वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)/पञ्चमोऽङ्कः

विकिस्रोतः तः
← चतुर्थोऽङ्कः वेणीसंहारम् (आङ्गलटिप्पणीसहितम्)
पञ्चमोऽङ्कः
भट्टनारायणः
षष्ठोऽङ्कः →

वेणीसंहारे

पञ्चमोऽङ्कः


( ततः प्रविशति रथयानेन गान्धारी संजयो धृतराष्ट्रश्च ।)

 धृतराष्ट्रः--संजय! कथय कस्मिन्नुद्देशे कुरुकुलकाननैकशेषप्रवालो वत्सो मे दुर्योधनस्तिष्ठति ? । कच्चिज्जीवति वा न वा ? ।

 गान्धारी--जाद ! जइ सच्चं जीवदि मे वच्छो ता कहेहि कस्सिं देसे वट्टइ। (जात! यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते )

 संजयः- -नन्वेष महाराज एक एतन्न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।

 गान्धारीः--(सकरुणम् ।) जाद ! एआइ त्ति भणासि । किं णु क्खु संपदं भादुसदं से पास्से णत्थि ? ( जात ! एकाकीति भणसि । किं नु खलु सांप्रतं भ्रातृशतमस्य पार्श्वे नास्ति ?)

 संजयः--तात! अम्ब! अवतरतं स्वैरं रथात् ।

(सर्वेऽवतरणं नाटयन्ति ।)

( ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः!)

 संजयः-- ( उपसृत्य । ) विजयतां महाराजः । नन्वेष तातोऽम्बया सह प्राप्तः किं न पश्यति महाराजः ? ।

( दुर्योधनो वैलक्ष्यं नाटयति ।)

 धृतराष्ट्रः--

शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे
 बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः ।
दूरान्निर्जितसान्त्वितान्नरपतीनालोकयँल्लीलया
 सह्या पुत्रक! वेदनेति न मया पापेन पृष्टो भवान् ॥ १ ॥

( धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिंगतः । )

 गान्धारी-- वच्छ ! अदिगाढप्पहारवेअणापज्जाउलस्स्स अम्हेसु सण्णिहिदेसु वि ण प्पसरदि दे वाणी । ( वत्स! अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु संनिहितेष्वपि न प्रचरति ते वाणी ।  धृतराष्ट्र:--वत्स दुर्योधन! किमकृतपूर्वः संप्रति मय्यप्ययमव्याहारः ? ।

 गान्धारी-- वच्छ ! जइ तुमं वि अम्हे णालवसि ता किं संपदं वच्छो दुस्सासणो आलवदि अध दुम्मरिसणो वा अण्णो वा ? ( वत्स! यदि त्वमप्यस्मान्नालपसि तत्किं सांप्रतं वत्सो दुःशासन आलपत्यथ दुर्मर्षणो वान्यो वा ? )

( इति रोदिति )

 दुर्योधन--

जातोऽहमप्रतिकृतानुजनाशदर्शी
 तातस्य बाष्पपयसां तव चाम्ब! हेतुः ।
दुर्जातमत्र विमले भरतान्वये वः
 किं मां सुतक्षयकरं सुत इत्यवैषि ॥ २ ॥

 गान्धारी--जाद ! अलं परिदेविदणे । तुमं वि दाव एक्को इमस्स अन्ध जुअलस्स मग्गोवदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा । ( जात! अलं परिदेवितेन । त्वमपि तावदेकोऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ? । )

 दुर्योधनः--

मातः! किमप्यसदृशं कृपणं वचस्ते
 सुक्षत्रिया क्व भवती क्व च दीनतैषा ? ।
निर्वत्सले! सुतशतस्य विपत्तिमेतां
 त्वं नानुचिन्तयसि रक्षसि मामयोग्यम् ॥ ३ ॥

नूनं विचेष्टितमिदं सुतशोकस्य ।

 संजयः–- महाराज! किं वायं लोकवादो वितथो 'न घटस्य कूपपतने रज्जुरपि तत्र प्रक्षेप्तव्या' इति ।

 दुर्योधनः--अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ?

