वैयाकरणभूषणसारः/नञर्थनिर्णयः (कारिका ४०-४१)
अथ नञर्थनिर्णयः।
<7-1> आरोपितत्वं नञ्द्योत्यम्
नञर्थमाह-
नञ्समासे चापरस्य प्राधान्यात् सर्वनामता ।।
आरोपितत्वं नञ्द्योत्यं न ह्यसोऽप्यतिसर्ववत् ।। 40 ।।
नञ्समासे अपरस्य=उत्तरपदार्थस्य प्राधान्यात् सर्वनामता सिद्ध्यतीति शेषः। अत एव आरोपितत्वमेव, नञ्द्योत्यमिति--अभ्युपेयमिति शेषः।
अयं भावः-`असर्वः' इत्यादौ `आरोपितः सर्वः' इत्यर्थे सर्वशब्दस्य प्राधान्याबाधात् सर्वनामता सिद्धयति। अन्यथा `अतिसर्वः' इत्यत्रेव सा न स्यात्, `घटो नास्ति' इत्यादावभावविषयकबोधे तस्य विशेष्यताया एव दर्शनात्। अस्मद्रीत्या च स आर्थो बोधो मानसः।
तथाच `असर्वस्मै इत्याद्यसिद्धिप्रसङ्गो नेति। अत्र चारोपितत्वम्-आरोपविषयत्वम्। आरोपमात्रमर्थो विषयत्वं संसर्ग इति निष्कर्षः। द्योत्यत्वोक्तिर्निपातानां द्योतकत्वमभिप्रेत्य ।। 40 ।।
</7-1>
<7-2> अभावः नञर्थ इति पक्षान्तरोपपादनम्
`घटो नास्ति' `अब्राह्मणः इत्यादावारोपबोधस्य सर्वानुभवविरुद्धत्वात् पक्षान्तरमाह-
अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात्।
विशेषणं विशेष्यो वा न्यायतस्त्ववधार्य्यताम् ।। 41 ।।
तदर्थः=नञर्थः अर्थपदं द्योत्यत्व-वाच्यत्वपक्षयोः साधारण्येन कीर्त्तनाय।
<7-2-1> अभावः नञर्थ इति पक्षे भाष्यप्रामाण्यम्
भाष्यस्येति-तथाच नञ्सूत्रे महाभाष्यम्-"निवृत्तपदार्थकः" इति, निवृत्तं पदार्थो यस्य "नपुंसके भावे क्तः" (पाo सूo 3-1-114) इति क्तः। अभावार्थक इत्यर्थः।
यत्तु-निवृत्तः पदार्थो यस्मिन्नित्यर्थः। सादृश्यादिनाऽध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थ इति कैयटः, तन्न, अध्यारोपितब्राह्मण्यस्य क्षत्रियादेर्नञवाच्यत्वात्।
अन्यथा सादृश्यादेरपि वाच्यतापत्तेः।
<7-2-2> सादृश्यादीनाम् नञर्थत्वाभावप्रतिपादनम्
यत्तु-
तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः।।
इति पठित्वा अब्राह्मणः, अपापम्, अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये
गोऽश्वेभ्यः, अधर्म इत्युदाहरन्ति। तत्त्वार्थिकार्थमभिप्रेत्येति स्पष्टमन्यत्र।
</7-2-2>
विशेषणमिति-प्रतियोगिनीति शेषः। तथाचासर्वापदे सर्वनामता। "अनेकमन्यपदार्थे" "सेव्यतेऽनेकया
सन्नतापाङ्गया" इत्यादावेकशब्दार्थप्राधान्यादेकवचननियमः। `अब्राह्मणः इत्यादावुत्तरपदार्थप्राधान्यात् तत्पुरुषत्वम्। `अत्वं भवसि' `अनहं भवामि' इत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते।
अन्यथा त्वदभावो मदभाव इतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिङ्क्ष्वसत्त्वात् पुरुषव्यवस्था न स्यात्।
अस्मन्मते च भेदप्रतियोगित्ववदभिन्नाश्रयिका भवनक्रियेत्यन्वयात्, सामानाधिकरण्यं नानुपपन्नमिति भावः।
विशेष्यो वेति-प्रतियोगिनीति शेषः। अयं भावः-गौणत्वेऽपि नञ्समासे "एतत्तदोः सुलोपोऽकोरनञ्समासे हलि" (पाo सूo 3-1-132) इति ज्ञापकात् सर्वनामसंज्ञानानुपपन्ना। `असः शिवः' इत्यत्र सुलोपवारणाय `अनञ्समासे'इति हि विशेषणम्। नच तत्र तच्छब्दस्य सर्वनामताऽस्ति, गौणत्वात्। `अकोः' इत्यकच्सहितव्यावृत्त्या सर्वनाम्नोरेव तत्र ग्रहणलाभात्। तथाच `अनञ्समासे' इति ज्ञापकं सुवचम्।
"अनेकमन्यपदार्थे" इत्यादावेकवचनम्, विशेष्यानुरोधात्। "सुबामन्त्रिते पराङ्गवत् स्वरे" (पाo सूo 2-1-2) इत्यतोऽनुवर्तमानं सुब्ग्रहणं विशेष्यमेकवचनान्तमेव। किञ्चानेकशब्दाद् द्विवचनोपादाने बहूनां, बहुवचनोपादाने द्वयोर्बहुव्रीहिर्न सिद्धयेदित्युभयसंग्रहायैकवचनम्, जात्यभिप्रायम्, औत्सर्गिकं वा।
"सेव्यतेऽनेकया" इत्यत्रापि `योषया' इति विशेष्यानुरोधात्, प्रत्येकं सेवनान्वयबोधनाय चैकवचनम्, नतूत्तरपदार्थप्राधान्यप्रयुक्तम्। अत एव "पतन्त्यनेके जलधेरिवोर्मयः" इत्यादिकमपि सूपपादम्।
`अत्बं भबसि' इत्यादौ युष्मदस्मदोस्तद्भिन्ने लक्षणा। नञ् द्योतकः। तथाच भिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात् पुरुषव्यवस्था। `त्वद्भिन्नाश्रयिका भवनक्रिया इति शाब्दबोधः। एवम् ` न त्वं पचसि' इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाऽभावः। `घटो नास्ति' इत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्या बोधः। असमस्तनञः क्रियायामेवान्वयात्।
स चाभावोऽत्यन्ताभावत्वान्योन्याभावत्वादिरूपेण शक्यः, तत्तद्रूपेण बोधादित्याद्यन्यत्र विस्तरः ।। 41 ।।
</7-2>
इति वैयाकरणभूषणसारे नञर्थनिर्णयः ।। 7 ।।
</7-0>
************