपरः, अन्यथा सर्वेषां नक्षत्राणां सर्वदा सत्त्वेन सर्वदैवाद्य चैत्रमहरित्यादिप्रयोगापत्तेः । अत्र युक्त एव प्रत्ययार्थः न तु कालोऽपि, लाघवेन वस्तुसत एव तस्य प्रत्ययोत्पत्तिनिमित्तत्वौचित्यात्, अहरादिपदेन तल्लाभ- संभवाच्च । तथा च चित्रायुक्तचन्द्रयुक्तेति चैव्यादिशब्दजबोधः, चैत्रादिशब्दोत्तरतद्धितस्य पूर्णिमाधिकरणादिप्रत्ययार्थः, अत्रापि पूर्ववत् पक्षत्रयमुन्नेयम्, तादृशपौर्णमास्याधिकरणमिति बोधः । तत्तत्पौर्णमास्यां चित्रादियोगानियमेऽपि-'चैत्री पौर्णमासी'त्यादौ तत्तन्नक्षत्रयोगयोग्यतैव विवक्षिता । तत्तन्नक्षत्रयोगाभावेऽपि 'चैत्री' पौर्णमासी'त्यादिप्रयोगात्, 'चैत्रो' 'वैशाख' इत्यादिप्रयोगाच्च । योग्यता च स्वस्वसमीपनक्षत्रान्यतरयुक्तत्वरूपा, चैत्रादिश्रावणान्तानां मासानां चित्रादिद्वन्द्वमध्ये कस्यचिद्योगस्तथाविधव्यवहारे प्रयोजकः, भाद्रपदाश्वयुजोस्तु शतभिषग्रेवत्यादित्रिकन्यतमयोगः, कार्तिकादिमाघान्तानां कृत्तिकादिद्वन्द्वान्यतरयोगः, फाल्गुनस्य तु पूर्वाफाल्गुन्यादित्रयान्यतमयोग इति विवेकः । तथा चोक्तं संकर्षणकाण्डे__
'द्वन्द्वैश्चित्रादिताराणां परिपूर्णेन्दुसंगमे ।
मासाश्चैत्रादयो ज्ञेयास्त्रिकैः षष्ठ्यन्तसप्रमाः ।।' इति
अन्यत्रापि__'अन्त्योपान्त्यौ त्रिभौ' ज्ञेयौ फाल्गुनश्च त्रिभो मतः ।
शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया ।।' इति ।
अन्त्योपान्त्यौ = भाद्रपदाश्वयुजौ । चैत्रादिपदस्य शुक्लप्रतिपदादिदर्शान्तसमुदाये रूढिः स्वीकियतेऽतो न यत्किंचत्तिथिप्रभृतिकत्रिंशद्दिनसमुदाये चैत्रपौर्णिमासीघटिते चैत्रादिपदप्रयो- गातप्रसङ्गः । कृष्णप्रतिपदादिपौर्णमास्यन्तसमुदाये तु न रूढिः, तत्र प्रचुरप्रसिद्धयभावात्, पौर्ण- मासीघटितमासस्य चान्द्रत्वेन तस्य च 'चान्द्रः शुक्लादिदर्शान्तः' इत्यादिस्मृतिभ्यः शिष्टाचार- बाहुल्याच्च शुक्लादिदर्शान्तस्यैव ग्रहीतुमुचितत्वात् । कृष्णप्रतिपदादिपूर्णिमान्ते तु लाक्षणिको व्यवहार इत्याहुः ।
माघवाचार्यास्तु__चान्द्रस्य श्रुतिस्मृतिलङ्गदर्शनाद् दर्शान्तत्वपूर्णिमान्तत्वयोः समो विकल्पः, आथर्वणिकाः__सृष्टिप्रकरणे संवत्सरदक्षिणोत्तरायाणसृष्टिमाम्नायमासपक्षसृष्टि- मेवामनन्ति । मासो वै प्रजापतिः, तस्य कृष्णपक्ष एव रतिः, शुक्लः प्राण इति । तत्र कृष्णपक्षस्य प्रथमपाठो मासस्य कृष्णप्रतिपदादित्वे लिङ्गम् ।
'मासि भाद्रपदेऽष्टर्म्या कृष्णपक्षेर्द्धरात्रके ।
भवेत् प्रजापतेर्ऋक्षं जयन्तो नाम सा स्मृता' ।। इति ।।
__जयन्तीप्रकरणस्था स्मृतिरपि लिङ्गम् । 'अश्वयुक्कृष्णपक्षे तु श्राद्धं कुर्याद्दिने दिने' इति स्मृतिरपि महालयप्रकरणस्था शुक्लप्रतिपदादित्वे लिङ्गम् । अन्यथा तस्य पक्षस्य भाद्रपदान्तर्गतत्वेनाश्वयुक्संबन्धित्वाभावेनासंगत्यापत्तेः, शिष्टाचारविशेषोऽपि लिङ्गं, यतिधर्म-
प्रकरणे'__ऋतुसन्धिषु वापयन्ति' इति स्मर्यते । परं तु यतयः पूर्णिमायामेव वापयन्ति, न दर्शे, अन्यथा तत्रैव वपनं कुर्युः, अनुष्ठाने तत्तद्वचनविशेषाच्छिष्टाचाराच्च व्यवस्थेत्याहुः । एतन्मते दर्शान्ते पूणिंमान्ते च चैत्रादिशब्दरूढिरिति लभ्यते इत्यलमतिविस्तरेण ।
