वेदसारशिवस्तोत्रम् (मूलसहितम्)

विकिस्रोतः तः
वेदसारशिवस्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ वेदसारशिवस्तोत्रम् ॥




पशूनां पतिं पापनाशं परेशं
 गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
 महादेवमेकं स्मरामि स्मरारिम् ॥ १॥

महेशं सुरेशं सुरारातिनाशं
 विभुं विश्वनाथं विभूत्यङ्गभूषम् ।।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
 सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ।। २ ।।

गिरीशं गणेशं गले नीलवर्णं
 गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं
 भवानीकलत्रं भजे पश्चवक्त्रम् ॥ ३ ॥

शिवाकान्त शंभो शशाङ्कार्धमौले
 महेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूप:
 प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥

परात्मानमेकं जगद्वीजमाद्यं
 निरीहं निराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
 तमीशं भजे लीयते यत्र विश्वम्॥ ५॥

न भूमिर्न चापो न वह्निर्न वायु-
 र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
 न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६ ॥

अजं शाश्वतं कारणं कारणानां
 शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
 प्रपद्ये परं पावन द्वैतहीनम् ॥ ७ ॥

नमस्ते नमस्ते विभो विश्वमूर्ते
 नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
 नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥

प्रभो शूलपाणे विभो विश्वनाथ
 महादेव शंभो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
 त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९ ॥

शंभो महेश करुणामय शूलपाणे
 गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
 स्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥१०॥

त्वत्तो जगद्भवति देव भव स्मरारे
 त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
 लिङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११ ॥