( इति रोदिति ।)

 धृतराष्ट्रः--(दुर्योधनं परिष्वज्य । ) वत्स! समाश्वसिहि । समाश्वासय चास्मानिमामतिदीनां मातरं च ।

 दुर्योधनः–- तात! दुर्लभः समाश्वास इदानीं युष्माकम् । किं तु

कुन्त्या सह युवामद्य मया निहतपुत्रया ।
विराजमानौ शोकेऽपि तनयाननुशोचतम् ॥ ४ ॥

 गान्धारी--जाद ! एदं एव्व संपदं प्पभूदं जं तुमं वि दाव एक्को णाणुसोचइदव्वो । ता जाद ! प्पसीद । एसो अंजली । णिवट्टेहि सममरव्वावारादो । अपच्छिमं करेहि पिदुणो वअणाम् । ( जात ! एतदेव सांप्रतं प्रभूतं यत्त्वमपि तावदेको नानुशोचितव्यः । तज्जात ! प्रसीद । एष तेऽञ्जलिः । निवर्तस्व समरव्यापारात् । अपश्चिमं कुरु पितुर्वचनम् )

 धृतराष्ट्रः --वत्स ! श्रृणु वचनमम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य ।

दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ
 कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनात् ।
वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञोऽधुना
 मानं वैरिषु मुञ्च तात ! पितरावन्धाविमौ पालय ॥ ५ ॥

 दुर्योधनः--समरात्प्रतिनिवृत्य किं मया कर्तव्यम् ? ।

 गांधारी--जाद ! जं पिदा दे विउरो वा भणादि । ( जात ! यत्पिता ते विदुरो वा भणति ।)

 संजयः--देव ! एवमिदम् ।

 दुर्योधनः--संजय ! अद्याप्युपदेष्टव्यमस्ति ? ।

 संजयः--देव ! यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम् ।

 दुर्योधनः--( सक्रोधम् । ) शृणुमस्तावद्भवत एव प्रज्ञावतोऽस्मान्प्रति प्रतिरूपमुपदेशम् ।

 धृतराष्ट्रः--वत्स ! युक्तवादिनि संजये किमत्र क्रोधेन ? यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् ।

 दुर्योधनः--कथयतु ततः ।

 धृतराष्ट्रः--वत्स ! किं विस्तरेण ? । संधत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन ।

 दुर्योधनः--तात ! तनयस्नेहवैक्लव्यादम्बा बालिशत्वेन संजयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः ? । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च ! तात ! अस्खलितभ्रातृशतस्तदाऽवधीरितवासुदेवसा मोपन्यासः संप्रति दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः संधिम् ? । अन्यच्च नयवेदिन्संजय!

हीयमानाः किल रिपोर्नृपाः संदधते परान् ।
दुःशासनेन हीनोऽहं सानुजः पाण्डवोऽधुना ॥ ६ ॥

 धृतराष्ट्रः-- वत्स! एवं गतेऽपि मत्प्रार्थनया न किंचिन्न करोति युधिष्ठिरः । अन्यच्च सर्वं दैवापकृष्टं मन्यते युधिष्ठिरः ।

 दुर्योधनः--कथमिव ? ।

 धृतराष्ट्र:-- वत्स! श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्सङ्ग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः संधातुम् ।

 संजयः--एवमिदम् ।

 गान्धारीः-- जाद । उपपत्तिजुत्तं परिवज्जस्स पिदुणो वअणम् । ( जात ! उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् । )

 दुर्योधनः--तात ! अम्ब ! संजय !

एकेनापि विनाऽनुजेन मरणं पार्थः प्रतिज्ञातवा-
 न्भ्रातॄणां निहते शतेऽभिलषते दुर्योधनो जीवितुम् ।
तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिना
 भीमं दिक्षु न विक्षिपामि कृपणः संधिं विदध्यामहम् ॥ ७ ॥

 गान्धारीः--हा जाद दुस्सासण ! हा मदङ्कदुल्ललिद ! हा जुअराअ | अस्सुदपुव्वा क्खु कस्स वि लोए ईदिसी विअत्ती । हा ! वीर । सदप्पसविणी हदगन्धारी दुक्खसदं प्पसूदा । ण उण सुदसदम् । ( हा जात दुःशासन । हा मदङ्कदुर्ललित! हा युवराज! अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनी हतगान्धारी दुःखशतं प्रसूता । न पुनः सुतशतम् ।)

( सर्वे रुदन्ति )

 संजयः-- (बाष्पमुत्सृज्य ।) तात! अम्ब! प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यताम् ।  धृतराष्ट्रः-- वत्स दुर्योधन! एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितावलम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च ? ।