गोमानित्यादौ 'तदस्यास्त्यस्मिन्निति मतु'बिति मतुप् । तत्र संबन्धी संबन्ध आश्रयं चेत्युभयं वा प्रत्ययार्थः, अत्रास्तीति वर्तमानकालो विवक्षितः, अन्यथा गवामतीतत्वे भावित्वे वा मतुबन्तस्य साधुत्वापत्तेः, वर्तमानसत्तावत्स्वार्थपरो गवादिशब्दः, एवं च वर्तमानसत्तावद्गोसंबन्धीति बोधः । 'गोमानसी'त्यादौ तु गोमत्पदस्य तत्पदव्यहारविषये लक्षणेति नानुपपत्तिरिति कैयटादिग्रन्थेषु स्थितम् । पाणिनिना प्रोक्तं__पाणिनीयम् । अत्र प्रोक्तत्वं नाध्यापनेन प्रकाशितत्वम्, सुशर्मणाध्या- पिते काठके__सौशर्मणमिति प्रयोगापत्तेः, नापि कृतत्वं__'कृते ग्रथे' इत्यनेनैव सिद्धावेतस्य वैयर्थ्यापत्तेः ।
ननु वेदस्य नित्यत्वेन तत्र कृतत्वाभावेन तैत्तिरीयं काठकमित्यादप्रयोगानुपपत्तिरिति चेन्न, 'यद्यप्यर्थो नित्यो__या त्वसौ वर्णानुपूर्वीं साऽनित्या' इति भाष्ये एव समाधानात् । प्रलयेषूच्चार- यितृपुरुषाभावादानुपूर्वीविनाशेन पुनरुत्पद्य ऋषयः संस्कारातिशयाद्वेदार्थं स्मृत्वा शब्दारचनां विदधति, अर्थाभेदेऽपि आनुपूर्वीभेदनिबन्धन एव केषुचित् काठकादिव्यवहारस्ततश्च 'कठादयो वेदानुपूर्व्याः कर्तारः प्रवक्तारश्च' इति कैयटोक्तेश्चेति चेन्न, प्रोक्तत्वं = प्रथमप्रकाशितत्वं, तच्च स्वकृतपरकृतसाधारणम्, एवं च माधुरेण प्रथमप्रकाशितायां तेनाकृतायां वृत्तौ माधु[थु ?]रीति प्रयोगोपपतये 'तेन प्रोक्तम्' इत्यस्यावश्यकत्वात् । सुशर्मणा काठकन्तु न प्रथमं प्रकाशितमिति नातिप्रसङ्गः । 'तेन प्रोक्तम्' इत सूत्रबाष्ये एव स्पष्टम्, भाष्ये वर्णाऽनुपूर्वीत्यत्र वर्णः शब्दपरस्तेन पदानाममेद इति सूचितम् । तथा च स्मृतिः__
'प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते' । इति ।
'स्वयंभूरेप भगवान् वेदो गीतस्त्वया पुरा ।
शिवाद्या ऋषिपर्यन्ताः स्मर्तारोऽस्य न कारकाः ।।
युगान्तेऽन्तार्हितान् वेदान् सेतिहासान् महर्पयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ।।' इति__
__स्मृतिद्वयं त्वर्थानित्यत्वादुपपन्नमित्यन्यत्र विस्तरः । पञ्चानां पूरणः पञ्चमः,-अत्र 'तस्य
पूरणे डट्' इति डट्, तस्य 'नान्तादसंख्यादेः-' इति मडागमः, स्वनिष्ठपञ्चत्वसंख्यापूरणत्वं संबन्धः__प्रकृत्यर्थस्य प्रत्ययार्थे, स्वनिष्ठपञ्चत्वसंख्यापूरण इति बोधः, पूरणत्वं स्वाश्रिततत्त- संख्यापूर्तिनिमित्तत्वम्, द्वितीयादौ तृतीयादिव्यवहारापत्तिस्तु न__तस्येष्टत्वात्, अत एव 'समर्थः पदविधिः' इत्यध्यायस्याष्टम इति व्यवहारः कृतः बुद्धिस्थावधिसापेक्षोऽयं व्यवहार इति नातिप्रसङ्गः । यथा हरिस्तथा हरः । अत्र 'प्रकारवचने थाल्' इति थाल्प्रत्ययः प्रकारवदर्थकः, सामानाधिकरण्यानुरोधाद्वचनग्रहणाच्च । जातीयरादेस्थाला बाधस्तु न, 'तथाजातीयकः' इति भाष्यप्रयोगात् । प्रकारश्च प्रकृते सामान्यस्य भेदको विशेषः, एवं च यद्विशेषधर्मवान् हरिस्त- द्विशेषधर्मवान् हर इति बोधः, यत्तद्भ्यां धर्मयोरैक्यावगतौ हरिसादृश्यं हरे पर्यवस्यती । ननु सादृश्यमेव तदर्थोऽस्तु, एवं च यत्सदृशो हरिस्तत्सदृशो हर इत्यनुभवसिद्धः__सादृश्यप्रकारकः शाब्दबोध उपपद्यत इति चेन्न, 'अन्यथेतरथे'त्यादौ तदप्रतीतेः । 'गुडकल्पा द्राक्षा' 'बहुगुडो'
