वेदभाष्यभूमिकासङ्ग्रहः
वेदभाष्यभूमिकासङ्ग्रहः [[लेखकः :|]] |
Page 001 (79)
(१)कृष्णयजुर्वेदान्तर्गतायाः
तैत्तिरीयसंहिततायाः
सायणाचार्यकृता
भाष्यभूमिका
--<0>--
(२)वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तंनमामि गजाननम् ।। १ ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्म्ममे तमहं वन्दे विद्यातीर्थमद्येवरम् ।। २ ।।
यत्कटाक्षेण तद्रपं दधद् छुक्लहीपतिः ।
Foot Note : -
|| श्रीमङ्गलमूर्तये नमः ||
(१) सम्प्रदायभेदात्शाखावाहुल्यं वेदस्य। यथाहमहाभाष्यकारः पस्पशाह्लिके – “एकशतमध्वर्युशाखामृसहस्रवल्मी सामवेद, एकविंशतिधाबाहवृच्यम्, नवधाध्यर्वणोवेदश्” हति, कृष्णक्तस्त्वभेदेन यजुर्बेटान्तर्गन्तशाखाशतस्य द्वैविध्यम् । तत्र
आध्वर्यवं क्वचित्हौत्रं क्वचिदित्यव्यवस्थया ।
ब्रूष्टमाष्टहेरुष्टः कृष्णमितीर्यते ।।
कृष्णयउर्वटसंहिताया भाथ्यं सवप्रथमं निववन्धतत्रभवान्सायणाचार्यः । यथोक्तं तेनैव क्तवेदभाप्योपद्रमणिकायाम् –
आध्वर्यवस्य यज्ञेषु प्राधान्याद् व्याकृतः पुरा ।
यजुर्वेदोऽथ हौत्रार्थस्यवेदो व्याकरिष्यते” ।। इति
तैत्तिरीयशाखाध्यायित्वात्तस्य तस्या व्याक्सौ प्रथसाप्रवृत्तिरिति बोध्यम् ।
(२) इतः पूर्वं केषुचित् पुस्तकेषु श्लोल्मञ्चक्त्यधिकं दृश्यते । तद् यथा –
गजवदनमचिन्त्ये तीक्ष्णदन्तं द्विनेत्रं वृत्सदरविशेपं भूतराज पुराणम् ।
अमरवरसुपूज्य रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराज नमामि ।। १ ।।
मूलाधारेचतुष्पन्ने पद्भूमाकजल्कलशोभिते ।
दाडिमीश्यमप्रख्ये तस्णादित्यसन्निभे ।। २ ।।
भगाख्ये द्ध्यडलीचक्रे पूजयेत्परमेश्वरीम् ।
अकृशं चाक्षसूत्रं च पाशपुस्तकधाणिमि।
मुक्ताहारसमायुक्तां देवींध्यायेच्यतुर्भुजाम्।। ३ ।।
कपिलसटमुदञ्चर्ख्यामग्नीन्तिनाक्षेविवृतवदनविद्युज्जिह्वमुद्ध्यलनास्रम् ।
अरिदरकखग्मं योगपट्टाङ्गजानुस्थितकरमलाछत्रि लतुसिंहभोऽस्मि ।। ४ ।।
नमामिविष्णं विधियज्ञरूपं सरस्वतींचापितदीयजिह्राम् ।
त्रैविद्यवृद्धान्विदुपोगुस्थं बौधायनाचार्शपदद्वयं च ।। ५ ।।
Page 002 (80)
आदिशन्माधवाचाय्य वेदार्थस्य प्रकाशने ।। ३ ।।
(१)स प्राह नृपतिं राजन् ! सायणार्थो ममानुजः ।
सर्वं वेत्त्येष वेदानां व्याख्यातृत्वे नियुज्यताम्।। ४ ।।
इत्युक्तो भाधवार्येण वीरबुक्कमहीपतिः ।।
अन्वशात् सायणाचार्य वेदार्थस्य प्रकाशने ।। ५ ।।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् ।
कृपालुर्माधवाचार्य्यो वेदार्थं वक्तद्रद्यतः ।। ६ ।।
ब्राह्मणं कल्पसूत्रे द्वे मीमांसां व्याकृतिं तथा ।
उदाहृत्याथ तैः सर्वैर्मन्त्रार्थः स्पष्टमीर्घ्न्यते ।। ७ ।।
ननु कोऽय वेदो नाम, किं च तल्लक्षणम्, के वास्य विषयप्रयोजनसम्बन्धाधिकारिणः कथं वा तस्य प्रामारभ्यम् ? न खल्वेतस्त्विन्सर्वस्मिन्नसति, वेदो व्याख्यानयोग्यो भवति । अत्रोच्यते । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः । अलौकिकपदेन प्रत्यक्षानुमाने व्यावर्त्येते । अनुभूयमानख्य स्रकच्न्दनवनितादेरिष्टप्राप्तिक्सेत्वं, औषधसेवादेरनिष्टपरिहाच्छेत्वञ्च प्रत्यक्षतः सिद्धम् । स्त्वेनानुभविष्यमाणस्य पुरुषान्तरगतस्य च तथात्वमनुमानगम्यम् । एवं तर्हिभाविजन्मगतसुखादिकमपि अनुमानगम्यमिति चेत्, न । तद्विशेषख्यानवगमात् । न खलुज्योतिष्टोमादिरिष्टप्राप्तिक्तेः कलञ्जभक्षणवर्जनादिरनिष्टपरिहारक्तेरित्यमुमर्थ वेदव्यतिरेक्तेरगानुमानसहस्त्रेणापि तार्किकशिरोमणिरप्यवगन्तु शक्रोति । तस्मादलौकिकोपायबोधको वेद इति लक्षणस्य नातिव्याप्तिः ।
अत एवोक्तम् –
“प्रत्यक्षेणानुमित्या वा यच्छायो न बुध्यते ।
एतं विदन्ति वेदेन तस्माद्वेदख्य वेदता ।।” इति
स एवोपायो वेदख्यविषयः । तद्बोध एव प्रयोजनम् । तद्वोधार्थी च अधिकारी । तेन सह उपकार्योपकारकभावः सम्बन्धः । नन्वेवं सति स्त्रीशूद्रसहिताः सर्वे वेदाधिक्रारिणः स्युः, इष्टंमेस्यादनिष्ट मा भूदिति आशिषः सार्वजनीनत्वात् । मैवं, स्त्रीशद्रयोः सत्युपाये बोधार्थित्वे हेत्वन्तरेण वेदाधिकारस्य प्रतिबद्धत्वात् । उपनीतस्यैवाध्ययनाधिकारं ब्रुवच्छास्त्रमनुपनीतयोः स्त्रीशूद्रयोचेंदाध्ययनमनिष्टप्राप्तिखेरिति बोधयति । कथं तर्हि तयोस्तदुपायावगमः, पुराणादिभिरिति ब्रूमः ।
अत एवोक्तम् –
“स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
इति भारतमाख्यानं मुनिना कृपया कृतम् ।। ( भागवत १।४।२५) इति
Foot Note : -
(1)एतत्श्लोकद्वयं केषुचित्पुस्तकेषु न दृश्यते ।।
Page 003 (81)
तस्मादुपनीतैरेव त्रैवर्णिकैर्वेदख्य सम्बन्धः ।
तत्प्रामारत्य तु बोधकत्वात् स्वत एव सिद्धम् । पौरुषेयवाक्यं तु वोधकमपि सत् पुरुपगतभ्रान्तिमूलत्वसम्भावनया तत्परिहाराय मूलप्रमाणमपेक्षते, न तु वेदः । तस्य नित्यत्वेन वक्तृदोपशङ्कानुदयात् । एतदेव जैमिनिना सूत्रितम् – “तत्प्रमाणं वादरायणस्यानपेक्षितत्वात्” ( मी० १ । १ ।५) इति ।(१)
ननु वेदोऽपि कालिदासादिवाक्यवत् पौरुषेय एव व्रह्मकार्य्यत्वश्रवणात् –
“ ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद् यजुः तस्मादजायत ।। ( ऋ०. १० । ९० । ९) इति श्रुतेः ।
अत एव वादरायणः “शास्त्रयोनित्वात्” ( वे० १ । १ । ३) इति(२) सूत्रेण ब्रह्मणो वेदकारणत्वमवोचत् । मैवं, श्रुतिस्मृतिभ्यां नित्यत्वावगमात् ।
“वाचा विरूप नित्यया” इति श्रुतेः (ऋ०. ८। ७५। ६) (३)
“अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा ।
आदौ वेदमयी विद्या यतः सर्वाः प्रवृत्तयः” ॥ [महाभारत १२। २३२। २४-२५] इति स्मृतेश्च ।
वादरायणोऽपि देवताधिकरणे सूत्रयामात्त । “अत एव च नित्यत्वम्” ( वे० १ । ३ । ०९) (४) इति । तर्हि परस्परविरोध इति चेत्, न नित्यत्वस्य व्यावहारिकत्वात् । सृष्टेरूर्द्ध्वं संहारात् पूर्व व्यवद्वारकालः, तस्मिन्तुत्पत्तिविनाशादर्शनात् । कालाकाशादयो यथा नित्या एवं वेदोऽपि व्यवहार-
Foot Note : -
(1)“औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानोपदेशोऽज्यतिरेक्त्याशेऽनुपलब्रधे, तत्प्रमाणं बादरायणस्यानपेक्षत्वात्” इति सम्पूर्ण सूत्रम् । तन्नेदमित्थं व्याख्यातं शबरस्वामिना स्वभाष्ये(सू.1.1.5) – “औत्पत्तिक इति नित्यं ब्रूमः । उत्पत्तिर्हि भाव उच्यते लक्षणया । अवियुक्तः शब्दार्थयोर्भावः सम्बन्धो, नोत्पन्नयोः पश्चात् सम्बन्धः । औत्पत्तिकः शब्दस्यार्थेन सम्बन्धः, तस्य अग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिरनवगतस्य । कथम्। उपदेशो हि भवति। उपदेश इति विशिष्टस्य शब्दस्य उच्चारणम् । अव्यतिरेकश्च ज्ञानस्य । न हि तदुत्पन्नं ज्ञानं विपय्र्येति । यच्च नाम ज्ञानं न विपय्र्येति, न तच्छक्यते वक्तुं, न एतदेवमिति। यथा विज्ञायते, न तथा भवति यथैतन्न विज्ञायते, तथैतदिति । अन्यदस्य हृदये, अन्यद्वाचि स्यात् । एवं वदतो विरुद्धमिदं गम्यते, अस्ति, नास्ति वेति तस्मात् तत् प्रमाणमनपेक्षत्वात् । न ह्येवं सति प्रत्ययाऽन्तरमपेक्षितव्यं, पुरुषान्तरं वापि । अयं प्रत्ययो ह्यसौ । बादरायणग्रहणं बादरायणस्येदं सतं कीत्र्यते बादरायणं पूजयितुं, नात्मीयं मतं पर्युदासितुम् ।।”
(2)तदिदमेव व्याख्यातवन्तः श्रीशङ्करभगवत्पादाः(ब्रह्मसूत्र 1.1.3) – महत ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म । न हीदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति ।
(3)तस्मै नूनमभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ।।
“हे विरूप नानारूपैतन्नामक महर्षे त्वं तस्मै सिद्धायाभिद्यवेऽभिगततृप्तये वृष्णे वर्षकायाग्नये नित्यया उत्पत्तिरहितया वाचा मन्त्ररूपया यतिं नूनमिदानां चोदस्व । स्तुहीत्येवमृषिः आत्मानं व्रवीति यजमानो होतारं वा विरूपम्” इति तत्रत्यं सायणभाष्यम् ।
(४) अत एव नियताकृतेदेवादेर्जगतो वेदशब्दप्रभवत्वात्वेदशब्दे नित्यत्वमपि प्रत्येतव्यमिति शङ्कभाष्यात्।
Page 004 (82)
काले कालिदासादिवाक्यवत् पुरुपविरचितत्वाभावान्नित्यः । आदिसृष्टौ तु कालाकाशादिवदेव ब्रह्मणः सकाशाद्वेदोत्पत्तिराम्नायते । अतो विषयभेदान्न परस्परविरोधः । ब्रह्मणो निर्दोपत्वेन वेदस्य वक्तृदोषाभावात् स्वतसिनद्धप्रामारन्यं तदवस्थम् । तस्माल्लक्षणप्रमाणसद्भावाद्विपयप्रयोजनसम्बन्धाधिकारिसत्त्वात् प्रामाण्यस्य सुस्थत्वाच्च वेदो व्याख्यातव्य एव । यथोक्तविपयादिसद्भावमभिप्रेत्य 'स्वाध्यायोऽध्येतव्यः' ( ते०. आ० २।१५) इत्यध्ययन विधीयते । पाठमात्रख्याध्ययनशब्दवाच्यत्वेनार्थावबोधस्याविहितत्वाद्वेदव्याख्यानमयुक्तमिति चेत्, न । विधेर्वोधपर्य्यवसायित्वात् । एतच्च भट्टगुरुमतानुसारिभिर्वहुधा प्रपञ्चितम् । आम्नायते च –
“यदधोतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्” ।।
स्थाणुरयं भारहारः किलाभूत् अधीत्य वेदन विजानाति योऽर्थम् |
योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ।। (निरूक्त. १.१८)
“ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च“ (पा.भा. पस्पशा) इति । एवं तर्हि ज्ञानस्य पृथग्विधानादध्ययनं तस्य पाठमात्रमिति चेत् । अस्तु नाम, वर्णयन्ति चैवमेव शांकरदर्शनानुसारिणः ।
क्रतुविधिभिरेवानुष्ठानान्यथानुपपत्त्या वेदार्थज्ञानस्य प्रापितत्वान्नैतद्विधेयमिति चेत् । तर्हि तद्विधिबलाद्वेदनमात्रेण स्वतन्त्रं किंचिदपूर्वमस्तु । श्रूयते ह्यनुष्ठानज्ञानयोः स्वतन्त्रं पृथक्फलम् —
“सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योऽश्वमेधेन यजते । य उ चैनमेवं वेद” (तै.सं. 5.3.12) इति ।
अल्पप्रयाससाध्येन वेदनेन तत्सिद्धौ बह्वायाससाध्यानुष्ठानं व्यर्थं स्यादिति चेन्न । तरणीयाया ब्रह्महत्याया मानसवाचिकत्वादिभेदेन तारतम्योपपत्तेः । मनसा संकल्पिता वाचाऽभ्यनुज्ञाता परहस्तेन कारिता स्वयंकृता पुनः पुनः कृता चेत्येवं तारतम्येन व्यवस्थिता ब्रह्महत्याऽनेकविधा । अतस्तत्तरणमप्यनेकविधम्, यथा स्वर्गो बहुविधस्तद्वत् । “अग्निहोत्रं जुहुयात्स्वर्गकामः”, “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” “ज्योतिष्टोमेन स्वर्गकामो यजेत” इत्याद्युच्चावचकर्मणामेकविधफलासंभवात्स्वर्गो बहुविधः । यत्तु कर्मानुष्ठानकालीनं वेदनं तत्कर्मफल एवातिशयं जनयति । “उभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद” (छा.उ. 1.1.10) इति विद्वदविद्वत्प्रयोगौ प्रकृत्य “यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति” (छा.उ. 1.1.10) इत्याम्नानात् । अङ्गोपास्तिविषयमेतद्वाक्यमिति चेत् । न । न्यायस्य समानत्वात् । अस्ति ह्यस्यार्थस्योपोद्बलकं लिङ्गम् । प्रजापतिः किल सोमयागेभ्योऽर्वाचीनान् अग्निहोत्रपौर्णमास्यमावास्यानामकान्परस्परमुच्चावचान्यज्ञान्ससर्ज ।
Page 005 (83)
सोमयागांश्चाग्निहोत्रादिभ्यः श्रेष्ठानग्निष्टोमोक्थ्यातिरात्रनामकान्परस्परमुच्चावचान्सृष्ट्वा प्रथमसृष्टेष्वग्निहोत्रादिष्वभिमानविशेषेण वर्गद्वयं तुलयोदमिमीत । एवं वृत्तान्तं जानतोऽग्निहोत्रादिभिरग्निष्टोमादिफलं भवति । तथा च ब्राह्मणमाम्नायते —
“प्रजापतिर्यज्ञानसृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं चामावास्यां चातिरात्रं च तानुदमिमीत यावदग्निहोत्रमासीत्तावानग्निष्टोमो यावती पौर्णमासी तावानुक्थ्यो यावत्यमावास्या तावानतिरात्रो य एवं विद्वानग्निहोत्रं जुहोति यावदग्निष्टोमेनोपाप्नोति तावदुपाप्नोति य एवं विद्वान्पौर्णमासीं यजते यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यां यजते यावदतिरात्रेणोपाप्नोति तावदुपाप्नोति” (तै.सं. 1.6.9) इति । तदेतद्वेदनस्य सर्वत्र स्वतन्त्रफलत्वे लिङ्गम् । किं च तत्तद्विधिसमीपे ‘य एवं वेद’ इति वचनानि वेदनादेव फलं ब्रुवते । तान्यर्थवाद इति चेत् । अस्तु नाम, सहामह एवैतमपराधं तेषां वचनानां विधेयार्थप्रशंसापरत्वात् । तर्हि ‘यत्परः शब्दः स शब्दार्थः‘ इति न्यायेन (?) स्वार्थे प्रामाण्यं नास्तीति चेन्न । महातात्पर्यस्य विधेयविषयत्वेऽप्यवान्तरतात्पर्यस्य स्वार्थविषयत्वानिवारणात् । “ग्रावाणः प्लुवन्ते” इत्यर्थवादस्यापि स्वार्थे प्रामाण्यं प्रसज्येतेति चेन्न । प्रमाणान्तरबाधितत्वात् । “द्विः संवत्सरस्य सस्यं पच्यते” (तै.सं. 5.1.7) इत्याद्यर्थवादस्य तु बाधाभावेऽप्यनुवादत्वान्न स्वार्थे प्रामाण्यम् । वेदनफलवचनानि तु नानुवादकानि । नापि बाध्यानि । तस्मादर्थवादत्वेऽप्यस्त्येषां स्वार्थे प्रामाण्यम् । अन्यथा मन्त्रार्थवादादिभ्यो देवानां विग्रहादिमत्त्वं न सिध्येत् ।
अत एवोक्तम् –
“विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादास्त्रिधा मतः” इति ।।
किं बहुना विद्यत एवावश्यं वेदनामात्रादपूर्वमतो वेदनाय वेदो व्याख्यायते । योऽयं विषयरूप इष्टप्राप्त्यनिष्टपरिहारोपायः सामान्यतो निर्दिष्टः स विशेषेण स्पष्टीक्रियते ।
वेदस्तावत्काण्डद्वयात्मकः । तत्र पूर्वत्र काण्डे नित्यनैमित्तिककाम्यनिषिद्धरूपं चतुर्विधं कर्म प्रतिपाद्यम् । “यावज्जीवमग्निहोत्रं जुहोति” इत्यादिकं नित्यं तस्य नियतनिमित्तत्वात् । “यस्य गृहान्दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्” (तै.सं. 2.2.2) इत्यादि नैमित्तिकं तस्यानियतनिमित्तत्वात् । “चित्रया यजेत पशुकामः” (तै.सं. 2.4.6) इत्यादि काम्यम् । “तस्मान्मलवद्वाससा न संवदेत न सहाऽऽसीत” (तै.सं. 2.5.1) इत्यादि निषिद्धम् । तेषु नित्यनैमित्तिकानुष्ठानेन तदकरणे प्रत्यवायरूपमनिष्टं परिह्रियते । स च प्रत्यवायो
Page 006 (84)
याज्ञवल्क्येन स्मर्यते –
“विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति” (या.स्मृ. 3.219) इति ।।
यावज्जीवादिवाक्येष्वनुक्तोऽप्यवर्जनीयतया स्वामीष्टः स्वर्गः प्राप्यते । तथा चाऽऽपस्तम्ब: - “तद्यथाऽऽम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते । एवं धर्ममपि चर्यमाणमर्था अनूत्पाद्यन्ते” (आप.ध.सू. 1.20.3) इति । काम्यस्येष्टफलहेतुत्वं तद्विधिवाक्ये स्पष्टमेव । इष्टविघातरूपमनिष्टं चार्थात्परिह्रियते । निषिद्धवर्जनाच्च रागप्राप्तानुष्ठानजन्यो नरकः परिह्रियते । न केवलं नित्यनैमित्तिकाभ्यामानुषङ्गिकस्वर्गप्राप्तिः किंतु धीशुद्ध्या विविदिषोत्पादनद्वारा ब्रह्मज्ञानहेतुत्वमपि तयोरस्ति । तथा च वाजसनेयिनः समामनन्ति — “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन” (बृ.उ. 4.4.22) इति । एवं तर्हि पूर्वकाण्ड एवाशेषपुरुषार्थसिद्धेः कृतमुत्तरकाण्डेनेति चेन्न । अपुनरावृत्तिलक्षणस्याऽऽत्यान्तिकपुरुषार्थस्य तत्रासिद्धेः । अत एवाऽऽथर्वणिकाः कर्मिणो दक्षिणमार्गेण चन्द्रप्राप्तिं पुनरावृत्तिं चाऽऽमनन्ति — “स सोमलोके विभूतिमनुभूय पुनरावर्तते” (प्र.उ. 5.4) इति । अत उत्तरकाण्डस्तदर्थको द्रष्टव्यः । आत्यन्तिकपुरुषार्थश्च द्विविधः सद्योमुक्तिः क्रममुक्तिश्चेति । वर्तमानदेहपातानन्तरमेव सिध्यति सद्योमुक्तिः । उत्तरमार्गेण गत्वा ब्रह्मलोके चिरं भोगाननुभूय तत्रोत्पन्नज्ञानस्य ब्रह्मलोकावसाने सिध्यति क्रममुक्तिः । तस्मादुत्तरकाण्डे ब्रह्मोपदेशो ब्रह्मोपास्तिश्चेत्युभयं प्रतिपाद्यते । ब्रह्मोपास्तिप्रसङ्गेन ब्रह्मदृष्ट्या प्रतीकमुपास्यत्वेन सांसारिकफलकामिनमुद्दिश्य प्रतिपाद्यते । ब्रह्मोपासकप्रतीकोपासकयोः समानेऽप्युत्तरमार्गे प्रतीकोपासकस्य विद्युल्लोकादूर्ध्वं ब्रह्मलोकगमनाभावेन क्रममुक्तेरप्यसिद्धत्वादस्ति पुनरावृत्तिः । एतच्च “अप्रतीकालम्बनान्नयति” (ब्र.सू. 4.3.15) इत्यधिकरणे द्रष्टव्यम् ।
नन्वस्त्वेवं पूर्वोत्तरकाण्डयोर्विषयविशेषः प्रयोजनविशेषश्च तथाऽपि पूर्वकाण्डस्याऽऽदौ कर्मान्तरं परित्यज्य दर्शपूर्णमासेष्टिरेव कुतः प्रतिपाद्यत इति चेत् । प्रकृतित्वान्निरपेक्षत्वाच्चेति ब्रूमः । प्रकर्षेणाङ्गोपदेशो यत्र क्रियते सा प्रकृतिः । कृत्स्नाङ्गविषयत्वमुपदेशस्य प्रकर्षः । विकृतिषु तु विशेषाङ्गोपदेश एव क्रियते । अङ्गान्तराणि तु प्रकृतेरतिदिश्यन्ते । अतोऽतिदेशस्य प्रकर्षाभावः । प्रकृतिस्त्रिविधा — अग्निहोत्रमिष्टिः सोमश्चेति । त्रिष्वप्येतेष्वन्यनैरपेक्ष्येण स्वाङ्गजातं सर्वमुपदिष्टम् । तत्र सोमयागस्य स्वरूपेणान्यनैरपेक्ष्येऽप्यङ्गेषु दीक्षणीयाप्रायणीयादिषु दर्शपूर्णमासापेक्षत्वान्न पूर्वभावित्वं युक्तम् । इष्टेस्तु सोमयागानिरपेक्षत्वात्सोमात्प्राचीनत्वं युक्तम् । यद्यप्यग्निहोत्रस्य स्वरूपेऽङ्गेषु वा
Page 007 (85)
नास्त्यन्यापेक्षा तथाऽप्यग्निसिद्ध्यपेक्षत्वादाहवनीयाद्यग्नीनां च पावमानेष्टिसाध्यत्वात्पावमानेष्टीनां च दर्शपूर्णमासविकृतित्वात्परंपरयाऽग्निहोत्रस्य दर्शपूर्णमासापेक्षाऽस्तीति प्रथमभावित्वं न युक्तम् । दर्शपूर्णमासयोरप्यग्निसाध्यत्वादग्निसाधकमाधानं प्रथमतो वक्तव्यमिति चेन्नैवम् । नाऽऽधानमात्रेणाग्नयः सिध्यन्ति । किं तु पवमानेष्टिभिरपि । ताश्चेष्टयो दर्शपूर्णमासविकृतित्वात्साक्षादेव दर्शपूर्णमासावपेक्षन्ते । दर्शपूर्णमासौ त्वग्नियोनिद्वारा पवमानेष्टिसापेक्षावपि न साक्षात्पवमानेष्टीरपेक्षेते । अतो निरपेक्षत्वाद्दर्शपूर्णमासेष्टिरेव प्रथमं वक्तव्या । ऋग्वेदसामवेदयोरादौ दर्शपूर्णमासेष्टिरनाम्नातेति चेद्बाढम् । यजुर्वेदमपेक्ष्य दर्शपूर्णमासयोरादित्वमुक्तं कर्मकाण्डविषये यजुर्वेदस्यैव प्रधानत्वात् । आनुपूर्व्यात्कर्मणां स्वरूपं यजुर्वेदे समाम्नातम् । तत्र तत्र विशेषापेक्षायामपेक्षिता याज्यानुवाक्यादय ऋग्वेदे समाम्नायन्ते । स्तोत्रादीनि तु सामवेदे । तथा सति भित्तिस्थानीयो यजुर्वेदश्चित्रस्थानीयावितरौ । तस्मात्कर्मसु यजुर्वेदस्यैव प्राधान्यम् । तस्मिंश्च दर्शपूर्णमासेष्टिरादौ समाम्नाता । यद्यपि मन्त्रब्राह्मणात्मको वेदस्तथाऽपि ब्राह्मणस्य मन्त्रव्याख्यानरूपत्वान्मन्त्रा एवाऽऽदौ समाम्नाताः । ते च त्रिविधा ऋचः सामानि यजूंषि चेति । तत्र यजुषामध्वर्युवेदे बहुलत्वात्क्वचिदृचां सद्भावेऽपि यजुर्वेद इत्येवाऽऽख्यायते । अध्वर्युवेदत्वं चास्यानादिसिद्धयाज्ञिकसमाख्ययाऽवगन्तव्यम् । अस्मिन्वेदे समाम्नाता दर्शपूर्णमासेष्टिमन्त्रास्त्रिविधा, आध्वर्यवा याजमाना हौत्राश्चेति । “इषे त्वा” (तै.सं. 1.1) इत्यादौ प्रपाठके पठिता आध्वर्यवाः । “सं त्वा सिञ्चामि” (तै.सं. 1.6) इत्यादौ पठिता याजमानाः । “सत्यं प्रपद्ये” (तै.ब्रा. 3.5) इत्यादौ पठिता हौत्राः । एतेषां मध्ये याजमानानां हौत्राणां च चित्रस्थानीयत्वाद्भित्तिस्थानीयानामेवाऽऽध्वर्यवाणामादौ पाठो युक्तः । ते चाप्याध्वर्यवाः “इषे त्वा” इत्यादिषु त्रयोदशस्वनुवाकेष्वाम्नाताः । तत्र प्रथमेऽनुवाके वत्सापाकरणार्था मन्त्राः । द्वितीये बर्हिःसंपादनार्थाः । तृतीये दोहनार्थाः । चतुर्थे हविर्निर्वापार्थाः । पञ्चमे व्रीह्यवघातार्थाः । षष्ठे तण्डुलपेषणार्थाः । सप्तमे कपालोपधानार्थाः । अष्टमे पुरोडाशनिष्पादनार्थाः । नवमे वेदिकरणार्थाः । दशमे प्राधान्येनाऽऽज्यग्रहणार्थाः, प्रसङ्गात्पत्नीसंनहनार्थाः । एकादशे प्राधान्येनेध्मसंनहनार्था बर्हिरास्तरणाद्यर्थाश्च । द्वादश आघारार्थाः । अत्र सामिधेनीप्रयाजाज्यभागप्रधानयागादिमन्त्राणां प्राप्तावसरत्वेऽपि तेषां हौत्रत्वात्तानुपेक्ष्योपरितनप्रयोगाङ्गभूता आध्वर्यवाः स्रुग्व्यूहनादिमन्त्रास्त्रयोदशे समाम्नाताः । एतत्सर्वं विनियोगसंग्रहकारेणेत्थं संगृहीतम् —
“ये दर्शपूर्णमासाङ्गमन्त्रा एते समासतः । इषे त्वाद्यानुवाकेषु त्रयोदशसु वर्णिताः ।।
वत्सापाकरणं बर्हिर्दोहो निर्वापकण्डने ।
Page 008 (86)
पेषणं च कपालानि पुरोडाशश्च वेदिका ।।
आज्यग्रहेध्मसंनाहावाघारोपरितन्त्रके ।
इत्युक्ता अनुवाकार्थाः प्रतिमन्त्रं क्रियोच्यते” ।। इति ।
किमिदं वत्सापाकरणं कथं वा तस्य प्राथम्यमिति चेत्, उच्यते - सन्ति दर्शयोगे त्रीणि प्रधानानि हवींषि पूर्णमासयागे च त्रीणि । आग्नेयोऽष्टाकपाल ऐन्द्रं दध्यैन्द्रं पय इति दर्शयागे । आग्नेयोऽष्टाकपाल आज्येन प्राजापत्य उपांशुयागोऽग्नीषोमीय एकादशकपाल इति पौर्णमासे । तत्र प्रतिपद्दिने दधिहोमे दधिसंपादनार्थममावास्यायां रात्रौ गावो दोग्धव्याः । तद्दोहार्थं प्रातःकाले लौकिकदोहादूर्ध्वं स्वमातृभिः सह संचरन्तो वत्सा मातृभ्योऽपाकरणीयाः । तदिदं वत्सापाकरणं, यथोक्तरीत्या तस्य प्राथम्यं च । तत्र वत्सापाकरणं सद्यश्छिन्नपलाशशाखया कर्तव्यमिति तच्छेदनाय “इषे त्वा” इति मन्त्र आदौ समाम्नायते । तस्य च मन्त्रस्य तच्छेदनाङ्गत्वं ब्राह्मणे द्रष्टव्यम् । अत एवं सब्राह्मणो मन्त्रो ज्ञातव्य इति च्छन्दोगा अधीयते — “यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण यजति याजयति वाऽध्यापयति वा स्थाणुं वर्च्छति गर्तं वा पात्यते प्रमीयते वा पापीयान्भवति तस्मादेतानि मन्त्रे विद्यात्” (आ.ब्रा. 1.1) इति । आर्षेय ऋषिभिः संबन्धः । अतीन्द्रियार्थद्रष्टारो हि ऋषयः । तेषां वेदद्रष्टृत्वं स्मर्यते —
“युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा” (मभा. 12.203.17) ।। इति ।
इषे त्वादीनां मन्त्राणां प्रजापतिऋषिः । तथा च काण्डानुक्रमणिकायामुक्तम् —
“शाखादिं याजमानं च होतॄन्हौत्रं च दार्शिकम् । तद्विधीन्पितृमेधं च नवाऽऽहुः कस्य तद्विदः”।। इति ।
शाखादिः “इषे त्वा” (तै.सं. 1.1) इत्यादि प्रपाठकः । याजमानाः “सं त्वा सिञ्चामि” (तै.सं. 1.6) इत्याद्यनुवाकषट्कमन्त्राः । होतारः “चितिः स्रुक्” (तै. सं. 3.1) इत्यादयो मन्त्राः । “सत्यं प्रपद्ये” (तै.ब्रा. 3.5) इत्यादिकं दार्शिकं हौत्रम् । तद्विधयः प्रोक्तानां चतुर्विधमन्त्राणां चत्वारि ब्राह्मणानि । पितृमेधः “परेयुवासं प्रवतो महीः” (तै.आ. 4.1-12) इत्यादि । तान्येतानि नव काण्डानि प्रजापतिना दृष्टानि । छन्दोविशेषाश्च वेदाङ्गभूते छन्दोनामके ग्रन्थे द्रष्टव्याः । मन्त्रपदव्याख्यानादेव तत्प्रतिपाद्यार्थरूपा देवता विज्ञायते । ब्राह्मणविशेषस्तु तत्तन्मन्त्रव्याख्यानावसर एवोदाह्रियते । यद्यपि मन्त्रविनियोगा ब्राह्मणे सर्वेऽपि नाऽऽम्नातास्तथाऽपि कल्पसूत्रकारैर्ब्राह्मणान्तरपर्यालोचनया ते सर्वेऽभिहिताः । अतो बौधायनादिसूत्रोदाहरणपूर्वकं ब्राह्मणानुसारेण मन्त्रार्थं योजयामः ।
इति तैत्तिरीयसंहिता भाष्यभूमिका ।
--<0>--
Page 009 (89)
ऋग्वेदसंहितायाः
सायणाचार्यकृता
भाष्यभूमिका
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्तुस्तृंनमामि गजाननम् ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलंजगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेथ्वरम् ।।
तत्कटाक्षेण तद्रुपदधद् क्ष्णहीपतिः ।
आदिशन् भाधवाचावर्य वेदार्थस्य प्रकाशने ।।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुर्माधवाचार्य्यो वेदार्थं वक्तुमुद्यतः ।।
आध्वर्यवस्य यज्ञेषु प्राधान्याद् व्याकृतः पुरा ।
यजुर्वेदोऽथ हौत्रार्थमृग्वेदो व्याकरिष्यते ।।
एतस्मिन् प्रथमोऽध्यायः श्रोतव्यः सम्प्रदायतः ।
व्युत्पन्नल्लावता सर्व योद्धुं शक्रोति बुद्धिमान् ।।
अत्र केचिदाहुः – ऋग्वेदख्य प्राथम्येन सर्वत्र आम्नातत्वाद् अभ्यर्हितत्वाद् तद्व्याख्यानमादौ युक्तम्, प्राथम्यं च पुरुषसूक्ते विस्पष्टम् –
तस्माद् यज्ञात् सर्वहुत ऋचः(१) सामानि(२) जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् यजु(३) स्तस्मादजायत ।। (ऋ०. १०. ९०. ९)
सहस्रशीर्षा पुरुष (ऋ०. १०. ९०. ९) इत्युक्तात् परमेश्वरात्, यज्ञाद् यजनीयात् पूजनीयात्, सर्वहुतः सर्वैर्हूयमानात् – यद्यपि इन्द्रादयस्तत्र तत्र हूयन्ते तथापि परमेश्वरस्यैव इन्द्रादिरूपेण अवस्थानादविरोधः ।
Foot Note: -
(१) ऋग्लक्षणं यथाह जैमिनिः-
‘तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था’ (मी० २.१.३५) “यत्र पादकृता व्यवस्था स मन्त्र ऋङ्नाम” शबरस्वामी । 'पादेनाथेन चोपेता वृत्तबद्धा मन्त्रा ऋचः' हति जैमिनीयन्यायविस्तेर माधवाचार्यः ।
(२) सामलक्षणं – ‘गीतिषु सामाख्या’ ( मी० २। १ । ३६) 'विशिष्टा काचिद् गीतिः सामेवच्यते । प्रगीते हि मन्त्रवाक्ये सामशब्दममियुक्ता उपदिशन्ति' हति शबरस्वामी ।
(३) यजुर्लक्षणम् – ‘शेषे यजुःशब्दः’ ( मी० २ । १ । ३७) 'या न गीतिनै च पादवद्धं तत् प्रल्किपी३तं यजुः' इति शबरस्वामी । 'वृत्तिगोतिवर्जितत्वेन प्रोरुष्टपक्तिता मन्त्रा यदि – हति जैमिनीयन्यायविस्तेर माधवाचार्यः ।
Page 010 (90)
तथा च मन्त्रवर्णः-
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद् विप्रा वहुधा वदन्त्यग्नि यमं मातरिश्वानमाहुः ।। ( ऋ०. १. १६४.४६)
वाजसनेयिनश्चामनन्ति-
तद् यद् इदमाहुरमु यजामु यजेत्येकैकं देवम्
एतस्यैव सा विसृष्टिरेष उ ह्येव सर्व्वे देवा इति ।। ( वृ०. १. ४. ६)
तस्मात् सर्वैरपि परमेश्वर एव हूयते ।
न केवलमृचा पाठप्राथम्येन अभ्यर्हितत्व किन्तु यज्ञाङ्गदार्ढ्यण्डेत्वादीप । तथा च तैत्तिरीयाः आमनन्ति । (तै. सं. ६।५।१०।३)
यत् यज्ञस्य साम्ना यजुवा क्रियते शिथिलतद्, यद्क्त्वातद्दृढमिति।
तथा सर्व्ववेदगतानि ब्राह्मणानि स्वाभिहितेऽर्थे विश्वासदार्ढ्यायतदेतद् ऋचा अभ्युक्तमिति ऋचमेव उदाहरन्ति । मन्त्रकाण्डेष्वपि यजुर्वेदगतेषु तत्र तत्र अध्वर्युणा प्रयोज्या ऋचो वहव आम्नाताः । सास्रा तु सर्वेघाम्ऋगाश्रितत्वं प्रसिद्धम् । आथर्वणिकैरपि स्वकीयसंहितायाऋच एव बाहुल्येन अधीयन्ते । अतोऽन्यैः सर्वैर्वेदैराद्वनत्वादभ्यर्हितत्वम् ।
छान्दोगास्तु प्राथम्येन सनत्कुमारं प्रति नारदवाक्यमेवमामनन्ति –
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चेति । ( छा० ७११२)
मुरण्डकोपनिषद्यपि एवमाम्नायते-
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वण इति । ( मु० १।१।५)
तापनीयोपनिषद्यपि मन्त्रराजपादेषु क्रमेण अध्ययनमेवमामनन्ति –
ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः सशाखाश्चत्वारः पादा भवन्ति इति । ( नृ० १।१।२)
एव सर्वत्र उदाहरणीयम् । तस्माद् ऋग्वेदस्य अभ्यर्हितस्य आदौ व्याख्यानमुचितम्हति ।
तान्प्रति एतदुच्यते –
अस्तु एवं सर्व्ववेदाध्ययनतत्पारायणब्रह्मयज्ञजपादौ ऋग्वेदस्यैव प्राथम्यम् । अर्थज्ञानस्थ तु यज्ञानुष्ठानार्थत्वात्तत्र तु यजुर्वेदस्यैव प्रधानत्वाद् तद्व्याख्यानमेव आदौ
युक्तम् ।
तत्प्रधान्यं काचिदृगेव आह –
“ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उत्वः।।" (ऋग्वेदः --10.71.11)
Page 011 (91)
एतस्या ऋचस्तात्पर्यं निरुक्तकारो यास्कः सङ्क्षिप्य दर्शयति “ऋत्विक्कर्मणां विनियोगमाचष्टे” (नि०१।८) इति । पुनरपि स एव प्रथमं पादं विवृणोति – “ऋचामेकः पोषमास्ते पुपुष्वान्होतर्गर्चनी” (नि०१।८) इति । अस्यायमर्थः – त्वशव्दः एकशव्दपर्य्यायो होतृविशेषणम् । होतृनामक एक ऋत्विग् यज्ञकाले स्वकीयवेदगतानाम् ऋचां पुष्टिं कुर्वन्नास्ते, भिन्नप्रदेशेष्वाम्नातानाम् ऋचां सङ्घातमेकत्र सम्पाद्यैतावदिदं शस्त्रमिति चति करोति, सेयं पुष्टिः । अर्चनीत्यमुमर्थमृक्छब्द आचष्टे । अर्ज्यते प्रशस्यतेऽनयादे वविशेषः क्रियाविशेषस्तत्साधनविशेषो वेत्यृक्छव्दव्युत्पत्तेरिति ।
अथ द्वितीयं पादं विवृणाति – “गायत्रमेको गायति शक्वरीपूद्गाता । गायत्रं गायतेः स्तुतिकर्म्मणः । शङ्कव्यं ऋचः,शक्रोतेस्तद्, यदाभिर्वृत्रमशकद् हन्तुं तच्छक्वरीणां शक्वरीत्वमिति विज्ञायते” ( कौ- २३।२) इति । अस्यायमर्थः – उद्गातृनामक एक ऋत्विग् गायत्रशब्दामिधेयं स्तोत्रं शकरीशब्दाभिधेयास्कृश्च गायति, धातूनामनेकार्थत्वेन स्तुतिक्रियावाचिनो गायतिधातोरुत्पन्नोगायत्रशव्दर । शक्वरीशव्दस्तुशक्रोतिधातोरुत्पन्नः,वृत्रशत्रुंहन्तु शक्रोति आभिर्व्यम्भिरित्येया व्युत्पत्तिः कस्मिंश्चित् ब्राह्मणे विज्ञायत इति ।
अथ तृतीयपादं विवृणोति – “ब्रह्मा एकः जाते जाते विद्यां वदति, ब्रह्मा सर्व्वविदिति” (नि०१।८) । अस्यायमर्थः – ब्रह्मनामक एक ऋत्विग् जाते जाते तदा तदा उत्पन्ने प्रस्तुते प्रणयनादिकर्म्मणि विद्याम् अनुज्ञां वदति, ब्रह्मन् अपः प्रणेप्यामीत्येवं सम्बोधितः सन् ॐ प्रणय इत्यनुजानाति, स च ब्रह्मा वेदत्रयोक्तसर्व्वकर्म्माभिज्ञः । तस्माद् योग्यतां दृष्ट्वा तत्तदनुज्ञातुं सति प्रमादे समाधातुं च समर्थ इति । सामर्थ्य छन्दोगा आमनन्ति –
एष एव यज्ञस्तस्य मनश्च वाक् च वर्त्तनी । तयोरन्यतरां मनसा
रूस्करोति ब्रह्मा, वाचा होताध्वर्युरुद्गाता चान्यतराम्' इति ।। ( छा० ४।१६।१-२)
कृत्स्नो यज्ञः प्रमादराहित्याय मनसा सम्यगनुसन्धेयः, वाचा च वेदत्रयोक्तमन्त्राः पठनीयाः । तत्रहोत्रादयस्त्रयोमिलित्वावाग्रूपयज्ञमार्गं संस्कुर्वन्ति, ब्रह्मा त्वेक एव मनोरूपं यज्ञमार्गं कृत्स्नमपि संस्करोति । तस्मादस्य सामर्थ्यमिति ।
अथ चतुर्थ पादं विवृणोति । “यज्ञस्य मात्रां विमिमीत एकोऽध्वर्युः । अस्त्यर्युरध्वरयुरध्वरं युनक्ति अध्वरस्य नेतेति” (ऋग्वेदः--10.71.11) । अस्यायमर्थः – अध्वर्युनामक एक ऋत्विग् यज्ञस्य मात्रां स्वरूपंविमिमीते विशेषेण निदपादयति । भीयते निर्मीयते इति मात्रा स्वरूपम्; तन्निष्पादकत्वं च अध्वर्योर्नामनिर्वचनादवगम्यते, अध्वर्युरित्यत्र छान्दख्यां प्रक्रियायां लुप्तमकारे पुनः प्रक्षिप्य
Page 012 (92)
अध्वरयुरिति नाम सम्पादनीयम्, अध्वरंयुनक्ति इतिअवयवार्थः, अध्वरस्य नेता इति तात्पर्य्यार्थं इति ।
एतदेव अभिप्रेत्य अध्वर्यवेदख्य यागनिष्पादकत्वद्योतक निर्वचन
यास्को दर्शयति –
“मन्त्रा मननात्, छन्दांसि छादनात्, स्तोमः स्तवनात्, यजुर्यजतेरिति” । (नि- ७|१२)
एव सति अध्वर्युसम्बन्धिनि यजुर्वेदे निष्पन्न यज्ञशरीरमुपजीव्य तदपेक्षितौ स्तोत्रशस्त्ररूपौ अवयवौ इतरेण वेदद्वयेन पूर्य्येते इत्युपजीव्यस्य यजुर्वेदस्य प्रथमतो व्याख्यान युक्तम् । तत ऊर्द्ध्व सान्नामृगाश्रितत्वाद् उभयोर्मध्ये प्रथमत ऋगव्याख्यान युक्तम् इति ऋग्वेद इदानीं व्याख्यायते ।
ननु वेद एव तावन्नास्ति, कुतस्तदवान्तरविशेष ऋग्वेदः? तथा हि, कोऽय वेदो नाम?न हि तत्र लक्षण प्रमाण वास्ति । न च तदुभयव्यतिरेकेण किञ्चिद् वस्तुप्रसिध्यति । लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरिति न्यायविदां मतम् ।
प्रत्यक्षानुमानागमेषु प्रमाणविशेषेषु अन्तिमो वेद इति तल्लक्षणमिति चेत्? न, भन्वादिस्मृतिषु अतिव्याप्तेः । समयबलेन सम्यक्परोक्षानुभवसाधनमित्येतस्य आगमलक्षणस्य तास्वपि सद्भावात् ।
अपौरुषेयत्वे सति इति विशेषणाददोष इति चेत्? न, वेदस्यापि परमेश्वरनिर्मितत्वेन पौरुषेयत्वात् । शरीरधारिजीवनिर्मितत्वाभावाद् अपौरुषेयत्वमिति चेत् ? न, सहस्रशीर्षा पुरुष इत्यादि श्रुतिभिरीश्वरस्यापि शरीरित्वात् ।
कर्म्मफलरूपशरीरधारिजीवनिर्मितत्वाभावमात्रेण अपौरुषेयत्वं विवक्षितमिति चेत् ? न, जीवविशेयैरश्चिवच्चादित्वैर्वेदानामुलूपादितत्वात् । “ऋग्वेद एवाग्नेरजायत यजुर्वेदोवायोः सामवेद आदित्या” इति श्रुतेः (ऐत० ब्रा० ५।५।७) ईश्वरस्य अग्न्यादिप्रेरकत्वेन निर्मातृत्वं द्रष्टव्यम् ।
मन्त्रब्राह्मणात्मकः शव्दराशिर्वेद इति चेत् ? न, ईदृशो भन्तईदृशं ब्राह्ममित्यनयोरद्याप्यनिर्णीतत्वात्। तस्मान्नास्ति किञ्चिद् वेदस्य लक्षणम् ।
नापि तत्सद्भावे प्रमाण पश्यामः । ऋग्वेद भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वण चतुर्थमित्यादिवाक्यं प्रमाणमिति चेत्? च, तस्यापि वाक्यस्य वेदान्तःपातित्वेन आत्माश्रयत्वप्रसङ्गात् । न खलु निपुणोऽपि स्व स्कन्धमारोढु प्रभवेदिति ।
“वेद एव द्विजातीनां निःश्रेयसकरः परः” (या. स्मृ०. १ ।४०)
इत्यादि स्मृतिवाक्यं प्रमाणमिति चेत् ? न, तस्यापि उक्तश्रुतिमूलत्वेन निराकृतत्वात्।
प्रत्यक्षादिकं शङ्कितुमपि अयोग्यम् । वेदविपया तु लोकप्रसिद्धिः
Page 013 (93)
सार्व्वजनीनापि नीलंनभ इत्यादिवद् भ्रान्ता । तस्मात् लक्षणप्रमाणरहितस्य वदस्य सभ्दावो नाङ्गीकर्त्तुं शक्यते इति पूर्वपक्षः ।
अत्रोच्यते । मन्त्रव्राह्मणाहमकत्वं तावददुष्टं लक्षणम् । अतएव आपस्तम्बो यज्ञपरिभाषायामेवमाह – “मन्त्रब्राह्मणयोर्वेदनामधेयमिति” (आप०परि०३१) । तयोस्तु स्वरूपमुपरिष्टात्निर्णेप्यते ।
अपौरुषेयवाक्यत्वमिदमपि याट्टशमस्माभिर्विवक्षितं ताद्वशमुत्तरत्र स्पष्टीभविष्यति । प्रमाणान्यपि यथोक्तश्रुतिस्मृतिलोकप्रसिद्धिरूपाणि वेदसद्भावे द्रष्टव्यानि । यथा घटपटादिद्रव्याणां स्वप्रकाशकत्वाभावेऽपि सूर्य्यचन्द्रादीनां स्वप्रकाशत्वमविरुद्धम्, तथामनुष्यादीनां स्वस्कन्धारोहासंभवेऽपि अकुण्ठितशक्तेवैदस्य इतरवस्तुप्रतिपादकत्ववत् स्वप्रतिपादकत्वमप्यस्तु । अत एव सम्प्रदायविदोऽकुरिष्ठतां शक्तिं वेदस्य दर्शयन्ति – “चोदना हि भूतंभवन्तंभविष्यन्तंसूक्ष्मव्यवहितविप्रकृष्टनिप्येवं जातीयमर्थ शक्रोति अवगमयितुमिति”(शा०.भा०१।२) । तथा सति वेदमूलाया लोकप्रसिद्धेश्च प्रामारप्य दुर्वारम् । तस्मात् लक्षणप्रमाणसिद्धो वेदो न केनापि चार्वाकादिना अपोहं शक्यते इति स्थितम् ।
ननु अस्तु नाम वेदाख्यः कश्चित् पदार्थः, तथापि नासौ व्याख्यानमर्हति, अप्रमाणत्वेन अनुपयुक्तत्वात् । न हि वेदः प्रमाणम्, तल्लक्षणस्य तत्र दुःसम्पादत्वात् । तथा हि--सम्यगनुभवसाधन प्रमाणमिति केचित् लक्षणमाहुः । अपरे तु अनधिगतार्थगन्तृ प्रमाणमित्याचक्षते । न चैतदुभयं वेदे सम्भवति । मन्त्रब्राह्मणात्मको हि वेदः । तत्र मन्त्राः केचिदवोधकाः ।
अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।(१) (ऋ० १।१६९।३)
यादृश्मिन्धायि धायि तमपस्यया विददित्यन्यः(२) (ऋ० ५।४४।८)
Foot Note: -
(1)अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।
अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥
हतिसम्पूर्णा मन्त्रः । तन्नत्यसाय्रणभाष्यसङ्क्षेपः – हे इन्द्र ते सा प्रसिद्धा ऋष्टिः वज्रं अस्मद् वृष्ट्यर्थ अम्यक् प्राप्नोति मेघसमीपे । मरुतः सनेमि चिरकालं संगृहीतं अभ्वं जलं जुनन्ति क्षिपन्ति । वर्पन्तीत्यर्थः । अग्निः चिदग्निरपि । हि ख्येति पूरणे । अतसे सन्तते कर्मणि शुशुक्वान् दीप्यमानो वर्तते । प्रयासि हवीपि दधति धारयन्ति यजमानाः । द्विपार्श्वस्थोदकवान् पर्वतादिर्द्वीपः । तं यया वायोधारन्ति तद्वत्।।
(2)सम्पूर्णमन्त्रस्तु
ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते ।
यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥
तत्रत्यसायणभाष्यसङ्क्षेपः – ज्यायांसं अतिशयेन प्रवृद्धं अस्य यतुनसव गन्तुः सूर्यस्य केहना उडयादिलक्षणेन प्रज्ञापकेन कर्मणा विशिष्टं ऋषिस्वरं ऋषिभिः स्तुत्यं यासु स्तुतिषु ते त्वदीय नाम न्त्यनेनामकं वा रूपं वर्तते । ताभिः त्वां चरति भजते यजमान इत्यर्थ । यादृश्मिन् यादृने कामे धायि धृतमनइत्ति शेषः । तं कामं अपस्थया हवि स्तुत्वादिलक्षणेन कर्मणा विदत्विन्दते । य उ य एव वहते धारयति फलं, सः अरं अत्यर्थं करत् कुर्यात् ।।
Page 014 (94)
सृण्येव जर्भरी तुर्फरी तू इत्यपरः(१) ( ऋ० १०।१०६।६)
एवमापान्तमन्युस्तृपूलप्रभर्म्मा(२) ( ऋ० १०।८९ ।५) इत्यादय उदाहार्याः । नहि एतैमन्त्रैः कश्चिदप्यर्थोऽवबुध्यते । एतेषु अनुभवएव यदा नास्ति तदा तत्सम्यक्त्व तदसाधनत्वं च दूरापेतम् ।
अधस्विदासीद् उपरस्विदासीदिति मन्त्रस्य ( ऋ० १०।१२९।५) बोधकत्वेऽपि स्थाणुर्वा पुरुषो वा इत्यादिवाच्यवत्सन्दिग्धार्थबोधकत्वात् नास्ति प्रामारष्यम् ।
ओषधे त्रायस्वैनमिति मन्त्रो (तै.सं. १।२।१।१) दर्भविपयः । स्वधिते मैन हिंसीरिति (तै.सं. १।२।१।१) क्षुरविषयः । शृणोत ग्रावाण इति (तै.सं. १।३।१३।१) पाषाणविपयः । एतेषु अचेतनानां दर्भक्षुरपाषागानां चेतनवत् सम्बोधन भूयते । ततो द्वौ चन्द्रमसाविति वाक्यवत्विपरीतार्थवाधकत्वादप्रामाख्यम् । एक एव रुद्रो न द्वितीयोऽवतस्थे (तै.सं. १।८।६।१) । सहस्राणि सहस्रशोयेरुद्राअधिभूम्याम् (तै. सं०. ४।५।११।५) इत्यनयोस्तु मन्त्रयोर्यावज्जोवमह मौनीति वाक्यवत् व्याधातवोधकत्वादप्रामाख्यम् ।
आप उन्दन्तु इति भन्त्रो ( तै०. सं०. १।२।१।१) यजमानस्य क्षौरकाले जलेन शिरसः क्लेदन ब्रूते । शुभिके शिर आरोह शोभयन्ती मुखं मम इति मन्त्रो व्याप- मं० पा० नाम विवाहकाले मङ्गलाचरणार्थं पुष्पनिर्मितायाः
Foot Note: -
(1)सम्पूर्णमन्त्रस्तु –
सृण्येव जर्भरी तुर्फरी तूनैतोशेव तुर्फरी पर्फरीका ।
उदन्यजेव जेमना मदेरू ता मे जराम्बजरं मरायु ।।
तत्रत्यसायणभाष्यसक्षेपः– सृण्याविव सृणिः अङ्कुश तत्र साधुरिति यत् अङ्कुशार्हा मत्तगजाविवतुर्फरी शव्रणा हन्तारौ । नितोशस्य वधकर्तु अपत्यं नैतोशः ताविव तुर्फरी हन्तारौ पर्फरीकौशभ्रूणां विदारयितारौ । उदन्यजे इव उक्त्यातौ इवनिर्मलौ काच्छिक्तौ । जेमनाजेस्तौ जयशीलौ । मदेरू बलातिशयेन मक्तौ ता तावश्विनौ युवां मे मदीयंजरायु जरायुजं अतएव मरत्वच मस्तशीलं शरीर अजरजरारहितं कुरुतम् ।।
(2)सम्पूर्णमन्त्रस्तु –
आपान्तमत्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमां ऋजीपी ।
सोमोविश्वान्यतसावनानि नार्वागिन्द्र प्रतिमानानि देभुः ।।
तत्रत्यं सायणभाष्यम् – आपान्तमत्युः आराहुतिमन्त्रः तृपलप्रमर्भा ग्रावादिभिः क्षिप्रप्रहारीधुनिशथूणां कम्पयिता शिमीवान् ख्यवान् शस्मान् आयुधमान् ऋजापो ऋजीपवान्सोमो विश्वानि सर्वाणि अतसा अतसमयानि वनानि अरण्यानि वर्धयतीति शेषः । प्रतिमानानि प्रतिमानभूतानि समानद्रव्याणीत्यर्थः । इन्द्र अर्वाक् देभुः दकणोतिरत्रापकर्पणकर्मा । तुलयामोयमानानि आत्माभिमुखतया नाकर्पयन्ति लधूनि भवन्तीर्क्त्यः । अन्यत्रप्रति निधीयमानानि गुरूणि तानि आत्माभिमुरवमाकर्पच्चि नैवमिन्द्रं कुर्वन्तीति सर्वेभ्यो महानिन्द्रइत्यथ । त्रय पादाः सौम्याः तुरीयस्त्वैन्द्रः । याल्केनापि निरुक्ते व्यास्कगतोऽयं मन्त्रः (नि. ५ । १२)
Page 015 (95)
शुभिकायाः वरवध्वोः शिरसि अवस्थानं ब्रूते । तयोश्च मन्त्रयोर्लोकप्रसिद्धार्थानुवादित्वाद् अनधिगतार्थगन्तृत्त्वं नास्ति । तस्मान् मन्त्रभागो न प्रमाणम् । अत्रोच्यते –
श्रम्यगादिमन्त्राणामर्थो यास्केन निरुक्तग्रन्थे ऽववोधितः । तत्परिचयरहितानामधोधो न मन्त्राणां दोषमावहति । अत एव अत्र लौकिके न्यायमुदाहरन्ति – नैष स्थाणोरपराधो यदेनमन्धो न पश्यति, पुरुषापराधः स भवतीति ।
अधःस्त्विदिति मन्त्रश्च न सन्देहवोधनाय प्रवृत्तः । किं तर्हि? जगत्कारणस्य परवस्तुनोऽतिगम्भीरत्वं निश्चेतुमेव प्रवृत्तः । तदर्थमेव हि गुरुशास्त्रसम्प्रदायरहितैर्दुवोभ्यत्वमधःस्विदित्यनया वचोभङ्ग्या उपन्यस्यते । स एवाभिप्राय उपरितनेषु कौ अद्धा वेद ( ऋ०. ३।५४। ५) इत्यादिमन्त्रेषु स्पष्टीकृतः ।
ओषध्यादिमन्त्रेष्वपि चेतना एव तत्तदभिमानिदेवतास्तेन तेन नाम्ना सम्बोध्यन्ते । ताश्च देवता भगवता वादरायणेन “अभिमानिव्यपदेशस्तु०”( वे० २। १।५) इति सूत्रे(१) सूत्रिताः ।
एकस्यापि रुद्रस्य स्वमहिम्ना सहस्रसूर्त्तिस्वीकारान् नास्ति परस्परव्याघातः ।
जलादिद्रव्येण शिरःक्लेदनादेर्लोकप्रसिद्धत्वेऽपि तदभिमानिदेवतानुग्रहख्य अप्रसिद्धत्वात् तद्विषयत्वेन अज्ञातार्थज्ञापकत्वम् ।
ततो लक्षणसद्भावादस्ति मन्त्रभागख्य प्रामाण्यम् । एतदेवाभिप्रेत्य भगवान् जैमिनिर्मन्त्राधिकरणे मन्त्राणां विवक्षितार्थत्वमसूत्रयत् । तानि च सूत्राणि क्रमेण उदाहृत्य व्याख्यास्यामः । तत्र पूर्वपक्षं सूत्रयति –
तदर्थशास्त्रात् ( जै०. १।२।३१)
यस्यार्थस्य अभिधाने समर्थो मन्त्रः, स एव अभिधेयो यस्य शास्त्रस्य ब्राह्मणवाक्यस्य, तदिदं वाक्यं तदर्थशास्रम् । तस्मात् शास्त्राद् अविवक्षितार्थो मन्त्र इत्यवगम्यते । तथा हि – उरु प्रथस्व इति मन्त्रेण ( तै० सं ०१ । १ । ८। १) पुरोडाशप्रथनमभिधीयते, पुरोडाशं प्रथयति इति ब्राह्मणेनापि ( तै०. ब्रा०. ३ ।२ ।८।४) तदेवाभिधीयते । तथा सति मन्त्रेणैव प्रतीतत्वात् तदर्थबोधनाय प्रवृत्तं व्राह्मणवाक्यमनर्थकं स्यात् । मन्त्रस्य अविवक्षितार्थत्वे तु विनियोगवोधनाय ब्राह्मणवाक्यमुपयुक्तम् । तस्मान् मन्त्रा उच्चारणेनैव अनुष्ठाने उपकुर्वन्ति ।
Foot Note: -
(1) सम्पूर्णस्थं तु “अभिमानिव्यपदेशस्तु विशेपानुगतिभ्याम्” । “न खलु मृद्रब्रवीदित्येवञ्जातीस्त्वया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाश्लत्यम्लह्यै यतोऽग्निमानिव्यपदेश एषः । मृदाचश्लिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसम्बदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् । इति तत्रत्यं शाङ्करभाष्यम् ।
Page 016 (96)
ननु उच्चारणार्थत्वे सति अदृष्टं प्रयोजनं परिकल्प्येत । अर्थाभिधायकत्वे तु दृष्टं लभ्येत । तस्माद् ब्राह्मणस्य अनुवादकत्वमभ्युपेत्यापि मन्त्रस्य अभिधानार्थत्वमेव इत्याशङ्क्य उत्तरं सूत्रयति –
वाक्यनियमात् (जै०. १।२।३२)
अग्निर्मूर्द्धा दिवः ककुद् ( ऋ०. ८. ४४.१६) इत्येवमेव वाक्यं पठितव्यमिति मन्त्रे नियम उपलभ्यते । अर्थप्रत्यायनं तु मूर्द्धाग्निरित्येवं व्युत्क्रभपाठेऽपि भवत्येव । तस्मात् नियतपाठक्रमसाफल्यायोच्चारणमेव मन्त्रप्रयोजनम् ।
ननु पाठक्रमनियममात्रख्य अट्टष्टार्थत्वेऽपि मन्त्रपाठोऽर्थवोधार्थ एव इत्याशङ्क्य तत्र दोषान्तरं सूत्रयति –
बुद्धशास्त्रात् (जै०. १।२।३३)
अग्नीदग्नीन्विहर ( तै०. स०. ६।३।१।२) इति प्रैषमन्त्रः प्रयोगकाले पठ्यते । तच्च अग्निविहरणादि कर्म्म आग्नीध्रेण अध्ययनकाले एव स्वकर्त्तव्यत्वेन बुद्धम् । तस्य च बुद्धस्य अर्थस्य पुनर्मन्त्रोच्चारणेन शासनमनर्थकम् । न हि सोपानके पादे पुनरपि उपानहं प्रतिमुञ्चति ।
ननु बुद्धस्य अर्थस्य प्रामादिकविख्यरणपरिहाराय मन्त्रेण ख्यारणमस्तु इत्याशङ्क्य दोषान्तरं सूत्रयति –
