विष्णुस्मृतिः/नवमोऽध्यायः

विकिस्रोतः तः

अथ समयक्रिया । । ९.१ । ।

राजद्रोहसाहसेषु यथाकामं । । ९.२ । ।

निक्षेपस्तेयेष्वर्थप्रमाणं । । ९.३ । ।

सर्वेष्वेवार्थजातेषु मूल्यं कनकं कल्पयेत् । । ९.४ । ।

तत्र कृष्णलोने शूद्रं दूर्वाकरं शापयेत् । । ९.५ । ।

द्विकृष्णलोने तिलकरं । । ९.६ । ।

त्रिकृष्णलोने रजतकरं । । ९.७ । ।

चतुःकृष्णलोने सुवर्णकरं । । ९.८ । ।

पञ्चकृष्णलोने सीरोद्धृतमहीकरं । । ९.९ । ।

सुवर्णार्धोने कोशो देयः शूद्रस्य । । ९.१० । ।

ततः परं यथार्हं धटाग्न्युदकविषाणां अन्यतमं । । ९.११ । ।

द्विगुणेऽर्थे यथाभिहिताः समयक्रिया वैश्यस्य । । ९.१२ । ।
त्रिगुणे राजन्यस्य । । ९.१३ । ।

कोशवर्जं चतुर्गुणे ब्राह्मणस्य । । ९.१४ । ।

न ब्राह्मणस्य कोशं दद्यात् । । ९.१५ । ।

अन्यत्रागामिकालसमयनिबन्धनक्रियातः । । ९.१६ । ।

कोशस्थाने ब्राह्मणं सीतोद्धृतमहीकरं एव शापयेत् । । ९.१७ । ।

प्राग्दृष्टदोषे स्वल्पेऽप्यर्थे दिव्यानां अन्यतमं एव कारयेत् । । ९.१८ । ।

सत्सु विदितं सच्चरितं न महत्यर्थेऽपि । । ९.१९ । ।

अभियोक्ता वर्तयेच्छीर्षं । । ९.२० । ।

अभियुक्तश्च दिव्यं कुर्यात् । । ९.२१ । ।

राजद्रोहसाहसेषु विनापि शीर्षवर्तनात् । । ९.२२ । ।

स्त्रीब्राह्मणविकलासमर्थरोगिणां तुला देया । । ९.२३ । ।

सा च न वाति वायौ । । ९.२४ । ।

न कुष्ठ्यसमर्थलोहकाराणां अग्निर्देयः । । ९.२५ । ।

शरद्ग्रीष्मयोश्च । । ९.२६ । ।

न कुष्ठिपैत्तिकब्राह्मणानां विषं देयं । । ९.२७ । ।

प्रावृषि च । । ९.२८ । ।

न श्लेष्मव्याध्यर्दितानां भीरूणां श्वासकासिनां अम्बुजीविनां चोदकं । । ९.२९ । ।

हेमन्तशिशिरयोश्च । । ९.३० । ।

न नास्तिकेभ्यः कोशो देयः । । ९.३१ । ।

न देशे व्याधिमरकोपसृष्टे चे । । ९.३२ । ।

सचैलस्नातं आहूय सूर्योदय उपोषितम् ।
कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ । । ९.३३ । ।