द्राक्षा' इत्यत्र 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' 'विभाषा सुपो बहुच् पुरस्तात्तु' इति सूत्राभ्यामी- पदसमाप्तविशिष्टार्थकादेते प्रत्यया भवन्ति, बहुच् एतादृशसुबन्तात् पुरस्ताद्विभाषा भवतीत्यर्थकाभ्यां कल्पब्वाहुचौ स्तः, विभाषाग्रहणं तिङन्ते सावकाशानां कल्पबादीनां प्रवृत्त्यर्थम्, गुडपदं-गुडसदृशपरम्, प्रत्ययस्तु द्योतकः, अत एव 'गुडकव्पा द्राक्षे'ति स्त्रीलिङ्गं 'बहुगुडो द्राक्षे'त्यत्र पुंलिङ्गं च निर्वहति । स्वार्थिकानां प्रकृतिलिङ्गवचनातिक्रमानतिक्रमयोः स्वभाव- सिद्धत्वात्, सादृश्यस्य प्रत्ययार्थत्वे तु बहुगुडो द्राक्षे'त्यत्र विशेष्यगतस्त्रीलिङ्गापत्तिः, अत्रेपद- समाप्तत्वं__सादृश्यप्रयोजकं माधुर्यादि प्रतीयते, तेनेषत्सादृश्ये प्रत्ययानुत्पत्तिः, गुडसदृशी द्राक्षेति बोधः, उपमा गम्यते ।
परे तु-सादृश्याद् द्राक्षायां गुडत्वारोपाद्गुडत्वजात्यभावाच्चेषदसमाप्तं गुडत्वं द्राक्षायामिति 'गुड इयं द्राक्षा' 'गुडकल्पा द्राक्षे'ति प्रयोगः । एवं च गुडत्वप्रकास्क एव बोध इत्याहुः । मञ्जूषाकृन्मते तु-उपमानगुडाभिन्ना द्राक्षेति बोधः । अन्ये तु-सादृश्यरूपेपदसमाप्तिः प्रत्ययार्थः, गुणगुणिनोरारोपिताभेदाच्च द्राक्षादिनाऽबेदान्वयोपपत्तिः, अथवा सादृश्यवान् प्रत्ययार्थः, सादृश्याश्रयौ वा तदर्थौ, बहुगुडो द्राक्षेति प्रयोगानुपपत्तिस्तु न, विभाषासूत्रे पुरस्तादित्या- वृत्त्यावधारणार्थकतशब्देन पुरस्तादेव सर्वं भवतीति व्याख्यानेन 'प्रतययोत्पत्तेः प्राग्दृष्टे ये लिङ्गसंख्येते एव स्तः, प्रयोगश्च प्राक् प्रकृते'रित्यर्थाङ्गीकारेणापादनेन प्रत्ययपरत्ववारणार्थस्तु न सः, अपवादकतयैव तत्सिद्धेः, न च पुरस्ता'दित्यत्र विभाषापदसंबन्धात् पूर्वत्वविकल्पे सति परत्वमपि स्यात्, तन्निवृत्तयेऽवधारणार्थस्तुशब्द इति वाच्यम्, 'उदश्वितोऽन्यतरस्याम्' इत्यत्र परत्वमिवात्र पुर्वत्वं न विकल्प्यते, गुणानां च परार्थत्वादिति न्यायात्, किं तु प्राधान्यात्, प्रत्यय एव वकल्प्यत इति भाष्ये एवोक्तत्वादत्याहुः । पाचकक इत्यादौ__'कुत्सते' इति सूत्रेण कुत्साविशिष्टार्थकात् पाचकशब्दात् कन्, कुत्सितपाकत्ववानिति बोधः, प्रवृत्तिनिमित्तकुत्साया असंभवे तु-अश्वक इत्यादौ तत्सहचरितधर्मान्तरगतकुत्सानिमित्तकः प्रत्ययः, 'कुत्सितक' इत्यादौ कुत्सितत्वकुत्सानिमित्तकः प्रत्ययः, अस्य कुत्सितत्वं न सम्यक्, कि तु शत्रुभिर्द्वेषेणारोपितमिति तस्य कुत्सा, अथवा नियमेन कुत्सासंबन्धप्रतीत्यर्थं प्रवृत्तिनिमित्तकुत्सायामेव प्रत्ययः, किं च स्वार्थे पूर्णस्यैव कुत्सानादियोगात् सुबन्तादेव कन् इति सुवन्तेन प्रतिपादितार्थस्वार्थस्वार्थ-
द्रव्यलिङ्गादिगता कुत्सा कना प्रत्याय्यते, तत्र-'पण्डितक' इत्यत्र प्रवृत्तिनिमित्तकुत्सा । 'शुक्ल्कं रूप'मित्यत्र द्रव्यकुत्सा, 'पश्य गाण्डीवधन्वानं विद्धि कोरवकान् स्त्रिय' इत्यत्र लिङ्गकुत्सा । 'पुत्रकः शत'मत्रैकत्वसंख्याकुत्सा, शतभरणे यद्दुःखं तदेकस्यैव भरणे इति प्रतीतेरिति दिक् । अश्व इव अश्वकोऽयम्, 'इवे प्रतिकृतौ' इति कन्, अश्वसदृशाभिन्नोऽयम्, उपमानाश्वाभिन्नोऽयमिति वा बोधः, अन्त्ये उपमानाश्व इति प्रत्ययान्ताद्बोधः, तस्येदपदार्थोपमेयेन सादृश्यमूलकारोपिताभेदेनान्वयः' पूज्यप्रतिमाचित्रपटध्वजप्रतिमासु शिवाद्यभेदबुद्धिरेव न त्विवार्थप्रतीतिरिति न कन् । स्पष्टं चेदं रसनिरूपणे काव्यप्रकाशे-तत्र हि__'रामोऽ.