अविद्यमानवचनात् ( जै० १।२।३४)
चत्वारि शृङ्गा त्रयो अस्य पादा
द्वे शीर्षे सप्तहस्तास्रो अस्य ( ऋ० ४।५८।३)
इति मन्त्र आम्नायते । न खलु चतुःशृद्गत्वाद्युपेत किञ्चिद् यज्ञसाधन विद्यते यन्मन्त्रपाठेन अनुस्मर्य्यते ।
ननु ईदृशी काचिद् देवता ख्यादित्याशद्वय अन्यं दोपं सूत्रयति –
अचेतनेऽर्थवन्धनात् ( जै० १।२।३५)
ओषधे त्रायस्चैन, शृणोत ग्रावाण इत्यादावचेतने द्रव्ये चेतनोचितं रक्षणश्रवणाद्यर्थं वध्नाति स चायुक्तः ।
ननु अभिमानिव्यपदेश इति वैयासिकशास्त्रे सूत्रितत्वात् (वे०. २-१-५) ओषध्याद्यभिमानिचेतनदेवता अत्र विवक्ष्यतामित्याशद्वथ दोषान्तरं सूत्रयति –
अर्थविप्रतिपेधात् (जै० १।२।३६)
“अदितिद्यौरदितिरन्तरिक्षम्” इति मन्त्रः ( ऋ० १-८९-१०) आम्नायते । यदेव द्यौस्तदेव अन्तरिक्षमित्ययमर्थो विप्रतिषिद्धः । एवमेक एव रुद्रः सहस्राणि सहस्रशो ये रुद्रा इत्यादिकमपि उदाहर्त्तव्यम् ।
ननु त्वमेव माता च पिता त्वमेव इत्यादिवद् अन्तरिक्षादिरूपत्वेन अदितिः स्पृयते । एवमेकस्यापि रुद्रस्य यतोत्तायर्ध्याद् वहुरूचर्स्योकारोऽस्तु ।
Page 017 (97)
ततो नार्थविप्रतिषेध इत्याशङ्क्य दोषान्तरं सूत्रयति –
स्वाध्यायवदवचनात् ( जै० १।२।३७)
पूर्णिका नाम काचिद् योपिदवघातं करोति । तत्समीपे माणवकः स्वाध्यायग्रहणार्थ कदाचिदवघातस्तत्रमधीते । न च तस्य अर्थप्रकाशनविवक्षा अस्ति । प्रतिमुसलप्रहार तस्य मन्त्रस्य अपठ्यमानत्वाद् अक्षरअश्मगायैव तं मन्त्रमन्यांश्च मन्त्रान् अभ्यस्यति । तत्र स्वाध्यायकाले पठितोऽपि अवधातक्षत्रो यथा पूर्णिकां प्रति स्वार्थ न ब्रूते, तथा कर्मकालेऽपि स्वार्थं न वक्ष्यति |
ननु तत्र माणवकस्य अर्थविवक्षानास्त्विथ पूर्णिकापि अववोद्धुमक्षमा । कर्म्मणि तु अध्वर्योरर्थविवक्षा विद्यते वोधश्च सम्भवति इत्याशङ्क्य दोषान्तरं सूत्रयति –
अविज्ञेयात् ( जै० १।२।३८)
केपाञ्चिन्मन्त्राणामर्थो विज्ञातुं न शक्यते । तद् यथा, “अम्यक् सा त इन्द्र ऋष्टिरस्मे” (ऋ०. १.१६९. ३) इत्येको मन्त्रः । “सृण्येव जर्भरी तुर्फरी तू” (ऋ०. १०.१०६.६) इत्यपरोमन्त्रः ।
ननु ईदृशानामर्थवोधाय एव निगमनिरुक्तव्याकरणानि प्रवृत्तानि इत्याशद्वध दोपान्तरं सूत्रयति –
अनित्यसंयोगान्मन्त्रानर्थक्यम् ( जै०. १।२।३९)
“किं ते कृण्वन्ति कीकटेषु” इति मन्त्रे ( ऋ० ३।५३।१४) कीकटो नाम जनपदआम्नातः । तथा नैचाशाखं नाम नगरं, प्रमगन्दो राजा इत्येते अर्था अनित्या आम्नाताः । तिथा सति प्राक् प्रमगन्दान्नायं मन्त्रो भूतपूर्वः इति गम्यते ।
तदेवमेतैस्तदर्थशास्त्रादिभिर्हेतुभिमन्त्राणामर्थप्रत्यायनार्थत्वं नास्ति किन्तु उच्चारणाददृष्टार्था एव इति पूर्वपक्षः ।
तत्र सिद्धान्त सूत्रयति –
अविशिष्टस्तु वाक्यार्थः (जै०.१।२।४०)
'तु'शब्देन मन्त्राणामदृष्टार्थमुच्चारणमात्रं वारयति । क्रियाकारकसम्बन्धेनप्रतीयमानोधाक्यार्थो लोकवेदयोरविशिष्टः । तथा सति यथा लोके अर्थप्रत्यायनायैव वाक्यभुच्चार्य्यते तथा वैदिके यागप्रयोगेऽपि द्रष्टव्यम् । मन्त्रेण प्रकाशिल अर्थोऽनुष्ठातुं शक्यते, न तु अप्रकाशितः । तस्मान् मन्त्रोञ्चारणख्यअर्थप्रकाशनरूपं दृष्टमेव प्रयोजनम् ।
ननु “अभ्रिरसि नार्यसि” (वा०. सं०. ११।१०) इत्यारभ्य त्रैष्टुभेन त्वा छन्दसा ददे इति मन्त्र आम्नातः । तेनैव मन्त्रेण प्रतीतेऽभ्र्यादाने, “पुनर्ब्राह्मणे तां चतुर्भिरभ्रिमादत्त” इति विधीयते (श०. ब्रा०. ६।३।१।३९) ।। तदेतद विधानं त्वत्पक्षे व्यर्थं स्यादित्याशङ्क्य उत्तरं सूत्रयति –
गुणार्थेन पुनःश्रुतिः ( जै० १।२।४१)
Page 018 (98)
मन्त्रेण प्रतीतख्यैव अर्थस्य ब्राह्मणे यत् पुनः श्रवणं तदेतच्चतुःसंख्यालक्षणगुणविधानार्थप्वेन उपयुज्यते । एतस्य विधानस्य अभावे चतुर्रप्तां मन्त्राणां मध्ये येन केनाप्येकेन अभ्रिरादीयेत ।
ननु 'इमामगृभणन् रशनामृतस्य' ( वा. सं०. २२।२) इत्यश्वाभिधानीमादत्ते इत्यत्र मन्त्रसामर्थ्यादेव प्राप्तस्य रशनादानख्य पुनर्ब्राह्मणवाक्यं ( श०. ब्रा०. १३।१८।१) विनियोजकमाम्नायते । तदेतत्त्वन्मते व्यर्थभित्याशङ्क्य उत्तरं सूत्रयति –
परिसख्याप(१) ( जै०. १।२।४२)
गर्दभाभिधानीं नादत्ते इति निषेधः परिसंख्या तदर्थमिदं ब्रह्मणवाक्यम् ।
ननु परिसंख्यायां त्रयो दोषाः प्रप्नुयुः – आदत्त इति शब्दो रशनादानलक्षणं स्वार्थं जह्यात्, तन्निषेधलक्षणः परार्थोऽस्य शब्दस्य कक्त्येत, रशनात्वसामान्येन च प्राप्तं गर्दभरशनाया आदान बाध्येत इति त्रयो दोषाः । मैवम्, गर्दभरशनाया अप्राप्तत्वात् । तथा हि – तत्पक्षे प्रकरणपाठान्यथानुपपत्त्या मन्त्रेणानेन आदान कुर्य्यादिति वाक्यं परिकल्प्यते । तेन च वाक्येन मन्त्रादानयोः सम्बन्धे सिद्धे सति पश्चात् किंविषयकमादानमिति वीक्षायां लिङ्गाद् रशनामात्रस्य आदानमुपेत्य गर्दभरशनायाः प्राप्तिर्वक्तव्या । सा च विलम्बेन इति अम्बाभिधानीमिति प्रत्यक्षेण वाक्येन मन्त्रादानयोः सम्बन्धे सति लिङ्गाद् रशनामात्रे प्राप्तमादानम् अश्वाभिधानीमिति श्रुत्या विशेषे व्यवस्थाप्यते । ततो मन्त्रस्य निराकाह्नत्वाद गर्दभरशनाया अप्राप्तत्वान् नास्ति प्राप्तबाधः । अत एव निषेधार्थो न कल्प्यते, विध्यर्थश्च न त्यज्यते । तत्र कुतो दोषत्रयम्? ईहशअप्राप्तिरूपमेव गर्दभरशनाया निवारणमभिप्रेत्य परिसंख्येति सूत्रितम् ।
ननु उरु प्रथख्य इति प्रथयतीति ब्राह्मणस्य वैयर्थ्यं तदवस्थमेव इत्याशङ्क्य उत्तरं सूत्रयति-
अर्थवादो वा (जै०. १।२।४३)
वाशब्दो वैयर्थ्य वारयति । अस्त्यत्र अर्थवादः । यज्ञपतिमेव तत् प्रथयतीति तेन अर्थवादेन सन्धाय ब्राह्मणे विधिः पठ्यते ।
ननु प्रथयति इत्यनेनैव विधिशब्देन प्रथनमनूद्य यज्ञपतिमेव इत्यादिना
Foot Note : -
(1)परिसंख्यालक्षणम् –
विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्ते परिसंख्येति कीर्त्यते ।।
षरिसंरव्यादोषाः –
श्रुतार्शस्य परित्यागादश्रुतार्शप्रकल्पनात् । प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदूपणा ।।
Page 019 (99)
अर्थवादेन स्तोतव्यम् । तदेव तु प्रथनं कुतः प्राप्तमित्याशङ्क्य उत्तरं सूचयति मन्त्राभिधानात्अध्वर्युः पुरोडाशमुद्दिश्य मन्त्रे प्रथस्व इत्येवमभिधत्ते । तस्मादभिधानाद् अध्वर्युकर्त्तृक प्रथनं प्राप्तम् । यथा, लोके यः कुरु इति ब्रूते स कार्यस्येव, तथा अत्रापि । यः प्रथख्य इति ब्रूते स प्रथयत्येव(१) ।
यदुक्तम्, “अग्निर्मूर्द्धा दिवः” इति पाठक्रमनियमाद् अदृष्टार्थो मन्त्र इति, तत्र उत्तरं सूत्रयति –
अविरुद्धं परम् (जै०. १।२।४४)
परं द्वितीयसूत्रोक्तमस्त्वत्पक्षेऽपि अविरुद्धम्; न हि वयं पाठक्रमनियमाद अद्वष्टनिवारयामः; किंतर्हि? मन्त्रोच्चारणेनजायमानमर्थप्रत्यायनं दृष्टप्रयोजेनत्वात्न उपेक्षितव्यम् इत्येतावदेव ब्रूमः ।
ननु “प्रोक्षग्थ्गीरासादय” इति मन्त्रो (वा०. सं० १।२८) बुद्धमेव अर्थं शास्ति तद् अयुक्तम्, सोपानत्कस्य उपानदन्तरत्सम्भवात् इत्युक्तमिति चेत्? तस्य परिहारं सूत्रयति –
संप्रैषकर्म्मरगो गर्हानुपलम्भः संस्कारात् (जै०. १।२।४५)
संप्रैषकर्म्मणो गर्हा त्वदुक्तदोषो न उपलभ्यते, बुद्धस्याप्यर्थस्य मन्त्रेणैव अनुस्त्वरणे सति नियमादृष्टलक्षणस्य संस्कारस्य सद्भावात् ।
यच्चोक्तं, चत्वारि शृङ्गा इति मन्त्रो (ऋ० ४।५८।३।) असन्तमेव अर्थमभिधत्त इति तस्य उत्तरं सूत्रयति –
अभिधानेऽर्थवादः (जै०. १।२।४६)
असतोऽर्थस्य अभिधाने वाक्ये गौणस्य अर्थस्य उक्तिर्द्रष्टव्या । तद् यथा – चत्वारो होत्रध्वर्यूद्गातृब्रह्माणोऽस्य कर्मणः शृङ्गाणि, प्रातःसवनादयस्त्रयः पादाः, पत्नीयजमानो द्वे शीर्षे, गायत्र्यादीनि सप्त छन्दांसि हस्ताः, ऋग्वेदादिभिस्त्रिभिर्वेदेस्त्रेधा बन्धन। कामान्वर्षति इति वृषभः, रोरवीति स्तोत्रशस्त्रादिशव्दान् नुत्तः पुनः करोति, महो देवः सोऽयं प्रौढो यज्ञरूपो देवः मर्त्यान् आविवेश इति मनुष्या एव अत्राधिकारिणः । लोकेऽपि एवं गौणप्रयोगा दृश्यन्ते,-चक्रवाकस्तनी, हसदन्तावली, काशवस्त्रा, शैवालकेशिनी इत्येवं नद्याः ब्दयमानत्वात् । एवमोपध्टे त्रायस्व, शृणोत ग्रावाण इत्याद्यचेतनसम्बोधनानि स्तुतिपरत्वेन योजनीयानि । यस्मिन् वपने
Foot Note : -
(1)“ननु नायं मन्त्रस्य वाक्यशेषः, न च प्राप्तस्य स्तुत्या प्रयोजनम्? सत्यम्, नायं मन्त्रस्य विधि, न संस्तवः, प्रथनमेव तत्र स्तूयते, मन्त्रः पुन. रूपादेव प्राप्त इहाक्यते प्रथनं स्तोतुम् । इत्थं प्रथनं प्रशस्तं, यत्क्रियमाणमेवंरूपेण मन्त्रेण क्रिवते । कस्तदा भवति गुणः ? यज्ञपतिमेव तत् प्रजया पशुमिः प्रथयति । किमेताबदेवाख्यस्य फलं भवति? नेति ब्रूमः । स्तुतिः फलं भविष्यतीति एवमुच्यते । कथमसति प्रथने प्रथयतीति शब्दः? मन्त्राभिधानात्” । इति तत्रत्यं शाबरभाष्यम् ।
Page 020 (100)
ओपधिरपि त्रायते तत्र वपनकर्त्तात्रायत इति किमु वक्तव्यम् । तथा ग्रावाणोऽपि प्रातरनुवाक शृण्वन्ति किमुत विद्वांसो ब्राह्मणा इत्यादि मन्त्राणामभिप्रायः ।
योऽपि, “अदितिद्यौरदितिरन्तरिक्षम्” (ऋ. १.८९.१o) इति विप्रतिषेध उक्तः, तस्य उत्तरं सूत्रयति –
गुणादविप्रतिषेधः स्यात् (जै०. १।२।४७)
यथा त्वमेव पिता त्वमेव माता इत्यत्र गौणप्रयोगाद् अविरोधस्तद्वत् एवमेकरुद्रदेवत्ये कर्म्मणि एको रुद्रः शतरुद्रदेवत्ये शतं रुद्रा इति अविरोधः।
यदप्युक्तं, स्वाध्यायमधीयानो माणवकः पूर्णिकाया अवहति न प्रकाशयितुमिच्छतीति, तत्र उत्तर सूत्रयति –
विद्यावचनमसयोगात् (जै०.१ ।२१४-)
वेदविद्याग्रहणकाल्मेर्थस्य यदवचनं तदयज्ञसगखपपद्यते । न हि पूर्णिकाया अवघातो यूज्ञसंयुक्तः, नापि माणवको यज्ञमनुतिष्ठति, अतो यज्ञानुपकारात्न यत्र अथविवक्षा ।
यदप्युक्तं, “अम्यक् सा त इन्द्र ऋष्टिरस्मे” (ऋ०. १.१६९. ३) इत्येको मन्त्रः । “सृण्येव जर्भरी तुर्फरी तू” (ऋ०. १०.१०६.६) इत्यादौ अर्थस्य ज्ञातुमशक्त्यवात् नास्त्वेवार्थ इति तत्र उत्तरं सूत्रयति –
सतः परमविज्ञानम् ( जै० १ ।२।४९)
विद्यमान एव अर्थ प्रमादालस्यादिभिर्न ज्ञायते। तेषां निगम-निरुक्तव्याकरणवशेन धातुतोऽर्थः परिकल्पयितव्यः। तद् यथा - जर्भरी तुर्फरी तू इत्येवमदीनि अश्विनोरभिधानानि; तेषु हि द्विवचनान्तत्वं लक्ष्यते। आश्विन चेदं सूक्तम्, “अश्विनोः काममप्रा” (ऋ०. १०। १०६।११) इति दर्शनात्।एतदेव अभिप्रेत्य निरुक्तकारो व्याचष्टे “जर्भिरी भर्त्तारौ इत्यर्थः”, “तुर्फरी तू हन्तारौ इत्यर्थः” (नि०. १३५) इति। एवम् अम्यक्सा त इत्याद्यपि उन्नेयम् ।
यदप्युक्तं, प्रमगन्दाद्य (ऋ०. ३. ५३. १४) नित्यार्थसंयोगान् मन्त्रस्य अनादित्वं न स्याद् इति उतरं सूत्रयति –
उक्तस्च अनित्यसंयोगः (जै०. १।२।५०)
प्रथमपादस्य अन्तिमाधिकरणे सोऽयमनित्यसंयोगदोष उक्तः परिहृतः। तथा हि - तत्र पूर्वपक्षे वेदानां पौरुषेयत्व वक्तुं काठकं, कालापकमित्यादि पुरुषसम्बन्धाभिधानं हेतूकृत्य -
अनित्यदर्शनात् चेति (जै०. १।१।२५) हेत्वन्तरं सूत्रितम्।
तस्यायमर्थः – “बबरः प्रावाहणिरकामयत” (तै०. सं०. ७।१।१०।२) इति अनित्यानां बबरादीनामर्थानां दर्शनात् ततः पूर्वम् असत्त्वात् पौरुषेयो वेद इति, तस्योत्तरं सूत्रितम्-“परं तु श्रुतिसामान्यमात्रम्” (जै०. १।१।३१)
तस्यायमर्थः - यत् काठकादिसमाख्यानं तत् प्रवचननिमित्तम्। यत्तु परं बबराद्यनित्यसमाख्यानं तत् शब्दसामन्यमात्रम्। न तु तत्र अनित्यो
Page 021 (101)
बबराख्यः कश्चित् पुरुषो विवक्षितः, किन्तु क्यर इति शब्दानुकृतिः । तथा सति बवर इति शब्दं कुर्व्वन्वायुरभिधीयते,स च प्रावाहणिःप्रकर्षेण वहनशील । एवमन्यत्रापि ऊहनीयम् । तदेवं कस्यचिदपि दोषस्य असम्भवाद् विवक्षितार्था मन्त्राः स्वार्थप्रकाशनायैव प्रयोक्तव्याः ।
ननु अर्थप्रकाशनार्थत्वे सति दृष्टं प्रयोजनं लभ्यत इति युक्तिमात्रम् इदमुच्यते । न तु एतदुपोद्वलकं किय्व्यिच्छौतलिङ्गं पश्याम इत्याशंक्य उत्तरं सूत्रयति –
लिङ्गोपदेशश्च तदर्थवत् (जै०. १।२।५१)
“आग्नेय्याग्नीध्रमुपतिष्ठेत” इति श्रूयते । तस्यायमर्थः – अग्निर्देवता यस्या ऋचः सेयम् आग्नेयी, तया आग्नीघ्रस्थानम् उपतिष्ठेत इति । अत्र हि उपस्थानमुपदिशद् ब्राह्मणम् अग्ने नय ( ऋ० १।१८९।१) इत्यनया उपतिष्ठेत इति मन्त्रप्रतीकं पठित्वा नोपदिशति, किन्तु आग्नेयीत्वलिङ्गेन उपदिशति । यदा यस्यामृचि अग्निः प्राधान्येन प्रतिपाद्यते तदा तस्या ऋचोऽग्निर्देवता भवति । तथा सति आग्नेय्या इति देवतावाचितद्धितान्तनिर्देश उपपद्यते । तस्त्वादयमुपदेशस्तन्मन्त्रवाक्यार्थवदिति बोधयति । अंतो विवक्षितार्थत्वाद् अर्थप्रत्यायनार्थप्रयोगकाले मन्त्रोच्चारणम् ।
तस्मिन् एव विवक्षितार्थत्वे लिङ्गान्तरं सूत्रयति –
ऊहः (जै०. १।२।५२)
प्रकृतावास्रातस्य मन्त्रस्य विकृतौ समवेतार्थत्वाय तदुचितपदान्तरप्रक्षेपेण पाठ ऊहः । तद यथा – “अन्वेन माता मन्यतामनु पितानु भ्राता” इति प्राकृतः पशुविषयौ मन्त्रपाठः (मै०. सं०. ४।१३।४) । तस्य च मन्त्रस्य विकृतौ पशुद्वये सतिअन्वेनौमाता मन्यतामिव्यूहः । पशुवहुत्वे सति अन्वेनान् माता मन्यताम् इत्यूहः कर्त्तव्यः । एतन्मल्वव्याख्यानरूपं ब्राह्मणमेवमाम्नायते – “न माता वर्ण्यते नपिता” । तत्रेदं चिन्तनीयम्, किमत्र शरीरवृद्धिर्निषिध्यते, आहोस्त्विच्छब्दवृद्धिरिति । एकवचनान्तस्य मातृशब्दस्य मातराविति द्विवचनान्तत्वेन वा, मातर इति वहुवचनान्तत्वेन वा प्रयोगः शब्दवृद्धिः । तत्र न तावच्छरीरवृद्धिर्निवेद्यंऽ शक्यते, वाल्यकौमारयौवनादिवयोऽनुसारेण तदवृद्धेः प्रत्यक्षत्वात् । अतः शब्दवृद्धिनिषेध एव परिशिष्यते । मातृशब्देपितृशब्दयोर्विशेषाकारेण वृद्धिनिषेधात् इतरस्य एनमितिशव्दस्य वर्थानुसारिणी वृद्धिःसूचिता भवति । तत्र यद्यर्थो न विवक्ष्येततदा पशुद्धित्वे द्विवचनं पशुबहुत्वे बहुवचनं च कथमूह्येत? तस्माद् विवक्षितार्था मन्त्राः ।
तस्मिन् एव अर्थे लिङ्गान्तरम् सूत्रयति –
विधिशब्दाच्च (जै० १।२।53)
Page 022 (102)
मन्त्रव्याख्यानरूपो व्राह्मणगतःङ्गं शब्दो विधिशब्द इति उच्यते । स चैवमासायते, शत हिमाः शतं वर्षाणि जीव्याः स्म इत्येव एतदाह (श०. ब्रा०. २।३।४।२१) इति । शत हिमा इत्येतद् व्याख्येयमन्त्रख्य प्रतीकम्, अवशिष्टं तु तस्य तात्पर्यव्याख्यानम् । मन्त्रस्य अविवक्षितार्थत्वे तु कि नाम तात्पर्य्य मन्त्रे व्याख्यायते । तस्माद् विवक्षितार्था मन्त्राः प्रयोगकाले स्कर्थप्रकाशनायैव उच्चारयितव्याः ।
अत्र सग्रहश्लोकौ –
मन्त्रा उरु प्रथस्वेति किमद्वष्टैकहेतवः । यागेषूत पुरोडाशप्रथनादेश्च भासकाः ।।
ब्राह्मणेनापि तद्भानान्मन्त्रा पुण्यैकहेतवः ।
न, तद्भानस्य दृष्टाद् दृष्टं वरमद्वष्टतः ।। ( जै०. न्या०. १।३।४)
ननु अस्तु मन्त्रभागस्य प्रामाण्यम् ब्राह्मणभागस्य तु न तद् युज्यते । तथा हि द्विविधं ब्राह्मणम्-विधिर्ज्ज्ववादश्चेति । तथा च आपस्तम्वः – “क्रर्म्मचोदना ब्राह्मणानि, ब्राह्मणशेषोऽर्थवादः” इति । विधिरपि द्विविधः, अप्रवृत्तप्रवनमृअल्लातल्लानश्चेति । “आग्नावैष्णवपुरोडाशनिर्वपन्ति दीक्षणीयायाम्” (ए०. ब्रा०. १।१।१) इत्याद्याः कर्मकाण्डगतत्क्रिग्नयोऽप्रवृत्तप्रवर्त्तकाः । आत्मा वा इदमेक पवाग्र आसीद्” (ए०.उ०.१।१) इत्यादयोव्रह्मकाण्डगता विधयोऽज्ञातच्चापकाः । तत्र कर्म्मकाण्डगतानां “जर्त्तिलयवाग्वा वो छेङ्कुमाह गवीधुकयवाग्वावा” (तै. सं. 5.4.3.2) इत्यादिविधीनां नास्ति प्रामारयः प्रवृत्त्ययोग्यद्रव्यविधानेन सम्यगनुभवसाधनत्वाभावात् । अयोग्यत्वं च वाक्यशेषे समाम्नातम् – “अनाहुतिर्वै जर्त्तिलाश्च गवीधुकाश्च” इति ।अत्र हि आरण्यतिलानाम् आरण्यगोधुमानां च आहुतिद्रव्यत्वं निषिद्धम् । तस्माद् बाधितो जर्त्तिलादिविधिरप्रमाणम् । एवमतरेयतैत्तिरीयादिब्राह्मणेषु, तत्तन्नावृत्यम्', तत्तथा न कार्क्यम्' इति वाक्याभ्यां वहवो विधयो निषिद्धाः । अपि च ऐतरेयब्राह्मणेऽनुदितहोमं वहुधा निन्दित्वा, तस्मादुदिते होतव्यमिति असकृद् निगदितम् । तैत्तिरीयाश्च तथैव आमनन्ति-यदनुदिते सूर्क्ये प्रातर्जुहुयाद् उभयमेवाग्नेयं ख्यादुदिते सूर्ये प्रातर्जुहोति ( ऐ०. ब्रा०. ५.५.४) इति । पुनरपि त एव उदितहोमे दीपमामनन्ति – “यदुदिते सूर्ये प्रातर्जुहुयाद् यथा अतिथये प्रद्रुताय शून्यायावसथायाहार्य्य हरन्ति तादृगेव तद” ( तै०. ब्रा०. २।१।२७) इति । तथैव, “अतिरात्रे षोडशिनं गृह्णाति” इति विधिः “नातिरात्रे षोडशिनं गृह्णाति” इति निषेधेन वाध्यते । ज्योतिष्टोमादिषु अपि अनुष्ठानानन्तरमेव स्वर्गादिफलनोपलभ्यते । न हि भोजनानन्तरंतृप्तेरनुपलम्भोऽस्ति । तस्मात् कर्म्मविधिषु प्रामाण्यं दुःसम्पादम् । अज्ञातज्ञापकेतु ब्रह्मविधिष्वपि परस्पर-
Page 023 (103)
विरोधान् नास्ति प्रामाण्यम् – “आत्मा वा इदमेक ऐवाग्र आसीद्” हति ऐतरेयिण आमनन्ति ( ऐ०. उ०. १।१) । “असद् वा इदमग्र आसीत्” (तै०.उ०. २.७) हति तैत्तिरीया । सोऽयं विरोधः । तस्माद् वेदे विधिभागः सर्व्वोऽप्रमाणमिति प्राप्ते ब्रूमः –
अस्तु एव जर्त्तिलादिविधेरप्राभाण्यं, तदर्थस्य अननुष्ठेयत्वात् । अनुज्ञेयस्तु अर्थ उपरितने “अजक्षीरेण जहोति” ( तै. सं० ५।४।३।२) इति वाक्ये विधीयते । तत्प्रशंसार्थमत्र जर्त्तिलादिकमनूद्य निन्द्यते । यथो गवामश्वानां च प्रशसार्थम्, अपगवो वा अन्ये गोअश्वेभ्यः ( तै०- ब्रा०. ३।९।१०।२) इति वाक्येन अर्थवादरूपेण अजादीनां पशुत्वं निन्द्यते, तद्वत् । एवं तर्हि अजादेर्यथा वस्तुतः पशुत्वमस्ति तथा जर्सिलादिविधिरत्र निन्द्यमानोऽपि क्वचिच्छाखान्तरे भवेदिति चेत्? भवतु नाम, प्रामाण्यमपि तच्छाखाध्यायिनं प्रति भविष्यति । यथा गृहस्थाश्रमे निषिद्धमपि परान्नभोजनमाश्रमान्तरेषु प्रामाणिकतद्वत् । अनेन न्यायेन सर्व्वत्र परस्परविरुद्धौ विधिनिषेधौ पुरुपभेदेन व्यवस्थापनीयौ । यथा मन्त्रेषु पाठभेदः शाखाभेदेन व्यवस्थितस्तद्वत् । तैत्तिरीया “वायवस्थोपायवस्थेति (तै०. सं०१।१.१) मन्त्रमामनन्ति । वाजसनेयिनस्तु उपायवस्थ इति भागं नामनन्ति (वा. स०. १।१) प्रत्युत शतपथब्राह्मणे स भागोऽनूद्य निराकृतः । तथा सूक्तवाकमन्त्रे शाखान्तरपाठं निराकृत्य पाठतत्ततरं तैत्तिरीया आमनन्ति । “यद् ब्रूयात्सूपावसाना च स्वध्यवसाना चेति प्रमायु कोयजमानः स्यादिति” निराकरणम् । “सूपचरणा च स्वधिचरणा चेरयेव ब्रूयाद्” इति पाठान्तरोपदेशः (तै. सं०. २।६।९।६)(१) । तत्र अनुष्ठाद्यरुषभेदेन व्यवस्था । तद्वद् विधिषु द्रष्टव्यम् । षोडशिग्रहणादिदूषणम् तु अश्रुतमीमांसावृत्तान्तस्य तवैव शोभते । पूर्व्वमीमांसायां दशमाध्यायस्य अष्टमपाद षोडशिनो ग्रहणाग्रहणविकल्पो निर्णीतः । द्वितीयस्य प्रथमपादे कालान्तरभाविफलसिद्ध्यर्थमपूर्व्वं निर्णीतम् । तद्वद् उत्तरमीमांसायां प्रथमध्यायस्य चतुर्थे पादे, “कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः” (ब्र०. सू० १।४।१४) (२) इत्यस्मिन्सूत्रे जगत्कारणे परमात्मनि श्रुतिविप्रतिपत्तिर्निराकृता ।द्वितीयस्याध्ययस्य प्रथमे पादे आरम्भाधिकरणे, असद्व्यपदेशाम्नेति चेत्, न,
Foot Note: -
(1)“यदा पुरुषो म्रियते तदा पर्ञ्जद्दूवायनादिपरित्यागेन इमां भूमिमुपेत्यवसानं गच्छति,तल्मात्तादृशल्यार्भस्य सूचके उपावसानशब्दे प्रयुक्ते सति मरणशीलो भवति। भूमिविषयकेण स्वधिचरणेतिशब्देन गोप्रचारभूमिकामिड्यान्स्त्वति” ।
(2)“सत्यपि प्रतिवेदान्तं सृज्यमानेपुआकाशादिपु क्रमादिद्वारके विगाने न स्रष्टरि किञ्चिद् विगानमस्ति । कुतः? यथाव्यपदिष्टोक्तेः । यथाभूतः कस्मिन् वेदान्ते सर्वज्ञः सवश्वरः सर्वात्मकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदेश्यके” इति तत्रत्यं शङ्करभाष्यम्।
Page 024 (104)
धर्म्मान्तरेण वाक्यशेद्यात्” (ब्र०. सू० २।१।११)(१) इति सूत्रे तैत्तिरीयवाक्यगतस्य असच्छव्दख्य न ज्जपरत्वं किन्तु अव्यक्तावस्थापरत्वमिति निर्णीतम् । यथा जैमिनिश्चोदनासूत्रे ( जै० १।१।२) विधिवाक्यं धर्मे प्रमावमिति प्रतिशाय औत्पत्तिकसूत्रे ( जै० १।१।५) तत्प्रमाण्ये समर्थयामास । व्यासोऽपि शास्त्रयोनित्वसूत्रे (ब्र०. सू. १।१३) वेदान्तानां ब्रह्मणि प्रामाण्यं प्रतिज्ञाय, “तत्तु समन्वयाद्” ( ब्र० सू० १।१।३) इत्यादिसूत्रैः समर्थयामास । तस्माद् अमीमांसकस्य तव पूर्व्वोक्तस्थाण्वन्धन्यायो दुष्परिहरः । अतो विधिभागख्य प्रामाण्य सुस्थितम् ।
अर्थवादभागस्य प्रामारन्य महता प्रयत्नेन जैमिनिः सम्पादयामास । तत्साणि व्याख्यास्यन्ते । तत्र पूर्व्वपदन सूत्रयति –
आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते (जै०१।२।१)
आम्नायस्य सर्वस्य क्रियाप्रतिपादनाय प्रवृत्तत्वाद् अक्रियाप्रतिपादकानाम् अर्थवादानां नास्ति कश्चिद् विवक्षितः स्वार्थः । ते च अर्थवादा एवमास्रायन्ते,- “सोऽरोदीत्तद्रूऽद्रस्य रुद्रत्वम्” ( तै०. सं०. १।५।१) । “स आत्मनो वपामुदखिदत्”, ( तै० सं० २।१।१) “देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्” इति ( तै. सं०.६। १।५) । यख्यादीदृशस्य वाक्यस्य विवक्षितोऽर्थः कश्चिदपि नास्ति तस्मादिद वाक्यमनिप्यमुच्यते । यद्यपि अनादित्वात् स्वरूपेण अनित्यत्वं नास्ति, तथापि धर्न्यावबोधनलक्षणस्य नित्यकाग्नस्य अभावाद् अनित्यैः काव्यालापैः सुमानत्वादप्रमाणमित्यर्थः ।
ननु, उदाहृतानामर्थवादानामनुष्ठेये धर्मे प्रामाख्याभावेऽपि स्वार्थ प्रामाण्यमस्तु, तत्प्रत्यायकत्वेन स्वतःप्रामारम्यस्य अपवदितुमशक्यत्वाद् इत्याशङ्क्य अन्येषु केषुचिदर्थवादेषु मानान्तरविरोधदर्शनादप्रामाण्ये सति तत्दृष्टान्तेन सर्वेषामपि अर्थवादानामप्रामारध्यमित्यभिप्रेत्य सूत्रयति –
शास्त्रहष्टविरोधाच्च (जै०. १।२।२)
शास्त्रविरोधो दृष्टविरोधः शास्त्रद्वष्टविरोध इति त्रिविधो विरोधो अर्थबादेषु उपलभ्यते । तथा हि, “स्तेनम् मनोऽनृतवादिनी वाग् इत्यत्र श्रूयमाण मानसं चौर्य्यं वाचिकमनृतवदनं च प्रतिषेधशास्त्रेण विरुद्धम् ।
Foot Note: -
(1)”नह्ययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्तेः कार्य्यस्यासद्व्यपदेश. । किं तर्हि ? व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरम् । तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्ते सत एव कार्य्यस्य कारणरूपेणानन्यस्य । कथमेतदवगम्यते ? –वाक्यशेषात्, यदुपक्रमे सन्दिग्धार्थं वाक्यं तच्छेपादेव निश्चीयते । इह च तावद् असदेवेदमग्र आसाद् इत्यसच्छब्देन उपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि तत् सदासोदिति असद्वा इदमग्र आसीदित्यत्रापि तदात्मानं स्वयमक्त्य इति वाक्यशेपे विशेषणान्नत्यन्तासत्त्वम्। तस्माद्धमांन्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्य्यस्य । नामरूपव्याकृतं हि वस्तु सक्त्यार्हलोके प्रसिद्धम्, अतः प्राक् नामरूपव्याऋणाद् असदिवासीदित्युपचन्पैते” । इति तत्रत्यं शाङ्करभाष्यम्।
Page 025 (105)
“तस्माद् धूम एव अग्नेर्दिवा ददृशे नार्द्यिस्तस्मादर्च्चिरेवार्नग्नेक्तं दद्वशे न धूमः ( तै० भ्रा० २।१।२) इत्यत्र दृष्टविरोधः; तथा न चैतद् विद्मो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा (मै०. सं. १।४।११) इत्यत्रापि प्रत्यक्षविरोधः । को हि तद् वेद यद्यमुष्मिन्लोकेऽस्ति वा न वा (तै०. सं. ६।१।१।१) इत्यत्र शास्त्रदृष्टविरोधः । स्वर्गकामो यजेत इत्यादि शास्त्रे हि आमुष्मिकं फलं दृश्यते । तस्माद् विरोधाद् अर्थवादानामप्रामाण्यम् ।
ननु, सोऽरोदीद् इत्यादीनां निष्प्रयोजनत्वात् स्तेनं मनः इत्यादीनां च विरोधादप्रामाण्येऽपि फलप्रतिपादकानामर्थवादानां तदुभयवैलक्षयाद् अस्तु प्रामारयत्याशङ्कथ उत्तरं सूत्रयति –
तथा फलाभावात् ( जै० १।२।३)
तथा मानान्तरविरुद्धम् अर्थवादैरुक्त तथा फलमपि अविद्यमानं तैरुच्यते । तथा हि, गर्गत्रिरात्रं प्रकृत्य श्रूयते, शोभतेऽख्य मुखं य एवं वेद ( ता० म० २०।१६।६) इति' दर्शपूर्णमासयोर्वेदाभिमर्शनं प्रकृत्य श्रूयते आस्य प्रजायां वाजी जायते य एव वेद इति । न च वयं वेदिहरगा तत् फलमुपलभामहे ।
ननु, ऐदिकफलवाक्यानां विसवादादप्रामाष्येऽपि आमुष्मिकफलवाक्यानामस्तु प्रामाण्यम्पृत्याशङ्कय उत्तर सूत्रयति –
अन्यानर्थक्यात् ( जै० १।२।४)
एवं हि श्रूयते-पूर्णाहुत्या सर्व्वानकामाआप्नोति- ( तै- ब्रा० ३।८।१०१५) पशुरुधयाजी सर्न्वान् लोकानभिजयति तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजते य उ चैनमेव वेद ( तै० सं० ५.३.१२.२)। तत्र अग्न्याधेयगतया पूर्णाहुत्या सर्व्वकामप्राप्तेरन्यानि अग्निदोत्रादीनि उत्तरकालीनानि अनर्थकानि स्युः । यथा निरूढपशुवन्धानुष्ठानेन सर्व्वलोकाभिजयात् ज्योतिष्टोमादीनामानर्थक्यम् । अध्ययनकालीनेनैव अश्वमेधवेदनेन घ्रह्महत्यादितरणात् तदनुष्ठानं च व्यर्थं स्यात् । तस्मादामुष्मिकफलवाक्यनामपि अप्रामाण्यम् ।
ननु, मा भूत्फलवाक्याना प्रामाण्यम् तथापि निषेधवाक्येषु विरोधामुपलम्भादस्तृ प्रामाण्यम् इत्याशङ्क्य उत्तरं सूत्रयति –
अभागिप्रतिषेधात् (जै० १. २.५)
न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवि इत्यत्र ( तै० सं० ५।२।१२।२) अन्तरिक्षस्य च दिवश्च प्रतिषेधभागित्व नास्ति, तत्र चयनप्रसङ्गस्यैत्र अभावात् । मा भूत्तर्हि निषेधानां प्रामाण्यम्; ववरः प्रावाहणिकामयत इत्यादीनां पूर्वपुरुपवृत्तान्ताभिधायिनां विरोधानुपलम्भादसा प्रामारप्यम्-इत्याशङ्क्य उत्तरं सूत्रयति –
अनित्यसंयोगात् ( जै० १।२।६)
Page 026 (106)
बवरादिरूपेण अनित्येन अर्थेन सयोगे सति अस्य वाक्यस्य ततः पूर्वम् अभावात् कालिदासादिवाक्यवत्पौरुषेयत्वं प्रसज्येत ।'
किं बहुना ? सर्वथापि नासयेव अर्थवादानां प्रामाण्यम् इति पूर्वः पक्षः ।
सिद्धान्त सूत्रयति –
विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः (जै० १।२।७)
'तु' शब्दोऽर्थवादानामप्रामाण्यं वारयति । वायुर्वै क्षेपिष्ठा इत्येवमादीनाम् अर्थवादानां वायव्यं श्वेतमालभेत- ( तै.सं. २ । १।१।१) इत्यादिना विधिना सह एकवाक्यत्वाद् अस्ति धर्मो प्रामाण्यम् । न च विधिवाक्यस्य अर्थवादनैरपेदयेण पदान्वयसम्पूर्त्तेस्तत्र अर्थवादानां नास्ति उपयोग इति शङ्कनीयम् । ते हि अर्थवादाः पुरुषप्रवृत्तिम् आकांक्षतां विधीनां स्तुत्यत्वेन उपयुक्ताः स्युः । स्तुत्या च प्रलोभितः पुरुषस्तत्र प्रवर्त्तते ।
ननु, अर्थवादानां प्रमादपठितत्वेन उपेक्षणीयत्वात् किमनेनएकवाक्यताप्रयासेन इत्याशङ्क्य आह –
तुल्यं च साम्प्रदायिकम् ( जै० १।२।८)
अनध्यायवर्जनादिनियमपुरःसर गुरुसम्प्रदायादध्ययनं यत् तत् साम्प्रदायिकम् । तच्च विधीनामर्थवादानां च समानम् । तस्माद् विधिवदेतेषामपि प्रमादपाठो न भवति ।
ननु, शास्त्रदृष्टविरोधाच्च इत्येवमर्थवादेषु अनुपपत्तिरुक्ता इत्याशङ्क्य आह –
आप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थसवप्रयोगभूतस्तस्त्वादुपपद्यते । ( जै. १।२।९)
स्तेन मनः इत्यादौ शास्त्रविरोधाद्यनुपपत्तिः प्राप्ता, प्रयोगस्य अनुक्तत्वात् । प्रयोगे हि स्तेयादीनाम्उच्यमाने शास्त्रविरोधः ख्यात् न चात्र स्तेयंकर्त्तव्यमिति प्रयोग उच्यते, किन्तु स्तेयशब्दार्थ एव उच्यते । न च स्तेयशब्दार्थः प्रयोगभूतः' । तस्माच्छब्दार्थवचनमात्रेण शास्त्रविरोधाभावाद् अयमर्थवाद उपषन्न एव ।
ननु, स्तुत्यर्थेन विधीनां स्युः इति यदुक्त तदसत्, वैयधिकरख्यात् । वेतसशाखया चावकाभिश्चाग्नि विकर्षत्यापोवै शान्ता ( तै० सं० ५।४।४।३) इत्यत्र वेतसावके विधीयेते आपश्च स्तूयन्त इति चैयधिकररायात् इत्याशङ्क्याह –
गुणवादस्तु (जै. १।२।१०)
'तु' शब्दो वैयधिकररन्यदोप वारयति । गुणवादो ह्यत्र विवक्षितः । यथा लोके कश्मीराभिजनो देवदत्तः कश्मीरदेशेषु स्तूयमानेषु प्लतमात्मानं मन्यते, एवमत्रापि अद्भ्यो जाते वेतसावके अप्सु स्तुतासु स्तुते एव
Page 027 (107)
भवतः । शान्ताभ्योऽद्भ्यो जातत्वात् वेतसावके त्त्वयमपि शान्तेसत्यौ यजमानस्य अनिष्टं शमयत इत्येतादृशस्य गुह्यस्य वादोऽत्र अभिप्रेतः ।
सोऽरोदीदि त्यत्रापि रजतस्य पतिताश्रुरूपत्वाद् रजतदाने गृहेऽपि ऐडनप्रसङ्गाद वर्हिषि रजतं न देयम्” इति (तै०. सं० १।५।१।२) तन्निषेधेन विधेर्यत्र अर्थवादस्य एकवाक्यत्वम् । तत्र रजतदानाभावे रोदनाभावरूपो गुणोऽत्र विवक्षितः; तेन च गुणेन रजतदाननिवारणरूपो विधिः स्तूयते । यद्यपि रजतस्य अभुप्रभवत्वमअत्यन्तमसत् तथापि यथोक्तरीत्या विधेः स्तुतिः सम्पद्यते ।
“यः प्रजाकामः पशुकामः स्थात् स वत प्राजापत्यमजं नूपरमालभेत” (तै०. सं०२|१।१।4,५)इत्ययं विधिः प्रजापतिवपोत्रवेदेन स्तूयते । तस्माद् प्रजापतिः स्त्ववपामपि उत्खिद्य अग्नौ प्रहृत्य ततो जातंसूपरम् अजम् आत्मार्थ आलभ्य प्रजाः पशूंश्च लब्धवान्, तस्मात् प्रजादिसम्पादकोऽयं तूपर इति नूपूरगुणस्य वादोऽत्र विवक्षितः ।
आदित्यः प्रायणीयश्चरु रित्येप (तै०. सं० ६।१।५|१) विधिः दिशो न प्राजानन्” इत्यनेन दिङ्मोहेन स्तूयते । यथेयम् अदितिर्देवता दिङ्मोहमपि अपनीय दिग्विशेष ज्ञापयति, तथा वहुविधकर्म्मसमुदायरूपे सोमयागे अनुष्ठानविरद्वयं भ्रममपनयतोतिकितु वक्तव्यमित्येवमदितिदेवतागतख्य गुणस्य वादोऽत्र विवक्षितः । स्वकीयवपोत्रवेदो देवद्यजनाभ्यवसानमात्रेण दिङ्मोहश्च इत्युभयमस्तु वा मा वा, सर्व्वथापि स्तुतिपरत्वम् अभ्युपगतवताम् अस्माकम् न किञ्चिद् हीयते । 'शिखा ते वर्धते वत्स गुडच्रीं श्रद्धया पिव' इत्यादौ अविद्यमानेनापि अर्थेन लोके स्तुतिदर्शर्शनात् ।
अथ पूर्वपक्षिणा शास्त्रविरोध दर्शयितुं यदुदाहृतं स्तेनमनोऽनृतवादिनी वाग्' इति तत्र उत्तरं सूत्रयति –
रूपात् प्रायात् (जै. १।२।११)
“हिरण्यं हस्ते भवति अथ गृभ्णाति (मै०. सं०. ४. ८.२.३) इत्येतं विधिं स्तोतुम् अयमर्थवाद उच्यते । यथा लोके, ऽकिमृषिणादेवदश्च एव पूजयितव्यः इत्यत्र देवदत्तपूजां स्तोतुमेव औदासीन्यमृषौ उपन्यस्यते न तु पूज्य्त्वमृषेर्वारयितुम्, एवमत्रापिहस्ते हिरण्यग्रहणप्रशंसितुं मनसः स्तेनरूपत्वं त्राचोऽनृतवादित्वं च उपन्यस्यते । तत्र गुणवादेन शब्दार्थो योजनीयः । यथा स्तेनाः प्रच्छन्नरूपा एवं मनोऽपीति प्रच्छन्नरूपत्वमत्र गुणः । प्रायेण वाग्! अनृतं वक्ति इति प्रायिकत्वम्अत्र गुणः । हस्तण्ठ न प्रच्छन्नो नापि अनृतवहुलः । अतो हस्ते हिरण्यधारणं प्रशस्तमिति स्तूयते ।
यदपि दृष्टविरोधाय धूम एव अग्नेर्दिवा ददृशे इत्यादिकमुदाहृतं तत्र उत्तरं सूत्रयति –
दूरभूयत्तवात् (जै.१।२।१२)
Page 028 (108)
“अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यां ज्योतिर्ज्योतिः सूर्य्यः स्वाहेति प्रातरि” त्येतौ विधी ( ऐ०.ब्रा०.५।५।६) स्तोतुं सोऽर्थवादः । यख्याद् अर्चिर्दिवा न दृश्यते तस्मात् सूर्म्यमन्त्र एव प्रातः प्रयोक्तव्यः । यस्माद् रात्रावर्चिरेव द्वश्यते तख्यादग्निमन्त्रो रात्रौ प्रयोक्तव्यः प्लर्द्यमन्वश्च दिवा | इत्येव तयोर्मन्त्रयोः स्तुतिः । धूमार्चिषोरदर्शनोपन्यासस्तु दूरभूयस्त्वगुणनिमित्तः । भूयसि हि दूरे पर्वताग्रे वृक्षादयोऽपि न विस्पष्टं दृश्यन्ते, किन्तु तृणसादृश्येन तेषादर्शनाभास एव । तद्वद् अत्रापि ।
यद्यप्यन्यद् दृष्टविरोधाय उदाहृतं, न चैतद्विद्यो वयं ब्राह्मणा वा स्मोऽब्राह्मणा वा इति तत्र उत्तरं सूत्रयति ।
अपराधात् कर्तुश् च पुत्रदर्शनम् ( जै० १।२।१३)
प्रवरे प्रब्रियमाणे ब्रूयाद् देवाः पितरः इत्यस्य ( मै० तश्च १।४।११) विधेः स्तावकोऽयमर्थवादः । यदि यजमानो “देवाः पितरः” इत्यादिमन्त्रेण प्रवरम् अनुमन्त्रयेत्तदानीमब्राह्मणोऽपि ब्राह्मणो भवेदिति अनुमन्त्रणस्य स्तुतिः । 'न चैतद् विद्मः' इत्येतदज्ञानवचन डुर्ज्ञानत्वगुणेन तत्र प्रयुज्यते । यत्र स्त्रिया अपराधो भवति तत्रकर्त्तुरुत्पादयितुर्जारस्यापिपुत्रो द्वश्यते । अतः पत्युपपत्योरुभयोः पुत्रदर्शनात्स्वकीयं जन्म कीदृशमिति दुर्ज्ञानम् । अनेन अभिप्रायेण प्रयुक्तत्वात्नास्ति तत्र दृष्टविरोधः । न हि तत्र दृश्यमानं स्वब्राह्मण्यमपदितुं 'न चैतद् विद्मः' इत्युपन्यस्तम् ।
यद्यपि शास्त्रीयदर्शनविरोधाय उदाहृत, को हि तद् वेद यद्यभुष्मिंल्लोकेऽस्ति वा न वा इति तत्र उत्तरं सूत्रयति-
आकालिकेल्या ( जै० १।२।१४)
दित्त्वतीकाशान् करोति इति ( तै० सं- ६।१।१।१) प्राचीनवशस्य द्वारविधिः । तस्य शेषोऽयं, “को हि तद् वेद” (जै. ब्रा. का. २. १)इति । धूमाद्युपद्रवपरिहारेण प्रत्यक्षेण फलेन द्वारविधिः स्तूयते । स्वर्गप्राप्तिरूपं तुफलमाकालिकम् । अकाले भवमाकालिकं विप्रकृष्टकालीन, न तु इदानीन्तनमित्यर्थः । तस्य ईप्सा प्राप्तुमिच्छा । सा च “कोहि तद् वेद” इति अनिश्चयोपन्यासे कारणम् । यथा भाविकालीनः पौत्रप्रपौत्रादिवृत्तान्तो निश्चेतुं न शक्यते, तद्वत् स्वर्गप्राप्तिर्भाविकालीनेति गुणयोगादनिश्चयोपन्यासः । धूमादिपरिहारस्तु प्रत्यक्षत्वान्निश्चित इत्यभिप्रायः ।
यदप्यन्यत्द्वष्टविरोधाय उदाहृतं शौभतेऽस्य सुखं य एवं वेद ( ता. म० ब्रा. २०।१६।६) इति तत्र उत्तरं सूत्रयति –
विद्याप्रशंसा ( जै० 1.2.15)
सोऽयं गर्गत्रिरात्रविधेः शेषः। तद्विषयं वेदनमपि मुखशोभाहेतुः, किमुत अनुष्ठानमिति स्तूयते। यथा कर्णभारणदिना मुखं शोभितं भवति
Page 029 (109)
ऐवं वेदितुरुत्साहेन विकसितं वदनं शोभितमिव क्षिकस्त्रीकृतं । अतः शोभासाद्वश्यगुणयोगात् 'शोभते' इत्युच्यते ।
यदप्यन्यद् विरोधाय उदाहृतम् आस्य प्रजायां वाजी जायते य एवं वेद(कृष्णयजुर्वेदः. का १. प्रपाठकः ७. 1.7.5) इति सोऽपि वेदानुमन्त्रणविधेः शेषः । अत्रापि कैमुतिकन्यायेन स्तुतिः पूर्व्ववद् योजनीया । वेदितुः पुत्रः पितृशिक्षया स्वयमपि विद्वान् भवति, ततः प्रतिग्रहेण अन्नं प्राप्नोति । तस्त्वादीद्वशं गुणमभिप्रेत्य 'वाजी जायते'(ऋ. ५.१ ) इत्युक्तम् ।
यदप्यन्यानर्थक्याय उदाहृतं, पूर्णाहुत्या सर्व्वानकामान्दअचाप्नोति” इति तत्र उत्तर सूत्रयति –
सर्व्वत्वमाधिकारिकम् (जै० १।२।१६)
पूर्णाहुति जुहुयाद् इत्यस्य विधेः शेषोऽयम् । सर्व्वकामावाप्तिहेतुत्वात् प्रशस्तेयमाहुतिरितिस्तूयते । यथा सर्व्वेब्राह्मणा भोजयितव्या इत्यत्र सर्व्वत्वं स्वगृहागतब्राह्मणविषयम् ।। एवं पूर्णाहुत्या कर्म्मसाङ्गत्वे यत् फलं तस्मिन् अधिकारे प्रस्तावे सम्भावितं तद्विषयमेव सर्व्वत्वं द्रष्टव्यम् । पूर्णाद्रुतेरभावे सति आधानरूपंकर्म्भ अङ्गविकल भवति । तच्च वैकल्यं पूर्णाहुत्या समाधीयते इत्येकः कामः । तस्मिन् समाहिते सति आहवनीयाद्यग्नयोऽग्निहोत्रादिकर्म्मसु योग्या भवन्ति इत्ययमन्यः कामः । तैश्च कर्म्मभिस्तत् तत् फलं प्राप्यते इति कानान्तरम् । ईदृशी सर्व्वकामावाप्तिराहुत्यन्तरेष्वपि विद्यते इति चेत्? विद्यतां नाम । कि न श्छिन्नम्? न खलु एतावता पूर्णाहुतिस्तुतेः काचिद हानिरस्ति ।
ननु, पूर्णाहुतेरेङ्गभावत्वात् तदोयफलश्रुतेरर्थवादत्वेन स्तावकत्वं भवतु, द्रव्यसस्कारकर्म्मसुपरार्थत्वात्फलश्रूतिरर्थवादःश्' इति सूत्रेण (जै०४।३।१) निर्णीतत्वात् । पशुबन्धवाक्यस्य तु कर्म्मविधायकत्वात् सर्व्वलोकाभिजयस्य मुख्यफलत्वाद् अन्यानर्थक्यं दुर्वारम् इत्याशङ्कय उत्तरं सूत्रयति –
फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः सारतो वा फलविशेषः स्यात् । (जै० १।२।१७)
पृथिव्यन्तरिक्षद्युलोकेषु अन्यतमलोक्राभिजयरूपं फलं पशुवन्धकर्म्मणा निष्पाद्यते । तेषां च पृथिव्यादीनां फलानां कम्मर्घ्नतरेण परिमाणाधिक्यं सारत्वं वा सम्पद्यते । ततः फलविशेषःख्योदिति नास्ति आनर्थक्यम् । लोकवदित्युक्तार्थे दृष्टान्ताः । यथा लोके निष्केण खारीपरिमितान् ब्रीहीन् विक्रोयनिष्कान्तरेण पुनःक्रये सति परिमाणाधिक्यं भवति; यथा वा निष्केण वस्त्रमात्रं लभ्यते निष्कद्वयेन तु सारभूतं दुकूलम्। तथा भोगाधिक्यं भोगसारत्वं वा कर्म्मान्तरेण द्रष्टव्यम् । ब्रह्महत्याया अपि मानस्याः स्वल्पाया वेदनमात्रेण तरणम् । कायिक्यास्तु महत्या अश्वमेधेन, इति नास्ति अन्यानर्थक्यम् ।
Page 030 (110)
योऽपि, नान्तरिक्षे न दिवि इत्यप्रसक्तपतिरेव उदाहृतस्तथा “बबरः प्रावाहीणः” इत्यनित्यसयोग उदाहृतस्तत्र उभयत्रोत्तर सूत्रयति –
अर्न्त्येयोर्यथोक्तम् । (जै० १।२।१८)
अन्त्ययोरुदाहरणयोरुत्तरं पूर्व्वोक्तमेव द्रष्टव्यम् । अन्तरिक्षादौ चयननिन्दारूपोऽर्थवादो हिरण्य निधाय चेतव्यम्' इत्यस्य (तै० सं० ५।२।७।१) विधेः शेषः ।। अतोऽत्र ' स्तुत्यर्थेन विधीनां स्युः' (जै०१,२.७) इत्युक्तमेव उत्तरम् । अन्तरिक्षे चयनप्रसक्त्यभावात् तन्निन्दा नित्यानुवादोऽस्तु । तेनापिविधिः स्तोतु शक्यते, नित्यसिद्धार्थानुवादिनावायोः क्षेपिष्ठत्वेन पशुविष्ट्व्येः स्तुतत्वात् । बबरः प्रावाहणिरकामयत इत्यत्रापि बबरनामकः कश्चिदनित्यः पुरुषो मनुष्यो नविवक्षितः, किन्तु बबरध्वनियुक्तः प्रकर्षेण वहनशीलो वायुर्व्ययहारदशायां नित्य एव अर्थो विवक्षितः । इत्येतदुत्तरं प्रथमपादस्य अन्तिमाधिकरणे प्रोक्तम् ।
तस्मात् सम्भावितदोषाणां पण्डितत्वाद् अर्थवादानां नास्तिद्वै अप्रामाण्यम् ।
तत्र संग्रहश्लोकाः –
वायुर्वा इत्येवमादेरर्थवादख्य मानता । न विधेयेऽस्ति धर्मे किं किं वासौ तत्र विद्यते ।।
विध्यर्थवादशब्दानां मिथोऽपेधापरिक्षयात् ? नास्त्येकवाक्यता धर्मे प्रामाण्यं सम्भवेत् कुतः ।
विध्यर्थवादौ साकाह्वौ प्राशस्त्वपुरुषार्थयोः । तेनैकवाक्यता तस्माद् वादानां धर्ममानता ।।
(जै०न्या०मा० १।२।१)
तदेवं वेदे विद्यमानानां मन्त्रविध्यर्थवादभागानाम् अप्रामाण्ये कारणाभावाद् बोधकानां तेषां प्रामाण्यस्य स्वतस्त्वान्नीकाराच्च कृत्स्नस्यापि वेदस्य प्रामाण्यं सिद्धम् ।
ननु एवमपि वेदस्य पौरुषेयत्वेन विप्रलम्भकवाक्यवद् अप्रामाण्यं स्यात् । पौरुषेयत्व च प्रथमपादे पूर्वपक्षत्वेनजैमिनिः सूत्रयामास –
वेदांश्चैके सन्निकर्षं पुरुषाख्या ( जै० १।१।२७)
एके वादिनो,वेदान्प्रति सन्निकर्षं मन्यन्ते। । कालिदासादिभिर्निमितानां रघुवशादिग्रन्थानां समुच्चयार्थश्चकारः । ये। ह्यत्र दृष्टान्ततया समुच्चीयन्ते, यथा रघुवंशादय इदानीन्तनास्तथा वेदा अपि । न तु वेदा अनादयः अत एव वेदकर्त्तृत्वेन पुरुषा आख्यायन्ते । वैयासिकं भारतवाल्मीकीय रामायणमित्यत्र यथा भारणदिकर्तृत्वेन व्यासादय आख्यायन्ते तथा काठकं कौननुम तैत्तिरीथमित्येव तत्तद्वेदशाखाकर्तृत्वेनाकठादोनाशाख्यातत्वाद् वेदाः पौरुषेयाः ।
Page 031 (111)
ननु नित्यानामेव सतां वेदानामुपाध्यायवत् सम्प्रदायप्रवर्त्तकत्वेन काठकादिसमाख्या स्यादित्याशङ्क्य युक्त्यन्तरसूत्रयति –
अनित्यदर्शनाच्च (जै० १ ।१।२८)
अनित्या जननमरणवन्तो ववरादयो वेदे श्रयन्ते – “बबरः प्रावाहणिरकामयत ( तै० सं ७।१।१०।२) कुसुरुविन्द औद्दालकिरकायमत (तै० सं ७।२।२।१) इति । तथा सति ववरादिभ्यः पूर्व्वमभावाद् अनित्या वेदाः । विमतं वेदवाक्यं पौरुषेयं, वाक्यत्वात्, कालिदात्तादिवाक्यवद् क्त्याद्यनुमानसमुच्चयार्थश्चकारः ।
सिद्धान्तसूत्रयति –
उक्तं तु शब्दपूर्वत्वम् (जै० १।१। २९)
'तु'शब्दो वेदानामनिरयत्वं वारयति । शब्दस्य वेदरूपस्य कठादिपुरुषेभ्यः पूर्वत्वम् अनादित्वं प्राचीनैरेव सूत्रैरुक्तम् । औत्पत्तिकस्तु शाब्दस्य अर्थेन सम्बन्धः? ( जै० १।5) इत्यस्मित् सूत्रे 'औत्पत्तिक'शब्देन सर्व्वेषां शब्दानां वेदानां तदर्थानां तदुभयसम्बन्धानां च नित्यत्वं प्रतिज्ञाय उत्तराभ्यां शब्दा(१)धिकरणवाक्याधिकरणाभ्यामुपपादितत्वात् । का तर्हि काठकाद्यारन्याया गतिरित्याशङ्क्य सम्प्रदायप्रवर्त्तनात् सेयमुपपद्यते इत्युत्तरं सूत्रयति –
आख्या प्रवचनात् (जै० १।१।३०)
अस्तु इयमाख्याया गतिः । ततः परं ववराद्यनित्यदर्क्षनं यदुक्तं तस्यं किमुत्तरमित्याशङ्क्य उत्तरं सूत्रयति –
परं तु श्रुतिसामान्यमात्रम् । (जै० १।१।३१)
यत् परं ववरादिकं तच्छब्दसामान्यमेव । न तु मनुष्यो ववरनामकोऽत्र विवक्षितः । ववरध्वनियुक्तस्य प्रवहणस्वाभावस्य वायोरत्र वक्तुं शक्यत्वात् ।
ननु, वेदे क्वचिदेकं श्रूयते, 'चनस्पतयः सत्त्रमत्सत सर्दाः सक्त्यासत इति ।तत्र वनस्पतीनामचेतनत्वात्, सर्पाणां चेतनत्वेऽपि विद्यारहितत्वान् न तदनुष्ठानं सम्भवति । अतो 'ज रद्गवो गायति मद्रकाणि' इत्याद्यु(२)मत्तवालवाक्यसदृशत्वात् केनचित् कृतो वेद इत्याशङ्क्य उत्तरं सूत्रयति –
कृते चाविनियोगः स्यात् कर्मणः समत्वात् । ( जै० १।१।३२)
Foot Note :-
(1)अधिकणलक्षणं-
विषयो विशयश्चेति पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्कशास्त्रेऽधिक्ररणंभत ।।
(2)जरद्गवः ञ्जलपादुकाम्या द्वारि स्थितोगायति मदकाणि । तं ब्राह्मणी पृच्छति पुत्रकाम्या राजन् रुमायां लशुनस्य कोऽर्क ।।
Page 032 (112)
यदि ज्योतिष्टोमादिवाक्यं केनचित् पुरुषेण क्रियते तदानीं कृते तस्मिन् वाक्ये स्वर्गसाधनत्वे ज्योतिष्टोमस्य विनियोगो न स्यात्; साध्यसाधनभावस्य पुरुषेण ज्ञातुमशक्यत्वात् । श्रूयते तु विनियोगः, 'ज्योतिष्टोमेन स्वर्गकामो यजेन् इति । न चैदुन्मत्तवाक्यसद्वशं, लौकिकविधिवाक्यवद् भाव्यकरणेतिकर्त्तव्यतारूपैस्त्रिभिरशैरुपेताया भावनाया अवगमात् । लोके हि ब्राह्मणान् भोजयेदिति विधौ, कि, केन, कथमित्याकाङ्क्षायां, तृप्तिमुद्दिश्य, ओदनेन द्रव्येण, शाकसूपादिपरिवेषणप्रकारेण इति यथा उच्यते, तथा ज्योतिष्टोमविधावपि, स्वर्गमुहिश्य सोमेन द्रव्येण दीक्षणीयाद्यङ्गोपकारप्रकारेण इत्युक्ते कथमुन्मत्तवाक्यसदृशं भवेदिति । वनस्पत्यादिसत्त्रवाक्यमपि न तत्सदृशम्, तस्य सत्त्रकर्मणो ज्योतिष्टोमादिना समत्वात्। “यत्परो हि शब्दः स शब्दार्थः” इति न्यायविद आहुः। ज्योतिष्तोमादिवाक्यस्य विधायकत्वादनुष्ठाने तात्पर्यम्, वनस्पत्यादिसत्त्रवाक्यस्य अर्थवादत्वात् प्रशसायां तात्पर्यम् । सा च अविद्यमानेनापिकर्त्तुशक्यते । अचेतना अविद्वांसोऽपि सत्त्रमनुष्ठितवन्तः कि पुनश्चेतना विद्वांसो ब्राह्मणाः इति सत्त्रस्तुतिः । 'च'कारः पूर्वपक्षोक्तख्य बाक्यत्वहेतोः कडनुपलम्भेन पराहतिं समुच्चिनोति । तस्मान्नास्ति वेदस्य पौरुषेयत्वम् ।