 दुर्योधनः-- श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् ।

कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः
 प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः ।
अभिमुखमरीन्क्रुद्धान्घ्नन्तो हताः शतमात्मजा
 वहतु सगरेणोढां तातो धुरं सहितोऽम्बया ॥ ८ ॥

विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् ।

( नेपथ्ये महान्कलकलः )

 गान्धारीः--( आकर्ण्य । सभयम् )जाद! कहिं एदं हाहाकारमिस्सं तूररसिदं सुणीअदि । ( जात! कुत्रैतत् हाहाकारमिश्रं तुर्यरसितं श्रूयते ।)

 संजयः-- अम्ब! भूमिरियमेवंविधानां भीरुजनत्रासजननी महानिनादानाम् ।

 धृतराष्ट्रः-- वत्स संजय । ज्ञायताम् । अतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् ।

 दुर्योधनः-- तात! प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किंचिदत्याहितं न श्रावयति तावदेवाज्ञापय मां संग्रामावतरणाय ।

 गांधारी–- जाद! मुहुत्तअं दाव मं मन्दभाइणीं समस्ससेहि। ( जात ! मुहूर्ते तावन्मां मन्दभागिनीं समाश्वासय । )

 धृतराष्ट्रः–- वत्स! यद्यपि भवान्समराय कृतनिश्चयस्तथापि रह: परप्रतीघातोपायश्चिन्त्यताम् ।

 दुर्योधनः--

प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः ।
 किं वा तेन कृतेन तैरिव कृतं यन्न प्रकाशं रणे ।

 गान्धारीः–-जाद ! एआई तुमम् । को दे सहाअत्तणं करिस्सदि ? । ( जात! एकाकी त्वम् । कस्ते साहाय्यं करिष्यति?)  दुर्योधनः--

एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः ?
 साम्यं केवलमेतु दैवमधुना निष्पाण्डवा मेदिनी ॥ ९ ॥

( नेपथ्ये । कलकलानन्तरम् ।)

 भो भो योधाः! निवेदयन्तु भवन्तः कौरवेश्वराय! इदं महत्कदनं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीम् । तथा हि ।

त्यक्तप्राजनरश्मिराङ्किततनुः पार्थाङ्कितैर्मार्गणै-
 र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः ।
वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां
 शून्येनैव रथेन याति शिबिरं शल्यः कुरूञ्शल्ययन् ॥ १० ॥

 दुर्योधनः-- ( श्रुत्वा । साशंकम् । ) आः! केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितम् ? कः कोऽत्र भोः ?

( प्रविश्य संभ्रान्तः । )

 सूतः-- हा! हताः स्मः । ( इत्यात्मानं पातयति ।)

 दुर्योधनः-- अयि! कथय ।

 धृतराष्ट्रसंजयौः-- कथ्यतां कथ्यताम् ।

 सूतः-- आयुष्मन्! किमन्यत् ? ।

शल्येन यथा शल्येन मूर्छितः प्रविशता जनौघोऽयम् ।
शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ ११ ॥

 दुर्योधनः-- हा वयस्य कर्ण !। ( इति मोहमुपगतः )

 गान्धारी--जाद ! समस्सस समस्सस । ( जात! समाश्वसिहि समाश्वसिहि ।

 संजयः-- समाश्वसितु समाश्वसितु देवः ।

 धृतराष्ट्रः-- भोः! कष्टं कष्टम् ।

भीष्मे द्रोणे च निहते य आसीदवलम्बनम् ।
वत्सस्य मे सुहृच्छूरो राधेयः सोऽप्ययं हत: ॥ १२ ॥

वत्स ! समाश्वसिहि समाश्वसिहि । ननु भो हतविधे!

अन्धोऽनुभूतशतपुत्रविपत्तिदुःखः
 शोच्यां दशामुपगतः सह भार्ययाहम् ।
अस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे ।
 दुर्योधनेऽपि हि कृतो भवता निराशः ॥ १३ ॥

वत्स दुर्योधन ! समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।

 दुर्योधनः--( लब्धसंज्ञः । )

अयि कर्ण कर्णसुखदां प्रयच्छ मे
 गिरमुद्गिरन्निव मुदं मयि स्थिराम् ।
सततावियुक्तमकृताप्रियं प्रिय
 वृषसेनवत्सल ! विहाय यासि माम् ? ॥ १४ ॥

( इति पुनर्मोहमुपगतः )

( सर्वे समाश्वासयन्ति । )