मित बुद्ध्या गृहीते नटे' इत्याद्युक्तम्, काकतालीय-कान्तामेलनाकाकागमनपरमुत्तरपदं तूक्तपूर्वपदार्थसमानाधि- करणोपमानतालपतनपरम् उत्तपदार्थे पूर्वपदार्थस्य नान्तर्भावः, सामानाधिकरण्यं पूर्वपदार्थप्रतियोगिकमिति बोधनाय परं तथोक्तिरतो न नैरा काङ्क्ष्यं । काकागमनरूपपूर्वपदार्थस्योत्तरपदार्थैकदेशसामानाधिकरण्ये अन्त्ये सामानाधिकरण्यघटितसंबन्धो
धर्मिणि वा । अत एव सामर्थ्यसत्त्वात् समासोपपत्तिः, उत्तरपदमप स्वार्थसमवेतपतनादिमात्रपरं, न तु समानाधिकरणस्यापि तदर्थेऽन्तर्भावः, पूर्वपदोत्तरपदार्थयोः सामानाधिकरण्यरूप- संबन्धसंभवात् सामर्थ्योपपत्तेरित तु न युक्तम्, सामानाधिकरण्यस्य संबन्धत्वाभावात् । अत एव 'चैत्रस्य भ्राते'त्यादौ षष्ठ्यर्थसंबन्धो न संभवति, एकोदरशायित्वस्य तथात्वे पान्थयोरेकदेशे रात्रावुपतियोपरि संबन्धः स्यात्, तथा च तत्रापि 'यज्ञदत्तस्य देवदत्त' इति प्रयोगः स्यादित्याशङ्क्य काल्पनिकोऽवयवावयविभावः षष्ठ्यर्थ इति समाहितम् 'अनेकमन्यपदार्थे' इति सूत्रे भाष्यकैयदयोः । पान्थयोस्तु न तादृशसंबन्धकल्पना, तादृशप्रयोगाभावात्, एतेनात एव ज्ञापकादसामर्थ्येऽपि समास इति निरस्तम् । उक्तरीत्या सामर्थ्यसंभवात् । काकतालमिति समुदाय उपमेयपरः, एवं चोपमानकाकागमनसमानाधिकरणोपमानतालपतनाभिन्नं कान्तागमन- समानाधिकरणो देवदत्तसमागम इति समासजन्यो बोधः । विशिष्टयोरुपमेयोपमानभावबोधे विशेषणयोर्विशेष्ययोश्च स पर्यवस्यति, तत्तदुपमेयवाचकसमभिव्याहारो नियामकः, ततस्तद्धिते सति समासार्थस्तदुपमानं काकागमनसमानाधिकरणतालनिपतनं तत्प्रयोज्योपमानभूतकाककर्तृक- दलिततालफलोपभोगाभिन्नः समासार्थो, यदुपमेयं कान्तागमनसमानाधिकरणदेवदत्तसमागमरूपं तत्प्रयोज्यो देवदत्तकर्तृकः कान्तासंभोग इति बोधः । उभयत्राप्युपमानोपमेययोः सादृश्यमूलकोऽभेदोऽध्यवसितः, 'घनश्याम' इत्यत्र यथा घनश्यामपदार्थश्रीकृष्णयोः प्रयोज्य- प्रयोदकभावः समुदायशक्तिगम्यः । अन्ये तु-पूर्वंपदं काकागमनसदृशलाक्षणिकम्, लक्ष्यार्थयोश्च सामानाधिकरण्यं संबन्धः, पूर्वपदमेव वा काकागमनसदृशसमानाधिकरणलाक्षणिकम्, एवं च तयोरभेद एव संबन्धः, काकागमनसदृशसमानाधिकरणं काकागमनसमानाधिकरणतालपतन- सदृशमिति समासजन्यो बोधः, तत इवार्थे छः, छप्रत्ययान्तवृत्तिवषये काकतालशब्दस्य काकतालसमागमप्रयोज्ये निरूढलक्षणा, प्रयोज्यं च क्कचित् काककृततालफलोपभोगरूपं, क्कचितालकृतकाकवधरूपमुपमेयवाचकतत्समभिव्याहारवशाद्बुध्यते प्रयोज्यस्य सादृश्ये प्रतियोगित्वेनान्वयः, काकतालसमागमप्रयोज्यसदृशो देवदत्तकर्तृकः कान्तासंभोग इतिबोधः, उपमानोपमेयभावश्चाकस्मादुपनतत्वेनोपमेयवाचकतत्तत्पदसमभिव्याहारेण, उपमानतावच्छेदक-
तादृशकाककृततालफलोपभोगतादृशवधत्वादिरूपेणाबोधप्रत्ययोपमायामुपमानलोपमालंकारिकाःस्वीकुर्वन्ति, वाक्यलक्षणानङ्गीकारे तु तालशब्दस्यैवोक्तपरयोज्ये निरूढलक्षणेतरत् पूर्ववदित्याहुः । एवमन्यत्राप्यूह्यम् । विस्तस्तु मञ्जूषादितोऽनुसंधेय इत्यलं विस्तरेण ।