अत्रेति संग्रहश्लोकौ –
पौरुषेय न वा वेदवाक्यं स्यात् पौरुषेयता । काठकादिसमाख्यानाद् वाक्यत्वाच्चान्यवाक्यवत् ।।
समाख्यानं प्रवचनाद् वाक्यत्वं तु पराहतम् । तत्कर्त्रनुपलम्भेन ख्यात्ततोऽपौरुषेयता । (जै०न्या०मा०१।२।८)
ननु भगवता वादरायणेन वेदस्य ब्रह्मकार्थ्यत्वं सूत्रितम्, शास्त्रयोनित्वाद इति । (वे. १।१|3) ऋग्वेदादिशास्त्रकारणत्वाद ब्रह्म सर्वज्ञमिति सूत्रोर्थः । बालम् । नैतावता चेकेवयत्वं भवति, मनुप्योनर्मितत्वाभावात् । ईदृशमपौरुषेयत्वमभिप्रेत्य व्यवहारदशायामाकाशादिवन् नित्यत्वं बादरायणेनैव देवताधिकरणे सूत्रितम्, अत एव च नित्यत्वम्” इति (वे- सू- १।२।२९) । श्रुतिस्मृती चात्र भवतः-वाचा विरूपनित्यया इति श्रुतिः (ऋ०८।७५।६) अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा” इति स्मृतिः(१) । तस्मात् कर्त्तृदोषशङ्काया अनुदयात् मन्त्रब्राह्मणात्मकस्य वेदस्य निर्विध्नं प्रामाण्यं सिद्धम् ।
ननु मन्त्रब्राह्मणात्मकत्वं वेदस्य न युक्तम्, तयोः स्वरूपस्य निर्णेतुमशक्यत्वात् | मैवम् ।। द्वितीया
ध्यायस्थ प्रथमपादे सप्तमाष्टमयोरधिकरणयोर्निणनिरवात् ।
Foot Note :-
(1)अनादिनिधना नित्या वागुत्सृष्टास्वयम्द्ध्या । आदौ वेदमर्यादिव्या यत. सर्वाः प्रवृत्तय. ।। ब्रह्मसूत्रशाङ्करभाष्ये धृतम्(१.३.८२)
Page 033 (113)
सप्तमाधिकरणमारचयति –
अहे बुज्जिय मन्त्रं म इति मन्त्रस्य लक्षणम् । नास्त्यस्ति वास्य नास्त्येतदव्यास्यादेरवारणात्।।
याज्ञिकानां समाख्यानं लक्षण दोषवर्जितम् । तेऽनुष्ठानख्यारकादौ मन्त्रशब्दं प्रयुञ्जते ।। (जै०न्या०मा०२।१।७)
आधान इदमाम्नायते – “अहे बुध्निय मन्त्रं मे गोपाय” (तै० ब्रा० १।२।१।८६) इति ।। तत्र मन्त्रस्य लक्षणं नास्ति, अव्यास्यतिव्यास्योर्वारयितुमशक्यत्वात् । विहितार्थाभिधायको मन्त्र इत्युक्ते वसन्ताय कपिञ्जलानालभते इत्यख्य । ( वा०स० २४।२०) मन्त्रस्य विधिरूपत्वाद् अव्याप्तिः । मननर्द्ध्वेहण इत्युक्ते ब्राह्मणेऽतिव्याप्तिः । एवमत्तिपदान्तो मन्त्र उत्तमपुरुषान्तो मन्त्र इत्यादिलक्षणानां परस्परमव्याप्तिरितिचेत्? मैवम्; याज्ञिकसमाख्यानख्य निर्दोषलक्षणत्वात् । तच्च समाख्यानम् अनुष्ठानख्यारकादीनां मन्त्रत्वं गमयति; “उरु प्रथस्थ,” ( तै० सं- ६।२।७।३) इत्यादयोऽनुष्ठानस्मारकाः,”अग्निमीडे पुरोहितम” (ऋ.1.1.1)इत्यादयः ण्ठतिरूपाः,'इषेत्वा'( वा- सं- १ ।१ )इत्यादयस्त्वान्ताः । 'अग्न आयाहि वीतय (सा० सं- १।१) इत्यादयः आमन्त्रणोपेताः । 'अग्नीदग्नीन्विहर' ( तै० सं- ६।३।१।२) इत्यादयः प्रैषरूपाः । 'अधः स्विदासीदुपरीख्यदासीद्' ( ऋ० १०.१२६.५) इत्यादयो विचाररूपाः । अम्बेऽम्बिके अम्बालिके न मा नयति कश्चन' ( बा- सं० २३।१८) इत्यादयः परिदेवनरूपाः । पृच्छामि त्वा परमन्तं ‘पृथिव्या' ( वा० सं० २३।६१) इत्यादयः प्रश्नरूपाः । 'वेदिमाहुः परमन्तं पृथिव्याः' (वा २३.६२) इत्यादयउत्तररूपाः । एवमन्यदपि उदाहार्यम् । ईहृशेषु अत्कतविजातीयेषु स्नमाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति यस्य लक्षणत्वमुच्येत । लक्षणस्य चोपयोगः पूर्वाचार्यैर्दर्शितः –
ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेनतु सिद्धानायन्ते यान्ति विपश्चितः ।।
तस्मादभियुक्तानां मन्त्रोऽयमिति समाख्यानं लक्षणम् ।
अष्टमाधिकरणमारचयति –
(१)नास्त्वेतद्ब्राह्मणेत्यत्र लक्षण विद्यतेऽथवा । नास्तीयन्तो वेदभागा इति क्लप्तेरभावतः ।।
Foot Note :-
(1)”एतद्व्याह्यन्यव पञ्च हर्वीपी त्यत्र ब्राह्मणस्य लक्षणं किमपि नास्ति अथवाविद्यते ? (संशयः) । इयन्तो वेदभागा इतिक्लृप्तेरभावद् अव्याप्त्यतिव्याप्त्योर्निवारणमशक्यम्, अतो ब्राह्मणस्य लक्षणं नास्तीति ( पूर्वपक्षे।) ।। वेदस्य द्वौ भागौ मन्त्रश्च ब्राह्मणञ्चेति, मन्त्रभागः पूर्व्वमुक्तः, अतस्तदतिरिक्तं ब्राह्मणमिति ब्राह्मणस्य लक्षणं भवेदिति (सिद्धान्तः) ।
Page 034 (114)
मन्त्रश्च ब्राह्मणश्चेति द्वौ भागौ तेन मन्त्रतेः ।
अन्यद् घ्रालणमित्येतद् भवेद् ब्राह्मणलक्षणम् ।। (जै०न्या०मा० २.१.८)
चातुर्मास्येषु इदमाम्नायते, एतद्ब्राह्मणान्येव पञ्च हवींपि' इति (तै० स० ३।७।१ ।१) तत्र ब्राह्मणस्य लक्षण नास्ति । कुतः ? वेदभागानाम् इयत्तानवधाररेगन ब्राह्मणभागेषु च लक्षणस्य अव्याप्यतिव्याल्योः शोधयितुमशक्यत्वात् । पूर्वोक्तो मन्त्रभाग एकः । भावान्तराणि च कानिचित् पूर्वैरुदाहर्भू सगृहीतानि –
हेतुर्निर्वचन निन्दा प्रशंसा संशयो विधिः ।
परक्रिया पुराकल्पो व्यवधारणकल्पना ।।
तेन ह्यन्नं क्रियते इति (श० ब्रा० २।५।२।२३) हेतुः। तद्दध्नो दधित्वम्' (तै० स० २।५।३।३) इति निर्वचनम् । 'अमेध्या वै माषा (तै० स० ५.१. ८.१) इति निन्दा । वायुर्वै क्षेपिष्ठा देवता इति (तै० स० २।१।१।१) प्रशंसा । तद्व्यचिकिसज् जुहवानी माहौषाम् इति ( तै० स० ६।५।९।१) संशयः । यजमानेन स्रम्मितौदुम्बरी भवति ( तै०स०६।२।१०।३) इति विधिः । भापानेव मह्यं पचन्ति इति परकृतिः । पुरा ब्राह्मणा अभैषुरिति ( तै० स० १ ।५।७।५) पुराकल्पः । “यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणांश्चतुष्कपालान्निर्वपेद्” ( तै०स० २।३।१२।१) इति विशेषावधारणकल्पना । एवम् अन्यदपि उदाहार्यम् ।
न च हेत्वादीनामन्यतम ब्राह्मणामति लक्षणमिति लक्षणम्, मन्त्रेष्वपि हेत्वादिसद्भावात् – “इन्दवो वामुशन्ति हि” (ऋ० १ ।२।४) “उदानिषुर्महीरिति तस्मादुदकमुच्यते” ( अ० ३।१३।४) इति निर्वचनम् । “मोघमन्नं विन्दते अप्रचेता” इति (ऋ० १०। १।७।३) निन्दा । “अग्निर्मूर्द्धादिवः ककुद्” इति ( ऋ० ९।४४।१६) प्रशसा । “अधः स्विदासीपुपरस्विस्विदासीद्” इति ( ऋ० १०।१२९।५) संशयः । वसन्ताय कपिञ्जलाना लभत (वा० स० २४|२०) इति विधिः । सहस्रमयुता ददत ( ऋ० ८/२१/१८ ) इति परकृतिः । यज्ञेन यज्ञमयजन्त देवा ( ऋ० १०|९०|१६) इति पुराकल्पः । इतिकरणवहुलम् ब्राह्मणमिति चेत्, न, क्त्याददा इत्ययजथा इत्यपः” इति ब्राह्मणो गायेद् इत्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रे (श० ब्रा १३।१।५।६) ऽतिव्याप्तेः, 'इत्याह' इत्यनेन वाक्येन उपनिबद्ध ब्राह्मणमिति चेत्? न, राजा चिद् य भग भक्षीत्याह,१' ( ऋ० ७|४१|२) यो वा रक्षाः शुचिरस्थीत्याह ( ऋ० ७१०५११६) इत्यनयोर्मन्त्रयोरति व्याप्ते । आख्यायिकारूपं ब्राह्मणमिति चेत्, न, यमयमीसंवादसूक्तादा (ऋ. १०|२० वतिव्याप्तेः ।
तस्मान् नास्ति व्राह्मणस्य लक्षणमिति प्राप्ते व्रूमः – मन्त्रब्राह्मणरूपौ
Page 035 (115)
द्वावेव वेडभागावित्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वाद् अवशिष्टो वेदभागो ब्राह्मणभित्येतल्लक्षणं भविष्यति । तदेतल्लक्षणद्वयं जैमिनिः सूत्रयामास –
तच्चोदकेषु मन्त्राख्या (जै० ३।१।३२)
शेषे ब्राह्मणशब्दः (जै० २।१।३२)
नस्मिन् वेदे केपुचिदभिधायकेषु वाक्येषु मन्त्र इति समाख्या सम्प्रदायविद्भिर्व्यवह्रियते – मन्त्रानधीमह इति । मन्त्रव्यतिरिक्तभागेषु तु ब्राह्मणशब्दस्तैर्व्यवहृत इत्यर्थः ।
ननु ब्राह्मयज्ञप्रकरणे मन्त्रब्राह्मणव्यतिरिक्ता इतिहासादयो भागा आम्नायन्ते – “यद् ब्राह्मणार्नोतिहासान्पुराणानि कल्पान् गाथा नाराशंसी”रिति (तै० आ० २।९), मैवम्, विप्रपरिव्राजकन्यायेन ब्राह्मणाद्यवान्तरभेदानामेव इतिहासादीनां पृथगभिधानात् । देवासुराः संयुक्ता आसन्' इत्यादय इतिहासाः । इदया अग्रे नैवकिञ्चनासीद् (तै० ब्रा० २|२|9|१) इत्यादिकं जगतः प्रागवस्थामुपक्रम्य खर्गप्रतिपादकं जगतः प्रागवस्थामुपक्रम्य सर्गप्रतिपादकं वाक्यजातं पुराणम्। कल्पस्तु आरुणकेतुकचयणप्रकरणे समास्यायते-इति मन्त्रा कल्पाऽत ऊर्द्धम्-यदि वलि हरेत्”,(तै० आ० १।३२।२) अग्निचयने यमगाथाभिपरिगायति इति (तै०सं० ५।१।८।२) विहिता मन्त्रविशेषा गाथाः । मनुप्यवृत्तान्तप्रतिपादिका ऋचो नाराशंस्यः । तस्मान् मन्त्रब्राह्मणज्यतिरिक्तभागाभावान् मन्त्रब्राह्मणस्वरूपस्य लक्षितत्वात् तवुभयात्मकत्वं वेदस्य सुस्थितम् ।
मन्त्रावान्तरविशेषश्च तस्मिन्वव पादेइत्थविचारितः ।
नक् सामयक्षुषां लक्ष्म साङ्कर्यादिति शङ्किते । पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसङ्करः ।।
इदमास्नायते, - “अहे बुध्निय मन्त्रं मे गोपाय यमृपयस्त्रैविदा विदुः। ऋचः सामानि यजूँषि”( तै.ब्रा. १.२.१.२६) त्रीन्विदन्ति इति त्रिविदः, त्रिविदां सम्बन्धिनोऽध्येतारस्त्रविदाः । ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुस्तं गोपाय इति योजना । तत्र त्रिविधानाममृक्त्यामयजुषां व्यवस्थितं लक्षणं नास्ति, कुतः ? साङ्कर्यस्य दुष्परिहरत्वात् । अध्यापकप्रसिद्धेषु ऋग्वेदादिषु पठितो मन्त्र इति हि लक्षणं वक्तव्यम्। तच्च सङ्कीर्ण, “देवो वः सवितोत्पुनात्वच्छद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः” रित्ययं, मन्त्रो यजुर्वेदे ( तै०स० १।१।5।१) सम्प्रतिपन्नो यजुषां मध्ये पठित । न च तस्य यजुष्ट्वमस्ति यद्ब्राह्मणे साविव्यर्चा इति ऋक्त्वेन व्यवहृतत्वात् । 'एतत्साम गायन्नास्ते' इति प्रतिक्षाय किञ्चित् रराम यलर्वेदे ( तै० आ० ९।१०।५) गीतम्। अक्षितमस्यच्युतमसि डति त्रीणि यजूंषि सामवेदे ( छा० उप- ३।१०।६) समाम्नातानि । तथा, गीयमानस्य साम अणप्रयभूता ऋचः सामवेदे समाम्ना-
Page 036 (116)
यन्ते । तस्मान् नास्ति लक्षणमिति चेत्, न, पादादीनामसङ्कीर्णलक्षणत्वात् । पादेन अर्थेन चोपेता वृत्तवद्धा मन्त्रा ऋचः, गीतिरूपा मन्त्राः सामानि, वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठितमन्त्रा यजूंषि – इत्युक्ते न क्वापि सङ्करः । तदेतत् त्रैविध्य जैमिनिना सूत्रत्रयेण लक्षितम् –
तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था (जै० २।१।३५)
गीतिषु सामाख्या ( जै० २।१।३६)
शेषे यजुःशब्दः (जै० २|१।३७)
एतमेव मन्त्रावान्तरविशेषमुपजीव्य वेदानामृग्वेदो यजुर्वेदः सामवेद इति त्रैविध्यं सूमहम् ।
तेषां च वेदानां सर्वेषामन्यतमस्य वा स्वप्रज्ञानुसारेरग अध्ययनमुपनीतेन कर्त्तव्यम् । तथा
च याज्ञवल्क्यः स्मरति –
“वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्” इति ।
एकवेदपक्षे पितृपितामहादिपरम्पराप्राप्त एव वेदोऽध्येतव्य इत्यभिप्रेत्य “स्वाध्यायोऽध्येतव्य ( तै० आ० २।१५) इति 'स्व' शब्द आम्नातः । तच्चाध्यायनं नकाम्यं किन्तु नित्यम् । अतएव पुरुषार्थानुशासने सूत्रित –
वेदस्यान्ययन नित्यमनध्ययने पातात् ।
पातित्यञ्चैवमाम्नायते, - “अपहतपाप्मा स्वाध्यायो देवपवित्रं वा एतत्, त योऽनूत्सृजत्यभागो वाचि भवत्यभागो नाके । ( तै० आ० २।१५) तदेषाभ्युक्ता –
यस्तित्याज सचिविदं सखायम्, न तख्य वाच्यपि भागोऽस्ति ।
यदीं शृणोत्यलीकं शृणोति न हि प्रवेद सुकृतस्य पन्थाम् ।। ( ऋ० १०।७१।।६)
तस्मात् स्वाध्यायोऽध्येतव्य इति । अध्येतारं पुरुषं तदीयप्रयासाभिज्ञानेन सखिवत्पालयतीति सचिविद् वेदः । बहुद्रव्यप्रयाससाध्यक्रतुफलस्य अध्ययनमात्रेण सम्पादन तत्पालनम् । तदपि आम्नायते –
यं य कतुमधीते तेन तेनास्येष्टं भवन्यग्नेर्वायोरादित्यख्य सायुज्यं गच्छति ( तै० आ- २।१5) इति ।
यद्यपि एतद् ब्रह्मयज्ञस्वाध्यायफल तथापि। ग्रहणार्थाध्यायनमन्तरेण व्रह्मयज्ञासम्भवात् तदीयफलमपि सम्पद्यते । ईदृशसखिविदं वेदरूपं सखाय यः पुमान् अध्ययनमकृत्वा त्यजति तस्य वाच्यपि भाग्यं नास्ति, फले भाग्य नास्तीति किमु वक्तव्यम् । सकलदेवतानां धर्मस्य परब्रह्मतत्त्वस्य च प्रतिपादकं वेदमनुच्चार्य परन्तिदानृतकलहादिहेतु लौकिकीं वार्त्तां सर्व्वत्रोच्चारयतः स्पष्ट एव वाचि भाग्याभावः । अत एवाम्नायते –
“नानुध्याया-द्बहूञ्छब्दान्वाचो विग्लापनं हि तत्” । (श० ब्रा० १४।७।२।२3)
Page 037 (117)
यद्यप्यसौकाव्यनाटकं शृणोति तथापि निरर्थकमेव तच्छ्रवणे तेन सुकृतमार्गज्ञानाभावादित्यर्थः ।
स्मृतिरपि –
योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ।। (म० स्मृ० २।१६८)
एवमन्यान्यपि बहूनि वचनान्यत्र उदाहर्त्तव्यानि ।
ननु, अधीते वेदे पश्चात् अध्ययनविध्यर्थ सानं, ज्ञाने सति पश्चाद् अध्ययनप्रवृत्तिरित्यन्योन्याश्रय इति चेत् ? बाढम्; अत एव गुरुमतानुसारिण आचार्य्यकर्तृकाध्यापनेन प्रवृत्तियुक्ति माणवकाध्ययनस्य महता प्रेयीसेन सम्पादयन्ति । मतान्तरानुसारिणस्तु प्रकाशात्मादयोऽध्ययनात् प्रागेव सन्ध्यावन्दनादिविधिज्ञानवत् पित्रादिभ्योऽध्ययनविज्ञान वर्णयन्ति । यद्यप्यध्यापनविधिप्रयुक्तिर्यदि वा स्वविधिप्रयुक्तिः, सर्वस्यापि उपनीतैरध्येतव्यो वेदः । तस्य च अध्ययनस्य ह्यार्थत्वम् अक्षरग्रहणान्तत्वं च पुरुषार्थानुशासने सूत्रितम्। तानि सूत्राणि तद्वृत्ति च उदाहरिष्यामः –
अध्ययनस्य दृष्टार्थत्वं साधयितुं पूर्वपक्षयति –
“अदृष्टार्था त्वधीतिर्विहितत्वात्” ।
दृष्टफलसाधने भोजनादौ विध्यदर्शनाद् विहितमपि अध्ययनमदृष्टार्थमवगन्तव्यम् । अदृष्टविशेषो न श्रुत इति चेत् ? तत्राह –
घृतकूल्याद्यतिदेशः स्वर्गकल्पनं वा ।
(१)ब्रह्मयज्ञजपाध्ययनार्थवादं नित्याध्ययनेऽतिदिश्यतत्रत्वंघृतकूल्यादिकं रात्रिसत्तन्यायेन(२) फलत्वेन कल्पनीयम् । ये तु अर्थवादातिदेशं नेच्छन्ति तैर्विश्वर्जिन्न्यायेन(३) स्वर्गः कल्पनीयः । दृष्टफलयोः संस्कारप्राप्त्योः सम्भवे। कथमद्वष्टकल्पना इत्यत आह –
अयुक्ते संस्कारप्राप्ती ।
Foot Note :-
(1)“यदृचोऽधीते पयसः कूल्यास्य पितन् स्वधा अभिवहन्ति;यद् यजूँषि घृतस्य कूल्या, यत्सामानि सोम एभ्यः पवते, यदथर्वाङ्गिपसो मधोः कूल्या” ( तै० आ० २-१०)
(2)रात्रिसत्रन्याय – रात्रिसत्रविधेः फलं न श्रुतम्, परं तस्य स्तावकेऽर्थवादे फलं श्रूयते – “प्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्ति” इति, “ब्रह्मवर्चस्विनोऽन्नादा भवन्ति, य एता उपयन्ति” इति च (ताण्डयमहाब्राह्मणम् २३-१४-७) । एतदार्थवादिके फलं प्रत्यासन्नत्वाद्रात्रिसत्रविधेः फलत्वेन कल्पनीय । (मी० ४ । ३ । १७-१९)
(3)विश्वजिन्न्यायः – “विश्वजिता (यागेभ) यजेत” हत्याम्नायते । परमत्र किमपि फलं न श्रूयते, किमपि फलमवश्यं कल्पनीय, यतो भावना भाव्यभपेक्षते । विश्वजिन्नाम्ना यागेन किं कुर्य्यादित्याकाङक्षाया अनिवृत्ते, अन्यथा निरधिकारत्वाद् अनुष्ठाने विधिर्निरथेकः स्यात्। स्वर्गस्य दुःखमिश्रितत्वाभावान्निरतिशयसुखत्वाच्च सर्व्वपुरुषाणामिष्टत्वात् स्वर्ग एव विश्वजितः फलम् । (मी० ४ । ३ । १५-१६ )
Page 038 (118)
संस्कृतस्वाध्यायस्य क्वचित् क्रतौ विनियोगादर्शनात् प्राप्तेः स्वयमपुरुषार्थत्वाच्च इत्यर्थः ।
स्वाध्यायप्राप्तिरर्थप्रमितिहेतुतया पुरुषार्थं इत्याशङ्क्य विषनिर्हरणादिकार्य्यविनियुक्तमन्त्रवद् अध्ययनाङ्गतया विनियुक्तानां ज्योतिष्टोमादिवाक्यानां न स्वार्थे प्रामारम्यमित्याह –
अन्याङ्गं नार्थप्रभापकम् ।
अध्ययनविधायकं तु वाक्यं स्वविहिताध्ययनस्यैव अङ्गमिति कृत्वा स्वार्थप्रमाणमित्याह –
अध्ययनवाक्यमनन्याद्गम् ।
ननु एवमदृष्टार्थत्वे कर्म्मकारकभूतस्वाध्यायगतफलाभावाद् 'अध्येतव्य' इति कर्मवाची तव्यप्रत्ययो विरुध्येत इत्यत आह –
सक्तुवत् करणपरिणामः ।
सक्तूसुहोति इत्यत्र कर्मकारकत्वेन प्रधानभूतान् सकूनउद्दिश्य होमसंस्कारविधाने प्रतीयमानेऽपि होमसंस्कृतानां भस्मीभूतानां सक्तूनामन्यत्र विनियोगाभावात् कर्म्मप्राधान्य हित्वा सक्तुभिर्जुहोतीति करणपरिणामः कृतः । एवमत्रापि कर्म्मगतयोः संस्कारप्राप्त्योरसम्भवात् स्वाध्यायेन अधीयीत इति वाक्यपरिणामः कर्त्तव्यः ।
इदानीं दृष्टफले सति अद्वष्टफलं न कल्पमिति सिद्धान्तयति –
दृष्टे तु नादृष्टम् ।
किं तद् दृष्टफलमिति तदाह –
दृष्टौ प्राप्तिसंस्कारौ ।
अक्षरप्राप्तेः परम्परया पुरुषार्थत्वमाह –
प्राप्त्यार्थबोधः ।
जायते इति शेषः ।
न च भोजनादिवद् अन्वयव्यतिरेकसिद्धत्वाद् विधिवैयर्थ्यमिति शङ्कनीयम् । अवघातादिवन्नियमादृष्टाय विध्युपपत्तेरित्याह –
विधिनिष्पत्त्याः ।
यत्तूक्तं संस्कृतस्य स्याध्यायख्य विनियोगादर्शनान्न संस्कार इति, तत्राह –
सस्कारसिद्धिः क्रत्वध्ययनविधिक्तोपादानात् ।
क्रतुविधयो हि विपयाववोधमपेक्षमाणास्तृदववोधे स्वाध्यायं विनियुञ्जते । अध्ययनविधिश्च लिखितपाठादिव्यावृल्या अध्ययनसच्छतत्वं स्वाध्यायस्य गमयति । अत उभयोपादानात् तत्सिद्धिः ।
ननु, सस्कारो नाम अदृष्टातिशयः । स च न स्वाध्यायत्रातः, तव्यप्रत्ययेन स्त्रपदोपात्तप्रकृत्यर्थभूताध्ययनोपरक्ताया भावनाया अपूर्वाभिधानात् ।
Page 039 (119)
ततः कथं स्वाध्यायस्य सस्कृतत्वम् इति तत्राह –
तव्यः कर्मगादृष्टवाची ।
अत्र तव्यप्रत्ययस्य कर्माभिधायितया कर्मकारकस्य स्वाध्यायस्य तव्यप्रत्ययं प्रति प्रकृत्यर्थादध्ययनादपि प्रत्यासन्नत्वात् ख्याध्यायगतमेव अपूर्वं तव्यप्रत्ययो वक्ति, अपूर्वस्य धात्वर्थजन्यत्वनियमेऽपि तनुपरक्तत्वानियमादिति भावः ।
यच्चोक्तमन्याङ्गं नार्थप्रमापकमिति, तदसत्, यतो मन्त्रणा स्वतन्त्राट्टष्टशेषाणां तथात्वं युज्यते । इह तु स्वाध्यायाश्रितमदृष्टम्; तस्य च स्वाध्यायगताक्षरसामर्थ्यसिद्धार्थाववोधे फले सति फलान्तरकल्पनायोगात् प्रामारन्यस्य उपबृंहकमेव अदृष्टं, न तु प्रतिबन्धकमित्याह –
स्वतन्त्राहष्टशेवत्वान्न स्वार्थप्रमा प्रतिबध्यते ।
सक्तुन्यायेन कर्मकारकप्राधान्ये परित्यक्ते स्वतन्त्राट्टष्टमेव अत्रापि स्यादित्यत्राह –
यथाक्षुतोपपत्तेर्न सक्तुन्यायः ।
सक्तुषु गत्यभावात् श्रुतं परित्यज्य अश्रुतं कल्प्यतां नाम । नेह तद युक्तं, प्रदर्शितत्वादित्यर्थः ।
इत्थमध्ययनविर्ण्डेष्टार्थत्वं प्रसाध्य अर्थाववोधपर्यन्ततां निराकर्त्तुं पूर्वपक्षयति –
वैधमर्थनिर्णयं भट्टगुरू विधेः पुमर्थावसानात् ।
सर्वत्र विधेः पुरुवार्थपर्यवसायित्वनियमाद् अत्रापि पुरुषार्थभूतं फलवदर्थनिश्चयमयमध्ययनविधिप्रयुक्तं भट्टगुरू मन्येते ।
ननु, सकृदध्ययनाद् आवृत्तिसहिताद् वा अर्थनिश्चयो नोपलभ्यते इत्याशङ्क्य, तथा सति तत्सिद्धये सोऽध्ययनविध्नेयरर्थनिश्चयक्तं विचारं कल्पयिष्यति इत्याह –
स विचारमाक्षिपेत् ।
ननु स्वविधेयतदुपकारिणोरेव विधिः प्रयोजक इति सर्वत्र नियमः, तथा सति, अतादृशं कथमत्र अध्ययनविधिराक्षेपूस्यतीत्याह –
अविधेयानुपकार्याक्षेपोऽवघातावृत्तिवत् ।
“व्रीहीन् अवहन्ति” इत्यत्र अवघातमात्रं विधेयं, न तु तदावृजि, तस्या अधात्वर्थत्वात् । नापि सा विधेयोपकारिणी, अन्तरेण आवृत्तिं सकृन्मुसलघाताद् अवघातसिद्धेः । तथापि तण्डलनिष्पत्तिफलसिद्धये स विधिरावृत्तिं यद्वद् आचिक्षेप तद्वत् प्रकृतेऽपि अवगन्तव्यम् ।
ननु वेदमात्राध्यायिनोऽर्थाववोधानुदयेरऽपि व्याकरणाद्यङ्गसहितवेदाध्यायिनस्तदुदयसद्भावात् तं प्रति ज्वथ विचारं विधिर्न कल्पयेदित्या-
Page 040 (120)
शङ्क्य अर्थगतविरोधपरिहाराय अपेक्षित एव विचार इत्या –
साङ्गाध्ययनात् तद्भावे विचारोऽर्थविरोधापनुत्।
सिद्धान्तयति –
प्राप्तेषु गवादिवत् पुमर्थत्वाद् विधिस्तदन्तः ।
यथा फलभूतख्यट्पंक्षीरादेर्हेतवो गवादयोऽपि पुरुषैरर्श्यन्ते, तथा फलवदर्थावबोधहेतोरक्षरप्राप्तेरपि पुरुपार्थत्वात् अध्ययनविधिरक्षरप्राप्त्यवसानोऽवगन्तव्यः।
ननु अक्षरप्राप्तेः पुरुपार्थत्वं फलवदर्थाववोधप्रयुक्तं चेत्तर्हि तद्बोधस्य मुख्यपुरुषार्थत्वाद् वोधान्त एव विधिः कि न स्यादित्यत आह –
फलवद् वोधान्तत्वेऽध्ययनाकार्त्स्न्यम् ।
बोधस्य हि फलं कर्मानुष्ठानम् । तथा सति यख्यब्राह्मणादेर्यख्यिन् (१)बृहस्पतिस्रवादौ अधिकारस्तस्य तद्वाक्यमात्राध्ययनं स्यात्, न तु राजसूयादिवाक्याध्ययनम्, तत्र प्रवृत्त्यादिफलभावात् ।
स्वपक्षे तु नायं दोष इत्याह –
कृत्स्नप्राप्तिर्जपार्थो ।
न च अवोधकत्वे अर्थावोध एव न सिध्येदिति शङ्कनोयम्, प्रमाणस्य प्रमेयवोधकत्यस्वाभाव्यात्, लौकिकाप्तवाक्यानामन्द्ररेणैव विधिवोधकत्वदर्शनादित्याह –
लौकवन्नैजो बोध्यः
ननु बोधस्य विधिफलत्वे बोधकाममुद्दिश्य विधातुं शक्यत्वात्सुलभोऽद्विकारी स्यादित्याशद्वच, प्राप्तिकाम उपनीताण्वर्षब्राह्मणोऽधिकारी सुलभ एव इति परिहारं स्पष्टत्वादुपेक्य बोधस्य काम्यत्वं दूषयति –
सोऽकाम्यः प्राग्वोध्यभानाभानयोः ।
बोध्यस्य अग्निहोत्रादिलक्षणवेदार्थस्य अध्ययनात् प्राक् सन्ध्योपासदिवत् पित्राद्युपदेशत एवं भाने सिद्धत्वादेव सोऽर्थबोधो न काम्यः । अभाने कामयितुमशक्यः, ज्ञाते एव विषये कामनानियमात् ।
ननु सामान्यतो ज्ञाने विशेषतो बुभुत्सा सम्भवति । यद्वा विशेषतोऽपि पित्राद्युपदेद्याद्रुश्रवगते सति औपदेशिकज्ञानख्य प्रामाण्यनिर्णया पुनर्बोधकामना युक्तैव इत्याशङ्क्य, एवमपि अर्थावबोधमुद्दिश्य अध्ययनविधानं न सम्भवति इत्याह –
उहेशायोगात् ।
अग्निहोत्रादिविशेषज्ञानानां न तावदेकबुद्ध्या विशेषाकारेण उद्देशः सम्भवति, अनन्तत्वात्, सामान्याकारेण उद्देशे सामान्यमेव विधिफलं स्यात्, न तु ज्ञानविशेपः । ततो नोद्देशो युक्तः ।
Foot Note: -
(1)य पुरोधाः स्यात्स बृहस्पतिसवेन यजेत (तै० आ० २.७.१)
Page 041 (121)
ननु अर्थाववोधमुद्दिश्य उश्च एरणाभावे वेदस्य स्वार्थे तत्पिर्यं न स्यादित्याशङ्क्य उपक्रमादिलिद्गगम्यं तात्पर्य शब्दनलादेव सिध्यति इत्याह –
तात्पर्यं शब्दात् ।
तर्हि अर्थज्ञानमुद्दिश्य शब्दोचरणं लोके व्यर्थं स्याद् इति चेत्, न, पुरूपसम्बन्धकृतदोपाण्यप्रलिबन्धपरिहारार्थत्वाहु इत्याह –
उद्दिश्य उच्चारणं दोपघ्नं लोके ।
ननु, अध्यननविधेर्वोधान्तत्वाभावे विचारकशारत्र न प्रवर्त्तेत, प्रयोजकाभावादित्याशङ्क्याह –
विचार उत्तरविधियुक्त उपपद्यते ।
क्रतुवोधविधयः साक्त्येदाध्ययनाद् आपातप्रतिपन्ना विरोधपरिहाणप्रतिष्ठितं निर्णयज्ञानमन्तरेण अनुष्ठापयितुमशक्रुवन्तस्तन्निर्णयाय क्रतुविचारं प्रयोजयन्ति । श्रवणविधिस्तु(१) वै साक्षादेव ब्रह्मविचारं विधत्ते । एवं च सति, श्रवणविधेः स्थविधेयप्रयोजकत्वं क्रतुविधीनां च विधेयोपकारिप्रयोजकत्वम् इत्युपपद्यतेतराम् । अध्ययनविधिप्रयुक्तिपक्षे तु, तद्विइग्नेः क्रतुद्वारा स्त्वर्गसिद्धिपर्यन्तत्वात् क्रत्वनुष्ठानख्यापि तत्प्रयुक्तौ क्रतुविधिवैयथ्येमापद्येत ।
ननु अध्ययनविधेस्त्रवर्णिकमात्रं प्रति नित्यत्वात् तत् प्रयुक्तौ विचारस्यापि तल्लभ्येत, नान्यथेति चेत् ? क्रतुविचारस्य त्रैवर्णिकमात्रेऽपि नित्यत्वसिद्धिः कि वा ब्रह्मविचारस्य ? तत्राद्योऽस्त्वन्मतेऽपि सम इत्याह –
अतो नित्यः क्रतुविचारस्त्रैवर्णिकमात्रस्य ।
यतोऽकरणे प्रत्यवारुभवणात् क्रतवस्त्रैवर्णिकानां नित्या अत इत्यर्थः ।
द्वितीयो ऽनिष्ट इत्याह-
ब्रह्मविचारः पुनः परमहसख्यैव ।
नित्य इत्यनुषङ्गः ।
ननु उक्तनीत्या अध्ययनस्य अदनरग्रहणान्तत्वेऽर्थज्ञानमविहितं स्यात् ? मैवम्, वाक्यान्तरेण तद्विधानात् – “ब्राह्मणेन निष्कारणो धर्मः षड्ङ्गो वेदोऽध्येयो ज्ञेयश्च” इति (महाभाष्यम् पस्पशाह्निक) तद्विधिः । तत्र निष्कारणशब्दे अध्ययनल्लानयोः काम्यत्वं निवार्यते |
अर्थज्ञाने पुरुपप्रवृत्तिकरं वचनद्वय शाखान्तरगतं निरुक्तकारो यास्क ( नि० १ । १८) एवमुदाजहार ।
“अद्यापि लानप्रशंसा भवत्यज्ञाननिन्दा च
स्थास्तुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् ।
Foot Note: -
(१) “आल्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य” [बृह० उप०२।4| ९]
Page 042 (122)
योऽर्थज्ञ इत् सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाष्मा ।।
यद् गृद्वोतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ।। (संहि० ब्रा० ३)
अस्मिन् मन्त्रद्वये 'योऽर्थज्ञ इदि'त्यनेनैव अर्धेन वेदार्थज्ञान प्रशस्यते, इतरेण अर्धत्रयेण ज्ञानराहित्यं निन्द्यते । यो वेदार्थं जानाति सोऽयमिह लोके सकलं श्रेयः प्राप्नोति । तथा, तेन ज्ञानेन पापक्षये सति मृतः स्वर्गं प्राप्नोति । तदेतद् ऐहिकामुष्मिकं च ज्ञानफलं तैत्तिरीया मन्त्रोदाहररेगन तदीयतात्पर्याभिधायिब्राह्मणेन च स्पष्टीचक्रुः – “तदेपाशृक्ता – ‘ये अर्वाङुत वा पुराणे वेद विद्वांसमभितो वदन्त्यादित्यमेव ते परिवदन्ति, सर्व्वेऽग्नि द्वितीयं तृतीयं च हसमिति” ।
“यावतीर्वै देवतास्ता सर्व्वा वेदविदि ब्राह्मणे वसन्ति । तस्माद् ब्राह्मणेभ्यो वेदविद्भ्यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेदेता एव देवताः प्रीणाति” इति । (तै- आ० २।१५)
वेदं विद्वाअर्थाभिज्ञः पुरुषः स च द्विविधः । अर्वाचीनकाले समुत्पन्नश्चतुर्दशविद्यास्थानकुशलः कश्चिदुपाध्यायः, पुरातनकाले समुत्पन्नो व्यासादिश्च । तमेतमुभयविध विद्वांसं विद्यामदधनमदकुलमदोपेताः पण्डितम्भन्या ये पुरुषा अभितो विद्यादिषु दूषयन्ति ते सर्वेऽपि आदित्यमेव प्रथमं दूषयन्ति, आदित्यापेक्षया द्वितीयमग्निं दूषयन्ति, तदुभयापेक्षया तृतीयं हंसं दूषयन्ति । हन्ति सदा गच्छतीति हंसो वायुः ।
अग्न्यादिरूपत्वञ्च वेदविदआम्लातम् – “अग्नेर्वायोरादित्यस्य सायुज्य गच्छति” इति ( तै० आ० २।१५) । न केवलमेतद् देवतात्रयं किन्तु सर्वा अपि देवता वेदविदि वसन्ति । तस्माद् ब्राह्मणान्वेदविदो दृष्ट्वा स्मृत्वा वा प्रतिदिनं नमस्कुर्यात् । न तु तस्मिन्विद्यमानमपि दोषकीर्तयेत् । एवं सति तत्तन्नत्तत्रार्थभूताः सर्वा अपि देवता वेदार्थविदा ख्यर्यमाणतया तदीयहृदये अवस्थिता अयं नमस्कर्ता तोषयति । न चैतद् अध्ययनस्यैव फलमिति शङ्कनीयन्त्यविद्वांसमित्याम्नातत्वात् । अन्यथा वेदमधीयानभिन्नाम्नायेत । तस्मात्स्नर्वदेवताबुद्ध्या प्राणिभिः पूज्यस्य वेदार्थविदो लोकद्वयेऽपि श्रेयःप्राप्तिरुपपद्यते ।
यस्तु वेदमधीत्यापि अर्थं न विजानाति सोऽयं पुमान् भारमेव हरति धारयति । स्थाणुरिति दृष्टान्तः । छिन्नशाखं शुष्कावृक्षमूलं स्थाणुशब्देन उच्यते । स चयथा इन्धनार्थमेवोपयुज्यते न तुपुष्पफलार्थम्, तथा केवलपाठकख्य व्रात्यत्वं न भवतीत्येतावदेव, न तु अनुष्ठानं स्वर्गादिफलसिद्धिवास्ति । किलइत्यनेन लोकप्रसिद्धिर्द्योत्यते । लोकेऽपि पाठकस्य यावती श्रनादिपूजा ततोऽप्यधिका विदुपि दृश्यते ।
Page 043 (123)
किञ्च, सद्वेदवाक्यमभात्वार्याद् गृहीतम् अर्थज्ञानरहितं पाठरूपेण एव पुनः पुनरुच्चार्यते, तत् कदाचिदपि न ज्वलति स्वार्थं न प्रकाशयति । यथा अग्निरहितप्रदेशे प्रक्षिप्तं शुष्ककाष्ठं न ज्वलति तद्बत् । तथा सति तस्य वाक्यस्य वेदत्वमेव मुख्यं न स्यात् ।
अलौकिके पुरुपार्थोपाय वेत्ति अनेन इति वेदशब्दनिर्वचनम् ।
तथा चोक्तम् –
प्रत्यक्षेणानुमित्या वा यच्छायो न जयते ।
एतं विदन्ति वेदेन तस्माद् वेदस्य वेदता ।।
अतो मुख्यवेदत्वसिद्धये ज्ञातव्य एव तदर्थः ।
कि चात्र यास्केन ( नि० १।१९) काचिदन्यापि ऋगुदाहृता –
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृवच्छन्न शृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवासाः ।। ( ऋ० १०।७१।४)
तत्र पूर्वार्द्धस्य तात्पर्यं स त्व दर्शयति,-अप्येकः पश्यन्न पश्यति, वाचमपि च प्रयवन्न शृणोति, एनामिति अविद्वांसमाह अर्धम् इति । अख्यायमर्थः-यः पुमाश्रर्थं न वेत्ति त प्रति पूर्वार्थेन मन्त्रो ब्रूते । एकः पुरुपः पाठमात्रपर्द्यवस्मितो वेदरूपां वाचं पश्यन्नपि न सम्यक् पश्यति, एकवचनवहुवचनादिविवेकाभावे पाठशुद्धेरपि कर्तुमशक्यत्वात् । “वायुमेव स्वेन भागधेयेन उप धावति स एव एनं भूतिं गमयति”, “आदित्यानेव स्वेन भागधेयेन उप धावन्ति त एव एनं भूतिं गमयन्ति,” (तै- सं- ३।१।१।१) इत्यादौ अव्युत्पन्नः कथं पाठं निश्चिनुयात्? अन्यः कश्चिद् अर्थज्ञानाय व्याकरणाद्यङ्गानि श्मवन्नपि मोमासांसाराहित्यादेनां वेदरूपां वाचं न सम्यक् शृणोति । तावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेद् इत्यत्र व्याकरणमात्रेण प्रतिग्रहीतुरिष्टिः प्रतीयते । मीमांसायां तु न्यायेन दातुरिति निर्णीतम् । तस्त्वाडुभयविधमपि अविद्वांसं प्रति एवमाह इति ।
तृतीयपादतात्पर्यं दर्शयति, - ‘अप्येकस्मै तन्यविसस्र’ इति । स्वमान्मानं विवृणुते, ज्ञानं प्रकाशतमर्थस्याहानया वाचा' इति | अस्यायमर्थः – अपिशव्दपर्याय उतोश्छदः । स च पूर्वोक्तानभिज्ञवैलक्षरन्याय अत्र प्रूयुक्तः, निपातानामनेकार्थत्वात् । यः पुमान् व्याकरणाद्यङ्गैः स्वशव्दाथ मीमांसया तात्पर्यंच शोधयितुं प्रवृत्तस्त्वख्याएकस्मैवेदः स्वकीयांतनुविसस्रे । स्वमित्यादिकं पश्श्यारन्यालम् । ह्यानमित्यादिकं तात्पर्यव्याख्यानम् । वेदार्थप्रकाशनक्षमं धनाशाम् अनया तृतीयपादरूपया वाचा मन्त्र आह इति ।
चतुर्थपादतात्पय दर्शयति उपमोत्तमया वाचा, - “जायेव पत्ये काम अयमाना सुवासा । ऋतुकालेषु सुवासाः कल्पाणवासा: । कामयमाना
Page 044 (124)
ऋतुकालेषु । यथा स एनां पश्यति स शृणोतीत्यर्थज्ञप्रशंसा' इति । अस्यायमर्थः, - उत्तमया चतुर्थपादरूपया वाचा तृतीयपादार्थस्य उपमा उच्यते । उशतीरिल्येतस्य व्याख्यानं कामयमानेति । यद्यति अह्नि गृहकृत्यवेलायां मलिनवासास्तथापि सम्भोगकालेषु कल्याणवासा भवति । तत्र हेतुः कामयमाना ऋतुकालेषु इति । यथा स पतिरेनां जायां साकल्येन आदरयुक्तः पश्यति किञ्च तयोक्तमर्थ हितबुद्ध्याशृणोति तथायं चतुर्दशविद्यास्थानपरिशीलनोपेतः पुरुषो वेदार्थरहस्यं सम्यक् पश्यति । वेदोक्तं च धर्मब्रह्मरूपमर्थ हितबुद्ध्या स्वीकरोति । सेयमुक्ता वेदार्थाभिज्ञस्य प्रशरवा इति ।
पुनरपि ऋगन्तरे यास्क (नि० १।२०) उदाजहार – “तस्योत्तराभूयसे निर्वचनाय –
उत त्वं सख्ये स्थिरपीतमाहुर्नैन हिन्वन्त्यपि वाजिनेषु ।
अधेन्वा चरति माययैष वाच शुश्रुवो अफलामपुष्पाम् ।। ( ऋ०१०|७१|5)
अयमर्थः । पूर्वोदाहृताया उत त्वः पश्यन् इत्यादिकाया ऋचोऽनन्तरमेषा आम्नाता काचिद् ऋक् तस्य पूर्वोक्तमन्त्रस्य भूयसे निर्वचनाय सम्पद्यते, तमर्थम् अतिशयेन प्रतिपादयितुं प्रभवति । कथमिति चेत्? तदुच्यते । अपि चैकं चतुर्दशविद्यास्थानकुशलं पुरुषं वेदरूपाया दृवाचः सख्ये स्थित्वा स्थैर्येण वेदोक्तार्थामृतपानयुक्तमाहुः, अभिज्ञाः कथयन्ति । 'सचिविदं सखायम् इति मन्त्रे वेदस्य सखित्वमुदाहृतम् । यद् वा स्वर्गलोके वेदानां सव्ये स्थित्वा अतिशयेन पीतामृतमाहुः । वाचामिना ईश्वराः सभासु प्रगल्भा वा वाजिनाः । तेषु मध्येऽपि एनं वेदार्थकुशलंचोदयितुं न हिम्यन्ति, न केऽपि प्राप्नुवन्ति, तेन सह विवदितुमसमर्थत्वात् । यस्तु अन्यः पाठमात्रपरः पुष्पफलरहितां वाचं शुश्रुवान्भवति । पूर्वकाण्डोक्तस्य धर्मस्य ज्ञानं पुष्पम्। उत्तरकारष्ठोक्तस्य ब्राह्मणो ज्ञानं फलम् । यथा लोके पुष्पं फलस्य उत्पादकं तथा वेदानुवचनादिधर्मज्ञानम् अनुष्ठानद्वारा फलात्मकब्रह्मज्ञानेच्छां जनयति । “तमेव वेदानुवचनेन ब्राह्मणा विदिषन्ति यज्ञेन दानेन तपसा नाशकेन” इति श्रुतेः (बृo. उप. ४।४। २२) । यथा च फलं तृप्तिण्डेस्तथा बह्मज्ञानं कृतकृत्यत्वहेतुः, यत् पूर्णानन्दैकबोधस्तद् ब्रह्माहमस्त्वीति कृतकृत्यो भवति इति श्रुतेः । ( परमहसोपनिषद् ४) तादृशपुण्यफलरहितवेदपाठकः स एष पुमान् अधेन्वा मायया सह चरति । नवप्रसूतिका क्षीरस्य दोग्ध्री गौः प्रीतिण्डेत्वाद् धिनोतीतित्युत्पत्त्या धेनुरित्युच्यते । पाठमात्रपर प्रति वेदरूपा वाग् धर्मब्रह्मक्षानरूप क्षीर न दोक्तप्रीत्यधेनुः । अत एवासौ माया कपटरूपा, ऐन्द्रजालिकनिर्मितगोसद्वशगोरूपत्वात् । तया मायया चह चरत्तय परमषुरुषार्थं न हलभतेइत्यर्थं. । इत्थयास्केन ज्ञानस्तुत्यक्षाननिन्दोदासूरणस्य प्रपञ्चितत्वात् ।
Page 045 (125)
यच्च स्तूयते तद् विधीयते इति न्यायेन अध्ययनवदर्थशानस्यापि विधिरभ्युपगन्तव्यः ।
किञ्च, नक्षत्रेष्टिकाण्डे प्रतीष्टिफलवाक्यं यागतद्वेदनयोः समानमेव आस्रायते – “यथा ह वा अग्निर्देवानामन्नादः, एवं ह वा एष मनुष्याणां भवति व एतेन हविषा यजतेय उ चैतदेवं वेद”इति(तै० ब्रा० ३।१।४।१) । अतो यागवत्फलाय स्ववेदनमपि विधीयते । अनेन न्यायेन सर्व्वष्वपि ब्राह्मणेषु वेदनविधयो द्रष्टव्याः ।
ननु, विद्याप्रशंसेति सूत्रे ( जै० १।२।१५) वेदनफलानां प्रशंसारूपत्वं जैमिनिना सूत्रितमिति चेत्? अस्तु नाम । विद्यमानेनापि फलेन प्रशंसितुं शक्यत्वात् । दर्शयागख्य पूर्णमासयागस्य च अतिपाते सति प्रायश्चित्तरूपां वैश्वानरेष्टिं विधातुं विद्यमानेनैव स्वर्गफलेन स्तुतिः क्रियते –
“सुवर्गाय हि लोकायदर्शपूर्णमासाविल्येते इति ( तै० सं- २।२।५।४) ।
एतच्चाचार्य्यैर्ब्रह्मज्ञानफलवाक्यस्य स्वाथेऽपि तात्पर्यं दर्शयितुमुदाहृतम् –
हच्छाम्येवार्थवादत्वं वचसोऽन्यपस्त्वतः ।
यथावसपभिधायित्वान्न त्वभूतार्थवादता ।।
इज्येते स्वर्गलोकाय दर्शादर्शो यथा तथा ।
न त्यभूतार्थवादत्वं पापश्लोका श्रुतिर्यथा ।।
न च वेदनमात्रेण फलसिद्धी अनुष्ठानवैयर्थ्यत्सति शङ्कनीयम्, फल भूयस्त्वेन परिहृतत्वात् ।
उदाहृतञ्चात्र जैमिनिसूत्रम् –
फलस्य कर्मनिष्पत्तेस्तेषां लोकवत् परिमाणतः सारतो वा फलविशेषः स्यात् ।। ( जै० १।२।१७)
एतच्चास्माभिः तरति ब्रह्महत्यां योऽ,वमेधेन यजते य उ चैनमेव वेद इत्युढाहरणेन व्याख्यातम् ।
छन्दोगाश्च केचरतादनुष्ठानाद् विद्यासीइतेऽनुष्ठाने फलातिशयमामनन्ति – “तेनोभौ कुरुतो यश्चैतदेव वेद यश्च न वेद । नाना तु विद्या । चाविद्या च । यदेव विद्यया करोतिश्रद्धयोपनिषदा तदेव वीर्य्यवत्तरं भवति” (छा० उप० १ ।१। १०) इति । यद्यप्यङ्गाववोधोपास्तिरत्र विद्याशब्देन विवक्षिता, तथापि न्यायः सर्वास्वपि विद्यासु समानः ।
कुतस्तव एतावती वेदने भक्तिरिति चेत् ? कुतो वा एतावांस्तव एषोऽत्र प्रद्वेषः । प्रशंसा त्वस्माभिर्भूयसी दर्शिता, निन्दां. नक्वापि उपलभामहे । किन्तु कर्म्नजन्यमपूर्व यथा मरणादूर्ध्वं जीवेन सह गच्छति तथा विद्याजन्यमपि अपूर्वं गच्छति । तथा च वाजसनेयिन आमनन्ति, - “तं विद्याकर्मणी समन्वारभेते पूर्वप्रषा च” इति (शा०.ब्रा० १४।७।२।३),
Page 046 (126)
(बृo. उप- ४।४।२) । तस्माद् अध्ययनवद् अर्थज्ञानस्यापि विहितत्वाद् अर्थज्ञानाय वेदो व्याख्यातव्यः ।
विषयप्रयोजलसम्वन्धाधिकारिज्ञानमन्तरेण श्रोतृप्रवृत्त्यभावाद् विपयादयो निरूप्यन्ते –
व्याख्यानस्य व्याख्येयोवेदो विपयः । तदर्थज्ञानं प्रयोजनम् । व्याख्यानव्याख्येयभावः सम्बन्धः । ज्ञानार्थी चाधिकारी । यद्यपि एतावत् प्रसिद्ध तथापि वेदस्य विपयाद्यभावे व्याख्यानस्यापि परमविपयादिकं न स्यात् । अतो वेदस्यचतुष्टयमुच्यते ।
वेदे पूर्वोत्तरकाण्डयोः क्रमेण धर्मब्रह्मणी विषयः, तयोरनन्यलभ्यत्वात् । तथा च पुरुषार्थानुशासने सूत्रितम् – “धर्मब्रह्मणी वेदकवेद्ये” इति । जैमिनीये च द्वितीयसूत्रे, चोदनैव धर्मे प्रमाणं, चोदना प्रमाणमेव इति नियमद्वयं सम्प्रदायविद्भिरभिहितम् । चोदनैव इत्यमुमर्थम् उपपादयितु चतुर्थसूत्रे प्रत्यक्षविपयत्वं धर्मस्य निराकृतम् – “प्रत्यक्षमनिमित्ताविद्यभानोपलम्भनत्वाद्” ( जै० १।१।४) इति ।
अनुष्ठानादूर्ध्वमूप्रस्यमानस्य धर्मस्य पूर्वमविद्यमानत्वान्न प्रत्यक्षयोग्यता अस्ति । उत्तरकालेऽपि रूपादिराहित्यान् न इन्द्रियैरवगम्यते । अत एव अदृष्टमिति सर्वैरभिधीयते । लिङ्गराहित्यान्न अनुमानविषयत्बग्नप्यस्ति । सुखदुःखे धर्माधर्मयोर्लिङ्गमिति चेत्? बाढम् । अयमपि लिङ्गलिङ्गिभावोवेदेनैव गम्यते । ततश्चोदनैव धर्मे प्रमाणम् ।
वैयासिकस्य तृतीयसूत्रख्य द्वितोयवर्णके ब्रह्मणः सिद्धवस्तुनोऽपि शास्त्रैकविषयत्वं भाष्यकृद्भिर्व्याख्यातम् । शास्त्रादेव प्रमाणाद्जगतो जन्मादिकारणं ब्रह्म अधिगम्यते इत्यभिप्रायः इति । श्रुतिश्च भवति, -- “नावेदविन्मनुते तं बृहन्तम्' इति ( तै० ब्रा ३।१२।९।७) । तत्रोपपत्तिः पूर्वाचार्यैरेवमुदीरिता – “रूपलिङ्गादिराहित्यान् नास्य मानख्तरयोग्यता” इति । तस्माद् अनन्यलभ्यत्वाद् अस्ति धर्मब्रह्मणोर्वेदविषयत्वम् ।
त्तदुभयज्ञान वेदख्यसाक्षात्प्रयोजनम् । न च तस्य ज्ञानस्य, सप्तद्वीपा वसुमती, राजासौःगच्छति, इत्यादिज्ञानवद् अपुरुषार्थपर्य्यवसायित्व शङ्कनीय, धर्मप्रवृत्तस्य पुरुषार्थस्य स्तूयूमानत्वात् । “धर्मो विश्वस्य जगतः प्रतिष्ठा, लोके धर्मिष्ठं प्रजा उपसर्पन्ति, धर्मेण पापमपनुदन्ति, धर्मे सर्व प्रतिष्ठितम्, कस्माद् धर्मं परम वदन्ति” (तै० आ०१०।६३।७) इति । दुर्वलस्यापि राजसाहाय्यवज्जयहेतुत्वाच्च धर्मः पुरुषार्थ. । तथा च वाजसनेयिनः सृष्टिप्रकरणे समामनन्ति, -- “स नैव व्यभवत्तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत्क्षत्रस्य क्षत्त्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यथो अबलीयान्बलीयां समाशंसते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं वा वदन्तं सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति” इति (बृ. उप. १ ।४1१४), “ब्रह्मविदाप्नोति परम्”, (तै० आ०८।१), “ब्रह्म वेद ब्रह्मैव भवति, ( मुण्ड० ३।
Page 047 (127)
२।।) “तरति शोकमात्मवित्” ( छा० उप० ७।१।३) इत्यादिश्रुतिषु ब्रह्मज्ञानप्रयुक्तः पुरुषार्थः प्रसिद्धः । तदुभयज्ञानार्थी वेदेऽधिकारी । स च त्रैववर्णिकः पुरुषः । स्त्रीशूद्रचोस्तु सत्यामपि ज्ञानापेक्षायाम् उपनयनाभावेन अध्ययनराहित्याद् वेदे अधिकारः प्रतिपिद्धः । धर्मब्रह्मज्ञानं तु पुराणादिमुखेन उत्पद्यते । तस्मात् त्रैवर्णिकपुरुपाणां वेदमुखेन अर्थज्ञाने अधिकारः ।
सम्बन्धस्तु वेदस्य ग्र्घ्रर्मव्रह्मभ्यां सह प्रतिपाद्यप्रतिपादकभावः, तदीयज्ञानेन सह जन्यजनकभावः, त्रैवर्णिकपुरुषैः सह उपकार्योपकारकभावः । तदेवं विषयाद्यनुवन्धचतुष्ट्यमवगत्य समाहितधियः श्रोतारो वेदव्याख्याने प्रवर्त्तन्ताम् ।
अतिगम्भीरस्य वेदस्य अर्थमववोधयितुं शिक्षादानि षडङ्गानि प्रवृत्तानि । अतएव तेषाम्
अपरविद्यारूपत्वं मुण्डकोपनिषदि आथर्वणिका आमनन्ति, - “द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति, परा चैवापरा च । तत्रापरा ऋग्वेदा यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा, यया तदक्षरमधिगम्यते” ( मुण्ड. १।१।४) इति । साधनभूतधर्मज्ञानहेतुत्वात् पडङ्गसहितानां कर्मकाण्डानाम् अपरविद्यात्वम् । परमपुरुपार्थण्वव्रह्मज्ञानहेतुत्वाद् उपनिपदां परविद्यात्वम् ।
वर्णस्वराद्युच्चारणप्रकारो यत्र उपदिश्यते सा शिक्षा । तथा च तैत्तिरीया उपनिषदारम्भे समामनन्ति, -“शीक्षा व्याख्यास्यामः ।वर्णः, स्वकः, मात्रा, वलं, साम, सन्तान इत्युक्तः शीक्षाध्यायः ( तै० आ० ७|२) इति । वर्णोऽकारादिः । स च अङ्गभूतशिक्षाग्रन्धे स्पष्टमुदीरितः –
“त्रिपष्टिश्चतुः षष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ता स्वयम्भुवा ।। (पा० शि० ३) इत्यादिना ।
स्वर उदात्तादिः । सोऽपि तत्रोक्तः –
उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ( पा० शि० ११) ।
मात्रा ह्रस्वादि । सापि तत्र उक्ता –
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि । ( पा० शि० ११) ।
वलं स्थानप्रयत्नौ । तत्र अष्टौ स्थानानि वर्णानाम्' (पा० शि० ११) । इत्यादिना स्थानमुक्तम् । अचोऽस्पृष्टा, यणस्त्वीपद् ( पा० शि० ३८) । इत्यादिना प्रयत्न उक्तः ।
सामशब्देन साम्यमुक्तम्, अतिहुतातिविलम्बितगीत्यादिदोषराहित्येभ माधुर्यादिगुणयुक्तत्वेन उच्चारणं साम्यम् । गीती शीघ्री शिरःकम्पी
Page 048 (128)
(पा०शि० ३२) इत्यादिना, उपांशु दष्टं त्वरितम्' (पा०शि०३५) इत्यादिना दाषाउक्ताः । माधुर्यमक्षरव्यक्तिः (पा०शि० ३३) इत्यादिना गुणा उक्ताः । सन्तानः सहिता-'वायवायाहि' इत्यत्रावादेशः, 'इन्द्राग्नी आगतम्’ इत्यत्र प्रकृतिभावः । एतच्च व्याकरणेऽभिहितत्वात् शिक्षायाम् उपेक्षितम् । शिक्ष्यमाणवर्णातिवैकल्ये वाधस्तत्रोदाहृतः –
“मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्” ।। ( पा० शि० ५२)
'इन्द्रशत्रुर्वर्धस्व इत्यस्मिन् मन्त्रे ( तै० सं० २।४।१२।१) विवक्षितेऽर्थे तत्पुरुषसमासे समासस्य इति (पा० अ० ६।१।२२३) सूत्रेण तत्पुरुपत्वाद् अन्तोदात्तेन भवितव्यम् । आद्युदात्तण्ठ प्रयुक्तः, तथा सति पूर्वपदप्रकृतिस्वरत्वेन बहुव्रीहित्वाद् इन्द्रो घातको यस्य इत्यर्थः सम्पन्नः । तस्मात् स्वरवर्णाद्यपराधपरिहाय शिक्षाग्रन्थोऽपेक्षितः ।
कल्पस्तु आश्वलायनापस्तम्बवौधायनादिसूत्रम्, कल्प्यते समर्थ्यते यागप्रयोगोऽत्र
इति व्युत्पत्तेः ।
ननु आश्वलायनः कि मन्त्रकाण्डमनुसृत्य प्रवृत्तः, कि वा ब्राह्मणमनुसृत्य | नाद्यः, दर्शपूर्णमासौ तु पूर्व व्याख्यास्यामः इत्येवं ( आश्व० सू०१।१।३) तेनोत्कान्तत्वात्, 'न हि अग्निमीळे ' इत्यादयो मन्त्रा दर्शपूर्णमासयोः क्वचिद् विनियुक्ताः । न द्वितीयः, “आग्नावैष्णवमेकादशकपालं निर्वपन्ति दीक्षणीया” इत्येवं दीक्षणीयेष्टेर्ब्राह्मणे (ऐत० ब्रा० १ ।१) प्रक्रान्तत्वात्
अत्रोच्यते । मन्त्रकाण्डो ब्रह्मयज्ञादिजपक्रमेण प्रवृत्तो न तु यागानुष्ठानक्रमेण । ब्रह्मयज्ञश्चैव विहितः-यः स्वाध्यायमधीयीतैकामष्यृच यजुः साम वा तद् ब्रह्मयज्ञ इति ( तै० आ० २।१०।६) । सोऽयं ब्रह्मयज्ञजपोऽग्निमील इत्याम्नायक्रमेणैव अनुष्ठेयः । तथा, सर्वा ऋचः खर्वाणि यजूंषि सर्वाणिं समानि 'वाचःस्तोमे पारिप्लवं शंसति’ इति विधीयन्ते । तथा आश्विने सम्पत्स्यमाने सूर्यो नोदियादपि सर्वा दाशतयीखव्रूयाद्,' इति (आप० श्रौत सूत्र १४।१।२) विधीयते, तथा रिच्यत इव वा एष प्रेव रिच्यते,ऽ यो याजयति प्रति वा गृह्नाति, याजयित्वा प्रतिगृह्य वानञ्जन् त्रिः स्वाध्यायं वेदमर्धायीत इति ( तै० आ- २।१६) प्रायश्चित्तरूपं वेदपारायणं विहितम् । इत्यादिषु कृत्स्नमन्त्रकाण्डविनियोगेषु सम्प्रदायपारम्पर्यागत एव क्रम आदरणोयः ।