 दुर्योधनः--

मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते ।
उच्छ्वसन्नपि लज्जेऽहमाश्वासे तात का कथा ? ॥ १५ ॥

अपि च ।

शोचामि शोच्यमपि शत्रुहतं न वत्सं
 दुःशासनं तमधुना न च बन्धुवर्गम् ।
येनातिदुःश्रवमसाधु कृतं तु कर्णे ।
कर्तास्मि तस्य निधनं समरे कुलस्य ॥ १६ ॥

 गान्धारी--जाद ! सिढिलेहि दाव क्खणमेत्तं बप्फमोक्खम् । ( जात ! शिथिलय तावत्क्षणमात्रं बाष्पमोक्षम् )

 धृतराष्ट्रः--वत्स ! क्षणमात्रं परिमार्जयाश्रूणि ।

 दुर्योधनः--

मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः ।
तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ? ॥ १७ ॥

सूत ! केनैतदसंभवनीयमस्मत्कुलान्तकरणं कर्म कृतं स्यात् ? ।  सूतः--आयुष्मन् ! एवं किल जनः कथयति ।

भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य ।
निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥ १८ ॥

 दुर्योधनः--कष्टं भोः कष्टम् ।

कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः ।
वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥ १९ ॥

तात ! अम्ब ! प्रसीदतम् ।

ज्वलनः शोकजन्मा मामयं दहति दुःसहः ।
समानायां विपत्तौ मे वरं संशयितो रणः ॥ २० ॥

 धृतराष्ट्रः--(दुर्योधनं परिष्वज्य रुदन् ।)

भवति तनय नित्यं संशयः साहसेषु
 द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् ।
अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड
 च्छलबहुलमरीणां संगरं हा हतोऽस्मि ॥ २१ ॥

 गान्धारी--जाद ! तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गसि ? । (जात! तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गसि ? )

दुर्योधनः-- तिष्ठतु तावद्वृकोदरः ।

पापेन येन हृदयस्य मनोरथो मे ।
 सर्वाङ्गचन्दनरसो नयनामलेन्दुः ।
पुत्रस्तवाम्ब! तव तात! नयैकशिष्यः
 कर्णो हतः सपदि तत्र शराः पतन्तु ॥ २२ ॥

 सूत! अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।

 सूतः–- अलमन्यथा संभावितेन । अयमहमागत एव । ( इति निष्क्रान्तः । )

 धृतराष्ट्रः--वत्स दुर्योधन! यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्संनिहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् ।

 दुर्योधनः--नन्वभिषिक्त एव ।  गान्धारी--जाद ! कदरो उण सो जस्सिं आसं ओलम्बिस्सम् । ( जात ! कतरः पुनः स यस्मिन्नाशामवलम्बिष्ये ।)

 धृतराष्ट्रः--किं वा शल्य उत वाश्वत्थामा ? ।

 संजयः--हा कष्टम् ।

मृते भीष्मे हते द्रोणे कर्णे च विनिपातिते ।
आशा बलवती राजञ्शल्यो जेष्यति पाण्डवान् ॥ २३ ॥

 दुर्योधनः--किं वा शल्येनोत वाश्वत्थाम्ना ? ।

कर्णालिङ्गनदायी वा पार्थप्राणहरोऽपि वा ।
अनिवारितसंपातैरयमात्माश्रुवारिभिः ॥ २४ ॥

( नेपथ्ये कलकलं कृत्वा )

भो भोः कौरवबलप्रधानयोधाः! अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठतीति ।

( सर्वे ससंभ्रममाकर्णयन्ति )

( प्रविश्य संभ्रान्तः )

 सूतः–-आयुष्मन् !

  प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।

 सर्वेः--कश्च कश्च ? ।

 सूतः--

  स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ २५ ॥

 गान्धारी--( सभयम् ) जाद ! किं एत्थ पडिपज्जिदव्व्म् । ( जात! किमत्र प्रतिपत्तव्यम् ।)

 दुर्योधनः-- ननु संनिहितैवेयं गदा ।

 गान्धारी--हा हदम्हि मन्दभाइणी । ( हा हतास्मि मन्दभागिनी ।)

 दुर्योधनः--अम्ब! अलमिदानीं कार्पण्येन । संजय, रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । समागतोऽस्माकं शोकापनोदी जनः ।