समर्थः पदविधिरित सूत्रादित । तत्संबन्ध्यपत्यमित्यर्थे प्रत्यय इति तस्यापत्यमित्यादेरर्थाद् 'वस्त्रमुपगोरपत्यं चैत्रस्ये'त्यर्थविवक्षायामुपगुशब्दात् प्रत्ययाप्राप्तावपि 'ऋद्धस्यौपगवो' 'वज्रधर ऐन्द्र' इत्यादिप्रयोगवारणाय समर्थ्यपरिभाषोपस्थितस्तद्धितेऽप्यावश्यकीत भावः । विशिष्ट- शक्त्यैवेति तत्तत्प्रकृत्यर्थतत्संबन्धविशिष्टे समुदायशक्त्यैवेत्यर्थः ।।
*इति तद्धितप्रत्ययार्थनिर्णयः *
अविभागेनेति । संख्यात्वेन रुपेण सर्वसंख्याभानमित्यर्थः । परित्यक्तविशेषमिति । अस्मिन् पक्षे संख्यात्त्वेन संख्यासामान्यस्यैव भानं न विशेषस्येति पूर्वस्माद्विशेषः । यद्यपि विशेषानालिङ्गितसामान्यासत्त्वादिदमसंभवि, तथापि 'वन्ध्यासुतो' 'राहोः शिर' इतिवद्विकल्पात्मा- कस्य संभवान्न दोषः । तदुक्तम्__
'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दःकरोति हि' इति ।
मतद्वयेऽपि 'राजपुरुष' इत्यत्र संख्यावद्राजसंबन्धीति बोधः । जातिभागस्य = संख्यात्वस्य । व्यापारस्तेनैव रूपेण भानम् । भेदापोहेन = भेदरूपो योऽपोहोऽतद्व्यावृत्तिस्तेन वर्तते = तेन रूपेण भासत इत्यर्थः, अतद्वयावृत्तिरेव जातितात्पर्यम् । अगृहीतेति । यथा दूराद्रूपत्वेन रूप गृह्यते, न तु शक्लत्वादिना, तथा संख्यात्वेन सामान्यमेव भासत इति यथाकथंचिदृष्टान्तः । 'न शुक्लादि'रित्यस्य शुक्लत्वादिनेति शेषः । अत एव रूपत्वेन रूपेण तद्भानेऽपि नासंगतिः । यद्वा 'शुक्लादि'रित्यस्य शुक्लत्वादिविशिष्ट इत्यर्थः । इतिनाध्याहारापेक्षा । पूर्वं संख्याविशेषानुगतं भेदापोह रूपं तदित्युक्तम् । इदानीं समस्तभेदसंभर्गरूपं तदिति विशेषः, तस्याः = अभेदैकत्वरूपसंख्यायाः । विगलितभेदायाः संख्याया अभेदैकत्वसंख्याशब्देन व्यतवहारः । तस्या एकत्वेन प्रतीरिति मतान्तरमाह-तस्या इति । एकत्वेन = एकवत्वेन । कपिञ्जलेतीति । 'कपिञ्जलानालभेते'त्यत्र बहुवचनेन त्रय एव प्रतिपाद्यन्ते, गणनायां प्रथमोपस्थितत्वात्, तथा प्रकृते अभेदैकत्वरूपमेकत्वमेकत्वेन भासत इत्यर्थः । तद्रूपेणेति । त्रित्वरूपेणैवेत्यर्थः । त्रित्वादिरूपमेव बहुत्वमित्यर्थः । अभेदैकत्वसंख्याया भानं वृत्तौ इति मत दूषयति-वस्तुतस्त्विति । एकत्वत्वेन रूपेण तद्भानमत्यन्तानुचितमेव, किं तु संख्यात्वेन, अन्यथा 'राजपुरुष' इत्यादावुक्त- जिज्ञासानापत्तेः, इष्टापत्तिस्तु न 'वृद्धिमिच्छतो मूलमपि ते नष्ट'मिति न्यायापातात्, 'राजपुरुष' इत्यादौ तत्तत्पदार्थतावच्छेदकरूपेण एकानेकव्यक्तिर्वृत्तौ भासते, न तु संख्यावत्त्वेनेति नव्यमतं समासप्रकरण उक्तम् । ब्राह्मणादिशब्दाद्विशेषधर्मप्रकारकजिज्ञासोदयोऽपि न तस्य तच्छब्द- वाच्यतानङ्गीकारादिदमसंगतमिति वाच्यम् । तत्र नियमेन न जिज्ञासोदयः, अत्र नियमेन तदुदयः, एवं च तदुपस्थापकान्तरासत्त्वे तदुपस्थितये वाच्यता स्यादत्याशयात् । वस्तुतस्तादृश- जिज्ञासाभावे एव निर्भरो नात्र दूषणे इति बोध्यम् । विस्तरस्तु वृहद्भूषणादावनुसंधेयः ।। 56 ।।
*इति अभेदैकत्वसङ्ख्यानिरूपणम्*
का : 57