विशेषविनियोगं तु मन्त्रविशेपाणां श्रुतिलिङ्गवाक्यादिप्रमाणानि उप-
Page 049 (129)
जीव्य आश्वलायनौ दर्शयति । अतो मन्त्रकाण्डक्रमोभावेऽपि न कश्चिद् विरोध ।
“ईषे त्वा” इत्यादिमन्त्राच्छ क्रत्वनुष्ठानक्रमेणैव आम्नाता इत्यापस्तम्बादयस्त्वेम्यैव क्रमेण दर्शनिरणे प्रवृत्ताः । आम्नातत्वादेव जपादिषु अपि स एव क्रमः ।। यद्यपि ब्राह्मण दीक्षणीयेष्टिरुपक्रान्ता तथापि तस्या इष्टेर्दर्शपूर्णमासविकृप्ष्क्लिंत्वेन तदपेक्षत्वाद् आ'वलायनस्य आदौ तद्व्याख्यानं युक्तम् । अतः कल्पसूत्रं मन्त्रविनियोगेन क्रत्वनुष्ठानमुपदिश्य उपकरोति ।
तर्हि 'प्र वो वाजा' इत्यादीनां सामिधेनीनाम् ऋचामेव विनियोगमाश्वलायनो ब्रवीतु; 'नमः प्रवक्त' इत्यादयस्त्वनाम्नाताः कुतो विनियुज्य्वन्ते (अश्वा सूत्र १ ।२) इति चेत् ? नायं दोषः, शाखान्तरसमाम्नातानां ब्राह्मणान्तरसिद्धन्त विनियोगस्य गुणोपसंहारन्यायेन अत्र वक्तव्यत्वात्; सर्वशाखा-प्रत्वयमेकं कर्म इति न्यायविदः । तस्मात् शिक्षेव कल्पोऽपि अपेक्षितः ।
व्याकरणमपि प्रकृतिप्रूल्ययाद्युपदेशेन पदस्वरूपतदथनिश्चयाय उपयुज्यते । तथा च ऐन्द्रवायवग्रहब्राह्मणे समाम्नायते – “वाग्वै पराच्यव्याकृतावदत्ते देवा इन्द्रमनुब्रुवन्निमां नो वाचे व्याकुर्विति । सोऽव्रवीद्, वरं वृण, मह्यं चैवैष चाद्यत्वे च सह ख्याता इति । तस्माद् ऐन्द्रवायवः सह गृह्यते । तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुद्यते” (तै० स० ६|४|७|३) इति ।
अग्निमीळे पुरोहितमित्यादिवाक् पूर्वस्मिन्काले पराची समुद्रादिध्वनिवदेकात्मिका सत्यज्याकृता, प्रकृतिः प्रत्ययः पदं वाक्यमित्यादिविभागकारिग्रन्थरहिता आसीत् । तदानीं देवैः प्रार्थित इन्द्र एकस्मिन् एवं पात्रे वायोः स्वस्य च सोमरसग्रहणरूपेण वरेण तुष्टस्तामखण्डा वाचं मध्ये विच्छिद्य प्रकृतिप्रत्ययादिविभागं सर्वत्र अकरोत् । तस्मादियंवगिऽइदानीमपि पाणिन्यादिमहर्षिभिर्व्याकृता सर्वैः पट्यते इत्यर्थः ।
तस्य एतस्य व्याकरणस्य प्रयोजनविशेषो वररुचिना वार्तिके दर्शितः – “रक्षोहागमलघ्वसन्देहाः प्रयोजनम्” इति । एतानि रक्षादिप्रयोजनानि प्रयोजनान्तराणि च महाभाष्ये पतञ्जलिना स्पष्टीकृतानि ( महाभाष्यस्य पस्पशाह्निके) । रक्षार्थं वेदानामध्येयं व्याकरणम् । लोपागमवर्णविकारज्ञो हि सम्यग् वेदान् परिपालयिष्यति वेदार्थं चाध्यवस्यति । ऊहः खल्वपि; न सर्वैर्लिद्गैर्न च सर्वाभिर्किभक्तिभिवेदे मन्त्रा निगदिताः; ते च अवश्यं यज्ञाङ्गत्वेन यथायथं विपरिरामयितव्याः । तान्नावैयाकरणः शक्रोति विपेरिणमयितुम् तस्मादध्येयं व्याकरणम् । आगमः खल्वपि; "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोsध्येयो ज्ञेयश्चेति।" (महाभाष्य-पस्पशाह्निक) इति । प्रधानञ्च षट्सु अङ्गेषु
Page 050 (130)
व्याकरणम्। प्रधाने च कृतो यत्नः फलवान् भवति। लध्वर्थं चाध्येयं व्याकरणम्। बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच, नान्तं जगाम; बृहस्पतिश्च वक्ता, इन्द्रश्च अध्येता, दिव्यं वर्षसहस्रम् अध्ययनकालः, अन्तं च न जगाम। अद्यत्वे पुनर्यदि परमायुर्भवति स वर्षशत जीवति। तव कुतः प्रतिपदपाठेन सकलपदावगमः, कुतस्तरां प्रयोगेण ? असन्देहार्थं चाध्येयं व्याकरणम्। याज्ञिकाः पठन्ति - स्थूलपृषतीमाग्निवारुणीमनङ्वाहीमालभेत इति। तत्र, न ज्ञायते। किं स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती, किं वा स्थूला चासौ पृषतीति। तान् नावैयाकरणः स्वरतोऽध्यवस्यति। यदि समासान्तोदात्तत्वं तदा कर्मधारयः, अथ पूर्वपदप्रकृतिस्वरत्वं ततो बहुव्रीहिरिति।
इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि - ते ऽसुराः, दुष्टः शब्दः, यदधीतम्, यस्तु प्रयुक्ते, अविद्वांसः, विभक्तिं कुर्वन्ति, यो वा इमाम्, चत्वारि, उत त्वः, सक्तुमिव, सारस्वतीम्, दशम्यां पुत्रस्य, सुदेवोऽसि वरुण इति ।
ते ऽसुराः –
ते ऽसुराः हेलयो हेलय इति कुर्वन्तः परावभूवुः । तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै । म्लेच्छो इ वा एव यदपशब्दः । म्लेच्छा मा भूम इत्यध्येयं व्याकरणम् ।
दुष्टः शब्दः –
'दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वागत्र्यवज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्।।' ( पा० शि० ५२)
दुष्टान् शब्दान्मा प्रयुदमहीति अध्येयं व्याकरणम् ।
यदधीतम् –
(१)पयदधीतमविज्ञातं निगदेनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ।।
अविज्ञातार्थकं माधिगीष्महिइति अध्येयं व्याकरणम् ।
यस्तु प्रयुक्ते –
यस्तु प्रयुक्ते कुशलो विशेषे शब्दान्यथावद् व्यवहारकाले ।
सोऽनन्तआन्मोति जयं परत्र वाग्योगविद द्रुष्यति चापशन्यै(२) ।
कः ? वाग्योगविदेव । यो हि शब्दान् जानोति अपशब्दान् अप्यसौ ज्ञानाति । यथैव शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽपि अधर्मः प्राप्नोति ।
Foot Note: -
(१) यदधीतमित्यस्य स्थाने निरुक्ते (१।६।१) 'यद्गृहीतमिति’ पाठो दृश्यते ।
(२) कात्यायनोक्तभ्राजाख्यश्लोकमध्ये पठितः|
Page 051 (131)
भूयांसो हि अपशब्दा अल्पीयांसः शब्दाः; एकैकल्य हि शब्दस्य वहवोऽपभ्रथाः; 'यथा – गौरित्येतस्य शब्दस्य गावी गोणी गोता गोशेतलिकेत्येव मादयः। अथ योऽवाग्योगविद् अज्ञानं तस्य शरणम्। विषम उपन्यासः। न अत्यन्तायाज्ञानं शरणं भवितुमर्हति। यो हि अजानन् वै ब्राह्मणं हन्यात् सुरां वा पिवेत् सोऽपि मन्ये पतितः स्यात्। एवं तर्हि कः अवाग्योगविदेव । अथ यो वाग्योगविद् ज्ञान तस्य शरणम् ।
अविद्वांसः –
अविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुः ।
कामं तेषु तु विप्रोप्य स्त्रीष्विवायमह वदेत् ।।
स्त्रीवन्मा भूम इत्यध्येयं न्याकरणम् ।
विभक्तिं कुर्वन्ति –
याज्ञिकाः पठन्ति, “प्रयाजाः(१) सविभक्तिकाः कार्य्या:” इति । न च अन्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्त्तुम् । तस्मादध्येयं व्याकरणम्।
यो वा इमाम् –
यो वा इमां पदशः स्वरशोऽक्षरशो वर्णशो वाचं विदधाति स आर्त्विजीनो भवति ।
आर्त्विजीनाः स्याम इत्यध्येयं व्याकरणम् ।
चत्वारि –
(२)चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या आविवेश ।। ( ऋ० ४|५८|३)
चत्वारि शृङ्गा, चत्वारि पदज्जातानिनामाख्यातोपसर्गनिपाताः । त्रयो अस्य पादास्त्रयः कालाः । ब छ सुपस्तिङश्च । सप्तहस्तासः सप्त
Foot Note: -
(१) प्रयाजमन्या उह्यमानाग्निशब्दप्रकृतिकविभक्तियुक्ता इत्यर्थ, । यथा – समिध समिधोऽग्न आज्यस्य व्यन्तुअग्नेञ्जन इति कैयटः ।
(२) गूढार्थाभिसम्पन्नोऽयं मन्त्र स्वशास्त्राचुकूलं विविधविधं व्याख्यातो विभिच्चैः शास्त्रकृद्भि: । तत्र महादेवात्त्वकस्य शब्दस्य स्वरूपवर्णनमिति भगवान्पतञ्जलिः । काव्यपुरुपस्य स्वरूपवर्णनेति कविशेखरो राजशेखः (काव्यमीमांसाया द्वितीयाध्याये) । यज्ञपुरुषस्य नियतस्वरूपप्रतिपादनमिति निरुक्तिभास्करो यास्कः (निरुक्त परिशिष्टे १३।७) । पातञ्जलं मतमुपरिष्टात्वर्णितमेव । राजशेखरमतं तुकाव्यमीमांसायामवलोकनीयम् । निरुक्तकारस्याभिप्रायस्तु निरुक्तपरिशिष्टतो (१३|७) ज्ञेय । मन्त्रस्यास्य व्याख्यानावसरे सायणाचार्या एवमाहुः – यद्यपि सूक्तस्यास्याग्निसूर्यादि पञ्चदेवताकत्वात्पञ्चधाऽयं मन्त्रो व्याख्येयः, तथापि निरुक्तद्युक्तनीत्या यज्ञात्मकाग्नेः सूर्यल्य च प्रकाशत्वेन तत्यरतया व्याख्यायते । शाब्दिकास्तु शब्दब्रह्मपरतया व्याचक्षते । अपरे तु अपरथा । इति
Page 052 (132)
विभक्तयः । त्रिधा वद्धः, त्रिषु स्थानेषु वद्धः, उरसि करष्ठे शिरसि । वृषभो वर्षणात् कामानाम् । रोरवीति, रौतिः शब्दकर्मा । ग्रहो देवो मर्त्या आविवेश। महता देवेन नस्तादात्म्यंयथा स्यादित्यध्येयं व्याकरणम् ।
अथवा, चत्त्वारि –
(१)पचत्वारि वाक्परिमिता पदानि तानि विदुर्ग्राह्मणा ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ।। ( ऋ० १।१६४।४५)
ये मनीषिणः, मनस ईषिणो मनीषिणा । गुहायां त्रीणि निहितानि नेङ्गयन्ति न चेष्टन्ते । तुरीयं वाचो मनुष्या वदन्ति। तुरीयं ह वा एतद् वाचो यन्मनुष्येपु वर्त्तते ।
उत त्वः –
(२)उत त्वः पश्यन् न ददर्श वाचमुत त्वः श्रृण्वन्न श्रृणोत्येनाम् ।
उतो त्वस्मै तन्वं विसस्रे जायेव पत्ये उशती सुवासाः ।। ( ऋ० १०|७१|४)
अपि खलु एकः पश्यन् अपि न पश्यति श्रृण्वन् अपि न श्रृणोति एनाम्। अविद्वांसमाह अर्द्धम् । त्वस्मै अन्यस्मै तन्व विसस्रे, तनुं विवृणुते । जायेव पत्य उशती सुवासाः । यथा जाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते एवं वाग् वाग्विदे स्वम् आत्मानं विवृणुते । वाक्रस्वं नो विवृणुयादित्यध्येयं व्याकरणम् ।
सक्तुमिव –
(३)सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
अत्रा सखायः सख्यानि जानते भदैषां लक्ष्मीर्निहिताधि वाचि ।। ( ऋ० १०।७१।२)
सक्तुःस्रचत्तेर्दुर्धावोभवति । कसतेर्वा स्यात्तु विपरीतस्य, विकसितो भवति । तितउ परिपवनं भवति; ततवत् वा तुन्नवद् वा । धीराः प्रज्ञानवन्तो ध्यानवन्तो मनसा प्रज्ञानेन वाचमक्रत वाचमकृपत । अत्रा सखायः सख्यानिजानतेसायुज्यानि जानते । क्व? एष दुर्गमो मार्गएकगम्यो वाग्-
Foot Note:-
(१) निरुक्तपरिशिष्टे मन्त्रस्यास्य व्याख्यायां (नि० १३।१) चत्वारि पदानि विविधविधान्येव प्रतिपादितानिबिभिन्तैर्विद्वद्भि स्वस्वशास्त्राभिप्रायमनुरुणद्भि' । तानि च यथा –
“ओंकारो महाव्याहृतयश्चेल्यार्पम् । नामाख्याते चोपसगेम्प्रिपाताश्चेति वैयाकरणाः । मन्त्रः कल्पो व्याकरणं चतुर्थी व्यावहारिकीति याज्ञिका । ऋचो यजूंषि सामानि चतुर्थी व्यावहारिकीति नैरुक्ताः | सर्पाणा वाग, वयसां, क्षुद्रस्य सरीसृपस्य, चतुर्थी व्यावहारिकीत्येके (अधिभूतविद) । पशुषु तूणवेषु मृगे त्वात्मनि चेत्याल्मप्रवादा ।
(२) निपुणं व्याख्यातोऽयं मन्त्रो निरुक्तकाणेयास्केन । (नि० १।१९)
(३) भगवता यास्केन निरुक्तस्य चतुर्थाध्यायस्य नवमे खण्डे मन्त्रो ऽयं व्याख्यायि ।
Page 053 (133)
विषयः । के पुनस्ते ? वैयाकरणाः । कुत एतत् ? भद्रैषां लल्मीर्निल्लिधि वाचि । वपां वाचि भद्रा लक्ष्मीर्निहिंता भवति ।
सारम्बतीम् –
याज्ञिकाः पठन्ति, “आहिताग्निः अपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वती इष्टिं निर्वपेतिति इति ।
प्रायश्चित्तीया मा भूम इत्यध्येयं व्याकरणम् ।
दशम्यां पुत्रस्य –
दशम्यां पुत्रस्य जातस्य नाम विदध्याद् घोपवद् आद्यन्तरन्तःस्थमभिनिष्ठान्तं द्व्यक्षरं वा । कृत नाम कुर्य्यान्न तद्धितान्तमिति ।
न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विशातुम् । तस्मादध्येयं व्याकरणम् ।
सुदेवो असि-
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
अनुक्षरन्ति काकुदं सूक्ष्मग् सुषिरामिव ।। (ऋ० ८।६९।१२)
सप्त सिन्धव सप्त विभक्तयः । काकुद् जिह्वा सास्मिन् विद्यते इति काकुदं तालु । सूर्मिः स्थूला लोहप्रतिमेति ।
एवं 'सिद्धोशत्र्दार्थसम्बन्धः’ इत्यादिवार्तिकोक्तानिअत्रापि प्रयोजनानि अनुसन्धेयानि ।
अथ निरुक्तप्रयोजनमुच्यते । अर्थावबोधे निरपेक्षतया पदजातं
यत्रोक्तं तन्निरुक्तम् । गौः, म्भा, आ, क्ष्मा, क्षा, क्षमेत्यारभ्य, वसवः, वाजिनः, देवपत्न्यो देवपह्वय इत्यन्तो यः पदानांसमाम्नायः समाम्नातस्तस्मिन् ग्रन्थे पदार्थावयोधाय परापेक्षा न विद्यते । एतावन्ति पृथिवीनामान्येतावन्ति हिरण्यनामानीत्येवं तत्र तत्र विस्पष्ट्यभिदितत्वात् । तदेतन्निरुक्तं त्रिकाण्डम् । तस्य अनुक्रमणिकाभाष्येदर्शितम् –
आद्यं नघण्टुकं काण्डांद्वितीयं नैगमं तथा ।
तृतीयांदैवतञ्चेति समाम्नायस्त्रिधा स्थितः ।।
गौराद्यापारपर्य्यन्तमाद्यं नैघण्टुकं मतम्।
जहाद्युल्वमृवीसान्तं नैगमं सम्प्रचक्षते ।।
अग्न्यादिदेवपत्न्यन्तं देवताकाण्डमुच्यते ।
अग्न्यादिदेवीऊर्जाहुत्यन्तः क्षितिगतो गणः ।।
वाय्वादयो भगान्ताः स्युरन्तरिक्षस्थदेवताः |
सूर्यादिदेवपत्न्यन्ता द्युस्थाना देवता इति ।
गौरादिदेवपत्न्यन्तं समाम्नायमधीयते ।।'’
एकार्थवाचिनां पर्यायशव्दानां सङ्गो यत्र प्रायेण उपदिश्यते तत्र
Page 054 (134)
निघण्टुशब्दः प्रसिद्धः । तादृशेषु अमरसिंहवैजयन्तीहलायुधादिषु दश निधण्डव इति व्यवहारात् । एवमत्रापि पर्यायशव्दसङ्घोपदेशाद् आद्यकाण्डस्य नैघण्टुकत्वम्। तस्मिन्काण्डे त्रयोऽध्यायाः । तेषु प्रथमे पृथिव्यादिलोकदिक्कालादिद्रव्यविषयाणि नामानि । द्वितीये मनुष्यतदवयवादिद्रव्यविषयाणि । तृतीये तदुभयद्रव्यगतवहुत्वह्रस्वत्वादिधर्मविषयाणि ।
निगमशब्दो वेदवाचो, यास्केन तत्र तत्रापि निगमो भवतीत्येवं वेदवाक्यानाम् अवतारितत्वात् । तस्मिन् निगम एव प्रायेण वर्तमानानां शब्दानां चतुर्थाध्यायरूपे द्वितीयस्मिन्काण्ड उपदिष्टत्वात् तस्य काण्डस्य नगमत्वम् ।
पञ्चमाध्यायरूपस्य तृतायकाण्डस्य दैवतत्वं विस्पष्टम् ।
पञ्चाध्यायरूपकाण्डत्रयात्मके एतस्मिन् ग्रन्थे परनिरपेक्षतया पदार्थस्य उक्तत्वात्तस्य ग्रन्थस्य निरुक्तत्वम् । तद्व्याख्यानञ्च समाम्नायः समाम्नात इत्यारभ्य तस्यास्तस्यास्ताद्भाव्यमनुभवत्यनुभवतीत्यन्तैर्द्वादश भिरध्यायर्यास्को निर्ममे । तदपि। निरुक्तमित्युच्यते, एकैकस्य पदस्य सम्भाविता अवयवार्थास्तत्र निःशेषेण उच्यन्ते इति व्युत्पत्तेः । तत्र हि, चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्चेति प्रतिज्ञाय, उच्चावचेधु अर्थेषुनिपतन्तीति निपातस्वरूप निरुच्य एवमुदाहृतम्-नेति प्रतिषेधार्थीयो भाषायामुभयमन्वध्यायं नेन्द्र देवममसत' इति प्रतिषेधाथींय इति, 'दुर्मदासो न सुरायामित्युपमार्थीय इति च (नि १।४) । तच्च लोके केवलप्रतिषेधार्थीयस्यापि नकारस्य वेदे प्रतिषेधोपमालक्षणोभयार्थोदाहरणमस्मिन ग्रन्थेऽवगम्यते । एवं ग्रन्थकारेण उक्तास्तत्तत्पदनिर्वचनविशेषास्तत्तन्मन्त्रव्याख्यानावसरे एव अस्याभिरुदाहरिष्यन्ते । न च निर्वचनानां निर्मूलत्वं शङ्कनीयम् एतद्व्युत्पत्त्यर्थमेव ब्राह्मणेषु पदनिर्वचनानां केषाञ्चियुक्तत्वात् – “तदाहुतीनाम् आहुतित्वम्” इति (ऐत० ब्रा० १।१।२) “तमिदन्द्रं सन्तमिन्द्र इत्याचक्षत” इति (ऐत० आ० २।४।३) “यदप्रथयत् तत् पृथिव्याः पृथिवीत्वम्” इति च (तै० ब्रा० १।१।३।७)। ग्रन्थकारोऽपि तत्र तत्र स्वोक्तनिर्वचनमूलभूतब्राह्मणानि उदाहरिष्यति। केषाञ्चिन् निर्वचनानां व्याकरणवलेन सिद्धावपि न सर्वेषां सिद्धिरस्ति। अत एव ग्रन्थकार आह – “तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्न्य स्वार्थसाधकञ्च” इति (नि० १।१५) । तस्माद् वेदार्थावबोधाय उपयुक्त निरुक्तम्।
तथा छन्दोग्रन्थोऽपि उपयुज्यते छन्दो “तस्मात् सप्त चतुरुत्तराणि छन्दांसि प्रातरनुवाकेऽनूच्यन्ते” (तै० ब्रा० १।५।१२।१) इति हि आम्नातम्। गायत्र्युष्णिगनुष्टुप्बृहतीपङ्क्तित्रिष्टुब्जगतीत्येतानि सप्त छन्दांसि। चतुर्विंशत्याक्षरा गायत्री। ततोऽपि चतुर्भिरक्षरैरधिका अष्टाविंशत्यक्षरा उष्णिक्
Page 055 (135)
एवमुत्तरोत्तराधिका अनुष्टुवादयोऽवगन्तव्याः । तथा अन्यत्रापि श्रूयते – गायत्रीभिर्ब्राह्मणस्यादध्यात्, त्रिष्टब्भी राजन्यस्य, जगतीभिर्वैश्यस्य इति (तै० ब्रा०१।१।९।६) । तत्र मगणयगणादिसाध्यो गायत्र्यादिविवेकश्छन्दोग्रन्थमन्तरेण न सुविज्ञेयः । किञ्च, यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेनमन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्ते वा पात्यते प्रमीयते वा पापीयान्भवति । ( का० १ । १) तस्मादेतानि मन्त्रे मन्त्रे विद्यामिति श्रूयते । तस्मात् तद्वेदनाय छन्दोयत्तथ उपयुज्यते ।
ज्योतिपस्य प्रयोजनं तस्मिन्नेव ग्रन्थे विहितम् – “यशकालार्थसिद्धये” इति । कालविशेषविधयश्च श्रूयन्ते –“सम्वत्सरमेतद् व्रतं चरेत्” (तै० ब्रा० १।५।३४) सम्वत्सरमुख्यं भृत्वा इत्येवमादयः संवत्सरविधयः; वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीष्मे राजन्य आदधीत, शरदि वैश्य आदधीत (तै० ब्रा०१।१) इत्याद्या ऋतुविधयः;
“मासि मासि सत्रपृष्ठानि उपयन्ति, मासि मासि अतिग्राह्या गृह्यन्ते” ( तै० सं० ७।५।१५) इत्याद्या भासविधयः, यं कामयेत वसीयान्स्यादिति तं पूर्वपक्षे याजयेद् ( तै० सं० २।२।३।१) इत्याद्याः पक्षविधयः; एकाष्टकायां दीक्षेरन् , फल्गुनीपूर्णमासे दीक्षेरन्' ( ता० प्र० ५।९।१७) इत्याद्याम्लिथिविधयः; प्रातर्ज्जदोति; सायं जुहोति (तै० ब्रा० २।१।२) प्रातःकालादिविधयः; कृत्तिकास्वग्निमादधीत (तै० ब्रा० १।१।२।१) इत्याद्यानक्षत्रविधयः । अतः कालविशेषान् अवगमयितुं ज्योतिषमुपयुज्यते।
एतेषां च वेदार्थोपकारिणां पण्णां ग्रन्थानां वेदाङ्गत्वं शिक्षायामेवमुदीरितम् –
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।।
शिक्षाघ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ।। (पा० शि० ४१-४२)
षडङ्गवत्पुराणादीनामपि वेदा र्थज्ञानोपयोगो याज्ञवल्क्येन स्मर्यते –
“पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ।।” ( या० स्मृ० १।३)
द्वतिहाखपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभ्येत्यल्पश्रुताद् वेदो मामयं प्रहरेदिति ||” (म० भा० १।१।२६७)
इत्यन्यत्रापि स्मर्यते ।
ऐतरेयतैत्तिरीयकाठकादिशखासूक्तानि हरिश्चन्द्रनाचिकेताद्युपाख्यानानि
Page 056 (136)
धर्मब्रह्मावबोधोपयुक्तानि तेषु तेषु इतिहासग्रन्थेषु स्पष्टीकृतानि । उपनिषदुक्ताश्च सृष्टिस्थितिलयादयो ब्राह्मपाद्मवेष्णवादिपुराणेषु स्पष्टीकृताः –
“सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितञ्चेति पुराणं पञ्चलक्षणम्' ।। (वि० पु० ३।६।२५)
इति सृष्ट्यादेः पुराणप्रतिपाद्यत्वावगमतात् । न्यायशास्त्रे प्रमाणप्रमेयसंशयप्रयोजनद्वष्टान्तादीनां षोडशपदार्थानां निरूपणात् तदनुसारेरग इदं वाक्यमस्मिन् अर्थे प्रमाणं भवति नेतरद् इति निर्णयः कर्त्तुं शक्यते । पूर्वोत्तरमीमासयोर्वेदार्थोपयोगो ऽतिस्पष्ट एव । मन्वत्रिविष्णहारीतादिप्रोक्तासु स्मृतिषु वेदोक्तसन्ध्यावन्दनादिविधयः प्रपञ्चिताः । तदु ह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः सन्ध्यायां गायत्र्याभिमन्त्रिता आपः ऊर्द्ध्व विक्षिपन्ति इत्यादिकः (तै० आ० २।२।२) सन्ध्यावन्दनविधिः । पञ्च वा एते महायज्ञाः सतति प्रतायन्ते (तै० आ० २।१०) इत्यादिको महायज्ञविधिः । एवं विध्यन्तराणि द्रष्टव्यानि । उक्तप्रकारेण पुराणादीनां वेदार्थज्ञानोपयोगाद् विद्यास्थानत्वं युक्तम् । एतैः पुराणादिभिश्चतुर्दशभिर्धिद्यस्थानैरुपबहिताया विद्याया ग्रहणे ऽधिकारिविशेषः शाखान्तरशतैश्चतुर्भिर्मन्त्रैरुपदर्शितः । तांश्च मन्त्रान्यास्क उदाजहार (नि० २।४) ।
तत्रायं प्रथमो मन्त्रः-
(१)विद्या ह वै ब्राह्मणमाजगाम गोपाय मा शेवधिष्टेऽश्मस्मि ।
असूयकायानृजवे ऽयताय न मा ब्रूया वीर्यवती तथा स्याम् ।।
विद्याभिमानिनी देवता ब्राह्मणमुपदेष्टारमाचार्य्यमागत्य एवं प्रार्थयामास । हे ब्राह्मण, मामनधिकारिणे ऽनुपदिश्य पालय । तवाहं निधिवत् पुरुषार्थहेतुरस्मि । तादृश्यां मयि मदुपदेष्टरि त्वयि च योऽसूयां करोति, यश्च आर्जवेन विद्यां नाभ्यस्यति, योऽपि स्नानाचमनाद्याचारनियतो न भवति ताद्वशेभ्यः शिष्याभासेभ्यो मां न ब्रूयाः, तथा सति त्वद्हृदये स्थित्वा फलप्रदा भवेयम् ।
अथ द्वितीयो मन्त्रः-
य आतृणत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं संप्रयच्छन् ।
(२)तं मन्येत पितरं मातरश्च तस्मै न द्रह्येत् कतमञ्जनाह ।।
पूर्वख्यिन्भन्त्रे आचार्यस्थ नियममभिधाय अस्मिन् मन्त्रे शिष्यस्य नियमोऽभिधीयते । वितथममृतमपुरुषार्थभूतं लौकिकं वाक्यम्; तद्विपरीतं
Foot Note: -
(1)मनुरपि अस्यैवमन्त्रस्यार्थंनित्यं प्रक्कीचकार स्वीयस्मृतौ –
विद्या माहणमेल्याह शेवधिस्तेऽस्त्वि रक्ष माम्।
असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ।। (म० स्मृ० २|११४)
(2)तथा मनु – उत्पाक्यब्रह्मदात्रोगेरीयान ब्रह्मदः पिता ।
ब्रह्मन्न हि विप्रस्य प्रेत्य चेह च शाश्वतम् ।। (म० स्मृ० २|१४५)
Page 057 (137)
सत्यं वेदवाक्यमवितथम् । तादृशेन वाक्येन य आचार्यः शिष्यस्य कर्णावातृणत्ति सर्वतस्तर्दनं पूरणं करोति । उपञ्चर्गवशादौचित्याच्च तृणत्ति धातोरर्थान्तरे वृत्तिः। सर्वदा वेदं यः श्रावयति इत्यर्थः । किं कुर्वन् ? अदुःखं कुर्वन् । मन्दप्रज्ञस्य माणवकस्य आदावर्धर्चमृच वा ग्रहीतुनशक्तस्य यथा दुःखं न भवति तथा पदं पादैकदेशं वा ग्राहयन् । किञ्च, अमृतं सम्प्रयच्छन् । अमृतत्वस्य देवजन्मनो मोक्षस्य वा प्रापकत्वाद् अमृतं वेदार्थः। तस्य प्रदानं कुर्वन् । तं तादृशम् आचार्यं सम् शिष्यो मुख्यमातापितृरूपं मन्येत । पूर्वसिद्धौ तु मातापितरावधमस्य मनुष्यशरीरस्य प्रदानादमुख्यौ । तस्मै मुख्यमातापितृरूपाय आचार्य्याय एकमपि द्रोहं न कुर्यात् ।
अथ तृतीयो मन्त्रः -
अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा ।
यथैव ते न गुरोर्भोजनीयस्तथैव तान्न भुनक्ति क्षुतं तत् ।।
ये त्वधमा विप्रा गुरुणा अध्यापिताः सन्तो विनयोक्त्या तदीयद्वितचिन्तनेन शुश्रूषया वा गुरुं नाद्रियन्त आदररहितास्ते शिष्याभासा गुरोर्न भोजनीया अनुभवयोग्यान भवन्ति, न हि तेषु गुरुः कृपां करोति । यथैव गुरुणा ते न पालनीयास्तथैव तानधमान् शिष्यान् तच्छ्रतं गुरूपदिष्टं वेदवाक्यं न पालयति, फलप्रदं न भवति इत्यर्थः ।
अथ चतुर्थो मन्त्रः -
(१)यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
यस्ते न द्रुह्येत् कतमञ्चनाह तस्मै मा ब्रूया निधिपायब्रह्मन् ।।
हे आचार्य, यमेव मुख्यशिप्य शुचित्वादिशुणोपेतं जानीयाः, किञ्च यो मुख्यशिष्यस्तुभ्यं कदाचिदपि न द्रूह्येत, तस्मै तु मुख्यशिष्याय त्वदीयनिधिपालकाय हे ब्रह्मन् वेदरूपां मां विद्यां ब्रूयाः । इत्थं विद्यादेवतया प्रार्थितत्वाद् आचार्येण मुख्यशिष्याय वेदविद्या उपदेष्टव्या ।
तदर्थमृग्वेदोऽस्माभिः षडङ्गानुसारेण व्याख्यायते ।
इति ऋग्वेदसंहितायाः भाष्यभूमिका ।
<0>-----
Foot Note:
(1)मन्त्रार्थोऽयं मनुनापि प्रतिपादित –
यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ।। (म० स्मृ० २ । ११५)
Page 058 (141)
सामवेदसंहितायाः
भाष्यावतरणिका ।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ।। १ ।।
यस्यनिःश्वसितं वेदा योःवेदेभ्योऽखिलं जगत् ।
निर्ममे तमहावन्दे विद्यातीर्थमह्येवरम्।। २ ।।
तत्कटाक्षेण तत् पं दधद् बुलत्मद्वीपतिः ।
आदिशत्सायणाचाय्य वेदार्थस्य प्रकाशने ।। ३ ।।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसङग्रहात् ।
कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः ।। ४ ।।
सामवेदार्थमेपोऽत्र1ंप्रकाशयति सादरम् ।।
उद्गातुस्तत्त्वजिज्ञासोरपि तेन कृतार्थता ।। ५ ।।
यलोव्रत्व च वेदेषु द्वावर्थौ काण्डयोर्द्वयोः ।
अध्वर्युमुख्यैऋत्विग्भिश्चतुर्भिर्यज्ञसम्पदः ।। ६ ।।
निर्भिमीते क्रियासङ्घैरध्वर्युर्यबियं वपुः ।
तदलङ्गुर्वते होता व्रह्मोशतेत्यमी त्रयः ।। ७ ।।
शस्त्रयाज्यानुवाक्याभिर्होताऽलदुरुतेऽश्न्यरम्।
आज्यपृष्ठादिभिः स्तोत्रैरुद्गाताऽलङ्करोत्यमुम् ।। ८ ।।
त्रयाणामपराधं तु ब्रह्मा परिहरेत्सदा ।
ऋचां त्वइति मन्त्रेऽसावर्थासर्वोऽभिधीयते ।। ९ ।।
यज्ञं यलुर्भिरध्वर्युर्निर्मिमीते ततो यजुः ।
व्याख्यातं प्रथमं पश्चाहचां ध्याख्यानमीरितम् ।। १० ।।
साम्नाच्चास्थ्व्रितत्वेन सामव्याख्याऽथ वरर्ह्यते ।
अनुतिष्ठासुजिज्ञासावशाद् व्याख्याक्रभो ह्ययम् ।। ११ ।।
ञ्जाते देहे भवत्यस्य कटका।क्षबभूपणम् ।
आश्रितं मणिमुक्तादिःकटकादौ यथा तथा ।। १२ ।।
यजुर्जाते यकदेहे स्याहभ्भिस्तद्विभूषणम्।
सामाख्या मणिमुत्तगद्या ऋक्षु तासु समाश्रिताः ।। १३ ।।
Page 059 (142)
नन्वध्वर्युहोत्रुद्गातृव्रह्मकर्त्तव्यप्रतिपादको यं मन्त्रस्तस्यार्थो योजनीय इति चेत् । योज्यते –
ऋचां त्वः पोषमास्ते षुषुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमभीत उ त्वः (ऋ० १०|१७|११)
इत्येष मन्त्रः । तस्यायमर्थः त्वशब्दः सर्वनाभसु पठितः एकशब्दः पर्यायः, एको होतृनामकः ऋत्विक् तत्र तत्र विप्रकीर्णत्वेनाधीतानामृचां यशानुष्ठानकाले सङ्घीभावमापाद्य पुष्टि कुर्वन्नास्ते । एक उद्गातृनामकः शक्वर्युपलक्षितच्छन्दोविशेषयुक्तास्वृक्षु गायत्रादिनामकं साम गायति । एको ब्रह्मनामको होत्रादीनां वेदत्रयविषये यस्मिन् कस्मिंश्चिदपराधे जाते तत्प्रतीकाररूपां विद्यां वदति । अत एव च्छन्दोगा आमनन्ति यज्ञस्य हैष भिषग् यद ब्रह्मा यज्ञायैव तद् भेषजं कृत्वा हरतिइति, यदि यज्ञ ऋक्त आर्त्तिर्भवति भूरिति ब्रह्मा गार्हपत्ये जुहुयात्' इत्यादि च । एकस्त्वध्वर्युर्यज्ञस्य मावामिमुचां विमिमीते' विशेषेण परिच्छिनत्ति इति |
ननु वेदार्थप्रकाशकेऽस्मिन्ग्रन्थे वेदानां व्याख्येयत्वे सति तत्परित्यज्य यजुरादिक व्याख्येयत्वेनोपन्यसितुमयुक्तम् इति चेत् ? नायं दोषः, मन्त्रविशेषवाचकैर्यलरादिशव्दैस्तत्तन्मन्त्रोपेतानां वेदानामुपलक्षितत्वात् ।
ननु मन्त्रवेदयोः को विशेषः इति चेत् ? उच्यते मन्त्रब्राह्मणसमष्टिर्वेदः । तथा चापस्तम्बः स्मरति “मन्त्रब्राह्मणयोर्वेद इति नामधेयम्” (तन्त्रवार्तिक 1.3.10) इति । वेदैकदेशयोर्मन्त्रब्राह्मणयोः पृथक्स्वरूपं, जैमिनिन्यायेन निर्णीतणान् । तत्र मन्त्रस्वरूपनिर्णयं द्वितीयाध्यायस्य प्रथमपादे सप्तमाधिकरणे न्यायविस्तरकार इत्थमुदाजहार –
अहै बुध्निय मन्त्रं मे इति मन्त्रस्य लक्षणम् ।
नास्त्यस्ति वाऽस्य नास्त्येतदव्यान्त्यादेरवारणात् ।।
याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् ।
तेऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते ।। (जै० न्या० मा० २।१।७)
आधाने इदमाम्नायते 'अहे बुध्निय मन्त्रं मे गोपाय' (तै० ब्रा० १।२।१।८६) इति । तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्यास्त्वोर्वारयितुमशक्यत्वात् । ‘विहितार्थाभिधायको मन्त्रः' इत्यक्ते 'वसन्ताय कपिञ्जलानालभते' इत्यस्य मन्त्रस्य (वा० सं० २४।२०) विधिरूपत्वादव्याप्तिः । 'मननहेतुर्मन्त्रः' इत्युक्ते ब्राह्मणेऽतिव्याप्तिः, । एवम् 'असिपदान्तो मन्त्रः' 'उत्तमपुरुषान्तो मन्त्रः' इत्यादिलक्षणानां परस्परमव्याप्तिः इति चेत् ? मैवम्,यांह्लिकसमाख्यानस्य निर्दोषलक्षणत्वाद् । तच्च समाख्यानमनुष्ठान-
Page 060 (143)
स्मोरकोर्दीनांमन्त्रत्वं गमयति । उरुप्रथस्वेत्यादयो (तै० सं०६।२।७।३) ऽनुष्ठानस्मारकाः [१] अग्निमीळे पुरोहित (ऋ० सं० १।१।१) मित्यादयः स्तुतिरूपाः [२] ईषे त्व (वा० सं० १।१) इत्यादयस्त्वन्ताः [३] अग्न आ याहि वीतये (सा० सं० १।१) इत्यादय आमन्त्रणोपेताः [४] अग्निदग्नीन् वि हर (तै० सं० ६।३।१।२) इत्यादयः प्रैपरूपाः [५] अधः स्विदासीद्धुपरिस्विदासीत् (ऋ० १०|१२९|२५) इत्यादयो विचाररूपाः [६] अम्बे ऽ अम्बिके ऽम्बालिके न मा नयति कश् चन (वा० स० २३।१८) इत्यादयः परिदेवनरूपा [७] पृच्छामि त्वा परम् अन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः । (वा० सं० २३।६१) इत्यादयः, प्रश्नरूपाः [८]वेदिमाहुः परमन्तं पृथिव्या (वा० सं० २२|६२) इत्यादय उत्तररूपाः [९] एवमन्यदप्युदाहार्यम् ; ईदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति, यस्य लक्षणमुच्येत | लक्षणस्योपयोगश्चे पूर्वाचार्यैर्दर्शितः –
ऋषयोऽपि पदार्थानां नन्ति यान्ति पृथक्ततः ।
लेक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः ।। इति
तमादभियुक्तानां मन्त्रोऽयमिति समाख्यानं लक्षणम् ।।
ब्राह्मणस्वरूपमपि तत्रैवाष्टमाधिकरणे इत्थं निर्णीतम् –
“नास्त्येतद् ब्राह्मणेत्यत्र लक्षणं विद्यतेऽथवा ।
नास्तीयन्तो वेदभाग इति क्लृप्तेरेभावतः ।।
मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः ।
अन्यद्ब्राह्मणमित्येतत्भवेद् ब्राह्मणलक्षणम् । (जै०न्या० मा०2|1|8)
चातुर्मास्येष्विदमाम्नायते – ‘एतद् ब्राह्मणान्येव पञ्च हवींषि’ (तै० सं०३।७।१|१) हति । तत्र ब्राह्मणस्य लक्षणं नास्ति, कुतः ? वेदभागानामिथत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याच्चतिव्याप्त्योः शोधयितुमशक्यत्वात् । पूर्वोक्तो मन्त्रभाग एकः, भागान्तराणि च कनिचित् पूर्वैरुदाहर्त्तु सग्रहीतानि । -
हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः ।
परकृतिः पुराकल्पो व्यवधारणकल्पना ।। इति
'तेन ह्यन्न क्रियते' (श०ब्रा०२।५।२।२३) इति हेतुः [१] 'एतद्दध्नो दधित्वमिति' निर्वचनम् (तै० सं० २।५।३।३) [२] अमेध्या वै माषा ( तै० सं० ५।१।८।१) इति निन्दा [३] वायुर्वै क्षेपिष्टेति (तै० सं०२।१।१।१) प्रशंसा [४] 'तद् व्यचिकित्सन् जुहवानी मा हौपामिति ( त० सं० ६।५।९।१) संशय: [५] यजमानेन सम्मितौदुम्बरी भवतीति (तै० सं० ६।२।१०।३) विधिः [७] ‘माषोनेव मह्यं पचते' इति परकृतिः [७] पु॒रा ब्राह्म॒णा अ॑भैषु॒र्व्यु॑ष्टिमे॒वाव॑ रुन्ध॒ (तै० सं०१।५।७।५) पुराकल्पः
Page 061 (144)
[८] 'यावतोऽभ्यान् प्रतिगृह्णीयात् तावतो वारुणांश्चतुष्कपालान्निर्वपेदिति (तै० सं० २।३।१२।१) विशेषावधारणकल्पना [९] एवमन्यदप्युदाहार्थ्यम ।
न च 'हेत्वादीनामन्यतमद् ब्राह्मणा इति लक्षणम्, मन्त्रेष्वपि हेन्वादिसद्भावात् । तथाहि-इन्दवो वामुशन्ति हीति (ऋ० १।२।४) हेतुः । उदानिषुर्महीरिति तस्मादुदकमुच्यत इति (अ० ३।१३।४) निर्वचनम् । आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ (ऋ० १०।११०|६) इति निन्दा । अग्निर्मूर्धा दिवः ककुत्पतिः (ऋ० ८।४४।१६) प्रशसा । अधः स्विदासीदुपरिस्विदासीदिति (ऋ० १०।१२९।५) संशयः । कपिञ्जलानालभत इति (वा०सं० २४।२०) विधिः । सहस्रमयुता दददिति (ऋ० ८।२१।१८) परकृतिः । यज्ञेन यज्ञमयजन्त देवा (ऋ० १०।९०।१६) इति पुराकल्पः । इतिकरणवगुलं ब्राह्मणं इति चेत् न, इत्यददा इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेदित्यस्मिन् ब्राह्मणेन गातव्ये मन्त्रे (श० ब्रा० १३।१।५।६) ऽतिव्याप्तेः । 'इत्याहेत्यनेन वाक्येनोपनिवद्धं ब्राह्मणमिति चेत् न ‘राजा चिद्यं भगं भक्षीत्याह' (ऋ० ७|४१|२) 'यो वा रक्षाः शुचिरस्मीत्याह (ऋ० ७।१०४।१६) इत्यगयोर्मन्त्रयोरतिव्याप्तेः । 'आख्यायिकारूपं ब्राह्मणम्’ इति चेत् ? न, यमयमीसंवाद (ऋ० १०।१०) सूक्तादावतिव्याप्तेः । तस्मान्नास्ति ब्राह्मणलक्षणमिति प्राप्ते ब्रूमः मन्त्रब्राह्मणरूपौ द्वावेव वेदभागावित्यङ्गीकारात् मन्त्रलक्षणस्य पूर्वमभिहितत्वात् 'अवशिष्टो वेदभागो ब्राह्मणम्’ इत्येतल्लक्षणं भवतीति
मन्त्रविशेषाणामृग्यजुःसामरूपाणां लक्षणानि तस्मिन्नेवाधिकारे त्रिष्वधिकरणेषु जैमिनिः सूत्रयामास – ‘तेषामृग- यत्रार्थवशेन पादव्यवस्था' ( मी० २।१।३५) गीतिषु समाख्या ( मी० २।१।३६) शेषे यजुः शब्दः (मी० २।१।३७) इति । तदेतन्न्यायविस्तरे स्पष्टीकृतम् –
नर्कसामद्यजुषां लक्ष्म सांकर्यादिति शङ्किते ।
पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसङ्करः ।।
इदमाम्नायते 'अद्वेबुध्यिय मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः । ऋचः सामानि यजूᳪषि, (तै०ब्रा०१।२।२६) इति। त्रीन्वेदान् विदन्तीति त्रिविदः, त्रिविदां सम्वन्धिनोऽध्येतारस्त्रैविदास्ते च यं मन्त्रभागमृगादिरूपेसु त्रिविधमाहु: तं गोपायेति योजना । तत्र त्रिविधानामृक्सामयजुषां व्यवस्थितं लक्षणं नास्ति, कुतः? साङ्कर्यस्य दुष्परिहरत्वात् । 'अध्यापकप्रसिद्धेप्वृग्वेदादिषु पठितो मन्त्रः' इति हि लक्षणं वक्तव्यम् । तच्च सङ्कीर्णम् “देवो वः सवितोत्पुनात्वच्छिद्रेण वसोः सूर्यस्य रश्मिभिः इत्ययं मन्त्रो यजुर्वेदे (तै० सं० १|१|५|१) सम्प्रतिपन्नो यजुषां मध्ये पठितः । न च शल्य यजु-
Page 062 (145)
ष्ट्कमस्ति, तद् ब्राह्मणेसावित्र्यर्चे त्यृस्त्वेन व्यवहृतत्वात् । एतत् साम गायन्नास्ते (तै० सं० १।६।५।१) इति प्रतिज्ञाय किञ्चित् साम यजुर्वेदेऽङ्गीकृतम् ; अक्षितमसि, 'अच्युतमसि' ‘प्राणसंशितमसि इति त्रीणे (तै० सं० १।६।५।१।) यजूंषि सामवेदे समाम्नातानि (छा० उप० ३।१७।६) । तथा गीयमानस्य साम्न आश्रयभूता ऋचः सामवेदे समाम्नायन्ते । तस्मान्नास्ति लक्षणमिति चेत् ? न, पादादीनामसंकीर्णलपुरणत्वात् । 'पाद्बन्धेनार्थेन चोपेताः वृत्तवद्धाः मन्त्राः ऋचः' 'गीतिरूपाः मन्त्राः सामानि' 'वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि’ इत्युक्ते न क्वापि सङ्करः इति ।।
'यदुक्तं गीतिषु सामाख्येति' तदेव विशदीकर्त्तुं सप्तमाध्यायस्य द्वितीयपादे रथन्तरशब्दो निरूपितः –
अतिदेश्यं विनिश्चेतुं कवतीषु रथन्तरम् ।
गायतीत्यृग् गानयुक्ता शब्दार्थो गानमेव वा ।।
इति चिन्ता गानयुक्ताः त्वभि त्वेत्यृक प्रसिद्धितः ।
लाघवादतिदेशस्य योग्यत्वाच्चान्तिमो भवेत् ।। '
इदमाम्नायते 'कवतीषु रथन्तरं गायति' इति, 'कया नश्चित्र आभुवदित्याद्यास्तिस्र ऋचः कवत्यः' (ता० ब्र० १५ । १०) तासु वामदेव्यं सामाध्ययनतः प्राप्तम् । तद्वाधितुं रथन्तरं साम तास्त्वतिदिश्यते । तत्रातिदेशस्य स्वरूपं निश्चेतुं रक्ततरशब्दार्थश्चिन्त्यते । गानविशेषयुक्ता 'अभि त्वा शूर नोनुमोइतीयस्याऽ (पूर्वार्चिक ३।५|१) रथन्तरमित्युच्यते, कुतः? अध्येतृप्रसिद्धितः । रथन्तरं गीयतामिति केनचिदुक्ताः अध्येतारः स्वरस्तोभविशेषयुक्तामभि त्वेत्यृचं पठन्ति, न तु स्वरस्तोभमात्रम् । तस्माद् गानविशिष्टाया ऋचो रथन्तरशब्दार्थत्वमिति प्राप्ते, ब्रूमः, स्वरादिविशेषानुपूर्वीमात्रस्वरूपमृगक्षरव्यतिरिक्तं यद् गानं तदेव रथन्तरशब्दार्थः, कुतः ? लाघवात्, किञ्च कवतीश्वक्षु गानमतिदेष्टुं योग्यं न स्पृचस्तद्योग्यतास्ति, कया नोऽभि त्वेत्यनयोरृचोर्युगपदाधाराधेयभावेन पठितुमशक्यत्वाद । तस्माद् गानविशेष एव रथन्तरशब्दार्थः इति ।।
पुनरपि नवमाध्यायस्य द्वितीयपादे प्रथमधिकरणस्य प्रथमवर्णके सामशब्दस्य गानमात्रवाचित्वं स्मारितम् –
सामोक्तिवृहदाद्युक्तो गीतायामृचि केवले ।
गाने वागान एवेति स्मार्यते सप्तमोदितम् ।।
सामान्यवाची सामशब्दो विशेषवाचिनो वृहद्रथन्तरादिशब्दाश्च गानमात्रे वर्त्तन्ते, न तु गानविशिष्टायामृचि इत्ययं नियमः सप्तमस्य द्वितीयपादे सिद्धः, सोऽत्र वक्ष्यमाणविचारोपयागितया स्मार्यते इति ||
Page 063 (146)
सामशब्दवाच्यस्य गानस्य स्वरूपमृगक्षरेषु क्रष्टादिभिः सप्तभिः स्वरैः अइक्षरविकारादिभिश्च निष्पाद्यते । क्रुष्टः प्रथमो द्वितीयस्तृतीयञ्चतुर्थः पञ्चमः षष्ठश्चेत्येते सप्त स्वराः । ते चावान्तरभेदैर्वहुधा भिन्ना | स्वरस्य सामनिष्पादकत्वं छान्दोग्योपनिषदः प्रथमे प्रपाठके (८ । ३ । ४) प्रश्नोत्तराभ्यामनन्ति स ह शिलकः शालावत्यश्चैकितायनं दाल्भसुवाच हन्त ! त्वा पृच्छानीति । पृच्छेति होवाचका साम्रो गतिरिति ? स्वर इति होर्वांच इति । काण्वा उद्गीथविद्यायां स्वरस्य 'सामसम्बन्धिसर्वस्व स्थानीयत्वं शोभनवर्णस्थानीयत्वं चामनन्ति तस्य हैतस्य साम्नो यः स्वं वेद, भवति हास्य स्वं, तस्य स्वर एव स्वम्' इति, तस्य हैतस्य साम्नो यः सुवर्णं वेद, भवति हास्य सुवर्णं, तस्य वै स्वर एव सुवर्णम् ”, (सामवि० ब्रा० १ प्रपा० १ ख०) इति च ।
अक्षरविकारादीनान्तु सामनिष्पादकत्वं नवमाध्यायस्य द्वितीयपादे एव अथकत्वाद् विकल्पः स्यात्' ( मी०९।२।२९) इत्येतस्य सप्तमाधिकरणगतस्य सूत्रस्य व्याख्यानावसरे शवरस्वामिनारस्पष्टमुक्तम् सामवेदे सहस्रं गीत्युपायाः ।
आहक इमे गीत्युपाया नाम ? उच्यते गीतिर्णम क्रिया ह्यारभ्यन्तरप्रयत्न ज नितस्वरविशेषाणाममिव्यञ्जिका, सामशब्दाभिलप्या । सा नियत प्रमाणा, ऋचि गीयते । तत्सम्पादनार्थोऽयमृगक्षरविकारो विश्लेषो विकर्षणमभ्यासो विरामः स्तोभ इत्येवमादयः सर्वे सामवेदे समाम्नायन्ते –
इति । तद्विषये विचारो न्यायविस्तरेऽभिहितः –
“समुच्चेया विकल्प्या वा विभिन्ना गीतिहेतवः ।
आद्यः प्रयोगग्रहणादर्थैकत्वाद विकल्पनम् ।।”
छान्दोग्ये तवल्कारादिशाखाभेदेषु विलक्षणा गीतिहेतवोऽक्षरविकारादय आम्नायन्ते, ते सर्वे कर्मानुष्ठाने समुच्चेतव्याः । कुतः ? प्रयोगवचने सर्वेषां परिगृहीतत्वात् । मैवम्, एकैकशाखोक्तैरेवाक्षरविकारादिभिरध्ययनकाल एव गीतिस्वरूपनिष्पंचेस्तन्निष्पत्तिलक्षणस्य प्रयोजनस्यैकत्वात्, प्रयोगवचनपरिश्रमीता अपि व्रीहियववद बृहद्रन्तरवच्च विकल्पन्ते” इति ।।
गीतिहेतुषु स्तोभस्यात्यन्तप्रसिद्धत्वात् तल्लक्षणं तस्मिन्नेव पादे एकादशाधिकरणे चिन्तितम् –
स्तोभख्यलक्षण नास्ति किंवास्ति न विवर्णता ।
आधिक्यमप्यतिव्याप्तं विशिष्टं लक्षणं भवेत् ।।
न तावद्विवर्णत्वं लक्षणम्, वर्णविकारस्य विपरीतवर्णत्वेन स्तोभ-
Page 064 (147)
त्वप्रसङ्गात् | अग्र आयाहो (सा० १ । १) त्यस्यामृचि अकारस्य स्थाने ओकारं कृत्वा गायन्ति ओग्नायि इति (गेयगा० प्रपा० १ साम१) । अधिको वर्णः स्तोभ इत्युक्ते सति अभ्यासेऽतिव्याप्तिः । ‘पिबा सोममिन्द्र मन्दतु त्वेत्येतस्यामृचि (पू० आ० ५।१।८) ददुत्वेत्यक्षर-त्रयं गानकाले (गे० गा० १०|२|३) त्रिरभ्यस्तम् । अतो विकाराभ्यासयोरतिम्याक्षेर्नास्ति लक्षणम् इति चेत् ? मैवम्, अधिकत्वे सत्यृग्विलक्षणवर्णः स्तोभः” इति विशिष्टस्य तल्लक्षणत्वात् ; लोकेऽपि सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं कालक्षेपमात्रहेतुं शब्दराशि स्तोभ इत्याचक्षते | तस्मादस्ति लक्षणम्” इति ।।
अक्षरविकारस्तोभादिवत् वर्णलोपोऽपि क्वचिद् गीतिहेतुर्भवति, तल्लोपुविषयश्च विचारो नवमाध्याये प्रथमपादस्याष्टादशाधिकरणेऽभिहितः –
“इरा गिरा विकल्पः स्याद्रुतेरैषा विशेषतः ।
आद्यो मैवं वाधपूर्वमिराया विहितत्वतः ।।”
ज्योतिष्टोमे श्रूयते यज्ञायज्ञीयेन स्तुवीत (ताण्ड्य ब्रा० ८ । ६) इति । 'यज्ञायज्ञ' इत्यनेन शब्देन युक्तायामृच्युत्पन्नं साम यज्ञायज्ञीयम् (गेयगान १।३२) तस्यामृचि गिराशब्दः पठ्यते 'यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षसे' इति (पू० आ० १।४।१)। तत्र सामगा योनिगानमधीयानाः सहैव गकारेण गायन्ति 'गायिरा गिरा' इति । ब्राह्मणे (ताण्ड्य ब्रा० 8।६) तु गकारलोपपूर्वकमाकारयकाराटिकं गानं विधीयते 'ऐरं कृत्वोद्गेयम्’ इति । गिराशब्दे गकारलोपार्दिराशाब्दो भवति । इरायाः सम्बन्धि गानम् ऐरम् । तादृशं कृत्वा प्रयोगकाले तद्गानं कर्त्तव्यमित्यर्थः । तत्र योनिगानब्राह्मणयोः समानवलत्वेन विशेषाभावात् विकल्पेन प्रयोक्तव्यमिति प्राप्ते, ब्रूमः –
'न गिरा गिरेति ब्रूयाद्, यद् गिरा गिरेति ब्रूयाद् आत्मानमेव तदुद्राता गिरेत् (ता० ब्रा० ८।६) इति गकारसहितगोनै बाधकमुक्त्वा गकाररहितमिरापदं गेयत्वेन विधीयते, तत्पदादेरिकारस्य गानार्थमाकारोयकार इकारश्चेति त्रीन् वर्णान्प्रयुञ्जते, तत 'आयिरा' इत्येव गातव्यम्, ( उह्यगान २ प्रपा० १५ साम) इति ।
तत्रैवोपरितनाधिकारे कश्चिद् विशेषश्चिन्तितः –
“इरापदं न गेयं स्याद् गेयं वा गीत्यनुक्तितः ।
न सेयं गीयमानस्य स्थाने पातात्प्रगीयते ।।
ब्राह्मणेन विहित इराशव्दो न गातव्यः, कुतः ? ऐरमिति शाब्देन गीते-
Page 065 (148)
रनुक्तत्वात्; पाणिनीयेन ‘विमुक्तादिभ्योऽण् (अष्टा० ५।२।६।१) इति सूत्रेणेराशब्दादण् प्रत्ययो मत्वर्थीयो विहितः, | तथा सतीरापदोपेतं कृत्वेत्येतावानेवार्थो भवति । यदि प्रगीतेरापदसम्बन्धः तद्धितेन विवक्ष्येत, तदानीमाकारो यकार ईकारो रेफ आकारश्चैतैः पञ्चभिवर्णैर्निष्पन्नमायीरारूपं गीयमानेराशब्दप्रातिपादिकं भवति । तादृशात् प्रातिपदिकात् पाणिनीयेन 'वृद्धाच्छः' [अष्टा० ४।२।१०४] इति सूत्रेण प्रत्ययान्तरे सति, आयिरीयं कृत्वेति ब्राह्मणपाठो भवेत् । तस्मान्न गेयम् इति प्राप्ते, ब्रूमः – गीयमानस्य गिरापदस्य स्थाने इरा पदं विधीयते इति पदमात्रस्य बाधः, गानन्तु न बाध्यते, किञ्च विमुक्तादि [अष्टा० ५।२।६९] सूत्रेणाण् प्रत्ययेऽपि, पूर्वस्मात् 'मतौ छः सूक्तसाम्नो' [अष्टा० ५।२।56] इति सूत्रात्सामानुवृत्तेरैरं सामेत्यर्थो भवति, सामत्वं च गीतिसाध्यम्, यदा तु 'तस्य विकारः' [अष्टा० ४।३।१३४] इत्यस्मिन्नर्थे अण् प्रत्ययः, तदानीमिराया विकार इति विग्रहे यथोक्तं गानं लभ्यते । तस्माद्गातव्यम्' इति ।।
बटुभिः प्रकारैर्गानात्मकं यत् धामस्वरूपं निरूपितम्, तस्यैव देवतास्तृप्तिहेतुत्वं नवमाध्यायस्य द्वितीयपादे ऽष्ठमाधिकरणख्य प्रथमवर्णके निर्णीतम् –
“ऋक्सामाभ्यां विकल्पेन स्तुतिः साम्नैव वाग्रिमः ।
पुरेव मैवमृङ्निन्दासामप्राशस्त्यदर्शनात् ।।
क्वचित् कर्मविशेषे श्रूयते 'ऋचा स्तुवते, सास्ना स्तुवते' इति । तत्र, पूर्वन्यायेन विकल्पः इति चेत् ? मैवम्, ऋङ्निन्दासामप्रशंसयो वाक्यशेषे ऽवगमात्, 'यदृचा स्तुवते तदसुरा अन्यवायन्, यत् साम्ना स्तुवते तदसुरा नान्ववायन्, य एवं विद्वान्, साम्ना स्तुवीत' इत्यृचं निन्दित्वा साम प्रशस्य लिङ्प्रत्ययेन साम विहित, तस्मात् साम्नैव स्तोतव्यम्” इति ।।
तस्य च साम्नः ऋचं प्रति संस्कारकत्वं तस्मिन्नेव पादे द्धितोद्याधिकरणे निर्णीतम्
सामर्चं प्रति मुख्यं स्याद् गुणो वा बाह्यपाठतः ।
मुख्यमभ्यसितुं पाठो गुणो गीताक्षरैः स्तुतेः ।।
रथन्तरं गायतीत्यादौ यद्गान विहितम् तदेव सामशब्दार्थ इति प्रतिपादितं स्मारितञ्च । तदेतद् गानमृचं प्रति प्रधानकर्म स्यात्, कुतः ?
