विष्णुस्मृतिः/सप्ताशीतितमोऽध्यायः

विकिस्रोतः तः

अथ वैशाख्यां पौर्णमास्यां कृष्णाजिनं सखुरं सशृङ्गं सुवर्णशृङ्गं रौप्यखुरं मौक्तिकलाङ्गूलभूषितं कृत्वाविके च वस्त्रे प्रसारयेत् । । ८७.१ । ।

ततस्तिलैः प्रच्छादयेत् । । ८७.२ । ।

सुवर्णनाभिं च कुर्यात् । । ८७.३ । ।

अहतेन वासोयुगेन प्रच्छादयेत् । । ८७.४ । ।

सर्वगन्धरत्नैश्चालंकृतं कुर्यात् । । ८७.५ । ।

चतसृषु दिक्षु चत्वारि तैजसानि पात्राणि क्षीरदधिमधुघृतपूर्णानि निध्यायाहिताग्नये ब्राह्मणायालंकृताय वासोयुगेन प्रच्छादिताय दद्यात् । । ८७.६ । ।

अत्र च गाथा भवन्ति । । ८७.७ । ।

यस्तु कृष्णाजिनं दद्यात्सखुरं शृङ्गसंयुतम् ।
तिलैः प्रच्छाद्य वासोभिः सर्वरत्नैरलंकृतम् । । ८७.८ । ।

ससमुद्रगुहा तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः । । ८७.९ । ।

कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी ।
ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् । । ८७.१० । ।