ग्हं संमार्ष्टीति । ग्रहं संमार्ष्टी'त्यादौ ग्रहान् वाक्यान्तरविहतानुद्दिश्य संमार्गो विधीयते, तत्रोद्देश्यगतं विशेषणमविवक्षितमिति सर्वग्रहसंमार्गासिद्धिरिति मीमांसकसिद्धान्तः । स वैयाकरणैर्नाश्रयितुं शक्यते, 'धातो'रित्यादौ व्यभिचारादित्यर्थः, तत्रैकत्वाविवक्षायां धातुसमुदायादपि प्रत्ययापत्तिरित भावः । धातोरित्यत्रैकत्वविवक्षा मीमांसावार्तिककृतामपि संमतेत्याह-उत्पद्येतेति । द्वन्द्वोत्पन्नेति । द्वन्द्वसमासादुत्पन्नसुबर्थसंख्यादिना यथा सर्वे द्वन्द्वघटकपदार्था विशेष्यन्ते, एवं धातुसमुदायाद्यदि प्रत्यय उत्पद्येत तदा तावन्तो धात्वर्थाः प्रत्ययार्थेन संबध्येरन्नित्यर्थः । इदमुपलक्षणम्__समुदायास्याङ्गसंज्ञायामडादिकं तस्य स्यादित्यपि बोध्यम् । ननूक्तवाधकबलेन प्रत्ययोपात्तानुवाद्यविशेषणविवक्षायामपि प्रतिपादिकोपात्तस्य तस्याववक्षा बाधकाभावात् स्यादित्याशङ्कां निरस्यति__आर्धधातुकस्येति । यद्वा-'धातुत्वपर्याप्त्यधिकरणात्प्रत्यय' इत्यर्थाङ्गीकारे तत्समुदायस्य धातुत्वपर्याप्त्यधि- करणत्वाभावान्न दातुसमुदायात्प्रत्ययापत्तिरिति नैकत्वविवक्षायास्तत्रोपयोग इत्यत्र आह__'आर्द्ध- धातुकस्ये'ति । लाभो न स्यादिति । न च वाक्यभेदात्तल्लाभः, तथा सति गौरवापत्तेः, एवमेव
चकाराकरणे लाघवातिशयाच्च । पशुना यजेतेतिवदित । यथा वाक्यान्तरेण प्राप्तं यागमनूद्य पशोगतमेकत्वं विवक्षितमत एव तत्रानेकपशुकरणकयागानुष्टानान्नादृष्टसिद्धिरेवं विधेयगतं विशेषणं विवक्षितमेवेति नियमो मीमांसायां स्थितः, सोऽपि शाब्दिकमते नास्तीत्यर्थः । तत्र हेतुमाह__ रदाभ्यामिति । ननु तत्र चकारकरणाद्वाक्यभेद एव सूत्रकृतोऽभिमत इति लभ्यते इति नकारद्वयलाभो निराबाध एवेत्यत आह__आद्गुण इत्येति । वैयर्थ्यापत्तेरिति । यदि विधेयविशेषणं नियमेन विवक्षितं स्यात्, तदा पूर्वपरयोः स्थानिनोरेकस्यैव गुणाद्यादेशस्य सिद्ध्या एकग्रहणवैयर्थ्यं स्पष्टम्, तस्मात् पाणिनोर्विवक्षैवेति नियमो नाभिमत इति भावः । एवमविवक्षैवेत्यपि न नियमः, 'उपेयिवा'नित्यत्र सूत्र उपेत्यस्याविवक्षाया नञ्प्रभृतेश्च विवक्षाया दर्शनादित्यपि बोध्यम् । तन्त्रातन्त्रे = विवक्षाविवक्षे । 'तात्पर्यातात्पर्ये'इति यावत् । प्रतिपादनेच्छा विवक्षा, संख्याविवक्षाविवक्षयोर्हेतुः__लक्ष्यानुरोधादित । पर्श्वेकत्वाधिकरणेति । तत्र हि समानप्रत्य- योपात्तत्वप्रत्यासत्त्या विभक्त्यर्थे संख्यायास्तदर्थकारके एवान्वयः, तत्रारुणाधिकरणन्यायेन विभक्त्यर्थस्य प्रथमतः क्रियान्वयः, पश्वात् प्रकृत्यर्थेन, इत्थं च पश्वेकत्वोभयकरणको याग इति बोधः, किं गतमेकत्वमित्येकत्वस्याश्रयाकाङ्क्षायामेकः पशुरिति पाष्णिको मानसो बोध इत्युक्तम् । ग्रहैकत्वविवक्षायां संमार्गोद्दशेन ग्रहैकत्वयोर्विधाने वाक्यभेदापत्तिः । तथाहि__'प्राजापत्या न ग्रहा' इत्यादिवाक्यविहितग्रहानुवादेन संमार्गविधाने ग्रहं संमाष्टिं तं चैकमिति वचनव्यक्तौ वाक्यभेदः, स्पष्ट एव । उक्तं हि वाक्यपदीये__
'ग्रहास्त्वन्यत्र विहिता भिन्नसंख्याः पृथक् पृथक् ।
प्राजापत्या नवेत्येवमादिभेदसमन्विताः ।।
अङ्गत्वेन प्रतीतानां संमार्गे त्वङ्गिनां पुनः ।
निर्देशं प्रति या संख्या सा कथं स्याद्विवक्षिता ।।' इति ।
परे तु__उत्पत्तिवाक्ये नवत्वादिसंख्याश्रवणाद्विधेवगतत्वेन नवादिशब्दोपात्तत्वेन तस्याः