Foot Note: -
(1)साम्नां योनिभूता ऋचः छन्दसि आर्चिके पट्यन्ते । तासां सामापरपर्यायाणि गानानि यत्र विद्यन्ते तद् योनिगानमित्याचक्षते । वेदसाम, वेयगानं, गेयगानमित्यपि तस्यापरं नाम ।
Page 066 (149)
यागप्रयोगाद् वहिरध्ययनकालेऽपि पठ्यमानत्वात्, गुणकर्मत्वे तु ब्रीहिप्रोक्षणादिवद् यागमध्ये एव गानमनुष्ठीयेत, ततो वहिर्गानस्य विश्वजिदादिवत् फलं कल्पनीयम् । मध्यकालीनगानं तु प्रयाजादिवदारादुपकारकम् । तस्मान्मुख्यमेतन्न तु गुणकर्म इति प्राप्ये, ब्रूमः – न तावद् बहिः – पाठः प्रधानकर्मत्वं कल्पयितुं शक्नोति भूमिरथिकशुष्केष्टिन्यायेन प्रयोगपाटवाय गानाध्ययनोपपत्तेः (भूमिरथिको भूमौ रथमालिख्याभ्यासं करोति, यथा वा छात्रः शुष्केष्टया प्रयोगपाटवं सम्पादयति, तद्वत्) । नापि गुणकर्मत्वे प्रयोजनाभावात् प्रधानकर्मत्वमिति वाच्यम्, गानेन संस्कृतैरृगाक्षरैः स्तुतिसम्भवात्; 'आज्यैः स्तुवते' 'पृष्ठैः स्तुवते' इति स्तुतिविधानात् । तस्माद्वगक्षराणां स्वरविशिष्टत्वाकाराभिव्यक्तिर्दृष्टं प्रयोजनमित्यदृष्टस्याकल्पनीयत्वाद् गानं संस्कारकर्म” इति ।।
यथोक्तमृगक्षराणां संस्कारकं गीत्यात्मकं यत् साम तदेतदेकैकं छन्दोगा एकैकस्यामृचि 'वेदसाम' नामके ग्रन्थेऽधीयन्ते । ऊहनामके तु ग्रन्थे एकैकं साम तृचेऽधीयते सो ऽयमूहग्रन्थः तस्मिन्नेव पादे प्रथमाधिकरणस्य द्वितीयवर्णके विचारितः –
ऊहक्रत्तथो ऽपौरुषेयः पौरुषेयोऽथवाऽग्रिमः ।
वेदसामसमानत्वाद् विधिसार्थत्वतो ऽन्तिमः ।।
यस्मिन् ग्रन्थे साभगास्तृचे तृचे सामकैके गायन्ति सोऽयमूहक्रथो नित्यो न तु पुरुषेण निर्मितः, कुतः ? अनध्यायवर्जनेन कर्त्तुरख्यरणेनाध्यापकानां वेदत्वप्रसिद्धया च वेदसामनामकयोनिग्रन्थसद्वशत्वात्, इति चेत् ? मवम्, अपौरुषेयत्वे विधिवैयर्थ्यप्रसङ्गात् 'यद्योन्या तदुत्तरयोर्गायति’ इति विधीयते ।
अयमर्थः – अपौरुषेयत्वेन सम्प्रतिपन्ने वेदसामनामके ग्रन्थे 'कया नश्चित्र आ भुवम् इत्येतस्यां ( उत्तरार्चिकस्य १पा० १२सू० १सू०) योन्यामेककस्यामृचि यद् वामदेव्यनामकः सामोपदिष्टं तदेवोत्तरयोरृचोः 'कस्त्वा सत्योमदानोम् (उ० आ० १।१२।२) 'अभी षु णः सखीनाम् (उ० आ० १।१२।३) इत्यनयोः द्वितीयतृतीययोर्गातव्यम् इत्ययं विधिरूहग्रन्थल्य वेदत्वे व्यर्थः स्यात्, 'वेदसाम' वदध्ययनादेव तत्सिद्धेः । उपरितनऋग्द्वये सामोहस्य पौरुषेयत्वेऽपि सामस्वरूपस्य तदाधारभृतानाम् तिसृणामृचां च वेदत्वादनध्यायाः वर्जनीयाः, कर्त्तुरस्त्वरणं जीर्णकूपारामादिष्विव चिरकालव्यवधानादुपपन्नम् । अस्मरणसूलैवाध्यापकानां वेदत्वप्रसिद्धिः यथा वह्वचामध्यापका महाव्रतप्रयोगप्रतिपादकसाश्वलायननिर्मित कल्पसूत्रमारण्येऽधीयमानाः पञ्चममारण्यकमिति वेदत्वेन
Page 067 (150)
व्यवहरन्ति, तद्वत्, न च तस्यापि वेदत्वमस्त्विति वाच्यम्, प्रथमारएयकेन पुनरुक्तत्वात् अर्थवादराहित्यने ब्राह्मणसादृश्याभावाश्च । तस्मात् पञ्चमारण्यकवदूहः पौरुषेयः, पौरुषेयस्य च न्यायमूलत्वात् यत्र वक्ष्यमाणन्यायविरोधस्तदप्रमाणम्” इति ।।
तत्रैव केचिद विशेपास्तृतोयचतुर्थपञ्चमपष्ठाधिकरवहुयस्तैकीपतैर्विचारिताः । तत्र तृतीयाधिकरणम् –
“अंशैः सामर्क्षु कृत्स्नं वा प्रत्यृच तिसृभिः श्रुतेः ।
अशैर्मैवं स्तुतेरंशैरसिद्धेः प्रत्यृचं भवेत् ।।”
'एकं साम तृचे क्रियते स्तात्रियम्’ इति, श्रूयते। । तत्र त्रेधा विभक्तेषु सामांशेषु एकैकोऽशः एकैकस्यामृचि गातव्यः, कुतः ? एकस्य साम्नः तिसृभिरृग्भिर्निष्पादत्तस्य श्रवणात्, इति प्राप्ते ब्रूमः – स्तोत्रियमिति स्तुतिनिष्पादकत्वं कृत्स्नस्य साम्नो विधीयते, न तु सामांशानाम् । स्तुतिर्नाम गुणकथनपरमेकं वाक्यम्, तच्च वाक्यमेकख्यामृचि सन्मूर्णम् । ततः कृत्स्नेन साम्ना तद् वाक्यं संस्कार्यमिति प्रत्यचं सामाभ्यसनीयम् । तथा सति द्वितीयतृतौययोरृचोस्तस्यैव साम्न आवर्त्तमानतया सामान्तरत्वाभावाद् ऋक्त्रयनिष्पाद्यत्वमविरुद्धम्; तस्मात् प्रत्यृचं कृत्स्नं साम समापनीयम्” – इति ।।
चतुर्थाधिकरणम् –
“तिसृच्छक्षूदितं साम विषमासु समासु वा ।
यथेच्छानियमादन्त्यः शप्लेशापनुत्तये ।।”
विषमच्छन्दस्कासु समच्छन्दस्कासु वा तिसृष्वृक्षु स्वेच्छया साम गातव्यम्, इत्थमेवेतिनियामकस्य कस्यचिदभावात् इति चेत् ? मैवम्, शरलेशप्रसङ्गस्य नियामकत्वात् । शरो हिसा, लेशोऽल्पत्वम्, 'श्रृ' हिंसायाम्, 'लिश्' अल्पीभावे, इत्येलद्धातुद्धयदर्शनात् । यद्यधिकच्छन्दस्कृायां योनौ उत्पन्न साम, न्यूनच्छन्दस्क्योर्गीयेत, तदा सामभागेनैव तत्पूर्त्तरवशिष्टसामभागाश्रयाभावाद्धिस्येत, यदि योनेरप्यधिकच्छन्दस्कयोर्गीयेत, तदा सास्नोऽल्पत्वादवशिष्ट ऋग्भागः सामरहितः स्यात्, तस्मात् समानच्छन्दस्कास्चेव गातव्यम्” – इति ।
पञ्चमाधिकरणे प्रथमवर्णकम् –
“छन्दः स्थयोरुत्तरास्थयोर्वा गीतेरिहोदनम् ।
अविशेषाद् विकल्पः ख्यादन्त्यः संज्ञावलित्वतः ।।”
सामगानामृकपाठाय द्वौ ग्रन्थौ विद्येते, 'छन्दः' 'उत्तरा' चेति । तत्र छन्दोनामके ग्रन्थे नानाविधानां साम्नां योनिभूता एवर्चः पठिताः ।
Page 068 (151)
उत्तराग्रन्थे तृचात्मकानि सूक्तानि पठितानि एकस्मिंस्तृचे छन्दोगा योन्यृक् प्रथमा, इतरे द्वे उत्तरे ।
एवं स्थिते सति रयन्तरमुत्तरयोर्गायति, यद्योन्यां तदुत्तरयोर्गायतीत्यत्र द्विविधे उत्तरे सम्भाविते, रथन्तरस्य छन्दोग्रन्धे ऽभि त्वा शूरेतीयमृग् योनित्वेन पठिता, तस्या उपरि त्वामिद्धिहवामह इत्यादयः बृहदादिसाम्ना योनयः पठिताः [३प्र० १ख० १ऋ०], उत्तरायव्ये 'अभि त्वा शूरेति' सूक्ते (१।११) तस्या ऋच ऊर्द्धं ‘न त्वा वा अन्यो दिव्यो’ इत्येषा [१।११।२] साम्नः कस्याप्ययोनिभूता पठिता । तत्र छन्दोम्नथापेक्षया सामान्तरयोर्योनी द्वे रथन्तरस्य स्वयोन्युत्तरे भवतः, उत्तराग्रन्थारोक्षया तृचगते द्वितीयतृतीये स्वयोत्युत्तरे भवतः । तत्र विशेषनियामकाभावात् ययोः कयोश्चिदुत्तरद्योर्गानमिति चेत् ? मैवम्, उत्तरेति संज्ञा सहसा बुद्धिस्था भवति प्रतियोगिनिरपेक्षत्वात् । पूर्वपठितां योनिमृचमपेश्य यदुत्तरात्वं तद्विलम्येन प्रतीयमानत्वाद् दुर्यलम् । ईदृशमेवोत्तरात्वं छन्दसि पोठितयो स्वयोन्युत्तरभाविन्योः सामान्तरोन्योर्द्वयारृचोः, तृचगतयोस्तु द्वितयितृतीययोरुत्तरात्वं संज्ञया वर्त्तते, अतस्तयोरेव गानम् । एवं सति पूर्वाधिकरणे निर्णीतं समास्वेव गानमनुगृहीतं भवति । किञ्च तृचात्मकेपु सूक्तेषु या प्रथमा योनिभूता तन्नाम्ना छन्दोग्रन्थस्य 'योनिग्रन्थः' – इति अध्यापकानां समाख्या । इतरस्य तु तृचसङ्घरूपस्य ग्रन्थस्योपरितनयोरृचोर्नामधेयेन 'उत्तरा' इति समाख्या ।। च एव ग्रन्थः कर्माङ्गसमर्पकं प्रकरणं, पञ्चदशसप्तदशादिस्तोमानां तृचेष्वेवोत्पत्तेः । तस्यादुत्तराग्रन्थस्थयोस्तृचगतयोर्द्वितीयतृतीययोरयमूहः इति ।।
द्वितीयवर्णकम् –
“त्रैशोके ऽतिजगत्यौ द्वे आनेये गीतये ऽथवा ।
बृहत्या वादिमः साम्यान्नोत्तरात्वं श्रुतेर्वलात् ।।
द्वादशाहे चतुर्थेऽहनि त्रैशोकनामकं साम [ ऊह २ प्र २ अ १३] विहितम्, तश्च विश्वाः पृतना [ ५ । १४ । १ ।] इत्येतस्यामतिजगत्याभुत्पन्नम् । तस्मिश्च तृचे तस्या योनेरुत्तरे द्वे बृहत्यौ 'नेमिं न यन्तीत्यादिके [५।१४।२-३] आम्नाते । तत्र बृहत्याधुपेत्त्व तयोः स्थाने द्वे उत्पत्तिसिद्धे अतिजगत्यौ आनीय तासु तिसृषु गेयम्; तथा सति समासु गानं पूर्वत्र निर्णीतमनुगृह्येत, 'अति जगतीषु स्तुवन्ति'- इति [ताण्ड. ब्रा० १२।१०] श्रूयमाणम् मतिजगतीवहुत्वम् अन्यथा नोपपद्येतेति चेत् ? मैव, उत्तरयोर्गायतीत्युक्तस्य संशाकपस्योत्तराशब्दस्याधीयमानयोर्वृहत्योर्मुख्यत्वात्, श्रुतिश्च वहुललिङ्गात् 'समासु गानम्’- इति न्यायाच्च बलीयसो । यदेतदतिजगतीवहुत्वं तद् वृहत्योः स्फीकारे ऽप्युपपद्यते, एकविंशस्तोमस्यात्र विहितत्वेन तत्सिद्धये प्रथमायाः अतिजगत्याः
Page 069 (152)
सप्तकृत्व आवर्त्तनीयत्वात्। तस्मात्त्रैशोकसाम बृहत्योरूहनीयम्” इति ।
षष्ठाधिकरणे प्रथमवर्णकम् –
रथन्तरे ककुब् गाह्या ग्रथ्या वाद्यो ऽर्थवत्वतः ।
पुनःपदाप्रस्विद्ध्यादेरन्त्योत्योऽर्थो ऽन्यत्र वीक्ष्यताम् ।।
इदमाम्नायते [ताण्ड्य ब्रा० ७|७] 'न वै बृहद्रथन्तरमेकच्छन्दः यत्तयोः पूर्वा बृहती ककुभाद्ध्यरे' इति । अयमर्थः – बृहद्रथन्तरं तदेतत् सामग्नयमितरसामवदेकच्छन्दस्क न भवति, यस्मात् कारणात् तयोर्बृहद्रथन्तरसाम्नोराश्रयभूतास्वृक्षु पूर्वा बृहतीछन्दस्का [ ३।१२।१] उत्तरे तु द्वे ऋचौ [ ३।१२।१] ककुस्यन्दस्के । इतरेषां वामदेव्यादिसाम्नामाश्रये तृचे अवस्थिताः तिस्र ऋचः एकच्छन्दस्काः उत्तरान्तथे आम्नाताः [१।१२] संशरविलेशपरिहाराय 'समासु गायेत्’ - इति न्यायेन निर्णीता एव । इह तु वाचनिकं विषमच्छन्दस्कासु गानमिति तत्र रथन्तरस्याश्रयतया तृचो नोत्तराग्रन्थे समाम्नातः, किन्तर्हि ? प्रगाथस्तदाश्रयत्वेनाम्नातः । स च द्वाभ्यामृग्भ्यां निष्पन्नत्वात् द्व्यचो भवति, तयोश्च द्वयोरृ चोः 'अभि त्वा शूरेत्येषा [१।११।१] प्रथमा, सा च यृहती । 'न त्वा वा ᳪ अन्यो दिव्यो' इत्येषा [१।११।२] द्वितीया, सा च पंक्तिच्छन्दस्का । तथा च सति तां पंक्तिच्छन्दस्कामपनीय तस्याः स्थाने दाशतयीगते द्वे उत्पतिकुकुभौ ऋचौ गृहीतव्ये, कुतः ? अर्थवत्वात् । उदाहृतेन 'ककुभानुत्तरे, इति वाक्येन रथन्तरसाम्नः आश्रयत्वेन ककुभोर्विनियुज्यमानयोः ककुबुत्पत्तिरर्थवती भवति, अन्यथा वैयर्थ्यं स्यात् । किञ्च आम्नाताया एकस्याः पंक्तेः स्वीकारे सति ऋचोर्द्वयोरेव लाभात् 'एकं साम तृचे क्रियते स्तोत्रियम्’ - इति वचनं विरुध्येत । तस्माद्रथन्तरसाम्नि द्वे ककुभावुत्तरे गृहीतव्ये । अयमेव न्यायो बृहत्सामन्यपि योजनीयः इति प्राप्ते, व्रूमः – आम्नातयोर्बृहतीपंक्त्योरेव ककुब् ग्रथनीया । तथाहि 'अभि त्वा शूरेत्येषा बृहती प्रथमा स्तोत्रिया, तस्यामविकृतायामेव रथन्तरं गातव्यम् । ततस्तस्यामृचि चतुर्थं पादं पुनरुपादायोत्तरस्याः पंक्तेः पूर्वाद्धेन सह योजनीयम्, सेयमष्टाविंशत्यक्षरा त्रिपदा द्वितीया स्तोत्रिया, सा चैका ककुप्र सम्पद्यते । तस्यां ककुभि चरमं पादं पंक्तेरुत्तरार्द्धेन सह प्रग्रथ्य तृतीया स्तोत्रिया कर्त्तव्या, सा च द्वितीया ककुप् सम्पद्यते । प्रग्रथनप्रकारेण द्वयोरृचोराम्नातयोः तृचनिष्पत्तेर्नास्त्युक्तो वचनविरोधः । अस्मिंश्च ग्रथने 'पुनः पदा' इति श्रोतोक्तिर्लिङ्गम्, तथा च श्रूयते 'एषा वै प्रतिष्ठिता बृहती या षुनःपदा तद्यत्पद पुनरारभते तस्माद् वत्सो मातरमभिहिंकरोति' इति । अयमर्थः – या बृहती पुनःपदा भवति, सैषा प्रतिष्ठिता स्थिरा भवति;
Page 070 (153)
पदं चतुर्थः पादः, सो ऽय्यृगन्तरसम्पादनाय पुनः पठ्यते, ततः सा बृहती पुनःपदा, स्वेयमृङ् माता, तस्याः पादो वत्सः; तथा सति यस्मादत्र चतुर्थं पादमुद्गाता पुनरारभते तस्माद् वत्सो मातरमभिवीक्ष्य हिमिति शब्दं करोतीति ।
न केवलं लिङ्गमात्रेण प्रग्रथनं, किन्तु छन्दोगानां प्रसिद्ध्यापि; ते ह्येवं स्मरन्ति 'काकुभः प्रगाथः' इति । किञ्च प्रगाथशव्दार्थपर्यालोचनेनापि ग्रथनं गम्यते । प्रकर्षेण ग्रथनं यत्र स प्रगाथः । प्रकर्षो नाम आम्नाताद्वक्पाठादाधिक्यम् । तच्च पूर्वोक्तरीत्यापादाभ्यासपुरःसरस्कृततरसम्पादनेनोपजायते । तस्मान्नोत्पतिककुभौ ग्रहीतव्ये, किन्तर्हि? प्रग्रथनेन द्वे उत्तरे ककुभौ सम्पाद्य तासु तिसृपु रथन्तरं गातव्यम् । तथा बृहदपि । एवं सति पंक्ते पाठः सार्थो भवति, नचैवं ककुबुत्पत्तिवैयश्र्यमिति शङ्कनीयम्, वाचस्तोमे तदुपयोगात्; तस्मान्न कापि प्रग्रथने अनुपपत्तिः इति ।।
द्वितीयं वर्णकम् –
'यौधाजये रौरवे च पृहत्योरागमोऽथवा ।
ग्रथनं पूर्ववत्पक्षौ षष्टिलिङ्गमिहोच्यते ।।
इदमाम्नायते 'रौरवयौधाजये वार्हते तृचे भवतः' इति [ताण्ड. ब्रा० ७ । ३] अयमर्थः रौरवनामकं किञ्चित् साम [ऊहगान १।२] तथा, यौधाजयनामकमपरम् [ ऊहगान १ । ३] तयोः साम्नोर्बृहतीच्छन्दस्कस्वच आश्रय इति । उत्तराग्रन्थे तु तस्य सामद्वयस्याश्रय एकः प्रगाथः आम्नातः, तस्मिंश्च प्रगाथे 'पुनानः सामेत्यसावृक् प्रथमा, सा च बृहती,'दुहान उधर्दिव्यमिति द्वितीया, सा तु विष्टारपंक्तिः । तामेतां विष्टारपंक्तिमपनीय तस्याः स्थाने उत्पत्तिबृहत्यौ द्वे ऋचौ आनेतव्ये इति पूर्वपक्षः । बृहतीविष्टारपंक्त्योः प्रग्रथनविशेषेण द्वे बृहत्याबुत्तरे सम्पादनीये इति राद्धान्तः । तत्रोभयत्र युक्तिः पूर्वन्यायेन द्रष्टव्या । लिङ्गं त्वेवमाम्नायते 'षष्टिस्त्रिष्टुभो माध्यन्दिनं स्तवनम्’ इति, अयमर्थः रौरवयौधाजयनामके सामनी माध्यन्दिने सवने गीयेते । तस्मिंश्च सवने त्रिष्टुप्छन्दस्का ऋचः षष्टिर्भवन्तीति, सेयं षष्टिसंख्या प्रग्रथनपक्षे उपपद्यते । तथाहि, माध्यन्दिने सवने पवमान एकः पृष्टस्तोत्राणि चत्वारि । पवमाने त्रीणि सूक्तानि । 'उच्चातेजातमित्येकं सूक्तम्, तत्र गायत्र्यस्तिस्र ऋचः; पुनानः सोमेति द्वितीयं सूक्तम् । तच्च प्रगाथ रूपम्, तत्र पूर्वा बृहती उत्तरा विष्टारपक्तिः, 'प्रतुद्रव परि कोशमिति' तृतीयं सूक्तम्, तत्र त्रिष्टुभस्तिस्रः । पृष्ठस्तोत्रेषु 'अभि त्वा श्स्येति' प्रगाथरूप प्रथमं सूक्तम् । तत्र पूर्वा बृहती उत्तरा विष्टारपक्तिः, 'कया नश्चित्र' इति द्वितीयं तत्र तिस्रः गायक्त्व; 'तं वोदस्ममृतीषहमिति तृतीयं प्रगाथरूपं, तत्र बृहतीपंक्त्यौ । 'तरोभिर्वोविदद्वसुनिति' प्रगाथरूपं चतुर्थ, तत्रापि बृहतीपंक्त्यौ । एवमन्यस्मिन्
Page 071 (154)
सवने सप्त सूक्तानि । तेषु नव सामानि गेयानि । प्रथमे सूक्ते गायत्रमामहीयवं चेति द्वे सामनी, द्वितीये रौरवं योधाजयं च, तृतीये औशनम्, चतुर्थे रथन्तरम्, पञ्चमे वामदेव्यम्, षष्ठे नौधसम्, सप्तमे कालेयम् । तत्र, प्रथमसूक्तस्य सामद्वयनिष्पत्तये द्विरावृत्तावाश्रयभूता ऋचः षड् गायत्र्यो भवन्ति, पञ्चमसूक्तगता वामदेव्यसामाश्रयभूताः तिस्रः ऋचः सप्तदशस्तोमसिद्ध्यर्थमावर्त्त्यमानाः सप्तदश गायत्र्यः इत्येवं मिलित्वा त्रयोविंशतिर्गायित्र्यः । षष्ठे सूक्ते बृहतीपङ्क्त्यौ प्रग्रथनेन वार्हतस्तृचो भवति, यथा सप्तमेऽपि, तत्रोभयत्र सप्तदशस्तोमे सति चतुस्त्रिंशद् बृहत्यो भवन्ति; द्वितीयसूक्तेऽपि प्रग्रथनेन वार्हतं तृचं सम्पाद्य सामद्वयार्थमावृत्तौ षड् बृहत्यो भवन्ति । चतुर्थसूक्ते रथन्तरसामार्थं पूर्ववर्णकोक्तरीत्या प्रग्रथने सति ककुभाद्ध्यरे भवतः; प्रथमा तु स्वतःसिद्धधृहती तत्र सप्तदशस्तोमे सति पञ्च बृहत्यो द्वादश ककुभश्च सम्पद्यन्ते । तस्य च स्तोमस्य विधायकं ब्राह्मणमेवमाम्नायते – ‘पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः इति (ताण्ड. २ । ७)
अयमर्थः – एका स्वतः सिद्धा बृहती, प्रग्रथिते द्वे ककुभावित्येवंविधस्तृचस्त्रिभिः पर्य्यायैरावर्त्तनीयः, प्रथमे पर्याये त्रिर्बृ’ हती गातव्या, सकृत् सकृत् ककुभौ, द्वितीये पर्याये सकृद् बृहती त्रिवारमन्तरा ककुप् सकृदन्त्या । तृतीये पर्याये सकृद् बृहती, ककुबाविति। हिङ्करोति हिङ्कारोपलक्षितं गानं कुर्यादित्यर्थः । तदेवं तृतीयसूक्तव्यतिरिक्तेषु षट्सु सूक्तेषु त्रयोविंशतिर्गायत्र्यः पञ्चचत्वारिंशद् बृहत्यो द्वादश ककुभः सम्पन्नाः, तत्र ककुप् अष्टाविंशत्यक्षरा, तस्यां षोडशाक्षरे गायत्रीपादद्वये योजिते चतुश्चत्वारिंशत्यक्षरा त्रिष्टुप् सम्पद्यते । अनया दिशा द्वादशानां ककुभां त्रिष्टुप्त्वसम्पादनाय चतुावंशतिर्गायत्रीपादा योजनीया, तथा सत्यष्टौ गायत्र्यो गताः, पञ्चदश गायत्र्योऽवशिष्यन्ते । तासां पञ्चचत्वारिशत् पादाः, तांश्च तावतीषु बृहतीषु संयोज्य त्रिष्टुभः सम्पादनीयाः। तत एताः पञ्चचत्वारिंशत् ककुप्सु निष्पन्नाः द्वादश। तृतीये सूक्ते स्वतःसिद्धातिस्रः इत्येवम् प्रग्रथनपक्षे षष्टिस्त्रिष्टभ उत्तराग्रन्थे समाम्नाता एव लभ्यन्ते। उत्पत्तिबृहत्यानयने तु प्रकरणाम्नातानां तावतीनामलाभात् प्रकृतहानाप्रकृतकल्पने प्रसज्येयाताम्। तस्मात् त्रिष्टुभः षष्टिरित्येतद् बृहतीप्रग्रथनस्या लिङ्गम्। प्रग्रथनप्रकारस्त्वभिधीयते - पुनानः सोमेत्यस्या बृत्याश्चतुर्थपादं पुनरुपादाय द्विरभ्यस्य दुहान उधर्दिव्यमित्यस्या विष्टारपङ्क्तेः पूर्वार्द्धेन संयोजयेत् सा बृहती भवति एतदीयं चतुर्थं पाद द्विरभ्यस्योत्तरार्द्धेन योजयेत् सापि बृहती भवति तस्माद् यौधाजयरौरवयोर्बृहत्यौ उत्तरे प्रग्रथनीये। एवम् नौधसकालेययोरपि द्रष्टव्यम् इति॥
Page 072 (155)
तृतीयवर्णकम् –
श्यावाश्वान्धीगवेऽनप्युवा नेये ग्रथ्यते ऽथवा ।
पुरेव लिङ्गं जगती चतुर्विंशतिकीर्तनम् ।।”
इदमाम्नायते – ‘पञ्चछन्दा आवापः आर्भवः पवमान सप्तसामा, गायत्रसंहिते गायत्र्ये तृचे भवतः, श्यावाश्वान्धीगवे आनुष्टुभे तृचे भवतः, उष्णिहि सफम्, ककुभि पौष्कलम्, कावमन्त्यं जगतीषु' इति । अयमर्थः – अस्ति तृतोयसबने पवमानः आर्भवसंज्ञकः, तस्मिन् पञ्च सूक्तानि, सप्त सामानि । 'स्वादिष्ठया मदिष्ठया' इत्येकं सूक्तम् [उ०आ०१।१५], तस्मिन् गायत्र्यस्तिस्र ऋचः तासु 'गायत्रं' 'संहितं [उ० गा० १।8] चेति द्वे सामनी । पुरोजितीवो अन्धसः' इति सूक्तान्तरम् [उ० आ० १।18], तत्रैकानष्टुवुत्तरे द्वे गायत्र्यौ । तासु 'श्यावाश्वम्' [ऊ०गा०१प्र,११] 'आन्धीगवं'[ऊ०गा०१प्र,११] चेति द्वे सामनी, 'इन्द्रमच्छ सुता' इत्यपरं सूक्तम् [उ०आ०, १ प्र, १७] तस्मिन्नुष्णिहस्तिस्रः तासु 'सक्तं’ साम । 'पवस्व मधुमत्तम' इति प्रगाथः [उ० मा १ । १6], तस्मिन्पूर्वा ककुद्, उत्तरा पंक्तिः तत्र 'पौष्कलं’ । 'अभिप्रियाणि पवते च नोहितः’ इत्यन्त सूक्तम् [उ० आ० १ ।१9] तत्र तिस्रो जगत्यः तासु 'काव' [ऊह, १ प्र 16] साम । एतेषां पञ्चानां,मध्ये, 'पुरोजिती वः', पवस्व’ इत्यनयोः सूक्तयो यद्यपि द्वे द्वे छन्दसी, तथापि समासु गानं निष्पादयितुं प्रग्रथने कृते सति एकमेव छन्दः सम्पद्यते, ततो गायव्यानुष्टुबुष्णिक्ककुज्जगतीभिः पञ्चच्छन्द आर्भव पवमानो ऽस्मिन् सवने आवपनीय इति । तत्र 'पुरो जितीव' इत्यस्मिन् सूक्ते श्यावाश्र्वमान्धीगवं च समासु गातुमुत्तरे गायत्र्यावाम्नाते परित्यज्य द्वे उत्पत्यनुष्ठभा नेतव्ये इति पूर्वपक्षः । चतुर्थ पादं पुनरुपादाय द्वे अनुष्टुभौ प्रग्रथनीये इति राद्धान्तः ।
तत्रोभयत्र पूर्व वर्णच्छयन्यायेन युक्तिर्द्रष्टव्या । लिङ्गंत्वेवमाम्नायते 'चतुर्विंशतिर्जगत्यस्तृतीयसवन एका च ककुविति' सेयं सङ्ख्या प्रग्रथनपक्षे उपपद्यते । तथाहि गायत्रसंहितयोः साम्नोराश्रये गायत्रे तृचे द्विरभ्यस्ते सति षट् गायत्र्यो भवन्ति । चतुर्विंशत्यक्षरा गायत्री, अष्टाचत्वारिशदक्षरा जगती । ततः षड्भिः गायत्रीभिः तिस्रो जगत्यः भवन्ति, श्यावाश्र्वान्धीगवयोराश्रयभूताः प्रग्रथिता, द्विरभ्यस्ताः षडनुष्टुभो भवन्ति । ताभिश्च तिस्रो जगत्यो भवन्ति मिलित्वा सप्त जगत्यः सम्पन्नाः । सफस्य पौष्कलस्य च सामान्तरवत्तृचे गानं न कर्त्तव्यम्,किन्त्येकैकस्यामृचि । तत् कुतोऽवगम्यते? उष्णिगहि ककुभीति सप्तम्येकवचनान्ताभ्यां विशेषविधानात् [ताण्ड्य ८ प्रपा ] | अष्टाविंशत्यक्षरयोरुष्णिक् ककुभोरेका जगती गायत्रीपादश्च सम्पद्यते । ककुभि मध्यमः पादो द्वादशाक्षरः उष्णिहि च परः पादः इति तयोर्भेदः । कावस्याश्रयत्स्वाः स्वतःसिद्धा तिस्रो जगत्यः इति मिलित्वा पवमानेऽस्मिन्नेकाद्श
Page 073 (156)
जगत्यो भवन्ति, गायत्रीपादश्चातिरिच्यते । आर्भवपवमानवत्तृतीयसवने यज्ञायज्ञीयस्तोत्रमेकमस्ति । तस्य चाश्रयः 'यज्ञा यज्ञा वो अग्नये' इत्यसौ प्रगाथः [ उ०आ०१।१०], तत्र पूर्वा बृहती उत्तरा विष्टारपंक्तिः । तयोः प्रग्रथनेन ककुभावुत्तरे कर्त्तव्ये । तत्रैकविंशस्तोमः तस्य विधायिका विष्टतरेवमाम्नायते – ‘सप्तम्यो हिं करोति स तिसृभिः स तिसृभिः स तिसृभिः, सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः' इति । अयमर्थः – प्रथमायाः बृहत्यास्त्रिषु पर्यायेषु त्रिवारमेकवारं पुनस्त्रिवारमिति सम बृहत्यः, मध्यमायाः ककुभः प्रथमद्वितीययोः पर्यायोखिस्त्रिः पाठः, अन्त्ये सकृत्, उत्तमायाः ककुभः । आदौ सकृत् द्वितीयतृतीययोस्त्रिस्त्रिः, एवं चतुर्द्दश ककुभः । तासु ककुप्सु द्वादशाक्षराः मध्यमपादाश्चतुर्दश, तेषु सप्तपादाः सप्तसु बृहतीषु योजनीयाः, ततः सप्त जगत्यो भवन्ति, अवशिष्टा अष्टाक्षराः ककुभामाद्यपादा अन्त्यपादाश्च, मिलित्वाष्टाविंशतिः । तेषु षड्भिः पादौः एका जगतीत्यनेन क्रमेण चतुर्विंशतिपादैञ्चतस्रो जगत्यो भवन्ति, ये तु द्वादशाक्षराः सप्तपादाः पूर्वमवशिष्टाः तेषु पवमानशेषोऽष्टाक्षरः पादो योजनीयः, ककुभांशेष्वेष्वष्टाक्षरेषु चतुर्षु पादेषु चत्वार्य्यक्षराणि याजनीयानि, ते द्वे जगत्यौ भवतः; तदेवं यज्ञायज्ञीयस्तोत्रे त्रयोदश जगत्यः पूर्वोक्ताः पवमानगता एकादशेति चतुर्विंशतिर्जगत्यः, चतुरक्षरवर्जिताश्चत्वारोऽष्टाक्षरपादाः मिलित्वा कबुभेका भवति अनेन लिङ्गेन श्यावाश्वमान्धीगवं च प्रग्रथिततृचे गातव्यम्, न तु तत्रोत्पत्यनुष्टुवानयनमिति स्थितम् इति” ॥
चतुर्थवर्णकम् –
चतुःशते प्रग्रथनमृचः पादस्य वाग्रिमः ।
तृचे मुख्यत्वतो नैवमृगन्यत्वख्य वर्णनात्' ।।
गवामयने ब्रह्म साम विहितम् 'अभिवर्त्तो ब्रह्मसाम भवति' इति । तत्प्रकृत्य श्रूयते ‘चतुःशतमैन्द्रा वार्हताः प्रगाथाः’ इति (लाट्या०सू०१०।३) । चतुरुत्तरशतसङ्ख्याकाः इन्द्रदेवताकाः बृहतीच्छन्दस्काः, ऋग्द्वयात्मकाः, तेष्वेकप्रगाथगते द्वे ऋचौ द्वितीयप्रगाथगतामेकामृच च प्रग्रथ्य तृचे अभिवर्त्त नामकं साम गातव्यम्। तथा स्त्याम्नातानामविकृतानामेव तिसृणामृचां लाभात् तृचस्य मुख्यत्वं भवति, पूर्वोक्तरीत्या पादप्रग्रथने तु विकृतत्वादमुख्यस्तृचः स्यात् इति प्राप्ते, ब्रूमः-अन्याः अन्याः ऋचो भवन्ति तदेव सामेत्यृचामन्यत्वमत्र वर्ण्यते। तच्च पादप्रग्रथने सम्भवति, ऋक्प्रग्रथने तु येयमृक् पूर्वस्य तृचस्यान्त्या सैवोत्तरस्य तृचस्याद्येत्यन्यत्वमृचः न स्यात्। तस्मात् पादस्य प्रग्रथनम् इति” ॥
Page 074 (157)
तत्रैव नवमदशमयोरधिकरणयोः अपरविशेषौ चिन्तितौ । नवमाधिकरणम् –
आइभावो योनिवशादुत्तरावशतोऽथवा ।
गीत्यर्थत्वादादिमोऽन्त्यो वर्णाभिव्यञ्जकत्वतः ।।
'यद्योन्यां तदुत्तरयोगायति' इति श्रूयते, तत्र 'कया नश्चित्र अणुवत्’ (उ०आ० १।१२।१) इत्यसावृग्योनिः । तस्यामृचि 'कया' इत्यक्षरद्वयमाद्यो भागः, नश्चित्र आभुवदित्यक्षरषट्कं द्वितीयो भागः । तस्मिन् भागे द्वितीयाक्षरे चकारस्योपरितनमिकारं विलोप्य तस्य स्थाने आइभावमाम्नाय गीतिर्निष्पादिता । 'कस्त्वा सत्योमदानामि' त्यजन्तर्भावित्युत्तरा, (उ०आ०१।१२।२) तस्यां योनिन्यायेन चतुर्थाक्षरे तकारस्योपरितनं यकरामोकार च लोपयित्वा तयोः स्थान आइभावः कार्यः । 'अभी षु णः' असावपरोत्तरा (उ०आ० १।१२।३) । तस्यामपि चतुर्थाक्षरे णकारस्योपरितन सकारं लोपयित्वा तस्य स्थाने आइभावः कर्त्तव्यः, अन्यथा गीतिनाशप्रसङ्गात् इति प्राप्ते, ब्रूमः – नात्र योनौ वर्णान्तरस्यागमः, किन्तर्हि ? विद्यमान एव चकारस्योपरितनः इकारः सामप्रसिद्ध्या प्रक्रियया वृद्धः सन्तैकारो भवति, तस्य सन्ध्यक्षरत्वात्, 'आकारः पूर्वोभागः, ईकारः उत्तर भागः', तावुभौ विश्लेषेण गीयमानौ आइभावं प्रतिपद्येते, तथा च सामगा आहुः 'वृद्धं तालव्यमाइ भवति' इति । तथा स्वत्युत्तरयोश्चतुर्थाक्षरे नास्ति तालव्य इकारः इत्याइभावः न कर्त्तव्यः । 'अभी षु णः सखीनामविता जरितॄणाम्’ इत्येतस्यामुत्तरायां द्वादशाक्षरगतस्य रेफस्योपरितनः इकारः पूर्ववदाइ भवति । तथा सोऽयमाहभावः उक्तरीत्या वर्णाभिव्यञ्जकत्वादुत्तरागतवर्णवशेन कर्त्तव्यः, गीत्यर्थत्वाभावेन योनिक्रमे .तेन विनापि गीतिर्विनश्यति इति ।
दशमाधिकरणम् –
स्तोभानात प्रदिश्यन्ते नागीतित्वेन वर्णवत् ।।
स्वरादिवत् प्रदिश्यन्ते गीतिकालोपयोगतः ।।
वामदेव्यसाम्नः योनौ द्वयोरर्द्धयोर्मध्ये औकारद्वयेन होशब्देन हायिशब्देन च निष्पन्नः स्तोभः एवमाम्नातः 'औऽ३ हा हायि' इति । सोऽयं स्तोभः नोत्तरयोः अतिदिश्यते, कुतः? अगीतित्वात् 'यद्योन्यां तडुत्तरयोर्गायति' इति गीतिमात्रभतिदिश्यते । तत्र प्रथमाया ऋचः वर्णाः यथा नातिदिश्यन्ते तथा स्तोभा अपि इति प्राप्ते, ब्रूमः – स्वरो वर्णविश्लेषो विराम इत्येते गीत्युपयोगित्वाद् यथातिदिश्यन्ते तथा स्तोभा अपि गीतिकालपरिच्छेदकत्वादतिदिश्यन्ते इति ।।
Page 075 (158)
अष्टमाधिकरणद्वितीयवर्णके क्वचिदुत्पन्ना गानाभावशङ्का निवारिता –
गानस्य नियमो नोत विद्यते वह्न्युपस्थितौ ।
नाम्नानद्वयतोऽस्त्येव प्रकृतत्वाच्छुतेरपि ।।
क्वचित् कर्मविशेषे श्रूयते – ‘अयं सहस्रमानव इत्येतया हवनीयमुपतिष्ठते' – इति असावृग् संहिता ग्रन्थे (पू०आ० ५|८|7) समाम्नाता, प्रगीता गानग्रन्थे (गेय गान १२।१।२९) । ततो वह्नेरुपस्थाने तस्यामृचि गानं न नियतं किन्तु विकल्पितम्-इति प्राप्ते, ब्रूमः – अस्त्वेव नियमो गाने, कुतः? सामवेदे गानस्यैव प्रकृतत्वात्, ऋचां संहितापाठोऽत्र गानायैव, नह्याधारमन्तरेण गातु शक्यते । अथोच्येत 'अयं सहस्रेत्यृकप्रतीकपूर्वकेण वाक्येनोपस्थानविधानाद् वाक्यस्य प्रकरणात् प्रबलत्वादृचैवोपस्थानम् इति, तन्न । प्रकृतप्रगीतमन्त्रवाचिन्या एतयेति सर्वनामश्रुतेः प्रवलतरत्वात् । तस्मात्प्रगीतयोरुपस्थानन्” – इति ||
पञ्चदशाधिकरणादिषु त्रिषु धर्मसाङ्कर्यंचिन्तितम् । पञ्चदशाधिकरणम् –
बृहद्रथन्तरैर्धर्मैः सङ्कीर्णे वा व्यवस्थिते ।
पृष्ठैक्यात् सङ्करो धर्मे निर्देशादेर्व्यवस्थितिः ।।
ज्योतिष्टोमे विकल्पनं पृष्ठस्तोत्रे विहितम् 'बृहत् पृष्ठं भवति, रथन्तरं पृष्ठं भवति' इति । तत्रोभयत्र धर्माः श्रुताः – ‘बृहति प्रस्तूयमाने मनसा समुद्रं ध्यायेत्, रथन्तरे प्रस्तूयमाने सम्मीलयेत्’ इत्यादयः (ताण्ड्य ७।७) ते उभयत्र सङ्कीर्येरन्, पृष्ठसिद्धिलक्षणस्य कार्यस्यैकत्वात् – इति चेत् ? न, निर्देशभेदात्, साङ्कर्ये त्ववैलक्षण्येन बृहदिति रथन्तरमिति च द्वौ निर्द्देशौ नापपद्येयाताम् किञ्चाभयधर्मसाहित्य विरुद्धम् । उच्चैर्गेयं बलवद् गेयोमाङ्ग बृहद्धर्मः । नोच्चैर्गेयं न बलवद् गेयमिति रथन्तरधर्मः । तस्मानुभयोधर्मो
व्यवतिष्ठन्ते इति ।।
षोडशाधिकरणम्-
तयोर्धर्माः समुच्चेया न वा कण्वरथन्तरे ।
द्विस्थानत्वाद् भाष्य आद्यो विरोधाद् वार्त्तिकेऽन्तिमः ।।
वैश्यस्तोमे 'कण्वरथन्तरं पृष्ठं भवति’ इति श्रूयते । तत्र कण्वरथन्तरादयसाम्नः पृष्ठस्तात्रसाधनयोः प्राकृतयोः बृहद्रथन्तरयोरुभयाः स्थाने पतित्वादुभयसम्वधिधर्माः समुकेतव्याः । ये तु विरुद्धाः धर्माः उच्चैर्गेयं नोच्चर्गेयमित्यादयः ते विकल्पन्ताम् समुद्रध्याननिमीलनादीनां विरोधाभावात्,प्रकृताविव निर्देशभेदस्यात्राभावाच्च समुच्चयः इति भाष्यकारस्य
Page 076 (159)
मतम् । विकल्पितयोरेव द्वयोः स्थाने पतितत्वाद् विरुद्धधर्मस्वारस्याच्च विकल्प एव युक्तो, न तु समुच्चयः इति वार्त्तिककारस्य मतम् । तत्रोभयत्र तत्तन्मतविपरीतः पूर्वपक्षः उन्नेयः ।।
सप्तक्याधिकरणम् –
द्विसामके द्वयोधर्म साङ्कर्यं वा व्यवस्थितिः ।
पृष्ठैक्यात् सङ्करो मैवं धर्माणां सामगत्वतः ।।
'गोसच उभे कुर्यात्’ इत्यादिना गोसवादौ बृहद्रथन्तरस्तामद्वयसाध्यं पृष्ठस्तोत्रं विहितम् । तत्र पृष्ठस्तोत्रस्यैकत्वेन धर्मव्यवस्थायाः असम्भवात् बृहत्युभयधर्माः कर्त्तव्याः, रथन्तरे ऽप्युभयधर्माः, इत्येवं साङ्कर्यमिति चेत् ? मैवम् । नह्येते पृष्ठस्तोत्रप्रयुक्ताः धर्माः किन्तु सामप्रयुक्ताः । ततः साम्नो भेदात् धर्माः व्यवतिष्ठन्ते इति व्यवस्थितधर्मोपेताभ्यां बृहद्रथन्तरनामकाभ्यां सामभ्यां निष्पन्नस्तोत्रस्य पृष्ठमिति वैदिकं नामधेयम्, यथा त्रिवृच्छब्दस्यार्थो वेदप्रसिद्धो गृहीतः तद्वत्” ।।
स च त्रिवृच्छब्दः प्रथमाध्यायस्य तृतीयपादे पञ्चमाप्रिंकरणस्यान्तिमे वर्णके विचारितः –
लौकिको वाक्यगो वार्थस्त्रिवृदादेः समत्वतः ।
उभौविध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः ।।
त्रिवृद् वहिष्पवमानम्' (ताण्ड्य ब्रा० २।१४) इति श्रुतौ त्रिवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोऽर्थः वाक्यशेषादृक्त्रयात्मकेषु सूक्तेष्ववस्थितानां वहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् 'उपास्मै गायता नरः' (उ० आ० १।१२।३) इत्यादीनामृचां नवकमर्थः । तत्र धर्मनिर्णये वेदस्य प्रवलत्वेऽपि पदपदार्थनिर्णये लोकवेदयोः समानवलवत्त्वात् उभावर्थौ विकल्पेन गृहीतज्यौ, इति चेत् ? मैवम, लौकिकार्थस्वीकारपक्षे विधिवाक्ये त्रैगुण्यमर्थः, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम्, इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् । अतः एकवाक्यत्वाय स्फोत्रियाणां नवकमेव विधिवाक्ये नियतोऽर्थः ।।
पृष्ठशब्दस्य नामधेयत्वं प्रथमाध्याये चतुर्थपादस्य तृतीयाधिकरणे चित्राशब्दवन्निर्णीतम् –
यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् ।
चित्रस्त्रीत्वगुणौ रूढेरग्नीषोमीयके पशौ ।।
द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः ।
स्यान्नाम पृष्ठाज्यवदिंष्पवमानेषु तत्तथा ।
‘चित्रया यजेत पशुकामः' इत्याम्रायते । तत्र चित्राशब्दो नोद्भिद – शब्दवद् यौगिकः किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते । ततो न पूर्वन्यायेन् नामत्वं,
Page 077 (160)
तथा सति अग्नीषोमीयं पशुमालभेतेति विहितपशुयागमत्र यजेतेतिपदेनानूद्य तस्मिन् पशौ चित्रत्वस्त्रीत्वगुणौ विधीयेते इति प्राप्ते ब्रूमः – चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ, तयोर्विधाने वाक्य भिद्येत । तथा चोक्तम् –
'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयेरन् बहवोऽप्येकयत्नतः' ।। इति
अथ वाक्यभेदपरिहाराय गुणद्वयविशिष्टं पशुद्रव्यरूपं कारकं विधीयेत, तदा गौरवं स्यात् । तस्माच्चित्राशब्दः पूर्ववत् यजिसामानाधिकरण्येन यागनामधेयं भवति, चित्रत्वं च तस्य विलक्षणद्रव्यद्वारेणोपपद्यते । 'दधि मधु घृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजापत्यम्’-इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि ‘षडाम्नातानि' (ताण्ड्य २६) तदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् । यागस्वरूपभृतयोः दध्यादिद्रव्यप्रजापतिदेवतयोः अत्रोपदिश्यमानत्वात् । उत्पन्नस्य तस्य यागस्य 'चित्रया यजेत पशुकामः'-इत्येतत् फलवाक्यम् । एवं सति प्रकृतार्थो लभ्येत, अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतिंहानाप्रकृतप्रक्रिये प्रसज्येयाताम्, लिङ्प्रत्ययस्य चानुवादकत्वाङ्गीकारान्तुख्यो विध्यर्थो वाध्येत तस्माच्चित्रापदं नामधेयम् ।।
यथा चित्राशव्दे नामधेयत्वं तथा बहिष्पवमानशब्दे आज्यशब्दे पृष्ठशव्दे च तत्कर्मनामधेयत्वं योजनीयम् । एव हि श्रूयते (ताण्ड्य २0) – ‘त्रिवृद् बहिष्पवमानम्, पञ्चदशान्याज्यानि, सप्तदशानि पृष्ठानि' इति । अस्य वाक्यत्रयस्यार्थो विविच्यतेत्तामगानामुत्तरा ग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि । तत्र 'उपास्मै
गायता नरः'-इत्याद्यसूक्तम् । 'दविद्युतत्या रुचमन्दति द्वितीयम् । 'पवमानस्य ते। कवे'-इति तृतीयम् । ज्योतिष्टोमस्य प्रातःसवनानुष्ठाने तेषु त्रिषु सूक्तेषु गायत्रं साम गातव्यम् । तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं वहिष्पवमानमित्युच्यते । तत्रावस्थितानामृचां पवमानार्थत्वाद्बहिःसम्बन्धाच्च ।
न खलूविदं स्त्वोत्रमृद्वतरस्तोत्रचत् सदोनामकस्य मण्डपस्य मध्ये औदुम्बर्य्याः स्तम्बशाखायाः
सन्निधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते । तस्य च वहिष्पवमानस्य त्रिवृन्नामच्च स्तोमो भावति, तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्यमेवमास्रायते (ताण्ड्य २ । १-३) – ‘तिसृभ्यो हिं करोति स प्रथमया, तिसृभ्योर्हि करोति स मध्यमया, तिसृभ्यो हिं करोति स उत्तमयोद्यती त्रिवृतो विष्ठतिरिति' ।
अयमर्थः-सूक्तत्रयपठितानानवानामृचां गानंत्रिभिः पर्यायैः कर्त्तव्यम् ।
Page 078 (161)
तत्र प्रथमपर्य्याये त्रिषु णक्तेषुआद्याश्मिरज ऋचः, द्वितीये पर्थ्याये मध्यमाः, तृतीये पययि चोत्तमाः तिसृभ्य इति तृतीयार्थे पञ्चमी, हिं करोति गायतीत्यर्थः । सेयं यथोक्तप्रकारोपेता गीतिरिजवृत्स्तोमख्य विष्टुतिः स्तुतिप्रकारविशेषः । अस्याः विष्टुतेरुद्यती नामेति ।। एवं परिवर्त्तिनी कुलायिनीति द्वे विष्टुती ।। तयोः परिवर्तिन्येवमाम्रायते (ताण्ड्य २।२)-'तिसृभ्योहि करोति स पराचीभिः, तिसृभ्यो हि करोति स पराचीभिः, तिसृभ्योहि करोति सु पराचीमिः, परिवर्त्तिनी त्रिवृतो विष्टुतिः'-इति । पराचीभिः अनुक्रमेणाम्नाताभिरित्यर्थः । कुलायिन्येवमाम्नायते-'तिसृभ्योहि करोति स पराजीभिः, तिसृभ्यो हिं करोति या मध्यमा सा प्रथमा, या उत्तमा सा मध्यमा, या प्रथमा सोत्तमा; तिसृभ्यो हिं करोति योत्तमा सा प्रथमाया प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुति'-इति । अत्र प्रथमसूक्ते पाठक्रम एव, छितीये मध्यमोत्तमप्रथमाः, तृतीयेतृत्तमप्रथममध्यमाः इत्येवं व्यत्ययेनमन्त्राः गातव्याः । तदिदं विष्ठतित्रयं विकल्पितम् । त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थः, न तु त्रैगुरम्यमितिपूर्वपादे निर्णोतम् ।।
उत्तराग्रन्थे धहिप्पवमानसूक्तेभ्यः त्रिभ्य ऊर्द्धं चत्वारि सूक्तान्याम्नातानि-'अग्न आयाहि वीतये (उ०. आ०. १ । ४) इत्याद्यं सूक्तम् । 'आ नो मित्रावरुणा' (उ० आ० १।5) इति द्वितीयम् । 'आयाहि सुषुमाहितश् ( उ० आ० १ । ६) इति तृतीयम् । 'इन्द्राग्नी आगतं सुतम् (उ० आ० १ । ७) दति चतुर्थम् । तान्येतानि प्रातःसवने गायत्रसाम्ना गीयमानानि चत्वाञ्जर्गव्यस्तोत्राणीत्युच्यन्ते । तन्निवचनं श्रूयते-यदाजिमीयुस्तदाज्यानामाज्यत्वम्’-इति (ताण्डय ७ । २) । तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते-'पञ्चभ्यो। हिं करोतिस तिसृभिः स एकया स क्त्वया, पञ्चभ्यो हि करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः'- इति (ताण्डय ४ । 1 ) । एक सूक्तं त्रिरावर्त्तनोय, तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्तावुत्तमायाः । सोऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्यः ऊर्द्धमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानश्चान्याम्नाय तत ऊर्द्ध्वं चत्वारिसूक्तान्याम्नातानि, तेषु ‘अभित्वा शूर नोनुमः (उ० आ० १|११) इत्याद्यम्-‘कया नश्चित्र आ भुवत् (उ०. आ० १।१२) इति । द्वितीयम् । 'तं वो दस्ममृतीषहम् (उ०. आ० १ । १३) इति तृतीयम् । 'तरोभिर्वो विदत्नसुम् ( उ० आ० १ । १४) इति चतुर्थम् । एतानि क्रमेण 'रथन्तर' - (ऊह० १ प्र० १ सा) 'वाभदेव्य' ( ऊह० १ प्र ५ सा) 'नौधस' (ऊह० १ प्र ६ सा) 'कालेय' ( ऊह० १ प्र ७ सा) सामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यते । स्पर्शनात् स्पृष्ठानीत्येवं निरुक्ति-
Page 079 (162)
द्रष्टव्या । तेषु स्तोत्रेषु सप्तदशस्तोमो भवति, तस्य स्तोमस्य विष्टुतिरेवमाम्नायते-पञ्चभ्यो हि करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हि करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः'-इति । अत्र प्रथमावृत्तौ प्रथमायाः ऋचः त्रिरभ्यासः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्तौ मध्यमोत्तमयोः । सोऽय सप्तदश स्तोमः । अत्र त्रिष्वपि वाक्येषु त्रिरूपञ्चदशसप्तदशशब्दाः गुणविधायकत्वेन सम्मताः, यदि बहिप्पवमानाज्यपृष्ठशव्दा अपि गुणविधायकाः स्युः, तदा प्रत्युदाहरणम्। गुणद्वयविधानाद् वाक्यभेदः स्यात् । तस्माद् वहिष्पवमानादिशव्दाः स्तोत्रनामधेयानि, तैनमिभिः कर्मारत्यनूद्य त्रिवृदादिगुणाः विधीयन्ते-इति ।।
उक्तस्य पृष्ठादिस्तोत्रस्य .प्रधानकर्मत्वं द्वितीयाध्यायख्य प्रथमपादे पञ्चमाधिकरणे निर्णीतम् –
प्रउग शंसतीत्यादौ गुणतोत प्रधानता । द्वटादेव स्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ।।
स्मृत्यर्थत्वे स्तौतिशख्योर्धात्वोः श्रौतार्थबाधनम् । तेनाद्वष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ।।”
ज्योतिष्टोमे श्रूयते-'प्रउग शंसति', 'निष्केवल्यं शंसति, 'आज्यैः स्तुवते, 'पृष्ठैः प्लवते'--इति । प्रउगनिष्केवल्यशब्दौ शस्त्रीवशेषनामनी, आज्यपूष्ठशब्दौ तु व्याख्यातौ । अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रं, प्रगीतमन्त्रसाध्या स्तुतिः स्तोत्रम् । तयोः स्तुतशस्त्रयोर्गुणकर्मत्व युक्तं कुतः? तुषविमोकवद् द्वष्टार्थलाभात् । पठ्यमानेषु मन्त्रेषु अनुख्यरणेन देवता संस्क्रियते इति प्राप्ते, ब्रूमः – तेषु अनुस्मरणेन स्तातव्यायाः देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं स्तौतिशसतिधात्वोर्वाच्योऽर्थः । यदि मन्त्रवाक्यानि गुणसम्बन्धाभिधानपराणि, तदा धात्वोः मुख्यार्थलाभात् श्रुतिण्डगृहीता भविष्यति । यदा तु गुणद्वारेणानुस्मरणीयदेवतास्त्वरूपप्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा धात्वोः मुख्यार्थो न स्या। लोके हि 'देवदत्तश्चतुर्वेदाभिज्ञः' इत्युक्ते स्तुतिः प्रतीयते, तस्य वाक्यस्य गुणद्वारेण देवदत्तस्त्वरूपोपलक्षणपरत्वेन गुणसम्बन्धपरत्वात्; यदातुदेवदत्तस्त्वरूपपरता 'यश्चतुर्चेदी तमानय' इत्यादौ, तत्र न स्ततिप्रतीतिः, तस्य चतुर्वेदसम्बन्धद्वारेण देवदत्तख्यरूपपरत्वेन गुणसम्बन्धपस्त्वाभावात् । ततश्चाज्यैर्देवं प्रकाशेयत्, पृष्ठैर्देवं प्रकाशयेत् इत्येवं विध्यर्थपर्य्यवसानाद् धात्वोर्मुख्यार्थो वाध्येत । ततो धातुश्रुतिमवाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीति चेत्? ततोऽपूर्बमण्य इति ।।
Page 080 (163)
तत्रैव क्त्वियिपादेद्वादशाधिकरणे स्वामविशेषप्रयुक्तकर्मान्तरत्वमभिहितम् –
उक्त्वाग्निष्टुतमेतख्य वारवन्तीयसाम द्वि । रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलांप्तये ।। रेवत्यादिर्गुणः कर्म पृथग्वा पूर्ववद् गुणः । रेवतीवारवन्तीयसम्वन्धाख्यः पशुप्रदः ।।
साम्नोऽत्र फलकर्मभ्यांसम्बन्धे वाक्यभिन्नता । तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले ।।
'त्रिवृदग्निष्टोमस्तस्य वायव्याम् ऋक्षु एकविंशाग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत' (तारख्य १७ । ७) इत्यस्य सन्निधौ भूयते। (ताण्ड्य ९७ । ८)-‘एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत'-इति । अख्यायमर्थः-अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहोऽग्निष्टुन्नामकः, स च पृष्ठस्तोत्रे त्रिवृत्स्तोमयुक्ततया त्रिवृदित्युच्यते । अग्निष्टोमाक्थादीनां सप्तानां सोमसंस्थानां मध्य अग्निष्टोमसंस्थारूपत्वादग्निष्टोम इत्यप्युच्यते । प्रकृतौ तृतीयसवने आर्भवपवभानख्योपरि 'यज्ञायशीयं' साम गीयते, तेन च साम्नो अग्निष्टोमयागस्य समाप्यमानत्वादग्निष्टोमसामेत्युच्यते । तच्च प्रकृतौ 'यज्ञायज्ञा वो अग्नये' इत्याद्याग्नेयीञ्चक्षु ० आ० १| २0 । १-३) गीयते, अस्मिस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत् साम गातव्यम्, तच्च प्रकृताविवैकविंशस्तोमयुक्तम्, पशुकामस्य तु 'रेवतीर्न सधमाद'-इत्यादिषु रेवतीष्वृक्षु (उ० आ० ४।१४) 'वारवन्तीय' सत्व गायेदिति । तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ला यः सम्बन्धः सोऽयं पशुफालायाग्निष्टुत्त विधीयते । एतस्यैवेति प्रकृतपरामर्शकेनैतच्छब्देनान्यव्यावर्त्तकेनैवकारेण चाग्निष्टुतः सभर्प्यमाणत्वात्, यथा पूर्वाधिकरणे इन्द्रियफलाय प्रकृतेऽग्निहोत्रे दधिगुणो विहितः तद्वत्, इति प्राप्ते, ब्रूमः-विपमो दृष्टान्तः, दध्नो होमजनकस्त्वं न शास्त्रेण बोधनीयं, तख्यलोकतो ऽवगन्तुं शक्यत्वात् । फलसम्कध एक एव शास्त्रबोध्यः इति न तत्र वाक्यभेदः, इह तु रेवत्यृगाधारकधारवन्तीयसाम्नोऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद् दुर्वारो वाक्यभेदः । तेन पशुफलक यथोक्तगुणविशिष्टकर्मान्तरभत्र विधीयते । एतच्छव्दः एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ', इति ।
उत्तरस्त्विस्त्वधिकरणे निधनविशेषाः काम्याः विचारिताः –
Page 081 (164)
वृष्ट्यन्नस्वर्गकामानां सौरभं स्तोत्रमीरितम् ।
ग्यिनाद्यपि हीपुर्ग इति वृष्ट्यादिकामिनाम् ।।
फलान्तरं हि वृष्ट्यादि हीषादीनामुतोदिते ।
सौभरे फलसभिन्ने निधनं विनियम्यते ।।
फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति ।
सौभरस्य फल वृष्टिर्हीपित्युक्त्या विवर्द्धते ।।
नोक्तं वृप्टबन्नकामानामन्यत्वं प्रत्यभिज्ञया ।
नियमेऽपि चतुर्थ्येपा तादर्थ्यादुपपद्यते ।।
'यो वृष्टिकामो यो ऽन्नाद्यकामो यः स्वर्गकामः ससौभरेणस्तुवीत, सर्वे वै कामाः सौभरम् इति [ तारञ्चघ द्व।८] समाम्नाय पुनः समाम्नात- ‘हीषिति वृष्टिकामा निधनं कुर्यात्, उर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय' इति। 'सौभरं' नामसामविशेषम् (ऊह१।१६) । निधनं नाम पञ्चभिःसप्तभिर्वा भागैरुपेतम्य साम्नोऽन्तिमो भागः । तस्मिन्निधने हीषादयो विशेषाः सौभरसाम साध्यास्तोत्रफलेभ्यो वृष्ट्यादिभ्योऽन्यानि वृप्ट्यादिफलानि जनयितुं विधीयन्ते, कुतः ? हीषादिविधिवाक्ये वृष्टिकामायेत्यादिना चतुर्थीश्चवणात्; सा च तादर्थ्ये त्रयाणां हीषादीनावृष्ट्यादिकामपुरुषशेपत्वं गमयति, तच्छेषत्वं च पुरुषाभिलपितफलसाधनत्वे सत्युपद्यते । ततः सौभरस्य हीषीति विधनविशेषस्य च फलभूते द्वे वृष्टी भवतः, तदुभयमेलनान्भद्वतीवृष्टिः, इति प्राप्ते व्रूमः-सौभरविधौ यो वृष्ट्यादिकामः ‘स एव हीषादिविधौ प्रत्यभिज्ञायते । ततः सौभरस्य फलभूता ये वृष्ट्यादयः त एव होषादिशास्त्रेष्वनूद्यन्ते इति न फलान्तरम् । अथोच्येत नूतनफलान्तराभावात् हीपादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थकोऽयं विधिः इति तन्न, फलत्रयकामानां त्रयाणामनियमेनैव हीषादिषु मध्ये। यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात् तादर्थ्यन्तु फलान्तराभावेऽपि सौभरवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमानत्वादुपपद्यते । तस्मादयं निधनविशेषनियमः न विधिः इति ।
तृतीयाध्यास्य तृतीयपादे प्रथमद्वितीयाधिकरणयमे सामगाने उच्चत्वनीचत्वधर्मौ विचारितौ ।
तत्र प्रथमाधिकरणम् –
“कर्तव्यमुच्चैः सामर्गभ्यामुपांशु यजुषेत्यमी । मन्त्राणां वाथ वेदाना धर्मा मन्त्रगता यतः ।।
विध्युद्देशे भन्त्रवाचि शब्दाः प्रोक्ताः ऋगादयः । ऋग्वेदोऽवने खमुत्पन्न इत्युपक्रमवेदगीः ।।
असंजातविरोधोऽतस्तद्वशादुपसंहृतेः । नयने भीत वाक्येनधर्माणावेदगामिता ।।”
Page 082 (165)
ज्यतिष्टोमे श्रूयते – “उच्चैरृचा क्रियते, उपांशु यजुषा, उच्चैः साम्ना” इति [शबरभाष्यम् 2.1.38] । तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्माः उच्चैस्त्वादयः । तथा सति यजुर्वेदोत्पन्नाः अध्वर्युणा प्रयुज्यमानाः अप्यृचः उच्चैरेव पठितव्याः, इति चेत् १ मैवम्, असंजातविरोधित्वेन प्रवलमुपक्रममनुसृत्य तद्वशेनोपसहारख्य नेतव्यत्वात्। उपक्रमे हि वेदशब्दः श्रुतः-'त्रयो वेदा असृज्यन्त, अग्नेरृग्वेदः, वायोर्यजुर्वेदः, आदित्यात् सामवेदः (छा० उ० ४।19) इति । अतः उपक्रमगतवेदानुसारेण विध्युद्देशगतानामल्यृगादिशब्दानां वेदपरत्वे सत्यचोऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः । ननूपक्रमोऽर्थवादत्वाद् बुद्धा, उपसंहारो विध्युद्देशत्वात् प्रबलः, इति चेत् ? बाढम् । लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम्, इह तु प्रथमतो बुद्ध्यु त्पादकः उपक्रमः । तदानीमलब्धात्मकत्वान्न तस्य बाधकत्वं, पश्चात् तु वाक्यैकत्वाय तदविरोधे नैवात्मानं लप्स्यते । तदेवसुपक्रमोपस्वद्वारैकवाक्यतावलेन निर्णयात् वाक्यविनियोगोऽयम्' इति ।।