 धृतराष्ट्रः-- वत्स! क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।

 दुर्योधनः-- तात! किमनेनोपलब्धेन ? ।

( ततः प्रविशतो भीमार्जुनौ ।)

 भीमः–-भो भोः सुयोधनानुजीविनः ! किमिति संभ्रमादयथातथं चरन्ति भवन्तः ? । अलमावयोः शङ्कया ।

कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी ।
 कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं
 क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ स्वः ॥ २६ ॥

 धृतराष्ट्र--संजय ! दारुणः खलूपक्षेपः पापस्य ।

 संजयः–-तात ! कर्मणा कृतनिःशेषविप्रियाः संप्रति वाचा व्यवस्यन्ति ।

 दुर्योधनः--सूत ! कथय गत्वोभयोरयं तिष्ठतीति ।

 सूतः--यथाज्ञापयति देवः । ( तावुपसृत्य ।)ननु भो वृकोदरार्जुनौ ! एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।

 अर्जुनः--आर्य ! प्रसीद । न युक्तं पुत्रशोकोपपीडितौ पितरौ पुनरस्मद्दर्शनेन भृशमुद्वेजयितुम् । तद्गच्छावः ।

 भीमः--मुढ ! अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुम् । ( उपसृत्य । ) संजय । पित्रोर्नमस्कृतिं श्रावय । अथवा तिष्ठ । स्वयमेव श्रावयावः ।( इति रथाद्वतरतः )

 भीमः--विश्राव्य स्वकर्म नाम च वन्दनीया गुरवः ।

 अर्जुनः--( उपगम्य ।) तात ! अम्ब !

सकलरिपुजयाशा यत्र बद्धा सुतैस्ते
 तृणमिव परिभूतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य
 प्रणमति पितरौ वां मध्यमः पाण्डवोऽयम् ॥ २७ ॥

 भीमः--

चूर्णिताशेषकौरव्यः क्षीबो दुःशासनःसृजा ।
भङ्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाञ्चति ॥ २८ ॥

 धृतराष्ट्रः--दुरात्मन्वृकोदर ! न खल्विदं भवतैव केवलं सपत्नानामपकृतम् । यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि ? ।

 भीमः--तात ! अलं मन्युना ।

कृष्णा केशेषु कृष्टा तव सदसि वधूः पाण्डवानां नृपैर्यैः
 सर्वे ते क्रोधवन्हौ कृशशलभकुलावज्ञया येन दग्धाः ।
एतस्माच्छ्रावयेऽहं न खलु भुजबलश्लाघया नापि दर्पा-
त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥ २९ ॥

 दुर्योधनः--अरेरे मरुत्तनय! किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि च ।

कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्वा
 प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी ।
अस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा
 बाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ? ॥ ३० ॥

( भीमः क्रोधं नाटयति । )

 अर्जुनः-- आर्य! प्रसीद । किमत्र क्रोधेन ?।

अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ? ॥ ३१ ॥

 भीमः-- अरेरे भरतकुलकलङ्क !

अत्रैव किं न विशसेयमहं भवन्तं
 दुःशासनानुगमनाय कटुप्रलापिन् ! ।
विघ्नं गुरुर्न कुरुते यदि मत्कराग्र-
 निर्भिद्यमानरणितास्थनि ते शरीरे ॥ ३२ ॥

 अन्यच्च मूढ !

शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितोऽसि
 भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि ।
आसीदेतत्तव कुनृपतेः कारकं जीवितस्य
 क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ ३३ ॥

 दुर्योधनः--दुरात्मन्! भरतकुलापसद! पाण्डवपशो! नाहं भवानिव विकत्थनाप्रगल्भः । किं तु

द्रक्ष्यन्ति नचिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् ॥ ३४ ॥

 भीमः-- ( विहस्य ) यद्येवं, नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव । कथयामि ।

पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसंचूर्णितोरोः
 क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते ।
त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनानखाग्रं
 स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि ॥ ३५ ॥

( नेपथ्ये )

 भो भो भीमसेनार्जुनौ! एष खलु निहताशेषारातिचक्र आक्रांतपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति ।

 उभौ-- किमाज्ञापयत्यार्यः ? ।

( पुनर्नेपथ्ये । )

कुर्वन्त्वाप्ता हतानां रणशिरसि जना वन्हिसाद्देहभारा-
 नश्रून्मिश्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः ।
मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कै-
 रस्तं मास्वान्प्रयातः सह रिपुभिरयं संह्रीयन्तां बलानि ॥ ३६ ॥