संख्याया विवक्षणात् तत्संख्यावैशिष्ट्येनैवानुभूतग्रहाणां ग्रहशब्देन तत्संख्याविशिष्टानामेव स्मृतौ तेषु विभक्त्यैकत्वबोधने उपक्रमस्थसंख्याबाधलक्षणो वाक्यभेदः स्यात् । मीमांसकोक्तवाक्य- भेदश्चायमेवेति स्पष्टमेतद्धरिकारिकाव्याख्याने हेलाराजीये ।
यद्वोत्पत्तिवाक्यगतसंख्ययैतद्वाक्यगतसंख्याया विरोधाद्वाक्यद्वयस्य भेदापत्तिः, न च ग्रहानु- वादेन संमार्गो विधेयः, संमृज्यमानग्रहानुवादेनैकत्वं विधीयतामिति वाच्यम्, एकपदोपस्थापित- योरुद्देश्यविधेयभावेनान्वयासंभवात्, संमार्गस्योद्देश्यकोटौ प्रवेशासंभवाच्च । वाक्यभेदता- दवस्थ्याच्चेत्याहुः ।। 57 ।।
का :58
अनन्तयकाराद्यापत्तेरिति । 'सुध्युपास्य' इत्यादौ 'इको यणवी'ति सूत्रेणानन्तयकारादिकं स्यादित्यर्थः । पूर्वोक्तामेकग्रहणवैयर्थ्यापत्तिमुद्धरति__एकः पूर्वेत । आदेशभेदेति । इदं सूत्र- काराशयवर्णनमात्रम् । वस्तुतत्वनयोः पूलयोः कटं कुर्वत्यत्र द्वित्वविशिष्टफलसंबन्ध्ये- ककटकरणप्रतीतरिव 'पूर्वपरयो'रिति द्वन्द्वनिर्देशेनोभयोः स्थाने एकवाक्यतयैकगुणादिविधानान्ना- नेकगुणादिप्रसङ्गः, विधेयगतसंख्याया अविवक्षायां हेत्वाभावादिति प्रत्याख्यातमेव 'एकः पूर्वपरयोः' इति सूत्रभाष्ये विस्तरेणेति स्पष्टं भाष्यकैयटादिग्रन्थविदाम् । वाक्यभेदादिरिति । वाक्यभेदस्तु
वर्णितः । आदिपदेन 'ग्रह'मिति द्वितीयया ग्रहस्य संस्कार्यत्वलक्षणं प्राधान्यं प्रतीयते, एवं च 'प्रतिप्रधानं गुणावृत्ति'रिति न्यायेन, विनिगमनाभावेन च सोमावसेकनिरसनप्रयोजन- कसंमार्गस्य सकलग्रहैरपेक्षणाच्च सर्वत्र संमार्गसिद्व्या विवक्षाफलाभावरूपहेतुपरिग्रहः, पश्वादि- विशेषणवत्, क्रियाङ्गावाभावेन तद्वैकल्यप्रयुक्तक्रियावैकल्यप्रसक्तिरपि नेति भावः । जैमि याचार्येणापि 'एकत्वयुक्तमेकस्य श्रुतिसंयोगात्' इति पूर्वपक्षानन्तरं__'सर्वेषां लक्षणत्वादविशिष्टं लक्षण'मिति सिद्धान्तसूत्रं व्यरचि । तदर्थस्तु-सर्वेषां संमार्गः कार्यः ग्रहत्वजातेर्द्रव्यलक्षणत्वाद्- द्रव्यबोधकत्वाद् द्रव्यस्य लक्षणं द्रव्यबोधनं यत इति शब्देन बोध्यमानजात्या व्यक्तिराक्षिष्यत इत्यविशेषात् सर्वव्यक्तिबोधनमिति पर्यवसितोऽर्थः । अनाकरम् = आकरग्रन्थासिद्धं, तद्विरुद्धं वा । ननु ग्रहैकत्ववद्धातोरित्यत्रैकत्वस्य 'आर्धधातुकस्येङ्वलादे'रित्यादौ वलादित्वादेरप्यविवक्षा स्यादित्याशङ्क्याह__एकत्वविशिष्टमिति । चोद्दिश्येति । तथा च तत्रैकत्वादिविशिष्टानुवाद- सामर्थ्यादेकत्वाविवक्षासंभव इति भावः ।। 58 ।।
का : 59
नन्वेकत्वविवक्षायामेकस्मादेव धातोः प्रत्ययः स्यान्न तु धात्वन्तरादित चेन्न, सर्वेषां प्रत्येकमेकत्वाद्विनिगमनाविरहेण व्यक्त्यन्तरेभ्योऽपि प्रत्ययोत्पत्तिसिद्धिसंभव इत्याशयात्, उक्त- रीत्या ग्रहैकत्वविवक्षाया यथा संभवस्तथोक्तम् ।
परे तु__धातुत्वपर्याप्त्यधिकरणात् प्रत्यय इत्यर्थेनैवेष्टसिद्धिसंभवे एकत्वविवक्षाया न प्रयोजनम्, किं चैवमेकस्मादेव कस्माच्चिद्धातेरेव प्रत्ययः स्यान्न धात्वन्तरात्, 'सर्वेषा'मित्यादिकं तु न युक्तम्, तथा सत्येकं ब्रह्मणं भोजयेदित्यादावप्यनेकब्रह्मणभोजनापत्तेरित्याहुः । विस्तरतु समर्थसूत्रादिस्थविवरणादावनुसंधेयः । ननु विधेयगतसंख्याविवक्षायां किं मानमिति चेदभाहु- र्मीमांसकाः__संख्यायाः समानप्रत्ययोपात्तत्वप्रत्यासत्त्या कारके एवान्वयः, न तु प्रकृत्यर्थे,