द्वितीयाधिकरणम् –
यलवेदस्थमाधानं तदङ्ग साम तत्र किम् । उर्च्चैरुपाशु वा गानमुञ्चैः शीघ्रप्रतीतितः ।
उत्पत्तेर्विनियोगोऽत्र, प्रवलोऽनुसृतियतः । मुख्यख्याङ्गेन कर्तव्या, तस्माद् गान उपांशुता ।।
आधानस्यात्र मुख्यत्वं, गानस्य गुणताऽथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणताऽस्त्विह।।
आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि। तत्र यद्यप्येतानि यजुर्वेदगतस्याधानस्याङ्गानि तथापि सामवेदे तेषानुत्पन्नत्वादुत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात् सामवेदधर्मेण गेयानीति चेत् ? न, विनियोगस्य प्रबलत्वात् । स च यजुर्वेदे श्रुतः – “य एवं विद्वान् वामदेव्यं गायति” इति [शबरभाष्यम् 2.2.3] । गुणेन हि मुख्यस्यानुसरणं न्याय्यम् । को गुणः, किं मुख्य इति चेत् ? अत्राङ्गित्वादाधानं मुख्यम् । सामगानमङ्गत्वेन गुणः । तथा सति 'धर्मः शिरः' इत्यादयः आधानाङ्गभूताः मन्त्राः यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि, अथवा विनियोगोऽनुष्ठापकविधित्वान्मुख्यः, उत्पत्तिविधिरतथाविधत्वाद् गुण । तस्मादत्र विनियोगवेदानुसारेणोपांशु गेयानि इति ।।
पञ्चमाध्यायस्य तृतीयपादे चतुर्थ पञ्चमाधितत्र चतुर्थाधिकरणम् –
“स्तोमवृद्धौ किमागन्तोर्मध्येऽन्ते वाऽस्तु मध्यतः । द्वादशाहवदन्यत्र मध्यानुक्तेर्न मध्यतः ।।
इदमाम्नायते – “एकविशेनातिरात्रेण प्रजाकामं याजयेत्, त्रिणवेनौज-
Page 083 (166)
स्कामं, त्रयस्त्रिंशेन प्रतिष्ठाकामम्' इति । तव प्रकृतौ बहिष्पवमान स्तोत्रे त्रयस्तृचा भवन्ति – “उपास्मै गायत” (उ० आ०१ प्र० १ सू० १-३ ऋ०) इत्यादिः एकः । “दविद्युतत्या रुचा” (उ० आ० १ प्र० 2 सू० १-३ ऋ०) इत्यादिः द्वितीयः । “एवमानस्य ते कवे” (उ० आ० १ प्र० ३ सू० १-३ ऋ०) इत्यादिः तृतीयः । तेषु त्रिषु तृचेपूर्द्धं गानेन त्रिपृष्टसोमो भवति (ताण्ड्य २।१-३) । न त्वत्र पञ्चदशसप्तदशस्तोमादीनामिवावृत्तगानमस्ति । स च बहिष्पवमानो विकृतावतिरात्रे चादकेन प्राप्तः । तत्र त्रिवृत्स्तोमं वाधितुमेकविशादिस्तोमाः विहिताः । वहिष्पवमाने आवृत्तगानाभावात् । त्रिषु तृद्धष्ववस्थिताभिर्नवभिभिरेकविशस्तलोमपूरणाभावात्। तत्पूरणाय चत्वारस्तृचा आगमयितव्याः, त्रिणवस्तोमपूरणाय षट्तृचाः, त्रयस्त्रिंशस्तोमपूरणायाष्टौ तृचाः, ऋगागमनं चोपरिष्टात् वक्ष्यते । तेषां चागच्छा मन्त्राणां प्राकृतबहिष्पवमानमध्ये निवेशः कार्यः द्वादशाहे तद्दर्शनात्, इति प्राप्ते व्रूमः-द्वादशाहे हि वचनमेवाम्नायते-स्तोत्रियानुरूपौ तृचौ भवतः, वृषवष्वन्तस्तृचा भवन्ति, तत्र उत्तमः पर्यास (ताण्ड्य ११।६) इति । अयमर्थः-प्राकृतानां वहिष्पवमानगतानां त्रयाणां तृचानां स्तोत्रियोऽनुरूपः पर्यासश्चेति त्रीणि नामानि, तत्र चोदकागतयोखरूपपर्यासयोस्तृचयोर्मध्ये वृषण्वच्छव्दयुक्तास्तृचाः कर्तव्या इति । न चैवमतिरात्रे मध्ये निवेशनाय वचनमस्ति । तस्मात् ष्णप्तक्रममवाधितुमागन्मूनामन्ते निवेशः इति ।।
पञ्चमाधिकरणम् –
“आर्भवे साम्न आगन्तोरन्ते मध्येऽथवाऽग्रिमः । पूर्ववत्त्रीणि यज्ञस्येत्युक्त्वा मध्ये निवेशनम्” ।।
पूर्वोदाहृतेऽतिरात्रे माध्यन्दिनार्भवपवमानयोश्चोदकप्राप्तौ पञ्चदशसप्तदशस्तोमो वाधितुमेकविशादिविवृद्धस्तोमो वचनादनुष्ठीयते । तत्र वहिष्पवमानवद्वगागमनं न भवति,किन्तुस्वाभागमेन स्तोमपूरणमिति दशमे वक्ष्यते । तस्य चागन्तोः साम्नः पूर्वोक्तानामृचामिवान्ते निवेशनात् पठितानां मध्ये तत्साम चरमे तृचे गातव्यम्, इति प्राप्ते, ब्रूमः – “त्रीणि ह वै यज्ञस्योदराणि गायत्री, बृहती अनुष्टुपू च । अत्र ह्येवाऽऽवपन्त्यत एवोद्वपन्ति” (ताण्डय ७।३) इति हि विशेष आम्नायते । अयमर्थः – स्तोमस्य विवृद्धये साम्न आवापः क्रियते, हासाय चोद्वापः (१), तावुभावावापोद्वापौ गायत्र्यादिष्वेव नान्यत्रेति । 'उञ्चा ते जातमन्धसः' ( उ० आ० १ । ८ । १-३) इत्येष माध्यन्दिनपवमानस्थाद्यस्मृचः । 'स्यादिष्ठया' (उ० आ० १ । १४ । १-३ ।) इत्येषः आर्भवपवमानस्य । तावुभौ गायत्री-
Note:
(1)त्मावापशब्दस्य आक्षेपोऽर्थ. । उद्वापशब्दस्य चोत्क्षेपः ।
Page 084 (167)
च्छन्दस्कौ तयोरावापः, न तु त्रिष्टुज्जगतीछन्दस्कयोरन्ययोस्मृचयोः सामाऽऽवपनीयम्' इति ।।
तत्रैव पञ्चदशाधिकरणे स्तोमविचारः –
एकस्तोमेऽन्यशब्दः स्याः, वहुस्तोमेऽपिवाऽग्रिमः ।
त्रिवृदन्येत्यर्थवादान्नान्यमात्रस्य सम्भवात् ||”
अत्र पूर्वोदाहृतोऽन्येनेत्ययमन्यशब्दः एकस्तोमके क्रतौ वर्तते, कुतः ? अर्थवादेन तदवगमात् । यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते, स तं दीपयति, यः पञ्चदश स तं, यः सप्तदश स तं, य एकविंशः स तम्” (ताण्डव१६।1) इत्यर्थवादः । अख्यायमर्थः-त्रिवृदादयश्चत्वारः स्तोमा अग्निष्टोमे वर्त्तन्ते, तेषु त्रिवृष्ठतोमो विकृतिरूपं यं यञ्चमाप्नोति स त्रिवृक्योमः तं यज्ञं दीपयति प्रकाशयति सर्वतो व्याप्नोतीति । स्तोमख्तरस्त्वाप्रवेशाय त्रिवृत एव सर्वस्मिन् यज्ञस्यरूपे व्याप्तावयमेकस्तोमकः क्रतुर्भवति । एवं पञ्चदशादिस्त्वोमव्याप्तिर्योजनीया | तथा सत्यर्थवादादेकस्तोमकानामेव बुद्धिस्थत्वात् त एवान्यशव्देनोच्यन्ते । एकस्तोमकाश्च षड्रात्रादिष्वाम्नाताः – “त्रिवृदग्निष्टोमोभवति । पञ्चदशउक्थो भवति” इत्यादयः । तस्मात् तद्विषयो ऽन्यशब्दः, इति प्राप्ते, ब्रूमः – ‘स त दीपयति' इत्यत्र प्रकाशकत्वमात्रमुच्यते । तच्च व्याप्तिमन्तरेण सम्बन्धमात्रादप्युपपद्यते । तस्मात् अग्निष्टोमप्रतियोगितया वहुम्लोमैकस्तोमसाधारणत्वेन श्रूयमाणख्यान्यशब्दख्य च्छोचद्धेवभावात्सर्वविषयोऽयन्कयशब्दः इति ।।
सप्तमाध्यायस्य तृतीयपादे तृतीयाधिकरणे सर्वपृष्ठातिदेशश्चिन्तितः –
विश्वजित्सर्वपृष्ठः किमनुवादो रथन्तरम् ।
बृहता वा समुच्चेयं यद्वा पाडहिकानि षट् ।।
अतिदेश्यानि तत्राद्यो माहेन्द्रादिचतुष्टये ।
पृष्ठशब्दाच्चोदकेन सर्वेषामिह सम्भवात् ।।
अ समुच्चयो वा विषये सर्वत्वं वह्वपेक्षया ।
न तु द्वयोरतः पण्णां पृष्टानामतिदेशनम् ।।
'विश्वजित् सर्वपृष्ठो भवति' (ताण्ड्य ९।३) इति, श्रूयते । सर्वपृष्ठशब्दोऽनुवादः, कुतः ? प्राप्तत्वात् । तथाहिं-ज्योतिष्टोमे माध्यन्दिनपवमानानन्तरभावीनि माहेन्द्रादीनि चत्वारिस्तोत्राणि सन्ति – “अभि त्वा शूर नोनुमः (उ० आ० १।११), “कया नश्चित्र आभुवत्” (उ०आ०१।१२) 'तं वो दस्त्वमृतीषद (उ०आ०१।१३), तरोभिर्वो विदद्वसुम् (उ०आ०१।१४) इत्येतेषु चतुर्षु स्थप्ले तानि स्तोत्राणि लतदशक्तोभतत्वापाद्य
Page 085 (168)
गीयन्ते । एकस्मिन् सूक्ते विद्यमानानां तिसृणामृचां ब्राह्मणोक्तविधानेन सप्तदशधाऽभ्यासः सप्तदश स्तोमः । तादृशेषु स्तोत्रेषु पृष्ठशब्दः श्रूयते – “सप्तदशानि पृष्ठानि” [पञ्चविंशब्राह्मणः/अध्याय २०.१.१] – इति । तानि पृष्ठानि विश्वजिति चोदकप्राप्तत्वात्सर्वपृष्ठशब्देनानूद्यन्ते इत्येकः पक्षः । रथन्तरपृष्ठबृहत्पृष्ठयोर्ज्योतिष्टोमे विकल्पितयोरिहापि चोदकेन विकल्पप्राप्तौ सर्वशब्देन समुच्चयो विधीयते । तथा सत्यनुवादकृतं वैयर्थ्य न भविष्यति – इति द्वितीयः पक्षः । सर्वत्वं वहुषु मुख्यं न तु द्वयोः । तस्मादनेन सर्वपृष्ठशव्देन षट्-सङ्ख्यकानि पृष्ठान्यति-दिश्यन्ते । षडहे प्रतिदिनमेकैकं पृष्ठं विहितम् । तानि च पट्-पृष्ठानि रथन्तर- बृहद्-वैरूपं-वैराज-शाक्वर-रैवत-सामभिः निष्पाद्यानि । यद्यपि विश्वाजित एकाहत्वाद् ज्योतिष्टोमविकृतित्वमेव न तु षडहविकृतित्वम्, तथापि सर्वपृष्ठोक्तिवलात् तानि षट् पृष्ठान्यतिदिश्यन्ते इति ।।
तत्रैव दशमाधिकरणे स्वरसामविकारचिन्ता –
न विकारा विकारा वा स्वरसामादयो, न हि ।
वैष्णवन्यायतो मैवमनन्यगतिलिङ्गतः ।
गवामयने द्वयोर्मासषट्कयोर्मध्ये वर्त्तमानं विपुवन्नामकं प्रधानभूतमे कमहर्विद्यते । तच्च दिवा कीर्त्यम् । तस्मात् प्रतुचीनास्त्रयः ख्यरसामनामकाः अहर्विशेषाः । तथोपरिष्टादपि नद्यः स्वरसामानः तदेतदभिप्रेत्य श्रूयते 'अभितो दिवाकीर्त्य त्रयः स्वरसामानः (ताण्ड्य ४।५) इति । तेषु च ग्रहसातत्याय सप्तदशस्तोमादयो धर्माः विहिताः (ताण्डच ४।३) । अन्यत्र त्वेवं श्रूयते –“पृष्ठ्यः षडहो, द्वौ स्वरस्तामानौन्” [पञ्चविंशब्राह्मणः/अध्याय २५.१.१] – इति । तावेतावहर्विशेषौ पूर्वोक्तानां स्वरस्ताम्रां न विकारौ, कुतः । वैष्णवसमानत्वात् । यथा वैष्णवशब्दो देवतारूपगुणविधानेन मुख्यवृत्तित्वान्न लक्षणया धर्मानतिदिशति, तथा सामविशेषरूपगुणविधायकः स्वरसामशब्दः, इति प्राप्ते, व्रूमः – अनन्यगतिलिङ्गवशात् स्वरसामानौ विकारौ भवतः । तथाहि –“षडहो, द्वौ स्वरस्तामानौ” इत्येवं योऽयमष्टाह उपन्यस्तः, तत्र षट्स्वहःसु क्रमेण 'त्रिवृत्तं' 'पञ्चदशः' 'सप्तदशः' 'एकविंशः' 'त्रिणवः' 'त्रयस्त्रिंशः' इत्येवं स्तोमषटहक चोदकेन प्राप्तम् । एवं स्थिते तृतीयषष्ठदिवसगतयोः सप्तदशत्रयस्त्रिंशयोर्व्यत्याक विधाय सप्तमाष्टमयोरह्णोः सप्तदशस्तोमं सिद्धवत्कृत्य त्रिषु चरमेष्वहःसु सप्तदशस्त्रोमनैरन्तर्यमर्थवादेनानुवदति । यत् तृतीयं सप्तदशमदः तत् त्रयस्त्रिंशस्थानमभिपर्या हरन्ति इति व्यत्यासविधिः । त्रयाणां सप्तदशानामनवानताया इत्यर्थवादः । तत्र यद्यंन्तयोरह्नोः सप्तदशस्तोमं स्वरसामशब्दोऽतिदिशेत् तदा नैरन्तर्यमुपपद्यते, न त्वन्यथा । तस्मान्न वैष्णवन्यायेन गुणविधिः किन्तु धर्माणामतिदेशकः इति ।।
Page 086 (169)
दशमाध्यायस्य चतुर्थपादे नवमाधिकरणम् –
क्लयं श्लोकादिनाऽऽज्यादिनवाऽऽद्यःस्रुतिलिक्त्यः । देशसाम्नोर्विधौ भेदे वैशिष्ट्यात्तु समुच्चयः ।।
महाव्रतेश्रूयते – “श्लोकेन पुरस्तात्सदसः स्तुवते, अनुश्लोकेन पश्चात्” (ताण्ड्य 5।४) इत्यादि । तत्र श्लोकानुश्लोकादिनामकैः सामभिः प्राकृतस्याज्यपृष्ठादिस्सेत्रगतानि रथन्तरचामदेव्यादिनामकानि सामानि वाध्यानि । कुतः? 'स्तुवते'–इति प्रकृतिलिङ्गदर्शनात् प्रकृतौ आज्यैः स्तुवते, पृष्ठैः प्लवते’-इति श्रुतम् । नैतत्सारम् । किमत्रप्लतिमनूद्य देशसामगुणौञ्छिप्रीयेते? किं वा गुणद्वयविशिष्टा स्तुतिः? नाद्यः, वाक्यभेदापत्तेः । द्वितीये तु कार्यभेदेन वाध्याभावात् समुच्चयः स्यात्” इति ।।
तत्रैव दशमे कौत्सादिसाम्लः प्राकृतसामवाधकत्वम् ।
समुच्चीयेत कौत्सादि यदि वा प्राकृतवाधकम् ।
स्तुत्या भावादादिमो ऽन्त्यो लिङ्गप्रकरणद्वयात्” ।।
विकृतिविशेपे श्रूयते-कौत्सं भवति' 'काण्वं भवति' (ताण्ड्य १३।9) इति । तदेतत् कौञ्जादिनामकं साम प्राकृतेन साम्ना समुच्चीयते । कुतः ? प्राकृतस्य स्तुतिलिङ्गख्याभावेन कार्यैक्याभावात् । मैवम्, प्रकरणात् क्रत्वङ्गत्वे सति ऋगक्षराभिव्यक्तिसाभर्थ्यलक्षणप्राकृतलिङ्गेन कार्यैक्यावगमात् । तस्माद् बाधकम- इति ।।
एकादशे त्वेकायुक्तितः प्राकृतवाधकत्वम्-
तत् सर्ववाधकं सर्वमेकद्व्याद्युक्तितोऽथवा ।
अविशेषादादिमोऽन्त्य एकाद्युक्तिविशेषतः” ।।
तत् पूर्वोक्तं कौत्सादिसामविषयः । तत्र, किं 'कौत्सं' साम प्राकृतसर्वसामनिवर्त्तकम्, कारम्बमपि तथा । इत्येकैकस्य सर्वनिर्वर्त्तकत्वमुच्यते ? आहोस्विदेकवचनान्तनिर्दिष्टमेकस्म निवर्त्तक, द्विवचनान्तनिर्दिष्टं द्वयोः, वहुवचनान्तनिर्दिष्टानि बहूनाम् ? तत्र नियामकाभावादाद्यः पक्षः प्राप्नोति । पकादिवचनरूपाणां श्रुतीनां नियामकत्वादन्त्यः पक्षोऽभ्युपेयः । तथाहि – “कौत्सं भवति', 'वसिष्ठख्यजनित्रे भवतः'(ताण्ड्य १४।११),'क्रौञ्चानि भवन्ति' (ताण्ड्य१९।३)-इति निवर्चकेषु श्रूयमाणानि एकद्विवहुवचनानि निवर्त्त्यानां तत्सङ्ख्यावत्वं प्रत्यासत्या बोधयन्ति, किञ्च यवं सतिअवाधितसामविपयश्चोदको ऽनुगृहीतो भवति । कृत्स्रबाधे तु स्थर्वश्चोदको निरुध्यते । तस्मान्न सर्वबाधकः” इति ।।
Page 087 (170)
द्वादशे स्तोमवृद्ध्यवृद्ध्योः प्राकृतवाधिका-
“स्तोमस्थयोर्वृद्ध्यवृद्ध्योः प्राकृतः किं निवर्त्तते ।
अवृद्धावेव वाऽऽद्यः स्यात्सामोत्पस्युपयोगतः ।।
अवृद्धाबुपयोगाय प्राकृतस्य निवर्त्तक।
वृद्धौ पूर्वोपयोगित्वात् वृद्धौ तु न निवर्त्तकम् ।।
सन्ति वृद्धस्तोमकाः अवृद्धस्तोमकाश्च विकृतिरूपाः क्रतवः, तत्रोभयत्रापि यानि समान्युपदिष्टानि तैरतिदिष्टानां साम्नां निवृत्तिः स्यात्, अन्यथा सामोत्पत्तिवैयर्थ्यात् इति पूर्वः पक्षः । सिद्धान्तः स्पष्टार्थः इति |
त्रयोदशे स्तोत्रे छन्दोविशेवतः आवायः-
“क्वापि स्तोत्र ऋचि क्वापि ख्यादावापस्तथोद्धृतिः ।
पवमानेषु गायन्थादिष्वेवोताविशेषतः ।।
आद्यो नो परिसङ्ख्यानादत्र ह्येवेति तद्विधेः ।
विध्यन्तराशेषरूपमपूर्वं तद्विधीयते ।।
अवृद्धस्तोमकेषु प्राकृतख्यातिदिष्टस्य साम्न उद्वापः, प्रत्यक्षोपदिष्टानामावापः । 'वृद्धस्तोमकेष्वावापः एव' इति स्थितं पूर्वाधिकरणे । तावेतावावापोद्वापौ यस्मिन् कस्मिचित् स्तोत्रे यस्यां कस्याञ्चिद्वचि स्याताम्, कुतः? नियामकाभावात् इति पूर्वः पक्षः । नो खल्वेतद् युक्तम् । एवकारेण प्रकृतपवमानव्यतिरिक्तेष्वाज्यादिस्तोत्रेषु गायत्रीमृहत्यनुष्टुवव्यतिरिक्तास्मृक्षु आवापोपोद्वापयोः परिञ्चडइख्यातत्वात् ।
एवकारय्यैवमाम्नायते – “त्रीणि ह वै यज्ञस्योदराणि यद् गायत्री बृहत्य नुष्टुप् च । अत्र ह्येवावपन्ति अत एवोद्वपन्ति [जैमिनीयं ब्राह्मणम्/काण्डम् १-३११] इति । ननु मा भूतामन्यत्राऽऽवापोद्वापौ विवक्षितदेशेषु कथं प्राप्नुतः ? इति चेत् । अनेन वाक्येन तद्विधानात्, इति प्राप्ते, ब्रूमः – नचायमर्थवादः, अनन्यशेषत्वात् । नाप्यनुवादः, अपूर्वार्थात्वात्। तस्मात् पवमानेमेव गायत्र्यादिषु आवापोद्वापौ” ।।
चतुर्विंशे तु करम्बरच्यन्तरं स्वयोनावेव –
“बृहद्रथन्तरैकीययोनौ कण्वरथन्तरम् ।
रथन्तरस्यैवयोनौकि स्वयोनावुताऽग्रिमः ।।
चोदकख्याविशेषेण द्वितीयो नामसाम्यतः ।
अनङ्गत्वान्नातिदेशः स्त्रयोनौ पठितत्वतः ।
वैश्यस्तोमे पृष्ठस्तोत्रे सामविशेषो विहितः – “कण्वरथन्तरं पृष्ठं भवति” (ताण्डव १8|६) इति । प्रकृतौ पृष्ठस्तोत्रे वृहद्रजतरसामनी विकल्पिते, 'त्वामिद्धि हवामहे’ (पू० आ० ३-१-५-२) इतीयमृक् बृहतो योनिः । 'अभि त्वा शूर’ (पू०आ० ३-१-५-१) इति रथन्तरस्य । 'पुनानः स्नोम' (पू०आ०
Page 088 (171)
५-१-३-१) इति करत्वरथन्तरस्य । तत्र वहद्रथन्तरयोरन्यतरख्य साम्नोयोनौ कण्वरथन्तर गेयम् । कुतः ? चोदकप्राप्तयोर्विशेषनियाभकाभावात् । अथवा रथन्तरस्यैव योनौ गेयम् । कुतः? रथन्तरेति नामसाम्यस्य धर्मातिदेशार्थत्वेन नियामकत्वात् । नैतद् युक्तम्, बहद्रथन्तरसाम्नोरेव प्रकृतावङ्गत्वेन विधानम्, न तु तद्योन्योः ।। अतो नालं तयोः अति देशतः प्राप्तिः । तस्मात् स्वयोनौ गेयमिति परिशिष्यते । प्राप्तिश्च सामगानामुत्तराग्रन्थपाठादवगन्तव्या । एवं सति श्रुतहान्यश्रुतकल्पने न भविष्यतः ।।
पञ्चविंशे तु कण्वरथन्तरं स्वकीययोरेवोत्तरयोर्गेयम् –
सन्देहनिर्णयौ पूर्वषदेवोत्तरयोऽचोः ।
योनित्यागः समश्चेन्न तृचशव्देन बाधनात् ।।
एकं साम तृचे क्रियते-इति श्रुतेः कण्वरथन्तरसाम्नः ऋचां त्रयमाश्रयः । तत्रैका स्वयोनिं इतरे स्वयोन्युत्तरे । एवं बृहद्रथन्तरसाम्नोद्रष्टव्यम् । तत्र यूहदुत्तरयोः रथन्तरोत्तरयोर्वा अतिदेशप्रास्यविशेषेण स्वेच्छया गेयमित्याद्यः पक्षः । नामसाभ्याद्रथन्तरोत्तरयोरेव गेयमिति द्वितीयः पक्ष । प्राकृतावृचोः साक्षादङ्गत्वाभावेऽपि सामद्वारकमङ्गत्वमङ्गीकृत्य चोदकप्रास्या पक्षद्वयोपन्यासः । योनिवदुत्तरयोर्ग्रन्थपीठतत्वात् म्बयोन्युत्तरयोर्गेयमिति तृतीयः पक्षो राद्धान्तः । वहद्रथन्तरोत्तरयोः स्वयोन्युत्तरयोर्वा गीयताम् । सर्वथापि स्वयोन्यृक्त्याग ऋगन्तरपरिग्रहश्च समानः । तथा सति चोदकोऽत्र प्रापकः इति पूर्वपक्षिणोऽभ्यधिका शङ्का । तृच्चशब्दः समानच्छन्दल्कानामेकदेवत्यानामृचां त्रये प्रसिद्धः । अतस्तृचश्रुत्या प्रत्यक्षया चोदकप्राप्तस्य वाधः इति राद्धान्ताशयः इति ।।
पञ्चमपादस्य द्वितीये ऽधिकरणे तिसृष्वित्यग्रिमस्तृचो विवक्षितः –
“तृचाद्यासु तृचे वाऽऽद्ये तिसृष्वित्युच्यते ऽग्निमः ।
त्रिच्छन्दस्त्वात्प्राकृतं स्यात्क्रमादत्र तृचोऽखिलः” ।।
एकसष्टायास्त्रिसङ्खायाश्च व्यतिषङ्गविधानात् 'एकत्रिक'नामकः कश्चित् क्रतुर्भवति । स चैवं श्रूयते -“अथैष एकत्रिक्त्यन्यस्यैकस्त्वां बहिष्पवमानं, तिसृषु होतुराज्यम् । एकस्यां मैत्रावरुणस्य, तिसृषु, ब्राह्मणाच्छंसिनः । एकस्थामच्छावाकस्य त्रिच्छ माध्यन्दिनः पवमानः इति । सन्ति प्रकृतौ माध्यन्दिनपवमानख्य त्रयस्तचाः – ‘उच्चा ते जातम्, इत्ययं’ (उ० आ० १ । ५ । १-३) प्रथमो गायत्रीच्छन्दस्कः । ‘पुनानः सोम', इत्ययं (उ० आ० १ । ९ । १-३) द्वितीयो बृहतीच्छन्दस्कः ।
Page 089 (172)
'प्र तुद्रव' इत्ययं (उ०आ० ११ । १० । १-३) तृतीयस्त्रिष्टुपछ्न्दस्कः । एतदेवाभिप्रेत्य श्रुतम्-त्रिच्छन्दा आवापो माध्यन्दिनः' (ताण्ड्य३।७) इति । एवं सति एकत्रिकस्य माध्यन्दिनपवमाने तिसृष्विति यदुक्तं तत्र त्रयाणां तृचानामाद्यास्तिस्त्रः ऋचो ग्राह्याः? कि वा प्रथमतृचस्थाः क्रमपठितास्तिस्रः ? इति संशयः । तत्र त्रिच्छन्दस्त्वथ्प्रुत्याप्रबलया दुर्बलं पाठक्रमं वाधित्वा प्रथमपक्षो ग्राह्यः इति प्राप्ते, अभिधीयते – यदेतत्त्रिच्छन्दसव तदेतत् प्राकृतम् । तत्र छन्दस्त्रयोपेतख्य तृचत्रयख्योपदिष्टत्वात् । विकृतावपि तत्सर्वमतिदिष्टमिति चेत्? बाढम् । अत एव पाठक्रमोऽप्यतिदिष्टः, तथा सति प्रक्रान्तगायत्रीछन्दस्कख्य तृचख्य समाप्तौ सत्यां पश्चाद् धृहतीच्छन्दस्के तृचे प्रथमायाः ऋचः प्रारम्भावसरः । स चारस्त्वस्तिसृषु इति विशेषविधानेन बाध्यते । तस्मादाद्यस्तृचो निखिलो ग्राह्यः ।
तृतीये धूर्गानमेकस्यामृचि कर्त्तव्यम्-
तृचे स्याद्वचि वैकस्यां धूर्गानं प्रकृताविव ।
तृचे भवेदिहैकस्यां श्रुत्याऽऽवृत्तिविधानतः” ।।
एकत्रिक एव क्रतौ व्यतिषङ्गेयैकस्यां तिसृषु च स्तोत्रेषुसम्पाद्यमानेषु यद्धर्गानं तत् किं तृचे स्यात्? उतैकस्यामृचि? इति संशयः । तत्र चोदकेन तृचे भवेदिति प्राप्ते, व्रूमः-इहैकत्रिकक्रतौ एकस्यामृचि धूर्गानं भवेत् । कुतः ? आवृत्तं धूर्षु स्तुवते इति आवृत्तिविधानात् । ननु तृचे गानेऽपि साम्नस्त्रिरावृत्तिर्भवेत्? न, आवृत्तेः स्कुतिविशेषणत्वात् । गुणसङ्कीर्त्तनपरः पदसमूहः स्तुतिः । तच्चऋगावृत्तिं विना तिसृष्वक्षु न सिध्यति । तस्मादेकस्यां धूर्गानम्' ।
षष्ठे स्तोमवृद्धिरागमाद् भवेत् –
स्तोमवृद्धिः किमभ्यासादागमाद्वाऽग्रिमो यतः ।
तत्कल्प्यमश्रुत मैवं सड्ख्याऽऽवापादिलिङ्गतः ।।
विवृद्धस्तोमकःक्रतुख्येमाम्नायते, - “एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, त्रिणवेनौजस्कामम्, त्रयस्त्रिंशेन प्रतिष्ठाकामम्' इति । प्रकृतिगतेभ्यः त्रिवृत्पञ्चदशादिस्तोमेभ्यो विवृद्धाः एकविशत्रिणवत्रयस्त्रिंशस्तोमाः । तेषु किं प्राकृतानां साम्नामशभ्यास्याद् वृद्धिर्भवति? किं वा सामान्तरागमात् ? इति संशयः। अश्रुतख्यसामागमस्य कल्पयितुमशक्वत्वाद् अभ्यासाद् वृद्धिः, इति प्राप्ते ब्रूमः-अभ्यासोऽपि न साक्षाच्छुतः, किनवेकविशादिसङ्ख्यापूरणाय कल्प्यते, सङ्ख्या च द्रव्यगता, भिन्नद्रव्यैख्ये पूर्य्यते न त्वेकद्रव्यावृत्या । नह्यष्टकृत्व एकघटमानीय 'मद्गृहे सन्त्यष्टौ घटाः' इति व्यवहरन्ति । ततः स्तोमावयवद्रव्यगता सड५८न्या तदवयवभूतानां साम्नां पदार्थानां भेदं शमयति । स च भेदः स्रामान्तरागमलिङ्गम् । अत्र द्व्येञ्चावपन्ति इत्यावापो-
Page 090 (173)
द्देशेन देशविशेपविधिरपर लिङ्गम् । सामान्तरोत्पल्यर्थत्वमन्यल्लिङ्गम्; तस्मादागमेन वृद्धिः ।
सप्तमे बहिप्पवमानवृद्धावृच आगमः –
“किं वहिष्पवमानद्धां साम्नर्चा वाऽभिपूरणम् ।
साम्ना पूर्वोक्तितो मैवं सामैकत्वपराक्त्वतः ।।
प्रकृतौ प्रातःसवने बहिष्पवमानस्य अविवृद्धः स्तोमः, तस्य विकृतिषु वृद्धौ सत्यां पूर्वोक्तरीत्या चामान्तरागमे प्राप्ते, ब्रूमः-एकं हि तत्र साम इति बहिष्पवमानं प्रकृत्य सामैकत्वमाम्नायते । अतो न सामान्तरागमः सम्भवति । त्वं तर्ह्यभ्यासेन सङ्ख्यापूरणप्रस्तु इति न वाच्यम्, पराग् वहिष्पवमानेन स्तुवन्ति इति पराक्शब्देनाभ्यासप्रतिषेधाव; तस्माद्वगागमः ।
षष्ठपादस्याद्येऽधिकरणे एकं साम तृचे गेयम्-
“सामैकस्यां तृचे वा स्यादाऽऽद्यः स्वाध्यायवद् भवेत् ।
वचनाल्लिक्त्ययुक्तात् स्तोत्रे साम तृचे भवेत् ।।
पवमानाज्यपृष्ठादिस्तोत्रेषु यद् विहितं रथन्तरभृहद्वैरूपादिसाम अध्येतारः एकस्यामृच्यधीयते, तत् किं स्तोत्रप्रयोगकालेऽष्ण्पेकस्यामृचि गेयम् ? किं वा तृचे ।गेयम् ? इति संशयः । अध्ययनख्यानुष्ठानार्थत्वाद् यथाध्ययनमेकस्यादचि साम्नः कृतं तथैकख्यामेव साम गेयमिति पूर्वपक्षः । अष्टमाक्षरेण प्रथमाया ऋचः प्रस्तौति, द्व्यक्षरेणोत्तरयोः इति तिसृप्वृक्षु प्रस्तोत्रा गातव्यभागो निरूप्यते, तदिदंतृचस्यलिङ्गम् । ऋक् सामोवाच मिथुनीसम्भवाव इत्यादौ ऋगदेऽवतत्सामदेवतयोः सम्वादरूपेऽर्थवादे सामदेवतैकामृचं द्वे ऋचौ च प्रत्याख्याय तिस्रः ऋचोऽङ्गीचकार । तदिदं अपरं लिङ्गम् ।। ताभ्यां लिङ्गाभ्यामुपबृंहिताद् एकं साम तृचेक्रियते स्तोत्रियम्' इति वचनात् तृचे गातव्यमिति ।
द्वितीये स्वर्द्वकभशब्दो मीलनावधिः –
स्वर्द्वकशब्दे वीक्षणे च किं स्यादङ्गाङ्गिताऽथवा ।
मीलनावधिताऽऽद्योऽक्ष्व भिन्नवाक्येन तद्विधेः ।।'
प्रतिशव्देनावधिर्हि द्योत्यो वाक्यं न भिद्यते ।
सत्येवं भीलनस्यापि विधिर्नोत्तरयोर्भवेत् ।।
अस्तिं रथन्तरसाम्नो योनौ 'अभि त्वा शूर' इत्यस्यामृचि स्वर्दृक् शब्दः 'ईशानमख्य जगतः स्वर्द्वशम् (उ० आ- १ । ११ । १) इत्याम्नातः । अस्ति चोद्गातुः कर्तृता तृचे रऋन्तरेप्रस्तूयमाने सम्मीलयेत्,स्त्र्यर्दृशं प्रतिवीक्षेत (ताण्ड्य ब्रा० ७|७) इति श्रुतेः । तत्र संशेयः ।किं स्वर्दृक् शब्दोच्चारणवीक्षणयो-
Page 091 (174)
रङ्गाङ्गिभावोऽत्र विधीयते ? किं वा विधीयमानसम्मीलनावधित्वेन स्वर्हक्-शब्दोच्चारणं निर्दिश्यते, इति । तत्र संमीलनवाक्यात् वीक्षणवाक्यं भिन्नम् । ततो न मीलनावधित्वेनान्वयः सम्भवतीति । किञ्च वीक्षेतेति लिङ्गप्रत्ययोऽत्र विधायकः श्रयते । ततः स्वर्हक्शव्दोच्चारणं वीक्षणाङ्गम्, वीक्षणं वा तदङ्गम् इत्यङ्गाङ्गिभावोऽभ्युपेयः । तथा सति स्वर्दृक्शव्दरदितयोरुत्तरयोर्ऋचोर्गीयमाने रथन्तक्तेपि विहितसम्मीलनानुवृत्तिः फलिष्यतीति पूर्वपक्षः । स्वर्दृशं प्रति इत्यनेन प्रतिशब्देन स्वर्द्वक्शव्दोच्चारणस्य मीलनकालाधित्वं द्योत्यते । न चात्र भिन्नवाक्यत्वम् १ एकवाक्यरवसम्भवात् । तथाहि विरोधैपरिहाराय स्वत एव प्राप्तत्वात् वीक्ष्नणं न विधेयम् । तथा सति आ स्वर्द्वक्शब्दोचारणात् सम्मीलयेदित्येकं वाक्यं सम्पद्यते । एवं सत्युत्तरयो रृंचोर्मीलनविध्यभावः फलिष्यतीति राद्धान्तः
तृतीये मृहद्रथन्तरयोर्दिनभेदेन प्रयोगः –
गवामयनिके पृष्ठ्यषडहे प्रत्यहं द्वयम् ।
बृहद्रथन्तरं चोत भवेत् किञ्चित् क्वचिद्दिने ।।
द्वन्द्वगर्भवहुव्रीद्वेराद्योऽन्त्येऽपि समो ह्यसौ ।
अन्योन्यनिरपेक्षस्य चोदकादन्तिमो भवेत् ।।
द्वादशाहे पृष्ठ्यः षडह उत्पन्नः । तत्र पण्णामप्यह्नां क्रमेण रथन्तरवृहद्-वैरूपवैराजशाक्वररैवतानि सामानि विहितानि । गवामयने तु विकृतिरूपीयः पृष्ठ्यः षडहः । तत्र श्रयते-'पृष्ठ्यः पडहो बृहद्रथन्तरसाम, इति चोदकप्राप्तयोः बृहद्रथन्तरयोः पुनर्विधानात् वैरूपादिनिवृत्तिः। ततः शिष्यमाण बृहद्रथन्तरं सामद्वयं कि प्रत्यहं कर्तव्यम् ? किं वा केषुचिदहःसु बृहत् केषुचिद्रथन्तरम् ? इति सशयः। बृहच्च रथन्तरञ्च बृहद्रथन्तरे ते च सामनी यस्य इति द्वन्द्वगर्भिते बहुब्रीहावितरेतरयोगद्वन्द्वेन साम्नो साहित्यं प्रतीयते। ततः प्रत्यहं सामद्वयम् इति पूर्वपक्षः। ते सामनी यस्याह्नः इत्यह्नो यद्यन्यपदार्थत्वं तदा भवदुक्तमेव स्यात्, इह तु षडहोऽन्यपदार्थः। तथा सति षडहे द्वयोः साम्नोः साहित्यं सिद्धान्तेऽपि समानम्। प्रकृतौ साम्नोरन्योन्यनिरपेक्षत्वादिहापि निरपेक्षत्वमेव सामचोदकेनातिदिश्यते। तस्मात् केषुचिदहःसु किञ्चित् साम इति राद्धान्तः” ।
पञ्चमे सर्वपृष्ठे यथोक्तदेशे पृक्तानि -
किं सर्वपृष्ठे सर्वाणि पृष्ठदेशे यथोक्ति वा।
पृष्ठशब्दात् पृष्ठदेशे वचनात् तु व्यवस्थितिः॥
इदमाम्नायते – ‘विश्वजित् सर्वपृष्ठः’ इति। षडहे षट् स्वहःसु क्रमेण रथन्तरं बृहद् वैरूपं इत्यादिभिः षड्भिः सामभिः पृष्ठस्तोत्रं, निष्पादितम्। तानि सर्वाणि पृष्ठसामानि यस्मिन् विश्वजिति सोऽयं सर्वपृष्ठः
Page 092 (175)
तत्र माध्यौन्दनपवमानमैत्रावरुणसाम्नोरन्तरालभूते पृष्ठस्तोत्रदेशे किं सर्वाणि पृष्ठरनाभानि कार्याणि ? किं वा यथावचनं देशव्यक्त्यथा ? इति संशयः । पृष्ठकार्ष्णगमकेन पृष्ठशव्देन पृष्ठदेशे प्राप्ते, वचनेन देशविशेषो व्यवस्थाप्यते । वचनं चैवमाम्नायते-' 'पवमाने रथन्तरं करोत्यार्भवे बृहन्मध्य इतराणि वैरूपं होतुः पृष्ठं वैराजं ब्रह्मसाम शाक्वर मैत्रावरुणस्य रैवतमच्छावाकस्य-इति । वचनं हि न्यायाद् वलीयः, तस्माद्-देशविशेपो व्यवस्थितः |
पष्ठे वैरूपवैराजे उक्-थ्यषोडशिनोः पृष्ठगते-
कार्त्स्न्याद् वैरूपवैरोजे उक्थ्यपोडशिनोरुत ।।
पृष्ठे स्यात् क्रतुसंयोगादाऽऽद्योऽन्तः पृष्ठलिङ्गतः ।।
इदमाम्नायते-उक्थो वैरूपसामैकविशः षोडशो वैराजसामेति' । तत्र कृत्स्ने उक्थ्ये वैरूपं सत्य, कृत्स्ने षोडशिनि 'वैराजम्' 'वैरूपं' साम यस्मिन्नुक्थ्ये क्रतौ-वैराजं' साम यस्मिन् पोडशिनि क्रतौ, इत्येवं क्रतुसम्बन्धः प्रतीतेः । मैवम् । प्रकृतौ रथन्तरसामा बृहत्सामा दृत्येवंविधस्य निर्देशस्य पृष्ठस्तोत्रविषयत्वदर्शनादत्रापि तन्निदेशेन पृष्ठलिङ्गेन पृष्ठकार्य्ये वैरूपं वैराजं च भवितुमर्हति । क्रतुसस्यवन्धस्त्वयोः पृष्ठद्वारेणोपपद्यते ।
सप्तमे त्रिवृदग्निष्टुस्तोम एव-
“त्रिवृदाग्निष्टुदित्येतत् सर्वत्र स्तोम एव वा १।
आद्यस्त्रैगुण्यवाचित्वादन्त्यस्तोमेऽस्य रूढितः ।
एवं श्रूयते - “त्रिवुदग्निष्टुदग्निष्टोमः ( तागृडथ ३ प०) इति । किं त्रिवृत्त्वमाविष्टति क्रतौ सर्वेषु साधनेषु सम्बध्यते? किं वा स्तोममात्रसम्बन्धि तत् ? त्रिवृद्रज्जुरित्यादौ त्रिवृच्छव्दस्य त्रैगुण्यत्वाचित्वदर्शनादत्रापि क्रतुसाधनेषु या या सङ्ख्या श्रूयते सा सर्वा त्रिहत्त्वेन विवियते इति प्राप्ते, ब्रूमः-यद्यपि त्रिवृच्छब्दोऽवयवप्रसिद्ध्या लोके त्रैगुरन्यं ब्रूते, तथापि वेदे रूढ्या स्तोमवाचकः, त्रिवृद् वहिष्पवमानः इत्युक्त्वा स्तोत्रियाणां नवानामृचामनुक्रमणेन स्तोमविषयमेव त्रिवृत्त्वम्' ।
अष्टमे संसवादौ पृष्ठत्वम्-
संसवादौ द्वयोरेकं पृष्ठं यद्वा समुच्चितम् ।
एकं प्रकृतिवद् वियुवद्भिद्वदन्यत्र चेतरत् ।।
वचनाद् विश्वजित्येते साम्नो द्वे ज्जेत्रयोर्द्वयोः ।
नेहास्ति तत् पृष्ठ एव साहित्यं स्यात् षुनर्विधेः तं
इदमाम्नायते- दसव उभे कुर्याद्, गोखव उभे कुर्याद्, अभिजित्येकाहः उभे वृहद्रथन्तरे कुर्यात्' इति । किमत्र गृद्धद्रथन्तरयोरे पृष्ठण्टतौ
Page 093 (176)
इतरदन्यस्तुतौ स्यात् ? किं वा लमुच्चितमुभयं पृष्ठस्तुतौ? इति संशयः । प्रकृतौ द्वयोर्विकल्पितत्वादेकस्मिन् प्रयोगे एकस्य पृष्ठत्वादन्यत्रापि तथात्वं युक्तम्, तथा सत्यवशिष्टं साम सर्वपृष्ठवि'वजिन्यायेन स्तोत्रान्तरे प्रयोक्तव्यम् इति पूर्वपक्षः । ताद्वग्वचनाभावेनात्र विश्वजिद्वैपम्यात् प्रकृतिवद् विकल्पे सति पुनर्विधानवैयर्थ्यात् समुच्चयः इति राद्धान्तः ।
सप्तमपादस्य षोडशाधिकरणे वृहद्यवखादिरा नियताः-
वृहद्यवः खादिरश्च विकलया नयता उत ।
विकक्त्याश्चोदकप्राप्तेर्नियताः स्युः पुनर्विधेः ।।
क्वचिद् विकृतौ श्रूतते-वृहत् पृष्ठं भवति' इति । त्रैधातवीये श्रूयते'यवमयो मध्यमः' इति । वाजपेये श्रूयते-'खादिरो यूपो भवति' इति । तत्र बृहद्रथन्तरयोः व्रीहियवयोः खादिखैल्वादीनाञ्च प्रकृतौ विकल्पितत्वादत्रापि चोदकेन विकल्पिता इति चेत्? न । पुनर्विधानवैयर्थ्यात् । परिसख्या तु दुष्टत्वान्न सङ्ख्या । तस्मान्नियताः कोट्यन्तरं त्वर्थान्निवर्तते ।
अष्टभपादस्य षष्ठाधिकरणे विप्रगानं विकल्पितम्-
उन्नेथो व्रह्मगानख्य निषेधो विहितस्तुतिः ।
विकल्पितो वा शून्योऽपि वपोत्रवेद इव स्तुतिः ।।
विध्यनन्वयतोऽस्तोत्रं ब्रह्मोद्गाता तथा सति ।
विषयैक्याद् विकल्पोऽत्र षोडशिग्रहवन्मतः ।।
आधाने वामदेव्यादिसाम्नां गानानि विहितानि । आधान एवेदमपरमास्तायते-उपवीता वा एतस्याग्नयो भवन्ति, यख्याग्न्याधेये ब्रह्मा सामानि गायति' इति । उपशब्दः सामीप्य ब्रूते । वीताः विगताः कालविलम्बमन्तरेण परैरुक्ता इत्यर्थः । अनया निन्दया ब्रह्मणः सामगाननिषेध उन्नीयते, स निषेध उद्गातुर्विहितं वामदेव्यादिसामगान स्तौति । ननु ब्रह्मणः सामगानमप्रसक्तम् । ततस्तन्निषेधोऽत्यन्तमसम्भावितत्वाच्छशविषाणवच्छ्रन्यः, नहि बन्ध्यापुत्रो वा तद्वधो वा सम्भावयितुं शक्यते । तथा सति तादृशेन कथ स्तुतिः इति चेत् वपोश्यवेदवदिति व्रूमः – ‘स आत्मनो वपामुदखिदत्-इत्यनेनात्यन्तासम्भावितार्थेन यथा प्राजापत्यस्य तूपरस्य(१) अजस्य विधिः स्तूयते, तद्वत् इति प्राप्ते, व्रमूः - नेद वामदेव्यादिसामविधीनां स्तोत्रं भवितुमर्हति, विधीनामनेकत्वेन स्वस्वखन्निधिपठितैरर्थवादैर्निराकाङ्क्षत्वेन च तदन्वयायोगात् । का तर्ह्यख्य वाक्यस्य
Note:-
(1)तूपरस्य गृङ्गविहीनः पशुरर्थः । स च अजातशृङ्ग. पतितशृङ्गो वा भवति । तथाहि ताण्डयत्राह्मणस्य चतुर्थप्रथमे-'ताः सर्वमन्नाद्यमाप्नुवस्ता एतास्तूपरा. इत्यस्य ता. ”पतितशृङ्गागाव सर्वर्तुभवमन्नाद्यम् अदनीयम् अन्नं प्राप्नुवन् । ता गावच्छराः शृङ्गहीना दृश्यन्ते हति भाप्ये तूपरशब्दक्तथैव व्याख्यातो भाष्यकारेण ।
Page 094 (177)
गतिः ? इति चेत्, उच्यते-न्नामशब्दोऽत्र विप्रत्वजातिद्वारेणोद्गातारं ब्रूते, यस्य च गानं तल्मिन्निषेधे सति विधिनिषेधाभ्यामेकविपयाभ्यामुद्गातुगानं विकल्प्यते'व ।
एकादशाध्यायस्य द्वितीयपादे द्वादशेऽधिकरणे ब्रह्मसामन्युत्कर्षः –
पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि ।
कर्मशेपनिषेधश्च कर्मान्तरविधिर्भवेत् ।।
किं वोत्कर्पोऽवशिष्टस्य ह्यारण्योक्तिवदाऽऽदिमः ।
अदृष्टवाक्यभेदाप्तेर्द्रव्यभेदेन चान्तिमः ।।
वाजपेये 'सप्तदश प्राजापत्यान् पशून् सञ्चिनुते- इति प्रकृत्य श्रूयते—‘तान् पर्यग्निकृतानुत्सृजन्ति इति, 'ब्रह्मसात्म्ययालभते' इति । तेषु सप्तदशसु पशुषु पर्यग्निकरणेऽनुष्ठिते सत्यत्तुरकालभावो कर्मशेषं उत्सर्गशव्देन निपिध्यते । अश्वमेधे ऽपग्निकृलानारणयानुत्सृजन्ति- इत्यत्र कर्मशेपनिषेधस्य प्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणान्ताः समाप्याः । आलभतिनाचघ्रह्मसामकालेकमर्ख्तरंविधीयतेइतिप्राप्ते,घ्रूमः-फर्मान्तरविधौ सप्तदशपसजन्यादृष्टाद् भिन्नं किञ्चिदट्टष्टं कल्प्येत, वाक्यभेदश्च प्राप्नुयात् । किञ्च 'ब्रह्मसान्त्यालभते' इत्यत्र द्रव्यदेवतयोक्तप्रवणात्न कर्मान्तरविधिः सम्भवति । तस्मात् पर्यग्निकरणानन्तरमेव कार्यस्य सप्तदशप१ग्नामालम्भादिशेपस्य ब्रह्मसामकाले उत्कर्षो विधीयते, तथा सति अर्थप्राप्तः, पर्यग्निकरणानन्तरभाविकर्मव्यापारोपरम उत्सर्गशव्देनानृद्यते ।
मन्त्रलक्षणमारभ्य व्रह्मसामोत्कर्षपर्यन्तैः(१) पूर्वमीमांसागतैः द्विपष्टिसंख्याकैर्विचार्ये सामवेदस्य क्रतुपूपयोगो विस्पष्टीकृतः । अतः स प्रयोजनवत्वाद्वग्वेदादिवदेवावश्यं व्याख्यातव्यः ।
नन्वस्मिन्सामवेदे व्राह्मणभागस्य व्याख्यातुंयोग्येत्वेऽपि मन्त्रभागस्य न व्याख्यानयोग्यतास्ति, तत्रत्यानांमन्त्राणां गीतिमात्रात्मकत्वात्। न खलु पदवाक्यव्यतिरिक्तायां स्वरस्तोभादिसाध्यायां गीतौ क्रियाकारकयोजनाभिव्यङ्ग्यः कश्चिदर्थोऽस्ति, यख्याभिव्यक्तये भवता गीतिर्व्याख्यायेत । यत्तु
स्वरादिलक्षणविशेपकथनेन गीतिव्याख्यानं तत्पूर्वाचार्यैख्ये तत्तल्लक्षणनक्रुत्रग्रइरेगनु सम्पादितश्मइति न तत्र त्वया यतितव्यम् । अतः कथं भवतः मन्त्रभागव्याख्यानम् ?
Note:
(1)चतुःपष्टितमपृष्ठादारभ्य नवनवतितमपृथ्यपर्यन्तमत्रत्यो ग्रन्धांशो मधिवाचार्मप्रणीतजैमिनीयन्यायमालाविस्तरस्य तत्तदज्यायादुद्धृतोऽत्र विद्यतेइति रूक्लमवधेयम् ।
Page 095 (178)
अत्रोच्यते-न तावनु गीतिर्निराश्रया, तस्याः ऋच्याश्रितत्वात् । अत एव छन्दोगा उपनिषद्यैवामनन्ति--'तस्माद्वच्यध्यूढं साम गीयते'-इति (छा० उप० १।६) गीत्याश्रयभूता सेयमृगपि मन्त्र एव 'तेषामृग् यत्रार्थवशेनपादव्यवस्था' इति मन्त्रविशेषत्वेन सूत्रितत्वात् ७- सू०२।१।३२); ऋगात्मकस्य तु मन्त्रस्य क्रियाकारकान्वयाभिव्यङ्ग्योऽर्थो विद्यते । स च क्रत्वनुष्ठानकालेऽनुस्मर्त्तव्यः इति ऋगूव्याख्यानमवश्यं कर्त्तव्यम् ।
मन्त्रैरर्थानुस्मरणं तु प्रथमाध्यायस्य द्वितीयपदे चतुर्थाधिकरणे निर्णीतम् --
मन्त्रा उरु प्रथस्वेति किमद्वष्टैकहेतवः ।
यागेषूत पूरोडाशप्रथनादेश्च भासकाः ।।
ब्राह्मणेनापि तद्गानान्मन्त्राः पुरन्यैकहेतवः ।
न तद्भानस्य दृष्टत्वात् दृष्टं वरमद्वष्टतः ।।
उरु प्रथस्त्रेत्ययं कश्चिन्मन्त्रः । तस्यायमर्थः-भो पुरोडाश, त्वं उरु विपुलता यथा भवति तथा प्रसर इति । एवमादयो मन्त्राः यागप्रयोगेषूच्चार्य्यमाणाः अदृष्टमेव जनयन्ति । न त्वर्थप्रकाशनाय ततुच्चारणम्, पुरोडाशग्रथनलक्षणख्यार्थस्य ब्राह्मणवाक्येनापि प्राप्तत्वात् । 'उरु प्रथस्वेति पुरोडाश प्रथयति' इति हि ब्राह्मणवाक्यम् । नैतद् युक्तम्, अर्थप्रत्यायनस्य दृष्टप्रयोजनसम्भवे स्वति केवलाट्टष्टस्य कल्पयितुमशक्यत्वात् । तस्मात् ट्टश्यमानार्थानुस्मरणमेव यागप्रयोगे मष्वोच्चारणख्य प्रयोजनम् । ब्राह्मणवाक्येनार्थानुस्मरणसम्भवे मन्त्रेणैवानुस्मरणीयमिति यो नियमः, तस्य दृष्टासम्भवात्अदृष्टं प्रयोजनमस्तु ।
अस्मिन्नेवाधिकरणे मतान्तरेण(१) प्रभाकरस्य मतेनेति भाव । पूर्वोत्तरपक्षावाह--
मन्त्रव्राह्मणयोर्यद्वा कलहो विनियोजने ।
न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद् यतः ।।
अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थं स्यात्, वाक्येन विनियोगे मन्त्रलिङ्गं न विवक्ष्येत', इत्युभयोर्विरोधादप्रामाण्यं चोदनायाः इति पूर्वपक्षः । नायं विरोधः, प्रबलेन लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति राद्धान्तः (जै० न्या० वि० १।२।४) ।
|| इति सामवेदस्य भाप्योपक्रमणिका समाप्ता ||
शुक्लयजुर्वेदान्तर्गतायाः
काण्वसंहितायाः
सायणाचार्यकृता
भाष्यभूमिका
Page 096 (181)
वागीशाद्याः सुमनसः सर्वार्थानामुक्रमे ।
मं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ।। १ ।।
यस्य निः श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।। २ ।।
यत्कटाक्षेण तद्रूपं दधद् बुक्कमहीपतिः ।।
आदिशत् सायणाचार्य वेदार्थस्य प्रकाशने ।। ३ ।।
ये पूर्वोत्तरमीमांसे ते व्याख्यायाऽतिसंग्रहात् ।
कृपालुः सायणाचार्यों वेदार्थं व्याकरोत् खलु ।। ४
ऋग्यजुःसामवेदा ये व्याख्यातास्त्रेषु तद्यजुः ।
कृष्णं शुक्लमिति द्वेधा तत् कृष्ण तैत्तिरीयकम् ।। ५
वैशम्पायनशिष्येण याच्चवक्त्येन यद् यजुः ।
अधीत्य वान्तमाचार्यकोपभोतेन योगिना ।। ६ ।।
गुरुः शिप्यमुवाचेत्थं क्रुद्धः केनाऽपि हेतुना ।
प्रत्यर्पय मदीयां त्वं विद्यामित्यर्थयत् स च ।। ७ ।।
योगसामर्थ्यतो विद्यां मूर्तां कृत्वाऽवमत् तदा ।
गृण्हीत तद्यजुर्वान्तमित्यन्यान्गुरुरव्रवीत् प ८ ।।
अन्ये तित्तिरयो भूत्वा किञ्चित् तानप्यभक्षयन् ।
प्रवर्तितः खण्डशस्तैज सम्यग् वध्यते नृभिः ।। ९ ।।
आध्वर्यवं क्वचिद् हौत्रं क्वचिदित्यव्यवस्थया ।
बुद्धिमालिन्यहेतुत्वाद् यजुः कृष्णमितीयते ।। १० ।।
याज्ञवल्क्यस्ततः सूर्यमाराष्याऽस्त्वादधीतवान् ।
व्यवस्थितप्रकरणं यजुः शुक्लं तदीर्यते ।। ११ ।।
पौराणिकीं कथामेतां वेदव्याययानआदरात् ।
आदिशन्मह्यमाचार्याः श्रुतावपि मया श्रुतम् ।। १२ ।।
कारष्ववेदगते विद्या वशव्राह्मण इर्यते ।
यमूषि शुक्यान्यादित्यान्मुनिः प्रापेत्यपि स्फुटम् ।। १३ ।।
Page 097 (182)
अथ वंशः । पौतिमाषीपुत्रः कात्यायनीपुत्राद् इत्यारभ्य, परमेष्ठी ब्रह्मणो व्रह्म स्वयम्भुब्रह्मणे नम इत्येतदन्तकाण्ववेदख्यान्तिमं वंशब्राह्मणम् । पौतिमाषीपुत्रः कश्चिद्वेदसंप्रदायप्रवर्तको मुनिर्मनुष्याणां गुरुः । स च कात्यायनीपुत्राद् वेदमधीतवान् । परमेष्ठीशब्देन सत्यलोकप्रवर्तो चतुर्मुखोऽभिधीयते । ग्रह्मशब्देनात्र, 'प्रज्ञानं ब्रह्म', 'सत्यं ज्ञानमनन्तं ब्रह्म, ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वर’ (श्वेता० उप० ४। १०)
इत्यादिवेदवाक्यप्रसिद्धः परमेश्वरो विविक्षतः । तस्य च इतरेषामिवोत्पत्यर्थ वेदाऽध्ययनादिव्यवहाराय वा पारतव्यं, तत् स्वयन्दशब्देन निवार्यते । तथा च श्वेताश्वतरा आमनन्ति –
न तस्य कार्यं करणं च विद्यते न तत्समञ्चाभ्यधिकञ्च दृश्यते ।
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।।
न तस्यकश्चित् पतिरस्ति लोके न चेशितानैव चतस्य लिङ्गम् ।
स कारणंकरणाधिपाधिपो न चास्य कश्चिज्जनिता नचाऽधिपः ।। (श्वेता० उप० ६।८,९) ।
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदाञ्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये । (श्वेता० उप० ६।१८) ।।
नमः शब्देन चाऽस्य ब्राह्मणस्य गुरुपरम्पराविषयनमस्कारं प्रत्यङ्गमन्त्रत्व द्योत्यते । सा चगुरुनमस्काररूपा गुरुसेवा वेदाध्ययनतदर्थविचारतदनुष्ठानाना साफल्याय संपद्यते । तथा च स्मृतिः
गुरुमुख्याः क्रियाः सर्वा भुक्तिमुक्तिफलप्रदाः ।
तस्मात् सेव्यो गुरुर्नित्यं मुक्त्यर्थं सुसमाहितैः ।।
ईदृशे चाऽस्त्विन् वशव्राह्मणे वाक्यमेवमाम्नायते आदित्यानीनामानि शुल्कानि यञ्चैषि वाजसनेयेन याक्षवक्त्येनाख्यायन्त इति । आदित्येनाध्यापितत्वादादित्यात्युच्यन्ते |
वाज इत्यन्नख्य नामधेयम् । अन्तं वै वाजः इति श्रुतेः । वाजस्य सनिः दान यस्य महर्येरस्ति लोऽयंवाजसनिः । तस्य पुत्रोवाजसनेयस्तख्य याज्ञ वल्क्य इति नामधेयम् । तेन याज्ञवल्क्येनैतानि शुक्तयद्भूषिमहर्पिभ्यः पञ्चदशभ्य व्याख्यायन्ते समन्तावुपदिश्रुते । एवं सति याशवक्त्येन प्रवर्तिताः शुक्लयजुर्विषयाः शाखाः पञ्चदश संपद्यन्ते । तच्छाखाऽध्यायिनश्चरणव्यूहादिग्रन्थे काण्वादिभिः पञ्चदशभिर्नामभिरित्थ व्यवह्नियन्ते – काण्वाः ।। १ ।। माध्यन्दिनाः ।। २ ।। शापेयाः ।। ३ ।। तापायनीयाः ।। ४ ।। कापाला ।। ५ ।। पौण्ड्रवत्साः ।।६।। आवटिकाः ।।७।। परमावटिकाः ।।८।। पाराशर्याः ।। ९ ।। वैधेयाः ।।१०।। वैनेयाः ।९११।। औधेयाः ।।१२।। गालवाः ।।१३।। बैजवाः ।।१४।। कात्यायनीयाश्च ।। १५ ।। इति पञ्चदश नामानि (च० व्यू० २ कं०) ।।
Page 098 (183)
तत्र काण्वाभिधेन महर्षिणा लब्धो यक्षुर्वेदविशेषः काण्वः । तल्लाभश्च स्मर्यते –
युगान्तेऽन्तर्हितान्वेदान्सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा ।।
यद्यन्न वेदः स्वयम्भूपरमेष्ठ्यादिपरम्परया प्राप्त आदित्यशिष्येण याज्ञवल्कयेन बहुभ्यः शिष्येभ्य ठपदिष्टस्तथापि महता तपसा द्रष्टस्येश्वरस्याऽनुग्रहात् काण्वसभ्बन्धितयैव लोके प्रख्यायते । तमेतं काण्ववेदमधीयते विदन्ति वेति व्युत्पत्त्या काण्वशिप्यप्रशिष्यादिपरम्परायां वर्तमानः सर्वेऽपि काण्वा इत्युच्यन्ते । एवंज्ञात्वा कारम्बादिषु द्रष्टव्यम् ।
तत्रेद काण्ववेदाख्यं शुक्लं यजुः पूर्वं न व्याख्यातं, किन्तु तैत्तिरीयाख्यं कृष्णं यजुरेव व्याख्यातम् । तस्मादिदानी काण्व-शाखा व्याख्यायते । यद्यप्येनयोः शाखयोराध्वर्यव एव प्रयोगः प्रतिपाद्यते, तथापि मन्त्रपाठ विशेषैः प्रयोगविशेषैर्महान् भेदः । स चानुष्टातृभेदन व्यवस्थितविषयत्वान्न विकल्प्यते । अतएव, स्वाध्यायोऽध्येतव्यः (तै० आ० २।१४) इति स्वकीयशाखाध्ययनमनुष्ठानविशेपाय विहितम् ।
अत्रैतद् चिन्तनीयम् । किमेतत् स्वविधिप्रयुक्तं माणवकाध्ययनन्? उतऽध्यययनविधिप्रयुक्तम्? इति । तत्र प्रभाकरो मन्यते-स्वाध्यायोऽध्येतव्य इत्यर्थविधिरष्टवर्षमुपनीतं माणवकमध्ययने प्रवर्तयितुं न प्रभवति ।
अनधीतवेदस्य तद्विधिवाक्यपाठाभावाद्, वाक्याऽर्थज्ञानं व्याकरणादिषडङ्गाध्ययनरहितस्य डूरापेतम् । वालक्रीडासु निरन्तरमासक्तस्यानुष्ठाने प्रवृत्तिराशङ्कितुमप्यशक्यां । तस्मान्नायं विधिः प्रवर्तकः । ननु पित्राचार्यादिभिः शिक्षितो माणवकः क्रीडाभ्य उपरतः पित्रादिमुखादेव यथोक्तावाक्यार्थमवग्रुज्याध्ययने प्रवर्तिष्यत इति चेत्? एवं तर्हि पित्राचार्यादिकतृकाऽध्यापनप्रयुक्तं माणवकाध्ययनं, न त्वध्ययनविधिप्रयुक्तमित्येतादृशमस्मदोयमेव मत भवताऽप्यङ्गीकर्तव्यम् । अध्यापनस्य तु विधिरेवमास्रायते – “अष्टवव ब्राह्मणमुपनयीत” इति । ननुपूर्वोक्ताध्ययनविधाविवैतस्मिन्नध्यापनविधावपि योग्योऽधिकारी साक्षान्न श्रूयते । ततोऽध्ययनसिद्धौ तत्प्रयुक्तिरन्वध्ययनस्य दुर्लभेति चेत् ।। मैवम् | उपनयीतेत्येतेनात्मवेपदेनाचार्यत्वकामस्याधिकारिणः प्रतीयमानत्वात् । संमाननोत्सञ्जनाचार्यकरणेत्यादिना सूत्रेणाऽऽचार्यकरणविवक्षायां, नयतिधातोरात्मनेपदं विहितम् । एवमप्युपनयन एवाग्रिंकारिसिद्धिर्न त्वध्यापन इति चेत् ? मैवम् | उपनयीत तमध्यापयीतेत्पुपनयनाध्ययनयोरेकप्रयोगत्वावगमात, । अयमेवाऽर्थो मनुना स्मर्यते –
Page 099 (184)
उपनयि गुरुः शिष्यं वेदमध्यापयेन्नरः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।। ( मनुः २।१४०)
आचार्यत्वकामेन पित्रादिनाऽनुष्ठेयम् अध्यापनं माणवककर्तृकाध्ययनव्यतिरेकेण न सिध्यति । पाचयति याजयतीत्यादौ सर्वत्र धात्वर्थव्यतिरेकेणणिच्प्रत्ययार्थादर्शनात् । अतः पित्रादिभिरनुष्ठेयमध्यापनं माणवकाध्ययनस्य प्रयोजकम् । एव तर्हि, 'स्वाध्यायोऽध्येतव्यः' इत्यस्य विधेः का गतिरिति चेत्? व्रह्मयज्ञाध्ययनमनेन विधीयते इति व्रूमः । अत एव, तैत्तिरीयब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यां दिशि ग्रामादित्यारभ्य तस्मिन्नेव प्रकरणे स्वाध्यायस्यमहिमानम्-अपहतपाप्मा स्वाध्याय इत्यादिना वहुधा प्रपञ्च्य तस्मादेवमामनन्ति-तस्मात् स्वाध्यायोऽध्येतव्यः, यं य क्रतुमधीते तेन तेनाख्येष्टभवतीति । तस्मादध्यापनविधिप्रयुक्तं माणवकाध्यायनमित्येवं प्रभाकरमतम् ।
अत्रोच्यते । नित्यस्य ग्रहणाध्ययनख्य काम्येनाध्यापनेन प्रयोज्यत्वं न सभवति । ग्रहणाध्ययनस्य नित्यत्वमकरणे प्रत्यवायस्मरणादवगतव्यम् । तथा च स्मर्यते –
योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ।
सजीवन्नेवशूद्रत्वमाशुगच्छतिसान्वयः ।। (म० स्मृ० २।१६८)
अध्यापन तु कुटुक्तापोषणाय गुरुदक्षिणाकामेनानुष्ठीयत इति तस्य काम्यत्वम् । एतदपि स्मर्यते –
षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ।। म- स्मृ० १०७
यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहेषु षट्सु कर्मसु यजनाध्ययनदानानि त्रीण्यदृष्टार्थानि । याजनादीनि तु त्रीणि जीवनार्थानि, न त्वद्वष्टार्थानि । यस्तु गुरुदक्षिणामनपेक्ष्य माणवकान् अध्यापयति तख्याध्यापनं विद्यादानरूपत्वाददृष्टर्थमस्तु । न चैतावता एतस्य निषिद्धत्वात् सिध्यति । दानस्य धनवस्त्रादिना सम्पादयितुं शक्यत्वात् । इत्थमनित्यमध्यापनं यदा पित्रादयो नानुतिष्ठन्ति तदा नित्यमध्यापनप्रयुक्तं माणवकख्याध्ययनं न निष्पद्येत । तस्मान्नित्यं ग्ररूणाध्ययनं स्वविधिप्रयुक्तमेवेत्यवगन्तव्यम् । ननु स्वाध्यायोऽध्येतव्य इत्यस्य वेदब्रह्मयज्ञविषयत्वाद ग्रहणाध्ययननस्वविधिर्न लभ्यते इति चेत् ४ वाढम् । अत एव प्रकाशात्मचार्यैर्विवरणग्रन्थे तमध्यापयीतेत्यस्य माणवकाध्ययनविधिपरत्वभुक्तम् । अत्र अध्यापयीतेति पदे, धात्वर्थो, णिच्प्रत्ययार्थो, विधायकविभक्त्यर्थश्चेति त्रयोऽर्थाः प्रतिपाद्यन्ते । तेषु णिच्प्रत्ययार्थस्थ जीवनकामनयैव प्राप्तत्वान्नाऽसौ विधेयः । वतः प्राप्तं तमनूद्य धात्वर्थोऽप्राप्तोऽस्मिन् वाक्ये विधी-
