विष्णुस्मृतिः/षोडशो‍ऽध्यायः

विकिस्रोतः तः

समानवर्णासु पुत्राः सवर्णा भवन्ति । । १६.१ । ।

अनुलोमासु मातृसवर्णाः । । १६.२ । ।

प्रतिलोमास्वार्यविगर्हिताः । । १६.३ । ।

तत्र वैश्यापुत्रः शूद्रेणायोगवः । । १६.४ । ।

पुल्कसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्यां । । १६.५ । ।

चण्डालवैदेहकसूताश्च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः । । १६.६ । ।

संकरसंकराश्चासंख्येयाः । । १६.७ । ।

रङ्गावतरणं आयोगवानां । । १६.८ । ।

व्याधता पुल्कसानां । । १६.९ । ।

स्तुतिक्रिया मागधानां । । १६.१० । ।

वध्यघातित्वं चण्डालानां । । १६.११ । ।

स्त्रीरक्सा तज्जीवनं च वैदेहकानां । । १६.१२ । ।

अश्वसारथ्यं सूतानां । । १६.१३ । ।

चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणं इति विशेषः । । १६.१४ । ।

सर्वेषां च समानजातिभिर्विवाहः । । १६.१५ । ।

स्वपितृवित्तानुहरणं च । । १६.१६ । ।

संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः । । १६.१७ । ।

ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
स्त्रीबालाद्यवपत्तौ च बाह्यानां सिद्धिकारणम् । । १६.१८ । ।