वैयाकरणभूषणसारः/क्त्वाद्यर्थनिर्णयः (कारिका ६०)
<13.0>
।। अथ क्त्वाद्यर्थनिर्णयः ।।
<13.1>अव्ययकृतां प्रकृत्यर्थः भाव एवार्थः
क्तवाप्रत्ययादेरर्थं निरूपयति-
अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः।
समानकर्तृकत्बादि द्योत्यमेषामिति स्थितिः ।। 60 ।।
तुमादयः=तुमुन्नादयः। प्रकृत्यर्थे=भावे।
आदिना-क्तवादेः संग्रहः। भावे इत्यत्र मानमाह-अव्ययकृत इति-अव्ययकृतो भावे, इति वार्त्तिकादित्यर्थः। ननु `समानकर्त्तृकयोः पूर्वकाले' इत्यादिसूत्राणां का गतिस्तत्राह-समानकर्तृकत्वादीति। अयं भावः-`भोक्तुं पचति' `भुक्तवा व्रजति' इत्यादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययोर्विशेष्यर्विशेषणभावमन्तरेणानुपपन्ना। अन्यथा `भुङ्क्ते' `व्रजति' इत्यादावप्येकवाक्यताऽऽपत्तेः। तथाच तयोर्विशेष्यविशेषणभावनिरूपकः संसर्गः, जन्यत्वम्, सामानाधिकरण्यम्, पूर्वोत्तरभावः, व्याप्यत्वञ्चेत्यादिरनेकविधः। तथाच-`भोक्तुं पचति' `भुक्त्वा तृप्तः' इत्यादौ भोजनजनिका पाकक्रिया, भोजनजन्या तृप्तिरिति बोधः। अत एव जलपानानन्तरं यस्य तृप्तौ सत्त्वेऽपि `पीत्वा तृप्तः' इति न प्रयोगः। सामानाधिकरण्यस्यापि संसर्गत्वेनार्थात्समानकर्तृकत्वमपि लब्धम्। `भुक्तवा व्रजति' इत्यादौ पूर्वोत्तरभावः, सामानाधिकरण्यञ्च संसर्ग इति भोजनसमानाधिकरणा तदुत्तरकालिकी व्रजनक्रियेति बोधः। `अधीत्य तिष्ठति' मुखं व्यादाय स्वपिति' इत्यादावध्ययनव्यादानयोरभावकालेऽप्रयोगात् यदा यदाऽस्य स्थितिः, स्वापश्च-तदा तदाऽध्ययनम्, मुखव्यादानञ्चेति कालविशेषावच्छिन्नव्याप्यत्वबोधात्। व्याप्यत्वम्, सामानाधिकरण्यञ्च संसर्गः।
</13.1>
<13.2>समानकर्तृकत्वादीनामवाच्यत्वम्
एवञ्चान्यलभ्यत्वान्न सूत्रात्तेषां वाच्यत्वलाभः इति युक्तम्-`अव्ययकृतो भावे' इति। एवञ्च प्रकृत्यर्थक्रिययोः संसर्गे तात्पर्य्यग्राहकत्वरूपं द्योतकत्वं क्तवादीनाम्। अत एव समानकर्तृकयोः' इति सूत्रे `स्वशब्देनोपात्तत्वान्न' इति भाष्यप्रतीकमादाय `--पौर्वापर्य्यकाले द्योत्ये क्त्वादिर्विधीयते, नतु विषये इति भाव इति' कैयटः।
<13.2.1>समानकर्तृकत्वादीनां वाच्यत्वमावश्यकमिति शङ्का
यत्तु-`समानकर्तृकयोः' इति सूत्रात्समानकर्तृकत्वं क्तवावाच्यम्, अन्यथौदनं पक्त्वाऽहं भोक्षये' इत्यत्र मयेति तृतीयाप्रसङ्गश्च। नचाख्यातेन कर्तुरभिधानान्न सेति वाच्यम्, भोजनक्रियाकर्त्तुरभिधानेपि पाकक्रियाकर्तुस्तदभावात्।
अनभिहिते भवति इति पर्युदासाश्रयणात्। अत एव`प्रासादे आस्ते' इत्यत्र प्रसादनक्रियाधिकरणस्याभिधानेऽप्यास्तिक्रियाधिकरणस्यानभिधानात्सप्तमीति भाष्ये स्पष्टम्। तस्मात् क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति,
</13.2.1>
<13.2.2>समानकर्तृकत्वादीनां वाच्यत्वमावश्यकमिति शङ्कायाः निरासः
तन्न, सूत्रात्तस्य वाच्यत्वालाभात्, `समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वा' इत्येव तदर्थात्। अन्यथा `समानकर्त्तरि' इत्येव सूत्रन्यासः स्यात्। तृतीयापादनन्तु--आख्यातार्थक्रियायाः प्रधानभूतायाः कर्तुरभिधानात्प्रधानानुरोधेन गुणे कार्यप्रवृत्तेर्न सम्भवति। उक्तञ्च वाक्यपदीये--
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक्।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते।
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते।
यदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते । इति ।
किञ्चान्यथा कर्मणोऽपि क्त्वार्थताऽऽपत्तिः, `पक्त्वौदनो मया भुज्यते' इत्यत्र द्वितीयायाः प्रकारान्तरेणावारणादित्यास्तां विस्तरः ।। 60 ।।
</13.2.2>
</13.2>
इति वैयाकरणभूषणसारे क्त्वाद्यर्थनिर्णयः ।। 12 ।।