Page 100 (185)
यते । यथा, अग्निहोत्रं जुहोतीति होमं विधाय, दध्ना तु जुहोतीति वाक्ये प्राप्तहोमाऽनुवादेनाऽप्राप्तो दधिगुणो विहितस्तद्वत् । तस्मान्माणवककर्तृकोध्ययनविधिपरमेतद्वाक्यम् । तच्च तदर्थवाचकत्वं योऽष्टवर्षो व्राह्मणमुपगच्छेत्, सोऽधीयीतेत्येवं परिणेतव्यम् । किञ्च सर्वासु स्मृतिषु ब्रह्मचारिप्रकरणेऽध्ययनविधेर्दृष्टत्वात् तन्मूलभूतासु श्रुतिषु विद्यते एवाध्ययनविधिरित्यनुमीयते । तस्मात्स्वविधिप्रयुक्तमध्ययनम् । तत्र माणवकस्याप्रवुद्धत्वेऽपि पित्रादिशिक्षया तदनुष्ठानं सिध्यति । यथा वेदाध्ययनात् प्रागेव पित्रोदिशिक्षया सन्ध्यावन्दनसमिदाहरणाद्यनुष्ठानसिद्धिस्तद्वत् । 'तख्यात् स्त्वाध्यायोऽध्येतव्य इत्ययमेव विधि कएवशिष्यान् स्त्वशाखाविशेपाऽध्ययने प्रवर्तयतीति सिद्धम् ।
इदमपरञ्चिन्त्यते । किमेतदध्ययनमदृष्टार्थमुत दृष्टार्थ-मिति? तत्र इष्टाऽर्थेष्वाहारनिद्रादिषु वैदिकविध्यदर्शनाद् वेदेन विहितस्याऽध्ययनस्य सन्ध्यावन्दनादिवदद्वष्टार्थत्वं युक्तम् । 'स्वर्गकामा ज्योतिष्टोमेन यजेत' इत्यादिप्विवैतत्कामाऽधीयीतेत्येवमदृष्टसाध्यफलविशेपो
न श्रूयत इति चेत्? न हि अध्ययनत्वसाभ्येन ब्रह्मयज्ञाध्ययने श्रूयमाणं घृतद्ध्ययादिफलमत्रातिदिश्यताम् । ब्रह्मयज्ञप्रकरणे ह्येवं श्रूयते – “यदृचोऽधीते पयसः कुल्या अस्य पितृन् स्वधा अभिबहन्ति यद्यन्वि घृतकुल्या, यत् सामानि सोम एभ्यः पवते, यदर्थं चाङ्गिरसो मधोः कुल्या (तै० आ०२।१०) इति । तदेतद् घ्रह्मयज्ञफलं ग्रश्मगाध्ययनेऽतिदेपृव्यम् । न चाद्वष्टचरोऽतिदेश इति वाच्यम् । जैमिनीययोः सप्तमाष्टमाध्याययोरतिदेशस्यैव वहुधा विस्तृतत्वात् । तत्र कर्माद्भानामेवातिदेशो निरूपितः । धृतकुल्यादिवाक्यं न तु कर्माद्गाववोधकं कि तुफलकथनेन स्तावकोऽर्थवादः । इद्वशख्यातिदेशो न क्वापि दृष्ट इति चेत्? मैवम् । वैयासिके गुणोपसंहारपादे, हानौ तृपायनशव्दशेषत्वाश्म (वे० सू० ३|२६) इति सूत्रे तस्य दृष्टत्वात् । तथाहि । कोपीतकिनो ब्रह्मविदा परित्यक्तयोः सुकृतदुइरुणयोरितरेतरैरनुकूलैः प्रतिकूलैश्च स्त्वीकारमिष्टसामनन्ति, न त्वितरस्वीकारम् । तदीयं च वाक्यमेतत् –
तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैतीति ।
तत्र भगवान् वादरायणः कौपितकिशाखायां श्रुतख्येतरस्वीकारस्याथर्वणशाखायामुपसंहारं निर्णीतवान् । सोऽयं फलवाक्यरूपख्याऽर्थवादस्यातिहेशः । तद्वद् वृतकुल्यादिकमतिदिश्यताम् ।
अथवा विश्वजिन्त्यायेन स्वर्गो ग्रइणाध्ययनफलत्वेन कल्पनीयः । तथादि, 'विश्वजिता यजेत् इति यागविधिरेचाम्नातो न तत्र फलविशेषः ।
Page 101 (186)
तथा सत्यधिकार्यभावादननुष्ठाने प्राप्ते तत्समाधानं भगवान् जैमिनिरत्रयत् –“स स्वर्गः स्यात् सर्वान् प्रत्यविशिष्टत्वात् (१) (जै० सू० ४।३।१५) इति । अस्यार्थः – अधिकारहेतुत्वेन योऽयं फलविशेषोऽपेक्षितः सोऽय स्वर्गोऽत्र भवेत् । कुतः? । फलकामिनः सर्वान् पुरुषान् प्रति स्वर्गाख्यफलस्यसाधारणत्वादिति । स्वर्गो नाम सुखाऽतिशयः । तथा च,
दुःखेन यन्न संभिन्नं न च ग्रस्तमनन्तरम् ।
अभिलापोपनीतं च सुखं स्वर्गपदाभिधम् ।।
अतोऽत्रापि अनेनैव न्यायेन माणवकाध्ययनस्य स्वर्गः फलमित्यदृष्टार्थमध्ययनमिति प्राप्ते ब्रूमः-इष्टफलसम्भवे सत्यदृष्टच्छपनमन्याय्यम् । अन्यथा, ब्रीहिनवहन्तीत्यत्रापि तण्डलनिष्पत्तिलक्षणं द्वष्टफलं बहुप्रयाससाध्यत्वावुपेक्ष्य सक्त्यमुसलप्रहाररूपप्रयासरहितमवघातम् अदृष्टार्थं पुरुपोऽनुतिष्ठेत् । तथा सति शास्त्रीयतण्डलाभावेन पुरोडाशासिद्धौ यागविधयो बाध्येरन् । तस्माद् द्वष्टफलसम्भवे तदेवादरणीयम् । सम्भवति ह्यध्ययनस्याऽक्षरप्राप्तिरूप वृष्टफलम् । नन्वक्षरप्राप्तिरूपं दृष्टफलं गुरुपूर्वकाध्ययनव्यतिरेकेण लिखितपाठेनापि लभ्यते । आयुर्वेदादिमन्त्रपाठेषु तथा दर्शनात् । तथा सति किमनेनाध्ययनविधिनेति चेत्? उच्यते । नियभाद्वष्टार्थोऽयमध्ययनविधिः । यथा तण्डुलनिष्पत्तिरूपख्य दृष्टफलस्य विक्रियनखविदलनादिनापि सिद्धौ नियमाष्टृष्टार्थोऽवघातविधिस्तद्वत् । तस्मादक्षरप्राप्तिः प्रत्यक्षोऽध्ययनविधिरिति सिद्धम् ।।
तदिदं शाङ्करदर्शनाऽनुसारिण मतमसहमानौ भट्टगुरु मन्येते । भवत्यध्ययनख्याक्षरप्राप्तिः फलं, तथापि भवतामपि विधिर्न पर्यवस्यति । किन्तु प्राप्तैरक्षरैर्योऽय मर्थाऽववोधस्तस्मिन् विधिः पर्यवस्यति । अर्थाववोधेनानुष्ठाने निष्पन्ने अति पुरुषार्थस्याग्निहोत्रादिफलख्य स्वर्गख्य सिद्धेः ।
अक्षरप्राप्तिमात्रेण तु न अग्निहोत्राद्यनुष्ठानक्त्यसिध्यति । तस्मात् फलवदर्थाववोधेऽध्ययनविधेः पर्यवसानमवगन्तव्यम् । यद्यपिविहितस्वाध्यायाध्ययनमात्रादीदानीन्तनेषु सर्वेष्वध्यापकेषु अर्थाववोधो न दृष्टस्तथापि निगमनिरुक्तव्याकरणाद्यङ्गपरिशीलनवत्सु दृष्ट एवार्थाववोधः । व्याकरणादिपरिशीलनमात्रेणार्थप्रतीतिमात्रे सत्यपि तन्निर्णयो न लभ्यते ।
Note :
(१) नथा च तत्रत्यं शवरभाय्यम्-एवं जातीयकेपु एतत्समधिगतम्, एकं फलमिति ।। इदमिदानी सन्दिह्यते-र्कि यकिञ्चितत स्वर्ग हति । यर्त्क्तचिदिति प्राप्तम् विशेपानभिधानात्। तत उच्यते स स्वर्वाः स्यात् सर्वान् प्रत्यविशिष्टत्वात्। सर्वे हि पुरुपा स्वर्गकामा । कुत एवत् ? प्रीतिर्हि स्वर्ग. । सर्वश्च प्रीतिं प्रार्थयते । किमतो यद्येवम् । अविशेपवचन शब्दोन विष्येषेव्यवस्थापितो भविष्यति । यजेत कुर्यादिति । तस्मात् स्वर्ग्नुफलभेवजातीयकमिति ।
Page 102 (187)
अक्ताः शर्करा उपदधातीत्यादिवाक्येषु केन द्रव्येणाऽक्ता इत्यादेः संदेहस्यानपगमादिति चेत् । एवं तर्हि निर्णायकं मीमांसाशास्त्रमनेनाध्ययनविधिनार्थनिर्णयाय स्वीक्रियताम् । यथाऽवघातविधिस्तण्डुलन्तिपत्तिफलसिध्यर्थोऽवघातस्यावृत्तिं स्वीकरोति तद्वत् । तस्मात् फलवदर्थाववोधे पर्यवस्यत्ययमध्ययनविधिर्न त्वक्षरप्राप्तिमात्र इति प्राप्ते ब्रूमः –
किमयमर्थाववोधः स्वयमेव पुरुषार्थस्य स्वर्गहेतुः? उताऽग्निहोत्राद्यनुष्ठानद्वारेण । नाऽऽद्यः । अनुष्ठान्मप्रसङ्गात् । द्वित तु यथार्थाववोधस्यानुष्ठानद्वेतोः परम्परया पुरुषार्थहेतुत्वम् । एवमर्थाववोधहेतुभूताया अक्षरप्राप्तेरपि परम्परया पुरुषार्थहेतुत्वाद्विधिरक्षरप्राप्तौ पर्यवस्यतु । किञ्चानुष्ठानद्वारस्त्वर्गफलोपेतेऽर्थाववोधेविधिपर्यवसानं वदतः कृत्स्नवेदाध्ययनं न सिध्येत् । राजसूयाऽश्वमेधादावनधिकारिणो ब्राह्मणस्य तत्कलत्वपर्यन्तार्थाववोधासंभवात् । अक्ष्नरप्राप्तिफलवादिनन्तु कृक्लवेदाध्ययनं सिध्यति । अक्षरप्राप्तिर्ब्रह्मयज्ञे जपहेतुत्वात् । तत्र व्राह्मणोऽपि राजसूयाश्वमेधादिवेदविभागे भागोत्तरब्रह्मयज्ञजप करात्यव विधेरर्थावबोधपर्यन्तत्वाऽभावे कथमर्थावबोधसिद्धिरिति चेत् ? काव्यनाटकादिग्रन्थेषु वैदिकविधिमन्तरेण यथा अर्थावबोधस्तद्वद् भविष्यति । विध्यर्थाभावे ऽर्थाववोघप्रयुक्तभद्वष्टं किञ्चिदपि न सिध्यतीति चेत्, मैवम्। अर्थाववोधस्याध्ययनविधिप्र्युक्त्यभावेपि विध्यन्तरप्रयुक्तत्वेन तस्याद्वष्टस्य सिद्धेः । विध्यन्तरं चेवमाम्नायते-“ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयञ्च” ।
“योऽर्थज्ञ इत्सकस्तं भद्रमखते ।
नाकमेति ज्ञानविधूतपाष्मा ।। ( नि० १।१८)
तस्मादध्ययनविधिः पाठमात्रपर्यवसायी । अर्थावबोधस्तु विध्यन्तरप्रयुक्त इति सिद्धम् ।।
अथेदानींविहितार्थावबोधसिद्धये काण्ववेदो व्याख्यायते कवण्सवन्धश्चवेदस्य पूर्वमेव प्रसिद्धः प्रदर्शितः । कण्वसंबन्धिशाखाया वेदत्वं चाऽलौकिकपुरुषार्थोपायवेदनण्डेत्वादवगन्तव्यम् । तथा चोक्तं –
प्रत्यक्षेणाऽनुमित्या वा यन्त्युपायो न बुद्ध्यते ।
एवं विदन्ति वेदेन तस्माद् वेदस्य वेदता ।।
तस्मिंश्च वेदे द्धौकाण्डो-कर्मकाण्डो, ब्रह्मकाण्डश्च । बृहदाररण्यकाऽऽख्यो ग्रन्थो ब्रह्मकाण्डस्यद्व्यतिरिक्तं शतपथत्राह्मणं संहिताच्चेत्यनयोर्ग्रन्थयोः कर्मकाण्डत्वम् । तत्रोभयत्राधानाग्निहोत्रदर्शपूर्णमासादिकर्मण एव प्रतिपाद्यत्वात् । बृहदारचयके तु तृतीयाद्यध्यायेषु ब्रह्म प्रतिपाद्यते । अतःकर्माणि
Page 103 (188)
वेदस्य विषयः तदववोधः प्रयोजनम् । बोधार्थो चाधिकारी । तत्र प्रयोजनं विपयेण जन्यते । अधिकारिविषयोस्तु प्रयोजनद्वारेणोपकार्योपकारकत्वसंवन्धः । इ विषयप्रयोजनाधिकारिसवन्धरूपस्याऽनुवन्धचतुष्टयस्य विद्यमानत्वात् तदीयप्रामाण्यस्य जैमिनिना प्रथमपादे प्रप्रञ्चितत्वाच्च वेदोव्याख्यातुं योग्यः ।
तस्मिश्च वेदे कर्मकाण्डः प्रथममाम्नातः । ब्रह्मणोऽभ्यर्हितत्वाद् ब्रह्मकाण्डख्यव प्राथम्य मुचितम् । तथापि कर्मभिः साध्या चित्तशुद्धिमन्तरेण पुरुषस्य ब्रह्मकाण्डेऽधिकाराभावादधिकाच्छेकर्मप्रतिपादकः काण्डः प्रथमं समाम्नातः । कर्माणि च चतुर्विधानि । नित्यं, नैमित्तिकं, काम्यं, निषिद्धं चेति । तत्र नित्यनैमित्तिकयोरननुष्ठानान्निषिद्धसेवनाच्च प्रत्यवाय उत्पद्यते । तथा च याज्ञवच्चयः स्मरति –
विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ।। (या० स्मृ० ३।२१९)
तेन च प्रत्यवायेन बुद्धिमान्ये सति नित्यानित्यवस्तुविवेकवैराग्यादीनामनुदयात्ब्रह्मविविदिषा पुरुषस्य न जायते । तस्माद् विविदिवाण्डेत्वं नित्यनैमित्तिकर्मणां बृहदाररण्यके समामनन्ति –
तमेतं वेदानुवचनेन ब्राह्मणा विविदषन्ति
यज्ञेन दानेन तपसाऽनाशकेन ।।
तदनुष्ठानेन तमोगुणरूपे चित्तमालिन्य अपगते सति सत्त्वगुणरूपस्य नैर्मल्यख्योदयाद् विवेकवैराग्यादिसपत्तौ सत्यां परमपुरुपार्थरूपे व्रह्मतत्त्ववेदनेऽभिरुचिर्जायते । कारीर्या वृष्टिकामो यजेत्', चित्रया पशुकामः इत्यादीनि तुकाम्यकर्माणि परमपुरुषार्थसाधनाऽभावेऽपिस्वाभाविककामग्रस्ताना षुरुषाणां वैदिकमार्गे फलसंवादेन श्रद्धामुत्यादण्डिमेवास्तयन्ते । तस्मात्तानि वेदे प्रासङ्गिकानि । परमतात्पर्यं तु वेदस्य नित्यकर्मस्वेव । तस्मात्कर्मकाण्डगतयोः सहिताशतपथग्रन्थयोः प्राधान्येन नित्यकर्माण्याम्नातानि ।
तत्र शतपथब्राह्मणस्य मन्त्रव्याख्यानरूपत्वाद् व्याख्येयमन्त्रतिपादकः सहिताग्रन्थः पूर्वभावित्वात् प्रथमो भवति।
तस्मिश्च संहिताग्रन्थे चत्वारिशदध्यायाः। तेषु प्रथमद्वितीययोरध्याययोर्दर्शपूर्णमासौ। तृतीयेऽन्वाधानाः होत्राग्न्युपस्थानचातुर्मास्यानि। चतुर्थपञ्चमषष्ठसप्तमाष्टमनवमेषु षट्स्वग्निष्टोमः। दशमे वाजपेयः। एकादशे राजसूयः। द्वादशमारभ्य विशान्तेषु नवस्वग्निचयनम्। एकविंशद्वाविंशत्रयोविंशेषु त्रिषु सौत्रामणी। चतुर्विंशपञ्चविंशषड्विंशसप्त-
Page 104 (189)
विंश्वेषु चतुर्ष्वश्वमेधः । अष्टाविंशमारभ्य त्रयस्त्रिंशान्तेषु षट्सु तत्र तत्र विप्रकीर्णा लिङ्गविनियोज्या अनारभ्याधीता मन्त्राः । चतुस्त्रिंशपञ्चत्रिंशयोः | पुरुषमेधः । षट्त्रिशे शान्तिः । सप्तत्रिंशाष्टत्रिशैकोनचत्वारिशेषु प्रवर्ग्यः । चत्वारिंशे च ब्रह्मविद्या ।
ननु संहिताया आदौ कर्मान्तरं परित्यज्य दर्शपूर्णमासेष्टिरेच कुतः प्रतिपाद्यत इति चेत्? प्रकृतित्वान्निरपेक्षत्वाच्चेति व्रूमः । प्रकर्षेणाऽ ङ्गोपदेशो यत्र क्रियते सा प्रकृतिः । कृत्स्ताङ्गविषयत्वमुपदेशस्य प्रकर्षः । विकृतिषु तु विशेषाङ्गमात्रस्योपदेशः क्रियते । अङ्गान्तराणि तु प्रकृतेरतिदिश्यन्ते ।
अतः उपदेशस्य प्रकर्षाभावः । प्रकृतिस्त्रिविधा – अग्निहोत्रम्, इष्टिः, सोमश्चेति। त्रिष्वप्येतेष्वन्यनैरपेदयेण स्वाङ्गजातं सर्वमुपदिष्टम् । तत्र सोमयागस्य स्वरूपेणान्यनैरपेदयेष्वप्यङ्गेषु दीक्षणीयादिषु दर्शपौर्णमासेष्टिसापेक्षत्वाद् न पूर्वभावित्वयुक्तम्। इष्टेस्तु सोमयागनैरपेक्ष्यात्सोमात्प्राचीनत्वं युक्तम् । 'यद्यप्यग्निहोत्रख्य स्वरूपाङ्गेषु नास्त्यन्यापेक्षा, तथाप्यग्निसिद्ध्यपेक्षत्वाद् आहवनीयाद्यग्नीनां च पवमानेष्टिसाध्यत्वात् पवमानेष्टीनां च दर्शपूरर्गमासविकृतित्वात् परम्परयाग्निहोत्रस्य दर्शपूर्णमासापेक्षाऽस्तीति प्रथमभावित्वं युक्तम् । दर्शपूर्णमासयोरग्निसाध्यत्वादग्निसाधकमाधान प्रथमतो वक्तव्यमिति चेद्? मैवम् । नाधानमात्रेणाग्नयः सिध्यन्ति हिक् पवमानेष्टिभिरपि । ताश्चेष्टयो दर्शपूर्णमासविकृतित्वात्साक्षादेव दशपूर्णमासावपेक्षन्ते । दर्शपूर्णमासौ त्वग्निद्वारा पवमानेष्टिसापेक्षावपि न साक्षात् पवमानेष्टीरपेक्षेते । अनो निरपेक्षत्वाद् दर्शपृर्णमासेष्टिरेव प्रथमं वक्तव्या । ऋग्वेदसामवेदयोरादौ दर्शपूर्णमासेष्टिर्नाम्नातेति चेत्? वाढम् । यजुर्वेदमपेक्ष्य दर्शपूर्णमासयोरादित्वमुक्तम् । कर्मकाण्डविवये यक्षुर्वेदस्यैव प्राधान्यात्। आनुपूर्व्या कर्मणां स्वरूप यजुर्वेदे समाम्नातम् । तत्र तत्रविशेपापेक्षायामपेक्षिता याज्यापुरोनुवाक्यादय ऋग्वेदे समाम्नायन्ते । स्तोत्रादीनि तु सामवेदे । तथा सति भित्तिस्थानीयोयजुर्वेदः; चित्रस्थानीयावितरौ ।। तस्मात्कर्मसु यजुर्वेदस्य प्राधान्यम् । तस्मिश्च दर्शपूर्णमाष्टिरादौ समाम्नाता तस्यां चेष्टौ, इषे त्वादयो मन्त्राः ।
तेषां च मन्त्राणां सामान्यलक्षणं न्यायविस्तराभिधे ग्रन्थे द्वितीयाऽध्याये प्रथमपादे द्वाभ्यामधिकरणाभ्यामित्थं विचारित –
अहे बुध्निय मन्त्रं मे' इति मन्त्रस्यलक्षणम् ।
नास्त्वस्ति वास्य नास्त्येतदव्याथयादेरवारणात ।।
Page 105 (190)
याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् ।
च तेऽनुष्ठानख्यारकादौ मन्त्रशव्द प्रयुञ्जते ।।
आधानप्रकरण इदमाम्नायते – “अहे बुध्निय मन्त्रं मे गोपाय ( तै० ब्रा०१।२।१।८६) इति । तत्र मन्त्रस्य लक्षणं नास्ति कुतः? अव्याप्त्यतियाप्त्योर्वारयितुमशक्यत्वात् । 'विहितार्थस्याभिधायको मन्त्रः' इत्युक्ते, 'वसन्ताय कपिञ्जलानालभते० (वा० सं० २४।२०) इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः । 'मननहेतुर्मन्त्रः' इत्युक्ते, ब्राह्मणेऽतिव्याप्तिरिति चेत् ? मैवम् । याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात् । तच्च समाख्यानमनुष्ठानस्प्तारकादीनां मन्त्रत्व गमयति । 'उरु प्रथस्व' इत्यादयोऽनुष्ठानस्मारकाः । 'अग्निमीळे पुरोहितम् ( ऋ- १।१।१) इत्यादयः प्लतिरूपाः । 'इषे त्वा' (वा० सं० १।१) इत्यादयः शाखाछेदनादिस्मारकाः । 'अग्न आयाहि वीतये' (सा० सं० १।१) इत्यादय आमन्त्रणोपेताः । एवन्नयेऽप्युदाहार्याः । ईदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति यस्य लक्षणमुच्यते । तस्मात्समाख्यानं मन्त्रलक्षणम् ।। (जै० न्या० वि० २।१।७)
ऋगादिलक्षणं पूर्वोत्तरपक्षादाह –
न ऋक्सामयजुषां लक्ष्म साङ्कर्यादितिशङ्किते ।
पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसङ्करः ।
इदमाम्नायते – “अहे बुध्निय मन्त्रं मेगोपाय यमृषयस्त्रैविदो विदुः ऋचः सामानि यजूंषि' इति । त्रीन् वेदान् विदन्तीति त्रिविदाः । त्रिविदां सम्वन्धिनोऽध्येतारस्त्रैविदाः । ते च यं मन्त्रभागमृगादिरूपेण त्रिविधं वदन्ति तं गोपायेति योजना । त्रिविधानाम् ऋक्यामयजुषां व्यवस्थित लक्षण नास्ति । कुतः? साह्नर्यस्य दुष्परिहरत्वात् । 'अध्यापकप्रसिद्धेष्वृग्वेदादिषु पठितो मन्त्र ऋगादिरूपः' इति हि वक्तव्यम् । तच्च सङ्कीर्णम् । तथाहि । अग्नये मथ्यमानायानुब्रन्म ३ हि, हविर्धानाभ्यां प्रोह्यमाणाभ्यामनुब्रू ३ हि इत्यादीनि यद्ध्यृग्वेदे समाम्नातानि । देवो वः सवितोत्षुनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः (तै० सं० १ । १।५।१) इत्ययं मन्त्रो यजुर्वेदे सम्प्रतिपन्नयजुषां मध्ये पठितः । न च तस्य यजुष्ट्वमस्ति । ऋग्रूपत्वेन तद्ब्राह्मणे व्यवहृतत्वात् । सावित्र्यर्चेति हि ब्राह्मण२१ एतत्साम गायन्नास्ते इति हि प्रतिज्ञाय, हाउ इत्यादिक साम यजुर्वेदे गीतम् । 'अक्ष्नितमख्यच्युतमसि प्राणसंशितमसि' इति त्रीणि यद्रूपि सामवेदे ( छा० उ० ३।१०।६) समाम्नायन्ते । तस्मान्नास्ति लक्षणमिति चेत्? न, पादादीनामसङ्कीर्णलक्षणत्वात् । पादेनार्द्धर्चनोपेता वृत्त-
Page 106 (191)
वद्धा मन्त्रा ऋचः । गीतिरूपा मन्त्रा सामानि । वृत्तगीतिवर्जितत्वेनप्रश्लिष्टपठितामन्त्रायजूंषि इति व्यवस्थितं लक्षणम् । (जै०न्या० विद्य २।१।१२) ।।
प्रथमाध्यायस्य द्वितीयपादे मन्त्रेष्वन्यद्विचारितम्-
मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः ।
यागे कृतपुरोडाशप्रथनादेश्च भासकाः ।।
ब्राह्मणेनापि तत्रानतमन्त्राः पुण्यैकहेतवः ।
न तद्भानस्य दृष्टाद् दृष्टं वरमद्वष्टतः ।।
'उरु प्रथस्व' इत्ययं कश्चिन्मन्त्रः । तस्याऽयमर्थः-भो पुरोडाश त्वमुरु त्तिभूलवः यथा भवति तथा कपालेषु प्रसर इतिहीद्वशामन्त्रा यागप्रयोगेषूच्चार्यमाणा अदृष्टमेव जनयन्ति, न त्वर्थप्रकाशनाय तदुच्चारणम् । पुरोडाशप्रथनलक्षणार्थस्य ब्राह्मणवाक्येनापि भासमानत्वात् । 'उरु प्रथस्वेति पुरोडाशं प्रथयति' इति हि ब्राह्मणवाक्यमिति चेत् ४ न एतद्युक्तम् । अर्थप्रत्यायनस्य दृष्टप्रयोजनस्थ सम्भवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् । तस्माद् दृष्टश्चर्यानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् । ब्राह्मणवाक्येनाप्यर्थानुस्मरणसम्भवे मन्त्रेणैवानुस्मरणीयमिति यो नियमस्तस्यादृष्टं प्रयोजनमस्तु ( जै० न्या० वि० १।२।४) ।
ननु मन्त्राणामनुष्ठेयार्थख्यारकत्वं क्वचिद् व्यभिचरितम् । तथाहि –
दिवो वा विष्ण उत वा पृथिव्या महो वा विष्णवुत वाऽन्तरिक्षात् ।
हस्तौ पृणस्व वहुभिर्वसुभिराप्रयच्छ दक्षिणादोत सव्यात् ।
इत्यस्मिन् मन्त्रेधनमाशास्ते इत्ययमर्थः प्रतीयते 1 अनुष्ठेयार्थस्तु शकटविशेषस्थापनायाऽऽधारभूतकाष्ठस्थापनं, तत्तु ब्राह्मणे न विधीयते । 'दिवो वा विष्ण उत वा पृथिव्या' इत्याशीरेतयर्चा दक्षिणस्य हविर्धानस्य मेढीं निहन्तोति । नाऽयं दोपः । अस्याधिकरणस्य लिङ्गविनियोगविषयत्वात् । उदाहृत मन्त्रः श्रुत्या विनियुज्यते ।
य एतेऽर्थस्मरणाय प्रयोक्तव्या मन्त्राः सन्ति, तेषु सर्वेष्वृष्यादिकं वेदितव्यम् । अत एव छन्दोगा ऋष्याद्यवेदने वाधमभिधाय तद्वेदनविधिमामनन्ति-'यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाऽध्यापयति वा स्थाणुं वर्च्छति गर्त वा पद्यते इत्यादिरवेदने वाथ । तस्मादेतानि मन्त्रे विद्यादिति वेदनविधिः ।
तथा कात्थायनाऽऽचार्योऽप्याह-एतान्यविदित्वा योऽधोतेऽनुव्रते जपति यजते याजयते तस्य ब्रह्म निवीय यातयामं भवति । अथ विज्ञायैतानि योऽधीते तस्य वीर्यवद्, अथ योऽर्थवित् तस्य वीर्यवत्तरं भवति
Page 107 (192)
जपित्वा हुत्वेग्रवा तत्फलेन युज्यते इति । अस्यास्तु मन्त्रब्राह्मणात्मिकीयाः काण्वशाखायाः सर्वस्या अपि स्वयम्भुब्रह्मारभ्य पौतिशाखापर्यन्ताः सम्प्रदायप्रवर्तका ऋषयस्त्रिषु वशब्राह्मणेषुमन्त्रविशेषेषुस्पष्टमाम्नाताः । काण्डविशेषेषु मन्त्रविशेषेषु चाऽपेक्षितास्तत्तद्ग्रषिविशेषा ब्राह्मणगताख्यायिकाभिरनुक्रमणिकादिग्रन्थैश्चावगन्तव्याः । तदज्ञानेऽपि वंशोक्तानामृषीणामवगतत्वादवेदनप्रयुक्तो वाधो नास्ति । ऋषिविशेषाणामपि विज्ञाने फलाधिक्यमीस् त। अत एववीर्यवत्तर भवतीतिकात्यायनवाक्यपूर्वमुदाहृतम् । छन्दस्तु मन्त्राणाम् इषे त्वादीनामनियताक्षरत्वान्नात्तयेव । ये तु यजुषामपि छन्द इच्छन्ति, तैः कात्यायनोक्तसर्वानुक्रमणिकायां पञ्चमाऽध्यायमभ्यस्य तद्द्वारेण तत्तन्मन्क्यछन्दोऽनुसन्धेयम् । देवता तु मन्त्रप्रतिपाद्या । सा च मन्त्रलिङ्गादवगन्तव्या । येषु मन्त्रेष्वग्नोन्द्रादयश्चेतनाः प्रतिपाद्यन्ते तेघवग्न्यादीनां देवतात्वं विस्पष्टम् । येषु तु मन्त्रेषु पलाशशाखावर्हिर्जुह्वादयोऽचेतनाः प्रतिपाद्यन्ते तेष्वपि शाखादिशव्दाभिधेयाः तत्तद्द्रव्याभिमानिनश्चेतना देवता अवगन्तव्याः । अत एव भगवान् वादरायणो मृदब्रवीदापोऽब्रुवन्नित्यादिष्वचेतनद्रव्येषु चेतनोचितव्यापारमुपपादयितुम्, 'अभिमानिव्यपदेशच्तु(१)०' ( वे० २।१।५) सूत्रयामास । एवञ्च सति, इषे त्वादीनां मन्त्राणाम् ऋषिच्छन्दोदेवता यथोक्तनीत्या सुवोधा. । तस्माद् ग्रन्थवाहुल्यभीरुभिरस्माभिः प्रतिमन्त्रं नोदाह्रियन्ते । विनियोगज्ञानाय तु प्रतिमन्त्रं कात्यायनसूत्रवाक्यमुदाह्लियते । मन्त्रार्थ्यानाय काण्वसम्बन्धिब्राह्मण तत्र यत्र यथासम्भवमुदाहरामः । तदर्थावबोधदार्ढ्याय शाखान्तरविषयमप्याऽऽपस्तम्वसूत्र, वौधायनसूत्रं, तैत्तिरीयब्राह्मण च क्वचित्कचिदुदाहरामः ।।
दर्शयागं चिकीर्षुरमावास्यायां प्रातर्नित्याग्निहोत्रं कृत्वा ततो दर्शयागार्थ, 'ममाग्ने वर्च' इत्यादिभिर्मन्त्रैर्वह्निषु सभिदाधानरूपमन्वाधान कृत्वावत्सापाकरण
कुर्यात् । किमिद वत्सापाकरणमिति चेत्? सन्ति दर्शयागे त्रीणि प्रधानहवींपि, आग्नेयोऽष्टाकपालः, ऐन्द्रं दधि, ऐन्द्रं पयः इति । तत्र प्रतिपदि दधि होतुं तस्यतन्नः सपादनायाऽमावस्यायांरात्रौ गावोदोग्धव्याः । तद्दोहनार्थं प्रात. काले लौकिकदोहनादूर्ध्वं स्वमातृभिः सह सञ्चरन्तो वत्सा मातृभ्यो अपाकरणीयाः | तदिदं वत्सापाकरणम् एतच्च कण्वो महर्षिः स्वकीये ब्राह्मणे विधातुमिदं वाक्य पठति – ‘स वै पर्णशाखया वत्सानपाकरोति' इति ।
तदेलकुपपादयितुम् अर्थवादे गायत्रीकृतं सोमारोहणममिधाय तदा-
Note :
(1)अस्य सूत्रस्य शाङ्करमाप्य सप्तदशपृष्ठे पूर्वमेबोपन्यस्तमस्माभि। तत्तु जिज्ञासुभिस्तग्रवावलोकनीयमिति।
Page 108 (193)
हरणवेलायां पक्षिरूपाया गायत्र्याः पक्षविशेषः सोभवल्ल्याः पर्णं च भूमावपतत् । तयोरन्यतरत् पर्णनामकः पलाशवृक्षोऽभूत् । अतः सोमसम्बन्धाद् गायत्रीसम्बन्धाच्च पलाशवृक्षः प्रशस्य इत्यभिधीयते ।त विधिमेवमुपसंहृरति । पर्णं प्रचिच्छेद गायत्र्या वा सोमस्य वा राज्ञस्तत्पतित्वा पर्णोऽभवत् । तस्मात् पर्णो नाम यत्तत्र किञ्चित्सोमस्य त्यक्तं, तस्यात् पर्णशाखया वत्सानपाकरोतीति ।
गायत्र्याः सोमाहरणं, कद्रूश्च वै सुपर्णा चेत्यादौ तैत्तिरीयब्राह्मणगता नुवाके, 'सोमो वै राजा गन्धर्वेष्वासीत्’ इत्यादौ बह्वृचब्राह्मणे च प्रपञ्चितम् ।। पलाशवृक्षस्य सोमसम्बन्धिपर्णावुत्पन्नत्वेन वृक्षजातिषु ब्राह्मणवृक्षतया प्रशस्तत्वात् तदीयशाखया वत्सापाकरणं तित्तिरिः स्वकीयब्राह्मणेऽपि स्पष्टमित्थमुवाच – “तृतीयस्यामितो दिवि सोम क्षासीत् । तं गायव्याहरत् । तस्य पर्णमुच्छिंद्येत् । तस्य पर्णोऽभवत् । तस्य पर्णस्य पर्णत्वम् । ब्रह्म वै पर्णम् । यत् पर्णशाखया वत्सानपाकरोति व्रह्मणैवैनानपाकरोति इति । नचाऽत्र सोमवल्ल्या पत्रमात्रख्य कथं वृक्षस्य स्रम्पत्तिरिति विख्येतव्यम् । विधातुरीश्वरख्याऽचिन्त्यशक्तित्वात् । अन्यथा बीजाद् वृक्ष इत्यत्रापि, क्वबीजं, कुत्र वा वृक्ष इत्ययं विस्मयः केन वार्येत । सर्वत्र पर्णेभ्यो वृक्षः प्रसञ्जेतेत्ययमतिप्रसङ्गो ऽपी,वरसङ्कल्पाऽभावेन परिहर्तव्यः स च सङ्कल्पः कार्यैकसमीग्नगम्यः । तस्माद्वेदार्थे कुतर्केर्न चोदनीयम् । तस्याः पर्णवृक्षशाखायाश्छेदनेन प्रथममन्त्रं कात्यायनः स्वकीयसूत्र इत्थं विनियुङ्क्तेपर्णशाखां छिनत्ति शामीलीं वेषे त्वेव्यूर्जे त्वेति वा छिनद्मीति वोभयोः साकाह्नत्वात् । सन्नमयामीति वोत्तर इति । अस्याऽयमर्थः-पलाशशाखा शमीशाखा चाऽत्र विकल्पिता । तच्छेदने, इषे त्वेर्व्यूजे त्वेति चैतौ मन्त्रौ विकल्पितौ । तयोरुभयोः क्रियापदाकाह्नत्वादर्थाववोधाय छिनद्मीति पदमध्याहर्तव्यम् । सोऽयमेकः पक्षः । इषे त्वेति छेदना ऽर्थो मन्त्रः । ऊर्जे त्वेति सन्नमनाऽर्थो मन्थः । सन्नमनमृसूकरणम् । तदिदं पक्षान्तरमिति । अत्र बौधायन उभयोर्वाक्ययोरेकमन्त्रत्वमाश्रित्य तं मन्त्रं छेदने विनियुङ्क्ते – “तामाछिनत्तीवे त्वोर्जेत्वेति” । आपस्तम्बस्तु तदभिसन्धायमन्त्रभेदपक्षमपि कञ्चिदाश्रित्य विनियोगभेदमाह – “सन्नयतः पलाशशाखां शमीशाखां वा हरति । इषे त्वोर्जे त्वेतितामाच्छिनत्यपि वेषेत्वेत्याच्छिनव्यूर्जे त्वेतिसंनममत्यनुमार्ष्टि वेति” । सन्नयतः सान्नायनामकं दधिरूपं हविः कुर्वत इत्यर्थः ।।
काण्वशिष्याण्य मन्त्रभेदं विनियोगभेदं चाश्रित्येत्थमामनन्ति-ताभाच्छिनत्तीषे त्वेति वृष्टये तदाह यदिषे त्वेत्यूर्ज त्वेत्यनुमार्ष्टि यद्वृष्ट्या ऊर्करसो जायते तस्मा उ एतदाह तस्मादाहोर्जे स्वेतीति ।। अख्यायमर्थः – तां पर्णशाखाम्, इषे त्वेति मन्त्रेणाध्वर्युः साकल्येन छिन्यात् । छेदकालेऽध्यर्युः इषे त्वेति यद् वाक्यमाह तद्वाक्यं वृष्टिसिद्ध्यर्थम्; अधिकेनादरेण सेवते,
Page 109 (194)
ऊर्जे त्वेति ग्नन्त्रेण तां शाखामनुमृज्यात् । अनुमार्जनमानुलाम्येन तस्यौ संलग्नधूल्याद्यपनयनम् । यदि प्रभूताया वृष्टेः सकाशाद् व्रीहियवाद्यभिवृद्धिहेतुरूर्जशव्दाऽभिधेयः समीचीनजलात्मको रसो जायते, तदा प्राणिनामुपकारो भवति । तदर्थमेवाऽध्वर्युरेतदाह । किमाहेत्याशङ्क्य, तख्यादाहोर्जे त्वेति वाक्येन तदेव स्पष्टीक्रियते इति । काएवाभिमत एव मन्त्रभेदपक्षो जैमिनीयैरपि द्वितीयाध्याये प्रथमपादे इत्थं निर्णीतः-
इषे त्वादिर्मन्त्र एको भिन्नौ वैकः क्रियापदे ।
असत्यर्थास्मारकत्वादेकाऽदृष्टस्य कल्पनात् ।।
छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे ।
अध्याहृते स्मारकत्वान्मन्त्रभेदोऽर्ग्नभेदतः ।।
(जै० न्या० वि० २ । १ । १५)
'इवे त्वोर्जे त्वा' (वा० सं० १।१) इत्यत्र क्रियापादाभावेन 'उरु प्रथस्व' इति मन्त्रवदर्थख्यारकत्वाभावात्, अदृष्टार्थे सत्येकादृष्टस्य कल्पने लाघवादेक एव मन्त्र इति चेत्? मैवम् । काण्वब्राह्मणे छिनत्यनुमाष्टि इति विनियोगभेदश्रवणात्, तदनुसारेण इषे त्वा छिनद्मि ऊर्जे त्वाऽनुमार्ज्मि इति क्रियापदेऽध्याहृते सति, अर्थद्वयख्यारकत्वाद् भिन्नौ मन्त्रौ इति ।।
इति शुक्लयजुर्वेदान्तर्गतकाण्वसंहितायाः सायणकृता
भाष्योपक्रमणिका समाप्ता
Page 110 (197)
अथर्ववेदसंहितायाः
सायणाचार्यकृता
भाष्यभूमिका
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्तुस्त नमामि गजाननम् ।। १ ।।
यस्य निःश्वसित वेदा यो वदेभ्योऽखिलं जगत् ।
निर्ममे तमद्वे वन्दे विद्यातीर्थमहे,धरम् ।। ने ।।
अविद्यागानुरस्तत्तो विद्यारण्यग्रह भजे ।
यदक्करतप्तानामरण्यं प्रीतिकारणम् ।। ३ ।।
तत्कटाक्षेण तडरूपं दधतो पुक्कभूपतेः ।
अभूपदरिहरो राजा क्षीराठधेखि चन्द्रमाः ।। ४ ।।
विजितारातिप्रातो वरिन्ध्रीहरिहरक्षमाधीशः ।
धर्मव्राप्ताध्वन्धः कलिं स्वचरिनेन कृतयुगं कुरुते ।। ५ ।
साधयित्वा महीं सर्वा श्रीमान् तरिहरेथ्वरः ।
भडते -नधुविधान- भोगानसस्मो रामवन् सुधीः ।। ६ ।।
विजयी हीरद्वरभूपः समुद्वहन् सकलभूभारम् ।
षोडश महान्ति वानान्यनिशं सर्वस्य तृप्तये कुर्वन् ।। ७
तन्मूलमृतमालोच्य वेदमण्यर्वणाभिधम् ।
अभून् सायणाचाय तदयस्य प्रकाशन ।। ८ ।।
ये पूर्वोत्तरमीमांसे ते व्याययायातिसंग्रहात् ।
कृपालुः सायणाचार्यो वेदाय वक्तुमुद्यतः ।। ९ ।।
वगरयाय वेदत्रितयमामुन्भिकफलप्रदम् ।
वेद्विकामुष्मिकफलं चतुर्थं व्याचिकीर्पति ।। १० ।।
ननु यक्षं व्याख्यास्यामः । स त्रिभिवैदैर्विधी यते [सत्या० सू० १।१] इति स्मरणाद् ऋग्यजुः साम्रामेव फलवत्क्रर्मशेषत्वम् अवसीयते। प्रादुर्भावोऽपि त्रयाणामेव श्रूयते । त्रयो वेदा अजायन्त, ऋग्वेद एवाग्नेरजायत, यजुर्वदो वायोः, सामवेद आदित्यात्” [ ऐ० ब्रा० ५।३२] इति | “ऋचः समानि जज्ञिरे । छन्दाँसि जज्ञिरे तस्मात् । यजुस्तस्मादजायत” [ ऋ० १० । ९० । ९] इति च ।।
Page 111 (198)
सख्यानियमच्च श्रूयतै । वेदैरशून्यस्त्रिभिरेति सूर्यः [तै०व्रा० ३ । १२ । ९ । १ । यम् ऋपयस्त्रयिविदा विदुः । ऋचः सामानि यजूंषि [ तै० ब्रा० १ । २ । १ । २६] इति ।।
धर्मविशेषश्रवणाच्च त्रित्वम् अवगम्यते । उच्चैऋचा क्रियते उपांशु यजुषा उच्चैः साम्ना [सत्या० सू० १ । १ । १] इति । यद् वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं [तद्] यद् ऋचा तद् दृढम्” [तै० सं० ६ । ५ । १०३ इति । ते च ऋगादयो विस्तरेण व्याख्याताः । अस्य तु वेदस्य त्रयीव्यतिरिक्तत्वेन कर्मशेपत्वाभावाद् न व्याख्यानहिता ।
अथोच्यते । ऋग्वेदेन हौत्रमेव प्रतिपाद्यते, यजुषा आध्वर्यवम्, साम्ना औद्गात्रम् इति वेदत्रयख्य प्रतिनियतप्रयोगप्रतिपादनपरत्वात् अवशिष्टब्रह्मकतव्यताप्रतिपादकश्चतुर्थो वेदो व्याख्येयः । तदभावे यज्ञशरीरस्य अनिष्पत्तेरिति । मैवम् । उक्तैरेव त्रिभिर्वेदैः क्रत्वपेक्षितख्य ब्रह्मकर्तव्यस्यापि सिद्धः । तथा च ऐतरेयब्राह्मणे । यद् ऋचैव होत्रं क्रियते च्छषाऽऽध्वर्यवं साम्नाद्गीथं व्यारब्धा त्रयी विद्या भवति । अथ केन ब्रह्मत्वं क्रियते इति त्रय्या विद्ययेति ब्रूयात्' [ ऐ० ब्राह्म० ५ । ३३] इति । स्मर्यते च –
ऋग्वेदेन होता करोति सामवेदेनोद्गाता यजुर्वेदेनाध्वर्युः सर्वैर्ब्रह्मा” इति ।
अतश्चतुर्णा होत्रादीनाम् ऋत्विजाम् अपेक्षितस्य क्रियाकलापस्य त्रथ्यैव सिद्धत्वात् न चतुर्थस्य वेदस्याकाहास्ति कुतस्तस्य व्याख्यानचिन्तेति ।।
अत्रोच्यते । हौत्रम् आध्वर्यवम् औद्गात्रमिति समाख्यया त्रयाणामपि वेदानां प्रतिनियत होत्रादिकर्तव्यप्रतिपादनपरत्वावगमात् न ब्रह्मकर्तव्यप्रतिपादने तात्पर्यं संभवति ।
यथा अन्यपरस्य यजुर्वेदस्य होतृकर्तव्यतायाम्, यथा वा तथाविधस्य ऋग्वेदस्य अग्निहोत्रे । एवं त्रय्यां तत्र तत्र प्रतिपादितं यद् ब्रह्मत्वम् तद् अथर्ववेदसिद्धमेव तेनोक्तम् इति अतात्पर्यविषयत्वात् अकृत्स्नत्वाश्च नादरणीयम् । अकृस्तत्वमेव अभिप्रेत्य शाखान्तरोक्तं हौत्रं नानुष्ठेयम् इति आश्वलायनेनोक्तम् । “तद्य केचन छान्दोग्ये वाध्वर्यवे
वा हौत्रामर्शाः समाम्नाता न तान् कुर्याद् अकृत्स्नत्वाद्धौत्रस्य [आश्व० ९ । 1३] इति । अत एव वाङ्मनसनिर्वर्त्यस्य यज्ञशरीरस्य अर्धमेव त्रिभिर्वेदैर्निष्पाद्यते । अर्धान्तरं तु अथर्ववेदेनैवेति श्रूयते । प्राजापतिर्यज्ञम् अतनुत | स ऋचैव हौत्रम् अकरोद् । यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर्ब्रह्मत्वम्” इति प्रक्रम्य स वा एष त्रिभिर्वेदैर्यज्ञस्यान्यतरः पक्षः संस्क्रियते । मनसैव ब्रह्मा यज्ञस्यान्यतरं पक्षं संस्करोति[गो० ब्रा० 3-2] ]
Page 112 (199)
इति । ऐतरेयब्राह्मणेऽपि त्रयीनिष्पाद्य एकः पक्षः मनोनिष्पाद्यः परः पक्ष इति श्रुतम् । 'अय वै यज्ञो योऽयं पवते । तस्य वाक् च मनश्च वर्तन्यौ । वाचा च हि मनसा च यज्ञोऽवर्तत । इयं वै वाग् । अदो मनः । तद् वाचा त्रय्या विद्ययैकं पक्षं संस्कुर्वन्ति । मनसैव ब्रह्मा संस्करोति [ ऐ० ब्रा० ५ । ३३। इति । एतदेवाभिप्रेत्य गोपथब्राह्मणे पूर्वभागेप्रश्व्रपूर्वकम् अथर्वविद् एव ब्रह्मत्वमाञ्जातम् । अथ [ ह] प्रजापतिः सोमेन यक्ष्यमाणो वेदान् उवाच । कं वो होतार वृणीयाम् । कम् अध्वर्युम् । कम् उद्गातारम् । कं ब्रह्माणति । ते ऊचुः । ऋग्विदमेव होतारं वृणीष्व । यजुर्विदम् अध्वर्युम् । सामविदम् उद्गातारम् । अथर्वङ्गरोविदं ब्रह्माणम् । तथा हास्ययज्ञः चतुष्पात्प्रतितिष्ठति [गो० ब्रा० २ । २४] इति । तत्रैव विपक्षवाधश्च श्रुतः । अथ चेद् नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते” [गो० ब्रा० २ । २४] इति । यथैकपात् पुरुषो यन्अनुभयचक्रो वा रथो वर्तमानो भ्रेषं न्येति एवमेवास्य यज्ञा भ्रेषं न्येति [गो० ब्रा० ३।२) इति ।
“स त्रिभिर्वेदैर्विधीयते” इति स्मृतिस्तु उदाहृतश्रुत्यनुसारेण मुख्यस्य अथर्वविदोऽसम्भवे तस्त्वछाखासु यावदुक्तव्रह्मत्वमात्रेणापि क्रतुशरोरनिष्पत्तिर्भवति इत्येवमभिप्राया । “त्रय्याविद्ययेति ब्रूयात” (ऐ०ब्रा० ५।३३) इति श्रुतिरपि प्रकृतव्याहृतित्रयापेक्षत्वात् अविरुद्धा । अस्य महतो भूतस्य निःश्वसितम् एतद् यद् ऋग्वेदो यजुर्वेदः सामवेदाऽथर्वाङ्गिरसः (बृ० आ० ४।४।१०) इति वाजसनेयकश्रुत्यनुश्मरेण त्रयाणाम् उत्पत्तिश्रुतिः उपलक्षणतया व्याख्येया ।।
वेदैरशून्यस्त्रिभिरेति सूर्यः इति च श्रुतिः ऋग्भिः पूर्वाह्ने (तै० ब्रा० ३। १२।9।१) इति प्रकृतकालत्रयाभिप्रायेण । वदानां चतुष्ट्वस्य सर्वत्र श्रुतत्वाद् । तथा चाग्रे तापनीयोपनिषदि आम्नायते ऋग्यजुः सामाथर्वाणश्चत्वारो वेदाः (नृ० पू० ता० १) इति । मुण्डके च – तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः (मु० १ । १) इति ।।
यम् ऋषयस्त्रयिविदा विदुः । ऋचः सामानि यजूंषि( तै० ब्रा० १।२।१।२६) इति । त्रैविध्यं तु वेदगतमन्त्राभिप्रायम् । तद् उक्तं जैत्सनिना – “तच्चोदकेषु अन्या ख्या” (जै० २।१।३२) । तेषाम् ऋग् यत्रार्थवशेन पादव्यवस्था” (जै० २।१।३५) । “गीतिषु सामाख्या” (जै० ३।१।३६) । शेपे यजुःशब्दः (जै० २।१।३७) । तद् अस्मिन्नपि वेदे विद्यत इति न चतुष्ट्वव्याकोपः ।
उच्चैष्ट्वादिधर्मनियमोऽपि अग्नेरृग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद इत्युपक्रमवाक्यगतवेदत्रयापेक्ष इति न विरोधः ।
ननु अस्मिन्वेदे मन्त्राणाम् ऋगाद्युक्तलक्षणयोगात्तदन्यतमव्यपदेशभावत्व युक्तम् । नैव दोषः । अथर्वाख्येन ब्रह्मणा दृष्टत्वात् तन्नाम्ना अयं
Page 113 (200)
वेदो व्यपदिश्यते । तथा हि । पुरा खलु सृष्ट्यर्थं स्वयंभु ब्रह्म तपस्तेपे । तस्मात् तप्यमानात् सर्वेभ्यो रोमकृपेभ्यः क्येदधारा अजायन्त । तासु स्वेदजातासु अञ्च स्वां छायां पश्यतो रेतश्चस्कन्द । तद्रेतः – सहिता आपो द्विरूपा अभवन् । तत्रैकतः स्थितं रेतो भुज्यमानं सत् भगुर्नाम महर्षिरभवत् । स एव भृगुः स्वोत्पादकस्य तिरोहितख्य ब्रह्मणो दर्शनाय अथर्वाग् एनम् एतास्वेवाब्दवन्विच्छ ( गो० घ्रा० १।४) इति अशरीरया वाचोक्तत्वात् अथर्वाख्योऽप्यभवत् । अवशिष्टरेतोयुक्ताभिरद्भिरावृतस्य वरुणशब्दवाच्यख्य ब्रह्मणस्तप्तस्य सर्वेभ्योऽङ्गेभ्यो रसोऽक्षरत् । सोऽङ्गरसभूतत्वात् अङ्गिरा नाममहर्षिरभवत्। ततस्तत्कारणं ब्रह्म तम् अथर्वाणम् अङ्गिरस चाभ्यतपत् । ततः थकर्चद्वृचादिमन्त्रद्रष्टारो विंशतिसंख्याका अथर्वाणोऽङ्गिरसश्चोत्पन्नाः । तेभ्यस्तप्तेभ्य ऋषिभ्यः सकाशात् स्वयंभु ब्रह्म यान्मन्त्रान्अद्राक्षीत् सोऽथर्वाङ्गिरःशब्दवाच्यो वेदोऽभवत् । अत एकर्चादीनाम् ऋषीणां विंशतिसंख्याकत्वाद् वेदोऽपि विंशतिकाण्डात्मकः सम्पन्नः | अत एव सर्वसारत्वाद् अय वेदः श्रेष्ठः । श्रूयते हि –
श्रेष्ठो हिवेदस्तपसोऽधिजातो ब्रह्मज्ञानांहृदयेसंवभूव'ग् (गो०व्रा।०१।९)
एनद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः । येऽङ्गिरसः स रसः । येऽथर्वाणस्तद् भेषजम् । यद् भेषजं तद् अमृतम् । यद् अमृतं तद् ब्रह्म” (गो० ब्रा०३।४) । एव सारभूतब्रह्मात्मकत्वाद् व्रह्मकर्तव्यप्रतिपादनाञ्च अयं ब्रह्मवेद इत्यष्मारन्यायते । तथा च श्रुतिः । चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेद. सामवेदो व्रह्मवेदः [ गो० ब्रा० २।१६] इति । अत एव सारवत्त्वात् सिद्धमन्त्रता समाम्नायते –
न तिथिर्न च नक्षत्रान ग्रहो न च चन्द्रमाः ।
अथर्वमन्त्रसम्प्रात्या सर्वसिद्धिर्भविष्यति ।। ( प० २।५)
तथा स्कान्दे कमलालयखण्डे आथर्वणन्तत्राणां जपमात्रेणाभिमतफलसाधनत्वमुक्तम् –
यस्तत्राथर्वणान्मन्त्रान् जपेच्छद्धासमन्वितः ।
तेषाम्भोद्भवं कृत्स फलं प्राप्नोति स ध्रुवम् ।।
अस्य वेदस्य सर्पवेदादयः पञ्चोपवेदा अङ्गत्वेन समन्तरं ब्रह्मणा सृष्टाः । तथाच ब्राह्मणम् । स दिशोऽन्वैक्षत प्राची दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम्” इति प्रक्रम्य दक्षिणां पञ्च वेदान् निरमिमीत सर्पवेदम् पिशाचवेदम्असुखेदम् इतिहासवेदम् पुराणवेदम्' ( गो० ब्रा० १।१०) इति ।
तदेवम्श्रामुष्मिकफलेषु दर्शपूर्णमासादिषु अयनान्तेषु त्रयीविहितकर्मसु अपेक्षित्वं ब्रह्मत्वम् अनन्यलभ्यत्वाद् अथर्ववेदैकसमधिगाम्यम् इति स्थितम् ।
Page 114 (201)
तद्वदेव ऐहिकफलानि शान्तिकपौष्टिकानि कर्माणि राजकर्माणि अपरिमितफलानि तुलापुरुपादिमहादानानि च अथर्ववेद एव प्रतिपादितानि । पौरोहित्यं च अथर्वविदैव कार्यम् । तत्कर्तृकाणां कर्मणां राजामिषेकादीनां तत्रैव विस्तरेण प्रनिपादितत्वात् । तथा च विष्णुपुराणे –
पौरोहित्यं शान्तिकपौष्टिकादि राज्ञाम् अथर्ववेदेन कारयेद ब्रह्मत्वं च इति ।
भट्टाचायरप्युक्तम् –
शान्तिपुष्ट्यभिचारार्था एकव्रह्मर्त्विगगभयाः ।
क्रियन्तेऽथर्ववेदेन त्रय्येवात्मीयगोचराः॥
नीतिशास्त्रेऽपि –
त्रय्यां च दण्डनीत्यां च कुशलः स्तात् पुरोहितः ।
अथर्वविहितं कर्म कुर्याच्छान्तिकपौष्टिकम् ।।
मत्स्यपुराणे-
पुरोहितं तथाथर्वमक्तवब्राह्मणपारगम् ।
मार्कण्डेयपुराणे-
अभिषिक्ताऽथर्वमन्त्रैर्महीं भुङ्क्ते ससागराम् ।
अथर्वपरिशिष्टे –
यस्य राज्ञो जनपदे अथर्वा शान्तिपारगः ।
निवसत्यपि तद् राष्ट्रं वर्धते निरुपद्रवम् ।।
तस्माद् राजा विशेषेण अथर्वाण जितेन्द्रियम् ।
दानसम्मानसत्कारैर्नित्यं समभिपूजयेत् ।। [ प० ४।६] ।
स्याद् एवम् । यद्यस्य अर्थवत्त्वं स्यात्तदास्य व्याख्यानम् उपपन्नं स्यात् । तदेव कुत इतिचेत् । उच्यते ।
स्वाध्यायोऽध्येतव्यः [ तै० ब्रा०२ । १५] इत्यनेन विधिना कृत्स्नस्यापि वेदराशेः अर्थाववोधपर्यन्तं तस्य बोधितत्वात् ।
तथा हि । “स्वाध्यायोऽध्येतव्यः” इत्यत्र विध्यविरुद्धा भावना प्रतीयते । सा च द्विविधा । शब्दभावना अर्थभावना चेति । तद् उक्तम् आचार्यैः – “इह हि लिडादियुक्तेपु द्वे भावने प्रतीयेते । शब्दभावना अर्थभावना च” इति । तत्र शब्दभावनाया अर्थभावना भाव्या । लिङ्गादि करणम् । अर्थवादप्रतिपादिता स्तुतिः इतिकर्तव्यता । अर्थभायनायाः स्त्यर्गादिर्भाव्यः । धात्वर्थः करणम् । प्रयाजादिः इतिकर्तव्यता ।
Page 115 (202)
ननु धात्वर्थातिरेकिणीं भावनामेव नोपलभामहे कस्या धात्वर्थः करणं स्यात् ? कथं वा तस्या विभागः ? भाव्यनिष्ठो,भावकव्यापारो भावनेति चेत् ? न । पचियजिगमिप्रभृतिषु धातुषु अधिश्रयणसंकल्पचलनादयो धात्वर्था एवेति अतिरिक्तस्य भावकव्यापारस्य अभावात् । प्रयत्नो भावकव्यापार
इति चेत् ? न । वृक्षश्चलति, काष्ठानि पचन्ति, नौर्याति, इत्येवमादिषु अचेतनकर्तृकव्यापारेषु तदभावात् । स्पन्दः स इति चेत्? न । आत्मकर्तृकव्यापारेषु यजतिददातिज्जहोतीत्यादिषु- तदभावात् । तर्हि उभयानुगतम् औदासीन्यप्रच्युतिसामान्यमेव भावकव्यापारो भविष्यतीति चेत् ? न । अचेतने शव्देस्पन्दप्रयत्वयोरभावेनतदुभयसामान्यरूपस्य तख्यअभावात् । सत्यम् धात्वर्थाद् अत्यन्तातिरेकिणी भावना नास्तीति । धात्वर्थानामेव पाको यागः प्रयत्नः संकल्पः अधिश्रयणम् विक्लेदनम् अभिधानम् चोदनम् इति प्रातिस्विकं धात्वभिधेयम् अक्रियात्मकं सिद्धस्वभावम् एकं रूपम् । सर्वधात्वर्थानुगत करोतिप्रत्ययवेद्यं क्रियात्मकं साध्यस्वभावम् अन्योत्पादनानुकूलात्मकम् आन्त्यातप्रत्ययवेद्यम् अपरं रूपम् । तथा हि । यः स्पन्दते यो यजते यश्चरति यो विदधाति ते सर्वे करोतिप्रत्ययमनुभवन्ति । स्पन्दते स्पन्दनं करोति, यजते यागं करोति, इत्येवं सर्वत्र करोत्यर्थस्यानुगतिः । तद् उक्तम् आचार्यैः –
सिद्धकर्तृक्रियावाचिन्याख्यातप्रत्यये सति ।
सामानाधिकरण्येन करोत्यर्थोऽवगम्यते ।। [ मी० भा० वि० २।१।१]
भिन्नेषु विविधधात्वर्थेषु उत्पाद्यवस्त्वन्तरकर्मकम् एतदेवापरं रूपं भवितुः प्रयोजकव्यापारत्वाद् भावनेत्युच्यते । तच्च यजेत दद्यात्छहुयात् इत्याख्यातप्रयोगेष्वेव अवगमात् पाकः त्यागः रागः इत्यादिषु अनवगमाच्च अन्वयव्यतिरेकाभ्याम् आख्यातप्रत्ययाभिधेयम् अङ्गीक्रियते । यथाहुः –
अभिधाभावनाभाहुरन्यामेव लिङादयः |
अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते । [मी०भा०वि० २।१।१]
ये प्रयत्नं वा स्पन्दं वा उभयं वा भावनाम् अङ्गीकुर्वते, तैरपि तेषां सर्वत्रानुगमाभावात्सर्वधात्वर्थानुगतम् अन्योत्पादनानुकूलरूपमेव भावनेत्यङ्गीकर्तव्यम् । एतदक्त्वम् –
सिद्धसाध्यख्यभावाभ्यां धात्वर्थो द्विविधो मतः ।
अन्धोत्पादानुक्लात्मा भावना साध्यरूपिणो ।।
तख्यात्धात्वर्थातिरेकिणी भावनेति सिद्धम् ।
तथा च अध्ययनविधांवपि तव्यप्रत्ययावगताया भावनाया अंशत्रयेण भवितव्यम् | तत्र धात्वर्थः
Page 116 (203)
करणत्वेन अन्वेति । भाव्यापेक्षायाम् अत्र तस्मानुपात्तत्वात् “स स्वर्गः स्यात् सर्वान्प्रत्यविशिष्टत्वात्” (१) [जै० ४।३।१५] इति विश्वजिन्त्यायेन स्वर्ग एव भाव्यतया अन्वेतीति पूर्वः पक्षः । ननु कथं स्वर्गस्य भाव्यता १ समनन्तरपदोपात्तस्य स्वाध्यायख्यैव भाव्यत्वाद् इति चेत्? न । तस्य अपुरुषार्थत्वेन भाव्यत्वासम्भवात् ।
तर्हि अर्थज्ञानमेव दृष्टप्रयोजनरूपत्वाद् भाव्यं भवत्विति चेत् ? । न विधिमन्तरेणापि पदपदार्थव्युत्पत्तिमताम् अधीतेन स्वाध्यायेन अर्थज्ञानस्य जायमानत्वात् । तर्हि अधीतेनैव स्वाध्यायेन अर्थं जाणियाद् इति अवधातादिवद् नियमार्थो विधिर्भवत्विति चेत् ? न । अनारभ्याधीतस्य स्वाध्यायविधेः अक्रत्वर्थत्वेन नियमार्थत्वानुपपत्तेः । अवघातादयोऽपि क्रतावेव नियम्यन्ते अवधातनिष्पन्नैख्ये ताण्डलैः पुरोडाशादिनिरुपादनद्वारा दर्शपूर्णमासापूर्वं सम्पादयेदिति, न तण्डुलादिस्वरूपे । प्रमाणान्तरविरोधात् । मा भूत् स्वाध्यायस्य भाव्यता । मा च भूद् अर्थज्ञानस्य । तथापि यद् ऋचाऽधीते पयसः कूल्या अस्य पिदृन्स्वधा अभिवहन्ति । यद् यजूंषि घृतस्य कृऽल्या । यत्सामानि सोम एभ्यः पवते । यद् अर्थवाङ्गिरक्षो मधोः कुल्याः । यद् ब्राह्मणानीनि-हासान्पुराणानि कल्पान् गाथा नाराशसीर्मेदसः ल्मल्या अस्य पितन्स्वधा अभिवहन्ति { तै० आ० २ | १० } इत्यध्ययनं प्रकृत्यपठितार्थवादोक्तघृतक्ल्यादिकमेव भाव्यंभवत्विति चेत् ? न | तस्यापि ब्रह्मयज्ञस्वाध्यायमधिकृत्य पठितत्वेन ग्रहणाध्ययनफलसमर्घकत्वानुपपत्तेः । तथापि। अतिदेशतः प्राप्तेः अस्यापि कल भविष्यतीति चेत् ? न । अर्थवादस्य अनतिदेश्यत्वात् । तस्माद् विश्वजिन्यायेनास्वर्ग एव अध्ययनविधेर्भाव्यः । यथाहुः –
विनापि विधिना दृष्टलाभान्न हि तदर्थता ।
कल्पस्तु विधिसामर्थ्यात्प्त्वर्गो वि,वाकुदादिवत्।।
अत्रोच्यते । अर्थाववोधार्थमेव अध्ययनं विधीयते । ननु पदपदार्थव्युत्पत्तिमतां पुंसां विधिम् अन्तरेणापि अर्थावबोधो जायते इति विध्यानर्थक्यम् इत्युक्तम् इति चेत् ? न । अध्ययनसंस्कृतेनैव स्थाध्यायेन अर्थं जानीयात्नपुस्तकादिपठितेनेति नियमार्थत्वाद् विधेः 1 अक्रत्वर्थेपु नियमानुपपत्तिरिति उक्त इति चेत् ? न । प्रादमुखोऽन्नानि भुञ्जीन”
इत्येवमादिषु अक्रर्त्व्यप्वपि नियमदर्शनात् । व्रीहीन्प्रोक्षति इत्यादिविधिवत् संस्कारविधानमात्रपर्यवसायित्वाद् अयं विधिर्न स्थाध्यायस्य
Note:
(1)अस्यसूत्रस्य शावरभष्यं १०८ पृष्टे द्रष्टव्यम् ।
Page 117 (204)
अर्थज्ञानार्थतां बोधयतीति चेत् ? न । “चरुउपदधात्तिः [तै० सं० ५।६।२।५] इति चरोरुपधानविधिः संस्कारं विदधद् यथा वत्संस्कृतस्य चरोः स्थलनिष्पत्तिष्ठेएषतां विधत्ते,तह्णद् अध्ययनविधिरपि स्वाध्यायस्य अध्ययनसंस्कारं विदधत् तत्संस्कृतस्य तस्य अर्थाववोधार्थत्वं विधत्ते । संस्कारविधेःसंस्कारविनियणेपर्यन्तत्वेऽपि फलत्वाविशेषात् स्वर्गार्थता कुतो न विधत्ते इति चेत्? न । अर्थाववोधस्य दृष्टप्रयोजनस्य संभवे अदृष्टाथत्वकल्पनाया अन्याय्यत्वात् । तद् उक्तम् –
लभ्यमाने फले दृष्टे नाद्वष्टफलकल्पना ।
विधेस्तु नियमार्थत्वान्नानर्थक्य भविष्यति ।।
प्राभाकाराण्य –
उपनीय तु यःशिष्यं वेदमध्यापयेद्द्विजः ।
सकल्पं सरहस्यं च तमचार्यं प्रचक्षते ।। [म० स्मृ० २।१४०]
इति स्मृत्यनुमितेन उपनोयाध्यापनेनाचार्यकं संपादयेद् इत्यनेन विधिना लब्धानुष्ठानस्य स्वाध्यायोऽध्येतव्यः इत्यस्याध्ययनविधेः अधिकारपरत्वजिज्ञासायां प्रथमप्रतीतेन आचार्यकाधिकारकत्वशङ्क्य अन्तरङ्गत्वाद् अर्थज्ञानाधिकारपरत्वमेव वर्णयन्ति ।।
