विष्णुस्मृतिः/नवषष्ठितमोऽध्यायः

विकिस्रोतः तः

नाष्टमीचतुर्दशीपञ्चदशीषु स्त्रियं उपेयात् । । ६९.१ । ।

न श्राद्धं भुक्त्वा । । ६९.२ । ।

न दत्त्वा । । ६९.३ । ।

नोपनिमन्त्रितः श्राद्धे । । ६९.४ । ।

न व्रती । । ६९.५ । ।

न दीक्षितः । । ६९.६ । ।

न देवायतनश्मशानशून्यालयेषु । । ६९.७ । ।

न वृक्षमूलेषु । । ६९.८ । ।

न दिवा । । ६९.९ । ।

न संध्ययोः । । ६९.१० । ।

न मलिनां । । ६९.११ । ।

न मलिनः । । ६९.१२ । ।

नाभ्यक्तां । । ६९.१३ । ।

नाभ्यक्तः । । ६९.१४ । ।

न रोगार्तां । । ६९.१५ । ।

न रोगार्तः । । ६९.१६ । ।

न हीनाङ्गीं नाधिकाङ्गीं तथैव च वयोऽधिकाम् ।
नोपेयाद्गुर्विणीं नारीं दीर्घं आयुर्जिजीविषुः । । ६९.१७ । ।