विष्णुस्मृतिः/नवपञ्चाषत्तमोऽध्यायः

विकिस्रोतः तः

गृहाश्रमी वैवाहिकाग्नौ पाकयज्ञान्कुर्यात् । । ५९.१ । ।

सायं प्रातश्चाग्निहोत्रं । । ५९.२ । ।

देवताभ्यो जुहुयात्[देवाताभ्यो] । । ५९.३ । ।

चन्द्रार्कसंनिकर्षविप्रकर्षयोर्दर्शपूर्णमासाभ्यां यजेत । । ५९.४ । ।

प्रत्ययनं पशुना । । ५९.५ । ।

शरद्ग्रीष्मयोश्च आग्रयणेन । । ५९.६ । ।

व्रीहियवयोर्वा पाके । । ५९.७ । ।

त्रैवार्षिकाभ्यधिकान्नः । । ५९.८ । ।

प्रत्यब्दं सोमेन । । ५९.९ । ।

वित्ताभावे इष्ट्या वैश्वानर्या । । ५९.१० । ।

यज्ञार्थं भिक्षितं अवाप्तं अर्थं सकलं एव वितरेत् । । ५९.११ । ।

सायं प्रातर्वैश्वदेवं जुहुयात् । । ५९.१२ । ।

भिक्षां च भिक्षवे दद्यात् । । ५९.१३ । ।

अर्चितभिक्षादानेन गोदानफलं आप्नोति । । ५९.१४ । ।

भिक्ष्वभावे ग्रासमात्रं गवां दद्यात् । । ५९.१५ । ।

वह्नौ वा प्रक्षिपेत् । । ५९.१६ । ।

भुक्तेऽप्यन्ने विद्यमाने न भिक्षुकं प्रत्याचक्षीत । । ५९.१७ । ।

कण्डनी पेषणी चुल्ली उदकुम्भ उपस्कर इति पञ्च सूना गृहस्थस्य । । ५९.१८ । ।

तन्निष्कृत्यर्थं च ब्रह्मदेवभूतपितृनरयज्ञान्कुर्यात् । । ५९.१९ । ।

स्वाध्यायो ब्रह्मयज्ञः । । ५९.२० । ।

होमो दैवः । । ५९.२१ । ।

पितृतर्पणं पित्र्यः । । ५९.२२ । ।

बलिर्भौतः । । ५९.२३ । ।

नृयज्ञश्चातिथिपूजनं । । ५९.२४ । ।

देवतातिथिभृत्यानां पितॄणां आत्मनश्च यः ।
न निर्वपति पञ्चानां उच्छ्वसन्न स जीवति । । ५९.२५ । ।

ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् ।
तस्मादभ्यागतानेतान्गृहस्थो नावमानयेत् । । ५९.२६ । ।

गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
प्रददाति गृहस्थश्च तस्माच्छ्रेष्ठो गृहाश्रमी । । ५९.२७ । ।

ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
आशासते कुडुम्बिभ्यस्तस्माच्छ्रेष्ठो गृहाश्रमी । । ५९.२८ । ।

त्रिवर्गसेवां सततान्नदानं सुरार्चनं ब्राह्मणपूजनं च ।
स्वाध्यायसेवां पितृतर्पणं च कृत्वा गृही शक्रपदं प्रयाति । । ५९.२९ । ।