विष्णुस्मृतिः/सप्तसप्ततितमोऽध्यायः

विकिस्रोतः तः

आदित्यसंक्रमणं । । ७७.१ । ।

विषुवद्द्वयं । । ७७.२ । ।

विशेषेणायनद्वयं । । ७७.३ । ।

व्यतीपातः । । ७७.४ । ।

जन्मर्क्षं । । ७७.५ । ।

अभ्युदयश्च । । ७७.६ । ।

एतांस्तु श्राद्धकालान्वै काम्यानाह प्रजापतिः ।
श्राद्धं एतेषु यद्दत्तं तदानन्त्याय कल्पते । । ७७.७ । ।

संध्यारात्र्योर्न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोरपि च कर्तव्यं यदि स्याद्राहुदर्शनम् । । ७७.८ । ।

राहुदर्शनदत्तं हि श्राद्धं आचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणां उपतिष्ठते । । ७७.९ । ।