विभक्त्यर्थस्य चारुणाधिकरणन्यायेन क्रियाविशेषणत्वम् । एवं च पश्वेकत्वोभयकरणको याग इति बोधः, 'एकः पशु'रिति तु पाष्णिंको मानसः सः, एवं चैकत्वस्य शब्देनैव यागाङ्गत्वावगमात् तद्विवक्षावश्यकीति । तदपरे न क्षमन्ते__यतः प्रत्ययार्थस्य प्रकृत्यर्थे एवान्वये साधुत्व न त्वन्यत्रान्वये, किं च स्वादिसूत्रस्य 'कर्मणि द्वितीया' इत्यादिभिः 'द्वयेकयोः__'इत्यादिभिश्चैक- वाक्यत्वे एकस्मिन् कर्मणि द्वितीयैकवचनमित्याद्यर्थेऽन्यत्रैकत्वस्यान्वयेऽसाधुत्वं स्पष्टमेव । अपि च भिन्नपदोपातक्रियान्वयापेक्षया समानपदोपात्तत्वेन प्रकृत्यर्थे एवान्वयस्यौचित्यं, तदन्वितस्यैव क्रियाकाङ्क्षादर्शनात् । ननु 'स्वौजसमौट्__' इत्याद्युक्तसूत्रत्रयस्यैकवाक्यत्वेऽपि नैकत्वादेः कर्मादौ विशेषणत्वमुचितं, किं तु विधेयतया प्रधाने एव, गुणानां च परार्थत्वादिति न्यायात्, तथा च प्रातिपदिकात् कर्मणि एकत्वे च द्वितीयैकवचनमित्याद्याकारक एव वाक्यार्थबोधो न तदाकार इति कर्मत्वस्य कारकान्वये न किंचिद्बाधकमिति चेन्न । एवमप प्रत्यासत्तिन्यायेन परस्परसंबद्धार्थबोध एव तत्तदनुशासनेन तयीः साधुत्वबोधनं, विभक्त्यर्थस्य च प्रकृत्यर्थे विशेषणत्वमेवेति स्थितं मञ्जीषादौ । तस्मात् पशुनेतायदावेकत्वविशिष्टपशुविधानादेकत्वविवक्षेति युक्तं । विशिष्टविधानादेव वाक्यभेदाप्रसक्तेः । विशिष्टस्य श्रुत्याङ्गत्वबोधनात् पशुत्वादि- विशेषणवैकल्ये इवैकत्ववैकल्येऽपि विशिष्टाननुष्ठानाद्यागवैगुण्यमपि सिद्धम् ।
जैमिनिनापि__'तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्' इति पूर्वपक्षे 'शब्दवदुपलभ्यते
तदागमे हि दृश्यते तस्य ज्ञानं यथान्येषाम्' इति सिद्धान्तसूत्रं प्रणीतम्, शब्दवत् = शब्दाबोध्यं यथा भवति तथोपलभ्यते, एकत्वं हि यतस्तदागमे = एकवचनागमे, दृश्यते तस्याङ्गत्वज्ञानं यथान्येषां = विशेषणानां शब्दोपस्थितानां पशुत्वलौहित्यादिनामिति तदर्थः । एवं च जैमिनेरपि संख्याविशिष्टबोध एव तात्पर्यम् । हरिरप्याह__
'यजेत पशुने'त्यत्र संस्कारस्यापि संभवे ।
यया जातिस्तथैकत्वं साधनत्वेन गम्यते ।।' इति ।
'न केवला प्रकृति'रिति न्यायाद्विभक्तेः शब्दसंस्कारार्थत्वसंभवेऽपि जातेरिव तस्याः क्रिया- साधनत्वं, विशिष्टस्यैवोपस्थितेरित्यर्थ इति हेलाराजः । अपि च संख्याया अमूर्तत्वात् साक्षात् क्रियासाधनत्वासंभवात् परम्परया क्रियान्वयात्साधनत्वकल्पनापेक्षयोक्तयुक्तिभिः प्रकृत्यर्थान्वयस्यैव कल्पनोचिता, आरुण्यस्य तु प्रकृत्यर्थतयागत्या परंपरया क्रयाकरणत्वमुचितम्, एवं च विधेयविशेषणं सर्वं विवक्षितम्,अविधवक्षानिमित्तविरहात्, किं चैकेनैव पशुना यागसिद्धौ पश्वन्तरालम्भनं व्यर्थं तथापि मध्ये पश्वन्तरालम्भने प्रयोगविध्यवगतप्रयोगप्राशुभावबाधः स्यात्, उक्तं हि वाक्यपदीये__
'प्रत्याश्रयं समाप्तायां जातावेकेन चेत्क्रिय ।
पशुना न प्रकल्पेत न स्यादेतत्प्रकल्पना ।।
एकेन तु प्रसिद्धायां क्रियायां यदि संभवात् ।
पस्वन्तरमुपादेयमुपादानमनर्थकम् ।।
यथैवाहितगर्भायां गर्भाधानमनर्थकम् ।
तथैकेन प्रसिद्धायां पश्वन्तरमनर्थकम् ।।' इति ।
__विधेयगतसंख्याविवक्षां वर्णयन्तीत्यत्र विस्तरः ।।
* इति संक्याविवक्षानिरूपणं *