विष्णुस्मृतिः/पञ्चविंशतितमोऽध्यायः

विकिस्रोतः तः

अथ स्त्रीणां धर्माः । । २५.१ । ।

भर्तुः समानव्रतचारित्वं । । २५.२ । ।

श्वश्रूश्वशुरगुरुदेवतातिथिपूजनं । । २५.३ । ।

सुसंस्कृतोपस्करता । । २५.४ । ।

अमुक्तहस्तता । । २५.५ । ।

सुगुप्तभाण्डता । । २५.६ । ।

मूलक्रियास्वनभिरतिः । । २५.७ । ।

मङ्गलाचारतत्परता । । २५.८ । ।

भर्तरि प्रवसितेऽप्रतिकर्मक्रिया । । २५.९ । ।

परगृहेष्वनभिगमनं । । २५.१० । ।

द्वारदेशगवाक्षेष्वनवस्थानं । । २५.११ । ।

सर्वकर्मस्वस्वतन्त्रता । । २५.१२ । ।

बाल्ययौवनवार्धकेष्वपि पितृभर्तृपुत्राधीनता । । २५.१३ । ।

मृते भर्तरि ब्रह्मचर्यं तदन्वारोहणं वा । । २५.१४ । ।

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषितम् ।
पतिं शुश्रूषते यत्तु तेन स्वर्गे महीयते । । २५.१५ । ।

पत्यौ जीवति या योषिदुपवासव्रतं चरेत् ।
आयुः सा हरते भर्तुर्नरकं चैव गच्छति । । २५.१६ । ।

मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः । । २५.१७ । ।