विष्णुस्मृतिः/षष्ठोऽध्यायः

विकिस्रोतः तः

अथोत्तमर्णोऽधमर्णाद्यथादत्तं अर्थं गृह्णीयात् । । ६.१ । ।

द्विकं त्रिकं चतुष्कं पञ्चकं च शतं वर्णानुक्रमेण प्रतिमासं । । ६.२ । ।

सर्वे वर्णा वा स्वप्रतिपन्नां वृद्धिं दद्युः । । ६.३ । ।

अकृतां अपि वत्सरातिक्रमेण यथाविहितं । । ६.४ । ।

आध्युपभोगे वृद्ध्यभावः । । ६.५ । ।

दैवराजोपघातादृते विनष्टं आधिं उत्तमर्णो दद्यात् । । ६.६ । ।

अन्तवृद्धौ प्रविष्टायां अपि । । ६.७ । ।

न स्थावरं आधिं ऋते वचनात् । । ६.८ । ।

गृहीतधनप्रवेशार्थं एव यत्स्थावरं दत्तं तत्गृहीतधनप्रवेशे दद्यात् । । ६.९ । ।

दीयमानं प्रयुक्तं अर्थं उत्तमर्णस्यागृह्णतस्ततः परं न वर्धते । । ६.१० । ।

हिरण्यस्य परा वृद्धिर्द्विगुणा । । ६.११ । ।

धान्यस्य त्रिगुणा । । ६.१२ । ।

वस्त्रस्य चतुर्गुणा । । ६.१३ । ।

रसस्याष्टगुणा । । ६.१४ । ।

संततिः स्त्रीपशूनां । । ६.१५ । ।

किण्वकार्पाससूत्रचर्मायुधेष्टकाङ्गराणां अक्षया । । ६.१६ । ।

अनुक्तानां द्विगुणा । । ६.१७ । ।

प्रयुक्तं अर्थं यथा कथंचित्साधयन्न राज्ञो वाच्यः स्यात् । । ६.१८ । ।

साध्यमानश्चेद्राजानं अभिगच्छेत्तत्समं दण्ड्यः । । ६.१९ । ।

उत्तमर्णश्चेद्राजानं इयात्, तद्विभावितोऽधमर्णो राज्ञे धनदशभागसंमितं दण्डं दद्यात् । । ६.२० । ।

प्राप्तार्थश्चोत्तमर्णो विंशतितमं अंशं । । ६.२१ । ।

सर्वापलाप्येकदेशविभावितोऽपि सर्वं दद्यात् । । ६.२२ । ।

तस्य च भावनास्तिस्रो भवन्ति लिखितं साक्षिणः समयक्रिया च । । ६.२३ । ।

ससाक्षिकं आप्तं ससाक्षिकं एव दद्यात् । । ६.२४ । ।

लिख्तार्थे प्रविष्टे लिखितं पाटयेत् । । ६.२५ । ।

असमग्रदाने लेख्यासंनिधाने चोत्तमर्णः स्वलिखितं दद्यात् । । ६.२६ । ।

धनग्राहिणि प्रेते प्रेव्रजिते द्विदशाः समाः प्रवसिते वा तत्पुत्रपौत्रैर्धनं देयं । । ६.२७ । ।

नातः परं अनिच्छुभिः । । ६.२८ । ।

सपुत्रस्य वाप्यपुत्रस्य वा रिक्थग्राही ऋणं दद्यात् । । ६.२९ । ।

निर्धनस्य स्त्रीग्राही । । ६.३० । ।

न स्त्री पतिपुत्रकृतं । । ६.३१ । ।

न स्त्रीकृतं पतिपुत्रौ । । ६.३२ । ।

न पिता पुत्रकृतं । । ६.३३ । ।

अविभक्तैः कृतं ऋणं यस्तिष्ठेत्स दद्यात् । । ६.३४ । ।

पैतृकं ऋणं अविभक्तानां भ्रातॄणां च । । ६.३५ । ।

विभक्ताश्च दायानुरूपं अंशं । । ६.३६ । ।

गोपशौण्डिकशैलूषरजकव्याधस्त्रीणां पतिर्दद्यात् । । ६.३७ । ।

वाक्प्रतिपन्नं नादेयं कस्यचित् । । ६.३८ । ।

कुटुम्बार्थे कृतं च । । ६.३९ । ।

यो गृहीत्वा ऋणं सर्वं श्वो दास्यामीति सामकम् ।
न दद्याल्लोभतः पश्चात्तथा वृद्धिं अवाप्नुयात् । । ६.४० । ।

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि । । ६ ४१ । ।

बहवश्चेत्प्रतिभुवो दद्युस्तेऽर्थं यथाकृतम् ।
अर्थेऽविशेषिते त्वेषु धनिकच्छन्दतः क्रिया । । ६ ४२ । ।

यं अर्थं प्रतिभूर्दद्याद्धनिकेनोपपीडितः ।
ऋणिकस्तं प्रतिभुवे द्विगुणं दातुं अर्हति । । ६ ४३ । ।