 उभौ--यदाज्ञापयत्यार्यः । ( इति निष्क्रान्तौ । )

( नेपथ्ये । )

अरे रे गाण्डीवाकर्षण बाहुशालिन्! अर्जुन! अर्जुन! क्वेदानीं गम्यते ? ।

कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि
 प्रौढं विक्रान्तमासीद्वन इव भवतां शूरशून्ये रणेऽस्मिन् ।
स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेतः ।
 कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रौणिरस्मि ॥ ३७ ॥

 धृतराष्ट्रः--( आकर्ण्य सहर्षम् । ) वत्स दुर्योधन ! द्रोणवधपरिभवोद्दीपितक्रोधपावकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तावदयं संभाव्यतां वीरः ।

 गान्धारी--जाद ! पच्चुग्गंच्छ एदं महाभाअम् । ( जात ! प्रत्युद्गच्छैनं महाभागम् ।)

 दुर्योधनः--तात! अम्ब ! किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण ? ।

 धृतराष्ट्रः--वत्स ! न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि ।

( प्रविश्य )

 अश्वत्थामा--विजयतां कौरवाधिपतिः ।

 दुर्योधनः--( उत्थाय । )गुरुपुत्र ! इत आस्यताम् । ( इत्युपवेशयति ।)

 अश्वत्थामा--राजन्दुर्योधन ।

कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा ।
 यत्सङ्गरेषु विहितं विदितं त्वया तत् ।
दौणिस्त्वधिज्यधनुरापतितोऽभ्यमित्र-
 मेषोधुना त्यज नृप प्रतिकारचिन्ताम् ॥ ३८ ॥

 दुर्योधनः--(साभ्यसूयम् । )आचार्यपुत्र !

अवसानेऽङ्गराजस्य योद्धव्यं भवता किल ।
ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ? ॥ ३९ ॥

 अश्वत्थामा--( स्वगतम् । )कथम् ! अद्यापि स एव कर्णे पक्षपातः अस्मासु च परिभवः ? । ( प्रकाशम् । ) राजन्कौरवेश्वर ! एवं भवतु । ( इति निक्रान्तः )

 धृतराष्ट्रः--वत्स ! क एष ते व्यामोहो ? यदस्मिन्नपि काल एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि ।

 दुर्योधनः--किमस्याप्रियमनृतं च मयोक्तम् ? किं वा नेदं क्रोधस्थानम् ? पश्य--

अकलितमहिमानं क्षत्रियैरात्तचापैः ।
 समरशिरसि युष्मद्भाग्यदोषाद्विपन्नम् ।

परिवदति समक्षं मित्रमङ्गाधिराजं ।
 मम खलु कथयास्मिन्को विशेषोऽर्जुने वा ॥ ४० ॥

 धृतराष्ट्रः--वत्स! तवापि कोऽत्र दोषः? अवसानमिदानीं भरतकुलस्य । संजय! किमिदानीं करोमि मन्दभाग्यः? ( विचिन्त्य । ) भवत्वेवं तावत् । संजय! मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानम् ।

स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना ?
 मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः ? ।
अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च त-
 द्विकृतवचने माऽस्मिन्क्रोधश्चिरं क्रियतां त्वया ॥ ४१ ॥

 संजयः-- यदाज्ञापयति तातः । ( इत्युत्तिष्ठति ।)

 धृतराष्ट्रः-- अपि चेदमन्यत्त्वया वक्तव्यम् ।

यन्मोचितस्तव पिता वितथेन शस्त्रं
 यत्तादृशः परिभवः स तथाविधेऽभूत् ।
एतद्विचिन्त्य बलमात्मनि पौरुषं च ।
 दुर्योधनोक्तमपहाय विधास्यसीति ॥ ४२ ॥

 संजयः-- यदाज्ञापयति तातः । ( इति निष्क्रान्तः ।)

 दुर्योधनः-- सूत! साङ्ग्रामिकं मे रथमुपकल्पय ।

 सूतः-- यदाज्ञापयत्यायुष्मान् । ( इति निष्क्रान्तः ।)

 धृतराष्ट्र:--गान्धारि ! इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छामः । वत्स! त्वमप्येवं कुरु ।

( इति परिक्रम्य निष्क्रान्ताः सर्वे ।)

इति पञ्चमोऽङ्कः ।