विष्णुस्मृतिः/द्व्यशीतितमोऽध्यायः

विकिस्रोतः तः

दैवे कर्मणि ब्राह्मणं न परीक्षेत । । ८२.१ । ।

प्रयत्नात्पित्र्ये परीक्षेत । । ८२.२ । ।

हीनाधिकाङ्गान्विवर्जयेत् । । ८२.३ । ।

विकर्मस्थांश्च । । ८२.४ । ।

बैडालव्रतिकान् । । ८२.५ । ।

वृथालिङ्गिनः । । ८२.६ । ।

नक्षत्रजीविनः । । ८२.७ । ।

देवलकांश्च । । ८२.८ । ।

चिकित्सकान् । । ८२.९ । ।

अनूढापुत्रान् । । ८२.१० । ।

तत्पुत्रान् । । ८२.११ । ।

बहुयाजिनः । । ८२.१२ । ।

ग्रामयाजिनः । । ८२.१३ । ।

शूद्रयाजिनः । । ८२.१४ । ।

अयाज्ययाजिनः । । ८२.१५ । ।

व्रात्यान् । । ८२.१६ । ।

तद्याजिनः । । ८२.१७ । ।

पर्वकारान् । । ८२.१८ । ।

सूचकान् । । ८२.१९ । ।

भृतकाध्यापकान् । । ८२.२० । ।

भृतकाध्यापितान् । । ८२.२१ । ।

शूद्रान्नपुष्टान् । । ८२.२२ । ।

पतितसंसर्गान् । । ८२.२३ । ।

अनधीयानान् । । ८२.२४ । ।

संध्योपासनभ्रष्टान् । । ८२.२५ । ।

राजसेवकान् । । ८२.२६ । ।

नग्नान् । । ८२.२७ । ।

पित्रा विवदमानान् । । ८२.२८ । ।

पितृमातृगुर्वग्निस्वाध्यायत्यागिनश्च । । ८२.२९ । ।

ब्राह्मणापशदा ह्येते कथिताः पङ्क्तिदूषकाः ।
एतान्विवर्जयेद्यत्नाच्छ्राद्धकर्मणि पण्डितः । । ८२.३० । ।