तद् अयुक्तम् । आचार्यकरणविधेखे अभावात् । ननूक्तम् । उपनीय तु यः शिष्यम्' इत्यनया 'स्मृत्या उपनीयाध्यायनेन आचार्यक भावयेद्, इत्येवंरूपआचार्यकरणविधिरनुमीयते इति । तन्न । एवंरूपायाः भू ते अनेवंरूपया स्मृत्या अनुमातुम् अशक्यत्वात् । तथा हि । इयं स्मृतिः उपनीयाध्यापयिता आचार्य इति ब्रवीति । न पुनरध्यापनं विदधाति । तद्विधाने योऽध्यापयिता ऽतमाचार्य प्रचक्षते' इत्यशेन एकवाक्यताविरोधात् । ननु 'उपनीयाध्यापयेद्' इति श्रध्यापन विधाय विधिसिद्धमर्थ 'यस्तु' इति अनूद्य तस्याचार्यत्वं प्रतिपादयतीति चेत्? न । स्वारस्येन विध्यप्रतीतौ तदाश्रयणेन वाक्यभेदकल्पनायां प्रमाणाभावात् । तद् उक्तम् –
संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते ।
किं च। ‘योऽध्यापयेत्’ इति यच्छब्दयोगोऽपि विधिशक्तिम् अपहन्ति। तर्हि “यदाग्नेयोऽष्टाकपालः” [तै०. स०. २. ६. ३. ३] इत्यादावपि यच्छब्दयोगात् विधिशक्तिरपहन्यते इति चेत् सत्यम्। तत्रापि यच्छब्दवृत्तस्य विधित्वाभङ्गेन “यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति सुवर्गस्य लोकस्याभिजित्यै” [तै०. सं०. २. ६. ३. ३] इत्यर्थवादेन “यत् स्तूयते तद् विधीयते” इति न्यायेन परिकल्पितस्य अन्यस्यैव विधित्वस्वीकारात्। तस्माद् “उपनीय तु यः शिष्यम्” इत्यादिस्मृत्यनुमिता श्रुतिः नाचार्यकरणविधौ प्रमाणम् ॥
Page 118 (205)
ननु “अष्टवर्षं ब्राह्मणम् उपनयीत, तमध्यापयीत” इत्यत्र नयतेः 'समाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः [पा० अष्टा० १ ।३।३६] इति आचार्यकरणे आत्मनेपदविधानाद् उपनयने आचार्यकरणविधिरपेक्षित एव इति चेत् ? तद् अयुक्तम् ।
षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशिष्टाच्च प्रतिग्रहः ।। [ म० स्मृ० १०।७६]
इति द्रव्यार्जनाद्यर्थतयैव प्राप्तस्य अध्यापनस्य विध्यनर्हत्वात् | ननु तथापि अलौकिकाचार्यकसाधनत्वेन अप्राप्तस्याध्यापनस्य विध्यनर्हतेति चेत् ? न । आचार्यकस्य लोकप्रसिद्धत्वाद् अलौकिकत्वानपपत्तेः । स्याद् एतत् । उपनयीत इत्यात्मनेपदात् सनियमकोपनयनशेषित्वप्रतीतेः न्त्रचार्यकम् अलौकिकमिति । न । आचार्यकरणे वर्तमानस्य नयतेः अकर्त्रभिप्राये स्थात्मनेपदविधानाद् उपनयनाचार्यकयोः परस्परम् अङ्गाङ्गिभावानुपपत्तेः । अन्यथा स्वरितीअतः कर्त्रभिप्राये क्रियाफले [पा० अष्टा० १।३।७२] इति ञित्त्वादेव आत्मनेपदे सिद्धे सम्माननादिसूत्रम् अनर्थकं स्यात् ।
ननु क्रियाफलस्य कर्त्रभिप्रायत्वं नाम न कर्त्रभिलषितत्वं किंतु कर्तृगतत्वमेव । अतः उपनयनक्रियाफलस्य माणवकनिष्ठत्वेन अकर्त्रभिप्रायत्वाद् अचार्यकरण एव नयतेः आत्मनेपदं सिध्यतीतिचेत् । एवं सति वसन्ता ब्राह्मणोऽग्निमादधीत । तै० ब्रा० १।१।२।६] इन्याधानफलस्य अग्निसंस्काञ्छ्य' अग्निगतत्वेन अकर्त्रभिप्रायत्वाद्स्वरितञितः इत्यात्मनेपदं न स्यात् । न च उपनयनक्रियाफलस्य संस्कारस्य माणवकाभिलषितत्वाद् अकर्त्रभिप्रायत्वम् इति । आचार्यस्यापि अभिलपितम्। आचार्यानभिलषितत्वे तस्य क्रियाफलत्वानुपपत्तेः । न हि क्रियाजन्यंयस्य कस्यचिद् अभिलषितं वा क्रियाफलं, किं तु कर्त्रभिलपितंसत्क्रियाजन्यं क्रियाफल। अन्यथा श्रमादिकमपि क्रियाजन्यम् अहितस्य यस्य कस्यचिद अभिलषितं चेति 'स्वर्गकामो यजेत' इत्यादौ क्रियाफलस्य अकर्त्रभिप्रायत्वेने आत्मनेपदं न स्यात् । न च अस्मत्पक्ष इव माणवकसमीहितसाधनत्वेनैव उपनेतुः उपनयनक्रियाफलम् अभिलषितम् इति भवतां मतं येन क्रियाफलम् अकर्त्रभिप्राय स्यात् । आचार्थककामख्य अतत्साधने माणवकाधिकारे समीहानुपपत्तेः । उपपत्तौ वा माणवकाधिकारस्रौव अभिलषितस्य प्रयोजकत्वाद् आचार्यकाधिकारस्य प्रयोजकत्वं न स्यात् । तस्माद् आत्मनेपदादेव क्रियाफलस्य अकर्त्रभिप्रायत्वावगतेर्माणवकसमीहितसाधनत्वेनैव उपनयनख्य प्रतीतिः ।
Page 119 (206)
न च उपनीय तु यः शिष्यं वेदमध्यापयेद् इति क्त्वाप्रत्ययेन आचार्यकशेषत्वम् उपनयनस्येति मन्तव्यम् । स्मृतिगतो हि क्त्वाप्रत्ययः समानकर्तृकयोः पूर्वकाले पा० अष्टा० ३।४।२१] इत्यनुशासनाद् उपनयनाध्यापनयोः समानकर्तृकत्वमेव आचष्टे । तच्च अङ्गाद्गिभावेनैव उपपद्यत इति उपनयनस्य अध्यापनाङ्गत्वप्रतीतिर्विलम्वेन भवति । वसन्ते ब्राह्मणम् उपनयीत [ आप- ध० १।१।१।१९] इति द्वितीयाश्रुतिः प्रत्यक्षश्रुतिगता । तया द्वितीयाश्रुत्या झटिति उपनयनस्य उपनेयशेषत्वं प्रतीयते । श्रुतिस्मृत्योर्विरोधे श्रुतिरेव बलीयसी- इत्युपनयनख्य उपनेयशेषत्वमेव अङ्गीकर्तव्यम् ।।
ननु उपनयनम् उपनेयशेपोऽस्तु । तथापि उपनेयस्य आचार्यकशेषत्वात् तद्द्वारा उपनयनख्यापि तदङ्गत्वम् इति चेत्? न । उपनेयसंस्कारस्य आचार्यकशेषत्वे उपनेयशेषत्वं च सप्रयोजनत्वाविशेषेऽपि पुरुषान्तरगतत्वेन आचार्यकस्य वहिरङ्गत्वात् एकपुरुषनिष्ठत्वेन अध्ययनस्यान्तरङ्गत्वात् अन्तरङ्गवहिरङ्गयोरन्तरङ्गं वलीयः इति तस्य अध्ययनाङ्गत्वमेव अङ्गीकर्तव्यम् । यदि समानकर्तृकेति विहितस्मार्तक्त्वाप्रत्ययवलादेव अन्तरङ्गत्वं वाध्येत तर्हि भवत्पक्षे अध्यापनविधिप्रत्युक्तख्य अध्ययनविधेः किमधिकारपरत्वम् इति जिज्ञासायाम् अधीत्य स्नायाद् इति स्मार्तकवाप्रत्ययानुरोधेन अन्तरद्गत्वयुक्तेर्वाधात् अन्तरद्गार्थज्ञानपरत्वं परित्यज्य आचार्याधिकारत्त्वमेव स्यात् । तस्माद् अकर्त्रभिप्रायविहितात्मनेपदवलाद् अन्तरङ्गयुक्तेश्च उपनयनम् अध्ययनाङ्गम् इत्याचार्यकख्य सनियमकोपनयनशेषित्वाभावाद् नास्य अलौकिकत्वसिद्धिः । तदसिद्धौ च अन्यतः प्राप्तस्य अध्यापनस्य आचार्यकशेषत्येन विध्यसिद्धिः ।।
कथं तर्हि अध्यापयति इति विधिः ? एतयान्नाद्यकामं याजयेत, इतिवत् प्रयोजकव्यापारान्तर्गतोऽपि विधि प्रयोज्यव्यापारपरः इति व्रूमः । ननु तत्र कामश्रुतिबलात्काभिन एव विध्यपेक्षायां प्रयोज्यव्यापारपरत्त्वम् अस्तु । अत्र तु तदभावात् तत्परश्वोतुनेति चेत्? न । निषादस्थपति याजयेत्' इत्यत्र कामश्रुतेरभावेऽपि द्रव्यार्जनार्थत्वेन अन्यतः प्राप्तं याजनं परित्यज्य प्रयोज्यव्यापारख्यैव अप्राप्तस्य विधेयत्वस्वीकारात् । एतेन
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेद् एनं शौचाचारांश्च शक्षयेत् ।। [ चा- स्मृ० १।१४]
इत्येतदपि नाध्यापनविधिपरम् इत्यवगन्तव्यम् ।
उपनीय ददद् वेदम् आचार्यः स उदाहृतः [ या० स्मृ० १।३४]
इत्येतदपि क्रियायोगमेव आचार्यशब्दाभिधेयम् इति व्युक्तमुपदर्शयति।
तस्माद् अध्यापनस्य विधिरेव नास्तीतितुसिद्धम् । तदभावेन स्वविधिप्रयुक्ततैव अध्ययनस्य । स च अध्ययनसंस्कृतेनैव स्वाध्यायेन अर्थं
Page 120 (207)
जानीयाद् इति विधत्ते इति कृत्स्नस्यापि वेदराशेर्विवक्षितार्थत्वेन स्वतः प्रामाण्यात् तदन्तर्गतस्य व्याख्यानं कर्तुं युक्तमेवेति सिद्वम् ।।
वेदस्य स्वतः प्रामाण्यं चोदनासूत्रे आचार्यैरेव(१) उपपादितम् । तत्र बहुधा विवदन्ते(२) वादिनः । प्रामाण्यम् अप्रामारप्य च उभयं स्वत इति सांख्याः । उभयं परत इति तार्किकाः । प्रामारत्य स्वतः अप्रामाण्यं परत इति मीमांसकाः । अप्रामाण्यं स्वतः प्रामाशयं परतः इति सौगताः ।।
प्रामाण्यस्य स्वतस्त्वं नामकार्यकारणादेव कार्येण सह उत्पत्तिः । अत्र सांख्या एवं प्रतिपादयन्ति । सूतः असताम् अस्त्रध्यित्वाहुभयं स्वतइति । तत्र प्रमाणंच यद् असत् तन्न क्रियते,यथा शशविषाणम्। कारकव्यापारात् पूर्वं
कार्यम्असच्चेत् तर्हि न [क्रियेत] क्रियते च । अतः स्रदेव पूर्वमपि । अपि च कार्यं कारणेन प्राक् सम्बद्धम् असम्बद्धं वा । सम्बद्धं चेद् असतः सम्बन्धानुपपत्तेः प्रागपि सदैव कार्यम् । असम्बद्धं चेत् ? इदमेवास्य कारणम् इदमेवाक्य कार्यम् इति नियमो न स्यात् असत्ताऽसम्बन्धयोरविशेषात् । यथाहुः –
असत्त्वान्नास्ति सम्बन्धः कारकैः सत्त्वसङ्गिभिः ।
अरनम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ।।
किं च कारणाद् अभिन्नत्वात् कार्यस्य प्रागसत्त्वं नोपपद्यते । तथा हि तन्तुभ्यः पटो न भिद्यते तत्कार्यत्वात् ।। यद् यतो भिद्यते न तत् तस्य कार्यम् । यथा गौरश्वस्य । तन्तुकाय पटः | तस्मात् तन्तोर्न भिद्यते । यद् यतो भिद्यते तस्य तेन खह संयोगः अप्राप्तिर्वा स्यात् । यथा कुण्डवदरोमैरुविन्ध्ययोवां । न हिं पटस्य तन्तुभिः सह तद् उभयम् अस्ति । तस्माद् न तन्तुभ्यो भिद्यते पट इत्यभेदसिद्धेः कार्यं प्रागपि सदेव इति सिद्धम् ।।
Note:
(1)तथाहि श्लोकवातिके भत्सारिलपादैः प्रतिपादितम् –
स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम्।
नहिल्वतोम्लतीशक्तिः कर्तुमन्येन शक्यते ।। (श्लो.वा 1|2|४७)
(2)प्रामाण्याप्रामाण्यसिलान्तविषये अयमत्र विविधविधमतसंक्षेपः प्रदर्शितो जैमिनिदर्शननिरूपणप्रसङ्गे ‘सर्वदर्शनसंग्रहकास्यो’ –
प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्लिताः ।
नैयायिकास्ते परतः सौगताश्चरभं स्वतः ।।
प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः ।
प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥
Page 121 (208)
अत्र व्रूमः । न च क्रियमाणत्वं सत्त्वसाधनम् । असत्त्वेऽपि तस्योपपत्तेर्हेतोर्विपक्षाद् व्यावृत्तेः सन्दिग्धत्वात् । तथा हि । न हि सतो घटादेः क्रियमाणत्वं दृष्टम् कृतकरणव्यापारानुपपत्तेः । नान्यत्ततः क्रियमाणत्वम् अनुपपन्नम् इति । प्रागसतोऽपि घटादेः सामग्र्यां स्रत्याम्ज्ज्पत्तिदर्शनात् ।
यदप्युक्तम् कारणेन असम्बद्धस्य कार्यस्योत्पत्तौ इदमेवास्य कार्यम् इदमेवास्य कारणमूति नियमानुपपत्तिरिति तदप्यपेशलम् । किञ्चिदेव कारणं कस्मिंश्चिदेव कार्य शक्तम् इति शक्तितो नियमेन सिद्धेः । न च शक्यव्यतिरेकेण शक्तिरेव नास्तीति वक्तव्यम् । अर्यम् अग्निः अद्विष्ठातीन्द्रियाश्रयः कारणत्वाद् गुरुत्वाश्रयवदिति तत्सिद्धेः ।
नापि शक्तिरपि शक्येन असम्बद्धा न कार्यकारणभावस्य नियामिकेति वाच्यम् । शक्ताश्रयायाः शक्तेश्च प्रतिनियतशक्यानुकूलस्वभावत्वात् । अन्यथा सत्कार्यवादपक्षेऽपि प्रधानोपादानत्वस्वीकारात् सर्वस्य जगतः सर्वं सर्वस्वरूपेण सर्वत्र सर्वदा सदिति विवेकहेतोरभावात् इदमेवास्य कार्यम् इदमेवास्य कारणम् इति नियमो न स्यात् । ननु सर्वत्र सर्वदा कार्यस्य सत्त्वाविशेषेऽपि तत्तदभिव्यञ्जकसामर्थ्यनियमात् तत्तदभिव्यक्तिनियमो भविष्यतीति चेत्? एवं तर्हि अस्मत्पक्षेऽपि तत्तदुत्पादककारणसामर्थ्यनियमात् तत्तदसत्कार्योत्पत्तिनियमसिद्धिः ।।
यत्पुनः कार्यस्य कारणाद् अभेदसाधकम् अनुमानम्, तदपि तन्तुपटयोः प्रत्यक्षेण भेदोपलम्भात् प्रत्यक्षविरुद्धकालात्ययापदिष्टम् । अपि च कारकव्यापारात् प्रागपि कारणे कार्य सत् स्यात्, तर्हि कारणे कार्यम् उपलभ्येत । न चोपलभ्यते । तस्माद् असदेव । प्रागपि सदेव कार्यम् अभिव्यक्तेरभावाद् नोपलभ्यत इति चेत्? न । किम् इयम् अभिव्यक्तिः प्रागपि सती उत असती । सती चेत्?प्रागपिकेवलतन्तुष्वपि तया पटख्योपलव्धिः स्यात् । असती चेद्? असत्या एव तस्याः पश्चाद्रुत्पत्तिस्वीकारात् तद्वत् सर्वस्याप्यसतः कार्यख्योपपत्तिः किं नाङ्गीक्रियते । क्रियेत इत्यलमतिप्रसङ्गेन । तस्मात् सत्कार्यनिषेधात् प्रामाण्याप्रामारन्ययोरुभयोरपि स्वतस्त्वे किंचिदेव प्रमाणं प्रमाणमितिव्यवस्थापपत्तश्चे नोभयं स्वतः ।।
अपि तु अप्रामाण्यं स्त्वतः, प्रामाण्यं परत इति अपरे मन्यन्ते । तथा हि । यदि प्रामाण्यं स्वतोऽवसोयेत, तर्हि एकतरकोटिनिर्धारणात् इद प्रमाणम्स्रप्रमाणं वेति न संदियेद्यत । अन्यथा सर्वत्र सडेहस्योपरमो न ख्यात् । अतः कारणगुणज्ञानाद् अर्थक्रियासंचादाद् वा प्रामाण्यनिश्चयः ।।
ननु आदावेव अर्थतथात्वानिश्चये उत्तयकार्लाना प्रवृत्तिः कथ
Page 122 (209)
जाघटीति तदुत्तरकालीनस्तन्निश्चयो वा कथम् तदभावे कथं प्रामाण्यनिश्चयः इति चेत् ? न । कृष्यादाविव अर्थसंदेहादपि प्रवृत्त्युपपत्तेः । प्रवृत्तस्य च भर्थक्रियोपलब्धौ पूर्वावगतख्य अर्थक्रियाकारित्वं सत्यं निश्चीयते इति तद्विक्यस्य पूर्वज्ञानस्यापि तदर्थसम्वन्धित्वेन पश्चात् प्रामारम्बं निश्चीयते । यथोक्तम् –
तस्मिन्सदपि मानत्वं विनिश्चेतुंन शक्यते ।
उत्तरार्थक्रियाज्ञानात् केवलं तत् प्रतीयते ।।
नैवम् अर्थक्रियाञ्चानस्यापि स्वविषयार्थक्रियापीर्रानेश्चये परापेक्षा येन अनवस्था भवेत् । तस्य फलरूपत्वात् । फलार्थं वा सर्वं करिष्यते । न फलम् अन्यार्थमिति । अतः स्फुटाविकल्परूपत्वाच्च अर्थक्रियाज्ञानं स्वत एव स्त्रविषयतथात्वाययारकं प्रमाणं च । न चैवं प्रामारन्यावगमस्य प्रवृत्त्यङ्गत्वात् प्रवृत्युत्तरकालूम्, अर्थक्रियानिर्णयो निष्फल इति वाच्यम् । चनान्तण्डे निःशङ्कप्रवृत्त्वथ विसंवादिज्ञानव्यावृत्तप्रमाणभ्रतिवन्धरूपविशेषाकलनाय प्रवृचत्तरकालमपि निणयस्योकृ' । प्रवृत्तावभ्यासवत्याम् आद्यज्ञाने फलस्याप्रतीतावपि अर्थक्रियारूप फलमिति विषयीकुर्वतो विशानान्तराद् विसम्वादिभ्यो व्यावृत्तं वैलक्षरत्य प्रतीयते । यथोक्तम् –
वृत्तावभ्यासवत्यां तु वैलक्षण्यं प्रतीयते ।
अतद्विषयविज्ञानाद् आद्येऽप्राप्तेऽपि तत्फले ।।
तस्मात् झटितिनिःशङ्कप्रवत्तिरपि तत्र विसम्वादिव्यावृत्तप्रमाणप्रतिवन्यरूपविशेषलिङ्गकाद् अ?उमानादेवेति न स्वतः प्रामाण्यावगमः ।।
अत्राभिधीयते । वृत्तेः प्रामाण्यम् अर्थयाथार्थ्यनिश्चयाद् भवतु । तन्निश्चयश्च गुणज्ञानात् संवादाद् वा इति यद् उक्तं तन्न मृष्यामहे । प्रमितिस्राधकतमत्वं हि प्रामारुम् । प्रमितिश्च अनधिगततथाभूतार्थावधाण्यम् । नन्वेवम् इन्द्रियादेरेव प्रामारन्यम् न ज्ञानस्य । तस्यावधारणरूपत्वज अवधारणन्तरत्ताधकतमत्वानुपपचेरिति चेत् ? न । द्विविधं हि अवधारणम्ज्ञानरूप प्राकट्यरूपं चेति । तत्र अनधिगततथाभूतार्थगोचरत्वेन ज्ञानस्य प्रामारत्वम् । तथा च अनधिगततथाभूतार्थावधारणप्रमितिः । तत्साधनं ज्ञानं प्रमाणम् । तद्भावः प्रामाण्यमिति नाशब्दार्थत्वम्। अतः प्रमितिलक्षणवाक्यगतावधारणशब्देन ज्ञानप्राकट्ययोः कार्यकारणभावेन अदूरविप्रकृष्टयोरेकरूपप्रामाण्यव्युत्पत्त्यर्थं तन्त्रेणोपादानम्। शक्ती च प्रमाणाप्रमाणगोचरे प्रामाण्याप्रामाण्ये। ते च तथाभूतोऽयम् अर्थः इत्येवं रूपात् तथात्वावधारणाद् अतथाभूतोऽयमर्थ इत्येवंरूपाद् अतथात्वावधारणाच्च चकास्तः। तत्र तथा-
Page 123 (210)
भूतार्थावधारणम् अर्थक्रिया ज्ञानादिलक्षणपरानपेक्षत्वेन ज्ञानस्त्वरूपमात्राधीनम् । तदवसेयं प्रामाण्यं स्वतोऽवसीयत इत्युच्यते । तथाभूतावधारणं तु ज्ञानस्वरूपमात्राधीनत्वेऽपि कारणदोषावगमादिलक्षणपरापेक्षम् इति तदवसेयम् अप्रामाण्यं परतोऽवसीयत इत्युच्यते । नच अतथाभूतावधारणमपि ज्ञानस्वभावाधीनम् । भ्रमवाधयोरसंभवप्रसङ्गात् । न हि शुक्तौ रजतम् अतथाभूतमिति गोचरयतो ज्ञानस्य भ्रमत्वं वाधसम्भवो वा । तस्मात् ज्ञानस्वभावाधीनमपि अतथाभूतत्वं कारणदोषावगमाद् बाधकप्रत्ययाद् वा परत एव निश्चीयते इति अप्रामाण्यं परत एवेति सिद्धम् ।।
अपरे पुनः एतदप्यसहभाना अप्रामाण्यवत् प्रामाण्यमपि कारणगतगुणज्ञानात् सम्वादाद् वा परत एव ज्ञायत इति वर्णयन्ति साधयन्ति च । तथा हि । प्रामाण्य परतो ज्ञायते । अनभ्यासदशायां सांशयिकत्वात् अप्रामाण्यवदिति । नैतत् साधनम् । अस्मन्मतेऽपि तथाभूतोऽयम् अर्थ इत्येवरूपावधारणात् परत एव प्रामाण्यं निश्चीयत इति
सिद्धसाधनत्वात् । ननु ज्ञप्तावनपेक्षत्वेऽपि उत्पत्तौ परापेक्षास्ति । तथा हि । यदि ज्ञानहेतुमात्राधीनं प्रामाण्यं भवेत् तर्हि प्रमाणपरिज्ञानम् अप्रमाणं भवेत्प्राभाण्ये कारणाभावात् । तथा च सति ज्ञानमेव न स्याद् घटादिवत् । ननु दोषाभावस्य प्रामाख्यकारणत्वात्सति च दोषे तदभावाद् नातिप्रसङ्ग इति चेत् तर्हि दोपाभावम् अधिकम् आसाद्य प्रामारत्यमपि जायते इति कथं ज्ञानहेतुमात्रजन्यत्वं तस्य । ननु दोषाभावस्य प्रामाण्यच्छेत्वेऽपि गुणस्य प्रामाण्यं प्रति अहेतुत्वात् तदभावेन वेदानां स्वतः – प्रामाण्यं सिध्यतीति चेत तप गुणस्य प्रामाणयहेतुत्वेन दोषाभावस्य तदण्डेत्वात्तद्भावेऽपि गुणाभावाद् अप्रामाएयमपि वेदानां प्रसज्येत । न हि गुणदोषयोः प्रामाण्याप्रामाण्ये प्रति अन्वयव्यतिरेकयोर्विशेषम् उपलभामहे । तस्माद् उभयमपि परत इति सिद्धम् ।।
अत्रभिधीयते । कार्यशक्तेः असति वाधके कार्द्यकारणादेव कार्येण सह उत्पत्तिरङ्गीकर्तव्या । अन्यथा वह्निगताया दाहकत्वशक्तेरपि कारणान्तरादेव उत्पत्तिः स्यात् । तथा च उत्पत्तिक्षणे तस्य दाहकत्वं न स्यात्। वह्निश्च स्वाश्रय दहन्त्रेव जायते । तत् सिम्पश्छएतत्स्वत एव च प्रामारष्यामिति । न च अप्रामाण्यमपि स्वत एवास्त्विति मन्तव्यम् । तस्य दोपान्वयव्यतिरेकानुविधायित्वेन ज्ञानहेतुमात्रजन्यत्वाभावात् । स्याद् एतत् । यदि ज्ञानहेतुमात्राधीनं प्रामाण्यं
Page 124 (211)
भवेत्, तर्हि स्मृतेरपि प्रामाण्यं स्यात् । तद् न । प्रामाण्यशब्देन तथाभूतार्थाविधारकशक्तेरेव विवक्षितत्वात् तस्या एव च ज्ञान३तुमात्रशब्दाधीनत्वसमर्थनात् । अन्यथा नैयायिकमतेऽपि अप्रामाण्यस्य दोषाधीनत्वात् तदभावे स्मृतावपि प्रामारप्यसम्भवप्रसङ्गात् ।।
यत् पुनः प्रमाज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वात् अप्रमावत् इत्यनुमानम् । तद् असाधकम् । प्रमा गुणदोषयोरन्यतराधीना न भवति ज्ञानत्वात् अप्रमावत्, इत्यनेन अनुमानेन निर्विशेपणण्डेजत्वेन शीघ्रप्रवृत्तेन विशेषविषयत्वेन च प्रवलेन वाधितविषयत्वात् । तस्य च सुविशेपणहेतुजत्वेन विलम्बितप्रवृत्तत्वाद् दौर्बल्यम् । तस्माद् उत्पत्तावपि ज्ञानेहेतुमात्राधीनत्वेन प्रामाण्यं स्वत एव । अप्रामाण्यं तु दोषाधीनत्वात् परत इति सिद्धम् ।।
ततश्च वेदानामपि अपौरुषेयत्वेन शब्दगतगुणदोपाणां शङ्कितुमपि मशक्यत्वेन सुतरां स्वत एव प्रामाण्यमिति निरवद्यम् ।।
स्याद् एवं यदि वेदानाम् अपौरुषेयत्वं भवेत् । तदेव असिद्धम् । तथा हि वेदवाक्यानि पौरुषेयाणि वाक्यत्वात् । यद् उक्तसाधनं तद् उक्तसाध्यम् । यथा भारतादिवाक्यम्। उक्तसाधनानि च वेदवाक्यानि । तस्मात् पौरुषेयाणि वेदवाक्यानि । पौरुपेयत्वं नाम स्वतन्त्रपुरुषपृर्वकत्वम् अभिमतम् । अतः क्रमवन्तो वर्णाः पदम् ।
क्रमवन्ति च पदानि वाक्यम्। क्रमश्च नित्यवर्णेषु स्वत एवासम्भवात् उच्चारणक्रमनिबन्धनं एव। उच्चारणक्रमश्च पुरुषप्रयत्नसाध्य एवेति वेदवाक्यान्यपि क्रमवत्त्वेन पुरुषप्रयत्ननिष्पाद्यान्येवेति सिद्धसाध्यत्वं वदताम् अनवकाश एव। ननु किमत्र साक्षात्स्वतन्त्रपुरुषपूवकत्वं विवक्षितम् आहोस्वित् परम्परया ? नाऽऽद्यः। इदानीम् उच्चार्यमाणेषु वाधितविषयत्वात् अनुवक्तृप्रणीतास्मदादिवाक्येषु अनैकान्तिकत्वाच्च। नापि द्वितीयः। साक्षात्स्वतन्त्रपुरुषप्रणीतेषु अस्मदादिवाक्येषु अनैकान्तिकत्वादिति चेत् ? मैवम्। साक्षात्परम्परात्वयोः परस्परव्यभिचारेऽपि साक्षात्परमपरात्वयोरन्यतरस्यैवात्र विवक्षितत्वात्। अन्यथा भारतादिवाक्यान्यपि यानि कृष्णद्वैपायनादिना साज्ञात् प्रणीतानि न तानि परम्परया, यानि परम्परया न तानि साक्षात् इति उभयानुगतपौरुषेयत्वाभावेन अन्यतरस्य अपौरुषेयत्वप्रसङ्गात्। तस्माद् यद् वाक्यं तत् साक्षात् परम्परया वा स्वतन्त्रपुरुषपूर्वकम् इति सधयतां न क्वचिद् बोधो न व्यभिचारश्चेति सिद्धं वेदाः पौरुषेया इति।
Page 125 (212)
तद् इदम् श्रसमञ्जसम् । तथा हि सर्वत्र वाक्येषु वृद्धव्यवहारावगतपदपदार्थसम्बन्धस्य चक्षुरादिजन्यतत्तत्पदार्थविशेषविषयपरस्परविलक्षणक्षणिकज्ञानवतः शरीरिण एव स्वतन्त्रकर्तत्वं दृष्टमिति वाक्यत्वं ताद्वशकर्तृत्वेन व्याप्तं सत् स्वव्यापकं पक्षे साधयत् स्वाभिमतम् अशरीरिकर्तृकत्वं विरुणद्धीति विशेपविरुद्धत्वात् ल्लैः । न चास्योत्तरस्य उत्कर्षसमायाम् अन्तर्भावः । सर्वत्र वाक्यत्वस्य हेतोः शरीरिकर्तृकत्वेन व्याप्ततया दृष्टत्वात् ।।
स्यावद् एतत् । अस्तु तर्हि अत्रापि अनित्यज्ञानेच्छादिमतः शरीरिण एव कतृत्वम् । न च योग्यानुपलब्धिबाधः चिरवृचे कर्तरि उपलब्धियोग्यत्वस्यैव अभावात् । एतदपिन चतुरचेतसां चेतसि ञ्जकारप्राञ्चति । अपसिद्धख्तापातात् । किं च यदि वेदवाक्यानां शरीरी कर्ता स्यात् तस्य चिरवृत्तत्वेन उपलब्ध्यभावेऽपि असौ स्मृतिपशमवतरेत । न च स्मर्यते । तस्मान्नास्त्येव कर्तेति निश्चीयते ।।
स्याद् एतत् । केनचिद् अस्मरणं वाक्सेः आहोस्वित्सर्वैरस्मरणम् । नाऽऽद्यः । देवदत्तेन अस्मृतस्यापि धटस्य विष्णुमित्रगृहे विद्यमानत्वात्। नापि द्वितीयः । लौभेनीयैरस्मरणेऽपिकणादाक्षचरणपक्षिलमुनिपक्षपातिभिः स्मर्यमाणत्वाद् इति । न । तदीयैरपि वृद्धव्यवहारावगतपदपदार्थसम्वन्यस्य तदर्थविषयविलक्षणक्षणिकचक्षुरादिजन्यवेदनस्थ मातापितृसम्बन्धप्रत्तपार्थिवशरीरस्त्वकर्तुरस्मरणात् । तदेवं वेदवाक्येषु याद्वशख्यस्वतन्त्रपुरुषस्य ते स्मरन्ति तादृशस्य वाक्यत्वम् अद्ध्यत्परिपन्थित्वेन न विरोधकम् । जैमिनीयैस्तु सर्वैः स्मर्तुं योग्यस्यापि अस्मरणाद् योग्यस्मृत्यनुदय एव वाधक इति वाक्यत्वं हेतुः । विरुद्धसमस्तसविशेपत्वेन स्वतन्त्रपुरुषपूर्वकत्वमपि साधयितुम् असमर्थ इति सिद्धो विशेषविरोधस्तृख्य । स्याद् एतत्।
अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः ।
ऋग्वेद एवाग्नेरजायत, यजुर्वेदोःवायोः, सामवेद आदित्यात्” [ऐ० ब्रा० ५।३२] ।
तस्त्वाद् यज्ञात् सर्वहुत ऋच सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस्तख्यादजायत्” ।। [ऋ० १०|90|9]
इत्यादयो वेदकारणवादा चेदस्य पौरुषेयत्वे प्रमाणमिति । तद् अयुकम् । तेपां परस्परविरुद्धार्थतया प्रमाणान्तरप्रतिहततया च प्रजापतिरात्मनो वपाम् उदखिदत्' (तै० सं० २।१।१।४) इत्यादिवत् अर्थवादत्वेनापि उपपत्तेः स्वार्थे तात्पर्याभावात् । काठकादिसमाख्यापि प्रवचननिग्न्धनैव भत्रिष्यनि इति सिद्धं वेदानाम् अपौरुषेयत्वम् ।।
Page 126 (213)
अत एव च नित्यत्वम् । तन्नित्यत्वम् असहमानाः शुष्कतार्किका वैदिकान प्रति विवदन्ते प्रयुञ्जते च शब्दानित्यत्वेऽमानम् । शब्दोऽनित्यः कृतकत्त्वात्, यत् कृतक तद् अनित्यं दृष्टम्, यथा धटः तथा चायं कृतकः । तस्माद् अनित्य एवेति । एतद् अधीरम् । एतच्च पर्वतादौ धर्मिणि प्रत्यक्षे यथा वह्नयाद्यनुमान ताद्वशं
तार्किकैरङ्गीकरणीयम् । ततश्च एतदनुमानवलादेव शब्दस्य नित्यत्वसिद्धिः । तथाहि । अणवोऽनित्याः मूर्तत्वात् घटवत्इत्यनुमानेयथा धर्मिग्राहकप्रमाणवाधो दोषः तथा शव्दकृतकत्वानुमानेऽपि । तथा हि । शब्दः कथं प्रत्यक्षो देवानां प्रियस्य यो धर्मी । कृतस्य अनित्यत्वान्नित्यत्वशून्य इति चेत्? तर्हि वक्तव्यं किं धर्मद्वयस्य अभाववानव उद्भाववान् । उभयथापि वाधः अन्यथा प्रत्यक्षम् अर्थम् अन्यथा साधयतः । ननु वादिबुद्धिविशेषाद् धर्मद्वयम् आपतति न तु वस्तुविशेषात् । वस्तुनि द्वैरूप्यायोगात् । ततश्च यस्मिन् वादिविप्रतिपत्तौ सत्यां धर्मद्वयम्श्रापतति स शब्दः पक्ष इत्यङ्गीकारे कथं वाधः । एवम् अनङ्गीकारे सर्वानुमानोच्छेदप्रसङ्गः ।।
अस्त्वेवम् अन्यत्र । शब्दे तु वैषम्यम् अस्ति । शब्दः किं धर्मित्वेन प्रतीतः प्रत्यक्षव्याप्तिँपक्षधर्मतयोराप्रभयः उत्पत्तितः उत्तरक्षणेषु स एव तिष्ठति वा, न वा । यदि न तिष्ठति, आभयसिद्धधादिदोषः । यदितिष्ठति, तर्हि अनेकक्षणावस्थायित्वात् क्षणिकत्वभङ्गः । अथ च शब्दत्वजातिमान् शब्दस्त्विष्ठतीति चेत्? तत्रापि विचारयत्वायुष्मान् । किं जातिस्तिष्ठति ? उत व्यक्तिरपि ? यदि जातिस्तिष्ठति व्यधिकरणासिद्ध्यादिदोषः । न हि शव्दत्वजातिः पक्ष इति भवद्भिरेवोक्तम् । अनित्यव्यक्तेश्चावस्थाने पूर्वोक्तदोषावकाशः । अथ च काचन व्यक्तिक्त्विष्ठति । तदापि शब्दव्यक्तीनां धर्मित्वाङ्गीकाराद् भागासिद्धो हेतुः । न हि भधिष्यच्छव्दः इदानीं वर्तमानस्य कृतकत्वस्य हेतोराप्रयो भवति । कृतकत्वं नाम करणव्यापारविषयत्वम् । तच्च कालत्रयासंस्पृष्टं सर्वशब्देषु वर्तते हति हेतोर्न भागासिद्धिरिति चेत् । अहो पारिष्ठत्यै त्तार्किकस्य । यत्र कालत्रयसंस्पृष्टशव्दबुद्धिः स्वयं कालत्रयातीतं प्रत्यक्षीकृतवान् इति । ततः प्रत्यक्षाभावेऽनुमानमपि दूरापास्तम् । ततः अस्त्विन्ननुमाने पर्वतादिवत्स्थायी वर्तमानः शब्दः पक्षत्वेनाद्भीकरणीयः । तस्येधर्मिणः अनित्यत्वसिद्धौ अपरेषां भविष्यदादिशब्दानामपि शब्दत्वेन हेतुना अनित्यत्वं साधनीयम् । एवं च महीमहीधरादिकृतकत्वानुमानवत् शब्दकृतकत्वानुमानमपि परास्तं वेदितव्यम् । शव्दग्राहि च प्रमाणं तं कृतकत्वश्द्वन्यमेव गृह्णातीति महीमहीधरवत् इति धर्मिग्राहकप्रमाणबाधस्त्वद्रुक्तो हेतुः अन्यतरासिद्धश्च । तस्मान्नित्यः शब्दः ।।
सोऽपि स्फोट इति शाब्दिकाः शब्दायन्ते । तथेमां हति प्रमाणयन्ति ।
Page 127 (214)
शब्दव्रह्म यदेक यच्चैतन्यं च सर्वभूतानाम् ।
यत्परिरगामस्त्रिभुवनम् अखिलम् इदं जयति सा वाणी ।।
अस्य अयम् अर्थः । शब्द एव ब्रह्म । तद् एकम् । एकं च स्फोटव्यतिरिक्तम् अन्यन्न संभवति । वर्णानाम् अनेकत्वात् । अत एव न ध्वनयोऽपि । पदवाक्ययोरेकत्वशङ्कापि नास्त्येव वर्यैर्विरचितत्वात् तेषाम् । ध्वनिवर्णपदवाक्येभ्यो वा नान्यः शब्दः प्रसिद्धोऽस्ति लोकवेदयोः । शब्दब्रह्मेति पठन्ति लौकिका वैदिकाश्च पदज्ञा अपिएवम्भानुः । “एकम् अक्षणम् एक पदम् एकं वाक्यम्” इति ।
उत्पन्नापवर्गिष्वनेकेषु वर्णेषु एकबुद्धेर्विषयः स्फोटः वृद्धत्वाद् ब्रह्मशब्दामिधेयः । स्फुट्यते अर्थः प्रकाश्यते [अनेन] इति स्फोटः ।।
ननु अर्थाभिव्यञ्जकश्चेच्छब्दस्तर्हि वर्णात्मक एव सः । ज्ञातेषु वर्णेषु अर्थो ज्ञायत इति प्रसिद्धिः । नैतत् वर्णान्मकशब्दः अर्थप्रत्यायक इति कोऽर्थः । एकैको वर्णः अर्थप्रत्यायकः, उत अनेक इति । न तावद् एकैकः । अकारादीनां वर्णानां प्रत्येकं वर्णोच्चारणे अर्थप्रतीतेरभावात् । न च अव्ययानां तिरस्काराद्यर्थं प्रत्यायकत्वं दृष्टमिति मन्तव्यम् । अव्ययादाप्सुपः [पा० २।४।८२] इति विभक्तौ लुप्तायां तेषाम् अर्थप्रत्यायकत्वात् न तु प्रातिपदिकावस्थायाम् । ततश्च अ इ उ इति वर्णानां तिरस्काराश्चर्यादरार्थानां तेषां पदात्मकत्वेन अनेकवर्णात्मकत्वात् । [अर्थप्रत्यायकत्व] । न हि अदर्शनमात्रेण विभक्तिवर्णानाम् असत्त्वम् । तथात्वे संबुद्धिप्रातिपदिकार्थयोरेकत्वप्रसङ्गात् । अनिष्टं च तच्छाव्दिकानाम् । तथा च अव्ययानामेव अर्थप्रत्यायकत्वम् न वर्णानाम् एकैकशः । अव्ययानि च पदविशेषा इत्युक्तम् । एतेन उपसर्गादीनि सर्वाणि व्याख्यातानि । ततः अनेके वर्णा अर्थप्रत्यायक इति वक्तव्यम् । अयमपि पक्षो न कक्षीकरणीयः । अपदात्मकस्य कचटतेत्यादिरूपस्य अर्थप्रत्यायकत्वादर्क्षनात् । पदान्मकोऽनेको वर्णः अर्थप्रत्यायक इति सारं स्थितम् । पदं च सुवन्तं तिङन्तं वा । तच्च प्रातिपदिककृत्तद्धितधातुसमासप्रकृतिकम् । तत् सर्व वर्णस्वरूपमेव । न तु ततोऽतिरिक्तं पदमस्ति । वर्णेभ्योऽतिरिक्तस्य पदस्य अदर्शनात् ।
ननु वर्णगतो धर्मः कश्चन पदमिति । तथा व्यक्तिगतो जातिविशेषो गोत्वमिति ।। एवं चेत् एकगोव्यक्तिदर्शने गोत्वप्रतीतिवत् एकैकवर्ण दर्शने पदप्रतीतिः स्यात् । ततो वर्णानां समुदायविशेषः पदमिति वक्तव्यम् । तच्च अर्थप्रत्यायकमिति वर्णनीयूम् । तेन पदसमुदायविशेपो वाक्यम् इत्युपपादितं भवति । वणन्यायस्य पदे सचरणात् । ननु अस्त्वेवम् । तावता वर्णा एव शब्द इति भवताप्युक्तम् पदवाक्यात्मकानां वर्णानाम् । 'अर्थप्रत्यायकन्वकथनेन भावानुववोधात् । भाव-
Page 128 (215)
श्चायम् । यदि वर्णा नित्या यदि वा अनित्या उभयथापि तेण समुदायो नोपपन्नः ।। नित्यानां तु गुणत्वे सर्वगतद्रव्यत्वे वा पञ्चाशत्संख्याकानां तेपां मेलनं केन कर्तुं शक्यम् ? न चैवं वर्णानां स्थानप्रयत्नवैयर्थ्यप्रसङ्गः | नित्यानामेव तेषां स्थानप्रयत्नाभ्यामेव अभिव्यज्यमानत्वात् । न च अभिव्यक्तेरपि समुदायः कर्तुं शक्यः । वर्णाभिव्यक्तेर्ज्ञानरूपत्वात् । ज्ञानानां च क्रमेण जायमानत्वात् । युगपज्ज्ञानानुत्पत्तिरमनसो लिङ्गम्” [गौ० सू० १ । १ । १6] इति न्यायात्। क्रमेण जायमानानां क्षणिकानां तेषाम् एकस्मिन् देशे काले वा मेलनस्य म् अशक्यत्वात् । न च मेलनाद् अन्यः समुदायोऽस्ति । तस्माद् वर्णनित्यत्वेऽपि स्पष्टः समुदायाभावः । कथं वर्णसमुदायः पद पदसमुदायो वाक्यम् अर्थप्रत्यायकं स्यात् । अस्ति तु अर्थक्रत्ययः शब्दात् । ततः शव्दतत्त्वम्ल्मन्यदेव ।।
ननु एतादृशे शब्दतत्त्वं कुतः प्रतीयते । अनित्येभ्यो वर्णेभ्य इति ब्रूमः । न च तत्र उक्तानुपपत्तिः पूर्वपूर्ववर्णसचिवानयवर्णबुद्धेरिति ब्रूमः । न चैवम् अर्थप्रत्यत्योऽप्येवमस्त्वितिं वक्तव्यम् । तथात्वे तस्य अशाब्दत्वं स्यात् । अनिष्टं च तत् । ततश्च उक्तबुद्धेः प्रतीयमानं शव्दतत्त्वम् एव वुद्धेर्विपयोऽर्थप्रत्यायक इति स्थितम् ।। यच्चार्थप्रत्यायकस स्फोट इत्युक्तम् ।।
यत् शब्दब्रह्म एकम् एकप्रत्ययविषयः सर्वभूतानाम् स्थावरजङ्गमानां शरीरिणां चैतन्यम् । तद् उक्तम् शब्दब्रह्मणो व्यतिरिक्तं न चैतन्यम् अस्ति, इति । ननु चैतन्यविवर्ता इमे नानाविधा भावाः सर्वे सशब्दाः । तत् शब्दतत्त्वं ख्यात् । न च अधिष्ठानम् अध्यस्तं भवति इत्यत आह – “यत्परिणामस्त्रिभुवनम् अखिलम् इदमिति” । परिणामोऽत्र विवर्तोऽभिहिंतः । ननु परिणामविवर्तयोःको भेदः १। अयम् । पूर्वरूपापरित्यागेन असत्यनानाकारप्रतिभासो विवर्तः यथाशुक्तिकायां रजतस्य, सर्परज्ज्वां वा सर्पख्यप्रतीतिः । पूर्वरूपपरित्यागे सति नानाकारप्रतिभासः परिणामः । यथा क्षीरस्य दधिप्रतिभासः । त्रिभुवनं यत्परिणाम इत्युक्ते भौतिका भावाः शब्दब्राह्मणः परिणामा स्तु । तद्ध्युदासाय उक्तम्अखिलम् इदम् इति । इदम्जाडयप्रत्ययविषयः । चैतन्याद् व्यतिरिक्तं सर्वमित्यर्थः | सा स्फोटरूपावाणी जयति ।।
तेन एतद् उक्तं भवति शब्दब्राह्मणि चेतने सर्वप्रपञ्चविवर्ताधारे स्फोटे शब्दे शब्दाभिधेनत्वम्, न तु वर्णानाम् । तेषामपि स्फोटे अध्यस्तत्वात् । तस्मात् स्फोट एच शाब्दः ।।
इति ये मन्यते तेषां दुरन्तं व्यसनआपतितम् । अप्रतीतस्यार्थस्य प्रतीतिः । प्रतीतस्यार्थख्य परित्यागः । तथा हि | वर्णात्मकशव्वेभ्यो यथा स्फोटः शब्दः प्रतीयत तथैवार्थः प्रतीयताम् । को दोषः । न च ज्ञानव्यवधाने अशाब्दत्वं तस्यार्थस्य । स्फोटोऽपि शब्द एव । शब्दश्च ज्ञानकरणम् प्रत्यक्षव्यतिरिक्तानां करणानां ज्ञानकरणत्वा-
Page 129 (216)
ङ्गीकारात् सर्ववादिभिः । ततश्च यः स्फोटपक्षे परिहारः स एवे वर्णपक्षे भविष्यति । तथा हि । पूर्वपूर्ववर्णसंस्कारस्थचिवोऽनयो वर्णो ज्ञातः सन् अर्थं प्रत्याययिष्यति । किम् अन्तर्गडुना स्फोटेन ।।
तस्माद् अपौरुषेयत्वाद् नित्यत्वाद् विवक्षितार्थत्वाच्च कृत्स्नस्यापि वेदराशेस्तदन्तर्गतस्य ब्रह्मवेदस्यापि विवक्षितार्थत्वेन व्याख्येयतासिद्धिः ।।
तथापि कथमस्य अन्ते व्याख्येयता । वेदानां क्रमेण अभिव्यक्तिप्रतिपादकश्रुतिवशात् इति व्रमूः । सा च अथर्ववेदस्य पूर्वब्राह्मणे प्रणवप्रशसावसरे श्रूयते । व्रह्म ह वै व्रह्माणं पुष्करे ससृजे । स खलु ब्रह्मा सृष्टश्चिन्ताम् आपेदे ।
केनाहम् एकेनाक्षरेण सर्वाश्च कामान्सर्वाश्च लोकान् सर्वांश्च देवान् वाश्च वेदान् सर्वाश्च यज्ञान् सर्वाश्च शब्दान् सर्वाश्च वृष्टीः खर्वाणि च भूतानि स्थावरजङ्गमान्यनुभवेयम् इति । स ब्रह्मचद्यम् अचरत् । स ओम् इत्येतद् अक्षरम् अपश्यत् त्रिवर्णं चतुर्मात्रं सर्वव्यापि इत्यादि [ गो० ब्रा० १।१६] ।। तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूरिति व्याहृतिं गायत्रं छन्दः त्रिवृतं स्तोमं प्राचीं दिश यसन्तम् ऋतुम्” [गो० ब्रा० १।१७] इत्यादिना आद्याभिस्तिसृभिः प्रणवमात्राभिराप्तव्यानशृगादीप्रतिपाह्य अन्ते समाम्नातम् । तख्य मकारमात्रयापश्चन्द्रमसम् अर्थववेद नक्षत्राण्यो३मिति स्वम् आत्मानम् आनुष्टुभ छन्दः एकविंशं स्तोमम्' इत्यादि [ गो० व्रा० १।२० तथा तैत्तिरीयकेऽपि व्रह्मयज्ञप्रकरणे श्रूयते-'यद् ऋचोऽधीते पयसः कूल्या अस्य पिइन्ल्यधा अभिवदन्ति । यद् यजूंषि घृतस्य कूल्या । यत सामानि सोम एभ्यःपवते । यद् अथर्वाद्ब्रिरक्ष्योमधोः कूल्या [तै०आ०२।१०] इति । तद् एवम् उदीरितरीत्या सर्वत्राथर्ववेदस्य चरमभावित्वात् तद्व्याख्यानस्य त्रयीव्याख्यानानन्तर्यम् उपपन्नम् ।।
तस्य ऐहिकामुष्मिकसकलपुरुषार्थपरिज्ञानोपायभूतस्य अथर्ववेदस्य नव भेदा भवन्ति। तद् यथा। पौप्पलादाः तौदा मौदाः शौनकीया जाजला जलदा ब्रह्मवदा वेददर्शाश्चारणवैद्याश्चेति। तत्र शौनकीयादिषु चतुसृषु शाखासु अनुवाकसूक्तऋगादीनां गोपथब्राह्मणानुसारेण पञ्चभिः सत्रैर्विनियोगोऽभिहितः। तानि च सूत्राणि कौशिकम् वैतानम् नक्षत्रकल्पः अङ्गिरसकल्पः शान्तिकल्पश्चेति। तद् उक्तम् उपवर्षाचार्यैः कल्पसूत्राधिकरणे –
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः।
तुर्य आङ्गिरसः कल्पः शन्तिकल्पस्तु पञ्चमः॥
तत्र साकल्येन संहितामन्त्राणां शान्तिकपौष्टिकादिषु कर्मसु विनियोगविधानात् सहिताविधिर्नाम कौशिकं सूत्रम्। तदेव इतरैः सूत्रैरुपजीव्यत्वात्
Page 130 (217)
प्रधानं च । एतेषु वहुषु सूत्रेषु अथर्ववेडप्रतिपाद्यानि कर्माणि विप्रकीर्णत्वाद् डुर्बोधानीति सुखाववोधाय तानीह संगृह्यन्ते । तत्र तावत् कौशिकसूत्रक्रमेण प्रतिपाद्यान्येतानि कर्माणि ।
आदौ स्थालीपाकविधानेन दर्शपूर्णमासविधिः । ततो मेधाजननानि । ब्रह्मचारिसांपदानि । ग्रामनगज्ज्वुर्गराष्ट्रादिलाभार्थानि । पुत्रपशुधनधान्यप्रजास्त्रीकरितुरगरथान्दोलिकादिसर्वसंपत्साधकानि जनानाम् एकमत्यसम्पादकानि सांमनख्यानि ततो राजकर्मणि । तानि च शत्रुहस्त्रित्रासनानि संग्रामलयसाधनानिइषुनिवारणार्थानि खड्गादिसर्वशस्त्रनिवारणानि परसेनामोहनोद्वेजनस्तम्भनोच्चाटनादीनि स्वसेनोत्साहपरिरक्षणाभयार्थानि संग्रामे जयपराजयपरीक्षार्थानि सेनापत्यादिप्रधानपुरुपजयकर्माणि
परसेनासंचरणप्रदेशेषु अभिमन्त्रितपाशासिकशाप्रक्षेपणादीनि जयकामस्य राज्ञोरथस्यारोहणम अभिमन्त्रितभेरीपटहादिसर्वद्वावादित्रताडनम् सपत्नक्षयकर्माणि शन्ध्यूत्सादितस्य राज्ञः पुनः स्वराण्मप्रवेशकानि राजाभिषेकः । पापक्षयार्थानि निर्वृतिकर्माणि । चित्राकर्मादीनि । पौष्टिकानि । गोसमृद्धिकर्माणि । लक्ष्मीकराणि । पुष्ट्यर्थमणिकधनानि । कृपिपुष्टिकराणि । अनडुत्समृद्धिकराणि । गृहसंपत्कराणि नवशालाकर्मादीनि वृषोत्सर्जनम्। आग्रहायणीकर्म । जन्मान्तरकृतपापनिमित्ताचिकिक्त्यविविधरोगभैषज्यानि । तत्र प्रथमं सर्वव्याधिभैषज्यं ज्वरातिसारवहुसूत्रादिभैपज्यानि शस्त्राद्यभिघातजरुधिरप्रवाहनिरोधकानि । भूतप्रेतपिशाचापस्मारब्रह्मराक्षसबालग्रहादीनिवारणानि । वातपित्तश्लेष्मभैषज्यानि।हृद्रोगकामिलाश्वित्रनिवारणानि । संततज्वरेकाहिकाहिकादिविपमज्वरराजयल्मजलोदरनिवारणानि गवाश्वादीनां क्रिमिहराणि कन्दमूलसर्पवृश्चिकस्थावरजङ्गमविषनिवारणानि सिरोक्षिनासिकाकर्णजिह्वाग्रीवादिरोगभेषज्यानि ब्राह्मणाद्याक्रोशनिवारणानि गण्डमालादिविविधरोगभैषज्यानि । पुत्रादिकामस्त्रीकर्माणि । सुखप्रसवकर्माणि । गर्भाधानगर्भद्वहणपुंसवनादीनिखौभाग्यकरणानि । राजादिमत्युनिवारणानि अभीष्टसिद्ध्यसिद्धिविज्ञानानि । दुर्दिनाशन्यतिवृष्टिनिवारणानि । सभाजयविवादजयकलहशमनानि । स्वेच्छातो नदीप्रवाहकरणानि । वृष्टिकर्माणि । अर्थोत्थापनकर्म । द्यूतजयकर्म। गोवत्सविरोधनिवारणम् । अश्वशान्तिः । वाणिज्यलाभकर्म । स्त्रियाः पापलक्षणनिवारणम् । वास्तुसंस्कारकर्म । गृहप्रवेशकर्म । कपोतवायसाद्युपहतगृहशान्तिविधिः । दुष्प्रतिग्राहायाज्ययाजनादिदोपनिवारणम् । दुःस्वप्ननिवारणम् । कुमारस्य पापनक्षत्रजननशान्तिः । ऋणापनोदनम् । घुःशकुनशान्तिः । आभिचारिकाणि । परकृताभिचारनिवारणानि । स्वस्त्वयनानि आयुष्याणि । जातकर्मनामकरच्च्रचूडाकरणोपनयनादीनि । एकाग्निसाध्याः काम्या यागाः ब्रह्मौदनस्त्वगोदनाद्या द्वाविशतिः सवयज्ञाः ।
Page 131 (218)
क्रव्याच्छमनम् । आवसथ्याधानम् । विवाहः । पैतृमेधिकानि । पिण्डपितृयज्ञः । मधुपर्कः । पांसुरुधिरादिवर्षणयक्षराक्षसादिदर्शनभूकम्पधृमकेतुचन्द्रार्कोपप्तवादिवहुविधप्तेपातशगन्तयः आज्यतन्त्रविधिः । अष्टकाकर्म । इन्द्रमहः । ततोऽध्ययनविधिरिति ।
तथा वैतानसूत्रे दर्शपूर्णमासादिषु अयनान्तेषु त्रयीविहितकर्मसु ब्रह्मा ब्राह्मणाच्छंसी आग्नीध्रः पोतेति चतुर्णाम् ऋत्विजां कर्तट्यप्रतिपाद्यते । तत्र अनुज्ञानुमन्त्रणादीनि घ्नह्मणः । शस्त्रादीनि ब्राह्मणाच्छंसिनः । आग्नीध्रस्य अन्वाहार्यश्रपणप्रस्थितयाज्यादीनि । पोतुः प्ररिथतयाज्यादीनि । इति विभागः । तत्र अयं कर्मक्रमः । प्रथमं दर्शपूर्णमासौ । ततोऽग्न्याधानम् ।
अग्निहोत्रम् । आग्रयणेष्टिः । चातुर्मास्यानि । वैश्वदैववरुणप्रघास्मसाकमेधशुनास्रीरीयाणि । पशुयागः । अग्निष्टोमोक्यषोडश्यतिरात्रात्मकः प्रकृतिभूतश्चतुःसंस्थः सोमयागः । वाजपेयः । अप्तोर्यामः । अग्निचयनम् । सौत्रामणी । मैत्रावरुण्यामिक्षेष्टिः । गवामयनम् । राजसूयः । अश्वमेधः । पुरुषमेधः । सर्वमेधः वृहस्पतिसवगोसवादय एकाहाः सोमयागाः । व्यष्टिद्विरात्रप्रकृतयोऽहीनाः । रात्रिस्रत्राणि । सावत्सरिकारन्ययनानि । दर्शपूर्रगमत्सायनानीति ।।
नक्षत्रकल्पेऽपि प्रथम कत्तिकादिनक्षत्रपूजाहोमादि । ततोऽद्भुतमहाशान्तिः । नैऋतकर्म । अमृताद्या अभयान्तास्त्रिशन्महाशान्तयो निमित्तभेदेन प्रतिपादिताः । तत्र दिव्यान्तरिक्षभौमेषु
उत्पातेषु अमृताख्या महाशान्तिः गतायुषा पुनर्जीवनाय वैश्वदेवी । अग्निभयनिवृत्तये सर्वकामावाप्तये चाग्नेयीं । नक्षत्रग्रहोपसृष्टभयार्तरोगगृहीतानां तच्छान्तये भार्गवी । ब्रह्मवर्चसकामस्य वस्त्रशयनाग्निज्वलने च ब्राह्मी । रात्स्वप्रीब्रह्मवर्चसकामस्य वार्हस्पत्या । प्रजापश्वन्नलाभायप्रजाक्षयनिवृत्तये च प्राजापत्या । शुद्धिकामस्य सावित्री । छन्दोब्रह्मवर्चसकामस्य गायत्री । संपत्कामस्य अभिचरतोऽभिचर्यमाणख्य च आङ्गिरसी । विजयवलपुष्टिकामस्य परचक्रोद्वेजनकामस्य च ऐन्द्री । अद्भुतविकारविवृत्तिकामस्य राज्यकामस्य च माहेन्द्री । धनकामस्य धनक्षयनिवृत्तिकामस्य च कौवेरी । विद्यातेजोधनायुष्कामस्य आदित्या । अन्नकामख्य वैष्णवो । भूतिकामवास्तुसंस्कारकर्मणोर्वास्तोष्पत्या । रोगार्तख्य आपद्ग्रस्तस्य च रौद्री । विजयकामस्य अपराजिता । यमभये याभ्या । जलभये वारुणी वात्याभये वायव्या । कुलक्षयनिवृत्तये सतत्याख्या । वस्त्रक्षयनिवृत्तये त्वाष्ट्री । बालस्य व्याधिनिवृत्तये कौमारी । नितिगृद्धीतस्य नैरृती । वलकामस्य मारुद्गणी । अथ्चक्षयनिवृत्तये गान्धर्वी । गजक्षयशान्तये पारावतो । भूमिकामस्य पाथिवी। भयार्तस्य अभयाख्या महाशान्तिः । आसां तन्त्रभूता महाशान्तिश्चेति॥
Page 132 (219)
तथा वाङ्गिरसकल्पे आभिचारकर्मादौ कर्तृकारयितृसदस्यानां स्वात्मरक्षाकरणम् । अभिचारोपयुक्तदेशकालमएडपकर्तृकारपितृदीक्षादिधर्मसमिदाज्यादिसंभारनिरूपणादिकम् ।
ततः आभिचारिककर्माणि । परकृताभिचारनिवारणादीन्यन्यान्यपि कर्माणि ।।
शान्तकल्पेऽपि प्रथमं वैनायकग्रहग्रहीतलक्षणानि । तच्छान्तये संभाराहरणम् । अभिपेकवैनायक होमाः । तत्पूलाविधानम् । आदित्यादिनवग्रहयजादिकमिति ।
एषु कल्पेष्वनुक्तानि यानि राजाभिपेकोपयुक्तद्रव्यप्रकृतिद्रव्यपरिग्रत्सरोहितवरणादीनि परिशिष्टोक्तानि तान्यपि अनुक्रम्यन्ते । प्रथमं राजाभिपेकः । प्रातः प्रातर्वस्त्रगन्धालङ्कारसिहासनाश्वगलान्दोलिकाखङ्गध्चजचामरादीनां तत्तन्मन्त्राभिमन्त्रितानां राज्ञे प्रदानादीनि पुरोहितकर्माणि । सुवर्णधेनुतिलभूमिदानादीनि राज्ञः प्रतिदिवसकर्तव्यानि ।
पूजितपिष्टमय्या सदीपयारात्रिप्रतिमया राज्ञो नीराजनम् रक्षाकरणं च इत्येवमादीनि पुरोहितस्य रात्रिकर्माणि । राज्ञः पुष्पाभिषेकः । राज्ञो रात्रौ भारात्रिकविधानम् । प्रातः प्रातर्घृतावेक्षणम्। कपिलादानम् । तिलधेनुदानम् । रसादिधेनवः र् कृष्णाजिनदानम् । भूमिदानम् । तुलापुरुपविधिः । आदित्यभण्डलाकारापूपदानम् । हिरण्यगर्भविधिः । हस्त्रिरच्छदानम् । कनकायुवादिदश महादानानि । अश्वरथदानम् । गोसदस्राक्षघ्रः । वृषोत्सर्गः । कोटिहोमः । लक्षहोमः । अयुतहोमः । घृतकम्बलविधिः । तटाकप्रतिष्ठा । पशुपतव्रतम् । इत्येवमादीनि अन्यान्यपि दानव्रतादीनि ।
इति सपरिशिष्टपञ्चकल्पप्रतिपाद्यानां कर्मणां दिङ्मात्रेण अयम् अनुक्रमः ।। विशेपस्तु तत्तस्तविवियोगावसरे वक्ष्यते ।
एतानि च त्रिविधानि नित्यनैमित्तिककाम्यभेदेन । तत्र जातकर्मादीनि नित्यानि । दुर्दिनशनिनिवाररगा,वशान्त्यद्भुतकर्माणि च नैमित्तिकानि । मेधाजननग्रामसांपदादीनि काम्यानि । अत्र नित्यानां नैमित्तिकानां च अवश्यानुष्ठेयता । अकरणे प्रत्यवायस्त्वरणात् । तथाहि ।
नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया ।
काम्यानां तु इच्छातः प्रवृत्तिः ।।
एतेषां ग्रामाद् वहिः प्रागुदग्देशे महानदीतटाकाद्युत्तरकूलेऽनुष्ठानम् । पुरस्ताद्ध्यरतोऽरण्ये कर्मणा प्रयोग उत्तरत उदकान्ते इति कौशिक सूत्रात् (कौ० १।७) । पुंसवनादीनां तु नित्यानां गृह वेति रुद्रभाष्यकारमतम् । कालस्तु पर्वरूयंपुरन्यनक्षत्रयुक्तंतिथ्यन्तरं वा । अद्भुतकर्मणां
Page 133 (220)
तु तत्तन्निमित्तानन्तरमेव । तथा –
अमावास्या पौर्णमासी पुरप्यनक्षत्रयुक् तिथिः ।
एत एव त्रयः कालाः सवषां कर्मणां स्मृताः ।।
अद्भुतानां सदा कालम् आरम्भः सर्व कर्मणाम् ।।
आभिचारिकाणां तु ग्रामाद् दक्षिणदिशि कृष्णपक्षे कृत्तिकानक्षत्र प्रयोग इति विशेषः । तथा च कौशिकसूत्रम् । आभिचारेषु दक्षिणतः सभारम् आहृत्य आङ्गिरसम्' (कौ० ६।१) इत्यादि । अत्र आङ्गिरसमिति आङ्गिरसज्यपोक्तमित्यर्थः । एतेषां कर्मणां प्राच्योदीच्याङ्गानि दर्शपूर्णभासवत् कार्याणि । इमौ दर्शपूर्णमासौ व्याख्यातौ दर्शपूर्णमासाभ्यां पाकयज्ञाः इति सूत्रकारवचनात् (कौ० १।६) । अत्र पाकयज्ञशब्देन सर्वम् आथर्वणं कर्मोच्यते 1
तच्च द्विविधम् । आज्यतन्त्रं पाकननत्र चेति । यत्र प्रधानं हविः आज्यं तद् आज्यतन्त्रम् । यत्र चरुपुरोडाशादिकं तत्पाकतन्त्रम्। आज्यक्तत्रे अयम् अनुष्ठानक्रमः । प्रथमम् “अव्यसश्च” इति कर्तुर्जप वर्हिर्लवनं वेदिः उत्तरवेदिः अग्निप्रणयनम् अग्निप्रतिष्ठापनम् व्रतग्रहणम्पवित्रकरणम् पवित्रेणेध्मप्रोक्षणम् इध्मोपसमाधानम् वर्हिप्रोक्षणम् ब्रह्मात्तनम् ब्रह्मस्थापनम् स्तरणम्स्तीर्णप्रोक्षणम् आत्मासनम् उदपात्रस्थापनम् आज्यस्वस्कारः
स्रुवग्रहणम् ग्रहग्रहणम् पुरस्ताद्धोमाः आज्यभागौ । सविता प्रसवानाम्” इति कर्मणि अभितोभ्यातानैराज्यं जुवहुयात्” [कौ० १४|१] इति सूत्रकारवचनात् अभ्यातानानि । एतदन्तं पूवतन्त्रम् ।।
ततो यथोपदेशं प्रधानहोमः ।। तत उत्तरतन्त्रम् अभ्यातानानि पार्वणहोमः समृद्ध्हिाएमः संनतिहोमः स्विष्टकृद्धोमः सर्वप्रायश्चित्तीयहोमः स्कन्नहोमः पुनर्मेत्विन्द्रियम्” इति होमः स्कन्नास्मृतिहोमौ संस्थितिहोमाः चतुर्गृहीतहोमः वर्हिर्द्वोमः संस्रावहोमः विष्णुक्रमाः व्रतविसर्जनम् दक्षिणादानम् व्रह्मोत्थापनम् इति । पाकतन्त्रे तु अभ्यातानाभाव एव विशेषः । अन्यत् सर्व समानम् ।। तथा च गोपथब्राह्मणम् –
आज्यभागान्तं पाकतन्त्रम् ऊर्ध्वं स्विण्कृता सह ।
हवींषियज्ञ आवापो यथा तन्त्रस्य तन्तवः ।।
अद्भुतकर्मणाम् आज्यतन्त्रत्वेऽपि पाकतन्त्रवद् अभ्यातानाभावः । यद् आह केशवः । पाकतन्त्रेष्वभ्यातानानि नाभवन्ति, अद्भुतेषु न भवन्ति, अन्यत्र सर्वत्र भवन्ति इति [के० १4|१]
|| इति सायणारचार्यकृता अथर्ववेदभाष्यभूमिका सभाप्ता ||
|| समाप्तोऽयं चतुर्वेदभाष्यभमिकाभिधानो ग्रन्थः ||